अध्यायः 252

शकुन्यादिभिर्बहुधा परिसान्त्वनेपि दुर्योधनेन प्रायोपवेशानिश्चयादनिवर्तने पातालवासिनिर्दैत्यदानवैस्तदानयनाय जपहोमादिना कृत्यासर्जनम् ॥ 1 ॥ तथा कृत्यया प्रायोपविष्टस् दुर्योधनस्य पातालंप्रत्यानयनम् ॥ 2 ॥

वैशंपायन उवाच ।
प्रायोपविष्टं राजानं दुर्योधनममर्षणम् ।
उवाच सान्त्वयन्राजञ्शकुनिः सौबलस्तदा ॥
सम्यगुक्तं हि कर्णेन तच्छ्रुतं कौरव त्वया ।
मया हृतां श्रियं स्फीतां तां मोहादपहासि किम् ॥
त्वमबुद्ध्या नृपवर प्राणानुत्स्रष्टुमिच्छसि ।
अद्य वाऽप्यवगन्छामि न वृद्धाः सेवितास्त्वया ॥
यः समुत्पतितं हर्षं दैन्यं वा न नियच्छति ।
स नश्यति श्रियं प्राप्य पात्रमाममिवाम्भसि ॥
अतिभीरुं मृदुं क्लीबं दीर्घसूत्रं प्रमादिनम् ।
व्यसनाद्विषयाक्रान्तं न भजन्ति नृपं श्रिताः ॥
सत्कृतस्य हि ते शोको विपरीते कथं भवेत् ।
मा कृतं शोभनं पार्थैः शोकमालम्ब्य नाशय ॥
यत्र हर्षस्त्वया कार्यः सत्कर्तव्याश्च पाण्डवाः ।
तत्र शोचसि राजेन्द्रविपरीतमिदं तव ॥
प्रसीदमा त्यजात्मानं तुष्टश्च सुकृतं स्मर । कप्रयच्छ राज्यं पार्थानां यशो धर्ममवाप्नुहि ।
क्रियामेतां समाज्ञाय कृतघ्नो न भविष्यसि ॥
सौभ्रात्रं पाण्डवैः कृत्वा समवस्ताप्य चैव तान् ।
पित्र्यं राज्यं प्रयच्छैषां ततः सुखमवाप्स्यसि ॥
वैशंपायन उवाच ।
शकुनेस्तु वचः श्रुत्वा दुःशासनमवेक्ष्य च ।
पादयोः पतितं वीरं विकृतं भ्रातृसौहृदात् ॥
बाहुभ्यां साधुजाताभ्यां दुःशासनमरिंदमम् ।
उत्थाप्य संपरिष्वज्य प्रीत्याऽजिघ्रत मूर्धनि ॥
कर्णसौबलयोश्चापि संश्रुत्य वचनान्यसौ । निर्वेदं परमं गत्वा राजा दुर्योधनस्तदा ।
व्रीडयाऽभिपरीतात्मा नैराश्यमगमत्परम् ॥
सुहृदां चैव तच्छ्रुत्वा समन्युरिदमब्रवीत् ।
न धर्मधनसौख्येन नैश्वर्येण न चाज्ञया ॥
नैव भोगैश्च मे कार्यं मा विहन्यत गच्छत ।
निश्चितेयं मम मतिः स्थिता प्रायोपवेशने ॥
गच्छध्वं नगरं सर्वे पूज्याश्च गुरवो मम ।
त एवमुक्ताः प्रत्यूच् राजानमरिमर्दनम् ॥
या गतिस्तव राजेन्द्र साऽस्माकमपि भारत ।
कथं वा संप्रवेक्ष्यामस्त्वद्विहीनाः पुरं वयम् ॥
वैशंपायन उवाच ।
स सुहृद्भिरमात्यैश्च भातृभिः स्वजनेन च ।
बहुप्रकारमप्युक्तो निश्चयान्न व्यचाल्यत ॥
दर्भास्तरणमास्तीर्य निश्चयाद्धृतराष्ट्रजः ।
संस्पृश्यापः शुचिर्भूत्वा भूतले समुपस्थितः ॥
कुशचीराम्बरधरः परं नियममास्थितः ।
वाग्यतो राजशार्दूलः स स्वर्गगतिकाम्यया ॥
मनसोपचितिं कृत्वा निरस् च बहिःक्रियाः ।
`तस्थौप्रायोपवेशेऽथमतिं कृत्वा सुनिश्चयाम्' ॥
अथ तं निश्चयं तस्य बुद्ध्वा दैतेयदानवाः ।
पातालवासिनो रौद्राः पूर्वं देवैर्विनिर्जिताः ॥
ते स्वपक्षक्षयं तं तु ज्ञात्वा दुर्योधनस्य वै ।
आह्वानाय तदा चक्रुः कर्म वैतानसंभवम् ॥
बृहस्पत्युशनोक्तैश्च मन्त्रैर्मन्त्रविशारदाः । अथर्ववेदप्रोक्तैश्च याश्चौपनिषदाः क्रियाः ।
मन्त्रजप्यसमायुक्तास्तास्तदा समवर्तयन् ॥
जुह्वत्यग्नौ हविः क्षीरं मन्त्रवत्सुसमाहिताः ।
ब्राह्मणा वेदवेदाङ्गपारगाः सुदृढव्रताः ॥
`अध्वर्यवो दानवानां कर्म प्रावर्तयंस्ततः' ॥
कर्मसिद्धौ तदा तत्र जृम्भमाणा महाद्भुता ।
कृत्या समुत्थिता राजन्किं करोमीति चाब्रवीत् ॥
आहुर्दैत्याश्च तां तत्र सुप्रीतेनान्तरात्मना ।
प्रायोपविष्टं राजानं धार्तराष्ट्रमिहानय ॥
तथेति च प्रतिश्रुत्य सा कृत्या प्रययौ तदा ।
निमेषादगमच्चापि यत्र राजा सुयोधनः ॥
समादाय च राजानं प्रविवेश रसातलम् ।
दानवानां मुहूर्ताच्च पुरतस्तं न्यवेदयत् ॥
तमानीतं नृपं दृष्ट्वा रात्रौ संगत्य दानवाः ।
प्रहृष्टमनसः सर्वे किंचिदुत्फुल्ललोचनाः ॥
`दृढमेनं परिष्यज्य दृष्ट्वा च कुशलं तदा' । साभिमानमिदं वाक्यं दुर्योधनमथाब्रुवन् ॥

