अध्यायः 061

अर्जुनेन युगपद्द्रोणादिभिः सह यद्धम् ॥ 1 ॥

वैशंपायन उवाच ।
एतस्मिन्नन्तरे तत्र महावीर्यपराक्रमः । आजगाम महाबाहुः कृपः शस्त्रभृतांवरः ।
अर्जुनं प्रतियोद्धुं वै युद्धकामो महारथः ।
अथं द्रौणे रथं त्यक्त्वा कृपस्य रथमुत्तमम् ।
आजगामार्जुनस्तूर्णं सूर्यवैश्वानरप्रभम् ॥
तौ वीर सूर्यसंकाशौ योत्स्यमानौ महारथौ ।
वाषिकाविव जीमूतौ व्यरोचेतां व्यवस्थितौ ॥
श्रगृह्य गाण्डिवं लोके विश्रुतं पुनरर्जुनः ।
अभ्ययाद्भरतश्रेष्ठो विनिघ्नञ्शरमालया ॥
कृपश्च धनुरादाय तथैवार्जुनमभ्यगाम् ॥
प्रगृह्य बलवच्चापं नाराचान्रक्तभोजनान् ।
कृपः पार्थाय चिक्षेप शंतशोऽथ सहस्रशः ॥
जीमूत इव धर्मान्ते शरवर्पं विमुञ्चति ।
नन्दयन्सुहृदः सर्वान्प्रत्ययुध्यत फल्गुनम् ॥
विकृष्य बलवच्चापं पाण्डवोऽमितविक्रमः ।
चचार समरे पार्थश्चित्रमार्गान्विदर्शयन् ॥
सर्वाश्चैव दिशो बाणैः प्रदिशश्च महाबलः ।
एकच्छायमिवाकाशं सर्वतः कृतवान्प्रभुः ॥
प्राच्छादयदमेयात्मा पार्थः शरशतैः कृपम् ।
उद्गतः समरे मेघो धाराभिरिव पर्वतम् ॥
स शरैरर्पितः ऋद्धः शितैरग्निशिखोपमैः ।
कृपो बभूव समरे विधूमोऽग्निरिव ज्वलंम् ॥
ततः शरसहस्रेण पार्थमप्रतिमौजसम् ।
अर्दयित्वा महाबाहुर्ननाद समरे कृपः ॥
ततः कनकपुङ्खेन शरेण नतपर्वणा ।
बिभेद समरे पार्थः कृपस्य ध्वजमुत्तमम् ॥
ततः पश्चान्महातेजा नाराचान्सूर्यसन्निभान् ।
जग्राह समरे पार्थो भूयो बहुशिलीमुखान् ॥
तैस्तदातीं महाबाहुः कृपस्य रथरक्षिणः ।
जघान क्षत्रियश्रेष्ठो युध्यमानान्महारथान् ॥
चन्द्रकेतुः सुकेतुश्च चित्राश्वो मणिमांस्तद ।
मुञ्जमौलिश्च विक्रान्तो हेमवर्णो भयावहः ॥
सुरथोऽतिरथश्चैव सुपेणोऽरिष्ट एव च ।
नृकेतुश्च सहानीकास्ते निषेदुर्गतासवः ॥
तान्निहत्य ततः पार्थो निमेपादिव भारत ।
पुनरन्यान्समाधत्त त्रयोदश शिलीमुखान् ॥
अथास्य युगमेकेन चतुर्भिश्चतुरो हयान् ।
षष्ठेन तु शिरः सङ्ख्ये कृपस्य रथसारथेः ॥
त्रिभिस्त्रिवेणुं बलवान्द्वाभ्यामक्षं महाबलः ।
द्वादशेन तु भल्लेन कृपस्य सशरं धनुः ॥
छित्त्वा वज्रनिकाशेन फल्गुनः प्रहसन्निव ।
त्रयोदशेनेन्द्रसमः प्रत्यविध्यत्स्तनान्तरे ॥
स छिन्नधन्वा विरथो हताश्वो हतसारथिः । अथ शक्तिं परामृश्य सूर्यवैश्वानरप्रभाम् ।
