अध्यायः 001

(अनुक्रमणिकापर्व ॥ 1 ॥)

आदौ मङ्गलाचरणं ॥ 1 ॥ नैमिशारण्ये दीर्घसत्रे शौनकादीन्प्रति सौतेरागमनम् ॥ 2 ॥ तत्र शौनकादिभिः सौतिं प्रति भारतकथनचोदना ॥ 3 ॥ सौतिना श्रीमन्नारायणनमस्कारपूर्वकं व्यासस्य भारतनिर्माणकथनम् ॥ 4 ॥ पर्वानुक्रमणिका ॥ 5 ॥

॥ श्रीवेदव्यासाय नमः ॥
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं चैव(व्यासं) ततो जयमुदीरयेत् ॥
`नारायणं सुरगुरुं जगदेकनाथं' भक्तप्रियं सकललोकनमस्कृतं च ।
त्रैगुण्यवर्जितमजं विभुमाद्यमीशं वन्दे भवघ्नममरासुरसिद्धवन्द्यम्' ॥
`नमो धर्माय महते नमः कृष्णाय वेधसे ।
ब्राह्मणेभ्यो नमस्कृत्य धर्मान्वक्ष्यामि शाश्वतान्' ॥
ॐ नमो भगवते वासुदेवाय । ॐ नमः पितामहाय । ॐ नमः प्रजापतिभ्यः ।
ॐ नमः कृष्णद्वैपायनाय । ॐ नमः सर्वविघ्नविनायकेभ्यः ॥
रोमहर्षणपुत्र उग्रश्रवाः सौतिः पौराणिको नैमिशारण्ये शौनकस्य कुलपतेर्द्वादशवार्षिके सत्रे
सुखासीनानभ्यगच्छद्ब्रह्मर्षीन्संशितव्रतान् ।
विनयावनतो भूत्वा कदाचित्सूतनन्दनः ॥
तमाश्रममनुप्राप्य नैमिशारण्यवासिनः । `उवाच तानृषीन्सर्वान्धन्यो वोऽस्म्यद्यदर्शनात्
वेद वैयासिकीः सर्वाः कथा धर्मार्यैसंहिताः । वक्ष्यामि वो द्विजश्रेष्ठाः शृण्वन्त्वद्य तपोधनाः
तस्य तद्वचनं श्रुत्वा नैमिशारण्यवासिनः ।
चित्रा श्रोतुं कथास्तत्र परिव्रुस्तपस्विनः ॥
अभिवाद्य मुनींस्तांस्तु सर्वानेव कुताञ्जलिः ।
अपृच्छत्स तपोवृद्धिं सद्भिश्चैवाभिपूजितः ॥
अथ तेषूपविष्टेषु सर्वेष्वेव तपस्विषु ।
निर्दिष्टमासनं भेजे विनयाद्रौमहर्षणिः ॥
सुखासीनं ततस्तं तु विश्रान्तमुपलक्ष्य च ।
अथापृच्छदृषिस्तत्र कश्चित्प्रस्तावयन्कथाः ॥
कुत आगम्यते सौते क्वचायं विहृतस्त्वया ।
कालः कमलपत्राक्ष शंसैतत्पृच्छतो मम ॥
एवं पृष्टोऽब्रवीत्सम्यग्यथावद्रौमहर्षणिः ।
वाक्यं वचनसंपन्नस्तेषां च चरिताश्रयम् ॥
तस्मिन्सदसि विस्तीर्णे मुनीनां भावितात्मनाम् ।
सौतिरुवाच ।
जनमेजयस्य राजर्षेः सर्पसत्रे महात्मनः ॥
समीपे पार्थिवेन्द्रस्य सम्यक्पारिक्षितस्य च । कृष्णद्वैपायनप्रोक्ताः सुपुण्या विविधाः कथाः
कथिताश्चापि विधिवद्या वैशंपायनेन वै ।
श्रुत्वाऽहं ता विचित्रार्था महाभारतसंश्रिताः ॥
वहूनि संपरिक्रम्य तीर्थान्यायतनानि च ।
समन्तपञ्चकं नाम पुण्यं द्विजनिषेवितम् ॥
गतवानस्मि तं देशं युद्धं यत्राभवत्पुरा ।
कुरूणां पाण्डवानां च सर्वेषां चहीक्षिताम् ॥
दिदृक्षुंरागतस्तस्मात्समीपं भावतामिह ।
आयुष्मन्तः सर्व एव ब्रह्मभाता हि मे मताः ॥
अस्मिन्यज्ञे महाभङ्गाः सूर्यपावकवर्चसः ॥
कृताभिषेकाः शुचयः कृतजप्या हुताग्नयः । भवन्त आसते स्वस्था ब्रवीमि किमहं द्विजाः
पुराणसंहिताः पुण्याः कथा धर्मार्थसंश्रिताः ।
इतिवृत्तं नरेन्द्राणामृषीणां च महात्मनाम् ॥
ऋषय ऊचुः ।
द्वैपायनेन यत्प्रोक्तं पुराणं परमर्षिणा ।
सुरैर्ब्रह्मर्षिभिश्चैव श्रुत्वा यदभिपूजितम् ॥
तस्याख्यानवरिष्ठस्य विचित्रपदपर्वणः ।
सूक्ष्मार्थन्याययुक्तस्य वेदार्थैर्भूषितस्य च ॥
भारतस्येतिहासस्य पुण्यां ग्रन्थार्थसंयुताम् ।
संस्कारोपगतां ब्राह्मीं नानाशास्त्रोपबृंहिताम् ॥
जनमेजयस्य यां राज्ञो वैशंपायन उक्तवान् ।
यथावत्स ऋषिः पृष्टः सत्रे द्वैपायनाज्ञया ॥
वेदैश्चतुर्भिः सयुक्तां व्यासस्याद्भुतकर्मणः ।
संहितां श्रोतुमिच्छामः पुण्यां पापभयापहाम् ॥
सौतिरुवाच ।
आद्यं पुरुषमीशानं पुरुहूतं पुरुष्टुतम् ।
ऋतमेकाक्षरं ब्रह्म व्यक्ताव्यक्तं सनातनम् ॥
असच्च सच्चैव च यद्विश्वं सदसतः परम् परावराणां स्रष्टारं पुराणं परमव्ययम् ॥
मङ्गल्यं मङ्गलं विष्णुं वरेण्यमनघं शुचिम् ।
नमस्कृत्य हृषीकेशं चराचरगुरुं हरिम् ॥
महर्षेः पूजितस्येह सर्वलोकैर्महात्मनः ।
प्रवक्ष्यामि मतं पुण्यं व्यासस्याद्भुतकर्मणः ॥
`नमो भगवते तस्मै व्यासायामिततेजसे ।
यस्य प्रसादाद्वक्ष्यामि नारायणकथामिमाम् ॥
सर्वाश्रमाभिशमनं सर्वतीर्थावगाहनम् ।
न तथा फलद सूते नारायणकथा यथा ॥
नास्ति नारायणसमं न भूतं न भविष्यति ।
एतेन सत्यवाक्येन सर्वार्थान्साधयाम्यहम्' ॥
आचख्युः कवयः केचित्संप्रत्याचक्षते परे ।
आख्यास्यन्ति तथैवान्य इतिहासमिमं भुवि ॥
इदं तु त्रिषु लोकेषु महज्ज्ञानं प्रतिष्ठितम् ।
विस्तरैश्च समासैश्च धार्यते यद्द्विजातिभिः ॥
अलङ्कृतं शुभैः शब्दैः समयैर्दिव्यधनुषैः ।
छन्दोवृत्तैश्च विविधैरन्वितं विदुषांप्रियम् ॥
तपसा ब्रह्मचर्येण व्यस्य वेदं सनातनम् ।
इतिहासमिमं चक्रे पुण्यं सत्यवतीसुतः ॥
`पुण्ये हिमवतः पादे मेध्ये गिरिगुहालये ।
विशोध्य देहं धर्मात्मा दर्भसंस्तरमाश्रितः ॥
शुचिः सनियमो व्यासः शान्तात्मातपसि स्थितः भारतस्येतिहासस्य धर्मेणान्वीक्ष्य तां गतिम् ॥
प्रविश्य योगं ज्ञानेन सोऽपश्यत्सर्वमन्ततः ॥
निष्प्रभेऽस्मिन्निरालोके सर्वतस्तमसा वृते ।
बृहदण्डमभूदेकं प्रजानां बीजमव्ययम् ॥
युगस्यादिनिमित्तं तन्महद्दिव्यं प्रचक्षत ।
व्यस्मिंस्तच्छ्रूयते सत्यंज्योतिर्ब्रह्म सनातनम् ॥
अद्भुतं चाप्यचिन्त्यं च सर्वत्र समतां मतम् ।
अव्यक्तं कारणं सूक्ष्मं यत्तत्सदसदात्मकम् ॥
यस्मिन्पितामहो जज्ञे प्रभुरेकः प्रजापतिः ।
ब्रह्मा सुरगुरुः स्थाणुर्मनुः कः परमेष्ठ्यथ ॥
प्राचेतसस्तथा दक्षो दक्षपुत्राश्च सप्तवै ।
ततः प्रजानां पतयः प्राभवन्नेकविंशतिः ॥
पुरुषश्चाप्रमेयात्मा यं सर्वऋषयो विदु ।
विश्वेदेवास्तथाऽऽदित्या वसवोऽथाश्विनावपि ॥
यक्षाः साध्याः पिशाचाश्च गुह्यकाः पितरस्तथा ।
ततः प्रसूता विद्वांसः शिष्टा ब्रह्मर्षिसत्तमाः ॥
महर्षयश्च बहवः सर्वैः समुदिता गुणैः ।
आतो द्यौः पृथिवी वायुरन्तरिक्षं दिशस्तया ॥
संवत्सरर्तवो मासाः पक्षाहोरात्रयः क्रमात् ।
यच्चान्यदपि तत्सर्वं संभूतं लोकसाक्षिकम् ॥
यदिदं दृश्यते किंचिद्बूतं स्थावरजङ्गमम् ।
पुनःसंक्षिप्यते सर्वं जगत्प्राप्ते युगक्षये ॥
यथर्तुष्वृतुलिङ्गानि नानारूपाणि पर्यये ।
दृश्यन्ते तानि तान्येव तथा भावा युगादिषु ॥
एवमेतदनाद्यन्तं भूतसंघातकारकम् ।
अनादिनिधनं लोके चक्रं संपरिवर्तते ॥
त्रयस्त्रिंशत्सहस्राणि त्रयस्त्रिंशच्छतानि च ।
त्रयस्त्रिंशच्च देवनां सृष्टिः संक्षेपलक्षणा ॥
दिवः पुत्रो बृहद्भानुश्चक्षुरात्मा विभावसुः ।
सविता स ऋचीकोऽर्को भानुराशावहो रविः ॥
पुत्रा विवस्वतः सर्वे मनुस्तेषां तथाऽवरः ।
देवभ्राट् तनयस्तस्य सुभ्राडिति ततः स्मृतः ॥
सुभ्राजस्तु त्रयः पुत्राः प्रजावन्तो बहुश्रुताः ।
दशज्योतिः शतज्योतिः सहस्रज्योतिरेव च ॥
दशपुत्रसहस्राणि दशज्योतेर्महात्मनः ।
ततो दशगुणाश्चान्ये शतज्योतेरिहात्मजाः ॥
भूयस्ततो दशगुणाः सहस्रज्योतिषः सुताः ।
तेभ्योऽयं कुरुवंशश्च यदूनां भरतस्य च ॥
ययातीक्ष्वाकृवंशश्च राजर्षीणां च सर्वशः ।
संभूता बहवो वंशा भूतसर्गाः सुविस्तराः ॥
भूतस्थानानि सर्वाणि रहस्यं त्रिविधं च यत् ।
वेदा योगः सविज्ञानो धर्मोऽर्थः काम एव च ॥
धर्मार्थकामयुक्तानि शास्त्राणि विविधानि च ।
लोकयात्राविधान च सर्व तद्दृष्टवानृषिः ॥
`नीतिर्भरतवंशस्य विस्तारश्चैव सर्वशः ।' इतिहासाः सहव्याख्या विविधाश्रुतयोऽपि च ॥
इह सर्वमनुक्रान्तमुक्तं ग्रन्थस्य लक्षणम् । `संक्षेपेणेतिहासस्य ततो वक्ष्यति विस्तरम् ॥'
विस्तीर्यैतन्महज्ज्ञानमृषिः संक्षिप्य चाब्रवीत् ।
इष्टं हि विदुषां लोके समासव्यासधारणम् ॥
मन्वादि भारतं केचिदास्तीकादि तथाऽपरे ।
तथोपरिचराद्यन्ये विप्राः सम्यगधीयिरे ॥
विविधं संहिताज्ञानं दीपयन्ति मनीषिणः ।
व्याख्यातुं कुशलाः केचिद्ग्रन्थान्धारयितुं परे ॥
तपसा ब्रह्मचर्येण व्यस्य वेदं सनातनम् ।
इतिहासमिमं चक्रे पुण्यं सत्यवतीत्सुतः ॥
पराशरात्मजो विद्वान्ब्रह्मर्षिः संशितव्रतः ।
मातुर्नियोगाद्धर्मात्मा गाङ्गेयस्य च धीमतः ॥
क्षेत्रे विचित्रवीर्यस्य कृष्णद्वैपायनः पुरा ।
त्रीनग्नीनिव कौरव्याञ्जनयामास वीर्यवान् ॥
उत्पाद्य धृतराष्ट्रं च पाण्डुं विदुरमेव च ।
जगाम तपसे धीमान्पुनरेवाश्रमं प्रति ॥
तेषु जातेषु वृद्धेषु गतेषु परमां गतिम् ।
अब्रवीद्भारतं लोके मानुषेऽस्मिन्महानृषिः ॥
जनमेजयेन पृष्टः सन्ब्राह्मणैश्च सहस्रशः ।
शशास शिष्यमासीनं वैशंपायनमन्तिके ॥
स सदस्यैः सहासीनं श्रावयामास भारतम् ।
कर्मान्तरेषु यज्ञस्य चोद्यमानः पुनः पुनः ॥
विस्तारं कुरुवंशस्य गान्धार्या धर्मशीलताम् ।
क्षत्तुः प्रज्ञां धृतिं कुन्त्याः सम्यग्द्वैपायनोब्रवीत् ॥
वासुदेवस्य माहात्म्यं पाण्डवानां च सत्यताम् ।
दुर्वृत्तं धार्तराष्ट्राणामुक्तवान्भगवानृषिः ॥
इदं शतसहस्रं तु श्लोकानां पुण्यकर्मणाम् ।
उपाख्यानैः सह ज्ञेयं श्राव्यं भारतमुत्तमम् ॥
चतुर्विंशतिसाहस्रीं चक्रे भारतसंहिताम् ।
उपाख्यानैर्विना तावद्भारतं प्रोच्यते बुधैः ॥
ततोऽध्यर्धशतं भूयः संक्षेपं कृतवानृषिः ।
अनुक्रमणिकाध्यायं वृत्तान्तं सर्वपर्वणाम् ॥
तस्याख्यानवरिष्ठस्य कृत्वा द्वैपायनः प्रभुः ।
कथमध्यापयानीह शिष्यानित्यन्वचिन्तयत् ॥
तस्य तच्चिन्तितं ज्ञात्वा ऋषेर्द्वैपायनस्य च ।
तत्राजगाम भगवान्ब्रह्मा लोकगुरुः स्वयम् ॥
प्रीत्यर्थं तस्य चैवर्षेर्लोकानां हितकाम्यया ।
तं दृष्ट्वा विस्मितो भूत्वा प्राञ्जलिः प्रणतः स्थितः ॥
आसनं कल्पयामास सर्वैर्मुनिगणैर्वृतः ॥
हिरण्यमर्भमासीनं तस्मिंस्तु परमासने ।
परिवृत्यासनभ्याशे वासवेयः स्थितोऽभवत् ॥
अनुज्ञातोऽथ कृष्णस्तु ब्रह्मणा परमेष्ठिना ।
निषसादासनाभ्याशे प्रीयमाणः शुचिस्मितः ॥
उवाच स महातेजा ब्रह्माणं परमेष्ठिनम् ।
कृतं मयेदं भगवन्काव्यं परमपूजितम् ॥
ब्रह्मन्वेदरहस्य च यच्चान्यत्स्थापितं मया ।
साङ्गोपनिषदां चैव वेदानां विस्तरक्रिया ॥
इतिहासपुरापानामुन्मेषं निमिषं च यत् ।
भूतं भव्यं भविष्यच्च त्रिविधं कालसंज्ञितम् ॥
जरामृत्युभयव्याधिभावाभावविनिश्चयः ।
विविधस्य च धर्मस्य ह्याश्रमाणां च लक्षणम् ॥
चातुर्वर्ण्यविधानं च पुराणानां च कृत्स्नशः ।
तपसो ब्रह्मचर्यस्य पृथिव्याश्चन्द्रसूर्ययोः ॥
ग्रहनक्षत्रताराणां प्रमाणं च युगैः सह ।
ऋचो यजूषि सामानि वेदाध्यात्मं तथैव च ॥
न्यायशिक्षा चिकित्सा च दानं पाशुपतं तथा ।
इति नैकाश्रयं जन्म दिव्यमानुषसंज्ञितम् ॥
तीर्थानां चैव पुण्यानां देशानां चैव कीर्तनम् ।
नदीनां पर्वतानां च वनानां सागरस्य च ॥
पुराणां चैव दिव्यानां कल्पानां युद्धकौशलम् ।
वाक्यजातिविशेषाश्च लोकयात्राक्रमश्च यः ॥
यच्चापि सर्वगं वस्तु तच्चैव प्रतिपादितम् ।
परं न लेखकः कश्चिदेतस्य भुवि विद्यते ॥
ब्रह्मोवाच ।
तपोविशिष्टदपि वै वसिष्ठान्मुनिपुंगवात् ।
मन्ये श्रेष्ठव्यं त्वां वै रहस्यज्ञानवेदनात् ॥
जन्मप्रभृति सत्यां ते वेद्मि गां ब्रह्मवादिनीम् ।
त्वयाच काव्यमित्युक्तं तस्मात्काव्यं भविष्यति ॥
अस्य काव्यस्य कवयो न समर्था विशेषणे ।
विशेषणे गृहस्थस्य शेषास्त्रय इवाश्रमाः ॥
`जडान्धबधिरोन्मत्तं तमोभूतं जगद्भवेत् ।
यदि ज्ञानहुताशेन त्वया नोज्ज्वलियं भवेत् ॥
तमसान्धस्य लोकस्य वेष्टितस्य स्वकर्मभिः ।
ज्ञानाञ्जनशलाकाभिर्बुद्धिनेत्रोत्सवः कृतः' ॥
धर्मार्थकाममोक्षार्थैः समासव्यासकीर्तनैः ।
त्वया भारतसूर्येण नृणां विनिहतं तमः ॥
पुराणपूर्णचन्द्रेण श्रुतिज्योत्स्नाप्रकाशिना ।
नृणां कुमुदसौम्यानां कृतं बुद्धिप्रसादनम् ॥
इतिहासप्रदीपेन मोहावरणघातिना ।
लोकगर्भगृहं कृत्स्नं यथावत्संप्रकाशितम् ॥
संग्रहाध्यायबीजो वै पौलोमास्तीकमूलवान् ।
संभवस्कन्धविस्तारः सभापर्वविटङ्कवान् ॥
आरण्यपर्वरूपाढ्यो विराटोद्योगसारवान् ।
भीष्मपर्वमहाशाखो द्रोणपर्वपलाशवान् ॥
कर्णपर्वसितैः पुष्पैः शल्यपर्वसुगन्धिभिः ।
स्त्रीपर्वैषीकविश्रामः शान्तिपर्वमहाफलः ॥
अश्वमेधामृतसस्त्वाश्रमस्थानसंश्रयः ।
मौसलश्रुतिसंक्षेपः शिष्टद्विजनिषेवितः ॥
सर्वेषां कविमुख्यानामुपजीव्यो भविष्यति ।
पर्जन्यइव भूतानामक्षयो भारद्रुमः ॥
काव्यस्य लेखनार्थाय गणेशः स्मर्यतां मुने ।
सौतिरुवाच ।
एवमाभाष्य तं ब्रह्मा जगाम स्वं निवेशनम् ।
भगवान्स जगत्स्रष्टा ऋषिदेवगणैः सह ॥
ततः सस्मार हेरम्बं व्यासः सत्यवतीसुतः ॥
स्मृतमात्रो गणेशानो भक्तचिन्तितपूरकः ।
तत्राजगाम विघ्नेशो वेदव्यासो यतः स्थितः ॥
पूजितश्चोपविष्टश्च व्यासेनोक्तस्तदानघ ।
लेखको भारतस्यास्य भव त्वं गणनायक ॥
मयैव प्रोच्यमानस्य मनसा कल्पितस्य च ॥
श्रुत्वैतत्प्राह विघ्नेशो यदि मे लेखनी क्षणम् ।
लिखतो नावतिष्ठेत तदा स्यां लेखको ह्यहम् ॥
व्यासोऽप्युवाच तं देवमबुद्ध्वा मा लिख क्वचित् ।
ओमित्युक्त्वा गणेशोपि बभूव किल लेखकः ॥
ग्रन्थग्रन्थिं तदा चक्रे मुनिर्गूढं कुतूहलात् ।
यस्मिन्प्रतिज्ञया प्राह मुनिर्द्वैपायनस्त्विदम् ॥
अष्टौ श्लोकसहस्राणि अष्टौ श्लोकशतानि च ।
अहं वेद्मि शुको वेत्ति संजयो वेत्ति वा न वा ॥
तच्छ्लोककूटमद्यापि ग्रथितं सुदृढं मुने ।
भेत्तुं न शक्यतेऽर्थस्यं गूढत्वात्प्रश्रितस्य च ॥
सर्वज्ञोपि गणेशो यत्क्षणमास्ते विचारयन् ।
तावच्चकार व्यासोपि श्लोकानन्यान्बहूनपि ॥
तस्य वृक्षस्य वक्ष्यामि शाखापुष्पफलोदयम् ।
स्वादुमेध्यरसोपेतमच्छेद्यममरैरपि ॥
अनुक्रमणिकाध्यायं वृत्तान्तं सर्वपर्वणाम् ।
इदं द्वैपायनः पूर्वं पुत्रमध्यापयच्छुकम् ॥
ततोऽन्येभ्योऽनुरूपेभ्यः शिष्येभ्यः प्रददौ प्रभु षष्टिं शतसहस्राणि चकारान्यां स संहिताम् ।
त्रिंशच्छतसहस्रं च देवलोके प्रतिष्ठितम् ॥
पित्र्ये पञ्चदश प्रोक्तं रक्षोयक्षे चतुर्दश ।
एकं शतसहस्रं तु मानुषेषु प्रतिष्ठितम् ॥
नारदोऽश्रावयद्देवानसितो देवलः पितृन् ।
गन्धर्वयक्षरक्षांसि श्रावयामास वै शुकः ॥
`वैशंपायनविप्रर्षिः श्रावयामास पार्थिवम् ।
पारिक्षितं महात्मानं नाम्ना तु जनमेजयम्' ॥
अस्मिंस्तु मानुषे लोके वैशंपायन उक्तवान् ।
शिष्यो व्यासस्य धर्मात्मा सर्ववेदविदां वरः ॥
एकं शतसहस्रं तु मयोक्तं वै निबोधत ॥
दुर्योधनो मन्युमयो महाद्रुमः कर्णः स्कन्धः शकुनिस्तस्य शाखाः ।
दुश्शासनः पुष्पफले समृद्धे मूलं राजा धृतराष्ट्रोऽमनीषि ।
युधिष्ठिरे धर्ममयो महाद्रुमः स्कन्धोऽर्जुनो भीमसेनोऽस्य शाखाः ।
माद्रीसुतौ पुष्पफले समृद्धे मूलं कृष्णो ब्रह्म च ब्राह्मणाश्च ॥
पाण्डुर्जित्वा बहून्देशान्युधा विक्रमणेन च ।
अरण्ये मृगयाशीलो न्यवसत्सजनस्तथा ॥
मृगव्यवायनिधनात्कृच्छ्रां प्राप स आपदम् ।
जन्मप्रभृति पार्थानां तत्राचारविधिक्रमः ॥
मात्रोरभ्युपपत्तिश्च धर्मोपनिषदं प्रति ।
धर्मानिलेन्द्रांस्ताभिः साऽऽजुहाव सुतवाञ्छया ॥
`ततो धर्मोपनिषदं भूत्वा भर्तुः प्रिया पृथा ।
धर्मानिलेन्द्रांस्ताभिः साऽऽजुहाव सुतवाञ्छया ॥
तद्दत्तोपनिषन्माद्री चाश्विनावाजुहाव च । जाताः पार्थास्ततः सर्वे कुन्त्या माद्र्याश्च मन्त्रतः ।'
तापसैः सह संवृद्धा मातृभ्यां परिरक्षिताः ॥
मेध्यारण्येषु पुण्येषु महतामाश्रमेषु च ।
`तेषु जातेषु सर्वेषु पाण्डवेषु महात्मसु ॥
माद्र्या तु सह संगम्य ऋषिशापप्रभावतः । मृतः पाण्डुर्महापुण्ये शतशृङ्गे महागिरौ ॥'
ऋषिभिश्च समानीता धार्तराष्ट्रान्प्रति स्वयम् ।
शिशवश्चाभिरूपाश्च जटिला ब्रह्मचारिणः ॥
पुत्राश्च भ्रातरश्चेमे शिष्याश्च सुहृदश्च वः ।
पाण्डवा एत इत्युक्त्वा मुनयोऽन्तर्हितास्ततः ॥
तांस्तैर्निवेदितान्दृष्ट्वा पाण्डवान्कौरवास्तदा ।
शिष्टाश्च वर्णाः पौरा ये ते हर्षाच्चुक्रुशुर्भृशम् ॥
आहुः केचिन्न तस्यैते तस्यैत इति चापरे ।
यदा चिरमृतः पाण्डुः कथं तस्येतदि चापरे ॥
स्वागतं सर्वथा दिष्ट्या पाण्डोः पश्याम सन्ततिम् ।
उच्यतां स्वागतमिति वाचोऽश्रूयन्त सर्वशः ॥
तस्मिन्नुपरते शब्दे दिशः सर्वा निनादयन् ।
अन्तर्हितानां भूतानां निःस्वनस्तुमुलीऽभवत् ॥
पुष्पवृष्टिः शुभा गन्धाः शङ्खदुन्दुभिनिःस्वनाः ।
आसन्प्रवेशे पार्थानां तदद्भुतमिवाभवत् ॥
तत्प्रीत्या चैव सर्वेषां पौराणां हर्षसंभवः ।
शब्द आसीन्महांस्तत्र दिवस्पृक्कीर्तिवर्धनः ॥
तेऽधीत्य निखिलान्वेदाञ्शास्त्राणि विविधानि च ।
न्यवसन्पाण्डवास्तत्र पूजिता अकुतोभयाः ॥
युधिष्ठिरस्य शौचेन प्रीताः प्रकृतयोऽभवन् ।
धृत्या च भीमसेनस्य विक्रमेणार्जुनस्य च ॥
गुरुशुश्रूषया कुन्त्या यमयोर्विनयेन च ।
तुतोष लोकः सकलस्तेषां शौर्यगुणेन च ॥
समवाये ततो राज्ञां कन्यां भर्तृस्वयंवराम् ।
प्राप्तवानर्जुनः कृष्णां कृत्वा कर्म सुदुष्करम् ॥
ततः प्रभृति लोकेऽस्मिन्पूज्यः सर्वधनुष्मताम् ।
आदित्य इव दुष्प्रेक्ष्यः समरेष्वपि चाभवत् ॥
स सर्वान्पार्थिवाञ्जित्वा सर्वांश्च महतो गणान् ।
आजहारार्जुनो राज्ञो राजसूयं महाक्रतुम् ॥
अन्नवान्दक्षिणावांश्च सर्वैः समुदितो गुणैः ।
युधिष्ठिरेण संप्राप्तो राजसूयो महाक्रतुः ॥
सुनयाद्वासुदेवस्य भीमार्जुनबलेन च ।
घातयित्वा जरासन्धं चैद्यं च बलगर्वितम् ॥
दुर्योधनं समागच्छन्नर्हणानि ततस्ततः ।
मणिकाञ्चनरत्नानि गोहस्त्यश्वधनानि च ॥
विचित्राणि च वासांसि प्रावारावरणानि च ।
कम्बलाजिनरत्नानि राङ्कवास्तरणानि च ॥
समृद्धां तां तथा दृष्ट्वा पाण्डवानां तदा श्रियम् ।
ईर्ष्यासमुत्थः सुमहांस्तस्य मन्युरजायत ॥
विमानप्रतिमां तत्र मयेन सुकृतां सभाम् ।
पाण्डवानामुपहृतां स दृष्ट्वा पर्यतप्यत ॥
तत्रावहसितश्चासीत्प्रस्कन्दन्निव संभ्रमात् ।
प्रत्यक्षं वासुदेवस्य भीमेनानभिजातवत् ॥
स भोगान्विविधान्भुञ्जन्रत्नानि विविधानि च ।
कथितो धृतराष्ट्रस्य विवर्णो हरिणः कृशः ॥
अन्वजानात्ततो द्यूतं धृतराष्ट्रः सुतप्रियः ।
तच्छ्रुत्वा वासुदेवस्य कोपः समभवन्महान् ॥
नातिप्रीतमनाश्चासीद्विवादांश्चान्वमोदत ।
द्यूतादीननयान्घोरान्विविधांश्चाप्युपैक्षत ॥
निरस्य विदुरं भीष्मं द्रोणं शारद्वतं कृपम् ।
विग्रहे तुमुले तस्मिन्दहन्क्षत्रं परस्परम् ॥
जयत्सु पाण्डुपुत्रेषु श्रुत्वा सुमहदप्रियम् ।
दुर्योधनमतं ज्ञात्वा कर्णस्य शकुनेस्तथा ॥
धृतराष्ट्रश्चिरं ध्यात्वा संजयं वाक्यमब्रवीत् ।
शृणु संजय सर्वं मे नचासूयितुमर्हसि ॥
श्रुतवानसि मेधावी बुद्धिमान्प्राज्ञसंमतः ।
न विग्रहे मम मतिर्न च प्रीये कुलक्षये ॥
न मे विशेषः पुत्रेषु स्वेषु पाम्डुसुतेषु वा ।
वृद्धं मामभ्यसूयन्ति पुत्रा मन्युपरायणाः ॥
अहं त्वचक्षुः कार्पण्यात्पुत्रप्रीत्या सहामि तत् ।
मुह्यन्तं चानुमुह्यामि दुर्योधनमचेतनम् ॥
राजसूये श्रियं दृष्ट्वा पाण्डवस्य महौजसः ।
तच्चावहसनं प्राप्य सभारोहणदर्शने ॥
अमर्षितः स्वयं जेतुमशक्तः पाण्डवान्रणे ।
निरुत्साहश्च संप्राप्तुं सुश्रियं क्षत्रियोऽपि सन् ॥
गान्धारराजसहितश्छद्मद्यूतममन्त्रयत् ।
तत्र यद्यद्यथा ज्ञातं मयां संजय तच्छृणु ॥
श्रुत्वा तु मम वाक्यानि बुद्धियुक्तानि तत्त्वतः ।
ततो ज्ञास्यसि मां सौते प्रज्ञाटचक्षुषमित्युत ॥
यदाऽश्रौषं धनुरायम्य चित्रं विद्धं लक्ष्यं पातितं वै पृथिव्याम् ।
कृष्णां हृतां प्रेक्षतां सर्वराज्ञां तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं द्वारकायां सुभद्रां प्रसह्योढां माधवीमर्जुनेन ।
इन्द्रप्रस्थं वृष्णिवीरौ च यातौ तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं देवराजं प्रवृष्टं शरैर्दिव्यैर्वारितं चार्जुनेन ।
अग्निं तथा तर्पितं खाण्डवे च तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं जातुषाद्वेश्मनस्ता- न्मुक्तान्पार्थान्पञ्च कुन्त्या समेतान् ।
युक्तं चैषां विदुरं स्वार्थसिद्ध्यै तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं द्रौपदीं रङ्गमध्ये लक्ष्यं भित्त्वा निर्जितामर्जुनेन ।
शूरान्पञ्चालान्पाण्डवेयांश्च युक्तां- स्तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं मागधानां वरिष्ठं जरासन्धं क्ष्वमध्ये ज्वलन्तम् ।
दोर्भ्यां हतं भीमसेनेन गत्वा तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं दिग्जये पाण्डुपुत्रै- र्वशीकृतान्भूमिपालान्प्रसह्य ।
महाक्रतुं राजसूयं कृतं च तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं द्रौपदीमश्रुकण्ठीं सभां नीतां दुःखितामेकवस्त्राम् ।
रजस्वलां नाथवतीमनाथव- त्तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं वाससां तत्र राशिं समाक्षिपत्कितवो मन्दबुद्धिः ।
दुःशासनो गतवान्नैवं चान्तं तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं हृतराज्यं युधिष्ठिरं पराजितं सौबलेनाक्षवत्याम् ।
अन्वागतं भ्रातृभिरप्रमेयै- स्तदा नाशंसे विजयाय संजय ॥
यदाश्रौषं विविधास्तत्र चेष्टा धर्मात्मनां प्रस्थितानां वनाय ।
ज्येष्ठप्रीत्या क्लिश्यतां पाण्डवानां तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं स्नातकानां सहस्रै- रन्वागतं धर्मराजं वनस्थम् ।
भिक्षाभुजां ब्राह्मणानां महात्मनां तदा नाशंसे विजयाय संजय ॥
`यदाऽश्रौषं वनवासेन पार्था- न्समागतान्महर्षिभिः पुराणैः ।
उपास्यमानान्सगणैर्जातसख्यां- स्तदा नाशंसे विजयाय संजर्य ॥'
यदाश्रौषं त्रिदिवस्थं धनंजयं शक्रात्साक्षाद्दिव्यमस्त्रं यथावत् ।
अधीयानं शंसितं सत्यसन्धं तदा नाशंसे विजयाय संजय ॥
यदाऽश्रोषं कालकेयास्ततस्ते पौलोमानो वरदानाच्च दृप्ताः ।
देवैरजेया निर्जिताश्चार्जुनेन तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषमसुराणां वधार्थे किरीटिनं यान्तममित्रकर्शनम् ।
कृतार्थं चाप्यागतं शक्रलोका- त्तदा नाशंसे विजयाय संजय ॥
`यदाऽश्रौषं तीर्थयात्राप्रवृत्तं पाण्डोः सुतं सहितं लोमशेन ।
बृहदश्वादक्षहृदयं च प्राप्तं तदा नाशंसे विजयाय संजय ॥'
यदाऽश्रौषं वैश्रवणेन सार्धं समागतं भीमन्यांश्च पार्थान् ।
तस्मिन्देशे मानुषाणामगम्ये तदा नाशंसि विजयाय संजया ॥
यदाऽश्रौषं घोषयात्रागतानां बन्धं गन्धर्वैर्मोक्षणं चार्जुनेन ।
स्वेषां सुतानां कर्णबुद्धौ रतानां तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं यक्षरूपेण धर्मं समागतं धर्मराजेन सूत ।
प्रश्नान्कांश्चिद्विब्रुवाणं च सम्यक् तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं न विदुर्मामकास्तान् प्रच्छन्नरूपान्वसतः पाण्डवेयान् ।
विराटराष्ट्रे सह कृष्णया च तदा नाशंसे विजयाय संजय ॥
`यदाऽश्रौषं कीचकानां वरिष्ठं निषूदितं भ्रातृशतेन सार्धम् ।
द्रौपद्यर्थे भीमसेनेन सङ्ख्ये तदा नाशंसे विजयाय संजय ॥'
यदाऽश्रौषं मामकानां वरिष्ठा- न्धनंजयेनैकरथेन भग्नान् ।
विराटराष्ट्रे वसता महात्मना तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं सत्कृतं मत्स्यराज्ञा सुतां दत्तामुत्तरामर्जुनाय ।
तां चार्जुनः प्रत्यगृह्णात्सुतार्थे तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं निर्जितस्याधनस्य प्रव्राजितस्य स्वजनात्प्रच्युतस्य ।
अक्षौहिणीः सप्त युधिष्ठिरस्य तदा नाशंसे विजयाय संजय ॥ 196 ॥
यदाऽश्रौषं माधवं वासुदेवं सर्वात्मना पाण्डवार्थे निविष्टम् ।
यस्येमां गां विक्रममेकमाहु- स्तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं नरनारायणौ तौ कृष्णार्जुनौ वदतो नारदस्य ।
अहं द्रष्टा ब्रह्मलोके च सम्यक् तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं लोकहिताय कृष्णं शमार्थिनमुपयातं कुरूणाम् ।
शमं कुर्वाणमकृतार्थं च यातं तदा नाशंसे विजयाय संजय ॥ 199 ॥
यदाऽश्रौषं कर्णदुर्योधनाभ्यां बुद्धिं कृतां निग्रहे केशवस्य ।
तं चात्मानं बहुधा दर्शयानं तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं वासुदेवे प्रयाते रथस्यैकामग्रतस्तिष्ठमानाम् ।
आर्तां पृथां सान्त्वितां केशवेन तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं मन्त्रिणं वासुदेवं तथा भीष्मं शान्तनवं च तेषाम् ।
भारद्वाजं चाशिषोऽनुब्रुवाणं तदा नाशंसे विजयाय संजय ॥
यदा कर्णो भीष्ममुवाच वाक्यं नाहं योत्स्ये युध्यमाने त्वयीति ।
हित्वा सेनामपचक्राम चापि तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं वासुदेवार्जुनौ तौ तथा धनुर्गाण्डिवमप्रमेयम् ।
त्रीण्युग्रवीर्याणि समागतानि तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं कश्ललेनाभिपन्ने रथोपस्थे सीदमानेऽर्जुने वै ।
कृष्णं लोकान्दर्शयानं शरीरे तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं भीष्ममित्रकर्शनं निघ्नन्तमाजावयुतं रथानाम् ।
नैषां कश्चिद्वध्यते ख्यातरूप- स्तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं चापगेयेन सङ्ख्ये स्वयं मृत्युं विहितं धार्मिकेण ।
तच्चाकार्षुः पाण्डवेयाः प्रहृष्टा- स्तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं भीष्ममत्यन्तशूरं हतं पार्थेनाहवेष्वप्रधृष्यम् ।
शिखण्डिनं पुरतः स्थापयित्वा तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं शरतल्पे शयानं वृद्धं वीरं सादितं चित्रपुङ्खैः ।
भीष्मं कृत्वा सोमकानल्पशेषां- स्तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं शान्तनवे शयाने पानीयार्थे चोदितेनार्जुनेन ।
भूमिं भित्त्वा तर्पितं तत्र भीष्मं तदा नाशंसे विजयाय संजय ॥
यदाश्रौषं शुक्रसूर्यौ च युक्तौ कौन्तेयानामनुलोमौ जयाय ।
नित्यं चास्माञ्श्वापदा भीषयन्ति तदा नाशंसे विजयाय संजय ॥
यदा द्रोणो विविधानस्त्रमार्गा- न्निदर्शयन्समरे चित्रयोधी ।
न पाण्डवाञ्श्रेष्ठतरान्निहन्ति तदा नाशंसे विजयायं संजय ॥
यदाऽश्रौषं चास्मदीयान्महारथा- न्व्यवस्थितानर्जुनस्यान्तकाय ।
संशप्तकान्निहतानर्जुनेन तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं व्यूहमभेद्यमन्यै- र्भारद्वाजेनात्तशस्त्रेण गुप्तम् ।
भित्त्वा सौभद्रं वीरमेकं प्रविष्टं तदा नाशंसे विजयाय संजय ॥
यदाऽभिमन्युं परिवार्य बालं सर्वे हत्त्वा हृष्टरूपा बभूवुः ।
महारथाः पार्थमशक्नुवन्त- स्तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषमभिमन्युं निहत्य हर्षान्मूढान्क्रोशतो धार्तराष्ट्रान् ।
क्रोधादुक्तं सैन्धवे चार्जुनेन तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं सैन्धवार्थे प्रतिज्ञां प्रतिज्ञातां तद्वधायार्जुनेन ।
सत्यां तीर्णां शत्रुमध्ये च तेन तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं श्रान्तहये धनंजये मुक्त्वा हयान्पाययित्वोपवृत्तान् ।
पुनर्युक्त्वा वासुदेवं प्रयातं तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं वाहनेष्वक्षमेषु रथोपस्थे तिष्ठता पाण्डवेन ।
सर्वान्योधान्वारितानर्जुनेन तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं नागबलैः सुदुःसहं द्रोणानीकं युयुधानं प्रमथ्य ।
यातं वार्ष्णेयं यत्र तौ कृष्णपार्थौ तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं कर्णमासाद्य मुक्तं वधाद्भीमं कुत्सयित्वा वचोभिः ।
धनुष्कोट्याऽऽतुद्य कर्णेन वीरं तदा नाशंसे विजयाय संजय ॥
यदा द्रोणः कृतवर्मा कृपश्च कर्णो द्रौणिर्मद्रराजश्च शूरः ।
अमर्षयन्सैन्धवं वध्यमानं तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं देवराजेन दत्तां दिव्यां शक्तिं व्यंसितां माधवेन ।
घटोत्कचे राक्षसे घोररूपे तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं कर्णघटोत्कचाभ्यां युद्धे मुक्तां सूतपुत्रेण शक्तिम् ।
यया वध्यः समरे सव्यसाची तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं द्रोणमाचार्यमेकं धृष्टद्युम्नेनाभ्यतिक्रम्य धर्मम् ।
रथोपस्थे प्रायगतं विशस्तं तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं द्रौणिना द्वैरथस्थं माद्रीसुतं नकुलं लोकमध्ये ।
समं युद्धे मण्डलेभ्यश्चरन्तं तदा नाशंसे विजयाय संजय ॥
यदा द्रोणे निहते द्रोणपुत्रो नारायणं दिव्यमस्त्रं विकुर्वन् ।
नैषामन्तं गतवान्पाण्डवानां तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं भीमसेनेन पीतं रक्तं भ्रातुर्युधि दुःशासनस्य ।
निवारितं नान्यतमेन भीमं तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं कर्णमत्यन्तशूरं हतं पार्थेनाहवेष्वप्रधृष्यम् ।
तस्मिन्भ्रातृणां विग्रहे देवगुह्ये तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं द्रोणपुत्रं च शूरं दुःशासनं कृतवर्माणमुग्रम् ।
युधिष्टिरं धर्मराजं जयन्तं तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं निहतं मद्रराजं रणे शूरं धर्मराजेन सूत ।
सदा सङ्ग्रामे स्प्रधते यस्तु कृष्णं तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं कलहद्यूतमूलं मायाबलं सौबलं पाण्डवेन ।
हतं सङ्ग्रामे सहदेवेन पापं तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं श्रान्तमेकं शयानं ह्रदं गत्वा स्तम्भयित्वा तदम्भः ।
दुर्योधनं विरथं भग्नशक्तिं तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं पाण्डवांस्तिष्ठमानान् गत्वा ह्रदे वासुदेवेन सार्धम् ।
अमर्षणं धर्षयतः सुतं मे तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं विविधांश्चित्रमार्गान् गदायुद्धे मण्डलशश्चरन्तम् ।
मिथ्या हतं वासुदेवस्य बुद्ध्या तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं द्रोणपुत्रादिभिस्तै- र्हतान्पञ्चालान्द्रौपदेयांश्च सुप्तान् ।
कृतं बीभत्समयशस्यं च कर्म तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं भीमसेनानुयाते- नाश्वत्थाम्ना परमास्त्रं प्रयुक्तम् ।
क्रुद्धेनैषीकमवधीद्येन गर्भं तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं ब्रह्मशिरोऽर्जुनेन स्वस्तीत्युक्त्वाऽस्त्रमस्त्रेण शान्तम् ।
अश्वत्थाम्ना मणिरत्नं च दत्तं तदा नाशंसे विजयाय संजय ॥
यदाऽश्रौषं द्रोणपुत्रेण गर्भे वैराट्या वै पात्यमाने महास्त्रैः ।
संजीवयामीति हरेः प्रतिज्ञां तदा नाशंसे विजयाय संजय ॥
द्वैपायनः केशवो द्रोणपुत्रं परस्पेरणाभिशापैः शशाप ।
बुद्ध्वा चाहं बुद्धिहीनोऽद्य सूत संतप्ये वै पुत्रपौत्रैश्च हीनः ॥
शोच्या गान्धारी पुत्रपौत्रैर्विहीना तथा वध्वा पितृभिर्भ्रातृभिश्च ।
कृतं कार्यं दुष्करं पाण्डवेयैः प्राप्तं राज्यमसपत्नं पुनस्तैः ॥
कष्टं युद्धे दश शेषाः श्रुता मे त्रयोऽस्माकं पाण्डवानां च सप्त ।
द्व्यूना विंशतिराहताऽक्षौहिणीनां तस्मिन्सङ्ग्रामे भैरवे क्षत्रियाणाम् ॥
तमस्त्वतीव विस्तीर्णं मोह आविशतीव माम् ।
संज्ञां नोपलभे सूत मनो विह्वलतीव मे ॥
सौतिरुवाच ।
इत्युक्त्वा धृतराष्ट्रोऽथ विलप्य बहु दुःखितः ।
मूर्च्छितः पुनराश्वस्तः संजयं वाक्यमब्रवीत् ॥
धृतराष्ट्र उवाच ।
संजयैवं गते प्राणांस्त्यक्तुमिच्छामि मा चिरम् ।
स्तोकं ह्यपि न पश्यामि फलं जीवितधारणे ॥
सौतिरुवाच ।
तं तथा वादिनं दीनं विलपन्तं महीपतिम् ।
निःश्वसन्तं यथा नागं मुह्यमानं पुनः पुनः ॥
गावल्गणिरिदं धीमान्महार्थं वाक्यमब्रवीत् ।
संजय उवाच ।
श्रुतवानसि वै राजन्महोत्साहान्महाबलान् ॥
द्वैपायनस्य वदतो नारदस्य च धीमतः ।
महत्सु राजवंशेषु गुणैः समुदितेषु च ॥
जातान्दिव्यास्त्रविदुषः शक्रप्रतिमतेजसः ।
धर्मेण पृथिवीं जित्वा यज्ञैरिष्ट्वाप्तदक्षिणैः ॥
अस्मिँल्लोके यशः प्राप्य ततः कालवशं गतान् ।
शैब्यं महारथं वीरं सृंजयं जयतां वरम् ॥
सुहोत्रं रन्तिदेवं च काक्षीवन्तमतौशिजम् ।
बाह्लीकं दमनं चैद्यं शर्यातिमजितं नलम् ॥
विश्वामित्रममित्रघ्नमम्बरीषं महाबलम् ।
मरुत्तं मनुमिक्ष्वाकुं गयं भरतमेव च ॥
रामं दाशरथिं चैव शशबिन्दुं भगीरथम् ।
कृतवीर्यं महाभागं तथैव जनमेजयम् ॥
ययातिं शुभकर्माणं देवैर्यो याजितः स्वयम् ।
`चैत्ययूपाङ्किता भूमिर्यस्येयं सवनाकरा ॥
इति राज्ञां चतुर्विंशन्नारदेन सुरर्षिणा ।
पुत्रशोकाभितप्ताय पुरा श्वैत्याय कीर्तितम् ॥
तेभ्यश्चान्ये गताः पूर्वं राजानो बलवत्तराः ।
महारथा महात्मानः सर्वैः समुदिता गुणैः ॥
पूरुः कुरुर्यदुः शूरो विष्वगश्वो महाद्युतिः ।
अणुहो युवनाश्वश्च ककुत्स्थो विक्रमी रघुः ॥
विजयो वीतिहोत्रोऽह्गो भवः श्वेतो बृहद्गुरुः ।
उशीनरः शतरथः कङ्को दुलिदुहो द्रुमः ॥
दम्भोद्भवः परो वेनः सगरः संकृतिर्निमिः ।
अजेयः परशुः पुण्ड्रः शंभुर्देवावृधोऽनघः ॥
देवाह्वयः सुप्रतिमः सुप्रतीको बृहद्रथः ।
महोत्साहो विनीतात्मा सुक्रतुर्नैषधो नलः ॥
सत्यव्रतः शान्तभयः सुमित्रः सुबलः प्रभुः ।
जानुजङ्घोऽनरण्योऽर्कः प्रियभृत्यः शुचिव्रतः ॥
बलबन्धुर्निरामर्दः केतुशृङ्गो बृहद्बलः ।
धृष्टकेतुर्बृहत्केतुर्दीप्तकेतुर्निरामयः ॥
अविक्षिच्चपलो धूर्तः कृतबन्धुर्दृढेषुधिः ।
महापुराणसंभाव्यः प्रत्यङ्गः परहा श्रुतिः ॥
एते चान्ये च राजानः शतशोऽथ सहस्रशः ।
श्रूयन्ते शतशश्चान्ये सङ्ख्याताश्चैव पद्मशः ॥
हित्वा सुविपुलान्भोगान्बुद्धिमन्तो महाबलाः ।
राजानो निधनं प्राप्तास्तव पुत्रैर्महत्तरः ॥
येषां दिव्यानि कर्माणि विक्रमस्त्याग एव च ।
माहात्म्यमपि चास्तिक्यं सत्यं शौचं दयाऽर्जवम् ॥
विद्वद्भिः कथ्यते लोके पुराणैः कविसत्तमैः ।
सर्वर्द्धिगुणसंपन्नास्ते चापि निधनं गताः ॥
तव पुत्रा दुरात्मानः प्रतप्ताश्चैव मन्युना ।
लुब्धा दुर्वृत्तभूयिष्ठा न ताञ्छोचितुमर्हसि ॥
श्रुतवानसि मेधावी बुद्धिमान्प्राज्ञसंमतः ।
येषां शास्त्रानुगा बुद्धिर्न ते मुह्यन्ति भारत ॥
निग्रहानुग्रहौ चापि विदितौ ते नराधिप ।
नात्यन्तमेवानुवृत्तिः कार्या ते पुत्ररक्षणे ॥
भवितव्यं तथा तच्च नानुशोचितुमर्हसि ।
दैवं पुरुषकारेण को निवर्तितुमर्हति ॥
विधातृविहितं मार्गं न कश्चिदतिवर्तते ।
कालमूलमिदं सर्वं भावाभावौ सुखासुखे ॥
कालः सृजति भूतानि कालः संहरते प्रजाः ।
संहरन्तं प्रजाः कालं कालः शमयते पुनः ॥
कालो विकुरुते भावान्सर्वांल्लोके शुभाशुभान् ।
कालः संक्षिपते सर्वाः प्रजा विसृजते पुनः ॥
कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः ।
कालः सर्वेषु भूतेषु चरत्यविधतः समः ॥
अतीतानागता भावा ये च वर्तन्ति सांप्रतम् ।
तान्कालनिर्मितान्बुद्ध्वा न संज्ञां हातुमर्हसि ॥
सौतिरुवाच ।
इत्येवं पुत्रशोकार्तं धृतराष्ट्रं जनेश्वरम् ।
आश्वास्य स्वस्थमकरोत्सूतो गावल्गणिस्तदा ॥
धृतराष्ट्रोऽपि तच्छ्रुत्वा धृतिमेव समाश्रयत् ।
दिष्ट्येदमागतमिति मत्त्वा स प्राज्ञसत्तमः ॥
लोकानां च हितार्थाय कारुण्यान्मुनिसत्तमः ।
अत्रोपनिषदं पुण्यां कृष्णद्वैपायनोऽब्रवीत् ॥
विद्वद्भिः कथ्यते लोके पुराणे कविसत्तमैः । भारताध्ययनं पुण्यमपि पादमधीयतः ।
श्रद्दधानस्य पूयन्ते सर्वपापान्यशेषतः ॥
देवा देवर्षयो ह्यत्र तथा ब्रह्मर्षयोऽमलाः ।
कीर्त्यन्ते शुमकर्माणस्तथा यक्षा महोरगाः ॥
भगवान्वासुदेवश्च कीर्त्यतेऽत्र सनातनः ।
स हि सत्यमृतं चैव पवित्रं पुण्यमेव च ॥
शाश्वतं ब्रह्म परमं ध्रुवं ज्योतिः सनातनम् ।
यस्य दिव्यानि कर्माणि कथन्ति मनीषिणः ॥
असत्सत्सदसच्चैव यस्माद्विश्वं प्रवर्तते ।
सन्ततिश्च प्रवृत्तिश्च जन्ममृत्युपुनर्भवाः ॥
अध्यात्मं श्रूयतें यत्र पञ्चभूतगुणात्मकम् ।
अव्यक्तादि परं यच्च स एव परिगीयते ॥
यं ध्यायन्ति सदा मुक्ता ध्यानयोगबलान्विताः ।
प्रतिबिम्बमिवादर्शे पश्यन्त्यात्मन्यवस्थितम् ॥
श्रद्दधानः सदा युक्तः सदा धर्मपरायणः ।
आसेवन्निममध्यायं नरः पापात्प्रमुच्यते ॥
अनुक्रमणिकाध्यायं भारतस्येममादितः ।
आस्तिकः सततं शृण्वन्न कृच्छ्रेष्ववसीदति ॥
उभे सन्ध्ये जपन्किंचित्सद्यो मुच्येत किल्बिषात् ।
अनुक्रमण्या यावत्स्यादह्नारात्र्या च संचितम् ॥
भारतस्य वपुर्ह्येतत्सत्यं चामृतमेव च ।
नवनीतं यथा दध्नो द्विपदां ब्राह्मणो यथा ॥
आरण्यकं च वेदेभ्य ओषधिभ्योऽमृतं यथा ।
ह्रदानामुदधिः श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम् ॥
यथैतानीतिहासानां तथा भारतमुच्यते ।
यश्चैनं श्रावयेच्छ्राद्धे ब्राह्मणान्पादमन्ततः ॥
अक्षय्यमन्नपानं वै पितृंस्तस्योपतिष्ठते ।
इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् ॥
बिभेत्यल्पश्रुताद्वेदो मामयं प्रतरिष्यति ।
कार्ष्णं वेदमिमं विद्वाञ्श्रावयित्वार्थमश्नुते ॥
भ्रूणहत्यादिकं चापि पापं जह्यादसंशयम् ।
य इमं शुचिरध्यायं पठेत्पर्वणि पर्वणि ॥
अधीतं भारतं तेन कृत्स्नं स्यादिति मे मतिः ।
यश्चैनं शृणुयान्नित्यमार्षं श्रद्धासमन्वितः ॥
स दीर्घमायुः कीर्तिं च स्वर्गतिं चाप्नुयान्नरः ।
एकतश्चतुरो वेदा भारतं चैतदेकतः ॥
पुरा किल सुरैः सर्वैः समेत्य तुलया धृतम् ।
चतुर्भ्यः सरहस्येभ्यो वेदेभ्यो ह्यधिकं यदा ॥
तदाप्रभृति लोकेऽस्मिन्महाभारतमुच्यते ।
महत्त्वे च गुरुत्वे च ध्रियमाणं यतोऽधिकम् ॥
महत्त्वाद्भारवत्त्वाच्च महाभारतमुच्यते ।
निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते ॥
तपो नकल्कोऽध्ययनं नकल्कः स्वाभाविको वेदविधिर्नकल्कः ।
प्रसह्य वित्ताहरणं नकल्क- स्तान्येव भावोपहतानि कल्कः ॥

