801 इदमपवादाधिकरणम् । तत्र पूर्ववदेव तावत्सापेक्षमायत्रच्छन्दःसाधनके समासाभावाद्गायत्रच्छन्दस्त्वानुपपत्तेर्यत्र केवला गायत्र्युपयुक्ता स एव मन्त्रेणाभिधातव्यो नान्य इति प्राप्तेऽभिधीयते ॥ ४२ ॥

यत्र नामोपपद्येत निरपेक्षं विशेषणम् ।
सापेक्षस्याग्रहस्तत्र न तु यत्रापि नास्ति तत् ॥

769क्तं ह्येतच्चतुर्धाकरणेऽपि । यदि केवलाग्निदेवत्यः प्रकरणे न स्यात्ततः सापेक्षदेवत्योऽपि गृह्येतेति । तदिह केवलेन्द्रदेवत्यसद्भावादिन्द्रपीतत्वं सापेक्षेन्द्रदेवत्यान्निवृत्तं न तु केवलगायत्रच्छन्दस्त्वं कस्यचिदस्ति । त्रयाणामपि वेदानां क्वचित्साधनांश छन्दोन्तराणामवश्यंभावित्वात् । अतो रथंतरसामत्वमिव नानाछन्दस्कास्वेव गायत्रच्छन्दस्त्वम् । अत एव नित्यसापेक्षेषु नैतद्भविष्यति सापेक्षमसमर्थमिति । तस्मान्नानाछन्दस्केऽपि मन्त्र इति सिद्धम् ॥ ४३ ॥

इति गायत्रच्छन्दस इत्यादेर्नानाछन्दस्के विनियोगाधिकरणम् ॥ १८ ॥

इन्द्रपीताधिकरणम्

स्थितादुत्तरम् । अनिन्द्रपीतेष्वप्यविकृत एव मन्त्रः प्रयोक्तव्यो नामन्त्रकं भक्षणम् । कुतः ।

  1. गृह्यत इति—इद्रपीतशब्दः सवनपरतयेति शेषः ।