चिक्षेप सहसा क्रुद्धः पार्थायाद्भुतकर्मणे ॥
तामर्जुनस्तथारूपां शक्तिं हेमपरिष्कृताम् ।
रुरोध सायकैस्तीक्ष्णैरर्धचन्द्रमुखैश्च ताम् ॥
आपतन्तीं महोल्काभां चिच्छेद दशभिः शरैः ।
सापतद्दशधा भूमौ पार्थेन निहता शरैः ॥
शक्त्यां तु विनिकृत्तायां विरथः शरपीडितः । गदापाणिरवप्लुत्य रथात्तूर्णममित्रहा ।
गदां चिक्षेप सहसा पार्थायामिततेजसे ॥
सा च मुक्ता गदा गुर्वी रूपेणास्य परिष्कृता ।
अर्जुनस्य शरैर्नुन्ना प्रतिमार्गं जगाम सा ॥
अथ खङ्गं समुद्धृत्य शतचन्द्रं च भानुमत् ।
इयेष पाण्डवं हन्तुं कृपो लघुपराक्रमः ॥
स शरद्वत्सुतस्तूर्णं महाचार्यः सुशिक्षितः ।
खेचरेव चचारकैः क्रमाच्चर्मासिधृग्भुवि ॥
ततः क्षुरप्रैः कौन्तेयो दशभिः खङ्गचर्मणी ।
निमेषादिव चिच्छेद तदद्भुतमिवाभवत् ॥
विषण्णवदमस्तत्र विनाशात्खङ्गचर्मणोः ।
दन्तैर्दन्तच्छदान्दष्ट्वा चुकोप हृदि दीर्घवत् ॥
भवत्विति पुनश्चोक्त्वा युद्धापगमनोद्यतः । अश्वत्थाम्नस्तु स रथं कृपः समभिपुप्लुवे ।
स्वस्रीयस्य महातेजा जग्राह च धनुः पुनः ॥
एतस्मिन्नन्तरे क्रुद्धो भीष्मो द्रोणमथाब्रवीत् ।
दृष्ट्वा कृपं फल्गुनेन पीडितं चोर्जितं च तम् ॥
एकैकमस्मान्संग्रामे पराजयति फल्गुनः । अहं द्रोणश्च कर्णश्च द्रौणिर्गौतम एव च ।
अन्ये च बहवः शूरा वयं जेष्याम वासविम् ॥
समागम्य ततः सर्वे भीष्मद्रोणमुखा रथाः ।
अर्जुनं सहसा युक्ताः प्रत्ययुध्यन्त भारत ॥
स सायकमयैर्जालैः सर्वतस्तान्महारथान् ।
प्राच्छादयच्छरौघैस्तान्नीहार इव पर्वतान् ॥
नदद्भिश्च महानागैर्हेषमाणैश्च वाजिभिः ।
भेरीशङ्खनिनादैश्च स शब्दस्तुमुलोऽभवत् ॥
नागाश्वकायान्निर्भिद्य लौहानि कवचानि च ।
पार्थस्य शरवर्षाणि न्यपतञ्शतशः क्षितौ ॥
त्वरमाणः शरानस्यन्पाण्डवस्तु प्रकाशते ।
मध्यंदिनगतोऽर्चिष्माञ्छरदीव दिवाकरः ॥
अविषह्य शरान्सर्वे पार्थचापच्युपान्रणे । उदक्प्रयान्ति विध्वस्ता रथेभ्यो रथिनस्तदा ।
सादिनश्चाश्वपृष्ठेभ्यो भूमौ चापि पदातयः ॥
शरैस्तु ताड्यमानानां कवचानां महात्मनाम् ।
ताम्रराजतलौहानां प्रादुरासीन्महास्वनः ॥
छन्नमायोधनं जज्ञे शरीरैर्गतचेतसाम् ।
श्रान्त्या गलितशस्त्राणां पततामश्वसादिनाम् ॥
शून्यान्कुर्वन्रथोपस्थान्मानवैरास्तृणोन्महीम् ।