इति श्रीमन्माहाभारते आदिपर्वणि अनुक्रमणिकापर्वणि प्रथमोऽध्यायः ॥ 1 ॥ ॥ अनुक्रमणिकापर्व समाप्तम् ॥

1-1-1 श्रीलक्ष्मीनृसिंहाय नमः ॥ श्रीहयग्रीवाय नमः ॥ श्रीवेदव्यासाय नमः ॥ इह खलु भगवान्पाराशर्यः परमकारुणिको म्दमतीननुग्रहीतुं चतुर्दशविद्यास्थानान्येकत्र दिदर्शयिषुर्महाभारताख्यमितिहासं प्रणेष्यन्प्रारिप्सितस्य निष्प्रत्यूहारिपूरणाय प्रचयगमनाय च मङ्गलं रचयन् शिष्यशिक्षायै लोकरूपेम निबघ्नन्नर्यात्तत्र प्रेक्षावत्प्रवृत्त्यङ्गमभिधेयादि दर्शयति ॥ नारायणमिति ॥ नरोत्तमं पुरुषोत्तमं नारायणं नरं देवी सरस्वतीं (व्यासं) चैव नमस्कृत्य जयं भारताख्यमितिहासं उदीरयेत् ॥ 1-1-2 लक्षालङ्कारव्याख्यानरीत्यायमाद्यः श्लोकः ॥ 1-1-3 कतिपयकोशरीत्यायस्पद्यः ॥ 3 ॥ 1-1-5 रोमहर्षणपुत्रः रोमाणि हर्षयाञ्चके श्रोतॄणा यः स्वभाषितैः । कर्मणा प्रथितस्तेन रोमहर्षणसंज्ञया । इति कौर्मे निरुक्तार्थनाम्नः पुत्रः । अग्रश्रवाः उग्रस्य नृसिंहस्य श्रवः श्रवणं यस्य सः । पौराणिकः पुराणे कृतश्रमः । नैमिशारण्ये वायवीये । एतन्मनोमयं चक्रं मया सृष्टं विसृज्यते । यत्रास्य शीर्यते नेमिः स देशस्तपसः शुभः । इत्युक्त्वा सूर्यसंकाशं चक्रं सृष्ट्वा मनोमयम् । प्रणिपत्य महादेवं विससर्ज पितामहः । तेपि हृष्टतरा विप्राः प्रणम्य जगतां प्रभुम्. प्रययुस्तस्य चक्रस्य यत्र नेमिर्व्यशीर्यत । तद्वनं तेन विख्यातं नैमिशं मुनिपूजितम् । इति उक्तरूपे । नैमिषेति पाठे तु वाराहे । एवं कृत्वा ततो देवो मुनि गौरमुखं तदा । उवाच निमिषेणेदं निहतं दानवं बलं । अरण्येऽस्मिंस्ततस्त्वेतन्नैमिषारण्यसंज्ञितं । इति निर्वचनं द्रष्टव्यं । शुनकस्य मुनेरपत्यं शौनकः । कुलपतेः । एको दशसहस्राणि योऽन्नदानादिना भरेत् । स वै कुलपतिः इत्युक्तलक्षणस्य । सत्रे ये यजमानास्तएव ऋत्विजो यस्मिन्बहुकर्तृके क्रतौ स सत्रसंज्ञ तस्मिन् ॥ 5 ॥ 1-1-7 नैमिशारण्यवासिनः तान्सर्वानृषीनुवाचेत्यन्वयः ॥ 7 ॥ 1-1-8 अहं तपोधनाः सिकीः सर्वाः कथा वेद जानामि ॥ 8 ॥ 1-1-11 निर्दिष्टं इहोपविश्यतामिति दर्शितम् ॥ 11 ॥ 1-1-12 प्रस्तावयन् उपोद्धातयन् ॥ 12 ॥ 1-1-13 विहृतः नीतः ॥ 13 ॥ 1-1-14 तेषां मुनीनां चादन्येषां राजादीनां च यानि चरितानि तेषामाश्रयभूतम् । भावितात्मनां शोधितचित्तानाम् ॥ 14 ॥ 1-1-18 समन्तपञ्चकं समन्तात् पञ्चकं परशुरामकृतहृदपञ्चकं यस्मिंस्तत् । स्यमन्तपञ्चकमित्यपि पाठो दृश्यते ॥ 18 ॥ 1-1-21 ब्रवीमि किमहं द्विजाः अहं च पुराणादिष्वन्यतमं किं ब्रवीमि तदाज्ञापयतेति शेषः ॥ 21 ॥ 1-1-25 संस्कारोपगतां पदादिव्युत्पत्तिमतीम् । ब्राह्मो वाचं । ब्राह्मी तु भारती भाषेत्यमरः ॥ 25 ॥ 1-1-28 मङ्गलाचरणपूर्वकं मुनिभिः प्रार्थितमर्थं वक्तुं प्रतिजानीते आद्यमित्यदिचतुर्भिः । हरिं नमस्कृत्य महर्षेर्मतं प्रवक्ष्यामीत्यन्वयः । पुरुहूतं पुरुभिर्बहुभिर्होतृभिः हूतं आहूतं । पुरुभिः सामगैः स्तुतं । ऋतं सत्यं । एकश्चासावक्षरश्च तं । एकं अद्वितीयं समाधिकरहितमिति वा । अक्षरं नाशरहितं । व्यख्यव्यक्तं रामकृष्णादिरूपेण दृश्यं । ज्ञानानन्दादिरूपेण मन्देरदृश्यं ॥ 28 ॥ 1-1-30 मङ्गल्यं मङ्गलप्रदं ॥ 30 ॥ 1-1-36 ज्ञानं ज्ञानसाधनं इदं भारत त्रिषु लोकेषु प्रतिष्ठितम् ॥ 36 ॥ 1-1-37 समयैः संकेतैः । छन्दोवृत्तैः त्रिष्टुबादिछन्दोन्तीतैरिन्द्रवज्रादिभिर्वृत्तैः ॥ 37 ॥ 1-1-45 यस्मिन् ब्रह्माण्डे ॥ 45 ॥ 1-1-52 प्रतिकल्पं सृष्टेः समाननामरूपत्वमाह यथेति ॥ 52 ॥ 1-1-53 कल्पानामानन्त्यमाह एवमिति ॥ 53 ॥ 1-1-54 एवं जडसृष्टिमुक्त्वा चेतनसृष्टिमाह त्रयन्निंशदिति ॥ 54 ॥ 1-1-61 भूतस्थानानि नृणां वासस्थानानि नगरादीनि ॥ 61 ॥ 1-1-64 इह सर्वमनुकान्तं अनुकमेण उक्तं ॥ 64 ॥ 1-1-65 समासः सङ्क्षेपः । व्यासो विस्तारः ॥ 65 ॥ 1-1-66 भारतारम्भे मतभेदमाह मन्वादीति । मन्वादि मनुर्मन्त्रः नारायणं नमस्कृत्येति । ॐ नमो भगवते वासुदेवायेति वा तदादि । प्रस्तीकं आस्तीकचरितं तदादि । उपरिचरो वसुः तच्चरितादि वा ॥ 66 ॥ 1-1-67 बह्वर्थत्वाद्विविधं संहिताज्ञानं दीपयन्ति प्रकाशयन्ति ॥ 67 ॥ 1-1-69 महुः सत्यवत्याः । गाङ्गेयस्य भीष्मस्य ॥ 69 ॥ 1-1-70 क्षत्र भार्यासु अम्बिकादिषु ॥ 70 ॥ 1-1-71 परमां गतिं मृत्युं ॥ 71 ॥ 1-1-73 शशासं त्वममन् भारतं श्रावयेत्याज्ञापितवान् ॥ 73 ॥ 1-1-84 वसोः अपत्यं स्त्री वास्त्री तस्याः अपत्यं वासवेयो व्यासः ॥ 84 ॥ 1-1-85 कृष्णो व्यासः ॥ 85 ॥ 1-1-98 विशेषणे अतिशायने ॥ 98 ॥ 1-1-104 विटङ्काः पक्ष्युपवेशनस्थानानि ॥ 104 ॥ 1-1-105 सारो मज्जा ॥ 105 ॥ 1-1-106 विश्रामः छाया ॥ 106 ॥ 1-1-108 आश्रमस्थानसंश्रयः आश्रमवासिकस्यण्डिलः । मौसलश्रुतिसंक्षेपः मौसलादिग्रन्थः श्रुतिस्थानीयदीर्घशाखान्तः ॥ 108 ॥ 1-1-112 यतः यत्र देशे ॥ 112 ॥ 1-1-115 अबुद्ध्वा अर्थमिति शेषः । ओमित्यङ्गीकारे ॥ 115 ॥ 1-1-116 अन्थग्रन्थिं ग्रन्थे दुर्भेद्यस्थानं ॥ 116 ॥ 1-1-131 कृच्छ्रां आपदं व्यवायकाले मरिष्यसीत्येवं शापरूपां । तत्र आपदि एवं सत्यामपि पार्थानां पाण्डवानां जन्मप्रभृति आचारविधिक्रमः अभूदिति शेषः ॥ 131 ॥ 1-1-132 आचारविधिक्रममेवाह । मात्रोरिति । मात्रोः कुन्तीमाद्योः । धर्मोपनिषदं प्रति आपदि अपत्यार्थे विशिष्टः पुमान्प्रार्थनीय इत्येवरूपं धर्मरहस्यं प्रति । अभ्युपपत्तिः अङ्गीकारः ॥ 132 ॥ 1-1-137 धार्तराष्ट्रान्धृतराष्ट्रसंबन्धिगृहान् ॥ 137 ॥ 1-1-142 अन्तर्हितानां भूतानां निःस्वनः पाण्डुपुत्रा एवैते इत्येवंरूपा अशरीरवाक् ॥ 142 ॥ 1-1-148 भर्तारं स्वयमेव वृणुत इति भर्तृस्वयंवरां ॥ 148 ॥ 1-1-150 राज्ञो युधिष्ठिरस्य ॥ 150 ॥ 1-1-157 अनभिजातवत् ग्रामीणवत् ॥ 157 ॥ 1-1-160 धृतराष्ट्रो यद्विवादानन्वमोदत यच्चानयानुपैक्षत तस्माद्वासुदेवस्य कोपः समभवत् ॥ 160 ॥ 1-1-161 दहन् अदहत् ॥ 161 ॥ 1-1-173 प्रवृष्टं वर्षणे प्रवृत्तं ॥ 173 ॥ 1-1-181 चेष्टाः बाहुवीक्षणाद्याः ॥ 181 ॥ 1-1-182 स्नातकानां समापितविद्याव्रतानां ब्राह्मणानां ॥ 182 ॥ 1-1-185 शंसितं प्रशस्यं ॥ 185 ॥ 1-1-197 इमां गां पृथिवीं यस्य वासुदेवस्य एकं विक्रमं पदमात्रमाहुः ॥ 197 ॥ 1-1-198 यौ नरनारायणौ ब्रह्मलोके अहं द्रष्टा अद्राक्षं तौ कृष्णार्जुनौ अर्जुनकृष्णौ इति वदतो नारदस्य नारदात् ॥ 198 ॥ 1-1-200 बहुधा विश्वरूपत्वेन ॥ 200 ॥ 1-1-202 तेषां पाण्डवानां ॥ 202 ॥ 1-1-209 सोमकानेव अल्पशेषान्कृत्वा ॥ 209 ॥ 1-1-210 चोदितमर्जुनं च । गां भित्त्वाम्बो वारुणेनाददाने इति पाठान्तरं ॥ 210 ॥ 1-1-223 व्यंसितां व्यर्थीकृतां ॥ 223 ॥ 1-1-237 क्रुद्धेनैषीकं चावधीद्यन्न गर्भं इति पाठान्तरम् ॥ 1-1-280 पूयन्ते नश्यन्ति ॥ 280 ॥ 1-1-294 कार्ष्णं कृष्णेन व्यासेन प्रोक्तं ॥ 294 ॥ 1-1-301 ननु वेदेभ्यः कथमिदमधिकं अत्र युद्धप्रधानानां कर्मणां बन्धनहेतूनां कथनादुपनिषदि तावन्मोक्षसाधनानां धर्माणां ब्रह्मणश्च प्रतिपादनादिति चेत्तत्राह । तप इति । तपः कृच्छ्रचान्द्रायणादि नकल्कः पापनाशकं । स्वाभाविकः स्वस्ववर्णाश्रमादिपुरस्कारेण विहितः । वेदविधिः वेदोक्तो विधिः सन्ध्योपासनादिः । प्रसह्य प्रकर्षेण सोढ्वा क्षुधादिदुःखमपि सोढ्वा । वित्तस्य आहरणं शिलोञ्छादिना अर्जनं । तान्येव तपआदीन्येव भावेन फलानुसन्धानेन उपहतानि प्रतिषिद्धानि । कल्कः पापहेतुः । तथाचात्रापि मोक्षधर्मादिषु तत्रतत्र निष्कामकर्मणां प्रतिपादनं ब्रह्मनिरूपणं चास्त्येव । अतो वेदादप्युत्तमं भारतं ॥ 301 ॥ इति टिप्पणे प्रथमोऽध्यायः ॥ 1 ॥

अध्यायः 002

(अथ पर्वसंग्रहपर्व ॥ 2 ॥)

समन्तपञ्चकाख्यानं ॥ 1 ॥ अक्षौहिण्यादिपरिमाण ॥ 2 ॥ आदिपर्वादिसर्वपर्वणां संक्षेपेण वृत्तान्तकथनं ॥ 3 ॥ नारतश्रवणफलकथनं ॥ 4 ॥

