अध्यायः 175

घटोत्कचेन जटासुरसुतवधः ॥ 1 ॥

सञ्जय उवाच ।
दृष्ट्वा घटोत्कचं राजन्सूतपुत्ररथं प्रति । आयान्तं तु तथायुक्तं जिघांसुं कर्णमाहवे ।
अब्रवीत्तत्र पुत्रस्ते दुःशासनमिदं वचः ॥
एतद्रक्षो रणे तूर्णं दृष्ट्वा कर्णस्य विक्रमम् ।
अभियाति द्रुतं कर्णं तद्वारय महारथम् ॥
वृतः सैन्येन महता याहि यत्र महाबलः ।
कर्णो वैकर्तनो युद्धे राक्षसेन युयुत्सति ॥
रक्ष कर्णं रणे यत्तो वृतः सैन्येन मानद ।
मा कर्णं राक्षसो घोरः प्रमादान्नाशयिष्यति ॥
एतस्मिन्नन्तरे राजञ्जटासुरसुतो बली ।
दुर्योधनमुपागम्य प्राह प्रहरतां वरः ॥
दुर्योधन तवामित्रान्प्रख्यातान्युद्धदुर्मदान् ।
पाण्डवान्हन्तुमिच्छामि त्वयाऽऽज्ञप्तः सहानुगान् ॥
जटासुरो मम पिता रक्षसां ग्रामणीः पुरा ।
प्रयुज्य कर्म रक्षोघ्नं क्षुद्रैः पार्थैर्निपातितः ॥
तस्यापचितिमिच्छामि शत्रुशोणितपूजया ।
शत्रुमांसैश्च राजेन्द्र मामनुज्ञातुमर्हसि ॥
तमब्रवीत्ततो राजा प्रीयमाणः पुनःपुनः ।
द्रोणकर्मादिभिः सार्धं पर्याप्तोऽहं द्विषद्वधे ॥
त्वं तु गच्छ मयाऽऽज्ञप्तो जहि युद्धे घटोत्कचम् ।
राक्षसं क्रूरकर्माणं रक्षोमानुषसम्भवम् ॥
पाण्डवानां हितं नित्यं हस्त्यश्वरथघातिनम् ।
वैहायसगतं युद्धे प्रेषयेर्यमसादनम् ॥
तथेत्युक्त्वा महाकायः समाहूय घटोत्कचम् ।
जाटासुरिर्भैमसेनिं नानाशस्त्रैरवाकिरत् ॥
अलम्बलं च कर्णं च कुरुसैन्यं च दुस्तरम् ।
हैडिम्बिः प्रममाथैको महाबातोम्बुदानिव ॥
ततो मायाबलं दृष्ट्वा रक्षस्तूर्णमलम्बलः ।
घटोत्कचं शरव्रातैर्नानालिङ्गैः समार्पयत् ॥
विद्धा च बहुभिर्बाणैर्भैमसेनिं महाबलः ।
व्यद्रावयच्छरव्रातैः पाण्डवानामनीकिनीम् ॥
तेन विद्राव्यमाणानि पाण्डुसैन्यानि भारत ।
निशीथे विप्रकीर्यन्ते वातनुन्ना घना इव ॥
घटोत्कचशरैर्नुन्ना तथैव तव वाहिनी ।
निशीथे प्राद्रवद्राजन्नुत्सृज्योल्काः सहस्रशः ॥
अलम्बलस्ततः क्रुद्धो भैमसेनिं महामृधे ।
आजघ्ने दशभिर्बाणैस्तोत्रैरिव महाद्विपम् ॥
तिxशस्तस्य संवाहं सूतं सर्वायुधानि च ।
घटोत्कचः प्रचिच्छेद प्रणदंश्चातिदारुणम् ॥
ततः कर्णं शरव्रातैः कुरूनन्यान्सहस्रशः ।
अलम्बलं चाभ्यवर्षन्मेघो मेरुमिवाचलम् ॥
ततः सञ्चुक्षुभे सैन्यं कुरूणां राक्षसार्दितम् ।
उपर्युपरि चान्योन्यं चतुरङ्गं ममर्द ह ॥
जाटासुरिर्महाराज विरथो हतसारथिः ।
घटोत्कचं रणे क्रुद्धो मुष्टिनाऽभ्यहनद्दृढम् ॥
मुष्टिनाऽभ्याहतस्तेन प्रचचाल घटोत्कचः ।
क्षितिकम्पे यथा शैलः सवृक्षस्तृणगुल्मवान् ॥