इति श्रीमन्महाभारते अरण्यपर्वणि घोषयात्रापर्वणि द्विपञ्चाशदधिकद्विशततमोऽध्यायः ॥

3-252-4 पात्रं मृत्पात्रम् । आममपक्वम् ॥ 3-252-5 क्लीवं सामर्थ्यहीनम् । दीर्घसूत्रं चिरकारिणम् । प्रमादिनमनवहितम् । व्यसनात् द्यूतपानमृगयादिरूपात् । विषयैः स्त्र्यादिभिराक्रान्तम् । त्वं तु तेषां मध्ये प्रमादी विषयाक्रान्तश्चेति भावः ॥ 3-252-6 पार्थैः कृतं मा नाशयेति संबन्धः ॥ 3-252-8 आत्मानं शरीरं मा त्यज ॥ 3-252-10 विकृतं म्लानम् ॥ 3-252-12 निर्वेदं जीविते वैराग्यम् । नैराश्यं राज्यलाभे इति शेषः ॥ 3-252-13 समन्युः दैन्यवान् । धर्मेण धनेन सौख्येन वा न मम कार्यमिति संबन्धः । धर्मधनाभ्यां यत्सौख्यं तेन वा ॥ 3-252-14 मा विहन्यत मम संकल्पं मा नाशयत ॥ 3-252-19 वाग्यतो मौनी ॥ 3-252-20 मनसा उप समीपे चितिं दाहार्थं काष्ठसंचयं कृत्वासंकल्प्य अवश्यं मर्तव्यमिति निश्चित्येत्यर्थः । बहिःक्रियाः स्नानपानाद्याः ॥ 3-252-22 वैतानसंभवमग्निविस्तारसाध्यं नवकुण्ड्यादिविधानम् ॥ 3-252-23 उपनिषदि आरण्यके प्रोक्ताः औपनिषदाः । समवर्तयन् संप्रावर्तयन् दैतेयदानवा इतिपूर्वेण संबन्धः ॥ 3-252-26 कृत्या आज्ञाकरी देवता ॥