ऋषय ऊचुः ।
समन्तपञ्चकमिति यदुक्तं सूतनन्दन ।
एतत्सर्वं यथातत्त्वं श्रोतुमिच्छामहे वयम् ॥
सौतिरुवाच ।
शृणुध्वं मम भो विप्रा ब्रुवतश्च कथाः शुभाः ।
समन्तपञ्चकाख्यं च श्रोतुमर्हथ सत्तमाः ॥
त्रेताद्वापरयोः सन्धौ रामः शस्त्रभृतां वरः ।
असकृत्पार्थिवं क्षत्रं जघानामर्षचोदितः ॥
स सर्वं क्षत्रमुत्साद्य स्ववीर्येणानलद्युतिः ।
समन्तपञ्चके पञ्च चकार रुधिरह्रदान् ॥
स तेषु रुधिराम्भःसु ह्रदेषु क्रोधमूर्च्छितः ।
पितॄन्संतर्पयामास रुधिरेणेति नः श्रुतम् ॥
अथर्चीकादयोऽभ्येत्य पितरो राममब्रुवन् ।
राम राम महाभाग प्रीताः स्म तव भार्गव ॥
अनया पितृभक्त्या च विक्रमेण तव प्रभो ।
वरं वृणीष्व भद्रं ते यमिच्छसि महाद्युते ॥
राम उवाच ।
यदि मे पितरः प्रीता यद्यनुग्राह्यता मयि ।
यच्च रोषाभिभूतेन क्षत्रमुत्सादितं मया ॥
अतश्च पापान्मुच्येऽहमेष मे प्रार्थितो वरः ।
ह्रदाश्च तीर्थभूता मे भवेयुर्भुवि विश्रुताः ॥
एवं भविष्यतीत्येवं पितरस्तमथाब्रुवन् ।
तं क्षमस्वेति निषिषिधुस्ततः स विरराम ह ॥
तेषां समीपे यो देशो ह्रदानां रुधिराम्भसाम् ।
समन्तपञ्चकमिति पुण्यं तत्परिकीर्तितम् ॥
येन लिङ्गेन यो देशो युक्तः समुपलक्ष्यते ।
तेनैव नाम्ना तं देशं वाच्यमाहुर्मनीषिणः ॥
अन्तरे चैव संप्राप्ते कलिद्वापरयोरभूत् ।
समन्तपञ्चके युद्धं कुरुपाण्डवसेनयोः ॥
तस्मिन्परमधर्मिष्ठे देशे भूदोषवर्जिते ।
अष्टादश समाजग्मुरक्षौहिण्यो युयुत्सया ॥
समेत्य तं द्विजास्ताश्च तत्रैव निधं गताः ।
एतन्नामाभिनिर्वृत्तं तस्य देशस्य वै द्विजाः ॥
पुण्यश्च रमणीयश्च स देशो वः प्रकीर्तितः ।
तदेतत्कथितं सर्वं मया ब्राह्मणसत्तमाः ॥
यथा देशः स विख्यातस्त्रिषु लोकेषु सुव्रताः ॥
ऋषय ऊचुः ।
अक्षौहिण्य इति प्रोक्तं यत्त्वया सूतनन्दन ।
एतदिच्छामहे श्रोतुं सर्वमेव यथातथम् ॥
अक्षौहिण्याः परीमाणं नराश्वरथदन्तिनाम् ।
यथावच्चैव नो ब्रूहि सर्वं हि विदितं तव ॥
सौतिरुवाच ।
एको रथो गजश्चैको नराः पञ्च पदातयः ।
त्रयश्च तुरगास्तज्ज्ञैः पत्तिरित्यभिधीयते ॥
पत्तिं तु त्रिगुणामेतामाहुः सेनामुखं बुधाः ।
त्रीणि सेनामुखान्येको गुल्म इत्यभिधीयते ॥
त्रयो गुल्मा गणो नाम वाहिनी तु गणास्त्रयः ।
स्मृतास्तिस्रस्तु वाहिन्यः पृतनेति विचक्षणैः ॥
चमूस्तु पृतनास्तिस्रस्तिस्रश्चम्वस्त्वनीकिनी ।
अनीकिनीं दशगुणां प्राहुरक्षौहिणीं बुधाः ॥
अक्षौहिण्याः प्रसंख्याता रथानां द्विजसत्तमाः ।
संख्यागणिततत्त्वज्ञैः सहस्राण्येकविंशतिः ॥
शतान्युपरि चैवाष्टौ तथा भूयश्च सप्ततिः ।
गजानां च परीमाणमेतदेव विनिर्दिशेत् ॥
ज्ञेयं शतसहस्रं तु सहस्राणि नवैव तु ।
नराणामपि पञ्चाशच्छतानि त्रीणि चानघाः ॥
पञ्च षष्टिसहस्राणि तथाश्वानां शतानि च ।
दशोत्तराणि षट् प्राहुर्यथावदिह संख्यया ॥
एतामक्षौहिणीं प्राहुः संख्यातत्त्वदितो जनाः ।
यां वः कथितवानस्मि विस्तरेण तपोधनाः ॥
एतया संख्यया ह्यासन्कुरुपाण्डवसेनयोः ।
अक्षौहिण्यो द्विजश्रेष्ठाः पिण्डिताष्टादशैव तु ॥
समेतास्तत्र वै देशे तत्रैव निधं गताः ।
कौरवान्कारणं कृत्वा कालेनाद्भुतकर्मणा ॥
अहानि युयुधे भीष्मो दशैव परमास्त्रवित् ।
अहानि पञ्च द्रोणस्तु ररक्ष कुरुवाहिनीम् ॥
अहनी युयुधे द्वे तु कर्णः परबलार्दनः ।
शल्योऽर्धदिवसं चैव गदायुद्धमतः परम् ॥
तस्यैव दिवसस्यान्ते द्रौणिहार्दिक्यगौतमाः ।
प्रसुप्तं निशि विश्वस्तं जघ्नुर्यौधिष्ठिरं बलम् ॥
यत्तु शौनक सत्रे ते भारताख्यानमुत्तमम् ।
जनमेजयस्य तत्सत्रे व्यासशिष्येण धीमता ॥
कथितं विस्तरार्थं च यशो वीर्यं महीक्षिताम् ।
पौष्यं तत्र च पौलोममास्तीकं चादितः स्मृतम् ॥
विचित्रार्थपदाख्यानमनेकसमयान्वितम् ।
प्रतिपन्नं नरैः प्राज्ञैर्वैराग्यमिव मोक्षिभिः ॥
आत्मेव वेदितव्येषु प्रियेष्विव हि जीवितम् ।
इतिहासः प्रधानार्थः श्रेष्ठः सर्वागमेष्वयम् ॥
अनाश्रित्येदमाख्यानं कथा भुवि न विद्यते ।
आहारमनपाश्रित्य शरीरस्येव धारणम् ॥
तदेतद्भारतं नाम कविभिस्तूपजीव्यते ।
उदयतेप्सुभिर्भृत्यैरभिजात इवेश्वरः ॥
इतिहासोत्तमे यस्मिन्नर्पिता बुद्धिरुत्तमा ।
स्वरव्यञ्जनयोः कृत्स्ना लोकवेदाश्रयेव वाक् ॥
तस्य प्रज्ञाभिपन्नस्य विचित्रपदपर्वणः ।
सूक्ष्मार्थन्याययुक्तस्य वेदार्थैर्भूषितस्य च ॥
भारतस्येतिहासस्य श्रूयतां पर्वसंग्रहः ।
पर्वानुक्रमणी पूर्वं द्वितीयः पर्वसंग्रहः ॥
पौष्यं पौलोममास्तीकमादिरंशावतारणम् ।
ततः संभवपर्वोक्तमद्भुतं रोमहर्षणम् ॥
दाहो जतुगृहस्यात्र हैडिम्बं पर्व चोच्यते ।
ततो बकवधः पर्व पर्व चैत्ररथं ततः ॥
ततः स्वयंवरो देव्याः पाञ्चाल्याः पर्व चोच्यते ।
क्षात्रधर्मेण निर्जित्य ततो वैवाहिकं स्मृतम् ॥
विदुरागमनं पर्व राज्यलाभस्तथैव च ।
अर्जुनस्य वने वासः सुभद्राहरणं ततः ॥
सुभद्राहरणादूर्ध्वं ज्ञेया हरणहारिका ।
ततः खाण्डवदाहाख्यं तत्रैव मयदर्शनम् ॥
सभापर्व ततः प्रोक्तं मन्त्रपर्व ततः परम् ।
जरासन्धवधः पर्व पर्व दिग्विजयं तथा ॥
पर्व दिग्विजयादूर्ध्वं राजसूयिकमुच्यते ।
ततश्चार्घाभिहरणं शिशुपालवधस्ततः ॥
द्यूतपर्व ततः प्रोक्तमनुद्यूतमः परम् ।
तत आरण्यकं पर्व किर्मीरवध एवच ॥
अर्जुनस्याभिगमनं पर्व ज्ञेयमतः परम् ।
ईश्वरार्जुनयोर्युद्धं पर्व कैरातसंज्ञितम् ॥
इन्द्रलोकाभिगमनं पर्व ज्ञेयमतः परम् ।
नलोपाख्यानमपि च धार्मिकं करुणोदयम् ॥
तीर्थयात्रा ततः पर्व कुरुराजस्य धीमतः ।
जटासुरवधः पर्व यक्षयुद्धमतः परम् ॥
निवातकवचैर्युद्धं पर्व चाजगरं ततः ।
मार्कण्डेयसमास्या च पर्वानन्तरमुच्यते ॥
संवादश्च ततः पर्व द्रौपदीसत्यभामयोः । घोषयात्रा ततः पर्व ततः प्रायोपवेशनेम् ।
मन्त्रस्य निश्चयं चैव मृगस्वप्नोद्भवं ततः ॥
व्रीहिद्रौणिकमाख्यानमैन्द्रद्युम्नं तथैव च ।
द्रौपदीहरणं पर्व जयद्रथविमोक्षणम् ॥
रामोपाख्यानमत्रैव पर्व ज्ञेयमतः परम् ।
पतिव्रताया माहात्म्यं सावित्र्याश्चैवमद्भुतम् ॥
कुण्डलाहरणं पर्व ततः परमिहोच्यते ।
आरणेयं ततः पर्व वैराटं तदनन्तरम् ॥
पाण्डवानां प्रवेशश्च समयस्य च पालनम् ॥
कीचकानां वधः पर्व पर्व ग्रोग्रहणं ततः ।
अभिमन्योश्च वैराट्याः पर्व वैवाहिकं स्मृतम् ॥
उद्योगपर्व विज्ञेयमत ऊर्ध्वं महाद्भुतम् ।
ततः संजययानाख्यं पर्व ज्ञेयमतः परम् ॥
प्रजागरं तथा पर्व धृतराष्ट्रस्य चिन्तया ।
पर्व सानत्सुजातं वै गुह्यमध्यात्मदर्शनम् ॥
यानसन्धिस्ततः पर्व भगवद्यानमेव च ।
मातलीयमुपाख्यानं चरितं गालवस्य च ॥
सावित्रं वामदेव्यं च वैन्योपाख्यानमेव च ।
जामदग्न्यमुपाख्यानं पर्व षोडशराजकम् ॥
सभाप्रवेशः कृष्णस्य विदुलापुत्रशासनम् ।
उद्योगः सैन्यनिर्याणं विश्वोपाख्यानमेव च ॥
ज्ञेयं विवादपर्वात्र कर्णस्यापि महात्मनः ।
`मन्त्रस्य निश्चयं कृत्वा कार्यस्य समनन्तरम् ॥
श्वेतस्य वासुदेवेन चित्रं बहुकथाश्रयम् ।' निर्याणं च ततः पर्व कुरुपाण्डवसेनयोः ॥
रथातिरथसंख्या च पर्वोक्तं तदनन्तरम् ।
उलूकदूतागमनं पर्वामर्षविवर्धनम् ॥
अम्बोपाख्यानमत्रैव पर्व ज्ञेयमतः परम् ॥
भीष्माभिषेचनं पर्व ततश्चाद्भुतमुच्यते ॥
जम्बूखम्डविनिर्माणं पर्वोक्तं तदनन्तरम् ॥
भूमिपर्व ततः प्रोक्तं द्वीपविस्तारकीर्तनम् ॥
`दिव्यं चक्षुर्ददौ यत्र संजयाय महामुनिः ।' पर्वोक्तं भगवद्गीता पर्व भीष्मवधस्ततः ।
द्रोणाभिषेचनं पर्व संशप्तकवधस्ततः ॥
अभिमन्युवधः पर्व प्रतिज्ञा पर्व चोच्यते ।
जयद्रथवधः पर्व घटोत्कचवधस्ततः ॥
ततो द्रोणवधः पर्व विज्ञेयं लोमहर्षणम् ।
मोक्षो नारायणास्त्रस्य पर्वानन्तरमुच्यते ॥
कर्णपर्व ततो ज्ञेयं शल्यपर्व ततः परम् ।
ह्रदप्रवेशनं पर्व गदायुद्धमतः परम् ॥
सारस्वतं ततः पर्व तीर्थवंशानुकीर्तनम् ।
अत ऊर्ध्वं सुबीभत्सं पर्व सौप्तिकमुच्यते ॥
ऐषीकं पर्व चोद्दिष्टमत ऊर्ध्वं सुदारुणम् ।
जलप्रदानिकं पर्व स्त्रीविलापस्ततः परम् ॥
श्राद्धपर्व ततो ज्ञेयं कुरूणामौर्ध्वदेहिकम् ।
चार्वाकनिग्रहः पर्व रक्षसो ब्रह्मरूपिणः ॥
आभिषेचनिकं पर्व धर्मराजसर्य धीमतः ।
प्रविभागो गृहाणां च पर्वोक्तं तदनन्तरम् ॥
शान्तिपर्व ततो यत्र राजधर्मानुशासनम् ।
आपद्धर्मश्च पर्वोक्तं मोक्षधर्मस्ततः परम् ॥
शुकप्रश्नाभिगमनं ब्रह्मप्रश्नानुशासनम् ।
प्रादुर्भावश्च दुर्वासःसंवादश्चैव मायया ॥
ततः पर्व परिज्ञेयमानुशासनिकं परम् ।
स्वर्गारोहणिकं चैव ततो भीष्मस्य धीमतः ॥
ततोऽश्वमेधिकं पर्व सर्वपापप्रणाशनम् ।
अनुगीता ततः पर्व ज्ञेयमध्यात्मवाचकम् ॥
पर्व चाश्रमवासाख्यं पुत्रदर्शनमेव च ।
नारदागमनं पर्व ततः परमिहोच्यते ॥
मौसलं पर्व चोद्दिष्टं ततो घोरं सुदारुणम् ।
महाप्रस्थानिकं पर्व स्वर्गारोहणिकं ततः ॥
हरिवंशस्ततः पर्व पुराणं खिलसंज्ञितम् ।
विष्णुपर्व शिशोश्चर्या विष्णोः कंसवधस्तथा ॥
भविष्यं पर्व चाप्युक्तं खिलेष्वेवाद्भुतं महत् ।
एतत्पर्वशतं पूर्णं व्यासेनोक्तं महात्मना ॥
यथावत्सूतपुत्रेण रौमहर्षणिना ततः ।
उक्तानि नैमिशारण्ये पर्वाण्यष्टादशैव तु ॥
समासो भारतस्यायमत्रोक्तः पर्वसंग्रहः ।
पौष्यं पौलोममास्तीकमादिरंशावतारणम् ॥
संभवो जतुवेश्माख्यं हिडिम्बबकयोर्वधः ।
तथा चैत्ररथं देव्याः पाञ्चाल्याश्च स्वयंवरः ॥
क्षात्रधर्मेण निर्जित्य ततो वैवाहिकं स्मृतम् ।
विदुरागमनं चैव राज्यलाभस्तथैव च ॥
वनवासोऽर्जुनस्यापि सुभद्राहरणं ततः ।
हरणाहरणं चैव दहनं खाण्डवस्य च ॥
मयस्य दर्शनं चैव आदिपर्वणि कथ्यते ।
पौष्ये पर्वणि माहात्म्यमुत्तङ्कस्योपवर्णितम् ॥
पौलोमे भृगुवंशस्य विस्तारः परिकीर्तितः ।
आस्तीके सर्वनागानां गरुडस्य च संभवः ॥
क्षीरोदमथं चैव जन्मोच्चैःश्रवसस्तथा ।
यजतः सर्पसत्रेण राज्ञः पारिक्षितस्य च ॥
कथेयमभिनिर्वृत्ता भारतानां महात्मनाम् ।
विविधाः संभवा राज्ञामुक्ताः संभवपर्वणि ॥
अन्येषां चैव शूराणामृषेर्द्वैपायनस्य च ।
अंशावतरणं चात्र देवानां परिकीर्तितम् ॥
दैत्यानां दानवानां च यक्षाणां च महौजसाम् ।
नागानामथ सर्पाणां गन्धर्वाणां पतत्त्रिणाम् ॥
अन्येषां चैव भूतानां विविधानां समुद्भवः ।
महर्षेराश्रमपदे कण्वस्य च तपस्विनः ॥
शकुन्तलायां दुष्यन्ताद्भरतश्चापि जज्ञिवान् ।
यस्य लोकेषु नाम्नेदं प्रथितं भारतं कुलम् ॥
वसूनां पुनरुत्पत्तिर्भागीरथ्यां महात्मनाम् ।
शन्तनोर्वेश्मनि पुनस्तेषां चारोहणं दिवि ॥
तेजोंशानां च संपातो भीष्मस्याप्यत्र संभवः ।
राज्यान्निवर्तनं तस्य ब्रह्मचर्यव्रते स्थितिः ॥
प्रतिज्ञापालनं चैव रक्षा चित्राङ्गदस्य च ।
हते चित्राङ्गदे चैव रक्षा भ्रातुर्यवीयसः ॥
विचित्रवीर्यस्य तथा राज्ये संप्रतिपादनम् ।
धर्मस्य नृषु संभूतिरणीमाण्डव्यशापजा ॥
कृष्णद्वैपायनाच्चैव प्रसूतिर्वरदानजा ।
धृतराष्ट्रस्य पाण्डोश्च पाण्डवानां च संभवः ॥
वारणावतयात्रा च मन्त्रो दुर्योधनस्य च ।
कूटस्य धार्तराष्ट्रेण प्रेषणं पाण्डवान्प्रति ॥
हितोपदेशश्च पथि धर्मराजस्य धीमतः ।
विदुरेण कृतो यत्र हितार्थं म्लेच्छभाषया ॥
विदुरस्य च वाक्येन सुरुङ्गोपक्रमक्रिया ।
निषाद्याः पञ्चपुत्रायाः सुप्ताया जतुवेश्मनि ॥
पुरोचनस्य चात्रैव दहनं संप्रकीर्तितम् ।
पाण्डवानां वने घोरे हिडिम्बायाश्च दर्शनम् ॥
तत्रैव च हिडिम्बस्य वधो भीमान्महाबलात् ।
घटोत्कचस्य चोत्पत्तिंरत्रैव परिकीर्तिता ॥
महर्षेर्दर्शनं चैव व्यासस्यामिततेजसः ।
तदाज्ञयैकचक्रायां ब्राह्मणस्य निवेशने ॥
अज्ञातचर्यया वासो यत्र तेषां प्रकीर्तितः ।
बकस्य निधनं चैव नागराणां च विस्मयः ॥
संभवश्चैव कृष्णाया धृष्टद्युम्नस्य चैव ह ।
ब्राह्मणात्समुपश्रुत्य व्यासवाक्यप्रचोदिताः ॥
द्रौपदीं प्रार्थयन्तस्ते स्वयंवरदिदृक्षया ।
पञ्चालानभितो जग्मुर्यत्र कौतूहलान्विताः ॥
अङ्गारपर्णं निर्जित्य गङ्गाकूलेऽर्जुनस्तदा ।
सख्यं कृत्वा ततस्तेन तस्मादेव च शुश्रुवे ॥
तापत्यमथ वासिष्ठमौर्वं चाख्यानमुत्तमम् ।
भ्रातृभिः सहितः सर्वैः पञ्चालानभितो ययौ ॥
पाञ्चालनगरे चापि लक्ष्यं भित्त्वा धनञ्जयः ।
द्रौपदीं लब्धवानत्र मध्ये सर्वमहीक्षिताम् ॥
भीमसेनार्जुनौ यत्र संरब्धान्पृथिवीपतीन् ।
शल्यकर्णौ च तरसा जितवन्तौ महामृधे ॥
दृष्ट्वा तयोश्च तद्वीर्यमप्रमेयममानुषम् ।
शङ्कमानौ पाण्डवांस्तान् रामकृष्णौ महामती ॥
जग्मतुस्तैः समागन्तुं शालां भार्गववेश्मनि ।
पञ्चानामेकपत्नीत्वे विमर्शो द्रुपदस्य च ॥
पञ्चेन्द्राणामुपाख्यानमत्रैवाद्भुतमुच्यते ।
द्रौपद्या देवविहीतो विवाहश्चाप्यमानुषः ॥
क्षत्तुश्च धार्तराष्ट्रेण प्रेषणं पाण्डवान्प्रति ।
विदुरस्य च संप्राप्तिर्दर्शनं केशवस्य च ॥
खाण्डवप्रस्थवासश्च तथा राज्यार्धसर्जनम् ।
नारदस्याज्ञया चैव द्रौपद्याः समयक्रिया ॥
सुन्दोपसुन्दयोस्तद्वदाख्यानं परिकीर्तितम् ।
अनन्तरं च द्रौपद्या सहासीनं युधिष्ठिरम् ॥
अनु प्रविश्य विप्रार्थे फाल्गुनो गृह्य चायुधम् ।
मोक्षयित्वा गृहं गत्वा विप्रार्थं कृतनिश्चयः ॥
समयं पालयन्वीरो वनं यत्र जगाम ह ।
पार्थस्य वनवासे च उलूप्या पथि सङ्गमः ॥
पुण्यतीर्थानुसंयानं बभ्रुवाहनजन्म च ।
तत्रैव मोक्षयामास पञ्च सोऽप्सरसः शुभाः ॥
शापाद्ग्राहत्वमापन्ना ब्राह्मणस्य तपस्विनः ।
प्रभासतीर्थे पार्थेन कृष्णस्य च समागमः ॥
द्वारकायां सुभद्रा च कामयानेन कामिनी ।
वासुदेवस्यानुमते प्राप्ता चैव किरीटिना ॥
गृहीत्वा हरणं प्राप्ते कृष्णे देवकिनन्दने ।
अभिमन्योः सुभद्रायां जन्म चोत्तमतेजसः ॥
द्रौपद्यास्तनयानां च संभवोऽनुप्रकीर्तितः ।
विहारार्थं च गतयोः कृष्णयोर्यमुनामनु ॥
संप्राप्तिश्चक्रधनुषोः खाण्डवस्य च दाहनम् ।
मयस्य मोक्षो ज्वलनाद्भुजङ्गस्य च मोक्षणम् ॥
महर्षेर्मन्दपालस्य शार्ङ्ग्या तनयसंभवः ।
इत्येतदादिपर्वोक्तं प्रथमं बहु विस्तरम् ॥
अध्यायानां शते द्वे तु संख्याते परमर्षिणा ।
सप्तविंशतिरध्याया व्यासेनोत्तमतेजसा ॥
अष्टौ श्लोकसहस्राणि अष्टौ श्लोकशतानि च ।
श्लोकाश्च चतुराशीतिर्मुनिनोक्ता महात्मना ॥
द्वितीयं तु सभापर्व बहुवृत्तान्तमुच्यते । सभाक्रिया पाण्डवानां किङ्कराणां च दर्शनम् ।
लोकपालसभाख्यानं नारदाद्देवदर्शिनः ।
राजसूयस्य चारम्भो जरासन्धवधस्तथा ॥
गिरिव्रजे निरुद्धानां राज्ञां कृष्णेन मोक्षणम् ।
तथा दिग्विजयोऽत्रैव पाम्डवानां प्रकीर्तितः ॥
राज्ञामागमनं चैव सार्हणानां महक्रतौ ।
राजसूयेऽर्घसंवादे शिशुपालवधस्तथा ॥
यज्ञे विभूतिं तां दृष्ट्वा दुःखामर्षान्वितस्य च ।
दुर्योधनस्यावहासो भीमेन च सभातले ॥
यत्रास्य मन्युरुद्भूतो येन द्यूतमकारयत् ।
यत्र धर्मसुतं द्यूते शकुनिः कितवोऽजयत् ॥
यत्र द्यूतार्णवे मग्नां द्रौपदीं नौरिवार्णवात् ।
धृतराष्ट्रो महाप्राज्ञः स्नुषां परमदुःखिताम् ॥
तारयामास तांस्तीर्णाञ्ज्ञात्वा दुर्योधनो नृपः ।
पुनरेव ततो द्यूते समाह्वयत पाण्डवान् ॥
जित्वा स वनवासाय प्रेषयामास तांस्ततः ।
एतत्सर्वं सभापर्व समाख्यातं महात्मना ॥
अध्यायाः सप्ततिर्ज्ञेयास्तथा चाष्टौ प्रसंख्यया ।
श्लोकानां द्वे सहस्रे तु पञ्च श्लोकशतानि च ॥
श्लोकाश्चैकादश ज्ञेयाः पर्वण्यस्मिन्द्विजोत्तमाः ।
अतः परं तृतीयं तु ज्ञेयमारण्यकं महत् ॥
वनवासं प्रयातेषु पाण्डवेषु महात्मसु ।
पौरानुगमनं चैव धर्मपुत्रस्य धीमतः ॥
अन्नौषधीनां च कृते पाण्डवेन महात्मना ।
द्विजानां भरणार्थं च कृतमाराधनं रवेः ॥
धौम्योपदेशात्तिग्मांशुप्रसादादन्नसंभः ।
हितं च ब्रुवतः क्षत्तुः परित्यागोऽम्बिकासुतात् ॥
त्यक्तस्य पाण्डुपुत्राणां समीपगमनं तथा ।
पुनरागमनं चैव धृतराष्ट्रस्य शासनात् ॥
कर्णप्रोत्साहनाच्चैव धार्तराष्ट्रस्य दुर्मतेः ।
वनस्थान्पाण्डवान्हन्तुं मन्त्रो दुर्योधनस्यच ॥
तं दुष्टभावं विज्ञाय व्यासस्यागमनं द्रुतम् ।
निर्याणप्रतिषेधश्च सुरभ्याख्यानमेव च ॥
मैत्रेयागमनं चात्र राज्ञश्चैवानुशासनम् ।
शापोत्सर्गश्च तेनैव राज्ञो दुर्योधनस्य च ॥
किर्मीरस्य वधश्चात्र भीमसेनेन संयुगे ।
वृष्णीनामागमश्चात्र पाञ्चालानां च सर्वशः ॥
श्रुत्वा शकुनिना द्यूते निकृत्या निर्जितांश्च तान् ।
क्रुद्धस्यानुप्रशमनं हरेश्चैव किरीटिना ॥
परिदेवनं च पाञ्चाल्या वासुदेवस्य सन्निधौ ।
आश्वासनं च कृष्णेन दुःखार्तायाः प्रकीर्तितम् ॥
तथा सौभवधाख्यानमत्रैवोक्तं महर्षिणा ।
सुभद्रायाः सपुत्रायाः कृष्णेन द्वारकां पुरीम् ॥
नयनं द्रौपदेयानां धृष्टद्युम्नेन चैव ह ।
प्रवेशः पाण्डवेयानां रम्ये द्वैतवने ततः ॥
धर्मराजस्य चात्रैव संवादः कृष्णया सह ।
संवादश्च तथा राज्ञा भीमस्यापि प्रकीर्तितः ॥
समीपं पाण्डुपुत्राणां व्यासस्यागमनं तथा ।
प्रतिश्रुत्याथ विद्याया दानं राज्ञो महर्षिणा ॥
गमनं काम्यके चापि व्यासे प्रतिगते ततः ।
अस्त्रहेतोर्विवासश्च पार्थस्यामिततेजसः ॥
महादेवेन युद्धं च किरातवपुषा सह ।
दर्शनं लोकपालानामस्त्रप्राप्तिस्तथैव च ॥
महेन्द्रलोकगमनमस्त्रार्थे च किरीटिनः ।
यत्र चिन्ता समुत्पन्ना धृतराष्ट्रस्य भूयसी ॥
दर्शनं बृहदश्वस्य महर्षेर्भावितात्मनः ।
युधिष्ठिरस्य चार्तस्य व्यसने परिदेवनम् ॥
नलोपाख्यानमत्रैव धर्मिष्ठं करुणोदयम् ।
दमयन्त्याः स्थितिर्यत्र नलस्य चरितं तथा ॥
तथाक्षहृदयप्राप्तिस्तस्मादेव महर्षितः ।
लोमशस्यागमस्तत्र स्वर्गात्पाण्डुसुतान्प्रति ॥
वनवासगतानां च पाण्डवानां महात्मनाम् ।
स्वर्गे प्रवृत्तिराख्याता लोमशेनार्जुनस्य वै ॥
संदेशादर्जुनस्यात्र तीर्थाभिगमनक्रिया ।
तीर्थानां च फलप्राप्तिः पुण्यत्वं चापि कीर्तितम् ॥
पुलस्त्यतीर्थयात्रा च नारदेन महर्षिणा ।
तीर्थयात्रा च तत्रैव पाण्डवानां महात्मनां ॥
तथा यज्ञविभूतिश्च गयस्यात्र प्रकीर्तिता ॥
आगस्त्यमपि चाख्यानं यत्र वातापिभक्षणम् ।
लोपामुद्राभिपमनमपत्यार्थमृषेस्तथा ॥
ऋश्यशृङ्गस्य चरितं कौमारब्रह्मचारिणः ।
जामदग्न्यस्य रामस्य चरितं भूरितेजसः ॥
कार्तवीर्यवधो यत्र हैहयानां च वर्ण्यते ।
प्रभासतीर्थे पाण्डूनां वृष्णिभिश्च समागमः ॥
सौकन्यमपि चाख्यानं च्यवनो यत्र भार्गवः ।
शर्यातियज्ञे नासत्यौ कृतवान्सोमपीथिनौ ॥
ताभ्यां च यत्र स मुनिर्यौवनं प्रतिपादितः ।
मान्धातुश्चाप्युपाख्यानं राज्ञोऽत्रैवप्रकीर्तितं ॥
जन्तूपाख्यानमत्रैव यत्र पुत्रेण सोमकः ।
पुत्रार्थमयजद्राजा लेभे पुत्रशतं च सः ॥
ततः श्येनकपोतीयमुपाख्यानमनुत्तमम् ।
इन्द्राग्नी यत्र धर्मश्चाप्यजिज्ञासञ्शिबिं नृपम् ॥
अष्टावक्रीयमत्रैव विवादो यत्र बन्दिना ।
अष्टावक्रस्य विप्रर्षेर्जनकस्याध्वरेऽभवत् ॥
नैयायिकानां मुख्येन वरुणस्यात्मजेन च ।
पराजितो यत्र बन्दी विवादेन महात्मना ॥
विजित्य सागरं प्राप्तं पितरं लब्धवानृषिः । यवक्रीतस्य चाख्यानं रैभ्यस्य च महात्मनः ।
गन्धमादनयात्रा च वासो नारायणाश्रमे ॥
नियुक्तो भीमसेनश्च द्रौपद्या गन्धमादने ।
व्रजन्पथि महाबाहुर्दृष्टवान्पवनात्मजम् ॥
कदलीषण्डमध्यस्थं हनूमन्तं महाबलम् ।
यत्र मन्दारपुष्पार्थे नलिनीं तामधर्षयत् ॥
यत्रास्य युद्धमभवत्सुमहद्राक्षसैः सह ।
यक्षैश्चैव महावीर्यैर्मणिमत्प्रमुखैस्तथा ॥
जटासुरस्य च वधो राक्षसस्य वृकोदरात् ।
वृषपर्वणो राजर्षेस्ततोऽभिगमनं स्मृतम् ॥
आर्ष्टिषेणाश्रमे चैषां गमनं वास एव च ।
प्रोत्साहनं च पाञ्चाल्या भीमस्यात्र महात्मनः ॥
कैलासारोहणं प्रोक्तं यत्र यक्षैर्बलोत्कटैः ।
युद्धमासीन्महाघोरं मणिमत्प्रमुखैः सह ॥
समागमश्च पाण्डूनां यत्र वैश्रवणेन च ।
समागमश्चार्जुनस्य तत्रैव भ्रातृभिः सह ॥
अवाप्य दिव्यान्यस्त्राणि गुर्वर्थं सव्यसाचिना ।
निवातकवचैर्युद्धं हिरण्यपुरवासिभिः ॥
निवातकवचैर्घोरैर्दानवैः सुरशत्रुभिः ।
पौलोमैः कालकेयैश्च यत्र युद्धं किरीटिनः ॥
वधश्चैषां समाख्यातो राज्ञस्तेनैव धीमता ।
अस्त्रसंदर्शनारम्भो धर्मराजस्य सन्निधौ ॥
पार्थस्य प्रतिषेधश्छ नारदेन सुरर्षिणा ।
अवरोहणं पुनश्चैव पाण्डूनां गन्धमादनात् ॥
भीमस्य ग्रहणं चात्र पर्वताभोगवर्ष्मणा ।
भुजगेन्द्रेण बलिना तस्मिन्सुगहने वने ॥
अमोक्षयद्यत्र चैनं प्रश्नानुक्त्वा युधिष्ठिरः ।
काम्यकागमनं चैव पुनस्तेषां महात्मनाम् ॥
तत्रस्थांश्च पुनर्द्रष्टुं पाण्डवान्परुषर्षभान् ।
वासुदेवस्यागमनमत्रैव परिकीर्तितम् ॥
मार्कण्डेयसमास्यायामुपाख्यानानि सर्वशः ।
पृथोर्वैन्यस्य यत्रोक्तमाख्यानं परमर्षिणा ॥
संवादश्च सरस्वत्यास्तार्क्ष्यर्षेः सुमहात्मनः ।
मत्स्योपाख्यानमत्रैव प्रोच्यते तदनन्तरम् ॥
मार्कण्डेयसमास्या च पुराणं परिकीर्त्यते ।
ऐन्द्रद्युम्नामुपाख्यानं तथैवाङ्गिरसं स्मृतम् ॥
पतिव्रतायाश्चाख्यानं तथैवाङ्गिरसं स्मृतम् ।
द्रौपद्याः कीर्तितश्चात्र संवादः सत्यभामया ॥
पुनर्द्वैतवनं चैव पाण्डवाः समुपागताः ।
घोषयात्रा च गन्धर्वैर्यत्र बद्धः सुयोधनः ॥
ह्रियमाणस्तु मन्दात्मा मोक्षितोऽसौ किरीटिना ।
धर्मराजस्य चात्रैव मृगस्वप्ननिदर्शनात् ॥
काम्यके काननश्रेष्ठे पुनर्गमनमुच्यते ।
व्रीहिद्रौणिकमाख्यानमत्रैव बहुविस्तरम् ॥
दुर्वाससोऽप्युपाख्यानमत्रैव परिकीर्तितम् ।
जयद्रथेनापहारो द्रौपद्याश्चाश्रमान्तरात् ॥
यत्रैनमन्वयाद्भीमो वायुवेगसमो जवे ।
चक्रे चैनं पञ्चशिखं यत्र भीमो महाबलः ॥
रामायणमुपाख्यानमत्रैव बहुविस्तरम् ।
यत्र रामेण विक्रम्य निहतो रावणो युधि ॥
सावित्र्याश्चाप्युपाख्यानमत्रैव परिकीर्तितम् ।
कर्णस्य परिमोक्षोऽत्र कुण्डलाभ्यां पुरंदरात् ॥
यत्रास्य शक्तिं तुष्टोऽसावदादेकवधाय च ।
आरणेयमुपाख्यानं यत्र धर्मोऽन्वशात्सुतम् ॥
जग्मुर्लब्धवरा यत्र पाण्डवाः पश्चिमां दिशम् ।
एतदारण्यकं पर्व तृतीयं परिकीर्तितम् ॥
अत्राध्यायशते द्वे तु संख्यया परिकीर्तिते ।
एकोनसप्ततिश्चैव तथाऽध्यायाः प्रकीर्तिताः ॥
एकादश सहस्राणि श्लोकानां षट् शतानि च ।
चतुःषष्टिस्तथा श्लोकाः पर्वण्यस्मिन्प्रकीर्तिताः ॥
अतः परं निबोधेदं वैराटं पर्व विस्तरम् ।
विराटनगरे गत्वा श्मशाने विपुलां शमीम् ॥
दृष्ट्वा संनिदधुस्तत्र पाण्डवा ह्यायुधान्युत ।
यत्र प्रविश्य नगरं छद्मना न्यवसंस्तु ते ॥
पाञ्चालीं प्रार्थयानस्य कामोपहतचेतसः ।
दुष्टात्मनो वधो यत्र कीचकस्य वृकोदरात् ॥
पाण्डवान्वेषणार्थं च राज्ञो दुर्योधनस्य च ।
चाराः प्रस्थापिताश्चात्र निपुणाः सर्वतोदिशं ॥
न च प्रवृत्तिस्तैर्लब्धा पाण्डवानां महात्मनाम् ।
गोग्रहश्च विराटस्य त्रिगर्तैः प्रथमं कृतः ॥
यत्रास्य युद्धं सुमहत्तैरासील्लोमहर्षणम् ।
ह्रियमाणश्च यत्रासौ भीमसेनेन मोक्षितः ॥
गोधनं च विराटस्य मोक्षितं यत्र पाण्डवैः ।
अनन्तरं च कुरुभिस्तस्य गोग्रहणं कृतम् ॥
समस्ता यत्र पार्थेन निर्जिताः कुरवो युधि ।
प्रत्याहृतं गोधनं च विक्रमेण किरीटिना ॥
विराटेनोत्तरा दत्ता स्नुषा यत्र किरीटिनः ।
अभिमन्युं समुद्दिश्य सौभद्रमरिघातिनम् ॥
चतुर्थमेतद्विपुलं वैराटं पर्व वर्णितम् ।
अत्रापि परिसंख्याता अध्यायाः परमर्षिणा ॥
सप्तषष्टिरथो पूर्णाः श्लोकानामपि मे शृणु ।
श्लोकानां द्वे सहस्रे तु श्लोकाः पञ्चाशदेव तु ॥
उक्तानि वेदविदुषा पर्वण्यस्मिन्महर्षिणा ।
उद्योगपर्व विज्ञेयं पञ्चमं शृण्वतः परम् ॥
उपप्लाव्ये निविष्टेषु पाण्डवेषु जिगीषया ।
दुर्योधनोऽर्जुनश्चैव वासुदेवमुपस्थितौ ॥
साहाय्यमस्मिन्समरे भवान्नौ कर्तुमर्हति ।
इत्युक्ते वचने कृष्णो यत्रोवाच महामतिः ॥
अयुध्यमानमात्मानं मन्त्रिणं पुरुषर्षभौ ।
अक्षौहिणीं वा सैन्यस्य कस्य किं वा ददाम्यहम् ॥
वव्रे दुर्योधनः सैन्यं मन्दात्मा यत्र दुर्मतिः ।
अयुध्यभानं सचिवं वव्रे कृष्मं धनंजयः ॥
मद्रराजं व राजानमायान्तं पाण्डवान्प्रति ।
उपहारैर्वञ्चायत्वा वर्त्मन्येव सुयोधनः ॥
वरदं तं वरं वव्रे साहाय्यं क्रियतां मम ।
शल्यस्तस्मै प्रतिश्रुत्य जगामोद्दिश्य पाण्डवान् ॥
शान्तिपूर्वं चाकथयद्यत्रेन्द्रविजयं नृपः ।
पुरोहितप्रेषणं च पाण्डवैः कौरवान्प्रति ॥
वैचित्रवीर्यस्य वचः समादाय पुरोधसः ।
तथेन्द्रविजयं चापि यानं चैव पुरोधसः ॥
संजयं प्रेषयामास शमार्थी पाण्डवान्प्रति ।
यत्र दूतं महाराजो धृतराष्ट्रः प्रतापवान् ॥
श्रुत्वा च पाण्डवान्यत्र वासुदेवपुरोगमान् ।
प्रजागरः संप्रजज्ञे धृतराष्ट्रस्य चिन्तया ॥
विदुरो यत्र वाक्यानि विचित्राणि हितानि च ।
श्रावयामास राजानं धृतराष्ट्रं मनीषिणम् ॥
तथा सनत्सुजातेन यत्राध्यात्ममनुत्तमम् ।
मनस्तापान्वितो राजा श्रावितः शोकलालसः ॥
प्रभाते राजसमितौ संजयो यत्र वा विभो ।
ऐकात्म्यं वासुदेवस्य प्रोक्तवानर्जुनस्य च ॥
यत्र कृष्णो दयापन्नः सन्धिमिच्छन्महामतिः ।
स्वयमागाच्छणं कर्तुं नगरं नागसाह्वयम् ॥
प्रत्याख्यानं च कृष्णस्य राज्ञा दुर्योधनेन वै ।
शमार्थे याचमानस्य पक्षयोरुभयोर्हितम् ॥
दम्भोद्भवस्य चाख्यानमत्रैव परिकीर्तितम् ।
वरान्वेषणमत्रैव मातलेश्च महात्मनः ॥
महर्षेश्चापि चरितं कथितं गालवस्य वै ।
विदुलायाश्च पुत्रस्य प्रोक्तं चाप्यनुशासनम् ॥
कर्णदुर्योधनादीनां दुष्टं विज्ञाय मन्त्रितम् ।
योगेश्वरत्पं कृष्णेन यत्र राज्ञां प्रदर्शितम् ॥
रथमारोप्य कृष्णेन यत्र कर्णोऽनुमन्त्रितः ।
उपायपूर्वं शौटीर्यात्प्रत्याख्यातश्च तेन सः ॥
आगम्य हास्तिनपुरादुपप्लाव्यमरिंदमः ।
पाण्डवानां यथावृत्तं सर्वमाख्यातवान्हरिः ॥
ते तस्य वचनं श्रुत्वा मन्त्रयित्वा च यद्धितम् ।
साङ्ग्रामिकं ततः सर्वं सञ्जं चक्रुः परंतपाः ॥
ततो युद्धाय निर्याता नराश्वरथदन्तिनः ।
नगराद्धास्तिनपुराद्वलसंख्यानमेवच ॥
यत्र राज्ञा ह्युलूकस्य प्रेषणं पाम्डवान्प्रति ।
श्वोभाविनि महायुद्धे दौत्येन कृतवान्प्रभुः ॥
रथातिरथसंख्यानमम्बोपाख्यानमेव च ।
एतत्सुबहुवृत्तान्तं पञ्चमं पर्व भारते ॥
उद्योगपर्व निर्दिष्टं सन्धिविग्रहमिश्रितम् ।
अध्यायानां शतं प्रोक्तं षडशीतिर्महर्षिणा ॥
श्लोकानां षट् सहस्राणि तावन्त्येव शतानि च ।
श्लोकाश्च नवतिः प्रोक्तास्तथैवाष्टौ महात्मना ॥
व्यासेनोदारमतिना पर्वण्यस्मिंस्तपोधनाः ।
अतः परं विचित्रार्थं भीष्मपर्व प्रचक्षते ॥
जम्बूखण्डविनिर्माणं यत्रोक्तं संजयेन ह ।
यत्र यौधिष्ठिरं सैन्यं विषादमगमत्परम् ॥
यत्र युद्धमभूद्धोरं दसाहानि सुदारुणम् ।
कश्मलं यत्र पार्थस्य वासुदेवो महामतिः ॥
मोहजं नाशयामास हेतुभिर्मोक्षदर्शिभिः ।
समीक्ष्यादोक्षजः क्षिप्रं युधिष्ठिरहिते रतः ॥
रथादाप्लुत्य वेगेन स्वयं कृष्ण उदारधीः ।
प्रतोदपाणिराधावद्भीष्मं हन्तुं व्यपेतभीः ॥
वाक्यप्रतोदाभिहतो यत्र कृष्णेन पाण्डवः ।
गाण्डीवधन्वा समरे सर्वशस्त्रभृतां वरः ॥
शिखण्डिनं पुरस्कृत्य यत्र पार्थो महाधनुः ।
विनिघ्नन्निशितैर्बाणै रथाद्भीष्ममपातयत् ॥
शरतल्पगतश्चैव भीष्मो यत्र बभूव ह ।
षष्ठमेतत्समाख्यातं भारते पर्व विस्तृतम् ॥
अध्यायानां शतं प्रोक्तं तथा सप्तदशापरे ।
पञ्च श्लोकसहस्राणि संख्ययाष्टौ शतानि च ॥
श्लोकाश्च चतुराशीतिरस्मिन्पर्वणि कीर्तिताः ।
व्यासेन वेदविदुषा संख्याता भीष्मपर्वणि ॥
द्रोणपर्व ततश्चित्रं बहुवृत्तान्तमुच्यते ।
सैनापत्येऽभिषिक्तोऽथ यत्राचार्यः प्रतापवान् ॥
दुर्योधनस्य प्रीत्यर्थं प्रतिजज्ञे महास्त्रवित् ।
ग्रहणं धर्मराजस्य पाण्डुपुत्रस्य धीमतः ॥
यत्र संशप्तकाः पार्थमपनिन्यू रणाजिरात् ।
भगदत्तो महाराजो यत्र शक्रसमो युधि ॥
सुप्रतीकेन नागेन स हि शान्तः किरीटिना ।
यत्राभिमन्युं बहवो जघ्नुरेकं महारथाः ॥
जयद्रथमुखा बालं शूरमप्राप्तयौवनम् ।
हतेऽभिमन्यौ क्रुद्धेन यत्र पार्थेन संयुगे ॥
अक्षौहिणीः सप्त हत्वा हतो राजा जयद्रथः ।
यत्र भीमो महाबाहुः सात्यकिश्च महारथः ॥
अन्वेषणार्थं पार्थस्य युधिष्ठिरनृपाज्ञया ।
प्रविष्टौ भारतीं सेनामप्रधृष्यां सुरैरपि ॥
संशप्तकावशेषं च कृतं निःशेषमाहवे ।
संशप्तकानां वीराणां कोट्यो नव महात्मनाम् ॥
किरीटिनाभिनिष्क्रम्य प्रापिता यमसादनम् ।
धृतराष्ट्रस्य पुत्राश्च तथा पाषाणयोधिनः ॥
नारायणाश्च गोपालाः समरे चित्रयोधिनः ।
अलम्बुषः श्रुतायुश्च जलसन्धश्च वीर्यवान् ॥
सौमदत्तिर्विराटश्च द्रुपदश्च महारथः ।
घटोत्कचादयश्चान्ये निहता द्रोणपर्वणि ॥
अश्वत्थामापि चात्रैव द्रोणे युधि निपातिते ।
अस्त्रं प्रादुश्चकारोग्रं नारायणममर्षितः ॥
आग्नेयं कीर्त्यते यत्र रुद्रमाहात्म्यमुत्तमम् ।
व्यासस्य चाप्यागमनं माहात्म्यं कृष्णपार्थयोः ॥
सप्तमं भारते पर्व महदेतदुदाहृतम् ।
यत्र ते पृथिवीपालाः प्रायशो निधनं गताः ॥
द्रोणपर्वणि ये शऊरा निर्दिष्टाः पुरुषर्षभाः ।
अत्राध्यायशतं प्रोक्तं तथाध्यायाश्च सप्ततिः ॥
अष्टौ श्लोकसहस्राणि तथा नव शतानि च ।
श्लोका नव तथैवात्र संख्यातास्तत्त्वदर्शिना ॥
पाराशर्येण मुनिनां संचिन्त्य द्रोणपर्वणि ।
अतः परं कर्णपर्व प्रोच्यते परमाद्भुतम् ॥
सारथ्ये विनियोगश्च मद्रराजस्य धीमतः ।
आख्यातं यत्र पौरामं त्रिपुरस्य निपातनम् ॥
प्रयाणे परुषश्चात्र संवादः कर्णशल्ययोः ।
हंसकाकीयमाख्यानं तत्रैवाक्षेपसंहितम् ॥
वधः पाण्ड्यस्य च तथा अश्वत्थाम्ना महात्मना ।
दण्डसेनस्य च ततो दण्डस्य च वधस्तथा ॥
द्वैरथे यत्र कर्णेन धर्मराजो युधिष्टिरः ।
संशयं गमितो युद्धे मिषतां सर्वधन्विनाम् ॥
अन्योन्यं प्रति च क्रोधो युधिष्ठिरकिरीटिनोः ।
यत्रैवानुनयः प्रोक्तो माधवेनार्जुनस्य हि ॥
प्रतिज्ञापूर्वकं चापि वक्षो दुःशासनस्य च ।
भित्त्वा वृकोदरो रक्तं पीतवान्यत्र संयुगे ॥
द्वैरथे यत्र पार्थेन हतः कर्णो महारथः ।
अष्टमं पर्व निर्दिष्टमेतद्भारतचिन्तकैः ॥
एकोनसप्ततिः प्रोक्ता अध्यायाः कर्णपर्वणि ।
चत्वार्येव सहस्राणि नव श्लोकशतानि च ॥
चतुःषष्टिस्तथा श्लोकाः पर्वण्यस्मिन्प्रकीर्तिताः ।
अतः परं विचित्रार्थं शल्यपर्व प्रकीर्तितम् ॥
हतप्रवीरे सैन्ये तु नेता मद्रेश्वरोऽभवत् ।
यत्र कौमारमाख्यानमभिषेकस्य कर्म च ॥
वृत्तानि चाथ युद्धानि कीर्त्यन्ते यत्र भागशः ।
विनाशः कुरुमुख्यानां शल्यपर्वणि कीर्त्यते ॥
शल्यस्य निधनं चात्र धर्मराजान्महात्मनः ।
शकुनेश्च वधोऽत्रैव सहदेवेन संयुगे ॥
सैन्ये च हतभूयिष्ठे किंचिच्छिष्टे सुयोधनः ।
ह्रदं प्रविश्य यत्रासौ संस्तभ्यापोव्यवस्थितः ॥
प्रवृत्तिस्तत्र चाख्याता यत्र भीमस्य लुब्धकैः ।
क्षेपयुक्तैर्वचोभिश्च धर्मराजस्य धीमतः ॥
ह्रदात्समुत्थितो यत्र धार्तराष्ट्रोऽत्यमर्षणः ।
भीमेन गदया युद्धं यत्रासौ कृतवान्सह ॥
समवाये च युद्धस्य रामस्यागमनं स्मृतम् ।
सरस्वत्याश्च तीर्थानां पुण्यता परिकीर्तिता ॥
गदायुद्धं च तुमुलमत्रैव परिकीर्तितम् ।
दुर्योधनस्य राज्ञोऽथ यत्र भीमेन संयुगे ॥
ऊरू भग्नौ प्रसह्याजौ गदया भीमवेगया ।
नवमं पर्व निर्दिष्टमेतदद्भुतमर्थवत् ॥
एकोनपष्टिरध्यायाः पर्वण्यत्र प्रकीर्तिताः ।
संख्याता बहुवृत्तान्ताः श्लोकसंख्याऽत्र कथ्यते ॥
त्रीणि श्लोकसहस्राणि द्वे शते विंशतिस्तथा ।
मुनिना संप्रणीतानि कौरवाणां यशोभृता ॥
अतः परं प्रवक्ष्यामि सौप्तिकं पर्व दारुणम् ।
भग्नोरुं यत्र राजानं दुर्योधनममर्षणम् ॥
अपयातेषु पार्थेषु त्रयस्तेऽभ्याययू रथाः ।
कृतवर्मा कृपो द्रौणिः सायाह्ने रुधिरोक्षितम् ॥
समेत्य ददृशुर्भूमौ पतितं रणमूर्धनि ।
प्रतिजज्ञे दृढक्रोधो द्रौणिर्यत्र महारथः ॥
अहत्वा सर्वपाञ्चालान्धृष्टद्युम्नपुरोगमान् ।
पाण्डवांश्च सहामात्यान्न विमोक्ष्यामि दंशनं ॥
यत्रैवमुक्त्वा राजानमपक्रम्य त्रयो रथाः ।
सूर्यास्तमनवेलायामासेदुस्ते महद्वनम् ॥
न्यग्रोधस्याथ महतो यत्राधस्ताद्व्यवस्थिताः ।
ततः काकान्बहून्रात्रौ दृष्ट्वोलूकेन हिंसितान् ॥
द्रौणिः क्रोधसमाविष्टः पितुर्वधमनुस्मरन् ।
पाञ्चालानां प्रसुप्तानां वधं प्रति मनो दधे ॥
गत्वा च शिबिरद्वारि दुर्दर्शं तत्र राक्षसम् ।
घोररूपमपश्यत्स दिवामावृत्य धिष्ठिरम् ॥
तेन व्याघातमस्त्राणां क्रियमाणमवेक्ष्य च ।
द्रौणिर्यत्र विरूपाक्षं रुद्रमाराध्य सत्वरः ॥
प्रसुप्तान्निशि विश्वस्तान्धृष्टद्युम्नपुरोगमान् ।
पाञ्चालान्सपरीवारान्द्रौपदेयांश्च सर्वशः ॥
कृतवर्मणा च सहितः कृपेण च निजघ्निवान् ।
यत्रामुच्यन्त ते पार्थाः पञ्च कृष्णबलाश्रयात् ॥
सात्यकिश्च महेष्वासः शेषाश्च निधनं गताः ।
पाञ्चालानां प्रसुप्तानां यत्र द्रोणसुताद्वधः ॥
धृष्टद्युम्नस्य सूतेन पाण्डवेषु निवेदितः ।
द्रौपदी पुत्रशोकार्ता पितृभ्रातृवधार्दिता ॥
कृतानशनसंकल्पा यत्र भर्तृनुपाविशत् ।
द्रौपदीवचनाद्यत्र भीमो भीमपराक्रमः ॥
प्रियं तस्याश्चिकीर्षन्वै गदामादाय वीर्यवान् ।
अन्वधावत्सुसंक्रुद्धो भारद्वाजं गुरोः सुतम् ॥
भीमसेनभयाद्यत्र दैवेनाभिप्रचोदितः ।
अपाण्डवायेति रुषा द्रौणिरस्त्रमवासडदत् ॥
मैवमित्यब्रवीत्कृष्णः शमयंस्तस्य तद्वचः ।
यत्रास्त्रमस्त्रेण च तच्छमयामास फाल्गुनः ॥
द्रौणेश्च द्रोहबुद्धित्वं वीक्ष्य पापात्मनस्तदा ।
द्रौणिद्वैपायनादीनां शापाश्चान्योन्यकारिताः ॥
मणिं तथा समादाय द्रोणपुत्रान्महारथात् ।
पाण्डवाः प्रददुर्हृष्टा द्रौपद्यै जितकाशिनः ॥
एतद्वै दशमं पर्व सौप्तिकं समुदाहृतम् ।
अष्टादशास्मिन्नद्यायाः पर्वम्युक्ता महात्मना ॥
श्लोकानां कथितान्यत्र शतान्यष्टौ प्रसंख्यया ।
श्लोकाश्च सप्ततिः प्रोक्ता मुनिना ब्रह्मवादिना ॥
सौप्तिकैषीकसंबन्धे पर्वण्युत्तमतेजसी ।
अत ऊर्ध्वमिदं प्राहुः स्त्रीपर्व करुणोदयम् ॥
पुत्रशोकाभिसंतप्तः प्रज्ञाचक्षुर्नराधिपः ।
कृष्णोपनीतां यत्रासावायसीं प्रतिमां दृढां ॥
भीमसेनद्रोहबुद्धिर्धृतराष्ट्रो बभञ्जह ।
तथा शोकाभितप्तस्य धृतराष्ट्रस्य धीमतः ॥
संसारदहनं बुद्ध्या हेतुभिर्मोक्षदर्शनैः ।
विदुरेण च यत्रास्य राज्ञ आश्वासनं कृतम् ॥
धृतराष्ट्रस्य चात्रैव कौरवायोधनं तथा ।
सान्तःपुरस्य गमनं शोकार्तस्य प्रकीर्तितम् ॥
विलापो वीरपत्नीनां यत्रातिकरुणः स्मृतः ।
क्रोधावेशः प्रमोहश्च गान्धारीधृतराष्ट्रयोः ॥
यत्र तान्क्षत्रियाः शूरान्सङ्ग्रामेष्वनिवर्तिनः ।
पुत्रान्भ्रातृन्पितॄंश्चैव ददृशुर्निहतान्रणे ॥
पुत्रपौत्रवधार्तायास्तथात्रैव प्रकीर्तिता ।
गान्धार्याश्चापि कृष्णेन क्रोधोपशमनक्रिया ॥
यत्र राजा महाप्राज्ञः सर्वधर्मभृतां वरः ।
राज्ञांतानि शरीराणि दाहयामास शास्त्रतः ॥
तोयकर्मणि चारब्धे राज्ञामुदकदानिके ।
गूढोत्पन्नस्य चाख्यानं कर्णस्य पृथयात्मनः ॥
सुतस्यैतदिह प्रोक्तं व्यासेन परमर्षिणा ।
एतदेकादशं पर्व शोकवैक्लव्यकारणम् ॥
प्रणीतं सज्जनमनोवैक्लव्याश्रुप्रवर्तकम् ।
सप्तविंशतिरध्यायाः पर्वण्यस्मिन्प्रकीर्तिताः ॥
श्लोकसप्तशती चापि पञ्चसप्ततिसंयुता ।
संख्यया भारताख्यानमुक्तं व्यासेन धीमता ॥
अतः परं शान्तिपर्व द्वादशं बुद्धिवर्धनम् ।
यत्र निर्वेदमापन्नो धर्मराजो युधिष्ठिरः ॥
घातयित्वा पितॄन्भ्रातॄन्पुत्रान्संबन्धिमातुलान् ।
शान्तिपर्वणि धर्माश्च व्याख्याताःशारतल्पिकाः ॥
राजभिर्वेदितव्यास्ते सम्यग्ज्ञानबुभुत्सुभिः ।
आपद्धर्माश्च तत्रैव कालहेतुप्रदर्शिनः ॥
यान्बुद्ध्वा पुरुषः सम्यक्सर्वज्ञत्वमवाप्नुयात् ।
मोक्षधर्माश्च कथिता विचित्रा बहुविस्तराः ॥
द्वादशं पर्व निर्दिष्टमेतत्प्राज्ञजनप्रियम् ।
अत्र पर्वणि विज्ञेयमध्यायानां शतत्रयम् ॥
विंशच्चैव तथाध्याया नव चैव तपोधाः ।
चतुर्दशसहस्राणि तथा सप्तशतानि च ॥
सप्तश्लोकास्तथैवात्र पञ्चविंशतिसंख्यया ।
अत ऊर्ध्वं च विज्ञेयमनुशासनमुत्तमम् ॥
यत्र प्रकृतिमापन्नः श्रुत्वा धर्मविनिश्चयम् ।
भीष्माद्भागीरथीपुत्रात्कुरुराजो युधिष्ठिरः ॥
व्यवहारोऽत्र कार्त्स्न्येन धर्मार्थीयः प्रकीर्तितः ।
विविधानां च दानानां फलयोगाः प्रकीर्तिताः ॥
तथा पात्रविशेषाश्च दानानां च परो विधिः ।
आचारविधियोगश्च सत्यस्य च परा गतिः ॥
महाभाग्यं गवां चैव ब्राह्मणानां तथैव च ।
रहस्यं चैव धर्माणां देशकालोपसंहितम् ॥
एतत्सुबहुवृत्तान्तमुत्तमं चानुशासनम् ।
भीष्मस्यात्रैव संप्राप्तिः स्वर्गस्य परिकीर्तिता ॥
एतत्त्रयोदशं पर्व धर्मनिश्चयकारकम् ।
अध्यायानां शतं त्वत्र षट्चत्वारिंशदेव तु ॥
श्लोकानां तु सहस्राणि प्रोक्तान्यष्टौ प्रसंख्यया ।
ततोऽश्वमेधिकं नाम पर्व प्रोक्तं चतुर्दशम् ॥
तत्संवर्तमरुत्तीयं यत्राख्यानमनुत्तमम् ।
सुवर्णकोशसंप्राप्तिर्जन्म चोक्तं परीक्षितः ॥
दग्धस्यास्त्राग्निना पूर्वं कृष्णात्संजीवनं पुनः ।
चर्यायां हयमुत्सृष्टं पाण्डवस्यानुगच्छतः ॥
तत्र तत्र च युद्धानि राजपुत्रैरमर्षणैः ।
चित्राङ्गदायाः पुत्रेण स्वपुत्रेण धनंजयः ॥
सङ्ग्रामे बभ्रुवाहेन संशयं चात्र जग्मिवान् । सुदर्शनं तथाऽऽख्यानं वैष्णवं धर्ममेव च ।
अश्वमेधे महायज्ञे नकुलाख्यानमेव च ॥
इत्याश्वमेधिकं पर्व प्रोक्तमेतन्महाद्भुतम् ।
अध्यायानां शतं चैव त्रयोऽध्यायाश्च कीर्तिताः ॥
त्रीणि श्लोकसहस्राणि तावन्त्येव शतानि च ।
विंशतिश्च तथा श्लोकाः संख्यातास्तत्त्वदर्शिना ॥
ततस्त्वाश्रमवासाख्यं पर्व पञ्चदशं स्मृतम् ।
यत्र राज्यं समुत्सृज्य गान्धार्या सहितो नृपः ॥
धृतराष्ट्रोश्रमपदं विदुरश्च जगाम ह ।
यं दृष्ट्वा प्रस्थितं साध्वी पृथाप्यनुययौ तदा ॥
पुत्रराज्यं परित्यज्य गुरुशुश्रूषणे रता ।
यत्र राजा हतान्पुत्रान्पौत्रानन्यांश्च पार्थिवान् ॥
लाकान्तरगतान्वीरानपश्यत्पुनरागतान् ।
ऋषेः प्रसादात्कृष्णस्य दृष्ट्वाश्चर्यमनुत्तमम् ॥
त्यक्त्वा शोकं सदारश्च सिद्धिं परमिकां गतः ।
यत्र धर्मं समाश्रित्य विदुरः सुगतिं गतः ॥
संजयश्च सहामात्यो विद्वान्गावल्गणिर्वशी ।
ददर्श नारदं यत्र धर्मराजो युधिष्ठिरः ॥
नारदाच्चैव शुश्राव वृष्णीनां कदनं महत् ।
एतदाश्रमवासाख्यं पर्वोक्तं महदद्भुतम् ॥
द्विचत्वारिंशदध्यायाः पर्वैतदभिसङ्ख्यया ।
सहस्रमेकं श्लोकानां पञ्चश्लोकशतानि च ॥
षडेव च तथा श्लोकाः संख्यातास्तत्त्वदर्शिना ।
अतः परं निबोधेदं मौसलं पर्व दारुणम् ॥
यत्र ते पुरुषव्याघ्राः शस्त्रस्पर्शहता युधि ।
ब्रह्मदण्डविनिष्पिष्टाः समीपे लवणाम्भसः ॥
आपाने पानकलिता दैवेनाभिप्रचोदिताः ।
एरकारूपिभिर्वज्रैर्निजघ्नुरितरेतरम् ॥
यत्र सर्वक्षयं कृत्वा तावुभौ रामकेशवौ ।
नातिचक्रामतुः कालं प्राप्तं सर्वहरं महत् ॥
यत्रार्जुनो द्वारवतीमेत्य वृष्णिविनाकृताम् ।
दृष्ट्वा विपादमगमत्परां चार्तिं नरर्षभः ॥
स संस्कृत्य नरश्रेष्ठं मातुलं शौरिमात्मनः ।
ददर्श यदुवीराणामापाने वैशसं महत् ॥
शरीरं वासुदेवस्य रामस्य च महात्मनः ।
संस्कारं लम्भयामास वृष्णीनां च प्रधानतः ॥
सवृद्धबालमादाय द्वारवत्यास्ततो जनम् ।
ददर्शापदि कष्टायां गाण्डीवस्य पराभवम् ॥
सर्वेषां चैव दिव्यानामस्त्राणामप्रसन्नताम् ।
नाशं वृष्णिकलत्राणां प्रभावानामनित्यताम् ॥
दृष्ट्वा निर्वेदमापन्नो व्यासवाक्यप्रचोदितः ।
धर्मराजं समासाद्य संन्यासं समरोचयत् ॥
इत्येतन्मौसलं पर्व षोडशं परिकीर्तितम् ।
अध्यायाष्टौ समाख्याताः श्लोकानां च शतत्रयम् ॥
श्लोकानां विंशतिश्चव संख्याता तत्त्वदर्शिना ।
महाप्रस्थानिकं तस्मादूर्ध्वं सप्तदशं स्मृतम् ॥
यत्र राज्यं परित्यज्य पाण्डवाः पुरुषर्षभाः ।
द्रौपद्या सहिता देव्या महाप्रस्थानमास्थिताः ॥
यत्र तेऽग्निं ददृशिरे लौहित्यं प्राप्य सागरम् ।
यत्राग्निना चोदितश्च पार्थस्तस्मै महात्मने ॥
ददौ संपूज्य तद्दिव्यं गाण्डीवं धनुरुत्तमम् ।
यत्र भ्रातृन्निपतितान्द्रौपदीं च युधिष्ठिरः ॥
दृष्ट्वा हित्वा जगामैव सर्वाननवलोकयन् ।
एतत्सप्तदशं पर्व महाप्रस्थानिकं स्मृतम् ॥
यत्राध्यायास्त्रयः प्रोक्ताः श्लोकानां च शतत्रयम् ।
विंशतिश्च तथा श्लोकाः संख्यातास्तत्त्वदर्शिना ॥
स्वर्गपर्व ततो ज्ञेयं दिव्यं यत्तदमानुषम् ।
प्राप्तं दैवरथं स्वर्गान्नेष्टवान्यत्र धर्मराट् ॥
आरोदुं सुमहाप्राज्ञ आनृशंस्याच्छुना विना ।
तामस्याविचलां ज्ञात्वा स्थितिं धर्मे महात्मनः ॥
श्वरूपं यत्र तत्त्यक्त्वा धर्मेणासौ समन्वितः ।
स्वर्गं प्राप्तःसच तथा यातनाविपुला भृशम् ॥
देवदूतेन नरकं यत्र व्याजेन दर्शितम् ।
शुश्राव यत्र धर्मात्मा भ्रातॄणां करुणागिरः ॥
निदेशे वर्तमानानां देशे तत्रैव वर्तताम् ।
अनुदर्शितश्च धर्मेण देवराज्ञा च पाण्डवः ॥
आप्लुत्याकाशगङ्गायां देहं त्यक्त्वा स मानुषम् ।
स्वधर्मनिर्जितं स्थानं स्वर्गे प्राप्य स धर्मराट् ॥
मुमुदे पूजितः सर्वैः सेन्द्रैः सुरगणैः सह ।
एतदष्टादशं पर्व प्रोक्तं व्यासेन धीमता ॥
अध्यायाः पञ्च संख्याताः पर्वम्यस्मिन्महात्मना ।
श्लोकानां द्वे शते चैव प्रसंख्याते तपोधाः ॥
नव श्लोकास्तथैवान्ये संख्याताः परमर्षिणा ।
अष्टादशैवमेतानि पर्वाण्येतान्यशेषतः ॥
खिलेषु हरिवंशश्च भविष्यं च प्रकीर्तितम् ।
दश श्लोकसहस्राणि विंशच्छ्लोकशतानि च ॥
खिलेषु हरिवंशे च संख्यातानि महर्षिणा ।
एतत्सर्वं समाख्यातं भारते पर्वसंग्रहः ॥
अष्टादश समाजग्मुरक्षौहिण्यो ययुत्सया ।
तन्महादारुणं युद्धमहान्यष्टादशाभवत् ॥
यो विद्याच्चतुरो वेदान्साङ्गोपनिषदो द्विजः ।
न चाख्यानमिदं विद्यान्नैव स स्याद्विचक्षणः ॥
अर्थशास्त्रमिदं प्रोक्तं धर्मशास्त्रमिदं महत् ।
कामशास्त्रमिदं प्रोक्तं व्यासेनामितबुद्धिना ॥
श्रुत्वा त्विदमुपाख्यानं श्राव्यमन्यन्न रोचते ।
पुंस्कोकिलगिरं श्रुत्वा रूक्षा ध्वाङ्क्षस्य वागिव ॥
इतिहासोत्तमादस्माञ्जायन्ते कविबुद्धयः ।
पञ्चभ्य इव् भूतेभ्यो लोकसंविधयस्त्रयः ॥
अस्याख्यानस्य विषये पुराणं वर्तते द्विजाः ।
अन्तरिक्षस्य विषये प्रजा इव चतुर्विधाः ॥
क्रियागुणानां सर्वेषामिदमाख्यानमाश्रयः ।
इन्द्रियाणां समस्तानां चित्रा इव मनः क्रियाः ॥
अनाश्रित्यैतदाख्यानं कथा भुवि न विद्यते ।
आहारमनपाश्रित्य शरीरस्येव धारणम् ॥
इदं कविवरैः सर्वैराख्यानमुपजीव्यते ।
उदयप्रेप्सुभिर्भृत्यैरभिजात इवेश्वरः ॥
अस्य काव्यस्य कवयो न समर्था विशेषणे ।
साधोरिव गृहस्थस्य शेषास्त्रय इवाश्रमाः ॥
धर्मे मतिर्भवतु वः सततोत्थितानां स ह्येक एव परलोकगतस्य बन्धुः ।
अर्थाः स्त्रियश्च निपुणैरपि सेव्यमाना नैवाप्तभावमुपयान्ति न च स्थिरत्वम् ॥
द्वैपायनौष्ठपुटनिःसृतमप्रमेयं पुण्यं पवित्रमथ पापहरं शिवं च ।
यो भारतं समधिगच्छति वाच्यमानं किं तस्य पुष्करजलैरभिषेचनेन ॥
यदह्ना कुरुते पाप ब्राह्मणस्त्विन्द्रियैश्चरन् ।
महाभारतमाख्याय सन्ध्यां मुच्यति पश्चिमाम् ॥
यद्रात्रौ कुरुते पापं कर्मणा मनसा गिरा ।
महाभारतमाख्याय पूर्वां सन्ध्यां प्रमुच्यते ॥
यो गोशतं कनकशृङ्गमयं ददाति विप्राय वेदविदुषे च बहुश्रुताय ।
पुण्यां च भारतकथां शृणुयाच्च नित्यं तुल्यं फलं भवति तस्य च तस्य चैव ॥
आख्यानं तदिदमनुत्तमं महार्थं विज्ञेयं महदिह पर्वसंग्रहेण ।
श्रुत्वादौ भवति नृणां सुखावगाहं विस्तीर्णं लवणजलं यथा प्लवेन ॥

इति श्रीमन्महाभारते आदिपर्वणि पर्वसंग्रहपर्वणि द्वितीयोऽध्यायः ॥ 2 ॥ ॥ समाप्तं पर्वसंग्रहपर्व ॥

1-2-3 क्षत्र क्षत्रियजातिं । अमर्षः स्वपितुः क्षत्रियेण हतत्वाज्जातस्य क्रोधस्यासहनं तेन चोदितः प्रेरितः ॥ 1-2-10 निषिषिधुः निषिद्धवन्तः । अक्षराधिक्यमार्ष ॥ 1-2-14 भूदोषाः निम्नोन्नतत्वकण्टकित्वादयः ॥ 1-2-19 पदातय इति रथादिगतानां नराण व्युदासः ॥ 1-2-23-26 अक्षौहिण्याः 21870 रथाः । 21871 गजाः । 109350 पदातयः । 65610 हयाः ॥ 1-2-28 पिण्डिता एकीभूताः ॥ 1-2-32 हार्दिक्यः कृतवर्मा गौतमः कृपः ॥ 1-2-33 ते तव सत्रे यद्भारताख्यानं मत्तः प्रवृत्तं तज्जनमेजयस्य सत्रे व्यासशिष्येण कथितमित्युत्तरेण संबन्धः ॥ 1-2-34 तत्र भारते ॥ 1-2-35 प्रतिपन्नं शरणीकृतं ॥ 1-2-38 अभिजातः कुलीनः ॥ 1-2-46 हरणं दायः पारिबर्हमिति यावत् तस्य हारिका समानयनं ॥ 1-2-49 अनुद्यूतं पुनर्द्यूतं ॥ 1-2-50 अभिगमनं तपसे गमनं ॥ 1-2-53 समास्या सहावस्थानं ॥ 1-2-57 प्रवेशः विराटनगरे । समयस्य संकेतस्य नियमस्य वा ॥ 1-2-70 प्रतिज्ञा जयद्रथवधार्थं ॥ 1-2-72 ह्रदप्रवेशनं दुर्योधनस्य ॥ 1-2-83 अन्यत्र कथितस्यावशिष्टं यत्पुनः प्रक्रम्य कथ्यते तत् खिलं प्रोच्यते । हरिवंशश्च तादृशः ॥ 1-2-90 माहात्म्यमुत्तङ्कस्य उदङ्कस्येत्यपि पाठः ॥ 1-2-117 भार्गवः कुलालः ॥ 1-2-138 कितवो द्यूतकारकः ॥ 1-2-150 शत्रुस्तव ऊरू भेत्स्यतीतिशापोत्सर्गः ॥ 1-2-220 नौ आवयोर्मध्ये ममैव साहाय्यं कर्तुमर्हतीति प्रत्येकं प्रार्थना ज्ञेया ॥ 1-2-231 ऐकात्म्यं एकचित्तत्वं ॥ 1-2-237 शौटीर्यात् गर्वात् ॥ 1-2-255 आचार्यः द्रोणाचार्यः ॥ 1-2-287 समवाये समये ॥ 1-2-316 संसारदहनं निरूप्येतिशेषः ॥ 1-2-317 आयोधनं युद्धस्थानं ॥ 1-2-319 क्षत्रियाः क्षत्रियस्त्रियः ॥ 1-2-327 शराएव तल्पो यस्य सः शरतल्पो भीष्मः तेन प्रोक्ताः । शरतल्पे भवा वा तत्रस्थेन व्याख्यातत्वात् ॥ 1-2-343 सुदर्शनं तथाख्यानमित्यत्र मृगदर्श तथाचैवेति-मणिदर्शनं तथाचैवेत्यपि पाठो दृश्यते ॥ 1-2-347 धृतराष्ट्रः आश्रमपदमिति च्छेदः सन्धिरार्षः ॥ 1-2-355 ब्रह्मदण्डः ब्राह्मणशापः ॥ 1-2-356 आपाने पानगोष्ठ्यां पानेन कलिताः विवशीकृताः । एरकाः तृणविशेषाः ॥ 1-2-357 नातिचक्रामतुः कालं समर्थावपि मर्यादां नोल्लङ्घितवन्तावित्यर्थः ॥ 1-2-359 वैशसं परस्परं विशसनं ॥ 1-2-372 अस्य अविचलामितिच्छेदः ॥ 1-2-387 विषये देशे अन्तरित्यर्थः । पुराणं अष्टादशभेदं पाद्मादि ॥ 1-2-394 संध्यां संध्यायां ॥ द्वितीयोऽध्यायः ॥ 2 ॥

अध्यायः 003

(अथ पौष्यपर्व ॥ 3 ॥)

जनमेजयं प्रति सरमाख्यदवेशुनीशापः ॥ 1 ॥ शापनिवारणार्थमृषेः सोमश्रवसः पौरोहित्येन वरणम् ॥ 2 ॥ आरुण्युपमन्युबैदाख्यानां धौम्यशिष्याणामुपाख्यानम् ॥ 3 ॥ बैदशिष्यस्योत्तङ्कस्योपाख्यानम् ॥ 4 ॥ पौष्यस्य राज्ञ उपाख्यानम् ॥ 5 ॥

