अध्यायः 070

अर्जुनेन स्ययुद्धानुवादपूर्वकं युधिष्ठिरम्प्रति कर्णवधप्रतिज्ञानम् ॥ 1 ॥

सञ्जय उवाच ।
तद्धर्मशीलस्य वचो निशम्य राज्ञः क्रुद्धस्यातिरथो महात्मा ।
उवाच दुर्मर्षमदीनसत्वो युधिष्ठिरं जिष्णुरनन्तवीर्यः ॥
द्रोणं हतं पार्थ कर्णो विदित्वा भिन्नां नावविमावत्यगाधे कुरूणाम् ।
सम्मुह्यमानान्धार्तराष्ट्रान्विदित्वा निरुत्साहांश्च विजये परेषाम् ॥
सोदर्यवत्त्वरितोऽमितौजा उत्तारयिष्यन्धृतराष्ट्रस्य पुत्रान् ।
रणे रथेनाधिरथिर्महात्मा ततो हि मां त्वरितः सोऽभ्यधावत् ॥
संशप्तकैर्युध्यमानस्य मेऽद्य सेनाग्रयायी कुरुसैन्यस्य राजन् ।
आशीविषाभान्विकिरञ्शरौघा-- न्द्रौणिः पुरस्तात्सहसाध्यतिष्ठत् ॥
स मे दृष्ट्वा शूरतमो ध्वजाग्रं समादिशद्रथसङ्घाननेकान् ।
तेषामहं पञ्चशतं निहत्य आसादयं द्रोणपुत्रं नदन्तम् ॥
स द्रोणपुत्रः सदृशं महात्मा मामप्यरौत्सीत्तदनीकमध्ये ।
किरञ्शरौघान्बहुरूपान्विचित्रा-- न्स्वातीगतः शुक्र इवातिवर्षन् ॥
स मे रान्सर्वतः कङ्कपत्रा-- नवासृजद्वै पृथिवीप्रकाशान् ।
निवार्य तूर्णं परमाजिमध्ये ततोऽपि मां बाणगणैः समार्पयत् ॥
आकर्षणं वापि विकृष्य मुक्तं न दृश्यते तस्य महारथस्य ।
न सन्दधानः कुत आददानो न व्याक्षिपन्न विकर्षन्विमुञ्चन् ॥
सव्येन वा यदि वा दक्षिणेन न ज्ञायते कतरेणास्यतीति ।
आचार्यवत्समरे पर्यवर्त-- न्महच्चित्रं दर्शयन्सर्वतः स्म ॥
दृष्ट्वीविषं चासुहरं परेषां सर्वा दिशः पूरयानं शरौधैः ।
अलातचक्रप्रतिमं महात्मनः सदा नतं कार्मुकं ब्रह्मबन्धोः ॥
ततोऽपरान्बाणगणाननेका-- नाकर्णपूर्णायतविप्रमुक्तान् ।
ससर्ज शीघ्रास्त्रबलेन वीर-- स्तोयं यथा प्रावृषि कालमेघः ॥
आविध्यन्मां पञ्चभिद्रोणपुत्रः शितैः शरैः पञ्चभिर्वासुदेवम् ।
अभ्यघ्नं बाणैस्तमहं सुधारै-- र्निमेषमात्रेण सुवर्णपुङ्खैः ॥
स निर्विद्धो विरथो द्रोणपुत्रो रथानीकं चाधिरथेर्विवेश ।
मयाभिभूतान्स्वरथप्रबर्हा-- नस्त्रं च पश्यन्रुधिरप्रदिग्धम् ॥
ततोऽभिभूतं युधि वीक्ष्य सैन्यं विध्वस्तयोधं द्रुतनागयूथम् ।
पञ्चाशता रथमुख्यैः समेतः कर्णस्त्वरन्नभ्यपतत्प्रमाथी ॥
तान्सूदयित्वाऽहमपास्य कर्णं द्रष्टुं भवन्तं त्वरयोपयातः ।
सर्वे पाञ्चाला ह्युद्विजन्ते स्म कर्णं दृष्ट्वा गावः केसरिणं यथैव ॥
मृत्योरास्यं व्यात्तमिवाभिपद्य प्रभद्रकाः कर्णमासाद्य सर्वे ।
यास्यामि तांस्तारयिष्यन्बलौघा-- द्दिष्ट्या भवान्स्वस्तिमान्पार्थ दृष्टः ॥
हनिष्येऽहं भारत सूतपुत्र-- मस्मिन्सङ्ग्रामे यदि दृश्यतेऽद्य ।
आयाहि पश्याद्य युयुत्समानौ मां सूतपुत्रं च धृतौ रणाय ॥
महाझषस्येव मुखं प्रपन्नाः प्रभद्रकाः कर्णमुखं प्रपन्नाः ।
षट््साहस्रा भारत राजपुत्राः स्वर्गाय लोकाय रणे निमग्नाः ॥
तानद्य यास्यामि रणाद्विमोक्तुं सर्वात्मना सूतपुत्रं च हन्तुम् ॥
अथ प्रवीरेण महानुभाव द्विषत्सैन्यं निर्दहन्विस्तरेण ।
समेत्याहं सूतपुत्रेण सङ्ख्ये
वज्रीव वृत्रेण नरेन्द्रमुख्य ॥
एवं गते किञ्च मयाऽद्य शक्यं कार्यं कर्तुं निग्रहे सूतजस्य ।
तथैव राज्ञश्च सुयोधनस्य ये चापि मां योद्धुकामाः समेताः ॥
कर्णं न चेदद्य निहन्मि राज-- न्सबान्धवं युध्यमानं प्रसह्य ।
प्रतिश्रुत्याऽकुर्वतां या गतिर्वै कष्टां यायां तामहं राजसिंह ॥
आमन्त्रये त्वां ब्रूहि रणे जयं मे पुरा भीमं धार्तराष्ट्रा ग्रसन्ति ।
सौतिं हनिष्यामि नरेन्द्रसिंह सैन्यं तथा शत्रुगणांश्च सर्वान् ॥ ॥

इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे सप्ततितमोऽध्यायः ॥ 70 ॥

श्रीः