प्रनृत्यन्निव संग्रामे चापहस्ते धनंजयः ॥
शिरांस्यपातयत्सङ्ख्ये क्षत्रियाणां नरर्षभः । श्रुत्वा गाण्डीवनिर्घोषं विष्णूजितमिवाशने ।
त्रस्तानि सर्वसैन्यानि व्यलीयन्त च भागश ॥
कुण्डलोष्णीषधारीणि जातरूपस्रजानि च ।
पतितानि स्म दृश्यन्ते शिरांसि करणमूर्धनि ॥
विशिखोन्मथितैर्गात्रैर्बाहुभिश्च सकार्मुकैः ।
सहस्ताभरणैश्चान्यैः प्रच्छन्ना भाति मेदिनी ॥
शिरसां पात्यमानानां समरे निशितैः शरैः ।
अश्मवृष्टिरिवाकाशादभवद्भरतर्षभ ॥
दर्शयित्वा तदाऽऽत्मानं रौद्रं रौद्रपराक्रमः ।
जघान समरे शूराञ्छतशोऽथ सहस्रशः ॥
तथावरुद्धश्चारण्ये दशवर्षाणि त्रीणि च ।
क्रोधाग्निमुत्ससर्जाजौ धार्तराष्ट्रेषु पाण्डवः ॥
तस्य तद्दहतः सैन्यं दृष्ट्वा चास्य पराक्रमम् ।
सर्वे शान्तिपरा योधा धार्तराष्ट्रस्य भारत ॥
यथा नलवनं नागः प्रभिन्नः षष्टिहायनः ।
एवं सर्वानपामृद्रादर्जुनः शस्त्रतेजसा ॥
विद्राव्य च ततः सैन्यं त्रासयित्वा महारथान् ।
अर्जुनो जयतांश्रेष्ठः पर्यावर्तत भारत ॥
तस्य मार्गान्विचरतो निघ्नतश्च रणाजिरे ।
प्रावर्तत नदी घोरा शोणितान्त्रतरङ्गिणी ॥
अस्थिशैवालसंबाधां संग्रामे पार्थनिर्मिताम् ।
शरचापप्लवां घोरां मांसशोणितकर्दमाम् ॥
रथोडुपां चान्त्रसर्पां केशशैवालशाड्वलाम् ।
करवालासिपाठीनां चामरोष्णीषफेनिलाम् ॥
अश्वग्रीवामहावर्तां कबन्धजलमानुषाम् ।
काककङ्करुतां तीव्रां सारसक्रौञ्चनादिताम् ॥
सिंहनादमहानादां शङ्खस्वनमहास्वनाम् ।
वीरोत्तमाङ्गपद्माढ्यां शरचापमहानलाम् ॥
पदातिमत्स्यकलुषां गजशीर्षककच्छपाम् ।
गोमायुगसंघुष्टां मांसमञ्जाभिकर्दमाम् ॥
प्रावर्तयन्नदीं घोरां पिशाचगणसेविताम् ।
अपारामनिवासां च रक्तोदां सर्वतो वृताम् ॥
अभीक्ष्णमकरोत्पार्थो नदीमुत्तमशोणिताम् ।
गजवर्ममहाद्वीपामश्वदेहमहाशिलाम् ॥
पदातिदेहसंघाटां रथावलिमहातरुम् ।
केशशाद्वलसंछन्नां सुतरां भीतिदां नृणाम् ॥
अगाधरक्तोदवहां यमसागरगामिनीम् । दुस्तरां भीरुमर्त्यानां शूराणां सुतरां नृप ।
प्रावर्तयन्नदीमेवं भीषणां पाकशासनिः ॥
तस्याददानस्य शरान्सन्दधानस्य मुञ्चतः ।
विकर्षतश्च गाण्डीवं न किंचिद्ददृशेऽन्तरम् ॥ ॥

इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि एकषष्टितमोऽध्यायः ॥

4-61-28 स्वेचरः इवेतिच्छेदः ॥