सौतिरुवाच ।
जनमेजयः पारिक्षितः सह भ्रातृभिः कुरुक्षेत्रे दीर्घसत्रमुपास्ते । तस्य भ्रातरस्त्रयः श्रुतसेन उग्रसेनो भीमसेन इति ।
तेषु तत्सत्रमुपासीनेष्वभ्यागच्छत्सारमेयः ॥
जनमेजयस्य भ्रातृभिरभिहतो रोरूयमाणो मातुः समीपमुपागच्छत् ॥
तं माता रोरूयमाणमुवाच ।
किं रोदिषि केनास्यभिहत इति ॥
स एवमुक्तो मातरं प्रत्युवाच जनमेजयस्य भ्रातृभिरभिहतोऽस्मीति ॥
तं माता प्रत्युवाच व्यक्तं त्वया तत्रापराद्धं येनास्यभिहत इति ॥
स तां पुनरुवाच नापराध्यामि किंचिन्नावेक्षे हवींषि नावलिह इति ॥
तच्छ्रुत्वा तस्य माता सरमा पुत्रदुःखार्ता तत्सत्रमुपागच्छद्यत्र स जनमेजयः सह भ्रातृभिर्दीर्घसत्रमुपास्ते ॥
स तया क्रुद्धया तत्रोक्तोऽयं मे पुत्रो न किंचिदपराध्यति नावेक्षते हवींषि नावलेढि किमर्थमभिहत इति ॥
न किंचिदुक्तवन्तस्ते सा तानुवाच यस्मादयमभिहतोऽनपकारी तस्माददृष्टं त्वां भयमागमिष्यतीति ॥
जनमेजय एवमुक्तो देवशुन्या सरमया भृशं संभ्रान्तो विषण्णश्चासीत् ॥
स तस्मिन्सत्रे समाप्ते हास्तिनपुरं प्रत्येत्य पुरोहितमनुरूपमन्विच्छमानः परं यत्नमकरोद्यो मे पापकृत्यां शमयेदिति ॥
स कदाचिन्मृगयां गतः पारिक्षितो जनमेजयः कस्मिंश्चित्स्वविषय आश्रममपश्यत् ॥
तत्र कश्चिदृपिरासाञ्चक्रे श्रुतश्रवा नाम ।
तस्य तपस्यभिरतः पुत्र आस्ते सोमश्रवा नाम ॥
तस्य तं पुत्रमभिगम्य जनमेजयः पारिक्षितः पौरोहित्याय वव्रे ॥
स नमस्कृत्य तमृषिमुवाच भगवन्नयं तव पुत्रो मम पुरोहितोऽस्त्विति ॥
स एवमुक्तः प्रत्युवाच जनमेजयं भो जनमेजय पुत्रोऽयं मम सर्प्यां जातो महातपस्वी स्वाध्यायसंपन्नो मत्तपोवीर्यसंभृतो मच्छुक्रं पीतवत्यास्तस्याः कुक्षौ जातः ॥
समर्थोऽयं भवतः सर्वाः पापकृत्याः शमयितुमन्तरेण महादेवकृत्याम् ॥
अस्य त्वेकमुपांशुव्रतं यदेनं कश्चिद्ब्राह्मणः कंचिदर्थमभियाचेत्तं तस्मै दद्यादयं यद्येतदुत्सहसे ततो नयस्वैनमिति ॥
तेनैवमुक्तो जनमेजयस्तं प्रत्युवाच भगवंस्तत्तथा भविष्यतीति ॥
स तं पुरोहितमुपादायोपावृत्तो भ्रातृनुवाच मयाऽयं वृत उपाध्यायो यदयं ब्रूयात्तत्कार्यमविचारयद्भिर्भवद्भिरिति । तेनैवमुक्ता भ्रातरस्तस्य तथा चक्रुः ।
स तथा भ्रातॄन्संदिश्य तक्षशिलां प्रत्यभिप्रतस्थे तं च देशं वशे स्थापयामास ॥
एतस्मिन्नन्तरे कश्चिदृषिर्धौम्यो नामापोदस्तस्य शिष्यास्त्रयो बभूवुः ॥
उपमन्युरारुणिर्बैदश्चेति स एकं शिष्यंमारुणिं पाञ्चाल्यं प्रेषयामास गच्छ केदारखण्डं बधानेति ॥
स उपाध्यायेन संदिष्ट आरुणिः पाञ्चाल्यस्तत्र गत्वा तत्केदारखण्डं बद्धुं नाशकत् ।
स क्लिश्यमानोऽपश्यदुपायं भवत्वेवं करिष्यामीति ॥
स तत्र संविवेश केदारखण्डे शयाने व तथा तस्मिंस्तदुदकं तस्थौ ॥
ततः कदाचिदुपाध्याय आपोदो धौम्यः शिष्यावपृच्छत् क्व आरुणिः पाञ्चाल्यो गत इति ॥
तौ तं प्रत्यूचतुर्भगवंस्त्वयैव प्रेषितो गच्छ केदारखण्डं बधानेति ।
स एवमुक्तस्तौ शिष्यौ प्रत्युवाच तस्मात्तत्र सर्वे गच्छामो यत्र स गत इति ॥
स तत्र गत्वा तस्याह्वानाय शब्दं चकारः ।
भो आरुणे पाञ्चाल्य क्वासि वत्सैहीति ॥
स तच्छ्रुत्वा आरुणिरुपाध्यायवाक्यं तस्मात्केदारखण्डात्सहसोत्थायतमुपाध्यायमुपतस्थे ॥
प्रोवाच चैनमयमस्म्यत्र केदारखण्डे निःसरमाणमुदकमवारणीयं संरोद्धुं संविष्टो भगवच्छब्दं श्रुत्वैव सहसा विदार्य केदारखण्डं भवन्तमुपस्थितः ॥
तदभिवादये भगवन्तमाज्ञापयतु भवान्कमर्थं करवाणीति ॥
स एवमुक्त उपाध्यायः प्रत्युवाच यस्माद्भवान्केदारखण्डं विदार्योत्थितस्तस्मादुद्दालक एवनाम्ना भवान्भविष्यतीत्युपाध्यायेनानुगृहीतः ॥
यस्माच्च त्वया मद्वचनमनुष्ठितं तस्माच्छ्रेयोऽवाप्स्यसि ।
सर्वे च ते वेदाः प्रतिभास्यन्ति सर्वाणि च धर्मशास्त्राणीति ॥
स एवमुक्त उपाध्यायेनेष्टं देशं जगाम ॥
अथापरः शिष्यस्तस्यैवापोदस्य धौम्यस्योपमन्युर्नाम ।
तं चोपाध्यायः प्रेषयामास वत्सोपमन्यो गा रक्षस्वेति ॥
स उपाध्यायवचनादरक्षद्गाः स चाहनि गा रक्षित्वा दिवसक्षये गुरुगृहमागम्योपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे ॥
तमुपाध्यायः पीवानमपश्यदुवाच चैनं वत्सोपमन्यो केन वृत्तिं कल्पयसि पीवानसि दृढमिति ॥
स उपाध्यायं प्रत्युवाच भो भैक्ष्येण वृत्तिं कल्पयामीति तमुपाध्यायः प्रत्युवाच ॥
मय्यनिवेद्य बैक्ष्यं नीपयोक्तव्यमिति ।
स तथेत्युक्तो भैक्ष्यं चरित्वोणध्यायन्यवेदयत् ॥
स तस्मादुपाध्यायः सर्वमेव भैक्ष्यमगृह्णात् ।
स तथेत्युक्तः पुनररक्षद्गा अहनि रक्षित्वा निशामुखे गुरुकुलमागम्य गुरोरग्रतःस्थित्वा नमश्चक्रे ॥
तमुपाध्यायस्तथापि पीवानमेव दृष्ट्वोवाच ।
वत्सोपमन्यो सर्वमशेषतस्ते भैक्ष्यं गृह्णामि केनेदानीं वृत्तिं कल्पयसीति ॥
स एवमुक्त उपाध्यायं प्रत्युवाच ।
भगवते निवेद्य पूर्वमपरं चरामि तेन वृत्तिं कल्पयामीति तमुपाध्यायः प्रत्युवाच ॥
नैषा न्याय्या गुरुवृत्तिरन्येषामपि भैक्ष्योपजीविनां वृत्त्युपरोधं करोषि इत्येवं वर्तमानो लुब्धोऽसीति ॥
स तथेत्युक्त्वा गा अरक्षद्रक्षित्वाच पुनरुपाध्यायगृहमागम्योपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे ॥
तमुपाध्यायस्तथापि पीवानमेव दृष्ट्वा पुनरुवाच ।
वत्सोपमन्यो अहं ते सर्वं भैक्ष्यं गृह्णामि न चान्यच्चरसि पीवानसि भृशं केन वृत्तिं कल्पयसीति ॥
स एवमुक्तस्तमुपाध्यायं प्रत्युवाच । भो एतासां गवां पयसा वृत्तिं कल्पयामीति ।
तमुवाचोपाध्यायो नैतन्न्याय्यं पय उपयोक्तुं भवतो मया नाभ्यनुज्ञातमिति ॥
स तथेति प्रतिज्ञाय गा रक्षित्वा पुनरुपाध्यायगृहमेत्य गुरोरग्रतः स्थित्वा नमश्चक्रे ॥
तमुपाध्यायः पीवानमेव दृष्ट्वोवाच ।
वत्सोपमन्यो भैक्ष्यं नाश्नासि न चान्यच्चरसि पयो न पिबसि पीवानसि भृशं केनेदानीं वृत्तिं कल्पयसीति ॥
स एवमुक्त उपाध्यायं प्रत्युवाच ।
भोः फेनं पिबापि यमिमे वत्सा मातॄणां स्तनात्पिबन्त उद्गिरन्ति ॥
तमुपाध्यायः प्रत्युवाच । एते त्वदनुकम्पया गुणवन्तो वत्साः प्रभूततरं फेनमुद्गिरन्ति ।
तदेषामपि वत्सानां वृत्त्युपरोधं करोष्येवं वर्तमानः । फेनमपि भवान्न पातुमर्हतीति स तथेति प्रतिश्रुत्य निराहारः पुनररक्षद्गाः ॥
तथा प्रतिषिद्धो भैक्ष्यं नाश्नाति नचान्यच्चरति पयो न पिबति फेनं नोपयुह्क्ते स कदाचिदरण्ये क्षुधार्तोऽर्कपत्राण्यभक्षयत् ॥
स तैरर्कपत्रैर्भक्षितैः क्षारतिक्तकटुरूक्षैस्तीक्ष्णविपाकैश्चक्षुष्युपहतोऽन्धो बभूव ।
ततः सोऽन्धोऽपि चङ्क्रम्यमाणः कूपेऽपतत् ॥
अथ तस्मिन्ननागच्छति सूर्ये चास्ताचलावलम्बिनि उपाध्यायः शिष्यानवोचत् ॥
मयोपमन्युः सर्वतः प्रतिषिद्धः स नियतं कुपितस्ततो नागच्छति चिरगतस्त्विति ।
ततोऽन्वेष्य इत्येवमुक्त्वा शिष्यैः सार्धमरण्यं गत्वा तस्याह्वानाय शब्दं चकार भो उपमन्यो क्वासि वत्सैहीति ॥
स उपाध्यायस्य आह्वानवचनं श्रुत्वा प्रत्युवाचोच्चैरयमस्मिन्कूपे पतितोऽहमिति ।
तमुपाध्यायः प्रत्युवाच कथं त्वमस्मिन्कूपे पतित इति ॥
स उपाध्यायं प्रत्युवाच अर्कपत्राणि भक्षयित्वान्धीभूतोस्म्यतश्चङ्क्रम्यमाणः कूपे पतित इति ।
तमुपाध्यायः प्रत्युवाच ॥
अश्विनौ स्तुहि तौ देवभिषजौ त्वां चक्षुष्मन्तं कर्ताराविति ।
स एवमुक्त उपाध्यायेनोपमन्युः स्तोतुमुपचक्रमे देवावश्विनौ वाग्भिर्ऋग्भिः ॥
प्रपूर्वगौ पूर्वजौ चित्रभानू गिरा वां शंसामि तपसा ह्यनन्तौ ।
दिव्यौ सुपर्णौ विरजौ विमाना- वधिक्षिपन्तौ भुवनानि विश्वा ॥
हिरण्मयौ शकुनी सांपरायौ नासत्यदस्रौ सुनसौ वैजयन्तौ ।
शुक्लं वयन्तौ तरसा सुवेमा- वधिव्ययन्तावसितं विवस्वतः ॥
ग्रस्तां सुपर्णस्य बलेन वर्तिका- ममुञ्चतामश्विनौ सौभगाय ।
तावत्सुवृत्तावनमं तमाय या- वसत्तमा गा अरुणा उदावहत् ॥
षष्टिश्च गावस्त्रिशताश्च धेनव एकं वत्सं सुवते तं दुहन्ति ।
नानागोष्ठा विहिता एकदोहना- स्तावश्विनौ दुहतो घर्ममुक्थ्यम् ॥
एकां नाभिं सप्त सथा अराः श्रिताः प्रधिष्वन्या विंशतिरर्पिता अराः ।
अनेमि चक्रं परिवर्ततेऽजरं मायाऽश्विनौ समनक्ति चर्षणी ॥
एकं चक्रं वर्तते द्वादशारं षण्णाभिमेकाक्षममृतस्य धारणम् ।
यस्मिन्देवा अधि विश्वे विषक्ता- स्तावश्विनौ मुञ्चतो मा विषीदतम् ॥
अश्विनाविन्दुममृतं वृत्तभूयौ तिरोधत्तामश्विनौ दासपत्नी ।
हित्वा गिरिमश्विनौ गामुदाचरन्तौ तद्वृष्टिमह्नात्प्रस्थितौ बलस्य ॥
युवां दिशो जनयथो दशाग्रे समानं मूर्ध्नि रथयानं वियन्ति ।
तासां यातमृषयोऽनुप्रयान्ति देवा मनुष्याः क्षितिमाचरन्ति ॥
युवां वर्णान्विकुरुथो विश्वरूपां- स्तेऽधिक्षियन्ते भुवनानि विश्वा ।
ते भानवोऽप्यनुसृताश्चरन्ति देवा मनुष्याः क्षितिमाचरन्ति ॥
तौ नासत्यावश्विनौ वां महेऽहं स्रजं च यां बिभृथः पुष्करस्य ।
तौ नासत्वावमृतावृतावृधा- वृते देवास्तत्प्रपदे न सूते ॥
मुखेन गर्भं लभतां युवानौ गतासुरेतत्प्रपदेन सूते ।
सद्यो जातो मातरमत्ति गर्भ- स्तावश्विनौ मुञ्चथौ जीवसे गाम् ॥
स्तोतुं न शक्नोमि गुणैर्भवन्तौ चक्षुर्विहीनः पथि संप्रमोहः ।
दुर्गेऽहमस्मिन्पतितोऽस्मि कूपे युवां शरण्यौ शरणं प्रपद्ये ॥
सौतिरुवाच ।
एवमृग्भिश्चान्यैरस्तुवत् ।
इत्येवं तेनाभिष्टुतावश्विनावाजग्मतुराहतुश्चैं प्रीतौ स्व एष तेऽपूपोशानैनमिति ॥
स एवमुक्तः प्रत्युवाच नानृतमूचतुर्भगवन्तौ नत्वहमेतमपूपमुपयोक्तुमुत्सहे गुरवेऽनिवेद्येति ॥
ततस्तमश्विनावूचतुः ।
आवाभ्यां पुरस्ताद्भवत उपाध्यायेनैवमेवाभिष्टुताभ्यामपूपोदत्त उपयुक्तः स तेनानिवेद्य गुरवे त्वमपि तथैव कुरुष्व यथा कृतमुपाध्यायेनेति ॥
स एवमुक्तः प्रत्युवाच एतत्प्रत्यनुनये भवन्तावश्विनौ नोत्सहेऽहमनिवेद्य गुरवेऽपूपमुपयोक्तुमिति ॥
तमश्विनावाहतुः प्रीतौ स्वस्तवानया गुरुभक्त्या ।
उपाध्यायस्य ते कार्ष्णायसा दन्ता भवतोऽपि हिरण्मया भविष्यन्ति चक्षुष्मांश्च भविष्यसि श्रेयश्चावाप्स्यसीति ॥
स एवमुक्तोऽश्विभ्यां लब्धचक्षुरुपाध्यायसकाशमागम्याभ्यवादयत् ॥
आचचक्षे च स चास्य प्रीतिमान्बभूव ॥
आह चैनं यथाऽश्विनावाहतुस्तथा त्वं श्रेयोऽवाप्स्यसीति ॥
सर्वे च ते वेदाःप्रतिभास्यन्ति सर्वाणि च धर्मशास्त्राणीति ।
एषा तस्यापि परीक्षोपमन्न्योः ॥
अथापरः शिष्यस्तस्यैवापोदस्य धौम्यस्य बैदो नाम तमुपाध्यायः समादिदेश वत्स बैद इहास्यतां तावन्मम गृहे कंचित्कालं शुश्रूषुणा च भवितव्यं श्रेयस्ते भविष्यतीति ॥
स तथेत्युक्त्वा गुरुकुले दीर्घकालं गुरुशुश्रूषणपरोऽवसत् ।
गौरिव नित्यं गुरुणा धूर्षु नियोज्यमानः शीतोष्णक्षुत्तृष्णादुःखसहः सर्वत्राप्रतिकूलस्तस्य महतात्कालेन गुरुः परितोषं जगाम ॥
तत्परितोषाच्च श्रेयः सर्वज्ञतां चावाप ।
एषा तस्यापि परीक्षा बैदस्य ॥
स उपाध्यायेनानुज्ञातः समावृत्तस्तस्माद्गुरुकुलवासाद्गृहाश्रमं प्रत्यपद्यत । तस्यापि स्वगृहे वसतस्त्रयः शिष्या बभूवुः स शिष्यान्न किंचिदुवाच कर्म वा क्रियतां गुरुशुश्रूषा वेति ।
दुःखाभिज्ञो हि गुरुकुलवासस्य शिष्यान्परिक्लेशेन योजयितुं नेयेष ॥
अथ कस्मिंश्चित्काले बैदं ब्राह्मणं जनमेजयः पौष्यश्च क्षत्रियावुपेत्योपाध्यायं वरयाञ्चक्रतुः ॥
स कदाचिद्याज्यकार्येणाभिप्रस्थित उत्तङ्कनामानं शिष्यं नियोजयामास ॥
भोयत्किंचिदस्मद्गृहे परिहीयते तदिच्छाम्यहमपरिहीयमानं भवता क्रियमाणमिति स एवं प्रतिसंदिश्योत्तङ्कं बैदः प्रवासं जगाम ॥
अथोत्तङ्कः शुश्रूषुर्गुरुनियोगमनुतिष्ठमानो गुरुकुले वसति स्म ।
स तत्र वसमान उपाध्यायस्त्रीभिः सहिताभिराहूयोक्तः ॥
उपाध्यायानी ते ऋतुमती उपाध्यायश्च प्रोषितोऽस्या यथाऽयमृतुर्वन्ध्यो न भवति तथा क्रियतामेषा विषीदतीति ॥
एवमुक्तस्ताः स्त्रियः प्रत्युवाच । न मया स्त्रीणां वचनादिदमकार्यं करणीयम् ।
न ह्यहमुपाध्यायेन संदिष्टोऽकार्यमपि त्वया कार्यमिति ॥
तस्य पुनरुपाध्यायः कालान्तरेण गृहमाजगाम तस्मात्प्रवासात् ।
स तु तद्वृत्तं तस्याशेषमुपलभ्य प्रीतिमानभूत् ॥
उवाच चैनं वत्सोत्तङ्कं किं ते प्रियं करवाणीति ।
धर्मतो हि शुश्रूषितोऽस्मि भवता तेन प्रीतिः परस्परेण नौ संवृद्धा तदनुजाने भवन्तं सर्वानेव कामानवाप्स्यसि गम्यतामिति ॥
स एवमुक्तः प्रत्युवाच किं ते प्रियं करवाणीति एवं ह्याहुः ॥
यश्चाधर्मेण वै ब्रूयाद्यश्चाधर्मेण पृच्छति ।
तयोरन्यतरः प्रैति विद्वेषं चाधिगच्छति ॥
सोहमनुज्ञातो भवता इच्छामीष्टं गुर्वर्थमुपहर्तुमिति ।
तेनैवमुक्त उपाध्यायः प्रत्युवाच वत्सोत्तङ्क उष्यतां तावदिति ॥
स कदाचित्तमुपाध्यायमाहोत्तङ्क आज्ञापयतु भवान्किं ते प्रियमुपाहरामि गुर्वर्थमिति ॥
तमुपाध्यायः प्रत्युवाच वत्सोत्तङ्क बहुशो मां चोदयसि गुर्वर्थमुपाहरामीति तद्गच्छैनां प्रविश्योपाध्यायानीं पृच्छ किमुपाहरामीति एषा यद्ब्रवीति तदुपाहरस्वेति ॥
स एवमुक्त उपाध्यायेनोपाध्यायानीमपृच्छद्भवत्युपाध्यायेनास्म्यनुज्ञातो गृहं गन्तुमिच्छामीष्टं ते गुर्वर्थमुपहृत्यानृणो गन्तुं तदाज्ञापयतु भवती किमुपाहरामि गुर्वर्थमिति ॥
सैवमुक्तोपाध्यायानी तमुत्तङ्कं प्रत्युवाच गच्छ पौष्यं प्रति राजानं कुण्डले भिक्षितुं तस्य क्षत्रियया पिनद्धे ॥
आनयस्वेतश्चतुर्थेऽहनि पुण्यकर्म भविता ताभ्यामाबद्धाभ्यां शोभमाना ब्राह्मणान्परिवेष्टुमिच्छामि ।
तत्संपादयस्व एवं हि कुर्वतः श्रेयो भविताऽन्यथा कुतः श्रेय इति ॥
स एवमुक्तस्तयोपाध्यायान्या प्रातिष्ठतोत्तङ्कः स पथि गच्छन्नपश्यदृषभमतिप्रमाणं तमधिरूढं च पुरुषमतिप्रमाणमेव स पुरुष उत्तङ्कमभ्यभाषत ॥
भोउत्तङ्कैतत्पुरीषमस्य ऋषभस्य भक्षयस्वेति स एवमुक्तो नैच्छत् ॥
तमाह पुरुषो भूयो भक्षयस्वोत्तङ्क मा विचारयोपाध्यायेनापि ते भक्षितं पूर्वमिति ॥
स एवमुक्तो बाढमित्युक्त्वा तदा तद्वृपभस्य मूत्रं पुरीषं च भक्षयित्वोत्तङ्कः संभ्रमाढुत्थित एवापोऽनुस्पृश्य प्रतस्थे ॥
यत्र स क्षत्रियः पौष्यस्तमुपेत्यासीनमपश्यदुत्तङ्कः ।
स उत्तङ्कस्तमुपेत्याशीर्भिरभिनन्द्योवाच ॥
अर्थी भवन्तमुपागतोऽस्मीति स एनमभिवाद्योवाच ।
भगवन्पौष्यः खल्वहं किं करवाणीति ॥
स तमुवाच गुर्वर्थं कुण्डलयोरर्थेनाभ्यागतोऽस्मि ।
ये वै ते क्षत्रिया पिनद्धे कुण्डले ते भवान्दातुमर्हतीति ॥
तं प्रत्युवाच पौष्यः प्रविश्यान्तःपुरं क्षत्रिया याच्यतामिति ।
स तेनैवमुक्तः प्रविश्यान्तःपुरं क्षत्रियां नापश्यत् ॥
स पौष्यं पुनरुवाच न युक्तं भवताऽहमनृतेनोपचरितुं न हि तेऽन्तःपुरे क्षत्रिया सन्निहिता नैनां पश्यामि ॥
स एवमुक्तः पौष्यः क्षणमात्रं विमृश्योत्तङ्कं प्रत्युवाच ।
नियतं भवानुच्छिष्टः स्मर तावन्न हि सा क्षत्रिया उच्छिष्टेनाशुचिना शक्या द्रष्टुं पतिव्रतात्वात्सैषा नाशुचेर्दर्शनमुपैतीति ॥
अथैवमुक्त उत्तङ्कः स्मृत्वोवाचास्ति खलु मया तु भक्षितं नोपस्पृष्टमागच्छतेति ।
तं पौष्यः प्रत्युवाच एष ते व्यतिक्रमो नोत्थितेनोपस्पृष्टं भवति शीघ्रमागच्छतेति ॥
अथोत्तङ्कस्तं तथेत्युक्त्वा प्राङ्मुख उपावेश्य सुप्रक्षालितपाणिपादवदनो निःशब्दाभिरफेनाभिरनुष्णाभिर्हृद्गताभिरद्भिस्त्रिः पीत्वा द्विः परिमृज्य खान्यद्भिरुपस्पृश्य चान्तःपुरं प्रविवेश ॥
ततस्तां क्षत्रियामपश्यत्सा च दृष्ट्वैवोत्तङ्कं प्रत्युत्थायाभिवाद्योवाच स्वागतं ते भगवन्नाज्ञापय किं करवाणीति ॥
स तामुवाचैते कुण्डले गुर्वर्थं मे भिक्षिते दातुमर्हसीति ।
सा प्रीता तेन तस्य सद्भावेन पात्रमयमनतिक्रमणीयश्चेति मत्वा ते कुण्डले अवमुच्यास्मै प्रायच्छदाह चैनमेते कुण्डले तक्षको नागराजः सुभृशं प्रार्थयत्यप्रमत्तो नेतुमर्हसीति ॥
स एवमुक्तस्तां क्षत्रियां प्रत्युवाच भवती सुनिर्वृता भवतु ।
न मां शक्तस्तक्षको नागराजो धर्षयितुमिति ॥
स एवमुक्त्वा तां क्षत्रियामामन्त्र्य पौष्यसकाशमागच्छत् ।
आह चैनं भोः पौष्य प्रीतोऽस्मीति तमुत्तङ्कं पौष्यः प्रत्युवाच ॥
भगवंश्चिरेण पात्रमासाद्यते भवाश्च गुणवानतिथिस्तदिच्छे श्राद्धं कर्तुं क्रियतां क्षण इति ॥
तमुत्तङ्कः प्रत्युवाच कृतक्षण एवास्मि शीघ्रमिच्छामि यथोपपन्नमन्नमुपस्कृतं भवतेति स तथेत्युक्त्वा यथोपपन्नेनान्नेनैनं भोजयामास ॥
अथोत्तङ्कः सकेशं शीतमन्नं दृष्ट्वा अशुच्येतदिति मत्वा तं पौष्यमुवाच ।
यस्मान्मे अशुच्यन्नं ददासि तस्मादन्धो भविष्यसीति ॥
तं पौष्यः प्रत्युवाच ।
यस्मात्त्वमदुष्टमन्नंदूषयसि तस्मादनपत्यो भविष्यसीति तमुत्तङ्कः प्रत्युवाच ॥
न युक्तं भवताऽन्नमशुचि दत्त्वा प्रतिशापं दातुं तस्मादन्नमेव प्रत्यक्षीकुरु ।
ततः पौष्यस्तदन्नमशुचि दृष्ट्वा तस्याशुचिभावमपरोक्षयामास ॥
अथ तदन्नं मुक्तकेश्या स्त्रियोपहृतमनुष्णं सकेशं चाशुच्येतदिति मत्वा तमृषिमुत्तङ्कं प्रसादयामास ॥
भघवन्नेतदज्ञानादन्नं सकेशमुपाहृतं शीतं च । तत्क्षामये भवन्तं न भवेयमन्ध इति ।
तमुत्तङ्कः प्रत्युवाच ॥
न मृषा ब्रवीमि भूत्वा त्वमन्धो नचिरादनन्धो भविष्यसीति ।
ममापि शापो भवता दत्तो न भवेदिति ॥
तं पौष्यः प्रत्युवाच न चाहं शक्तः शापं प्रत्यादातुं न हि मे मन्युरद्याप्युपशमं गच्छति किं चैतद्भवता न ज्ञायते ।
यथा ॥
नवनीतं हृदयं ब्राह्मणस्य वाचि क्षुरो निहितस्तीक्ष्णधारः ।
तदुभयमेतद्विपरीतं क्षत्रियस्य वाङ्गवनीतं हृदयं तीक्ष्णधारम् ॥ इति ॥
तदेवंगते न शक्तोऽहं तीक्ष्णहृदयत्वात्तं शापमन्यथाकर्तुं गम्यतामिति ।
तमुत्तङ्कः प्रत्युवाच ॥
भवताऽहमन्नस्याशुचिभावमालक्ष्य प्रत्यनुनीतः । प्राक् च तेऽभिहितं यस्माददुष्टमन्नं दूषयसि तस्मादनपत्यो भविष्यसीति ।
दुष्टे चान्ने नैष मम शापो भविष्यतीति ॥
साधयामस्तावदित्युक्त्वा प्रातिष्ठतोत्तङ्कस्ते कुण्डले गृहीत्वा ।
सोऽपश्यदथ पथि नग्नं क्षपणकमागच्छन्तं मुहुर्मुहुर्दृश्यमानमदृश्यमानं च ॥
अथोत्तङ्कस्ते कुण्डले संन्यस्य भूमावुदकार्थं प्रचक्रमे ।
एतस्मिन्नन्तरे स क्षपणकस्त्वरमाण उपसृत्य ते कुण्डले गृहीत्वा प्राद्रवत् ॥
तमुत्तङ्कोऽभिसृत्य कृतोदककार्यः शुचिः प्रयतो नमो देवेभ्यो गुरुभ्यश्च कृत्वा महता जवेन तमन्वयात् ॥
तस्य तक्षको दृढमासन्नः सतं जग्राह ।
गृहीतमात्रः स तद्रूपं विहाय तक्षकस्वरूपं कृत्वा सहसा धरण्यां विवृतं महाबिलं प्रविवेश ॥
प्रविश्य च नागलोकं स्वभवनमगच्छत् ।
अथोत्तङ्कस्तस्याः क्षत्रियाया वचः स्मृत्वा तं तक्षकमन्वगच्छत् ॥
स तद्बिलं दण्डकाष्ठेन चखान न चाशकत् । तं क्लिश्यमानमिन्द्रोऽपश्यत्स वज्रं प्रेषयामास ।
गच्छास्य ब्राह्मणस्य साहाय्यं कुरुष्वेति ॥
अथ वज्रं दण्डकाष्ठमनुप्रविश्य तद्बिलमदारयत् ॥
तमुत्तङ्कोऽनुविवेश तेनैव बिलेन प्रविश्य च तं नागलोकमपर्यन्तमनेकविधप्रासादहर्म्यवलभीनिर्यूहशतसंकुलमुच्चावचक्रीडाश्चर्यस्थानावकीर्णमपश्यत् ॥
स तत्र नागांस्तानस्तुवदेभिः श्लोकैः । य ऐरावतराजानः सर्पाः समितिशोभाः ।
क्षरन्त इव जीमूताः सविद्युत्पवनेरिताः ॥
सुरूपा बहुरूपाश्च तथा कल्माषकुण्डलाः ।
आदित्यवन्नाकपृष्ठे रेजुरैरावतोद्भवाः ॥
बहूनि नागवेश्मानि गङ्गायास्तीर उत्तरे ।
तत्रस्थानपि संस्तौमि महतः पन्नगानहम् ॥
इच्छेत्कोऽर्कांशुसेनायां चर्तुमैरावतं विना ।
शतान्यशीतिरष्टौ च सहस्राणि च विंशतिः ॥
सर्पाणां प्रग्रहा यान्ति धृतराष्ट्रो यदैजति ।
ये चैनमुपसर्पन्ति ये च दूरपथं गताः ॥
अहमैरावतज्येष्ठभ्रातृभ्योऽकरवं नमः ।
यस्य वासः कुरुक्षेत्रे खाण्डवे चाभवत्पुरा ॥
तं नागराजमस्तौषं कुण्डलार्थाय तक्षकम् ।
तक्षकश्चाश्वसेनश्च नित्यं सहचरावुभौ ॥
कुरुक्षेत्रं च वसतां नदीमिक्षुमतीमनु ।
जघन्यजस्तक्षकस्य श्रुतसेनेति यः सुतः ॥
अवसद्यो महद्द्युम्नि प्रार्थयन्नागमुख्यताम् ।
करवाणि सदा चाहं नमस्तस्मै महात्मने ॥
सौतिरुवाच ।
एवं स्तुत्वा स विप्रर्षिरुत्तङ्को भुजगोत्तमान् ।
नैव ते कुण्डले लेभे ततश्चिन्तामुपागमत् ॥
एवं स्तुवन्नपि नागान्यदा ते कुण्डले नालभत्तदाऽपश्यत्स्त्रियौ तन्त्रे अधिरोप्य सुवेमे पटं वयन्त्यौ ।
तस्मिंस्तन्त्रे कृष्णाः सिताश्च तन्तवश्चक्रं चापश्यद्द्वादशारं षड्भिः कुमारैः परिवर्त्यमानं पुरुषं चापश्यदश्वं च दर्शनीयम् ॥
स तान्सर्वांस्तुष्टाव एभिर्मन्त्रवादश्लोकैः ॥
त्रीण्यर्पितान्यत्र शतानि मध्ये षष्टिश्च नित्यं चरति ध्रुवेऽस्मिन् ।
चक्रे चतुर्विंशतिपर्वयोगे षड्वै कुमाराः परिवर्तयन्ति ॥
तन्त्रं चेदं विश्वरूपे युवत्यौ वयतस्तन्तून्सततं वर्तयन्त्यौ ।
कृष्णान्सितांश्चैव विवर्तयन्त्यौ भूतान्यजस्रं भुवनानि चैव ॥
वज्रस्य भर्ता भुवनस्य गोप्ता वृत्रस्य हन्ता नमुचेर्निहन्ता ।
कृष्णे वसानो वसने महात्मा सत्यानृते यो विविनक्ति लोके ॥
यो वाजिनं गर्भमपां पुराणं वैश्वानरं वाहनमभ्युपैति ।
नमोऽस्तु तस्मै जगदीश्वराय लोकत्रयेशाय पुरंदराय ॥
ततः स एनं पुरुषः प्राह प्रीतोऽस्मि तेऽहसनेन स्तोत्रेण किं ते प्रियं करवाणीति ।
स तमुवाच नागा मे वशमीयुरिति ॥
स चैनं पुरुषः पुनरुवाच एतमश्वमपाने धमस्वेति ॥
ततोऽश्वस्यापानमधमत्ततोऽश्वाद्धम्यमानात्सर्वस्रोतोभ्यः पावकार्चिषः सधूमा निष्पेतुः ॥
ताभिर्नागलोक उपधूपितेऽथ संभ्रान्तस्तक्षकोऽग्नेस्तेजोभयाद्विषण्णः कुण्डले गृहीत्वा सहसा भवनान्निष्क्रम्योत्तङ्कमुवाच ॥
इमे कुण्डले गृह्णातु भवानिति ।
स ते प्रतिजग्राहोत्तङ्कः प्रतिगृह्य च कुण्डलेऽचिन्तयत् ॥
अद्य तत्पुण्यकमुपाध्यायान्या दूरं चाहमभ्यागतः स कथं संभावयेयमिति ॥
तत एनं चिन्तयानमेव स पुरुष उवाच ।
उत्तङ्क एनमेवाश्वमधिरोह त्वां क्षणेनैवोपाध्यायकुलं प्रापयिष्यतीति ॥
स तथेन्युक्त्वा तमश्वमधिरुह्य प्रत्याजगामोपाध्यायकुलं ।
उपाध्यायानी च स्नाता केशानावापयन्त्युपविष्टोत्तङ्को नागच्छतीति शापायास्य मनो दधे ॥
अथैतस्मिन्नन्तरे स उत्तङ्कः प्रविश्य उपाध्यायकुलं उपाध्यायानीमभ्यवादयत्ते चास्यै कुण्डले प्रायच्छत्सा चैनं प्रत्युवाच ॥
उत्तङ्क देशे कालेऽभ्यागतः स्वागतं ते वत्स `इदानीं यद्यनागतोसि कोपितया मया शप्तो भविष्यसि' श्रेयस्तवोपस्थितं सिद्धिमाप्नुहीति ॥
अथोत्तङ्क उपाध्यायमभ्यवादयत् ।
तमुपाध्यायः प्रत्युवाच वत्सोत्तङ्क स्वागतं ते किं चिरं कृतमिति ॥
तमुत्तङ्क उपाध्यायं प्रत्युवाच ।
भोस्तक्षकेण मे नागराजेन विघ्नः कृतोऽस्मिन्कर्मणि तेनास्मि नागलोकं गतः ॥
तत्र च मया दृष्टे स्त्रियौ तन्त्रेऽधिरोप्य पटं वयन्त्यौ तस्मिंश्च कृष्णाः सिताश्च तन्तवः ।
किं तत् ॥
तत्र च मया चक्रं दृष्टं द्वादशारं षट्चैनं कुमाराः परिवर्तयन्ति तदपि किं । पुरुषश्चापि मया दृष्टः स चापि कः ।
अश्वश्चातिप्रमाणो दृष्टः स चापि कः ॥
पथि गच्छता च मया ऋषभो दृष्टस्तं च पुरुषोऽधिरूढस्तेनास्मि सोपचारमुक्त उत्तङ्कास्य ऋषभस्य पुरीषं भक्षय उपाध्यायेनापि ते भक्षितमिति ॥
ततस्तस्य वचनान्मया तदृषभस्य पुरीषमुपयुक्तं स चापि कः । तदेतद्भवतोपदिष्टमिच्छेयं श्रोतुं किं तदिति ।
स तेनैवमुक्त उपाध्यायः प्रत्युवाच ॥
ये ते स्त्रियौ धाता विधाता च ये च ते कृष्णाः सितास्तन्तवस्ते रात्र्यहनी ।
यदपि तच्चक्रं द्वादशारं षट्कुमाराः परिवर्तयन्ति तेपि षड्ऋतवः द्वादशारा द्वादश मासाः संवत्सरश्चक्रम् ॥
यः पुरुषःस पर्जन्यः योऽश्वः सोऽग्निः य ऋषभस्त्वया पथि गच्छता दृष्टः स ऐरावतो नागराट् ॥
यश्चैनमधिरूढः पुरुषः स चेन्द्रः यदपि ते भक्षितं तस्य ऋषभस्य पुरीषं तदमृतं तेन खल्वसि तस्मिन्नागभवने न व्यापन्नस्त्वम् ॥
स हि भगवानिन्द्रो मम सखा त्वदनुक्रोशादिममनुग्रहं कृतवान् ।
तस्मात्कुण्डले गृहीत्वा पुनरागतोऽसि ॥
तत्सौम्य गम्यतामनुजाने भवन्तं श्रेयोऽवाप्स्यसीति ।
स उपाध्यायेनानुज्ञातो भगवानुत्तङ्कः क्रुद्धस्तक्षकं प्रतिचिकीर्षमाणो हास्तिनपुरं प्रतस्थे ॥
स हास्तिनपुरं प्राप्य नचिराद्विप्रसत्तमः ।
समागच्छत राजानमुत्तङ्को जनमेजयम् ॥
पुरा तक्षशिलासंस्थं निवृत्तमपराजितम् ।
सम्यग्विजयिनं दृष्ट्वा समन्तान्मन्त्रिभिर्वृतम् ॥
तस्मै जयाशिषः पूर्वं यथान्यायं प्रयुज्य सः ।
उवाचैनं वचः काले शब्दसंपन्नया गिरा ॥
उत्तङ्क उवाच ।
अन्यस्मिन्करणीये तु कार्ये पार्थिवसत्तम ।
अर्चयित्वा यथान्यायं प्रत्युवाच द्विजोत्तमम् ॥
सौतिरुवाच ।
एवमुक्तस्तु विप्रेण स राजा जनमेजयः ।
अर्चयित्वा यथान्यायं प्रत्युवाच द्विजोत्तमम् ॥
जनमेजय उवाच ।
आसां प्रजानां परिपालनेन स्वं क्षत्रधर्मं परिपालयामि ।
प्रव्रूहि मे किं करणीयमद्य येनासि कार्येण समागतस्त्वम् ॥
सौतिरुवाच ।
स एवमुक्तस्तु नृपोत्तमेन द्विजोत्तमः पुण्यकृतां वरिष्ठः ।
उवाच राजानमदीनसत्वं स्वमेव कार्यं नृपते कुरुष्व ॥
उत्तङ्क उवाच ।
तक्षकेण महीन्द्रेन्द्र येन ते हिंसितः पिता ।
तस्मै प्रतिकुरुष्व त्वं पन्नगाय दुरात्मने ॥
कार्यकालं हि मन्येऽहं विधिदृष्टस्य कर्मणः ।
तद्गच्छापचितिं राजन्पितुस्तस्य महात्मनः ॥
तेन ह्यनपराधी स दष्टो दुष्टान्तरात्मना ।
पञ्चत्वमगमद्राजा वज्राहत इव द्रुमः ॥
बलदर्पसमुत्सिक्तस्तक्षकः पन्नगाधमः ।
अकार्यं कृतवान्पापो योऽदशत्पितरं तव ॥
राजर्षिवंशगोप्तारममरप्रतिमं नृपम् ।
यियासुं काश्यपं चैव न्यवर्तयत पापकृत् ॥
होतुमर्हसि तं पापं ज्वलिते हव्यवाहने ।
सर्पसत्रे महाराज त्वरितं तद्विधीयताम् ॥
एवं पितुश्चापचितिं कृतवांस्त्वं भविष्यसि ।
मम प्रियं च सुमहत्कृतं राजन् भविष्यति ॥
कर्मणः पृथिवीपाल मम येन दुरात्मना ।
विघ्नः कृतो महाराज गुर्वर्थं चरतोऽनघ ॥
सौतिरुवाच ।
एतच्छ्रुत्वा तु नृपतिस्तक्षकाय चुकोप ह ।
उत्तङ्कवाक्यहविषा दीप्तोऽग्निर्हविषा यथा ॥
अपृच्छत्स तदा राजा मन्त्रिणः स्वान्सुदुःखितः ।
उत्तङ्कस्यैव सांनिध्ये पितुः स्वर्गगतिं प्रति ॥
तदैव हि स राजेन्द्रो दुःखशोकाप्लुतोऽभवत् । यदैव वृत्तं पितरमुत्तङ्कादशृणोत्तदा ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि पौष्यपर्वमि तृतीयोऽध्यायः ॥ 3 ॥ ॥ समाप्तं च पौष्यपर्व ॥