ततः स परिघाभेन द्विट््सङ्घघ्नेन बाहुना ।
जाटासुरिं भैमसेनिरवधीन्मुष्टिना भृशम् ॥
तं प्रमथ्य ततः क्रुद्धस्तूर्णं हैडिम्बिराक्षिपत् ।
दोर्भ्यामिन्द्रध्वजाभाभ्यां निष्पिपेष च भूतले ॥
जाटासुरिर्मोक्षयित्वा आत्मानं च घटोत्कचात् ।
पुनरुत्थाय वेगेन घटोत्कचमुपाद्रावत् ॥
अलम्बलोऽपि विक्षिप्य समुत्क्षिप्य च राक्षसम् ।
घटोत्कचं रणे रोषान्निष्पिपेष च भूतले ॥
तयो समभवद्युद्धं गर्जतोरतिकाययोः ।
घटोत्कचालम्बलयोस्तुमुलं रोमहर्षणम् ॥
विशेषयन्तावन्योन्यं मायाभिरतिमायिनौ ।
युयुधाते महावीर्याविन्द्रवैरोचनाविव ॥
पावकाम्बुनिधी भूत्वा पुनर्गरुडतक्षकौ ।
पुनर्मेघमहाबत्तौ पुनर्वज्रमहाचलौ ॥
पुनः कुञ्जरशार्दूलौ पुनः स्वर्भानुभास्करौ । एवं मायाशतसृजावन्योन्यवधकाङ्क्षिणौ ।
भृशं चित्रमयुध्येतामलम्बलघटोत्कचौ ॥
परिघैश्च गदाभिश्च प्रासमुद्ररपट्टसैः ।
मुसलैः पर्वताग्रैश्च तावन्योन्यं विजघ्नतुः ॥
हयाभ्यां च गजाभ्यां च रथाभ्यां च पदातिभिः ।
युयुधाते महामायौ राक्षसप्रवरौ युधि ॥
ततो घटोत्कचो राजन्नलम्बलवधेप्सया ।
उत्पतात भृशं क्रुद्धः श्येनवन्निपपात च ॥
गृहीत्वा च महाकायं राक्षसेन्द्रमलम्बलम् ।
उद्यम्य न्यवधीद्भूमौ मयं विष्णुरिवाहवे ॥
ततो घटोत्कचः खङ्गमुद्वृत्याद्भुतदर्शनम् ।
रौद्रस्य कायाद्वि शिरो भीमं विकृतदर्शनम् ॥
स्फुरतस्तस्य समरे नदतश्चातिभैरवम् ।
निचकर्त महाराज शत्रोमितविक्रमः ॥
शिरस्तच्चापि सङ्गृह्य केशेषु रुधिरोक्षितम् ।
ययौ घटोत्कचस्तूर्णं दुर्योधनरथं प्रति ॥
`द्रोणकर्णकृपान्योधानतीत्य सुमहाबलः' ।
अभ्येत्य च महाबाहुः स्मयमानः स राक्षसः ॥
शिरो रथेऽस्य निक्षिप्य विकृताननमूर्धजम् ।
प्राणदद्भैरवं नादं प्रावृषीव वलाहकः ॥
अब्रवीच्च ततो राजन्दुर्योधनमिदं वचः ॥
एष ते निहतो बन्धुस्त्वया दृष्टोऽस्य विक्रमः ।
पुनर्द्रष्टासि कर्णस्य निष्ठामेतां तथाऽऽत्मनः ॥
स्वधर्ममर्थं कामं च त्रितयं योऽभिवाञ्छति । रिक्तपाणिर्न पश्येत राजानं ब्राह्मणं स्त्रियम् ।
तिष्ठस्व तावत्सुप्रीतो यावत्कर्णं वधाम्यहम् ॥
सञ्जय उवाच ।
एवमुक्त्वा ततः प्रायात्कर्णं प्रति नरेश्वरः ।
किरञ्छरगणांस्तीक्ष्णान्रुषितो रणमूर्धनि ॥
ततः समभवद्युद्धं घोररूपं भयानकम् ।
विस्मापनं महाराज नरराक्षसयोर्मृधे ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि चतुर्दशरात्रियुद्धे पञ्चसप्तत्यधिकशततमोऽध्यायः ॥ 175 ॥

5-175-8 अपचिनिं निष्कृतिम् ॥ 5-175-42 निष्ठां नाशम् ॥ 5-175-175 पञ्चसप्तत्यधिकशततमोऽध्यायः ॥

श्रीः