1-3-1 परिक्षितोऽपत्य पुमान्पारिक्षितः । सरमायाः देवशुन्याः अपत्यं पुमान्सारमेयः ॥ 1-3-9 अदृष्टं अतर्कितं ॥ 1-3-10 संभ्रान्तः संतप्त इति पाठान्तरं ॥ 1-3-11 पापकृत्यां शापरूपां बलायुः-प्राणनिकृन्तनीं देवतां । शमयेदक्रोधनां कुर्यात् । 1-3-18 उपांशुव्रतं गूढव्रतं ॥ 1-3-20 तक्षशिलां देशविशेषं जेतुमिति शेषः ॥ 1-3-21 अपोत्तीत्यपोदः अब्भक्षः तस्यापत्यमापोदः ॥ 1-3-22 केदारो महाक्षेत्रान्तर्गतं चतुरस्रं तस्य खण्डो जलनिरोधभित्तिः तं ॥ 1-3-36 पीवानं पुष्टं । वृत्तिं जीविकां ॥ 1-3-42 वृत्त्युपरोधं वृत्तिप्रतिबन्धं ॥ 1-3-44 चरसि भक्षयसि ॥ 1-3-51 तीक्ष्णविपाकैः पाककाले उदरेऽग्निज्वालोत्थापकैः ॥ 1-3-56 कर्ताराविति लुडन्तं ॥ 1-3-57 प्रपूर्वगाविति । अस्य श्लोकस्यानन्वयादुत्तरश्लोकस्थं संबोधनमिह योज्यम् । हे नासत्यदस्रौ गिरा वाण्या । वां युवां शंसामि स्तौमि । व्यवहिताश्चेति गतिसंज्ञत्वात्प्रशंसामीति वाऽन्वयः । किंभूतौ वां । प्रपूर्वगौ प्रकर्षेणान्यदेवताभ्यः पूर्वं यज्ञं गच्छन्तौ । पूर्वजौ अश्वजात्यां हि पूर्वं मुखसंयोगः ततः संयोगाद्गर्भोत्पत्तिरिति तत्र गर्भोत्पत्तेः पूर्वं मुखयोहगमात्राज्जातौ । चित्रभानू अग्नितुल्यौ । तपसा सामर्थ्येन । अनन्तौ अनन्तरूपधरौ । दिव्यौ दिवः द्योतमानात्सूर्याद्भवौ । सुपर्णौ शोभनगमनौ । विरजौ विगतरजोगुणौ । विश्वा विश्वानि । भुवनानि अधि । विमानौ स्वविमानौ । क्षिपन्तौ प्रेरयन्तौ ॥ 1-3-58 हिरण्मयाविति । किंभूतौ विमानौ । हिरण्मयौ सुवर्णमयौ । शकुनी । लुप्तोपममेतत् । शीघ्रगामित्वात्पक्षिणाविव । यद्वा पदद्वयमप्यश्विनोरेव विशेषणं । हिरण्मयौ सुवर्णालङ्कृतौ । शकुनी आरोग्यकरणेन शकुं शक्तिं नयतः प्रापयत इति शकुनी । सांपरायौ संपरायः परलोकस्तस्मै हितौ । यद्वा सांपरायामापदि अयः प्राप्तिर्ययोस्तौ । भक्तानामापदि तद्रक्षणायागच्छन्तौ । नासत्यदस्रौ । नासत्यौ असत्यरहितौ । नासापुटजातौ वा । दस्रौ दर्शनीयौ । सुसौ सुनासिकौ । विशेषेण जयन्तौ विजयन्तौ । विजयन्तावेव वैजयन्तौ । विवस्वतः सूर्यस्य तरसा बलेन असितं श्यामकुष्ठं अधिव्ययन्तौ निराकुर्वन्तौ । शुक्लं दीप्तियुक्तं वर्मं चक्षुर्वा । वयन्तौ कुर्वन्तौ । सूर्यस्य पितृत्वात् तद्बलेन युवयोरेतत्सामर्थ्यं युज्यत इति स्तुतिः । सुवेमौ । लुप्तोपममेतत् । यथा वेमधारिणौ तन्तुवायौ पटादसितकेशादि दूरीकुरुतः शुक्लं च तन्तुं वयतस्तथेत्यर्थः ॥ 1-3-59 ग्रस्तामिति । हे अश्विनौ । सुपर्णस्य लुप्तोपममेतत् । सुपर्णतुल्यपराक्रमस्य गतेर्वा वृकस्य बलेन ग्रस्तां अभिभूतां । वर्तिकां वर्तिकाख्यां पक्षिणीं । तस्याः सौभगाय जीवनरूपसुखाय । अमुञ्चतां भवन्ताविति शेषः । आस्नो वृकस्येत्यस्यामृचि इयं कथा प्रसिद्धा । अहं तौ युवां तावत् कार्त्स्न्येन अनमं नमस्कृतवानस्मि । तौ कौ । यौ प्रति । सुष्टु वर्तत इति सुवृत् सोमयागकर्ता । तमाय तमु ग्लानाविति धातोः ग्लानये । असत्तमाः असमीचीना अपि गाः उदावहत् प्रार्थनाविषयत्वेन प्रापयामास । गोविषयप्रार्थनां कृतवानित्यर्थः । किंभूतौ यौ । अरुणा अरुणौ । डादेशश्छान्दसः । लुप्तोपममेतत् । सोमयागे हि प्रातरनुवाकादावश्विनोः स्तुतत्वात् यथा दिनारम्भे अरुणस्तथा सोमयागारम्भे युवामित्यर्थः । अत्रायमाशयः । सोमयागे इन्द्रादिषु देवताभूतेषु सत्स्वपि असमीचीनगोरक्षणस्यानन्यसाध्यत्वज्ञानेन यजमानेन भवन्तावेव प्रार्थितावित्यहमपि युवामेव स्तौमीति ॥ 1-3-60 षष्टिश्च गाव इति । ज्योतिष्टोमे सन्त्युपसदस्तिस्रः । ताश्च सत्रेऽधिका भवन्ति । उपसत्सु च प्रवर्ग्य उक्तः । तत्र महावीराख्यपात्रेषु तप्ते घृते दुग्धं प्रक्षिप्यते तदर्था चास्ति धेनुः । ततो घृतं दुग्धं च मिश्रमश्विभ्यां हूयते । एवं सति यदा गवामयनादिसत्रेषु संवत्सरमुपसदः क्रियन्ते तत्र घर्मे सर्वोत्कृष्टे अश्विनावेव यष्टव्याविति स्तुतिरत्र क्रियते । तावश्विनावनममिति गतेन संबन्धः । तौ कौ यत्तदोर्नित्यसंबन्धाद्यौ तं घर्मं दुहतः साधयतः । प्रसिद्धोपि घर्मो भवतोर्भवति । भवतोरेव देवतात्वादित्याशयः । तं कं यत्तदोर्नित्यसंबन्धाद्यं घर्मं त्रिशताः षष्टिश्च धेनवो दुग्धदात्र्यो गावः । घर्मे दुग्धरहितानां गवामनुपयोगात् । एकं वत्सं वत्सरं । अत्यन्तसंयोगे द्वितीया । वत्सरावधीत्यर्थः । सुवते साधयन्ति । घृतेन । दुहन्ति दुग्धेन साधयन्ति । यज्ञादौ सावनः स्मृत इति वाक्यादत्र सावनवर्षग्रहणेन षष्ट्यधिकशतत्रयदिनानि भवन्ति । तेन तावत्य एव गावः घृतदुग्धाभ्यां घर्मं साधयन्तीत्यर्थः । कथंभूता गावः । नानागोष्ठाः लुप्तोपममेतत् । दिनानां गोष्ठोपमाया विवक्षितत्वात् नानागोष्ठनिष्ठा इत्यर्तः । एकदोहना विहिताः एकोऽध्वर्युर्दोहनकर्ता यासामेवंभूताः श्रुतावुक्ता इत्यर्थः । किंभूत घर्मं उक्थ्यं प्रशस्यम् ॥ 1-3-61-62 एकां नाभिमिति । सूर्यरथचालकत्वेनाश्विनावत्र स्तूयेते । श्लोकद्वयस्यैकान्वयः । हे अश्विनौ युवां । विषीदतं विषीदन्तं । छान्दसो नुमभावः । मां मुञ्चतः । लकारव्यत्ययेन मुञ्चतमित्याशंसा । तौ कौ । यावश्विनौ । चर्षणी लुप्तोपमं चैतत् । चर्षणिशब्दो निघण्टुषु मनुष्यपर्यायः पठितः । मनुष्याविवेत्यर्थः । सूर्यरथचालकत्वेन अश्विनोः शोभां वक्तुं सूर्यरथसंबन्धिचक्रद्वयगतिं वर्णयति पादत्रिकद्वयेन । एकपदमावृत्य योज्यं । एकं चक्रं ईदृशं परिवर्तते भ्रमति । अन्यदेकं चक्रं ईदृशं वर्तते चलतीत्यर्थः । कीदृशमेकं चक्रं आद्यस्य एकां नाभिं सप्तशताः सप्तशतसङ्ख्याः अराः अन्याश्च विंशतिसङ्ख्या अराः श्रिताः संलग्नाः । चक्रमध्यस्थनाभौ विंशत्यधिकसप्तशतसंख्याः अराः तिर्यक् संलग्ना इत्यर्थः । किंभूता अराः । प्रधिषु बाह्यचक्रावयवेषु अर्पिता अधिनिवेशिता इत्यर्थः । कीदृशमन्यच्चक्रं द्वादशारं षण्णाभि । पुंरत्वं छान्दसम् । कीदृशं प्रथमचक्रं । अनेमि चलनेमिरहितमित्यर्थः । अजरं न जीर्यत इत्यजरम् । जीर्णं न भवतीत्यर्थः । एकं चक्रं मध्यशङ्कुनिहितपाशवत्स्वस्थल एव परिभ्रमत् । द्वितीयं तु समन्ततश्चरतीत्याशयः । द्वितीयचक्रविशेषणमेकाक्षमिति । एकं उत्कृष्टोऽक्षोऽस्य अतिदृढ इत्यर्थः । अमृतस्य स्वर्गस्य धारणं रक्षणसाधनम् । यस्मिन्स्वचक्रे विश्वे सवे देवाः अधिविषक्ताः । प्राधान्याद्देवग्रहणम् । तेन तदुपलक्षिताः सर्वे जीवा इत्यर्थः । सर्वेषां सूर्यचक्रनियोगोदितत्वादित्यर्थः । अत्र "पञ्चारे चक्रे" इत्यादिश्रुतयो मानम् ॥ 1-3-63 अश्विनाविति । हे अश्विनौ दासपत्नी । सुपांसुलुगिति लुप्त सप्तमीबहुवचनत्वेन दासपत्नीषु अप्सु । इन्दुं अमृतं सोमाख्यममृतं । तिरोधत्तां कृतवन्तौ । किंभूतावश्विनौ वृत्तभूयौ भूयोवृत्तौ नानाकर्माणावित्यर्थः । हित्वेति । अश्विनौ यत् यदा गिरिं मे हित्वा त्यक्त्वा गां भुवं उदाचरन्तौ गच्छन्तौ । तत् तदा बलस्य प्राणिनां सामर्थ्यस्य संबन्धिनीं तज्जनिकां वृष्टिं प्रति । अह्नात शीघ्रम् । अह्नादिति सुबन्तप्रतिरूपकमव्ययं । प्रस्थितौ कृतप्रस्थानौ भवथः । सुमेरोः सकाशाद्भुवमागत्य प्राणिनामन्नादिद्वारेण बलजनिकां वृष्टिं कुरुथ इत्यर्थः ॥ 1-3-64 युवामिति । हे अश्विनौ युवां अग्रे प्रथमं समानं सम्यक् आनः आगतं गमन यस्मिन्कर्मणि तथा । सोमयागे प्रथमं गच्छन्ताविति यावत् दश दिशो जनयथः । दिक्शब्देन इन्द्रादयो दिक्पाला लक्ष्यन्ते । जनिः प्रादुर्भावार्थः । सोमयागे प्रथमगामित्वेन इन्द्रादिदेवताप्रादुर्भावकत्वं । अथ तदनन्तरं याः दिशः दिग्देवता मूर्ध्नि यागस्य मूर्ध्नि प्रधाने वियन्ति संबन्ध्यन्ते । तासां दिग्देवतानां यातं यानमनु पश्चात् ऋषयः प्रयान्ति मूर्ध्नीति पूर्वेणान्वयः । अतएव युवयोः देवा मनुष्याश्च क्षितिमैश्वर्यं ऐश्वर्य युक्तां स्तुतिमाचरन्ति कुर्वन्ति ॥ 1-3-65 युवां वर्णानिति त इति तच्छब्दात् यच्छब्दो द्रष्टव्यः । हे अश्विनौ युवां वर्णान्नानावर्णान् विश्वरूपान् सृष्ट्यादिहेतुत्वेन अनेकरूपान् यानभानून् विकुरुथः विशेषेण कुरुथः सूर्यरथप्रकाशयितृत्वादित्याशयः । ते भानवः सूर्यकिरणाः विश्वा विश्वानि सर्वाणि भुवनानि अधिक्षियन्ते आवृण्वन्ति । त एव भानवोऽनुसृताश्चरन्त्यपि विचरन्ति चेत्यर्थः । अतएव देवा मनुष्याश्च युवयोः क्षिति स्तुतिमाचरन्तीति पूर्ववदर्थः ॥ 1-3-66 तौ नासत्याविति हे नासत्यावश्विनौ अहं तौ वां युवां महे पूजयामि । मनसा पूजयामीत्यर्थः । यां छान्दसत्वेन जात्यभिप्रायेणैकवचनम् । ये । पुष्करस्य जात्यभिप्रायैकवचनं । पुष्कराणां पद्मानां स्रजं जात्येकवचनेन स्रजौ माले बिभृथो धारयथः । तौ प्रसिद्धौ अमृतौ नास्ति मृतं मरणं ययोस्तौ तथोक्तौ ऋतावृधौ ऋतं सत्यं यज्ञमुदकं वा वर्धयत इति तथा तौ नासत्यौ ऋते विना देवा इन्द्रादयः पदे स्थाने सोमयागादौ तद्देवसंबन्धित्वेन प्रसिद्धं हविः न प्रसूते वचनव्यत्ययेन न प्राप्नुवन्ति । सोमयागे अश्विनोः प्रथमगामित्वेन तौ विना देवाः स्वांशं न स्वीकुर्वन्तीत्यर्थः ॥ 1-3-67 मुखेन गर्भमिति । हे अश्विनौ तौ युवां जीवसे जीवितु । असेन्प्रत्ययान्तमेतत् । गां दृष्टिं मुञ्चथः लकारव्यत्ययेन मुञ्चतमित्याशंसा । तौ कौ यौ मुखेन कृत्वा युवानौ तरुणावेव गर्भं भावप्रधानो निर्देशः । गर्भत्वं लभतां अलभतां । बहुलं छन्दसीत्यडभावः । ननु नवमासगर्भधारणाभावे कथमाकस्मिकोत्पत्तिः कथं च स्तन्यपानाद्यभावे आकस्मिकं तारुण्यमित्यत आह । गतासुरित्यादि । गता असवः प्राणा यस्येति गतासुर्मनुष्यादिः । एतत् छान्दसो लिङ्गव्यत्ययः । एनं गर्भं । प्रपदेन प्रकृष्टेन पदेन गमनेन नवमासरूपेण प्रसूते जातः उत्पन्नः स गर्भः सद्यः तत्काले जननीं अत्ति पिबति । मनुष्यदेहे एतदुचितम् । अश्विनोस्तु मरणधर्मत्वाभावान्नैवमित्याशयः ॥ 1-3-77 एषा तस्येति सूतवाक्यं ॥ 1-3-79 गौर्बलीवर्दः ॥ 1-3-81 नेयेष न कामितवान् ॥ 1-3-83 नियोजयामास अग्निशुश्रूषादतविति शेषः ॥ 1-3-84 परिहीयते न्यूनं भवति ॥ 1-3-90 आहुः वृद्धा इति शेषः ॥ 1-3-91 व्रूयात् अध्यायपयेत् । पृच्छति अधीते । अधर्मेण गुरुदक्षिणादिव्यतिरेकेण ॥ 1-3-96 पिनद्धे धृते ॥ 1-3-101 अनुपस्पृश्य अनाचम्य ॥ 1-3-106 अनृतेनोपचरितुं वञ्चयितुं ॥ 1-3-127 उदकार्थं शौचाचमनादि कर्तुं ॥ 1-3-129 दृढमासन्नः अत्यन्तसन्निहितः ॥ 1-3-135 कल्माषकुण्डलाः चित्रकुण्डलाः ॥ 1-3-137 अर्कांशुसेनायां सेनावद्दुःसहरश्मिजाले ॥ 1-3-142 महद्द्युग्नि तीर्थविशेषे ॥ 1-3-145 मन्त्रवादश्लोकैः मन्त्रस्वरूपश्लोकैः ॥ 1-3-146 त्रीण्यर्पितानीति । मन्त्रलिङ्गमात्रावगमात्तुष्टाव । विशेषशानं तु तस्य गुरुमुखादेव भविष्यति । अत्र चक्रे । नित्यं चरति भ्रमति । ध्रुवे प्रवाहरूपेण नित्ये कालरूपे । शतानि षष्टिश्च अहोरात्राणामिति शेषः । चतुर्विंशतिपर्वणां शुक्लकृष्णपक्षरूपाणां योगो युस्मिन्तथाभूते । मध्येऽर्पितानि । यच्च षट्कुमाराः ऋतवः परिवर्तयन्ति ॥ 1-3-147 तन्त्रं चेदमिति । तन्त्रं आतानवितानरूपं तन्तुसमुदायं । विश्वरूपे समयभेदेन स्त्रीपुरुषादिरूपे । युवत्यौ धाताविघातारौ । वयतः रचनां कुरतः । संवत्सररूपं पटमितिशेषः । वर्तयन्त्यौ संचारयन्त्यौ । भूतानि च परिवर्तयन्त्यौ वयत इति पूर्वेणान्वयः ॥ 1-3-148 भर्ता धारकः ॥ 1-3-149 अपां गर्भं अद्भ्यो जातं । पुराणं आदिसर्गभवं । वैश्वानरं अग्निरूपमश्व । वाजिन वाहनं अभ्युपैति । तस्मै नम इत्यन्वयः ॥ 1-3-152 स्नोतोभ्यः शरीररन्ध्रेभ्यः ॥ 1-3-157 आवापयन्ती वेणीरूपेण केशानां संग्रथनं कारयन्ती ॥ 1-3-159 त्वं मनागसि न शप्तः इति पाठे स्वलकालनिमित्तं न शप्तोसि । यदि क्षमं नागतः स्याः शप्तः स्या इत्यर्थः ॥ 1-3-168 न व्यापन्नो न मृतः ॥ 1-3-182 कश्यप इत्यपि पाठो दृश्यते ॥ ॥ तृतीयोऽध्यायः ॥ 3 ॥

अध्यायः 004

(अथ पौलोमपर्व ॥ 4 ॥)

सौतिशौनकसंवादमुखेन कथोपोद्धातः ॥ 1 ॥

रोमहर्षणपुत्र उग्रश्रवाः सौतिः पौराणिको नैमिशारण्ये शौनकस्य कुलपतेर्द्वादशवार्षिके सत्रे ऋषीनभ्यागतानुपतस्थे ॥
पौराणिकः पुराणे कृतश्रमः स कृताञ्जलिस्तानुवाच । `मयोत्तङ्कस्य चरितमशेषमुक्तं जनमेजयस्य सार्पसत्रे निमित्तान्तरमिदमपि ।'
किं भवन्तः श्रोतुमिच्छन्ति किमहं ब्रवाणीति ॥
तमृषय ऊचुः ।
परं रौमहर्षणे प्रवक्ष्यामस्त्वां नः प्रतिवक्ष्यसि वचः शुश्रूषतां कथायोगं नः कथायोगे ॥
तत्र भगवान् कुलपतिस्तु शौनकोऽग्निशरणमध्यास्ते । `दीर्घसत्रत्वात्सर्वाः कथाः श्रोतुं कालोस्ति ॥'
यौऽसौ दिव्याः कथा वेद देवतासुरसंश्रिताः ।
मनुष्योरगगन्धर्वकथा वेद च सर्वशः ॥
स चाप्यस्मिन्मशे सौते विद्वान्कुलपतिर्दिवजः ।
दक्षो धृतव्रतो धीमाञ्शास्त्रे चारण्यके गुरुः ॥
सत्यवादी शमपरस्तपस्वी नियतव्रतः ।
सर्वेषामेव नो मान्यः स तावत्प्रतिपाल्यताम् ॥
तस्मिन्नध्यासति गुरावासनं परमार्चितम् ।
ततो वक्ष्यसि यत्त्वां स प्रक्ष्यति द्विजसत्तमः ॥
सौतिरुवाच ।
एवमस्तु गुरौ तस्मिन्नुपविष्टे महात्मनि ।
तेन पृष्टः कथाः पुण्या वक्ष्यामि विविधाश्रयाः ॥
सोऽथ विप्रर्षभः सर्वं कृत्वा कार्यं यथाविधि ।
देवान्वाग्भिः पितॄनद्भिस्तर्पयित्वाऽऽजगाम ह ॥
यत्र ब्रह्मर्षयः सिद्धाः सुखासीना धृतव्रताः ।
यज्ञायतनमाश्रित्य सूतपुत्रपुरस्पराः ॥
ऋत्विक्ष्वथ सदस्येषु स वै गृहपतिस्तदा ।
उपविष्टेषूपविष्टः शौनकोऽथाब्रवीदिदम् ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि पौलोमपर्वणि चतुर्थोऽध्यायः ॥ 4 ॥

1-4-7 प्रतिपाल्यतां प्रतीक्ष्यतां ॥ 1-4-10 वाग्भिः ब्रह्मयज्ञीयाभिः ॥ चतुर्थोऽद्यायः ॥ 4 ॥

अध्यायः 005

भृगुवंशकथनम् ॥ 1 ॥ पौलोमोपाख्यानम् ॥ 2 ॥ पुलोमापहारः ॥ 3 ॥ पुलोमाग्निसंवादः ॥ 4 ॥

शौनक उवाच ।
पुराणमखिलं तात पिता तेऽधीतवान्पुरा । `भारताध्ययनं सर्वं कृष्णद्वैपायनात्तदा ।'
कच्चित्त्वमपि तत्सर्वमधीषे रौमहर्षणे ॥
पुराणे हि कथा दिव्या आदिवंशाश्च धीमताम् ।
कथ्यन्ते ये पुराऽस्माभिः श्रुतपूर्वाः पितुस्तव ॥
तत्र वंशमहं पूर्वं श्रोतुमिच्छामि भार्गवम् ।
कथयस्व कथामेतां कल्याः स्मः श्रवणे तव ॥
सौतिरुवाच ।
यदधीतं पुरा सम्यग्द्विजश्रेष्ठैर्महात्मभिः ।
वैशंपायनविप्राग्र्यैस्तैश्चापि कथितं यथा ॥
यदधीतं च पित्रा मे सम्यक्कैव ततो मया ।
तावच्छृणुष्व यो देवैः सेन्द्रैः सर्षिमरुद्गणैः ॥
पूजितः प्रवरो वंशो भार्गवो भृगुनन्दन ।
इमं वंशमहं पूर्वं भार्गवं ते महामुने ॥
निगदामि यथायुक्तं पुराणाश्रयसंयुतम् ।
भृगुर्महर्षिर्भगवान्ब्रह्मणा वै स्वयंभुवा ॥
वरुणस्य क्रतौ जातः पावकादिति नः श्रुतम् ।
भृगोः सुदयितः पुत्रश्च्यवनो नाम भार्गवः ॥
च्यवनस्य च दायादः प्रमतिर्नाम धार्मिकः ।
प्रमतेरप्यभूत्पुत्रो घृताच्यां रुरुरित्युत ॥
रुरोरपि सुतो जज्ञे शुनको वेदपारगः ।
प्रमद्वरायां धर्मात्मा तव पूर्वपितामहः ॥
तपस्वी च यशस्वी च श्रुतवान्ब्रह्मवित्तमः ।
धार्मिकः सत्यवादी च नियतो नियताशनः ॥
शौनक उवाच ।
सूतपुत्र यथा तस्य भार्गवस्य महात्मनः ।
च्यवनत्वं परिख्यातं तन्ममाचक्ष्व पृच्छतः ॥
सौतिरुवाच ।
भृगोः सुदयिता भार्या पुलोमेत्यभिविश्रुता ।
तस्यां समभवद्गर्भो भृगुवीर्यसमुद्भवः ॥
तस्मिन्गर्भेऽथ संभूते पुलोमायां भृगूद्वह ।
समये समशीलिन्यां धर्मपत्न्यां यशस्विनः ॥
अभिषेकाय निष्क्रान्ते भृगौ धर्मभृतां वरे ।
आश्रमं तस्य रक्षोऽथ पुलोमाऽभ्याजगाम ह ॥
तं प्रविश्याश्रमं दृष्ट्वा भृगोर्भार्यामनिन्दिताम् ।
हृच्छयेन समाविष्टो विचेताः समपद्यत ॥
अभ्यागतं तु तद्रक्षः पुलोमा चारुदर्शना ।
न्यमन्त्रयत वन्येन फलमूलादिना तदा ॥
तां तु रक्षस्तदा ब्रह्मन्हृच्छयेनाभिपीडितम् ।
दृष्ट्वा हृष्टमभूद्राजञ्जिहीर्षुस्तामनिन्दिताम् ॥
जातमित्यब्रवीत्कार्यं जिहीर्षुर्मुदितः शुभाम् ।
सा हि पूर्वं वृता तेन पुलोम्ना तु शुचिस्मिता ॥
तां तु प्रादात्पिता पश्चाद्भृगवे शास्त्रवत्तदा ।
तस्य तत्किल्बिषं नित्यं हृदि वर्तति भार्गव ॥
इदमन्तरमित्येवं हर्तुं चक्रे मनस्तदा ।
अथाग्निशरणेऽपश्यज्ज्वलन्तं जातवेदसम् ॥
तमपृच्छत्ततो रक्षः पावकं ज्वलितं तदा ।
शंस मे कस्य भार्येयमग्ने पृच्छे ऋतेन वै ॥
मुखं त्वमसि देवानां वद पावक पृच्छते ।
मया हीयं वृता पूर्वं भार्यार्थे वरवर्णिनी ॥
पश्चादिमां पिता प्रादाद्भृगवेऽनृतकारकः ।
सेयं यदि वरारोहा भृगोर्भार्या रहोगता ॥
तथा सत्यं समाख्याहि जिहीर्षाम्याश्रमादिमाम् ।
स मन्युस्तत्र हृदयं प्रदहन्निव तिष्ठति ॥
मत्पूर्वभार्यां यदिमां भृगुराप सुमध्यमाम् ।
`असंमतमिदं मेऽद्य हरिष्याम्याश्रमादिमाम्' ॥
सौतिरुवाच ।
एवं रक्षस्तमामन्त्र्य ज्वलितं जातवेदसम् ।
शङ्कमानं भृगोर्भार्यां पुनःपुनरपृच्छत ॥
त्वमग्ने सर्वभूतानामन्तश्चरसि नित्यदा ।
साक्षिवत्पुण्यपापेषु सत्यं ब्रूहि कवे वचः ॥
मत्पूर्वभार्याऽपहृता भृगुणाऽनृतकारिणा ।
सेयं यदि तथा मे त्वं सत्यमाख्यातुमर्हसि ॥
श्रुत्वा त्वत्तो भृगोर्भार्यां हरिष्याम्याश्रमादिमाम् ।
जातवेदः पश्यतस्ते वद सत्यां गिरं मम ॥
सौतिरुवाच ।
तस्यैतद्वचनं श्रुत्वा सप्तार्चिर्दुःखितोऽभवत् ।
`सत्यं वदामि यदि मे शापः स्याद्ब्रह्मवित्तमात् ॥
असत्यं चेदहं ब्रूयां पतिष्ये नरकान्ध्रुवम् ।' भीतोऽनृताच्च शापाच्च भृगोरित्यब्रवीच्छनैः ॥
त्वया वृता पुलोमेयं पूर्वं दानवनन्दन ।
किं त्वियं विधिना पूर्वं मन्त्रवन्न वृता त्वया ॥
पित्रा तु भृगवे दत्ता पुलोमेयं यशस्विनी ।
ददाति न पिता तुभ्यं वरलोभान्महायशाः ॥
अथेमां वेददृष्टेन कर्मणा विधिपूर्वकम् ।
भार्यामृषिर्भृगुः प्राप मां पुरस्कृत्य दानव ॥
सेयमित्यवगच्छामि नानृतं वक्तुमुत्सहे ।
नानृतं हि सदा लोके पूज्यते दानवोत्तम ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि पौलोमपर्वणि पञ्चमोऽध्यायः ॥ 5 ॥

1-5-3 कल्याः समर्थाः । तव त्वत्तः श्रोतुमिति संबन्धः ॥ 1-5-7 यथायुक्तं कथायुक्तं इत्यपि पाठः । पुराणस्य आश्रयः उपोद्धातःतत्संयुतं ॥ 1-5-19 बाल्ये किल रुदतीं कन्यां रोदनानिवृत्त्यर्थं भीषयितुं पित्रोक्तं रे रक्ष एनां गृहाणेति । तावतैव गृहे सन्निहितेन रक्षसा वृता ममेयं भार्येति ॥ 1-5-27 शङ्कमानं छलवचनेन पूर्वं मह्यं दत्ता पश्चाद्विधिपूर्वकं भृगवे दत्ताऽतो मम वा भृगोर्वा भार्येति सन्दिहानम् ॥ 1-5-28 कवे सर्वज्ञ ॥ पञ्चमोऽध्यायः ॥ 5 ॥

अध्यायः 006

च्यवनोत्पत्ती रक्षोविनाशश्च ॥ 1 ॥ अग्नेर्भृगुशापः ॥ 2 ॥

सौतिरुवाच ।
अग्नेरथ वचः श्रुत्वा तद्रक्षः प्रजहार ताम् ।
ब्रह्मन्वराहरूपेण मनोमारुतरंहसा ॥
ततः स गर्भो निवसन्कुक्षौ भृगुकुलोद्वह ।
रोषान्मातुश्च्युतः कुक्षेश्च्यवनस्तेन सोऽभवत् ॥
तं दृष्ट्वा मातुरुदराच्च्युतमादित्यवर्चसम् ।
तद्रक्षो भस्मसाद्भूतं पपात परिमुच्य ताम् ॥
सा तमादाय सुश्रोणी ससार भृगुनन्दनम् ।
च्यवनं भार्गवं पुत्रं पुलोमा दुःखमूर्च्छिता ॥
तां ददर्श स्वयं ब्रह्मा सर्वलोकपितामहः ।
रुदतीं बाष्पपूर्णाक्षीं भृगोर्भार्यामनिन्दिताम् ॥
सान्त्वयामास भगवान्वधूं ब्रह्मा पितामहः ।
अश्रुबिन्दूद्भवा तस्याः प्रावर्तत महानदी ॥
आवर्तन्ती सृतिं तस्या भृगोः पत्न्यास्तपस्विनः ।
तस्या मार्गं सृतवतीं दृष्ट्वा तु सरितं तदा ॥
नाम तस्यास्तदा नद्याश्चक्रे लोकपितामहः ।
वधूसरेति भगवांश्च्यवनस्याश्रमं प्रति ॥
स एवं च्यवनो जज्ञे भृगोः पुत्रः प्रतापवान् । तं ददर्श पिता तत्र च्यवनं तां च भामिनीम् ।
स पुलोमां ततो भार्यां पप्रच्छ कुपितो भृगुः ॥
भृगुरुवाच ।
केनासि रक्षसे तस्मै कथिता त्वं जिहीर्षवे ।
न हि त्वा वेद तद्रक्षो मद्भार्यां चारुहासिनीम् ॥
तत्त्वमाख्याहि तं ह्यद्य शप्तुमिच्छाम्यहं रुषा ।
बिभेति को न शापान्मे कस्य चायं व्यतिक्रमः ॥
पुलोमोवाच ।
अग्निना भगवंस्तस्मै रक्षसेऽहं निवेदिता ।
ततो मामनयद्रक्षः क्रोशन्तीं कुररीमिव ॥
साऽहं तव सुतस्यास्य तेजसा परिमोक्षिता ।
भस्मीभूतं च तद्रक्षो मामुत्सृज्य पपात वै ॥
सौतिरुवाच ।
इति श्रुत्वा पुलोमाया भृगुः परममन्युमान् ।
शशापाग्निमतिक्रुद्धः सर्वभक्षो भविष्यसि ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि पौलोमपर्वणि षष्ठोऽध्यायः ॥ 6 ॥

1-6-2 तेन च्युतत्वेन हेतुना ॥ 2 ॥ 1-6-7 आवर्तन्ती सृतिं तस्याः । सृतिं मार्गं । अनुवर्त्म सृता तस्या इति पाठान्तरं ॥ 7 ॥ षष्ठोऽध्यायः ॥ 6 ॥

अध्यायः 007

क्रोधेनाग्निकृत आत्मोपसंहारः ॥ 1 ॥ ब्रह्मोक्तसान्त्ववचनेनाग्नेः संतोषः ॥ 2 ॥

सौतिरुवाच ।
शप्तस्तु भृगुणा वह्निः क्रुद्धो वाक्यमथाब्रवीत् ।
किमिदं साहसं ब्रह्मन्कृतवानसि मां प्रति ॥
धर्मे प्रयतमानस्य सत्यं च वदतः समम् ।
पृष्टो यदब्रवं सत्यं व्यभिचारोऽत्र को मम ॥
पृष्टो हिसाक्षीयः साक्ष्यं जानानोऽप्यन्यथा वदेत् ।
स पूर्वानात्मनः सप्त कुले हन्यात्तथाऽपरान् ॥
यश्च कार्यार्थतत्त्वज्ञो जानानोऽपि न भाषते ।
सोऽपि तेनैव पापेन लिप्यते नात्र संशयः ॥
शक्तोऽहमपि शप्तुं त्वां मान्यास्तु ब्राह्मणा मम ।
जानतोऽपि च ते ब्रह्मन्कथयिष्ये निबोध तत् ॥
योगेन बहुधाऽऽत्मानं कृत्वा तिष्ठामि मूर्तिषु ।
अग्निहोत्रेषु सत्रेषु क्रियासु च मखेषु च ॥
वेदोक्तेन विधानेन मयि यद्धूयते हविः ।
देवताः पितरश्चैव तेन तृप्ता भवन्ति वै ॥
आपो देवगणाः सर्वे आपः पितृगणास्तथा ।
दर्शश्च पौर्णमासश्च देवानां पितृभिः सह ॥
देवताः पितरस्तस्मात्पितरश्चापि देवताः ।
एकीभूताश्च दृश्यन्ते पृथक्त्वेन च पर्वसु ॥
देवताः पितरश्चैव भुञ्जते मयि यद्भुतम् ।
देवतानां पितॄणां च मुखमेतदहं स्मृतम् ॥
अमावास्यां हि पितरः पौर्णमास्यां हि देवताः ।
मन्मुखेनैव हूयन्ते भुञ्जते च हुतं हविः ॥
सर्वभक्षः कथं त्वेषां भविष्यामि मुखं त्वहम् ।
सौतिरुवाच ।
चिन्तयित्वा ततो वह्निश्चके संहारमात्मनः ॥
द्विजानामग्निहोत्रेषु यज्ञसत्रक्रियासु च ।
निरोंकारवषट्काराः स्वधास्वाहाविवर्जिताः ॥
विनाऽग्निना प्रजाः सर्वास्तत आसन्सुदुःखिताः ।
अथर्षयः समुद्विग्ना देवान् गत्वाब्रुवन्वचः ॥
अग्निनाशात्क्रियाभ्रांशाद्भ्रान्ता लोकास्त्रयोऽनघाः ।
विधध्वमत्र यत्कार्यं न स्यात्कालात्ययो यथा ॥
अथर्षयश्च देवाश्च ब्रह्माणमुपगम्य तु ।
अग्नेरावेदयञ्शापं क्रियासंहारमेव च ॥
भृगुणा वै महाभाग शप्तोऽग्निः कारणान्तरे ।
कथं देवमुखो भूत्वा यज्ञभागाग्रभुक् तथा ॥
हुतभुक्सर्वलोकेषु सर्वभक्षत्वमेष्यति ।
सौतिरुवाच ।
श्रुत्वा तु तद्वचस्तेषामग्निमाहूय विश्वकृत् ॥
उवाच वचनं श्लक्ष्णं भूतभावनमव्ययम् ।
लोकानामिह सर्वेषां त्वं कर्ता चान्त एव च ॥
त्वं धारयसि लोकांस्त्रीन्क्रियाणां च प्रवर्तकः ।
स तथा कुरु लोकेश नोच्छिद्येरन्यथा क्रियाः ॥
कस्मादेवं विमूढस्त्वमीश्वरः सन् हुताशेन ।
त्वं पवित्रं सदा लोके सर्वभूतगतिश्च ह ॥
न त्वं सर्वशरीरेण सर्वभक्षत्वमेष्यसि ।
अपाने ह्यर्चिषो यास्ते सर्वं भक्ष्यन्ति ताः शिखिन् ॥
क्रव्यादा च तनुर्या ते सा सर्वं भक्षयिष्यति ।
यथा सूर्यांशुभिः स्पृष्टं सर्वं शुचि विभाव्यते ॥
तथा त्वदर्चिर्निर्दग्धं सर्वं शुचि भविष्यति ।
त्वमग्ने परमं तेजः स्वप्रभावाद्विनिर्गतम् ॥
स्वतेजसैव तं शापं कुरु सत्यमृषेर्विभो ।
देवानां चात्मनो भागं गृहाण त्वं मुखे हुतम् ॥
सौतिरुवाच ।
एवमस्त्विति तं वह्निः प्रत्युवाच पितामहम् ।
जगाम शासनं कर्तुं देवस्य परमेष्ठिनः ॥
देवर्षयश्च मुदितास्ततो जग्मुर्यथागतम् ।
ऋषयश्च यथा पूर्वं क्रियाः सर्वाः प्रचक्रिरे ॥
दिवि देवा मुमुदिरे भूतसङ्घाश्च लौकिकाः ।
अग्निश्च परमां प्रीतिमवाप हतकल्मषः ॥
एवं स भगवाञ्छापं लेभेऽग्निर्भृगुतः पुरा । एवमेष पुरा वृत्त हतिहासोऽग्निशापजः ।
पुलोम्नश्च विनाशोऽयं च्यवनस्य च संभवः ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि पौलोमपर्वणि सप्तमोऽध्यायः ॥ 7 ॥

1-7-2 समं पक्षपातहीनां । व्यभिचारः अपराधः ॥ 2 ॥ 1-7-8 आपः सोमाज्य प्रभृतयोग्नौ हूयमाना देवपितृरूपाः । अग्नौ हुता आप एव देवताशरीररूपेण परिणमन्त इत्यर्थः ॥ 1-7-9 देवादिभावस्यापि कर्मप्राप्यत्वाद्देवानां पितॄणां च मिथो भेदो नास्त्येव तुल्यहेतुकत्वादित्याह देवता इति ॥ 1-7-11 अमावास्यां अमावास्यायां । हूयन्ते इज्यन्ते ॥ 1-7-12 संहारं तिरोभावं ॥ 1-7-22 भक्ष्यन्ति भक्षयिष्यन्ति ॥ 1-7-23 क्रव्यादा मांसभक्षिणी ॥ 1-7-24 स्वप्रभावात् अग्निप्रेरणया । तस्य वागधिष्ठातृत्वात्तत्प्रेरणयैव विनिर्गतं शापं ॥ 24 ॥ सप्तमोऽध्यायः ॥ 7 ॥

अध्यायः 008

रुरुचरितं ॥ 1 ॥ मेन्कात्मजायाः प्रमद्वरायाः रुरुणा सह विवाहप्रसङ्गः ॥ 2 ॥ प्रमद्वरायाः सर्पदंशेन रुरोर्दुःखम् ॥ 3 ॥

सौतिरुवाच ।
स चापि च्यवनो ब्रह्मन्भार्गवोऽजनयत्सुतम् ।
सुकन्यायां महात्मानं प्रमतिं दीप्ततेजसम् ॥
प्रमतिस्तु रुरुं नाम घृताच्यां समजीजनत् ।
रुरुः प्रमद्वरायां तु शुनकं समजीजनम् ॥
शुनकस्तु महासत्वः सर्वभार्गवनन्दनः ।
जातस्तपसि तीव्रे च स्थितः स्थिरयशास्ततः ॥
तस्य ब्रह्मन्रुरोः सर्वं चरितं भूरितेजसः ।
विस्तरेण प्रवक्ष्यामि तच्छृणु त्वमशेषतः ॥
ऋषिरासीन्महान्पूर्वं तपोविद्यासमन्वितः ।
स्थूलकेश इति ख्यातः सर्वभूतहिते रतः ॥
एतस्मिन्नेव काले तु मेनकायां प्रजज्ञिवान् ।
गन्धर्वराजो विप्रर्षे विश्वावसुरिति स्मृतः ॥
अप्सरा मेनका तस्य तं गर्भं भृगुनन्दन ।
उत्ससर्ज यथाकालं स्थूलकेशाश्रमं प्रति ॥
उत्सृज्य चैव तं गर्भं नद्यास्तीरे जगाम सा ।
अप्सरा मेनका ब्रह्मन्निर्दया निरपत्रपा ॥
कन्याममरगर्भाभां ज्वलन्तीमिव च श्रिया ।
तां ददर्श समुत्सृष्टां नदीतीरे महानृषिः ॥
स्थूलकेशः स तेजस्वी विजने बन्धुवर्जिताम् ।
स तां दृष्ट्वा तदा कन्यां स्थूलकेशो महाद्विजः ॥
जग्राह च मुनिश्रेष्ठः कृपाविष्टः पुपोष च ।
ववृधे सा वरारोहा तस्याश्रमपदे शुभे ॥
जातकाद्याः क्रियाश्चास्या विधिपूर्वं यथाक्रमम् ।
स्थूलकेशो महाभागश्चकार सुमहानृषिः ॥
प्रमदाभ्यो वरा सा तु सत्त्वरूपगुणान्विता ।
ततः प्रमद्वरेत्यस्या नाम चक्रे महानृषिः ॥
तामाश्रमपदे तस्य रुरुर्दृष्ट्वा प्रमद्वराम् ।
बभूव किल धर्मात्मा मदनोपहतस्तदा ॥
पितरं सखिभिः सोऽथ श्रावयामास भार्गवम् ।
प्रमतिश्चाभ्ययाचत्तां स्थूलकेशं यशस्विनम् ॥
ततः प्रादात्पिता कन्यां रुरवे तां प्रमद्वराम् ।
विवाहं स्थापयित्वाग्रे नक्षत्रे भगदैवते ॥
ततः कतिपयाहस्य विवाहे समुपस्थिते ।
सखीभिः क्रीडती सार्धं सा कन्यावरवर्णिनी ॥
नापश्यत्संप्रसुप्तं वै भुजंगं तिर्यगायतम् ।
पदा चैनं समाक्रामन्मुमूर्षुः कालचोदिता ॥
स तस्याः संप्रमत्तायाश्चोदितः कालधर्मणा ।
विषोपलिप्तान्दशनान्भृशमङ्गे न्यपातयत् ॥
सा दष्टा तेन सर्पेण पपात सहसा भुवि ।
विवर्णा विगतश्रीका भ्रष्टाभरणचेतना ॥
निरानन्दकरी तेषां बन्धूनां मुक्तमूर्धजा ।
व्यसुरप्रेक्षणीया सा प्रेक्षणीयतमाऽभवत् ॥
प्रसुप्तेवाभवच्चापि भुवि सर्पविषार्दिता ।
भूयो मनोहरतरा बभूव तनुमध्यमा ॥
ददर्श तां पिता चैव ये चैवान्ये तपस्विनः ।
विचेष्टमानां पतितां भूतले पद्मवर्चसम् ॥
ततः सर्वे द्विजतराः समाजग्मुः कृपान्विताः ।
स्वस्त्यात्रेयो महाजानुः कुशिकः शङ्खमेखलः ॥
उद्दालकः कठश्चैव श्वेतश्चैव महायशाः ।
भरद्वाजः कौणकृत्स्य आर्ष्टिषेणोऽथ गौतमः ॥
प्रमतिः सह पुत्रेण तथान्ये वनवासिनः ।
तां ते कन्यां व्यसुं दृष्ट्वा भुजंगस्य विषार्दिताम् ॥
रुरुदुः कृपयाऽविष्टा रुरुस्त्वार्तो बहिर्ययौ ।
ते च सर्वे द्विजश्रेष्ठास्तत्रैवोपाविशंस्तदा ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि पौलोमपर्वणि अष्टमोऽध्यायः ॥ 8 ॥

1-8-3 शुनकस्तु शौनकस्त्वमिति पाठान्तरम् ॥ 1-8-6 प्रजज्ञिवान् उत्पादितवान् ॥ 1-8-17 कतिपयाहस्य कतिपयाहस्सु इति पाठान्तरं । कतिपयाहस्सु हतेष्वित्यर्थः ॥ 1-8-19 कालधर्मणा मृत्युना ॥ अष्टमोऽध्यायः ॥ 8 ॥

अध्यायः 009

देवदूतवचनेन रुरुकृतस्वार्धायुः प्रदानेन प्रमद्वराजीवनं तया सह रुरोर्विवाहश्च ॥ 1 ॥

सौतिरुवाच ।
तेषु तत्रोपविष्टेषु ब्राह्मणेषु महात्मसु ।
रुरुश्चुक्रोश गहनं वनं गत्वाऽतिदुःखितः ॥
शोकेनाभिहतः सोऽथ विलपन्करुणं बहु ।
अब्रवीद्वचनं शोचन्प्रियां स्मृत्वा प्रमद्वराम् ॥
शेते सा भुवि तन्वङ्गी मम शोकविवर्धिनी ।
`प्राणानपहरन्तीव पूर्णचन्द्रनिभानना ॥
यदि पीनायतश्रोणी पद्मपत्रनिभेक्षणा ।
मुमूर्षुरपि मे प्राणानादायाशु गमिष्यति ॥
पितृमातृसखीनां च लुप्तपिण्डस्य तस्य मे ।' बान्धवानां च सर्वेषां किं नु दुःखमतःपरम् ॥
यदि दत्तं तपस्तप्तं गुरवो वा मया यदि ।
सम्यगाराधितास्तेन संजीवतु मम प्रिया ॥
यथा च जन्मप्रभृति यतात्माऽहं धृतव्रतः ।
प्रमद्वरा तथाद्यैषा समुत्तिष्ठतु भामिनी ॥
[एवं लालप्यतस्तस्य भार्यार्थे दुःखितस्य च । देवदूतस्तदाऽभ्येत्य वाक्यमाह रुरुं वने ॥]
`कृष्णे विष्णौ हृषीकेशे लोकेशेऽसुरविद्विषि ।
यदि मे निश्चला भक्तिर्मम जीवतु सा प्रिया ॥
विलप्यमाने तु रुरौ सर्वे देवाः कृपान्विताः ।
दूतं प्रस्थापयामासुः संदिश्यास्य हितं वचः ॥
स दूतस्त्वरितोऽभ्येत्य देवानां प्रियकृच्छुचिः ।
उवाच देववचनं रुरुमाभाष्य दुःखितम् ॥
देवैः सर्वैरहं ब्रह्मन्प्रेषितोऽस्मि तवान्तिकम् । त्वद्धितं त्वद्धितैरुक्तं शृणु वाक्यं द्विजोत्तम ॥'
अभिधत्से ह यद्वाचा रुरो दुःखान्न तन्मृषा ।
न तु मर्त्यस्य धर्मात्मन्नायुरस्ति गतायुषः ॥
गतायुरेषा कृपणा गन्धर्वाप्सरसोः सुता ।
तस्माच्छोके मनस्तात मा कृथास्त्वं कथंचन ॥
उपायश्चात्र विहितः पूर्वं देवैर्महात्मभिः ।
तं यदीच्छसि कर्तुं त्वं प्राप्स्यसीह प्रमद्वराम् ॥
रुरुरुवाच ।
क उपायः कृतो देवैर्बूहि तत्त्वेन खेचर ।
करिष्येऽहं तथा श्रुत्वा त्रातुमर्हति मां भवान् ॥
देवेदूत उवाच ।
आयुषोऽर्धं प्रयच्छ त्वं कन्यायै भृगुनन्दन ।
एवमुत्थास्यति रुरो तव भार्या प्रयद्वरा ॥
रुरुरुवाच ।
आयुषोऽर्धं प्रयच्छामि कन्यायै खेचरोत्तम ।
शृङ्गाररूपाभरणा समुत्तिष्ठतु मे प्रिया ॥
सौतिरुवाच ।
ततो गन्धर्वराजश्च देवदूतश्च सत्तमौ ।
धर्मराजमुपेत्येदं वचनं प्रत्यभाषताम् ॥
धर्मराजायुषोऽर्धेन रुरोर्भार्या प्रमद्वरा ।
समुत्तिष्ठतु कल्याणी मृतैवं यदि मन्यसे ॥
धर्मराज उवाच ।
प्रमद्वरा रुरोर्भार्या देवदूत यदीच्छसि ।
उत्तिष्ठत्वायुषोऽर्धेन रुरोरेव समन्विता ॥
सौतिरुवाच ।
एवमुक्ते ततः कन्या सोदतिष्ठत्प्रमद्वरा ।
रुरोस्तस्यायुषोऽर्धेन सुप्तेव वरवर्णिनी ॥
एतद्दृष्टं भविष्ये हि रुरोरुत्तमतेजसः ।
आयुषोऽतिप्रवृद्धस्य भार्यार्थेऽर्धमलुप्यत ॥
तत इष्टेऽहनि तयोः पितरौ चक्रतुर्मुदा ।
विवाहं तौ च रेमाते परस्परहितैषिणौ ॥
स लब्ध्वा दुर्लभां भार्यां पद्मकिञ्जल्कसुप्रभाम् ।
व्रतं चक्रे विनाशाय जिह्मगानां धृतव्रतः ॥
स दृष्ट्वा जिह्मगान्सर्वांस्तीव्रकोपसमन्वितः ।
अभिहन्ति यथासत्त्वं गृह्य प्रहरणं सदा ॥
स कदाचिद्वनं विप्रो रुरुरभ्यागमन्महत् ।
शयानं तत्र चापश्यड्डुण्डुभं वयसान्वितम् ॥
तत उद्यम्य दम्डं स कालदण्डोपमं तदा ।
जिघांसुः कुपितो विप्रस्तमुवाचाथ डुण्डुभः ॥
नापराध्यामि ते किंचिदहमद्य तपोधन ।
संरम्भाच्च किमर्थं मामभिहंसि रुषान्वितः ॥ ॥

इति श्रीमन्महाभारते आदिपर्वाणि पौलोमपर्वणि नवमोऽध्यायः ॥ 9 ॥

1-9-13 गतायुषः आयुर्नास्ति पुनर्न भवतीत्यर्थः ॥ 1-9-23 भविष्ये जातके ॥ 1-9-25 जिह्मगानां सर्पाणां ॥ 1-9-27 डुण्डुभं जलसर्पं ॥ नवमोऽध्यायः ॥ 9 ॥

अध्यायः 010

रुरुडुण्डुभसंवादः ॥ 1 ॥

रुरुरुवाच ।
मम प्राणसमा भार्या दष्टासीद्भुजगेन ह ।
तत्र मे समयो घोर आत्मनोरग वै कृतः ॥
भुजंगं वै सदा हन्यां यं यं पश्येयमित्युत ।
ततोऽहं त्वां जिघांसामि जीवितेनाद्य मोक्ष्यसे ॥
डुण्डुभ उवाच ।
अन्ये ते भुजगा ब्रह्मन्ये दश्तीह मानवान् ।
डुण्डुभानहिगन्धेन न त्वं हिंसितुमर्हसि ॥
एकानर्थान्पृथग्धर्मानेकदुःखान्पृथक्सुखान् ।
डुण्डुभान्धर्मविद्भूत्वा न त्वं हिंसितुमर्हसि ॥
सौतिरुवाच ।
इति श्रुत्वा वचस्तस्य डुण्डुभस्य रुरुस्तदा ।
नावधीद्भयसंविग्नमृषिं मत्त्वाऽथ डुण्डुभम् ॥
उवाच चैनं भगवान्रुरुः संशमयन्निव ।
केन त्वं भुजग ब्रूहि कोऽसीमां विक्रियां गतः ॥
डुण्डुभ उवाच ।
अहं पुरा रुरो नाम्ना ऋषिरासं सहस्रपात् ।
सोऽहं शापेन विप्रस्य भुजगत्वमुपागतः ॥
रुरुरुवाच ।
किमर्थं शप्तवान्कुद्धो द्विजस्त्वां भुजगोत्तम ।
कियन्तं चैव कालं ते वपुरेतद्भविष्यसि ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि पौलोमपर्वणि दशमोऽध्यायः ॥ 10 ॥

1-10-3 अहिगन्धेन सर्पसादृश्यमात्रेण ॥ 1-10-4 एकानर्थान् एकः समानः अनर्थः जनकर्तृकहिंसादिरूपो येषां तान् । पृथक् सर्पजात्युचितप्राणहरणादिविलक्षणो धर्मो लक्षणं येषां ते । एकं तुल्यं बिलेशयत्वादिरूपं दुःखं येषां तान् । पृथक् हविर्भागादिभ्यो भिन्नं भेकभक्षणादि सुखं येषां तान् । धर्मवित् कृतापराधस्यैव दण्डो नत्वन्यस्येति धर्मस्तज्ज्ञः ॥ दशमोऽध्यायः ॥ 10 ॥

अध्यायः 011

डुण्डुभचरितम् ॥ 1 ॥

डुण्डुभ उवाच ।
सखा बभूव मे पूर्वं खगमो नाम वै द्विजः ।
भृशं संशितवाक्तात तपोबलसमन्वितः ॥
स मया क्रीडता बाल्ये कृत्वा तार्णं भुजंगमम् ।
अग्निहोत्रे प्रसक्तस्तु भीषितः प्रमुमोह वै ॥
लब्ध्वा स च पुनः संज्ञां मामुवाच तपोधनः ।
नर्दहन्निव कोपेन सत्यवाक्संशितव्रतः ॥
यथावीर्यस्त्वया सर्पः कृतोऽयं मद्बिभीषया ।
तथावीर्यो भुजंगस्त्वं मम शापाद्भविष्यसि ॥
तस्याहं तपसो वीर्यं जानन्नासं तपोधन ।
भृशमुद्विग्नहृदयस्तमवोचमहं तदा ॥
प्रणतः संभ्रमाच्चैव प्राञ्जलिः पुरतः स्थितः ।
सखेति हसतेदं ते नर्मार्थं वै कृतं मया ॥
क्षन्तुमर्हसि मे ब्रह्मञ्शापोऽयं विनिवर्त्यताम् ।
सोऽथ मामब्रवीद्दृष्ट्वा भृशमुद्विग्नचेतसम् ॥
मुहुरुष्णं विनिःश्वस्य सुसंभ्रान्तस्तपोधनः ।
नानृतं वै मया प्रोक्तं भवितेदं कथंचन ॥
यत्तु वक्ष्यामि ते वाक्यं शृणु तन्मे तपोधन ।
श्रुत्वा च हृदि ते वाक्यमिदमस्तु सदाऽनघ ॥
उत्पत्स्यति रुरुर्नाम प्रमतेरात्मजः शुचिः । तं दृष्ट्वा शापमोक्षस्ते भविता नचिरादिव ।
`एवमुक्तस्तु तेनाहमुरगत्वमवाप्तवान् ॥'
स त्वं रुरुरिति ख्यातः प्रमतेरात्मजोऽपि च ।
स्वरूपं प्रतिपद्याहमद्य वक्ष्यामि ते हितम् ॥
सौतिरुवाच ।
स डौण्डुभं परित्यज्य रूपं विप्रर्षभस्तदा ।
स्वरूपं भास्वरं भूयः प्रतिपेदे महायशाः ॥
इदं चोवाच वचनं रुरुमप्रतिमौजसम् ।
अहिंसा परमो धर्मः सर्वप्राणभृतां वर ॥
तस्मात्प्राणभृतः सर्वान्न हिंस्याद्ब्राह्मणः क्वचित् ।
ब्राह्मणः सौम्य एवेह भवतीति परा श्रुतिः ॥
वेदवेदाङ्गविन्नाम सर्वभूताभयप्रदः ।
अहिंसा सत्यवचनं क्षमा चेति विनिश्चितम् ॥
ब्राह्मणस्य परो धर्मो वेदानां धारणापि च ।
क्षत्रियस्य हि यो धर्मः स नेहेष्येत वै तव ॥
दण्डधारणमुग्रत्वं प्रजानां परिपालनम् ।
तदिदं क्षत्रियस्यासीत्कर्म वै शृणु मे रुरो ॥
जनमेजयस्य यज्ञेऽस्मिन्सर्पाणां हिंसनं पुरा ।
परित्राणं च भीतानां सर्पाणां ब्राह्मणादपि ॥
तपोवीर्यबलोपेताद्वेदवेदाङ्गपारगात् ।
आस्तीकाद्द्विजमुख्याद्वै सर्पसत्रे द्विजोत्तम ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि पौलोमपर्वणि एकादशोऽध्यायः ॥ 11 ॥

1-11-1 संशितवाक् तीक्ष्णवचनः ॥ 1-11-2 तार्णं तृणमयम् ॥ 1-11-14 सौम्यः अतीक्ष्णस्वभावः ॥ 1-11-18 परित्राणं दृष्टमिति शेषः ॥ एकादशोऽध्यायः ॥ 11 ॥

अध्यायः 012

जनमेजयसर्पसन्नप्रस्तावः ॥ 1 ॥

रुरुरुवाच ।
कथं हिंसितवान्सर्पान्स राजा जनमेजयः ।
सर्पा वा हिंसितास्तत्र किमर्थं द्विजसत्तम ॥
किमर्थं मोक्षिताश्चैव पन्नगास्तेन धीमता ।
आस्तीकेन द्विजश्रेष्ठ श्रोतुमिच्छाम्यशेषतः ॥
ऋषिरुवाच ।
श्रोष्यसि त्वं रुरो सर्वमास्तीकचरितं महत् ।
ब्राह्मणानां कथयतां त्वरावान्गमने ह्यहम् ॥
सौतिरुवाच ।
`इत्युक्त्वान्तर्हिते योगात्तस्मिन्नृषिवरे प्रभौ । संभ्रमाविष्टहृदयो रुरुर्मेने तदद्भुतम् ॥'
बलं परममास्थाय पर्यधावत्समन्ततः ।
तमृषिं नष्टमन्विच्छन्संश्रान्तो न्यपतद्भुवि ॥
स मोहे परमं गत्वा नष्टसंज्ञ इवाभवत् ।
तदृषेर्वचनं तथ्यं चिन्तयानः पुनःपुनः ॥
लब्धसंज्ञो रुरुश्चायात्तदाचख्यौ पितुस्तदा ।
`पित्रे तु सर्वमाख्याय डुण्डुभस्य वचोऽर्थवत् ॥
अपृच्छत्पितरं भूयः सोस्तीकस्य वचस्तदा ।
आख्यापयत्तदाऽऽख्यानं डुण्डुभेनाथ कीर्तितम् ॥
तत्कीर्त्यमानं भगवञ्श्रोतुमिच्छामि तत्त्वतः ।' पिता चास्य तदाख्यानं पृष्टः सर्वं न्यवेदयत् ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि पौलोमपर्वणि द्वादशोऽध्यायः ॥ 12 ॥

॥ समाप्तं पौलोमपर्व ॥

1-12-5 नष्टं अन्तर्हितं ॥ द्वादशोऽध्यायः ॥ 12 ॥

अध्यायः 013

(अथास्तीकपर्व ॥ 5 ॥)

आस्तीकजरत्कार्वोराख्यानं ॥ 1 ॥ जरत्कारोस्तत्पितॄणां च संवादः ॥ 2 ॥

शौनक उवाच ।
किमर्थं राजशार्दूलः स राजा जनमेजयः ।
सर्पसत्रेण सर्पाणां गतोऽन्तं तद्वदस्व मे ॥
निखिलेन यथातत्त्वं सौते सर्वमशेषतः ।
आस्तीकश्च द्विजश्रेष्ठः किमर्थं जपतां वरः ॥
मोक्षयामास भुजगान्प्रदीप्ताद्वसुरेतसः ।
कस्य पुत्रः स राजासीत्सर्पसत्रं य आहरत् ॥
स च द्विजातिप्रवरः कस्य पुत्रोऽभिधत्स्व मे ।
सौतिरुवाच ।
महदाक्यानमास्तीकं यथैतत्प्रोच्यते द्विज ॥
सर्वमेतदशेषेण शृणु मे वदतां वर ।
शौनक उवाच ।
श्रोतुमिच्छाम्यशेषेण कथामेतां मनोरमाम् ॥
आस्तीकस्य पुराणर्षेर्ब्राह्मणस्य यशस्विनः ।
सौतिरुवाच ।
इतिहासमिमं विप्राः पुराणं परिचक्षते ॥
कृष्णद्वैपायनप्रोक्तं नैमिषारण्यवासिषु ।
पूर्वं प्रचोदितः सूतः पिता मे लोमहर्षणः ॥
शिष्यो व्यासस्य मेधावी ब्राह्मणेष्विदमुक्तवान् ।
तस्मादहमुपश्रुत्य प्रवक्ष्यामि यथातथम् ॥
इदमास्तीकमाख्यानं तुभ्यं शौनक पृच्छते ।
कथयिष्याम्यशेषेण सर्वपापप्रणाशनम् ॥
आस्तीकस्य पिता ह्यासीत्प्रजापतिसमः प्रभुः ।
ब्रह्मचारी यताहारस्तपस्युग्रे रतः सदा ॥
जरत्कारुरिति ख्यात ऊर्ध्वरेता महातपाः ।
यायावराणां प्रवरो धर्मज्ञः संशितव्रतः ॥
स कदाचिन्महाभागस्तपोबलसमन्वितः ।
चचार पृथिवीं सर्वां यत्रसायंगृहो मुनिः ॥
तीर्थेषु च समाप्लावं कुर्वन्नटति सर्वशः ।
चरन्दीक्षां महातेजा दुश्चरामकृतात्मभिः ॥
वायुभक्षो निराहारः शुष्यन्ननिमिषो मुनिः ।
इतस्ततः परिचरन्दीप्तपावकसप्रभः ॥
अटमानः कदाचित्स्वान्स ददर्श पितामहान् ।
लम्बमानान्महागर्ते पादैरूर्ध्वैरवाङ्मुखान् ॥
तानब्रवीत्स दृष्ट्वै जरत्कारुः पितामहान् ।
के भवन्तोऽवलम्बन्ते गर्ते ह्यस्मिन्नधोमुखाः ॥
वीरणस्तम्भके लग्नाः सर्वतः परिभक्षिते ।
मूषकेन निगूढेन गर्तेऽस्मिन्नित्यवासिना ॥
पितर ऊचुः ।
यायावरा नाम वयमृषयः संशितव्रताः ।
संतानप्रक्षयाद्ब्रह्मन्नधो गच्छाम मेदिनीम् ॥
अस्माकं संततिस्त्वेको जरत्कारुरिति स्मृतः ।
मन्दभाग्योऽल्पभाग्यानां तप एकं समास्थितः ॥
न स पुत्राञ्जनयितुं दारान्मूढश्चिकीर्षति ।
तेन लम्बामहे गर्ते संतानस्य क्षयादिह ॥
अनाथास्तेन नाथेन यथा दुष्कृतिनस्तथा ।
`येषां तु संततिर्नास्ति मर्त्यलोके सुखावहा ॥
न ते लभन्ते वसतिं स्वर्गे पुण्यकृतोऽपि हि ।' कस्त्वं बन्धुरिवास्माकमनुशोचसि सत्तम ॥
ज्ञातुमिच्छामहे ब्रह्मन्को भवानिह नः स्थितः ।
किमर्थं चैव नः शोच्याननुशोचसि सत्तम ॥
जरत्कारुरुवाच ।
मम पूर्वे भवन्तो वै पितरः सपितामहाः ।
ब्रूत किं करवाण्यद्य जरत्कारुरहं स्वयम् ॥
पितर ऊचुः ।
यतस्व यत्नवांस्तात संतानाय कुलस्य नः ।
आत्मनोऽर्थेऽस्मदर्थे च धर्म इत्येव वा विभो ॥
न हि धर्मफलैस्तात न तपोऽभिः सुसंचितैः ।
तां गतिं प्राप्नुवन्तीह पुत्रिणो यां व्रजन्ति वै ॥
तद्दारग्रहणे यत्नं संतत्यां च मनः कुरु ।
पुत्रकास्मन्नियोगात्त्वमेतन्नः परमं हितम् ॥
जरत्कारुरुवाच ।
न दारान्वै करिष्येऽहं न धनं जीवितार्थतः ।
भवतां तु हितार्थाय करिष्ये दारसंग्रहम् ॥
समयेन च कर्ताऽहमनेन विधिपूर्वकम् ।
तथा यद्युपलप्स्यामि करिष्ये नान्यथा ह्यहम् ॥
सनाम्नी या भवित्री मे दित्सिता चैव बन्धुभिः ।
भैक्ष्यवत्तामहं कन्यामुपयंस्ये विधानतः ॥
दरिद्राय हि मे भार्यां को दास्यति विशेषतः ।
प्रतिग्रहीष्ये भिक्षां तु यदि कश्चित्प्रदास्यति ॥
एवं दारक्रियाहेतोः प्रयतिष्ये पितामहाः ।
अनेन विधिना शश्वन्न करिष्येऽहमन्यथा ॥
तत्र चोत्पत्स्यते जन्तुर्भवतां तारणाय वै ।
शाश्वतं स्थानमासाद्य मोदन्तां पितरो मम ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि त्रयोदशोऽध्यायः ॥ 13 ॥

1-13-11 यायावराणां ग्रामैकरात्रवासिनां गृहस्थानां ॥ 1-13-12 सायंकालस्तत्रैव गृहमस्येति यत्रसायंगृहः ॥ 1-13-30 उपयंस्येपरिणेष्ये ॥ 30 ॥ त्रयोदशोऽध्यायः ॥ 13 ॥

अध्यायः 014

वासुकिभगिन्या जरत्कारोर्विवाहः ॥ 1 ॥

सौतिरुवाच ।
ततो निवेशाय तदा स विप्रः संशितव्रतः ।
महीं चचार दारार्थी न च दारानविन्दत ॥
स कदाचिद्वनं गत्वा विप्रः पितृवचः स्मरन् ।
चुक्रोश कन्याभिक्षार्थी तिस्रो वाचः शनैरिव ॥
तं वासुकिः प्रत्यगृह्णादुद्यम्य भगिनीं तदा ।
न स तां प्रतिजग्राह न सनाम्नीति चिन्तयन् ॥
सनाम्नीं चोद्यतां भार्यां गृह्णीयामिति तस्य हि ।
मनो निविष्टमभवज्जरत्कारोर्महात्मनः ॥
तमुवाच महाप्राज्ञो जरत्कारुर्महातपाः ।
किंनाम्नी भगिनीयं ते ब्रूहि सत्यं भुजंगम ॥
वासुकिरुवाच ।
जरत्कारो जरत्कारुः स्वसेयमनुजा मम । प्रतिगृह्णीष्व भार्यार्थे मया दत्तां सुमध्यमाम् ।
त्वदर्थं रक्षिता पूर्वं प्रतीच्छेमां द्विजोत्तम ॥
सौतिरुवाच ।
एवमुक्त्वा ततः प्रादाद्भार्यार्थे वरवर्णिनीम् ।
स च तां प्रतिजग्राह विधिदृष्टेन कर्मणा ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि चतुर्दशोऽध्यायः ॥ 14 ॥

1-14-1 निवेशाय दारसंग्रहाय ॥ चतुर्दशोऽध्यायः ॥ 14 ॥

अध्यायः 015

आस्तीकोत्पत्तिः ॥ 1 ॥ संक्षेपेण सर्पमोचनवृत्तान्तश्च ॥ 2 ॥

सौतिरुवाच ।
मात्रा हि भुजगाः शप्ताः पूर्वं ब्रह्मविदां वर ।
जनमेजयस्य वो यज्ञे धक्ष्यत्यनिलसारथिः ॥
तस्य शापस्य शान्त्यर्थं प्रददौ पन्नगोत्तमः ।
स्वसारमृषये तस्मै सुव्रताय महात्मने ॥
स च तां प्रतिजग्राह विधिदृष्टेन कर्मणा ।
आस्तीको नाम पुत्रश्च तस्यां जज्ञे महामनाः ॥
तपस्वी च महात्मा च वेदवेदाङ्गपारगः ।
समः सर्वस्य लोकस्य पितृमातृभयापहः ॥
अथ दीर्घस्य कालस्य पाण्डवेयो नराधिपः ।
आजहार महायज्ञं सर्पसत्रमिति श्रुतिः ॥
तस्मिन्प्रवृत्ते सत्रे तु सर्पाणामन्तकाय वै ।
मोचयामास ताञ्शापादास्तीकः सुमहातपाः ॥
भ्रातॄंश्च मातुलांश्चैव तथैवान्यान्स पन्नगान् ।
पितॄंश्च तारयामास संतत्या तपसा तथा ॥
व्रतैश्च विविधैर्ब्रह्मन्स्वाध्यायैश्चानृणोऽभवत् ।
देवांश्च तर्पयामास यज्ञैर्विविधदक्षिणैः ॥
ऋषींश्च ब्रह्मचर्येम सन्तत्या च पितामहान् ।
अपहृत्य गुरं भारं पितॄणां संशितव्रतः ॥
जरत्कारुर्गतः स्वर्गं सहितः स्वैः पितामहैः ।
आस्तीकं च सुतं प्राप्य धर्मं चानुत्तमं मुनिः ॥
जरत्कारुः सुमहता कालेन स्वर्गमेयिवान् । एतदाख्यानमास्तीकं यथावत्कथितं मया ।
प्रब्रूहि भृगुशार्दूल किमन्यत्कथयामि ते ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि पञ्चदशोऽध्यायः ॥ 15 ॥

अध्यायः 016

आस्तीकाख्यानविस्तरः ॥ 1 ॥ कद्रूविनतयोः कश्यपाद्वरलाभः ॥ 2 ॥ कद्र्वाः सर्पोत्पत्तिर्विनताया अरुणोत्पत्तिश्च ॥ 3 ॥

शौनक उवाच ।
सौते त्वं कथयस्वेमां विस्तरेण कथां पुनः ।
आस्तीकस्य कवेःसाधोः शुश्रूषा परमा हिनः ॥
मधुरं कथ्यते सौम्य श्लक्ष्णाक्षरपदं त्वया ।
प्रीयामहे भृशं तात पितेवेदं प्रभाषसे ॥
अस्मच्छुश्रूषणे नित्यं पिता हि निरतस्तव ।
आचष्टैतद्यथाऽऽक्यानं पिता तेत्वं तथा वद ॥
सौतिरुवाच ।
आयुष्मन्निदमाख्यानमास्तीकं कथयामि ते ।
यथाश्रुतं कथयतः सकाशाद्वै पितुर्मया ॥
पुरा देवयुगे ब्रह्मन्प्रजापतिसुते शुभे ।
आस्तां भगिन्यौ रूपेण समुपेतेऽद्भुतेऽनघ ॥
ते भार्ये कश्यपस्यास्तां कद्रूश्च विनता च ह ।
प्रादात्ताभ्यां वरं प्रीतः प्रजापतिसमः पतिः ॥
कश्यपो धर्मपत्नीभ्यां मुदा परमया युतः ।
वरातिसर्गं श्रुत्वैवं कश्यपादुत्तमं च ते ॥
हर्षादप्रतिमां प्रीतिं प्रापतुः स्म वरस्त्रियौ ।
वव्रे कद्रूः सुतान्नागान्सहस्रं तुल्यवर्चसः ॥
द्वौ पुत्रौ विनता वव्रे कद्रूपुत्राधिकौ बले ।
तेजसा वपुषा चैव विक्रमेणाधिकौ च तौ ॥
तस्यै भर्ता वरं प्रादादीदृसौ ते भविष्यतः ।
एवमस्त्विति तं चाह कश्यपं विनता तदा ॥
यथावत्प्रार्थितं लब्ध्वा वरं तुष्टाभवत्तदा ।
कृतकृत्या तु विनता लब्ध्वा वीर्याधिकौ सुतौ ॥
कद्रूश्च लब्ध्वा पुत्राणां सहस्रं तुल्यवर्चसाम् ।
धार्यौ प्रयत्नतो गर्भावित्युक्त्वा स महातपाः ॥
ते भार्ये वरसंतुष्टे कश्यपो वनमाविशत् ।
सौतुरिवाच ।
कालेन महता कद्रूरण्डानां दशतीर्दश ॥
जनयामास विप्रेन्द्र द्वे चाण्डे विनता तदा ।
तयोरण्डानि निदधुः प्रहृष्टाः परिचारिकाः ॥
सोपस्वेदेषु भाण्डेषु पञ्चवर्षशतानि च ।
ततः पञ्चशते काले कद्रूपुत्रा विनिःसृताः ॥
अण्डाभ्यां विनतायास्तु मिथुनं न व्यदृश्यत ।
ततः पुत्रार्थिनी देवी व्रीडिता च तपस्विनी ॥
अण्डं बिभेद विनता तत्र पुत्रमपश्यत ।
पूर्वार्धकायसंपन्नमितरेणाप्रकाशता ॥
स पुत्रः क्रोधसंरब्धः शशापैनामिति श्रुतिः ।
योऽहमेवं कृतो मातस्त्वया लोभपरीतया ॥
शरीरेणासमग्रेण तस्माद्दासी भविष्यसि ।
पञ्च वर्षशतान्यस्या यया विस्पर्धसे सह ॥
एष च त्वां सुतो मातर्दासीत्वान्मोचयिष्यति ।
यद्येनमपि मातस्त्वं मामिवाण्डविभेदनात् ॥
न करिष्यस्यनङ्गं वा व्यङ्गं वापि तपस्विनम् ।
प्रतिपालयितव्यस्ते जन्मकालोऽस्य धीरया ॥
विशिष्टं बलमीप्सन्त्या पञ्चवर्षशतात्परः ।
एवं शप्त्वा ततः पुत्रो विनतामन्तरिक्षगः ॥
अरुणोऽदृश्यत ब्रह्मन्प्रभातसमये तदा ।
`उद्यन्नथ सहस्रांशुर्दृष्ट्वा तमरुणं प्रभुः ॥
स्वतेजसा प्रज्वलन्तमात्मनः समतेजसम् ।
सारथ्ये कल्पयामास प्रीयमाणस्तमोनुदः ॥
सोऽपि तं रथमारुह्य भानोरमिततेजसः । सर्वलोकप्रदीपस्य ह्यमरोऽप्यरुणोऽभवत् ॥'
गरुडोऽपि यथाकालं जज्ञे पन्नगभोजनः ।
स जातमात्रो विनतां परित्यज्य खमाविशत् ॥
आदास्यन्नात्मनो भोज्यमन्नं विहितमस्य यत् ।
विधात्रा भृगुशार्दूल क्षुधितः पतगेश्वरः ॥ ॥

इति श्रीमन्महाभारते आदिपर्वाणि आस्तीकपर्वणि षोडशोऽध्यायः ॥ 16 ॥

1-16-15 सोपस्वेदेषु ऊष्मवत्सु ॥ षोडशोऽध्यायः ॥ 16 ॥

अध्यायः 017

अमृतमथनविषये भगवदाज्ञया देवानां विचारः ॥ 1 ॥

सौतिरुवाच ।
एतस्मिन्नेव काले तु भगिन्यौ ते तपोधन ।
अपश्यतां समायान्तमुच्चैः श्रवसमन्तिकात् ॥
यं तु देवगणाः सर्वे हृष्टरूपमपूजयन् ।
मथ्यमानेऽमृते जातमश्वरत्नमनुत्तमम् ॥
अमोघबलमश्वानामुत्तमं जविनां वरम् ।
श्रीमन्तमजरं दिव्यं सर्वलक्षणपूजितम् ॥
शौनक उवाच ।
कथं तदमृतं देवैर्मथितं क्व च शंस मे । `कारणं चात्र मथने संजातममृतात्परम् ॥'
यत्र जज्ञे महावीर्यः सोऽश्वराजो महाद्युतिः ॥
सौतिरुवाच ।
ज्वलन्तमचलं मेरुं तेजोराशिमनुत्तमम् ।
आक्षिपन्तं प्रभां भानोः स्वशृङ्गैः काञ्चनोज्ज्वलैः ॥
कनकाभरणं चित्रं देवगन्धर्वसेवितम् ।
अप्रमेयमनाधृष्यमधर्मबहुलैर्जनैः ॥
व्यालैरावारितं घोरैर्दिव्यौषधिविदीपितम् ।
नाकमावृत्य तिष्ठन्तमुच्छ्रयेण महागिरिम् ॥
अगम्यं मनसाप्यन्यैर्नदीवृक्षसमन्वितम् ।
नानापतगसङ्घैश्च नादितं सुमनोहरैः ॥
तस्य शृङ्गमुपारुह्य बहुरत्नाचितं शुभम् ।
अनन्तकल्पमद्वन्द्वं सुराः सर्वे महौजसः ॥
ते मन्त्रयितुमारब्धास्तत्रासीना दिवौकसः ।
अमृताय समागम्य तपोनियमसंयुताः ॥
तत्र नारायणो देवो ब्रह्माणमिदमब्रवीत् ।
चिन्तयत्सु सुरेष्वेवं मन्त्रयत्सु च सर्वशः ॥
देवैरसुरसङ्घैश्च मथ्यतां कलशोदधिः ।
भविष्यत्यमृतं तत्र मथ्यमाने महोदधौ ॥
सर्वौषधीः समावाप्य सर्वरत्नानि चैव ह ।
मन्थध्वयुदधिं देवा वेत्स्यध्वममृतं ततः ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि सप्तदशोऽध्यायः ॥ 17 ॥

1-17-9 अनन्तकल्पं अनन्तो विष्णुराकाशो वात तत ईषन्न्यूनम् ॥ 1-17-13 वेत्स्यध्वं लप्स्यध्वम् ॥ सप्तदशोऽध्यायः ॥ 17 ॥

अध्यायः 018

मोहितैर्दैत्यैर्मोहिन्या अमृतकलशदानम् ॥ 1 ॥

सौतिरुवाच ।
ततोऽभ्रशिखराकारैर्गिरिशृङ्गैरलंकृतम् ।
मन्दरं पर्वतवरं लताजालसमाकुलम् ॥
नानाविहंगसंघुष्टं नानादंष्ट्रिसमाकुलम् ।
किंनरैरप्सरोभिश्च देवैरपि च सेवितम् ॥
एकादश सहस्राणि योजनानां समुच्छ्रितम् ।
अधोभूमेः सहस्रेषु तावत्स्वेव प्रतिष्ठितम् ॥
तमुद्धर्तुमशक्ता वै सर्वे देवगणास्तदा ।
विष्णुमासीनमभ्येत्य ब्रह्माणं चेदमब्रुवन् ॥
भवन्तावत्र कुरुतां बुद्धिं नैःश्रेयसीं पराम् ।
मन्दरोद्धरणे यत्नः क्रियतां च हिताय नः ॥
सौतिरुवाच ।
तथेति चाब्रवीद्विष्णुर्ब्रह्मणा सह भार्गव ।
अचोदयदमेयात्मा फणीन्द्रं पद्मलोचनः ॥
ततोऽनन्तः समुत्थाय ब्रह्मणा परिचोदितः ।
नारायणेन चाप्युक्तस्तस्मिन्कर्मणि वीर्यवान् ॥
अथ पर्वतराजानं तमनन्तो महाबलः ।
उज्जहार बलाद्ब्रह्मन्सवनं सवनौकसम् ॥
ततस्तेन सुराः सार्धं समुद्रमुपतस्थिरे ।
तमूचुरमृतस्यार्थे निर्मथिष्यामहे जलम् ॥
अपांपतिरथोवाच ममाप्यंशो भवेत्ततः ।
सोढाऽस्मि विपुलं मर्दं मन्दरभ्रमणादिति ॥
ऊचुश्च कूर्मराजानमकूपारे सुरासुराः ।
अधिष्ठानं गिरेरस्य भवान्भवितुमर्हति ॥
कूर्मेण तु तथेत्युक्त्वा पृष्ठमस्य समर्पितम् ।
तं शैलं तस्य पृष्ठस्थं वज्रेणेन्द्रोऽभ्यपीडयत् ॥
मन्थानं मन्दरं कृत्वा तथा योक्त्रं च वासुकिम् । देवा मथितुमारब्धाः समुद्रं निधिमम्भसाम् ।
अमृतार्थे पुरा ब्रह्मस्तथैवासुरदानवाः ॥
एकमन्तमुपाश्लिष्टा नागराज्ञो महासुराः ॥
विबुधाः सहिताः सर्वे यतः पुच्छं ततः स्थिताः ।
अनन्तो भगवान्देवो यतो नारायणः स्थितः ॥
`वासुकेरग्रमाश्लिष्टा नागराज्ञो महासुराः ।' शिर उत्क्षिप्य नागस्य पुनः पुनरवाक्षिपन् ॥
वासुकेरथ नागस्य सहसा क्षिप्यतोऽसुरैः ।
सधूमाः सार्चिषो वाता निष्पेतुरसकृन्मुखात् ॥
`वासुकेर्मथ्यमानस्य निःसृतेन विषेण च ।
अभवन्मिश्रितं तोयं तदा भार्गवनन्दन ॥
मथनान्मन्दरेणाथ देवदानवबाहुभिः ।
विषं तीक्ष्णं समुद्भूतं हालाहलमिति श्रुतम् ॥
देवाश्च दानवाश्चैव दग्धाश्चैव विषेण ह ।
अपाक्रामंस्ततो भीता विषादमगमंस्तदा ॥
ब्रह्माणमब्रुवन्देवाः समेत्य मुनिपुंगवैः ।
मथ्यमानेऽमृते जातं विषं कालानलप्रभम् ॥
तेनैव तापिता लोकास्तस्य प्रतिकुरुष्वह ।
एवमुक्तस्तदा ब्रह्मा दध्यौ लोकेश्वरं हरम् ॥
त्र्यक्षं त्रिशूलिनं रुद्रे देवदेवमुमापतिम् ।
तदाऽथ चिन्तितो देवस्तज्ज्ञात्वा द्रुतमाययौ ॥
तस्याथ देवस्तत्सर्वमाचचक्षे प्रजापतिः ।
तच्छ्रुत्वा दवेदेवेशो लोकस्यास्य हितेप्सया ॥
अपिबत्तद्विषं रुद्रः कालानलसमप्रभम् ।
कण्ठे स्थापितवान्देवो लोकानां हितकाम्यया ॥
यस्मात्तु नीलता कण्ठे नीलकण्ठस्ततः स्मृतः ।
पीतमात्रे विषे तत्र रुद्रेणामिततेजसा ॥
देवाः प्रीताः पुनर्जग्मुश्चक्रुर्वै कर्म तत्तथा ।
मथ्यमानेऽमृतस्यार्थे भूयो वै देवदानवैः ॥
वासुकेरथ नागस्य सहसा क्षिप्यतोऽसुरैः । सधूमाः सार्चिषो वाता निष्पेतुरसकृन्मुखात् ॥'
ते धूमसङ्घाः संभूता मेघसङ्घाः सविद्युतः ।
अभ्यवर्षन्सुरगणाञ्श्रमसंतापकर्शितान् ॥
तस्माच्च गिरिकूटाग्रात्प्रच्युताः पुष्पवृष्टयः ।
सुरासुरगणान्सर्वान्समन्तात्समवाकिरन् ॥
बभूवात्र महान्नादो महामेघरवोपमः ।
उदधेर्मथ्यमानस्य मन्दरेण सुरासुरैः ॥
तत्र नानाजलचरा विनिष्पिष्टा महाद्रिणा ।
विलयं समुपाजग्मुः शतशो लवणाम्भसि ॥
वारुणानि च भूतानि विविधानि महीधरः ।
पातालतलवासीनि विलयं समुपानयत् ॥
तस्मिंश्च भ्राम्यमाणेऽद्रौ संघृष्यन्तः परस्परम् ।
न्यपतन्पतगोपेताः पर्वताग्रान्महाद्रुमाः ॥
तेषां संघर्षजश्चाग्निरर्चिर्भिः प्रज्वलन्मुहुः ।
विद्युद्भिरिव नीलाभ्रमावृणोन्मन्दरं गिरिम् ॥
ददाह कुञ्जरांस्तत्र सिंहांश्चैव विनिर्गतान् ।
विगतासूनि सर्वाणि सत्त्वानि विविधानि च ॥
तमग्निममरश्रेष्ठः प्रदहन्तमितस्ततः ।
वारिणा मेघजेनेन्द्रः शमयामास सर्वशः ॥
ततो नानाविधास्तत्र सुस्रुवुः सागराम्भसि ।
महाद्रुमाणां निर्यासा बहवश्चौषधीरसाः ॥
तेषाममृतवीर्याणां रसानां पयसैव च ।
अमरत्वं सुरा जग्मुः काञ्चनस्य च निःस्रवात् ॥
ततस्तस्य समुद्रस्य तञ्जातमुदकं पयः ।
रसोत्तमैर्विमिश्रं च ततः क्षीरादभूद्धृतम् ॥
ततो ब्रह्माणमासीनं देवा वरदमब्रुवन् ।
श्रान्ताः स्म सुभृशं ब्रह्मन्नोद्भवत्यमृतं च तत् ॥
ऋते नारायणं देवं सर्वेऽन्ये देवदानवाः ।
चिरारब्धमिदं चापि सागरस्यापि मन्थनम् ॥
`ग्लानिरस्मान्समाविष्टा न चात्रामृतमत्थितम् ।
सौतिरुवाच ।
देवानां वचनं श्रुत्वा ब्रह्मा लोकपितामहः' ॥
ततो नारायणं देवं वचनं चेदमब्रवीत् ।
विधत्स्वैषां बलं विष्णो भवानत्र परायणम् ॥
विष्णुरुवाच ।
बलं ददामि सर्वेषां कर्मैतद्ये समास्थिताः ।
क्षोभ्यतां कलशः सर्वैमन्दरः परिवर्त्यताम् ॥
सौतिरुवाच ।
नारायणवचः श्रुत्वा बलिनस्ते महोदधेः ।
तत्पयः सहिता भूयश्चक्रिरे भृशमाकुलम् ॥
`तत्र पूर्वं विषं जातं तद्ब्रह्मवचनाच्छिवः । प्राग्रसल्लोकरक्षार्थं ततो ज्येष्ठा समुत्थिता ।
कृष्णरूपधरा देवी सर्वाभरणभूषिता ॥'
ततः शतसहस्रांशुर्मथ्यमानात्तु सागरात् ।
प्रसन्नात्मा समुत्पन्नः सोमः शीतांशुरुज्ज्वलः ॥
श्रीरनन्तरमुत्पन्ना घृतात्पाण्डुरवासिनी ।
सुरा देवी समुत्पन्ना तुरगः पाण्डुरस्तथा ॥
कौस्तुभस्तु मणिर्दिव्य उत्पन्नो घृतसंभवः ।
मरीचिविकचः श्रीमान्नारायणउरोगतः ॥
श्रीः सुरा चैव सोमश्च तुरगश्च मनोजवः । `पारिजातश्च तत्रैव सुरभिश्च महामुने ।
जज्ञाते तौ तदा ब्रह्मन्सर्वकामफलप्रदौ ॥
ततो जज्ञे महाकायश्चतुर्दन्तो महागजः । कपिला कामवृक्षश्च कौस्तुभश्चाप्सरोगणः ।'
यतो देवास्ततो जग्मुरादित्यपथमाश्रिताः ॥
धन्वन्तरिस्ततो देवो वपुष्मानुदतिष्ठत ।
श्वेतं कमण्डलुं बिभ्रदमृतं यत्र तिष्ठति ॥
एतदत्यद्भुतं दृष्ट्वा दानवानां समुत्थितः ।
अमृतार्थे महान्नादो ममेदमिति जल्पताम् ॥
ततो नारायणो मायां मोहिनीं समुपाश्रितः ।
स्त्रीरूपमद्भुतं कृत्वा दानवानभिसंश्रितः ॥
ततस्तदमृतं तस्यै ददुस्ते मूढचेतसः ।
स्त्रियै दानवदैतेयाः सर्वे तद्गतमानसाः ॥
`सा तु नारायणी माया धारयन्ती कमण्डलुम् ।
आस्यमानेषु दैत्येषु पङ्क्त्या च प्रति दानवैः ॥
देवानपाययद्देवी न दैत्यांस्ते च चुक्रुशुः ॥ ॥

इति श्रीमन्महाबारते आदिपर्वणि आस्तीकपर्वणि अष्टादशोऽध्यायः ॥ 18 ॥

1-18-11 अकूपारे समुद्रसमीपे । अधिष्ठानं आधारः ॥ 1-18-12 तु तथेत्युक्ते पृष्ठे त्वस्य समर्पितः । सशैलस्तस्य चाग्रं वै वज्रेणेन्द्रोऽभ्यपीडयत् । इति पाठान्तरं ॥ 1-18-13 योक्त्रं मन्थनरज्जुम् ॥ 1-18-14 एकमन्तं एकं प्रदेशं मुखभागम् ॥ 1-18-33 वारुणानि वरुणलोकस्थानि आप्यांशप्रधानशरीराणि ॥ 1-18-40 लवणाम्भसि कुतो दुग्धमित्यत आह । तत इति । ततः तेषां निःस्रवं प्राप्य । समुद्रस्य तत्क्षारं उदकं पयः क्षीरं जातम् ॥ 1-18-50 मरीचिविकचः रश्मिभिरुज्ज्वलः । नारायणउरोगत इत्यसन्धिरार्षः ॥ 1-18-55 अभिसंश्रितः संमुखः स्थितः मोहनार्थमिति शेषः ॥ अष्टादशोऽध्यायः ॥ 18 ॥

अध्यायः 019

देवानाममृतपानं ॥ 1 ॥ देवरूपेणामृतं पिबतो राहोः शिरश्छेदनं ॥ 2 ॥ देवदैत्ययोर्युद्धं । तत्र दैत्यपराजयः ॥ 3 ॥

सौतिरुवाच ।
अथावरणमुख्यानि नानाप्रहरणानि च ।
प्रगृह्याभ्यद्रवन्देवान्सहिता दैत्यदानवाः ॥
ततस्तदमृतं देवो विष्णुरादाय वीर्यवान् ।
जहार दानवेन्द्रेभ्यो नरेण सहितः प्रभुः ॥
ततो देवगणाः सर्वे पपुस्तदमृतं तदा ।
विष्णोः सकाशात्संप्राप्य संभ्रमे तुमुले सति ॥
`पाययत्यमृतं देवान्हरौ बाहुबलान्नरः । निरोधयति चापेन दूरीकृत्य धनुर्धरान् ।
ये येऽमृतं पिबन्ति स्म ते ते युद्ध्यन्ति दानवैः;' ॥
ततः पिबत्सु तत्कालं देवेष्वमृतमीप्सितम् ।
राहुर्विबुधरूपेण दानवः प्रापिबत्तदा ॥
तस्य कण्ठमनुप्राप्ते दानवस्यामृते तदा ।
आख्यातं चन्द्रसूर्याभ्यां सुराणां हितकाम्यया ॥
ततो भगवता तस्य शिरश्छिन्नमलंकृतम् ।
चक्रायुधेन चक्रेण पिबतोऽमृतमोजसा ॥
तच्छैलशृह्गप्रङ्गिमं दानवस्य शिरो महत् । `चक्रेणोत्कृत्तमपतच्चालयद्वसुधातलम् ॥'
चक्रच्छिन्नं खमुत्पत्य ननादातिभयंकरम् ।
तत्कबन्धं पपातास्य विस्फुरद्धरणीतले ॥
`त्रयोदश सहस्राणि चतुरश्रं समन्ततः ।
सपर्वतवनद्वीपां दैत्यस्याकम्पयन्महीम् ॥
ततो वैरविनिर्बन्धः कृतो राहुमुखेन वै ।
शाश्वतश्चन्द्रसूर्याभ्यां ग्रसत्यद्यापि चैव तौ ॥
विहाय भगवांश्चापि स्त्रीरूपमतुलं हरिः ।
नानाप्रहरणैर्भीमैर्दानवान्तमकम्पयत् ॥
ततः प्रवृत्तः संग्रामः समीपे लवणाम्भसः ।
सुराणामसुराणां च सर्वघोरतरो महान् ॥
प्रासाश्च विपुलास्तीक्ष्णा न्यपतन्त सहस्रशः ।
तोमराश्च सुतीक्ष्णाग्राः शस्त्राणि विविधानि च ॥
ततोऽसुराश्चक्रभिन्ना वमन्तो रुधिरं बहु ।
असिशक्तिगदारुग्णा निपेतुर्धरणीतले ॥
छिन्नानि पट्टिशैश्चैव शिरांसि युधि दारुणैः ।
तप्तकाञ्चनमालीनि निपेतुरनिशं तदा ॥
रुधिरेणानुलिप्ताङ्गा निहताश्च महासुराः ।
अद्रीणामिव कूटानि धातुरक्तानि शेरते ॥
आहाकारः समभवत्तत्र तत्र सहस्रशः ।
अन्योन्यंछिन्दतां शस्त्रैरादित्ये लोहितायति ॥
परिघैरायसैस्तीक्ष्णैः सन्निकर्षे च मुष्टिभिः ।
निघ्नतां समरेऽन्योन्यं शब्दो दिवमिवास्पृशत् ॥
छिन्धिभिन्धि प्रधाव त्वं पातयाभिसरेति च ।
व्यश्रूयन्त महाघोराः शब्दास्तत्र समन्ततः ॥
एवं सुतुमुले युद्धे वर्तमाने महाभये ।
नरनारायणौ देवौ समाजग्मतुराहवम् ॥
तत्र दिव्यं धनुर्दृष्ट्वा नरस्य भगवानपि ।
चिन्तयामास तच्चक्रं विष्णुर्दानवसूदनम् ॥
ततोऽम्बराच्चिन्तितमात्रमागतं महाप्रभं चक्रममित्रतापनम् ।
विभावसोस्तुल्यमकुण्ठमण्डलं सुदर्शनं संयति भीमदर्शनम् ॥
तदागतं ज्वलितहुताशनप्रभं भयंकरं करिकरबाहुरच्युतः ।
मुमोच वै प्रबलवदुग्रवेगवा- न्महाप्रभं परनगरावदारणम् ॥
तदन्तकज्वलनसमानवर्चसं पुनःपुनर्न्यपतत वेगवत्तदा ।
विदारयद्दितिदनुजान्सहस्रशः करेरितं पुरुषवरेण संयुगे ॥
दहत्क्वचिज्ज्वलन इवावलेलिह- त्प्रसह्य तानसुरगणान्न्यकृन्तत ।
प्रवेरितं वियति मुहुः क्षितौ तथा पपौ रणे रुधिरमथो पिशाचवत् ॥
तथाऽसुरा गिरिभिरदीनचेतसो मुहुर्मुहुः सुरगणमार्दयंस्तदा ।
महाबला विगलितमेघवर्चसः सहस्रशो गगनमभिप्रपद्यह ॥
अथाम्बराद्भयजननाः प्रपेदिरे सपादपा बहुविधमेघरूपिणः ।
महाद्रयः परिगलिताग्रसानवः परस्परं द्रुतमभिहत्य सस्वनाः ॥
ततो मही प्रविचलिता सकानना महाद्रिपाताभिहता समन्ततः ।
परस्परं भृशमभिगर्जतां मुहू रणाजिरे भृशमभिसंप्रवर्तिते ॥
नरस्ततो वरकनकाग्रभूषणै- र्महेषुभिर्गगनपथं समावृणोत् ।
विदारयन्गिरिशिखराणि पत्रिभि- र्महाभयेऽसुरगणविग्रहे तदा ॥
ततो महीं लवणजलं च सागरं महासुराः प्रविविशुरर्दिताः सुरैः ।
वियद्गतं ज्वलितहुताशनप्रभं सुदर्शनं परिकुपितं निशाम्य ते ॥
ततः सुरैर्विजयमवाप्य मन्दरः स्वमेव देशं गमितः सुपूजितः ।
विनाद्य खं दिवमपि चैव सर्वश- स्ततो गताः सलिलधरा यथागतम् ॥
ततोऽमृतं सुनिहितमेव चक्रिरे सुराः पुरां मुदमभिगम्य पुष्कलाम् ।
ददो च तं निधिममृतस्य रक्षितुं किरीटिने बलभिदथामरैः सह ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि एकोनविंशोऽध्यायः ॥ 19 ॥

1-19-1 आवरणमुख्यानि कवचाग्र्याणि ॥ 1-19-3 संभ्रमे उभयेषाममृतादरे सति । सङ्ग्रामे इति पाठान्तरं ॥ 1-19-26 प्रवेरितं प्रेरितं ॥ 1-19-27 विगलितमेघाः रिक्तमेघाः ॥ 1-19-32 सलिलधराः अमृतभृतो देवाः ॥ 1-19-33 किरीटिने नराय ॥ एकोनविंशोऽध्यायः ॥ 19 ॥

अध्यायः 020

कद्रूविनतयोः पणबन्धः ॥ 1 ॥ सर्पाणां कद्रूशापः ॥ 2 ॥ ब्रह्मणा कश्यपाय विषहरविद्यादानं ॥ 3 ॥

सौतिरुवाच ।
एतत्ते कथितं सर्वममृतं मथितं यथा ।
यत्र सोऽश्वः समुत्पन्नः श्रीमानतुलविक्रमः ॥
तं निशाम्य तदा कद्रूर्विनतामिदमब्रवीत् ।
उच्चैःश्रवा हि किंवर्णो भद्रे प्रब्रूहि मा चिरम् ॥
विनतोवाच ।
श्वेत एवाश्वराजोऽयं किं वा त्वं मन्यसे शुभे ।
ब्रूहि वर्णं त्वमप्यस्य ततोऽत्र विपणावहे ॥
कद्रूरुवाच ।
कृष्णवालमहं मन्ये हयमेनं शुचिस्मिते ।
एहि सार्धं मया दीव्य दासीभावाय भामिनि ॥
सौतिरुवाच ।
एवं ते समयं कृत्वा दासीभावाय वै मिथः ।
जग्मतुः स्वगृहानेव श्वो द्रक्ष्याव इति स्म ह ॥
ततः पुत्रसहस्रं तु कद्रूर्जिह्यं चिकीर्षती ।
आज्ञापयामास तदा वाला भूत्वाऽञ्जनप्रभाः ॥
आविशध्वं हयं क्षिप्रं दासी न स्यामहं यथा ।
नावपद्यन्त ये वाक्यं ताञ्शशाप भुजंगमान् ॥
सर्पसत्रे वर्तमाने पावको वः प्रधक्ष्यति ।
जनमेजयस्य राजर्षेः पाण्डवेयस्य धीमतः ॥
शापमेनं तु शुश्राव स्वयमेव पितामहः ।
अतिक्रूरं समुत्सृष्टं कद्र्वा दैवादतीव हि ॥
सार्धं देवगणैः सर्वैर्वाचं तामन्वमोदत ।
बहुत्वं प्रेक्ष्य सर्पाणां प्रजानां हितकाम्यया ॥
तिग्मवीर्यविषा ह्येते दन्दशूका महाबलाः ।
तेषां तीक्ष्णविषत्वाद्धि प्रजानां च हिताय च ॥
युक्तं मात्रा कृतं तेषां परपीडोपसर्पिणाम् ।
अन्येषामपि सत्त्वानां नित्यं दोषपरास्तु ये ॥
तेषां प्राणान्तिको दण्डो दैवेन विनिपात्यते ।
एवं संभाष्य देवस्तु पूज्य कद्रूं च तां तदा ॥
आहूय कश्यपं देव इदं वचनमब्रवीत् ।
यदेते दन्दशूकाश्च सर्पा जातास्त्वयानघ ॥
विषोल्बणा महाभोगा मात्रा शप्ताः परंतप ।
तत्र मन्युस्त्वया तात न कर्तव्यः कथंचन ॥
दृष्टं पुरातनं ह्येतद्यज्ञे सर्पविनाशनम् । इत्युक्त्वा सृष्टिकृद्देवस्तं प्रसाद्य प्रजापतिम् ।
प्रादाद्विषहरीं विद्यां कश्यपाय महात्मने ॥
`एवं शप्तेषु नागेषु कद्र्वातु द्विजसत्तम ।
अद्विग्नः शापतस्तस्याः कद्रूं कर्कोटकोऽब्रवीत् ॥
मातरं परमप्रीतस्तथा भुजगसत्तमः ।
आविश्य वाजिनं मुख्यं बालो भूत्वाञ्जनप्रभः ॥
दर्शयिष्यामि तत्राहमात्मानं काममाश्वस ।
एवमस्त्विति सा पुत्रं प्रत्युवाच यशस्विनी' ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकर्पणि विंशोऽध्यायः ॥ 20 ॥

1-20-3 विपणावहे पणं कुर्वहे ॥ 1-20-6 जिह्मं कौटिल्यं । वालाः लोमानि ॥ 1-20-7 नावपद्यन्त नानुमोदितवन्तः ॥ विंशोऽध्यायः ॥ 20 ॥

अध्यायः 021

उच्चैःश्रवसो दर्शार्थं कद्रूविनतयोर्गमनम् ॥ 1 ॥

सौतिरुवाच ।
ततो रजन्यां व्युष्टायां प्रभातेऽभ्युदिते रवौ ।
कद्रूश्च विनता चैव भगिन्यौ ते तपोधन ॥
अमर्षिते सुसंरब्धे दास्ये कृतपणे तदा । `स्मगरस्य परं पारं वेलावनविभूषितम् ।'
जग्मतुस्तुरगं द्रष्टुमुच्चैःश्रवसमन्तिकात् ॥
ददृशातेऽथ ते तत्र समुद्रं निधिमम्भसाम् ।
महान्तमुदकागाधं क्षोभ्यमाणं महास्वनम् ॥
तिमिंगिलझषाकीर्णं मकरैरावृतं तथा ।
सत्वैश्च बहुसाहस्रैर्नानारूपैः समावृतम् ॥
भीषणैर्विकृतैरन्यैर्घोरैर्जलचरैस्तथा ।
उग्रैर्नित्यमनाधृष्यं कूर्मग्राहसमाकुलम् ॥
आकरं सर्वरत्नानामालयं वरुणस्य च ।
नागानामालयं रम्यमुत्तमं सरितां पतिम् ॥
पातालज्वलनावासमसुराणां च बान्धवम् ।
भयंकरं च सत्त्वानां पयसां निधिमर्णवम् ॥
शुभं दिव्यममर्त्यानाममृतस्याकरं परम् ।
अप्रमेयमचिन्त्यं च सुपुण्यजलमद्भुतम् ॥
घोरं जलचरारावरौद्रं भैरवनिःस्वनम् ।
गम्भीरावर्तकलिलं सर्वभूतभयंकरम् ॥
वेलादोलानिलचलं क्षोभोद्वेगसमुच्छ्रितम् ।
वीचीहस्तैः प्रचलितैर्नृत्यन्तमिव सर्वतः ॥
चन्द्रवृद्धिक्षयवशादुद्वृत्तोर्मिसमाकुलम् ।
पाञ्चजन्यस्य जननं रत्नाकरमनुत्तमम् ॥
गां विन्दता भगवता गोविन्देनामितौजसा ।
वराहरूपिणा चान्तर्विक्षोभितजलाविलम् ॥
ब्रह्मर्षिणा व्रतवता वर्षाणां शतमत्रिणा ।
अनासादितगाधं च पातालतलमव्ययम् ॥
अध्यात्मयोगनिद्रां च पद्मनाभस्य सेवतः ।
युगादिकालशयनं विष्णोरमिततेजसः ॥
वज्रपातनसंत्रस्तमैनाकस्याभयप्रदम् ।
डिम्बाहवार्दितानां च असुराणां परायणम् ॥
बडवामुखदीप्ताग्नेस्तोयहव्यप्रदं शिवम् ।
अगाधपारं विस्तीर्णमप्रमेयं सरित्पतिम् ॥
महानदीभिर्बह्वीभिः स्पर्धयेव सहस्रशः । अभिसार्यमाणमनिशं ददृशाते महार्णवम् ।
आपूर्यमाणमत्यर्थं नृत्यमानमिवोर्मिभिः ॥
गम्भीरं तिमिमकरोग्रसंकुलं तं गर्जन्तं जलचररावरौद्रनादैः ।
विस्तीर्णं ददृशतुरम्बरप्रकाशं तेऽगाधं निधिमुरुमम्भसामनन्तम् ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि एकविंशतितमोऽध्यायः ॥ 21 ॥

1-21-3 क्षोभ्यमाणं मकरादिभिः ॥ 1-21-7 पातालज्वलनो बडवाग्निः ॥ 1-21-12 गां पृथ्वीं विन्दता लम्बमानेन ॥ 1-21-15 डिम्बो भयवतामाक्रन्दस्तद्वति आहवे ॥ 1-21-18 ते कद्रूविनते ॥ एकविंशतितमोऽध्यायः ॥ 21 ॥

अध्यायः 022

सर्पौर्मातृवचनादुच्चैःश्रवःपुच्छवेष्टनम् ॥ 1 ॥

सौतिरुवाच ।
नागाश्च संविदं कृत्वा कर्तव्यमिति तद्वचः ।
निःस्नेहा वै दहेन्माता असंप्राप्तमनोरथा ॥
प्रसन्ना मोक्षयेदस्मांस्तस्माच्छापाच्च भामिनी ।
कृष्णं पुच्छं करिष्यामस्तुरगस्य न संशयः ॥
`इति निश्चित्य ते तस्य कृष्णा वाला इव स्थिताः ।' एतस्मिन्नन्तरे ते तु सपत्न्यौ पणिते तदा ॥
ततस्ते पणितं कृत्वा भगिन्यौ द्विजसत्तम ।
जग्मतुः परया प्रीत्या परं पारं महोदधेः ॥
कद्रूश्च विनता चैव दाक्षायण्यौ विहायसा ।
आलोकयन्त्यावक्षोभ्यं समुद्रं निधिमम्भसाम् ॥
वायुनाऽतीव सहसा क्षोभ्यमाणं महास्वनम् ।
तिमिंगिलसमाकीर्णं मकरैरावृतं तथा ॥
संयुतं बहुसाहस्रैः सत्वैर्नानाविधैरपि ।
घोरर्घोरमनाधृष्यं गम्भीरमतिभैरवम् ॥
आकरं सर्वरत्नानामालयं वरुणस्य च ।
नागानामालयं चापि सुरम्यं सरितां पतिम् ॥
पातालज्वलनावासमसुराणां तथालयम् ।
भयंकराणां सत्त्वानां पयसो निधिमव्ययम् ॥
शुभ्रं दिव्यममर्त्यानाममृतस्याकरं परम् ।
अप्रमेयमचिन्त्यं च सुपुम्यजलसंमितम् ॥
महानदीभिर्बह्वीभिस्तत्र तत्र सहस्रशः ।
आपूर्यमाणमत्यर्थं नृत्यन्तमिव चोर्मिभिः ॥
इत्येवं तरलतरोर्मिसंकुलं ते गम्भीरं विकसितमम्बरप्रकाशम् ।
पातालज्वलनशिखाविदीपिताङ्गं गर्जन्तं द्रुतमभिजग्मतुस्ततस्ते ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि द्वाविंशोऽध्यायः ॥ 22 ॥

1-22-1 संविदं मिथ आलोचनम् ॥ 1-22-3 पणिते पणं कृत वत्यौ ॥ 3 ॥ द्वाविंशोऽध्यायः ॥ 22 ॥

अध्यायः 023

गरुडोत्पत्तिः ॥ 1 ॥ देवकृतस्तुत्या गरुडकृतं स्वतेजस्संहरणम् ॥ 2 ॥

सौतिरुवाच ।
तं समुद्रमतिक्रम्य कद्रूर्विनतया सह ।
न्यपतत्तुरगाभ्याशे न चिरादिव शीघ्रगा ॥
ततस्ते तं हयश्रेष्ठं ददृशाते महाजवम् ।
शशाङ्ककिरणप्रख्यं कालवालमुभे तदा ॥
निशाम्य च बहून्वालान्कृष्णान्पुच्छसमाश्रितान् ।
विषण्णरूपां विनतां कद्रूर्दास्ये न्ययोजयत् ॥
ततः सा विनता तस्मिन्पणितेन पराजिता ।
अभवद्दुःखसंतप्ता दासीभावं समास्थिता ॥
एतस्मिन्नन्तरे चापि गरुडः काल आगते ।
विना मात्रा महातेजा विदार्याण्डमजायत ॥
महासत्त्वबलोपेतः सर्वा विद्योतयन्दिशः ।
कामरूपः कामगमः कामवीर्यो विहंगमः ॥
अग्निराशिरिवोद्भासन्समिद्धोऽतिभयंकरः ।
विद्युद्विस्पष्टपिङ्गाक्षो युगान्ताग्निसमप्रभः ॥
प्रवृद्धः सहसा पक्षी महाकायो नभोगतः ।
घोरो घोरस्वनो रौद्रो वह्निरौर्व इवापरः ॥
तं दृष्ट्वा शरणं जग्मुर्देवाः सर्वे विभावसुम् ।
प्रमिपत्याब्रुवंश्चैनमासीनं विश्वरूपिणम् ॥
अग्ने मा त्वं प्रवर्धिष्ठाः कच्चिन्नो न दिधक्षसि ।
असौ हि राशिः सुमहान्समिद्धस्तव सर्पति ॥
अग्निरुवाच ।
नैतदेवं यथा यूयं मन्यध्वमसुरार्दनाः ।
गरुडो बलवानेष मम तुल्यश्च तेजसा ॥
जातः परमतेजस्वी विनतानन्दवर्धनः ।
तेजोराशिमिमं दृष्ट्वा युष्मान्मोहः समाविशत् ॥
नागक्षयकरश्चै काश्यपेयो महाबलः ।
देवानां च हिते युक्तस्त्वहितो दैत्यरक्षसाम् ॥
न भीः कार्या कथं चात्र पश्यध्वं सहिता मया ।
सौतिरुवाच ।
एवमुक्तास्तदा गत्वा गरुडं वाग्भिरस्तुवन् ॥
ते दूरादभ्युपेत्यैनं देवाः सर्षिगणास्तदा ।
देवा ऊचुः ।
त्वमृषिस्त्वं महाभागस्त्वं देवः पतगेश्वरः ॥
त्वं प्रभुस्तपनः सूर्यः परमेष्ठी प्रजापतिः ।
त्वमिन्द्रस्त्वं हयमुखस्त्वं शर्वस्त्वं जगत्पतिः ॥
त्वं मुखं पद्मजी विप्रस्त्वमग्निः पवनस्तथा ।
त्वं हि धाता विधाता च त्वं विष्णुः सुरसत्तमः ॥
त्वं महानभिभूः शश्वदमृतं त्वं महद्यशः ।
त्वं प्रभास्त्वमभिप्रेतं त्वं नस्त्राणमनुत्तमम् ॥
`त्वं गतिः सततं त्वत्तः कथं नः प्राप्नुयाद्भयम् ।' बलोर्मिमान्साधुरदीनसत्त्वः
समृद्धिमान्दुर्विषहस्त्वमेव । त्वत्तः सृतं सर्वमहीनकीर्ते ह्यनागतं चोपगतं च सर्वम् ॥
त्वमुत्तमः सर्वमिदं चराचरं गभस्तिभिर्भानुरिवावभाससे ।
समाक्षिपन्भानुमतः प्रभां मुहु- स्त्वमन्तकः सर्वमिदं ध्रुवाध्रुवम् ॥
दिवाकरः परिकुपितो यथा दहे- त्प्रजास्तथा दहसि हुताशनप्रभ ।
भयंकरः प्रलय इवाग्निरुत्थितो विनाशयन्युगपरिवर्तनान्तकृत् ॥
खगेश्वरं शरणमुपागता वयं महौजसं ज्वलनसमानवर्चसम् ।
तडित्प्रभं वितिमिरमभ्रगोचरं महाबलं गरुडमुपेत्य खेचरम् ॥
परावरं वरदमजय्यविक्रमं तवौजस सर्वमिदं प्रतापितम् ।
जगत्प्रभो तप्तसुवर्णवर्चसा त्वं पाहि सर्वांश्च सुरान्महात्मनः ॥
भयान्विता नभसि विमानगामिनो विमानिता विपथगतिं प्रयान्ति ते ।
ऋषेः सुतस्त्वमसि दयावतः प्रभो महात्मनः खगवर कश्यपस्य ह ॥
स मा क्रुधः कुरु जगतो दयां परां त्वमीश्वरः प्रशममुपैहि पाहि नः ।
महाशनिस्फुरितसमस्वनेन ते दिशोऽम्बरं त्रिदिवमियं च मेदिनी ॥
चलन्ति नः खग हृदयानि चानिशं निगृह्यतां वपुरिदमग्निसन्निभम् ।
तव द्युतिं कुपितकृतान्तसन्निभां निशाम्य नश्चलति मनोऽव्यवस्थितम् । प्रसीद नः पतगते प्रयाचतां शिवश्च नो भव भगवन्सुखावहः ॥
सौतिरुवाच ।
एवं स्तुतः सुपर्णस्तु देवैः सर्षिगणैस्तदा ।
तेजसः प्रतिसंहारमात्मनः स चकार ह ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि त्रयोविंशोऽध्यायः ॥ 23 ॥

1-23-2 शशाङ्ककिरणवत्प्रख्या दीप्तिर्यस्य तं तादृशमपि कालवालं कृष्णकेशम् ॥ 1-23-8 और्वो वडवाग्निः ॥ 1-23-9 विभावसुं अग्निम् ॥ 1-23-10 अग्ने मात्वमिति देवानां भ्रमवर्णनं अग्निगरुडयोरति सादृश्यकथनार्थम् ॥ 1-23-25 चलन्तीत्युत्तरादपकृष्यते ॥ 1-23-26 निगृत्यतां संक्षिप्यताम् ॥ त्रयोविंशोऽध्यायः ॥ 23 ॥

अध्यायः 024

राहुणा कृतोपद्रवस्य सूर्यस्य क्रोधः ॥ 1 ॥ ब्रह्माज्ञयाऽरुणस्य सूर्यसारथ्यकरणम् ॥ 2 ॥

सौतिरुवाच ।
स श्रुत्वाऽथात्मनो देहं सुपर्णः प्रेक्ष्य च स्वयम् ।
शरीरप्रतिसंहारमात्मनः संप्रचक्रमे ॥
सुपर्ण उवाच ।
न मे सर्वाणि भूतानि विभियुर्देहदर्शनात् ।
भीमरूपात्समुद्विग्रास्तस्मात्तेजस्तु संहरे ॥
सौतिरुवाच ।
ततः कामगमः पक्षी कामवीर्यो विहंगमः ।
अरुणं चात्मनः पृष्ठमारोप्य स पितुर्गृहात् ॥
मातुरन्तिकमागच्छत्परं तीरं महोदधेः ।
तत्रारुणश्च निक्षिप्तो पुरोदेशे महाद्युतेः ॥
सूर्यस्तेजोभिरत्युग्रैर्लोकान्दग्धुमना यदा ।
रुरुरुवाच ।
किमर्थं भगवान्सूर्यो लोकान्दग्धुमनास्तदा ॥
किमस्तापहृतं देवैर्येनमं मन्युराविशत् ।
प्रमतिरुवाच ।
चन्द्रार्काभ्यां यदा राहुराख्यातो ह्यमृतं पिबन् ॥
वैरानुबन्धं कृतवांश्चन्द्रादित्यौ तदाऽनघ ।
बाध्यमानं ग्रहेणाथ ह्यादित्यं मन्युराविशत् ॥
सुरार्थाय समुत्पन्नो रोषो राहोस्तु मां प्रति ।
बह्वनर्थकरं पापमेकोऽहं समवाप्नुयाम् ॥
सहाय एव कार्येषु न च कृच्छ्रेषु दृश्यते ।
पश्यन्ति ग्रस्यमानं मां सहन्ते वै दिवौकसः ॥
तस्माल्लोकविनाशार्थं ह्यवतिष्ठे न संशयः ।
एवं कृतमतिः सूर्यो ह्यस्तमभ्यगमद्गिरिम् ॥
तस्माल्लोकविनाशाय संतापयत भास्करः ।
ततो देवानुपागम्य प्रोचुरेवं महर्षयः ॥
आद्यार्धरात्रसमये सर्वलोकभयावहः ।
उत्पत्स्यते महान्दाहस्त्रैलोक्यस्य विनाशनः ॥
ततो देवाः सर्षिगणा उपगम्य पितामहम् ।
अब्रुवन्किमिवेहाद्य महद्दाहकृतं भयम् ॥
न तावद्दृश्यते सूर्यः क्षयोऽयं प्रतिभाति च ।
उदिते भगवन्भानौ कथनेतद्भविष्यति ॥
पितामह उवाच ।
एष लोकविनाशाय रविरुद्यन्तुमुद्यतः ।
दृश्यन्नेव हि लोकान्स भस्मराशीकरिष्यति ॥
तस्य प्रतिविधानं च विहितं पूर्वमेव हि ।
कश्यपस्य सुतो धीमानरुणेत्यभिविश्रुतः ॥
महाकायो महातेजाः स स्थास्यति पुरो रवेः ।
करिष्यति च सारथ्यं तेजश्चास्य हरिष्यति ॥
लोकानां स्वस्ति चैवं स्यादृषीणां च दिवौकसाम् ।
प्रमतिरुवाच ।
ततः पितामहाज्ञातः सर्वं चक्रे तदाऽरुणः ॥
उदितश्चैव सविता ह्यरुणेन समावृतः ।
एतत्ते सर्वमाख्यातं यत्सूर्यं मन्युराविशत् ॥
अरुणश्च यथैवास्य सारथ्यमकरोत्प्रभुः ।
भूय एवापरं प्रश्नं शृणु पूर्वमुदाहृतम् ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि चतुर्विंशोऽध्यायः ॥ 24 ॥

1-24-2 समुद्विग्नाः समुद्विग्नानि ॥ 1-24-7 चन्द्रादित्यौ प्रतीति शेषः ॥ 1-24-12 किमुत सूर्ये उदिते इति शेः ॥ चतुर्विंशोऽध्यायः ॥ 24 ॥

अध्यायः 025

विनतया कद्रूवहनं गरुडेन सर्पवहनं च ॥ 1 ॥ सूर्यातपतप्तस्वपुत्ररक्षार्थं कद्रूकृत इन्द्रस्तवः ॥ 2 ॥

सौतिरुवाच ।
ततः कामगमः पक्षी महावीर्यो महाबलः ।
मातुरन्तिकमागच्छत्परं पारं महोदधेः ॥
यत्र सा विनता तस्मिन्पणितेन पराजिता ।
अतीव दुःखसंतप्ता दासीभावमुपागता ॥
ततः कदाचिद्विनतां प्रणतां पुत्रसन्निधौ ।
काले चाहूय वचनं कद्रूरिदमभाषत ॥
नागानामालयं भद्रे सुरम्यं चारुदर्शनम् ।
समुद्रकुक्षावेकान्ते तत्र मां विनते नय ॥
सौतिरुवाच ।
ततः सुपर्णमाता तामवहत्सर्पमातरम् ।
पन्नगान्गरुडश्चापि मातुर्वचनचोदितः ॥
स सूर्यमभितो याति वैनतेयो विहंगमः ।
सूर्यरश्मिप्रतप्ताश्च मूर्च्छिताः पन्नगाऽभवन् ॥
तदवस्थान्सुतान्दृष्ट्वा कद्रूः शक्रमथास्तुवत् ।
नमस्ते सर्वदेवेश नमस्ते बलसूदन ॥
नमुचिघ्न नमस्तेऽस्तु सहस्राक्ष शचीपते ।
सर्पाणां सूर्यतप्तानां वारिणा त्वं प्लवो भव ॥
त्वमेव परमं त्राणमस्माकममरोत्तम ।
ईशो असि पवः स्रष्टुं त्वमनल्पं पुरंदर ॥
त्वमेव मेघस्त्वं वायुस्त्वमग्निर्विद्युतोऽम्बरे ।
त्वमभ्रगणविक्षेप्ता त्वामेवाहुर्महाघनम् ॥
त्वं वज्रमतुलं घोरं घोषवांस्त्वं बलाहकः ।
स्रष्टा त्वमेव लोकानां संहर्ता चापराजितः ॥
त्वं ज्योतिः सर्वभूतानां त्वमादित्यो विभावसुः ।
त्वं महद्भूतमाश्चर्यं त्वं राजा त्वं सुरोत्तमः ॥
त्वं विष्णुस्त्वं सहस्राक्षस्त्वं देवस्त्वं परायणम् ।
त्वं सर्वममृतं देव त्वं सोमः परमार्चितः ॥
त्वं मुहूर्तस्तिथिस्त्वं च त्वं लवस्त्वं पुनः क्षणः । शुक्लस्त्वं बहुलस्त्वं च कला काष्ठा त्रुटिस्तथा ।
संवत्सरर्तवो मासा रजन्यश्च दिनानि च ॥
त्वमुत्तमा सगिरिवना वसुंधरा सभास्करं वितिमिरमम्बरं तथा ।
मदोदधिः सतिमितिमिङ्गिलस्तथा महोर्मिमान्बहुमकरो झषाकुलः ॥
महायशास्त्वमिति सदाऽभिपूज्यसे मनीषिभिर्मुदितमना महर्षिभिः ।
अभिष्टुतः पिबसि च सोममध्वरे कषट्कृतान्यपि च हवींषि भूतये ॥
त्वं विप्रैः सततमिहेज्यसे फलार्थं वेदाङ्गेष्वतुलबलौघ गीयसे च ।
त्वद्धेतोर्यजनपरायणा द्विजेन्द्रा वेदाङ्गान्यभिगमयन्ति सर्वयत्नैः ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि पञ्चविंशोऽध्यायः ॥ 25 ॥

1-25-6 अभितः संमुखम् ॥ 1-25-14 बहुलः कृष्णपक्षः ॥ पञ्चविंशोऽध्यायः ॥ 25 ॥

अध्यायः 026

स्तुत्या तुष्टेन इन्द्रेण कृतं जलवर्षणम् ॥ 1 ॥

सौतिरुवाच ।
एवं स्तुतस्तदा कद्र्वा भगवान्हरिवाहनः ।
नीलजीमूतसंघातैः सर्वमम्बरमावृणोत् ॥
मेघानाज्ञापयामास वर्षध्वममृतं शुभम् ।
ते मेघा मुमुचुस्तोयं प्रभूतं विद्युदुज्ज्वलाः ॥
परस्परमिवात्यर्थं गर्जन्तः सततं दिवि ।
संवर्तितमिवाकाशं जलदैः सुमहाद्भुतैः ॥
सृजद्भिरतुलं तोयमजस्रं सुमहारवैः ।
संप्रनृत्तमिवाकाशं धारोर्मिभिरनेकशः ॥
मेघस्तनितनिर्घोषौर्विद्युत्पवनकम्पितैः ।
तैर्मेघैः सततासारं वर्षद्भिरनिशं तदा ॥
नष्टचन्द्रार्ककिरणमम्बरं समपद्यत ।
नागानामुत्तमो हर्षस्तथा वर्षति वासवे ॥
आपूर्यत मही चापि सलिलेन समन्ततः । रसातलमनुप्राप्तं शीतलं विमलं जलम् ।
तदा भूरभवच्छन्ना जलोर्मिभिरनेकशः ।
रामणीयकमागच्छन्मात्रा सह भुजंगमाः ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि पौलोमपर्वणि षड्विंशोऽध्यायः ॥ 26 ॥

1-26-3 संवर्तः कल्पान्तः संजातोस्मिन्निति संवर्तितम् ॥ 1-26-8 रामणीयकं रमणकसंज्ञं द्वीपम् ॥ ष़ड्विंशोऽध्यायः ॥ 26 ॥

अध्यायः 027

गरुडस्य विनतां प्रति दास्यकारणप्रश्नः ॥ 1 ॥ सर्पैः दास्यमोचनोपायकथनम् ॥ 2 ॥

सौतिरुवाच ।
संप्रहृष्टास्ततो नागा जलधाराप्लुतास्तदा ।
सुपर्णेनोह्यमानास्ते जग्मुस्तं द्वीपमाशु वै ॥
तं द्वीपं मकरावासं विहितं विश्वकर्मणा ।
तत्र ते लवणं घोरं ददृशुः पूर्वमागताः ॥
सुपर्णसहिताः सर्पाः काननं च मनोरमम् ।
सागराम्बुपरिक्षिप्तं पक्षिसङ्घनिजादितम् ॥
विचित्रफलपुष्पाभिर्वनराजिभिरावृतम् ।
भवनैरावृतं रम्यैस्तथा पद्माकरैरपि ॥
प्रसन्नसलिलैश्चापि ह्वदैर्दिव्यैर्विभूषितम् ।
दिव्यगन्धवहैः पुण्यैर्मारुतैरुपवीजितम् ॥
उत्पतद्भिरिवाकाशं वृक्षैर्मलयजैरपि ।
शोभितं पुष्पवर्षाणि मुञ्चद्भिर्मारुतोद्धतैः ॥
वायुविक्षिप्तकुसुमैस्तथाऽन्यैरपि पादपैः ।
किरद्भिरिव तत्रस्थान्नागान्पुष्पाम्बुवृष्टिभिः ॥
मनःसंहर्षजं दिव्यं गन्धर्वाप्सरसां प्रियम् ।
मत्तभ्रमस्संघुष्टं मनोज्ञाकृतिदर्शनम् ॥
रमणीयं शिवं पुण्यं सर्वैर्जनमनोहरैः ।
नानापक्षिरुतं रम्यं कद्रूपुत्रप्रहर्षणम् ॥
तत्ते वनं समासाद्य विजह्रुः पन्नगास्तदा ।
अब्रुवंश्च महावीर्यं सुपर्णं पतगेश्वरम् ॥
वहास्मानपरं द्वीपं सुरम्यं विमलोदकम् ।
त्वं हि देशान्बहून्रम्यान्व्रजन्पश्यसि खेचर ॥
सौतिरुवाच ।
स विचिन्त्याब्रवीत्पक्षी मातरं विनतो तदा ।
किं कारणं मया मातः कर्तव्यं सर्पभाषितम् ॥
विनतोवाच ।
दासीभूतास्मि दुर्योगात्सपत्न्याः पतगोत्तम ।
पणं वितथमास्थाय सर्पैरुपधिना कृतम् ॥
सौतिरुवाच ।
तस्मिंस्तु कथिते मात्रा कारणे गगनेतरः ।
उवाच वचनं सर्पांस्तेन दुःखेन दुःखितः ॥
किमाहृत्य विदित्वा वा किं वा कृत्वेह पौरुषम् ।
दास्याद्वो विप्रमुच्येयं तथ्यं वदत लेलिहाः ॥
सौतिरुवाच ।
श्रुत्वा समब्रुवन्सर्पा आहरामृतमोजसा ।
ततो दास्याद्विप्रमोक्षो भविता तव खेचर ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि सप्तविंशोऽध्यायः ॥ 27 ॥

1-27-2 लवणं लवणासुरं पूर्वं ददृशुः ॥ 1-27-8 मनःसंहर्षजं मनसः संहर्षाय जातम् ॥ 1-27-15 लेलिहाः भोसर्पाः ॥ सप्तविंशोऽध्यायः ॥ 27 ॥

अध्यायः 028

अमृताहरणार्थं गच्छतो गरुडस्य मक्ष्ययाचनम् ॥ 1 ॥ ब्राह्मणवर्जं समुद्रकुक्षिस्थनिषादभक्षणे विनताया अनुज्ञा ॥ 2 ॥

सौतिरुवाच ।
इत्युक्तो गरुडः सर्पैस्ततो मातरमब्रवीत् ।
गच्छाम्यमृतमाहर्तुं भक्ष्यमिच्छामि वेदितुम् ॥
विनतोवाच ।
समुद्रकुक्षावेकान्ते निषादालयमुत्तमम् ।
`भवनानि निषादानां तत्र सन्ति द्विजोत्तम ॥
पापिनां नष्टलोकानां निर्घृणानां दुरात्मनाम्' ।
निषादानां सहस्राणि तान्भुक्त्वाऽमृतमानय ॥
न च ते ब्राह्मणं हन्तुं कार्या बुद्धिः कथंचन ।
अवध्यः सर्वभूतानां ब्राह्मणो ह्यनलोपमः ॥
अग्निरर्को विषं शस्त्रं विप्रो भवति कोपितः ।
गुरुर्हि सर्वभूतानां ब्राह्मणः परिकीर्तितः ॥
एवमादिस्वरूपैस्तु सतां वै ब्राह्मणो मतः ।
स ते तात न हन्तव्यः संक्रुद्धेनापि सर्वथा ॥
ब्राह्मणानामभिद्रोहो न कर्तव्यः कथंचन ।
न ह्येवमग्निर्नादित्यो भस्म कुर्यात्तथानघ ॥
यथा कुर्यादभिक्रुद्धो ब्राह्मणः संशितव्रतः ।
तदेतैर्विविधैर्लिङ्गैस्त्वं विद्यास्तं द्विजोत्तमम् ॥
भूतानामग्रभूर्विप्रो वर्णश्रेष्ठः पिता गुरुः ।
गरुड उवाच ।
किंरूपो ब्राह्मणो मातः किंशीलः किंपराक्रमः ॥
किंस्विदग्निनिभो भाति किंस्वित्सौम्यप्रदर्शनः ।
यथाहमभिजानीयां ब्राह्मणं लक्षणैः शुभैः ॥
तन्मे कारणतो मातः पृच्छतो वक्तुमर्हसि ।
विनतोवाच ।
यस्ते कण्ठमनुप्राप्तो निगीर्णं बडिशं यथा ॥
दहेदङ्गारवत्पुत्रं तं विद्याद्ब्राह्मणर्षभम् ।
विप्रस्त्वया न हन्तव्यः संक्रुद्धेनापि सर्वदा ॥
प्रोवाच चैन विनता पुत्रहार्दादिदं वचः ।
जठरे न च जीर्येद्यस्तं जानीहि द्विजोत्तमम् ॥
पुनः प्रोवाच विनता पुत्रहार्दादिदं वचः ।
जानन्त्यप्यतुलं वीर्यमाशीर्वादपरायणा ॥
प्रीता परमदुःखार्ता नागैर्विप्रकृता सती ।
विनतोवाच ।
पक्षौ ते मारुतः पातु चन्द्रसूर्यौ च पृष्ठतः ॥
शिरश्च पातु वह्निस्ते वसवः सर्वतस्तनुम् । `विष्णुः सर्वगतः सर्वमह्गानि तव चैव ह ।'
अहं च ते सदा पुत्र शान्तिस्वस्तिपरायणा ॥
इहासीना भविष्यामि स्वस्तिकारे रता सदा ।
अरिष्टं व्रज पन्थानं पुत्र कार्यार्थसिद्धये ॥
सौतिरुवाच ।
ततः स मातुर्वचनं निशम्य वितत्य पक्षौ नभ उत्पपात ।
ततो निषादान्बलवानुपागतो बुभुक्षितः काल इवान्तकोऽपरः ॥
स तान्निषादानुपसंहरंस्तदा रजः समुद्धूय नभःस्पृशं महत् ।
समुद्रकुक्षौ च विशोषयन्पयः समीपजान्भूधरजान्विचालयन् ॥
ततः स चक्रे महदाननं तदा निषादमार्गं प्रतिरुध्य पक्षिराट् ।
ततो निषादास्त्वरिताः प्रवव्रजु- र्यतो मुखं तस्य भुजंगभोजिनः ॥
तदाननं विवृतमतिप्रमाणव- त्समभ्ययुर्गगनमिवार्दिताः खगाः ।
सहस्रशः पवनजोविमोहिता यथा ।ञनिलप्रचलितपादपे वने ॥
ततः खगो वदनममित्रतापनः समाहरत्परिचपलो मत्बलाः ।
निषूदयन्बहुविधमत्स्यजीविनो बभुक्षितो गगनचरेश्वरस्तदा ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि अष्टाविंशोऽध्यायः ॥ 28 ॥

1-28-18 काले समये ॥ 1-28-19 भूधरजान् पर्वतजान्वृक्षान् ॥ 1-28-22 परिचपलः तेषां ग्रहणाय सर्वतो भ्रमन् ॥ अष्टाविंशोऽध्यायः ॥ 28 ॥

अध्यायः 029

कण्ठं दहतो ब्राह्मणस्य विषादीसहितस्य परित्राणम् ॥ 1 ॥ गरुडस्य कश्यपेन संवादः ॥ 2 ॥ गजकच्छपपूर्ववृत्तान्तकथनम् ॥ 3 ॥ कश्यपाज्ञया गरुडस्य गजकच्छपग्रहणम् ॥ 4 ॥ रोहिणवृक्षशाखाभङ्गः ॥ 5 ॥

सौतिरुवाच ।
तस्य कण्ठमनुप्राप्तो ब्राह्मणः सह भार्यया ।
दहन्दीप्त इवाङ्गारस्तमुवाचान्तरिक्षगः ॥
द्विजोत्तम विनिर्गच्छ तूर्णमास्यादपावृतात् ।
न हि मे ब्राह्मणो वध्यः पापेष्वपि रतः सदा ॥
सौतिरुवाच ।
ब्रुवाणमेवं गरुडं ब्राह्मणः प्रत्यभाषत ।
निषादी मम भार्येयं निर्गच्छतु मया सह ॥
गरुड उवाच ।
एतामपि निषादीं त्वं परिगृह्याशु निष्पत ।
तूर्णं संभावयात्मानमजीर्णं मम तेजसा ॥
सौतिरुवाच ।
ततः स विप्रो निष्क्रान्तो निषादीसहितस्तदा ।
वर्धयित्वा च गरुडमिष्टं देशं जगाम ह ॥
सहभार्ये विनिष्क्रान्ते तस्मिन्विप्रे स पक्षिराट् ।
वितत्य पक्षावाकाशमुत्पपात मनोजवः ॥
ततोऽपश्यत्स्वपितरं पृष्टश्चाख्यातवान्पितुः ।
यथान्यायममेयात्मा तं चोवाच महानृषिः ॥
कश्यप उवाच ।
कच्चिद्वः कुशलं नित्यं भोजने बहुलं सुत ।
कच्चिच्च मानुषे लोके तवान्नं विद्यते बहु ॥
`क्व गन्तास्यतिवेगेन मम त्वं वक्तुमर्हसि ॥'
गरुड उवाच ।
माता मे कुशला शश्वत्तथा भ्राता तथा ह्यहम् ।
न हि मे कुशलं तात भोजने बहुले सदा ॥
अहं हि सर्पैः प्रहितः सोममाहर्तुमुत्तमम् ।
महातुर्दास्यविमोक्षार्थमाहरिष्ये तमद्य वै ॥
मात्रा चात्र समादिष्टो निषादान्भक्षयेति ह ।
न च मे तृप्तिरभवद्भक्षयित्वा सहस्रशः ॥
तस्माद्भक्ष्यं त्वमपरं भगवन्प्रदिशस्व मे ।
यद्भुक्त्वाऽमृतमाहर्तुं समर्तः स्यामहं प्रभो ॥
क्षुत्पिपासाविघातार्थं भक्ष्यमाख्यातु मे भवान् ।
कश्यप उवाच ।
इदं सरो महापुण्यं देवलोकेऽपि विश्रुतम् ॥
यत्र कूर्माग्रजं हस्ती सदा कर्षत्यवाङ्मुखः ।
तयोर्जन्मान्तरे वैरं संप्रवक्ष्याम्यसोषतः ॥
तन्मे तत्त्वं निबोधस्य यत्प्रमाणौ च तावुभौ ।
`शृणु त्वं वत्स भद्रं ते कथां वैराग्यवर्धिनीम् ॥
पित्रोरर्थविभागे वै समुत्पन्नां पुराण्डज ।' आसीद्विभावसुर्नाम महर्षिः कोपनो भृशम् ॥
भ्राता तस्यानुजश्चासीत्सुप्रतीको महातपाः ।
स नेच्छति धनं भ्रात्रा सहैकस्थं महामुनिः ॥
विभागं कीर्तयत्येव सुप्रतीको हि नित्यशः ।
अथाब्रवीच्च तं भ्राता सुप्रतीकं विभावसुः ॥
`विभागे बहवो दोषा भविष्यन्ति महातपः ।' विभागं बहवो मोहात्कर्तुमिच्छन्ति नित्यशः ।
ततो विभक्तास्त्वन्योन्यं नाद्रियन्तेऽर्थमोहिताः ॥
ततः स्वार्थपरान्मूढान्पृथग्भूतान्स्वकैर्धनैः ।
विदित्वा भेदयन्त्येतानमित्रा मित्ररूपिणः ॥
विदित्वा चापरे भिन्नानन्तरेषु पतन्त्यथ ।
भिन्नानामतुलो नाशः क्षिप्रमेव प्रवर्तते ॥
तस्माद्विभागं भ्रातॄणां न प्रशंसन्ति साधवः ।
`एवमुक्तः सुप्रतीको भागं कीर्तयतेऽनिशम् ॥
एवं निर्बध्यमानस्तु शशापैनं विभावसुः ।' गुरुशास्त्रेऽनिबद्धानामन्योन्येनाभिशङ्किनाम् ॥
नियन्तु न हि शक्यस्त्वं भेदतो धनमिच्छसि ।
यस्मात्तस्मात्सुप्रतीक हस्तित्वं समवाप्स्यसि ॥
कश्यप उवाच ।
शप्तस्त्वेवं सुप्रतीको विभावसुमथाब्रवीत् ।
त्वमप्यन्तर्जलचरः कच्छपः संभविष्यसि ॥
एवमन्योन्यशापात्तौ सुप्रतीकविभावसू ।
गजकच्छपतां प्राप्तावर्थार्थं मूढचेतसौ ॥
रोषदोषानुषङ्गेण तिर्यग्योनिगतावपि ।
परस्परद्वेषरतौ प्रमाणबलदर्पितौ ॥
सरस्यस्मिन्महाकायौ पूर्ववैरानुसारिणौ ।
तयोरन्यतरः श्रीमान्समुपैति महागजः ॥
यस्य बृंहितशब्देन कूर्मोऽप्यन्तर्जलेशयः ।
उत्थितोऽसौ महाकायः कृत्स्नं विक्षोभयन्सरः ॥
तं दृष्ट्वाऽऽवेष्टितकरः पतत्येष गजो जलम् ।
दन्तहस्ताग्रलाङ्गूलपादवेगेन वीर्यवान् ॥
विक्षोभयंस्ततो नागः सरो बहुझषाकुलम् ।
कूर्मोऽप्यभ्युद्यतशिरा युद्धायाभ्येति वीर्यवान् ॥
षडुच्छ्रितो योजनानि गजस्तद्द्विगुणायतः ।
कूर्मस्त्रियोजनोत्सेधो दशयोजनमण्डलः ॥
तावुभौ युद्धसंमत्तौ परस्परवधैषिणौ ।
उपयुज्याशु कर्मेदं साधये हितमात्मनः ॥
महाभ्रघनसंकाशं तं भुक्त्वामृतमानय ।
महागिरिसमप्रख्यं घोररूपं च हस्तिनम् ॥
सौतिरुवाच ।
इत्युक्त्वा गरुडं सोऽथ माङ्गल्यमकरोत्तदा ।
युध्यतः सह देवैस्ते युद्धे भवतु मङ्गलम् ॥
पूर्णकुम्भो द्विजा गावो यच्चान्यत्किंचिदुत्तमम् ।
शुभं स्वस्त्ययनं चापि भविष्यति तवाण्डजा ॥
युध्यमानस्य सङ्ग्रामे देवैः सार्धं महाबल ।
ऋचो यजूंषि सामानि पवित्राणि हवींषि च ॥
रहस्यानि च सर्वाणि सर्वे वेदाश्च ते बलम् । `वर्धयिष्यन्ति समरे भविष्यति खगोत्तम ।'
इत्युक्तो गरुडः पित्रा गतस्तं ह्वदमन्तिकात् ॥
अपश्यन्निर्मलजलं नानापक्षिसमाकुलम् ।
स तत्स्मृत्वा पितुर्वाक्यं भीमवेगोऽन्तरिक्षगः ॥
नखेन गजमेकेन कूर्ममेकेन चाक्षिपत् ।
सधुत्पपात चाकाशं तत उच्चैर्विहङ्गमः ॥
सोऽलम्बं तीर्थणासाद्य देववृक्षानुपागमत् ।
ते भीताः समकम्पन्त तस्य पक्षानिलाहताः ॥
न नो भञ्ज्यादिति तदा दिव्याः कनकशाखिनः ।
प्रचलाङ्गान्स तान्दृष्ट्वा मनोरथफलद्रुमान् ॥
अन्यानतुलरूपाङ्गानुपचक्राम खेचरः । काञ्चनै राजतैश्चैव फलैर्वैदूर्यशाखिनः ।
सागराम्बुपरिक्षिप्तान्भ्राजमानान्महाद्रुमान् ॥
`तेषां मध्ये महानासीत्पादपः सुमनोहरः ।
सहस्रयोजनोत्सेधो बहुशाखासमन्वितः ॥
खगानामालयो दिव्यो नाम्ना रौहिणपादपः ।
यस्य छायां समाश्रित्य सद्यो भवति निर्वृतः; ॥
तमुवाच खगश्रेष्ठं तत्र रौहिणपादपः ।
अतिप्रवृद्धः समुहानापतन्तं मनोजवम् ॥
रौहिण उवाच ।
यैषा मम महाशाखा शतयोजनमायता ।
एतामास्थाय शाखां त्वं खादेमौ गजकच्छपौ ॥
सौतिरुवाच ।
ततो द्रुमं पतगसहस्रसेवितं महीधरप्रतिमवपुः प्रकम्पयन् ।
खगोत्तमो द्रुतमभिपत्य वेगवा- न्बभञ्ज तामविरलपत्रसंचयाम् ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि एकोनत्रिंशोऽध्यायः ॥ 29 ॥

1-29-4 संभावय संजीवय ॥ 1-29-7 ततोऽपश्यत्स्वपितरं काश्यपं दीप्ततेजसम् । तं श्रेष्ठं पततां श्रेष्ठो ब्रह्म ब्रह्मविदां वरम् । पृष्टश्च पित्रा बलवान्वैनतेयः प्रतापदान् । इति पाठान्तरम् ॥ 7 ॥ 1-29-9 भोजने बहुले मम कुशलं न हि ॥ 1-29-10 सोमं अमृतम् ॥ 1-29-14 कूर्माग्रजं कूर्मभूतं ज्येष्ठभ्रातरम् ॥ 1-29-21 अन्तरेषु छिद्रेषु ॥ 1-29-30 आवेष्टितकरः कुण्डलीकृतशुण्डादण्डः ॥ 1-29-33 उपयुज्य भुक्त्वा ॥ 1-29-38 भविष्यति समरे ॥ एकोनत्रिंशोऽध्यायः ॥ 29 ॥

अध्यायः 030

भग्नशाखाया अधोभागे लम्बमानवालखिल्यरक्षणार्थं मुखेन शाखाग्रहणम् ॥ 1 ॥ कश्यपाज्ञया हिमालयं गत्वा तत्र शाखां परित्यज्य तत्रैव स्थित्वा गजकच्छपभक्षणम् ॥ 2 ॥ उत्पातान्दृष्ट्वा देवैः कृतोऽमृतरक्षणोपायः ॥ 3 ॥

सौतिरुवाच ।
स्पष्टमात्रा तु पद्भ्यां सा गरुडेन बलीयसा ।
अभज्यत तरोः शाखा भग्नां चैकामधारयत् ॥
तां भङ्क्त्वा स महाशाखां स्मयमानो विलोकयन् ।
अथात्रं लम्बतोऽपश्यद्वालखिल्यानधोमुखान् ॥
ऋषयो ह्यत्र लम्बन्ते न हन्यामिति तानृषीन् ।
तपोरतांल्लम्बमानान्ब्रह्मर्षीनभिवीक्ष्य सः ॥
हन्यादेतान्संपतन्ती शाखेत्यथ विचिन्त्य सः ।
नखैर्दृढतरं वीरः संगृह्य गजकच्छपौ ॥
स तद्विनाशसंत्रासादभिपत्य स्वगाधिपः ।
शाखामास्येन जग्राह तेषामेवान्ववेक्षया ॥
अतिदैवं तु तत्तस्य कर्म दृष्ट्वा महर्षयः ।
विस्मयोत्कम्पहृदया नाम चक्रुर्महाखगे ॥
गुरुं भारं समासाद्योड्डीन एष विहङ्गमः ।
गरुडस्तु खगश्रेष्ठस्तस्मात्पन्नगभोजनः ॥
ततः शनैः पर्यपतत्पक्षैः शैलान्प्रकम्पयन् ।
एवं सोऽभ्यपतद्देशान्बहून्सगजकच्छपः ॥
दयार्थं वालखिल्यानां न च स्थानमविन्दत ।
स गत्वा पर्वतश्रेष्ठं गन्धमादनमञ्जसा ॥
ददर्श कश्यपं तत्र पितरं तपसि स्थितम् ।
ददर्श तं पिता चापि दिव्यरूपं विहङ्गमम् ॥
तेजोवीर्यबलोपेतं मनोमारुतरंहसम् ।
शैलशृङ्गप्रतीकाशं ब्रह्मदण्डमिवोद्यतम् ॥
अचिन्त्यमनभिध्येयं सर्वभूतभयंकरम् ।
महावीर्यधरं रौद्रं साक्षादग्निमिवोद्यतम् ॥
अप्रधृष्यमजेयं च देवदानवराक्षसैः ।
भेत्तारं गिरिशृङ्गाणां समुद्रजलशोषणम् ॥
लोकसंलोडनं घोरं कृतान्तसमदर्शनम् । तमागतमभिप्रेक्ष्य भगवान्कश्यपस्तदा ।
विदित्वा चास्यं संकल्पमिदं वचनमब्रवीत् ॥
कश्यप उवाच ।
पुत्र मा साहसं कार्षीर्मा सद्यो लप्स्यसे व्यथाम् ।
मा त्वां दहेयुः संक्रुद्धा वालखिल्या मरीचिपाः ॥
सौतिरुवाच ।
ततः प्रसादयामास कश्यपः पुत्रकारणात् ।
वालखिल्यान्महाभागांस्तपसा हतकल्मषान् ॥
कश्यप उवाच ।
प्रजाहितार्थमारम्भो गरुडस्य तपोधनाः ।
चिकीर्षति महत्कर्म तदनुज्ञातुमर्हथ ॥
सौतिरुवाच ।
एवमुक्ता भगवता मुनयस्ते समभ्ययुः ।
मुक्त्वा शाखां गिरिं पुण्यं हिमवन्त तपोऽर्थिनः ॥
ततस्तेष्वपयातेषु पितरं विनतासुतः ।
शाखाव्याक्षिप्तवदनः पर्यपृच्छत कश्यपम् ॥
भगवन्क्व विमुञ्चामि तरोः शाखामिमामहम् ।
वर्जितं मानुषैर्देशमाख्यातु भगवान्मम ॥
सौतिरुवाच ।
ततो निःपुरुषं शैलं हिमसंरुद्धकन्दरम् ।
अगम्यं मनसाप्यन्यैस्तस्याचख्यौ स कश्यपः ॥
तं पर्वतं महाकुक्षिमुद्दिश्य स महाखगः ।
जवेनाभ्यपतत्तार्क्ष्यः सशाखागजकच्छपः ॥
न तां वध्री परिणहेच्छतचर्मा महातनुम् ।
शाखिनो महतीं शाखां यां प्रगृह्य ययौ खगः ॥
स ततः शतसाहस्रं योजनान्तरमागतः ।
कालेन नातिमहता गरुडः पतगेश्वरः ॥
स तं गत्वा क्षणेनैव पर्वतं वचनात्पितुः ।
अमुञ्चन्महतीं शाखां सस्वनं तत्र खेचरः ॥
पक्षानिलहतश्चास्य प्राकम्पत स शैलराट् ।
मुमोच पुष्पवर्षं च समागलितपादप ॥
शृङ्गाणि च व्यशीर्यन्त गिरेस्तस्य समन्ततः ।
मणिकाञ्चनचित्राणि शोभयन्ति महागिरिम् ॥
शाखिनो बहवश्चापि शाखयाऽभिहतास्तया ।
काञ्चनैः कुसुमैर्भान्ति विद्युत्वन्त इवाम्बुदाः ॥
ते हेमविकचा भूमौ युताः पर्वतधातुभिः ।
व्यराजञ्छाखिनस्तत्र सूर्यांशुप्रतिरञ्जिताः ॥
ततस्तस्य गिरेः शृङ्गमास्थाय स खगोत्तमः ।
भक्षयामास गरुडस्तावुभौ गजकच्छपौ ॥
तावुभौ भक्षयित्वा तु स तार्क्ष्यः कूर्मकुञ्जरौ ।
ततः पर्वतकूटाग्रादुत्पपात महाजवः ॥
प्रावर्तन्ताथ देवानामुत्पाता भयशंसिनः ।
इन्द्रस्य वज्रं दयितं प्रजज्वाल भयात्ततः ॥
सधूमा न्यपतत्सार्चिर्दिवोल्का नभसश्च्युता ।
तथा वसूनां रुद्राणामादित्यानां च सर्वशः ॥
साध्यानां मरुतां चैव ये चान्ये देवतागणाः ।
स्वं स्वं प्रहरणं तेषां परस्परमुपाद्रवत् ॥
अभूतपूर्वं संग्रामे तदा देवासुरेऽपि च ।
ववुर्वाताः सनिर्घाताः पेतुरुल्काः सहस्रशः ॥
निरभ्रमेव चाकाशं प्रजगर्ज महास्वनम् ।
देवानामपि यो देवः सोऽप्यवर्षत शोणितम् ॥
मम्लुर्माल्यानि देवानां नेशुस्तेजांसि चैव हि ।
उत्पातमेघा रौद्राश्च ववृषुः शोणितं बहु ॥
रजांसि मुकुटान्येषामुत्थितानि व्यधर्षयन् । ततस्त्राससमुद्विग्नः सह देवैः शतक्रतुः ।
उत्पातान्दारुणान्पश्यन्नित्युवाच बृहस्पतिम् ॥
किमर्थं भगवन्घोरा उत्पाताः सहसोत्थिताः ।
न च शत्रुं प्रपश्यामि युधि यो नः प्रधर्षयेत् ॥
बृहस्पतिरुवाच ।
तवापराधाद्देवेन्द्र प्रमादाच्च शतक्रतो ।
तपसा वालखिल्यानां महर्षीणां महात्मनाम् ॥
कश्यपस्य मुनेः पुत्रो विनतायाश्च खेचरः ।
हर्तुं सोममभिप्राप्तो बलवान्कामरूपधृक् ॥
समर्थो बलिनां श्रेष्ठो हर्तुं सोमं विहंगमः ।
सर्वं संभावयाम्यस्मिन्नसाध्यमपि साधयेत् ॥
सौतिरुवाच ।
श्रुत्वैतद्वचनं शक्रः प्रोवाचामृतरक्षिणः ।
महावीर्यबलः पक्षी हर्तुं सोममिहोद्यतः ॥
युष्मान्संबोधयाम्येष `गृहीत्वावरणायुधान् ।
परिवार्यामृतं सर्वे यूयं मद्वचनादिह ॥
रक्षध्वं विबुधा वीरा' यथा न स हरेद्बलात् ।
अतुलं हि बलं तस्य बृहस्पतिरुवाच ह ॥
सौतिरुवाच ।
तच्छ्रुत्वा विबुधा वाक्यं विस्मिता यत्नमास्थिताः ।
परिवार्यामृतं तस्थूर्वज्री चेन्द्रः प्रतापवान् ॥
धारयन्तो विचित्राणि काञ्चनानि मनस्विनः ।
कवचानि महार्हाणि वैदूर्यविकृतानि च ॥
चर्माण्यपि च गात्रेषु भानुमन्ति दृढानि च ।
विविधानि च शस्त्राणि घोररूपाण्यनेकशः ॥
शिततीक्ष्णाग्रधाराणि समुद्यम्य सुरोत्तमः ।
सविस्फुलिङ्गज्वालानि सधूमानि च सर्वशः ॥
चक्राणि परघांश्चैव त्रिशूलानि परश्वधान् । शक्तीश्च विविधास्तीक्ष्णाः करवालांश्च निर्मलान् ।
स्वदेहरूपाण्यादाय गदाश्चोग्रप्रदर्शनाः ॥
तैः शस्त्रैर्भानुमद्भिस्ते दिव्याभरणभूषिताः ।
भानुमन्तः सुरगणास्तस्थुर्विगतकल्मषाः ॥
अनुपमबलवीर्यतेजसो धृतमनसः परिरक्षणेऽमृतस्य ।
असुरपुरविदारणाः सुरा ज्वलनसमिद्धवपुःप्रकाशिनः ॥
इति समरवरं सुराः स्थितास्ते परिघसहस्रशतैः समाकुलम् ।
विगलितमिव चाम्बरान्तरं तपनमरीचिविकाशितं बभासे ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि त्रिंशोऽध्यायः ॥ 30 ॥

1-30-6 अतिदैवं देवैरपि कर्तुमशक्यम् ॥ 1-30-7 गुरुशब्दपूर्वाड्डीड््विहायसागतावित्यस्माड्डः आदेरकारश्च पृषोदरादित्वात् गरुडशब्दो निष्पन्न इत्यर्थः ॥ 1-30-18 शाखां मुक्त्वा गिरिं समभ्ययुरिति संबन्धः ॥ 1-30-19 शाखया मुखस्थया व्याक्षिप्तं वदनं वचनक्रियायस्य स तथा ॥ 1-30-23 शतचर्मा शतगोचर्मणा कृता । वध्री रज्जुः । न परिणहेत् परितो न बध्नीयात् ॥ 1-30-29 विकचाः हेमवदुज्ज्वलाः ॥ 1-30-33 दिवा अह्नि ॥ 1-30-36 देवानां देवः पर्जन्यः ॥ 1-30-42 अन्येषामसाध्यमप्ययं साधयेत् ॥ 1-30-48 भानुमन्ति दीप्तिमन्ति ॥ 1-30-50 स्वदेहरूपाणि स्वदेहानुरूपाणि ॥ 1-30-52 ज्वलनवत्समिद्धैर्दीप्यमानैर्वपुर्भिः प्रकाशिनः ॥ त्रिंशोऽध्यायः ॥ 30 ॥

अध्यायः 031

वालखिल्यतपसा गरुडोत्पत्तिकथनपूर्वकं तस्य पक्षीन्द्रत्वेऽभिषेचनम् ॥ 1 ॥

शौनक उवाच ।
कोऽपराधो महेन्द्रस्य कः प्रमादश्च सूतज ।
तपसा वालखिल्यानां संभूतो गरुडः कथम् ॥
कश्यपस्य द्विजातेश्च कथं वै पक्षिराट् सुतः ।
अधृष्टः सर्वभूतानामवध्यस्चाभवत्कथम् ॥
कथं च कामचारी स कामवीर्यश्च खेचरः ।
एतदिच्छाम्यहं श्रोतुं पुराणे यदि पठ्यते ॥
सौतिरुवाच ।
विषयोऽयं पुराणस्य यन्मां त्वं परिपृच्छसि ।
शृणु मे वदतः सर्वमेतत्संक्षेपतों द्विज ॥
यजतः पुत्रकामस्य कश्यपस्य प्रजापतेः ।
साहाय्यमृषयो देवा गन्धर्वाश्च ददुः किल ॥
तत्रेध्मानयने शक्रो नियुक्तः कश्यपेन ह ।
मुनयो वालखिल्याश्च ये चान्ये देवतागणाः ॥
शक्रस्तु वीर्यसदृशमिध्यभारं गिरिप्रभम् ।
समुद्यम्यानयामास नातिकृच्छ्रादिव प्रभुः ॥
अथापश्यदृषीन्ह्रस्वानङ्गुष्ठोदरवर्ष्मणः ।
पलाशवर्तिकामेकां वहतः संहतान्पथि ॥
प्रलीनान्स्वेष्विवाङ्गेषु निराहारांस्तपोधनान् ।
क्लिश्यमानान्मन्दबलान्गोष्पदे संप्लुतोदके ॥
तान्सर्वान्विस्मयाविष्टो वीर्योन्मत्तः पुरन्दरः ।
अपहास्याभ्यगाच्छीघ्रं लम्बयित्वाऽवमन्य च ॥
तेऽथ रोषसमाविष्टाः सुभृशं जातमन्यवः ।
आरेभिरे महत्कर्म तदा शक्रभयंकरम् ॥
जुहुवुस्ते सुतपसो विधिवज्जातवेदसम् ।
मन्त्रैरुच्चावचैर्विप्रा येन कामेन तच्छृणु ॥
कामवीर्यः कामगमो देवराजभयप्रदः ।
इन्द्रोऽन्यः सर्वदेवानां भवेदिति यतव्रताः ॥
इन्द्राच्छतगुणः शौर्ये वीर्ये चैव मनोजवः ।
तपसो नः फलेनाद्य दारुणः संभवित्विति ॥
तद्बुद्ध्वा भृशसंतप्तो देवराजः शतक्रतुः ।
जगाम शरणं तत्र कश्यपं संशितव्रतम् ॥
तच्छ्रुत्वा देवराजस्य कश्यपोऽथ प्रजापतिः ।
वालखिल्यानुपागम्य कर्मसिद्धिमपृच्छत ॥
`कश्यप उवाच ।
केन कामेन चारब्धं भवद्भिर्होमकर्म च ।
याथातथ्येन मे ब्रूत श्रोतुं कौतूहलं हि मे ॥
वालखिल्या ऊचुः ।
अवज्ञाताः सुरेन्द्रेण मूढेनाकृतबुद्धिना ।
ऐश्वर्यमदमत्तेन सदाचारान्निरस्यता ॥
तद्विघातार्थमारम्भो विधिवत्तस्य कश्यप ॥
सौतिरुवाच ।'
एवमस्त्विति तं चापि प्रत्यूचुः सत्यवादिनः ।
तान्कश्यप उवाचेदं सान्त्वपूर्वं प्रजापतिः ॥
अयमिन्द्रस्त्रिभुवने नियोगाद्ब्रह्मणः कृतः ।
इन्द्रार्थे च भवन्तोऽपि यत्नवन्तस्तपोधनाः ॥
न मिथ्या ब्रह्मणो वाक्यं कर्तुमर्हथ सत्तमाः ।
भवतां हि न मिथ्याऽयं संकल्पो वै चिकीर्षितः ॥
भवत्वेष पतत्रीणामिन्द्रोऽतिबलसत्त्ववान् ।
प्रसादः क्रियतामस्य देवराजस्य याचतः ॥
सौतिरुवाच ।
एवमुक्ताः कश्यपेन वालखिल्यास्तपोधनाः ।
प्रत्यूचुरभिसंपूज्य मुनिश्रेष्ठं प्रजापतिम् ॥
वालखिल्या ऊचुः ।
इन्द्रार्थोऽयं समारम्भः सर्वेषां नः प्रजापते ।
अपत्यार्थं समारम्भो भवतश्चायमीप्सितः ॥
तदिदं सफलं कर्म त्वयैव प्रतिगृह्यताम् ।
तथा चैवं विधत्स्वात्र यथा श्रेयोऽनुपश्यसि ॥
सौतिरुवाच ।
एतस्मिन्नेव काले तु देवी दाक्षायणी शुभा ।
विनता नाम कल्याणी पुत्रकामा यशस्विनी ॥
तपस्तप्त्वा व्रतपरा स्नाता पुंसवने शुचिः ।
उपचक्राम भर्तारं तामुवाचाथ कश्यपः ॥
आरम्भः सफलो देवि भविता यस्त्वयेप्सितः ।
जनयिष्यसि पुत्रौ द्वौ वीरौ त्रिभुवनेश्वरौ ॥
तपसा वालखिल्यानां मम संकल्पतस्तथा ।
भविष्यतो महाभागौ पुत्रौ त्रैलोक्यपूजितौ ॥
उवाच चैनां भगवान्कश्यपः पुनरेव ह ।
धार्यतामप्रमादेन गर्भोऽयं सुमहोदयः ॥
एकः सर्वपतत्रीणामिन्द्रत्वं कारयिष्यति ।
लोकसंभावितो वीरः कामरूपो विहङ्गमः ॥
सौतिरुवाच ।
शतक्रतुमथोवाच प्रीयमाणः प्रजापतिः ।
त्वत्सहायौ महावीर्यौ भ्रातरौ ते भविष्यतः ॥
नैताभ्यां भविता दोषः सकाशात्ते पुरंदर ।
व्येतु ते शक्र संतापस्त्वमेवेन्द्रो भविष्यसि ॥
न चाप्येवं त्वया भूयः क्षेप्तव्या ब्रह्मवादिनः ।
न चावमान्या दर्पात्ते वाग्वज्रा भृशकोपनाः ॥
सौतिरुवाच ।
एवमुक्तो जगामेन्द्रो निर्विशङ्कस्त्रिविष्टपम् ।
विनता चापि सिद्धार्था बभूव मुदिता तथा ॥
जनयामास पुत्रौ द्वावरुणं गरुडं तथा ।
विकलाङ्गोऽरुणस्तत्र भास्करस्य पुरःसरः ॥
पतत्त्रीणां च गरुडमिन्द्रत्वेनाभ्यषिञ्चत ।
तस्यैतत्कर्म सुमहच्छ्रूयतां भृगुनन्दन ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि एकत्रिंशोऽध्यायः ॥ 31 ॥

1-31-8 अङ्गुष्ठोदरप्रमाणं वर्ष्म शरीरं येषां तान् । वर्तिकां यष्टिम् ॥ 1-31-9 स्वेष्वङ्गेषु प्रलीनानिव अतिकृशानित्यर्थः । क्लिश्यमानान् गोष्पदमात्रेति जले मज्जनेनेत्यर्थः ॥ 1-31-11 जातमन्यवः दीनाः । मन्युर्दैन्ये क्रतौ क्रुधीति कोशः ॥ 1-31-14 दारुणः इन्द्रं प्रत्येव ॥ 1-31-16 कर्मसिद्धिमपृच्छत सिद्ध वः कर्मेत्यपृच्छत् ॥ 1-31-20 एवमस्तु सिद्धमस्तु ॥ 1-31-28 पुंसवने ऋतुकाले ॥ 1-31-32 कारयिष्यति स्वार्थे णिच् ॥ एकत्रिंशोऽध्यायः ॥ 31 ॥

अध्यायः 032

देवगरुडयुद्धं तत्र देवानां पराजयः ॥ 1 ॥

सौतिरुवाच ।
`ततस्तस्माद्गिरिवरात्समुदीर्णमहाबलः ।' गरुडः पक्षिराट् तूर्णं संप्राप्तो विबुधान्प्रति ॥
तं दृष्ट्वातिबलं चैव प्राकम्पन्त सुरास्ततः ।
परस्परं च प्रत्यघ्नन्सर्वप्रहरणान्युत ॥
तत्र चासीदमेयात्मा विद्युदग्निसमप्रभः ।
भौमनः सुमहावीर्यः सोमस्य परिरक्षिता ॥
स तेन पतगेन्द्रेण पक्षतुण्डनखैः क्षतः ।
मुहूर्तमतुलं युद्धं कृत्वा विनिहतो युधि ॥
रजश्चोद्धूय सुमहत्पक्षवातेन खेचरः ।
कृत्वा लोकान्निरालोकांस्तेन देवानवाकिरत् ॥
तेनावकीर्णा रजसा देवा मोहमुपागमन् ।
न चैवं ददृशुश्छन्ना रजसाऽमृतरक्षिणः ॥
एवं संलोडयामास गरुडस्त्रिदिवालयम् ।
पक्षतुण्डप्रहारैस्तु देवान्स विददार ह ॥
ततो देवः सहस्राक्षस्तूर्णं वायुमचोदयत् ।
विक्षिपेमां रजोवृष्टिं तवेदं कर्म मारुत ॥
सौतिरुवाच ।
अथ वायुरपोवाह तद्रजस्तरसा बली ।
ततो वितिमिरे जाते देवाः शकुनिमार्दयन् ॥
ननादोच्चैः स बलवान्महामेघ इवाम्बरे ।
वध्यमानः सुरगणैः सर्वभूतानि भीषयन् ॥
उत्पपात महावीर्यः पक्षिराट् परवीरहा ।
समुत्पत्यान्तरिक्षस्थं देवानामुपरि स्थितम् ॥
वर्मिमो विबुधाः सर्वे नानाशस्त्रैरवाकिरन् ।
पट्टिशैः परिधैः शूलैर्गदाभिश्च सवासवाः ॥
क्षुरप्रैर्ज्वलितैश्चापि चक्रैरादित्यरूपिभिः ।
नानाशस्त्रविसर्गैस्तैर्वध्यमानः समन्ततः ॥
कुर्वन्सुतुमुलं युद्धं पक्षिराण्ण व्यकम्पत । निर्दहन्निव चाकाशे वैनतेयः प्रतापवान् ।
पक्षाभ्यामुरसा चैव समन्ताद्व्यक्षिपत्सुरान् ॥
ते विक्षिप्तास्ततो देवा दुद्रुवुर्गरुडार्दिताः ।
नखतुण्डक्षताश्चैव सुस्रुवुः शोणितं बहु ॥
साध्याः प्राचीं सगन्धर्वा वसवो दक्षिणां दिशम् ।
प्रजग्मुः सहिता रुद्राः पतगेन्द्रप्रधर्षिताः ॥
दिशं प्रतीचीमादित्या नासत्यावुत्तरां दिशम् ।
मुहुर्मुहुः प्रेक्षमाणा युध्यमानं महौजसः ॥
अश्वक्रन्देन वीरेण रेणुकेन च पक्षिराट् ।
क्रथनेन च शूरेण तपनेन च खेचरः ॥
उलूकश्वसनाभ्यां च निमेषेण च पक्षिराट् ।
प्ररुजेन च संग्रामं चकार पुलिनेन च ॥
तान्पक्षनखतुण्डाग्रैरभिनद्विनतासुतः ।
युगान्तकाले संक्रुद्धः पिनाकीव परंतप ॥
महाबला महोत्साहास्तेन ते बहुधा क्षताः ।
रेजुरभ्रघनप्रख्या रुधिरौघप्रवर्षिणः ॥
तान्कृत्वा पतगश्रेष्ठः सर्वानुत्क्रान्तजीवितान् ।
अतिक्रान्तोऽमृतस्यार्थे सर्वतोऽग्निमपश्यत ॥
आवृण्वानं महाज्वालमर्चिर्भिः सर्वतोऽम्बरम् ।
दहन्तमिव तीक्ष्णांशुं चण्डवायुसमीरितम् ॥
`नभः स्पृशन्तं ज्वालाभिः सर्वभूतभयंकरम् ।' ततो नवत्या नवतीर्मुखानां
कृत्वा महात्मा गरुडस्तरस्वी । नदीः समापीय मुखैस्ततस्तैः सुशीघ्रमागम्य पुनर्जवेन ॥
ज्वलन्तमग्निं तममित्रतापनः समास्तरत्पत्ररथो नदीभिः ।
ततः प्रचक्रे वपुरन्यदल्पं प्रवेष्टुकामोऽग्निमभिप्रशाम्य ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि द्वात्रिंशोऽध्यायः ॥ 32 ॥

1-32-3 भौमनः विश्वकर्मा ॥ 1-32-4 विनिहतः मृतकल्पः कृतः ॥ 1-32-9 अपोवाह अपसारितवान् ॥ 1-32-24 नवत्याः नवतीः शताधिकाष्टसाहस्रीः ॥ 1-32-25 समास्तरत् आच्छादितवान् शामितवानित्यर्थः ॥ द्वात्रिंशोऽध्यायः ॥ 32 ॥

अध्यायः 033

अमृतसमीपे गरुडस्य गमनम् ॥ 1 ॥ अमृतं गृहीत्वा गच्छतो गरुडस्य विष्णुदर्शनम् ॥ 2 ॥ विष्णुगरुडयोः परस्परं वरदानम् ॥ 3 ॥ गरुडस्य सुपर्णनामप्राप्तिः ॥ 4 ॥

सौतिरुवाच ।
जाम्बूनदमयो भूत्वा मरीचिनिकरोज्ज्वलः ।
प्रविवेश बलात्पक्षी वारिवेग इवार्णवम् ॥
स चक्रं क्षुरपर्यन्तमपश्यदमृतान्तिके ।
परिभ्रमन्तमनिशं तीक्ष्णधारमयस्मयम् ॥
ज्वलनार्कप्रभं घोरं छेदनं सोमहारिणाम् ।
घोररूपं तदत्यर्थं यन्त्रं देवैः सुनिर्मितम् ॥
तस्यान्तरं स दृष्ट्वै पर्यवर्तत खेचरः ।
अरान्तरेणाभ्यपतत्संक्षिप्याङ्गं क्षणेन ह ॥
अधश्चक्रस्य चैवात्र दीप्तानलसमद्व्युती ।
विद्युज्जिह्वौ महावीर्यौ दीप्तास्यौ दीप्तलोचनौ ॥
चक्षुर्विषौ महाघोरौ नित्यं क्रुद्धौ तरस्विनौ ।
अमृतस्यैव रक्षार्थं ददर्श भुजगोत्तमौ ॥
सदा संरब्धनयनौ सदा चानिमिषेक्षणौ ।
तयोरेकोऽपि यं पश्येत्स तूर्णं भस्मसाद्भवेत् ॥
`तौ दृष्ट्वा सहसा खेदं जगाम विनतात्मजः ।
कथमेतौ महावीर्यौ जेतव्यौ हरिभोजिनौ ॥
इति संचिन्त्य गरुडस्तयोस्तूर्णं निराकरः ।' तयोश्चक्षूंषि रजसा सुपर्णः सहसाऽऽवृणोत् ।
ताभ्यामदृष्टरूपोऽसौ सर्वतः समताडयत् ॥
तयोरङ्गे समाक्रम्य वैनतेयोऽन्तरिक्षगः ।
आच्छिनत्तरसा मध्ये सोममभ्यद्रवत्ततः ॥
समुत्पाट्यामृतं तत्र वैनतेयस्ततो बली ।
उत्पपात जवेनैव यन्त्रमुन्मथ्य वीर्यवान् ॥
अपीत्वैवामृतं पक्षी परिगृह्याशु निःसृतः ।
आगच्छदपरिश्रान्त आवार्यार्कप्रभां ततः ॥
विष्णुना च तदाकाशे वैनतेयः समेयिवान् ।
तस्य नारायणस्तुष्टस्तेनालौल्येन कर्मणा ॥
तमुवाचाव्ययो देवो वरदोऽस्मीति खेचरम् ।
स वव्रे तव तिष्ठेयमुपरीत्यन्तरिक्षगः ॥
उवाच चैनं भूयोऽपि नारायणमिदं वचः ।
अजरश्चामरश्च स्याममृतेन विनाऽप्यहम् ॥
सौतिरुवाच ।
एवमस्त्विति तं विष्णुरुवाच विनतासुतम् ।
प्रतिगृह्य वनौ तौ च गरुडो विष्णुमब्रवीत् ॥
भवतेपि वरं दद्यां वृणोतु भगवानपि ।
तं वव्रे वाहनं विष्णुर्नरुत्मन्तं महाबलम् ॥
ध्वजं च चक्रे भगवानुपरि स्थास्यसीति तम् ।
एवमस्त्विति तं देवमुक्त्वा नारायणं खगः ॥
वव्राज तरसा वेगाद्वायुं स्पर्धन्महाजवः ।
तं व्रजन्तं खगश्रेष्ठं वज्रेणेन्द्रोऽभ्यताडयत् ॥
हरन्तममृतं रोषाद्गरुडं पक्षिणां वरम् ।
तमुवाचेन्द्रमाक्रन्दे गरुडः पततां वरः ॥
प्रहसञ्श्लक्ष्णया वाचा तथा वज्रसमाहतः ।
ऋषेर्मानं करिष्यामि वज्रं यस्यास्थिसंभवम् ॥
वज्रस्य च करिष्यामि तवैव च शतक्रतो ।
एतत्पत्रं त्यजाम्येकं यस्यान्तं नोपलप्स्यसे ॥
न च वज्रनिपातेन रुजा मेऽस्तीह काचन ।
एवमुक्त्वा ततः पुत्रमुत्ससर्ज स पक्षिराट् ॥
तदुत्सृष्टमभिप्रेक्ष्य तस्य पर्णमनुत्तमम् ।
हृष्टानि सर्धभूतानि नाम चक्रुर्गरुत्मतः ॥
सुरूपं पत्रमालक्ष्य सुपर्णोऽयं भवत्विति । तद्दृष्ट्वा महदाश्चर्यं सहस्राक्षः पुरंदरः ।
खगो महदिदं भूतमिति मत्वाऽभ्यभाषत ॥
बलं विज्ञातुमिच्छामि यत्ते परमनुत्तमम् ।
सख्यं चानन्तमिच्छामि त्वया सह खगोत्तम ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि आस्तीपर्वणि त्रयस्त्रिंशोऽध्यायः ॥ 33 ॥

1-33-4 संक्षिप्य अणुतरं कृत्वा ॥ 1-33-10 तयोः अङ्गे देहौ आच्छिनत् खण्डशः कृतवान् ॥ 1-33-11 यन्त्रमुन्मथ्य अमृतं अमृतकुम्भं समुत्पाठ्य उत्पपातेत्यन्वयः ॥ 1-33-12 आवार्य वारयित्वा तिरस्कृत्येत्यर्थः ॥ 1-33-13 अलौल्येन अमृतपानलोभराहित्येन ॥ 1-33-14 उपरि ध्वजे इत्यर्थः ॥ 1-33-19 स्पर्धावानिवाचरतीति स्पर्धन् ॥ 1-33-20 आक्रन्दे कलकले ॥ 1-33-21 ऋषेः दधीचेः ॥ त्रयस्त्रिंशोऽध्यायः ॥ 33 ॥

अध्यायः 034

इन्द्रस्य गरुडसख्यलाभः ॥ 1 ॥ इन्द्राद्गरुडस्य वरलाभः ॥ 2 ॥ विनताया दास्यमोचनम् ॥ 3 ॥ सर्पाणां द्विजिह्वत्वप्राप्तिः ॥ 4 ॥

सौतिरुवाच ।
`इत्येवमुक्तो गरुडः प्रत्युवाच शचीपतिम्' ।
गरुड उवाच ।
सख्यं मेऽस्तु त्वया देव यथेच्छसि पुरंदर ।
बलं तु मम जानीहि महच्चासह्यमेव च ॥
कामं नैतत्प्रशंसन्ति सन्तः स्वबलसंस्तवम् ।
`अनिमित्तं सुरश्रेष्ठ सद्यः प्राप्नोति गर्हणाम् ॥
गुणसंकीर्तनं चापि पृष्टेनान्येन गोपते । वक्तव्यं न तु वक्तव्यं स्वयमेव शतक्रतो ॥'
सखेति कृत्वा तु सखे पृष्टो वक्ष्याम्यहं त्वया ।
न ह्यात्मस्तवसंयुक्तं वक्तव्यमनिमित्ततः ॥
सपर्वतवनामुर्वीं ससागरजलामिमाम् ।
वहे पक्षेण वै शक्र त्वामप्यत्रावलम्बिनम् ॥
सर्वान्संपिण्डितान्वापि लोकान्सस्थाणुजङ्गमान् ।
वहेयमपरिश्रान्तो विद्धीदं मे महद्बलम् ॥
सौतिरुवाच ।
इत्युक्तवचनं वीरं किरीटी श्रीमतां वरः ।
आह शौनक देवेन्द्रः सर्वलोकहितः प्रभुः ॥
एवमेव यथात्थ त्वं सर्वं संभाव्यते त्वयि ।
संगृह्यतामिदानीं मे सख्यमत्यन्तमुत्तमम् ॥
न कार्यं यदि सोमेन मम सोमः प्रदीयताम् ।
अस्मांस्ते हि प्रबाधेयुर्येभ्यो दद्याद्भवानिमम् ॥
गरुड उवाच ।
किंचित्कारणमुद्दिश्य सोमोऽयं नीयते मया ।
न दास्यामि समापातुं सोमं कस्मैचिदप्यहम् ॥
यत्रेमं तु सहस्राक्ष निक्षिपेयमहं स्वयम् ।
त्वमादाय ततस्तृर्णं हरेथास्त्रिदिवेश्वर ॥
शक्र उवाच ।
वाक्येनानेन तुष्टोऽहं यत्त्वयोक्तमिहाण्डज ।
यमिच्छसि वरं मत्तस्तं गृहाण खगोत्तम ॥
सौतिरुवाच ।
इत्युक्तः प्रत्युवाचेदं कद्रूपुत्राननुस्मरन् ।
भवेयुर्भुजगाः शक्र मम भक्ष्या महाबलाः ॥
गरुड उवाच ।
ईशोऽहमपि सर्वस्य करिष्यामि तु तेऽर्थिताम् ।
भवेयुर्भुजगाः शक्र मम भक्ष्या महाबलाः ॥
सौतिरुवाच ।
तथेत्युक्त्वाऽन्वगच्छत्तं ततो दानवसूदनः ।
देवदेवं महात्मानं योगिनामीश्वरं हरिम् ॥
स चान्वमोदत्तं चार्थं यथोक्तं गरुडेन वै ।
इदं भूयो वचः प्राह भगवांस्त्रिदशेश्वरः ॥
हरिष्यामि विनिक्षिप्तं सोममित्यनुभाष्य तम् ।
आजगाम ततस्तूर्णं सुपर्णी मातुरन्तिकम् ॥
`विनयावनतो भूत्वा वचनं चेदमब्रवीत् ।
इदमानीतममृतं देवानां भवनान्मया ॥
प्रशाधि किमितो मातः करिष्यामि शुभव्रते ।
विनतोवाच ।
परितुष्टाऽहमेतेन कर्मणा तव पुत्रक ॥
अजरश्चाभरश्चैव देवानां सुप्रियो भव ।
सौतिरुवाच ।'
अथ सर्पानुवाचेदं सर्वान्परमहृष्टवत् ।
गरुड उवाच ।
इदमानीतममृतं निक्षेप्स्यामि कुशेषु वः ॥
स्नाता मङ्गलसंयुक्तास्ततः प्राश्नीत पन्नगाः ।
भवद्भिरिदमासीनैर्यदुक्तं तद्वचस्तदा ॥
अदासी चैव मातेयमद्यप्रभृति चास्तु मे ।
यथोक्तं भवतामेतद्वचो मे प्रतिपादितम् ॥
सौतिरुवाच ।
ततः स्नातुं गताः सर्पाः प्रत्युक्त्वा तं तथेत्युत ।
शक्रोऽप्यमृतमाक्षिप्य जगाम त्रिदिवं पुनः ॥
अथागतास्तमुद्देशं सर्पाः सोमार्थिनस्तदा ।
स्नाताश्च कुतजप्याश्च प्रहृष्टाः कृतमङ्गलाः ॥
`परस्परकृतद्वेषाः सोमप्राशनकर्मणि । अहं पूर्वमहं पूर्वमित्युक्त्वा ते समाद्रवन् ॥'
यत्रैतदमृतं चापि स्थापितं कुशसंस्तरे ।
तद्विज्ञाय हृतं सर्पाः प्रतिमायाकृतं च तत् ॥
सोमस्थानमिदं चेति दर्भांस्ते लिलिहुस्तदा ।
ततो द्विधा कृता जिह्वाः सर्पाणां तेन कर्मणा ॥
अभवंश्चामृतस्पर्शाद्दर्भास्तेऽथ पवित्रिणः । `नागाश्च वञ्चिता भूत्वा विसृज्य विनतां ततः ।
विषादमगमंस्तीव्रं गरुडस्य बलात्प्रभो ॥'
एवं तदमृतं तेन हृतमाहृतमेव च ।
द्विजिह्वाश्च कृताः सर्पा गरुडेन महात्मना ॥
ततः सुपर्णः परमप्रहर्षवा- न्विहृत्य मात्रा सह तत्र कानने ।
भुजंगभक्षः परमार्चितः खगै- रहीनकीर्तिर्विनतामनन्दयत् ॥
इमां कथां यः शृणुयान्नरः सदा पठेत वा द्विजगणमुख्यसंसदि ।
असंशयं त्रिदिवमियात्स पुण्यभा- ङ्महात्मनः पतगपतेः प्रकीर्तनात् ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि चतुस्त्रिंशोऽध्यायः ॥ 34 ॥

1-34-6 संपिण्डितान् एकीकृतान् । स्थाणु स्थावरम् ॥ 1-34-7 किरीटी इन्द्रः ॥ 1-34-13 उपधिकृतं छलकृतम् ॥ 1-34-14 ईशः समर्थः । अर्थितां अन्यस्मै अमृतं न देयमित्यर्थेप्सुताम् ॥ 1-34-17 अनुभाष्य हे गरुडेति संबोध्य ॥ 1-34-20 इदं वः युष्माकममृतं न तु मम ॥ 1-34-26 प्रतिमायाकृतं यथा दास्यं मायाकृतं तथा अमृतदानमपि इतरेण कृतमित्यर्थः ॥ चतुस्त्रिंशोऽध्यायः ॥ 34 ॥

अध्यायः 035

सर्पनामकथनम् ॥ 1 ॥

शौनक उवाच ।
भुजङ्गमानां शापस्य मात्रा चैव सुतेन च ।
विनतायास्त्वया प्रोक्तं कारणं सूतनन्दन ॥
वरप्रदानं भर्त्रा च कद्रूविनतयोस्तथा ।
नामनी चैव ते प्रोक्ते पक्षिणोर्वैनतेययोः ॥
पन्नगानां तु नामानि न कीतर्यसि सूतज ।
प्राधान्येनापि नामानि श्रोतुमिच्छामहे वयम् ॥
सौतिरुवाच ।
बहुत्वान्नामधेयानि पन्नगानां तपोधन ।
न कीर्तयिष्ये सर्वेषां प्राधान्येन तु मे शृणु ॥
शेषः प्रथमतो जातो वासुकिस्तदनन्तरम् ।
ऐरावतस्तक्षकश्च कर्कोटकधनञ्जयौ ॥
कालियो मणिनागश्च नागश्चापूरणस्तथा ।
नागस्तथा पिञ्जरक एलापत्रोऽथ वामनः ॥
नीलानीलौ तथा नागौ कल्माषशबलौ तथा ।
आर्यकश्चोग्रकश्चैव नागः कलशपोतकः ॥
सुमनाख्यो दधिमुखस्तथा विमलपिण्डकः ।
आप्तः कोटरकश्चैव शङ्खो वालिशिखस्तथा ॥
निष्टानको हेमगुहो नहुषः पिङ्गलस्तथा ।
बाह्यकर्णो हस्तिपदस्तथा मुद्गरपिण्डकः ॥
कम्बलाश्वतरौ चापि नागः कालीयकस्तथा ।
वृत्तसंवर्तकौ नागौ द्वौ च पद्माविति श्रुतौ ॥
नागः शङ्खमुखश्चैव तथा कूष्माण्डकोऽपरः ।
क्षेमकश्च तथा नागो नागः पिण्डारकस्तथा ॥
करवीरः पुष्पदंष्ट्रो बिल्वको बिल्वपाण्डुरः ।
मूषकादः शङ्खशिराः पूर्णभद्रो हरिद्रकः ॥
अपराजितो ज्योतिकश्च पन्नगः श्रीवहस्तथा ।
कौरव्यो धृतराष्ट्रश्च शङ्खपिण्डश्च वीर्यवान् ॥
विरजाश्च सुबाहुश्च शालिपिण्डश्च वीर्यवान् ।
हस्तिपिण्डः पिठरकः सुमुखः कौणपाशनः ॥
कुठऱः कुञ्जरश्चैव तथा नागः प्रभाकरः ।
कुमुदः कुमुदाक्षश्च तित्तिरिर्हलिकस्तथा ॥
कर्दमश्च महानागो नागश्च बहुमूलकः ।
कर्कराकर्करौ नागौ कुण्डोदरमहोदरौ ॥
एते प्राधान्यतो नागाः कीर्तिता द्विजसत्तम ।
बहुत्वान्नामधेयानामितरे नानुकीर्तिताः ॥
एतेषां प्रसवो यश्च प्रसवस्य च संततिः ।
असङ्ख्येयेति मत्त्वा तान्न ब्रवीमि तपोधन ॥
बहूनीह सहस्राणि प्रयुतान्यर्बुदानि च ।
अशक्यान्येव सङ्ख्यातुं पन्नगानां तपोधन ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि पञ्चत्रिंशोऽध्यायः ॥ 35 ॥

1-35-1 भुजङ्गमानां मात्रा शापो दत्तस्तस्य कारणं अवज्ञया मातुराज्ञाकारित्वं । विनतायाः सुतेन अरुणेन शापो दत्तस्तस्य कारणं सपत्नीर्ष्या ॥ पञ्चत्रिंशोऽध्यायः ॥ 35 ॥

अध्यायः 036

शेषस्य ब्रह्मणो वरलाभः पृथ्वीधारणाज्ञा च ॥ 1 ॥

शौन उवाच ।
आख्याता भुजगास्तात वीर्यवन्तो दुरासदाः ।
शापं तं तेऽभिविज्ञाय कृतवन्तः किमुत्तरम् ॥
सौतिरुवाच ।
तेषां तु भगवाञ्छेषः कद्रूं त्यक्त्वा महायशाः ।
उग्रं तपः समातस्थे वायुभक्षो यतव्रतः ॥
गन्धमादनमासाद्य बदर्यां च तपोरतः ।
गोकर्णे पुष्करारण्ये तथा हिमवतस्तटे ॥
तेषु तेषु च पुण्येषु तीर्थेष्वायतनेषु च ।
एकान्तशीलो नियतः सततं विजितेन्द्रियः ॥
तप्यमानं तपो घोरं तं ददर्श पितामहः ।
संशुष्कमांसत्वक्स्नायुं जटाचीरधरं मुनिम् ॥
तमब्रवीत्सत्यधृतिं तप्यमानं पितामहः ।
किमिदं कुरुषे शेष प्रजानां स्वस्ति वै कुरु ॥
त्वं हि तीव्रेण तपसा प्रजास्तापयसेऽनघ ।
ब्रूहि कामं च मे शेष यस्ते हृदि व्यवस्थितः ॥
शेष उवाच ।
सोदर्या मम सर्वे हि भ्रातरो मन्दचेतसः ।
सह तैर्नोत्सहे वस्तुं तद्भवाननुमन्यताम् ॥
अभ्यसूयन्ति सततं परस्परममित्रवत् ।
ततोऽहं तप आतिष्ठे नैतन्पश्येयमित्युत ॥
न मर्षयन्ति ससुतां सततं विनतां च ते ।
अस्माकं चापरो भ्राता वैनतेयोऽन्तरिक्षगः ॥
तं च द्विषन्ति सततं स चापि बलवत्तरः ।
वरप्रदानात्स पितुः कश्यपस्य महात्मनः ॥
सोऽहं तपः समास्थाय मोक्ष्यामीदं कलेवरम् ।
कथं मे प्रेत्यभावेऽपि न तैः स्यात्सह सङ्गमः ॥
तमेवं वादिनं शेषं पितामह उवाच ह ।
जानामि शेष सर्वेषां भ्रातॄणां ते विचेष्टितम् ॥
मातुश्चाप्यपराधाद्वै भ्रातॄणां ते महद्भयम् ।
कृतोऽत्र परिहारश्च पूर्वमेव भुजङ्गम ॥
भ्रातॄणां तव सर्वेषां न शोकं कर्तुमर्हसि ।
वृणीष्व च वरं मत्तः शेष यत्तेऽभिकाङ्क्षितम् ॥
दास्यामि हि वरं तेऽद्य प्रीतिर्मे परमा त्वयि । दिष्ट्या बुद्धिश्च ते धर्मे निविष्टा पन्नगोत्तम ।
भूयो भूयश्च ते बुद्धिर्धर्मे भवतु सुस्थिरा ॥
शेष उवाच ।
एष एव वरो देव काङ्क्षितो मे पितामह ।
धर्मे मे रमतां बुद्धिः शमे तपसि चेश्वर ॥
ब्रह्मोवाच ।
प्रीतोऽस्म्यनेन ते शेष दमेन च शमेन च ।
त्वया त्विदं वचः कार्यं मन्नियोगात्प्रजाहितम् ॥
इमां महीं शैलवनोपपन्नां ससागरग्रामविहारपत्तनाम्
त्वं शेष सम्यक् चलितां यथाव- त्संगृह्य तिष्ठस्व यथाऽचला स्यात् ॥
शेष उवाच ।
यथाऽऽह देवो वरदः प्रजापति- र्महीपतिर्भूतपतिर्जगत्पतिः ।
तथा महीं धारयिताऽस्मि निश्चलां प्रयच्छतां मे विवरं प्रजापते ॥
ब्रह्मोवाच ।
अधो महीं गच्छ भुजङ्गमोत्तम स्वयं तवैषा विवरं प्रदास्यति ।
इमां धरां धारयता त्वया हि मे महत्प्रियं शेष कृतं भविष्यति ॥
सौतिरुवाच ।
तथैव कृत्वा विवरं प्रविश्य स प्रभुर्भुवो भुजगवराग्रजः स्थितः ।
बिभर्ति देवीं शिरसा महीमिमां समुद्रनेमिं परिगृह्य सर्वतः ॥
ब्रह्मोवाच ।
शेषोऽसि नागोत्तम धर्मदेवो महीमिमां धारयसे यदेकः ।
अनन्तभोगैः परिगृह्य सर्वां यथाहमेवं बलभिद्यथा वा ॥
सौतिरुवाच ।
अधो भूमौ वसत्येवं नागोऽनन्तः प्रतापवान् ।
धास्यन्वसुधामेकः शासनाद्ब्रह्मणो विभोः ॥
सुपर्णं च सहायं वै भगवानमरोत्तमः ।
प्रादादनन्ताय तदा वैनतेयं पितामहः ॥
`अनन्तेऽभिप्रयाते तु वासुकिः स महाबलः । अभ्यषिच्यत नागैस्तु दैवतैरिव वासवः ॥' ॥

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि षट्त्रिंशोऽध्यायः ॥ 37 ॥

1-36-1 उत्तरं अनन्तरम् ॥ 1-36-23 अनन्तभोगैः अनन्तफणाभिः ॥ षट्त्रिंशोऽध्यायः ॥ 36 ॥

अध्यायः 037

मातृशापपरिहारार्थं सर्पाणां मन्त्रालोचनम् ॥ 1 ॥

सौतिरुवाच ।
मातुः सकाशात्तं शापं श्रुत्वा वै पन्नगोत्तमः ।
वासुकिश्चिन्तयामास शापोऽयं न भवेत्कथम् ॥
ततः स मन्त्रयामास भ्रातृभिः सह सर्वशः ।
ऐरावतप्रभृतिभिः सर्वैर्धर्मपरायणैः ॥
वासुकिरुवाच ।
अयं शापो यथोद्दिष्टो विदितं वस्तथाऽनघाः ।
तस्य शापस्य मोक्षार्थं मन्त्रयित्वा यतामहे ॥
सर्वेषामेव शापानां प्रतिघातो हि विद्यते ।
न तु मात्राऽभिशप्तानां मोक्षः क्वचन विद्यते ॥
अव्ययस्याप्रमेयस्य सत्यस्य च तथाग्रतः ।
शप्ता इत्येव मे श्रुत्वा जायते हृदि वेपथुः ॥
नूनं सर्वविनाशोऽयमस्माकं समुपागतः । `शापः सृष्टो महाघोरो मात्रा खल्वविनीतया ।
न ह्येतां सोऽव्ययो देवः शपत्नीं प्रत्यषेधयत् ॥
तस्मात्संमन्त्रयामोऽद्य भुजङ्गानामनामयम् ।
यथा भवेद्धि सर्वेषां मा नः कालोऽत्यगादयम् ॥
सर्व एव हि नस्तावद्बुद्धिमन्तो विचक्षणाः ।
अपि मन्त्रयमाणा हि हेतुं पश्याम मोक्षणे ॥
यथा नष्टं पुरा देवा गूढमग्निं गुहागतम् । यथा स यज्ञो न भवेद्यथा वाऽपि पराभवः ।
जनमेजयस्य सर्पाणां विनाशकरणाय वै ॥
सौतिरुवाच ।
तथेत्युक्त्वा ततः सर्वे काद्रवेयाः समागताः ।
समयं चकिरे तत्र मन्त्रबुद्धिविशारदाः ॥
एके तत्राब्रुवन्नागा वयं भूत्वा द्विजर्षभाः ।
जनमेजयं तु भिक्षामो यज्ञस्ते न भवेदिति ॥
अपरे त्वब्रुवन्नागास्तत्र पण्डितमानिनः ।
मन्त्रिणोऽस्य वयं सर्वे भविष्यामः सुसंमताः ॥
स नः प्रक्ष्यति सर्वेषु कार्येष्वर्थविनिश्चयम् ।
तत्र बुद्धिं प्रदास्यामो यथा यज्ञो निवर्त्स्यति ॥
स नो बहुमतान्राजा बुद्ध्या बुद्धिमतां वरः ।
यज्ञार्थं प्रक्ष्यति व्यक्तं नेति वक्ष्यामहे वयम् ॥
दर्शयन्तो बहून्दोषान्प्रेत्य चेह च दारुणान् ।
हेतुभिः कारणैश्चैव यथा यज्ञो भवेन्न सः ॥
अथवा य उपाध्यायः क्रतोस्तस्य भविष्यति ।
सर्पसत्रविधानज्ञो राजकार्यहिते रतः ॥
तं गत्वा दशतां कश्चिद्भुजङ्गः स मरिष्यति ।
तस्मिन्मृते यज्ञकारे क्रतुः स न भविष्यति ॥
ये चान्ये सर्पसत्रज्ञा भविष्यन्त्यस्य चर्त्विजः ।
तांश्च सर्वान्दशिष्यामः कृतमेवं भविष्यति ॥
अपरे त्वब्रुवन्नागा धर्मात्मानो दयालवः ।
अबुद्धिरेषा भवतां ब्रह्महत्या न शोभनम् ॥
सम्यक्सद्धर्ममूला वै व्यसने शान्तिरुत्तमा ।
अधर्मोत्तरता नाम कृत्स्नं व्यापादयेज्जगत् ॥
अपरे त्वब्रुवन्नागाः समिद्धं जातवेदसम् ।
वर्षैर्निर्वापयिष्यामो मेघा भूत्वा सविद्युतः ॥
स्रुग्भाण्डं निशि गत्वा च अपरे भुजगोत्तमाः ।
प्रमत्तानां हरन्त्वाशु विघ्न एवं भविष्यति ॥
यज्ञे वा भुजगास्तस्मिञ्शतशोऽथ सहस्रशः ।
जनान्दशन्तु वै सर्वे नैवं त्रासो भविष्यति ॥
अथवा संस्कृतं भोज्यं दूषयन्तु भुजङ्गमाः ।
स्वेन मूत्रपुरीषेण सर्वभोज्यविनाशिना ॥
अपरे त्वब्रुवंस्तत्र ऋत्विजोऽस्य भवामहे ।
यज्ञविघ्नं करिष्यामो दक्षिणा दीयतामिति ॥
वश्यतां च गतोऽसौ नः करिष्यति यथेप्सितम् ।
अपरे त्वब्रुवंस्तत्र जले प्रक्रीडितं नृपम् ॥
गृहमानीय बध्नीमः क्रतुरेवं भवेन्न सः ।
अपरे त्वब्रुवंस्तत्र नागाः पण्डितमानिनः ॥
दशामस्तं प्रगृह्याशु कृतपेवं भविष्यति ।
छिन्नं मूलमनर्थानां मृते तस्मिन्भविष्यति ॥
एषा नो नैष्ठिकी बुद्धिः सर्वेषामीक्षणश्रवः ।
अथ यन्मन्यसे राजन्द्रुतं तत्संविधीयताम् ॥
इत्युक्त्वा समुदैक्षन्त वासुकिं पन्नगोत्तमम् ।
वासुकिश्चापि संचिन्त्य तानुवाच भुजङ्गमान् ॥
नैषा वो नैष्ठिकी बुद्धिर्मता कर्तुं भुजङ्गमाः ।
सर्वेषामेव मे बुद्धिः पन्नगानां न रोचते ॥
किं तत्र संविधातव्यं भवतां स्याद्धितं तु यत् ।
श्रेयः प्रसादनं मन्ये कश्यपश्य महात्मनः ॥
ज्ञातिवर्गस्य सौहार्दादात्मनश्च भुजङ्गमाः ।
न च जानाति मे बुद्धिः किंचित्कर्तुं वचो हिवः ॥
मया हीदं विधातव्यं भवतां यद्धितं भवेत् ।
अनेनाहं भृशं तप्ये गुणदोषौ मदाश्रयौ ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि सप्तत्रिंशोऽध्यायः ॥ 37 ॥

1-37-5 सत्यस्य सत्यलोकाधिपतेर्ब्रह्मणः ॥ 1-37-10 मन्त्रबुद्धिविशारदाः नीतिनिश्चयनिपुणाः ॥ 1-37-13 निवर्त्स्यति निवृत्तो भविष्यति ॥ 1-37-18 कृतं प्रतिकृतम् ॥ 1-37-20 व्यसने आपदि शान्तिः आपन्नाशः । सद्धर्ममूला सतां धर्मो देवब्राह्मणप्रार्थना तन्मूला ॥ 1-37-29 नैष्ठिकी आत्यन्तिकी । ईक्षणमेव श्रवः श्रोत्रं यस्य स तथाभूत हे वासुके ॥ 1-37-31 ज्ञातिरक्षानाशनिमित्तौ गुणदोषौ मदाश्रयौ ज्येष्ठत्वान्ममेत्यर्थः ॥ सप्तत्रिंशोऽध्यायः ॥ 37 ॥

अध्यायः 038

एलापत्रभाषणम् ॥ 1 ॥ देवब्रह्मसंवादमुखेनास्तीकोत्पत्तिकथनम् ॥ 2 ॥

सौतिरुवाच ।
सर्पाणां तु वचः श्रुत्वा सर्वेषामिति चेति च ।
वासुकेश्च वचः श्रुत्वा एलापत्रोऽब्रवीदिदम् ॥
`प्रागेव दर्शिता बुद्धिर्मयैषा भुजगोत्तमाः ।
हेयेति यदि वो बुद्धिस्तवापि च तथा प्रभो ॥
अस्तु कामं मभाद्यापि बुद्धिः स्मरणमागता । तां शृणुध्वं प्रवक्ष्यामि याथातथ्येन पन्नगाः ॥'
न स यज्ञो न भविता न स राजा तथाविधः ।
जनमेजयः पाण्डवेयो यतोऽस्माकं महद्भयम् ॥
दैवेनोपहतो राजन्यो भवेदिह पूरुषः ।
स दैवमेवाश्रयेत नान्यत्तत्र परायणम् ॥
तदिदं चैवमस्माकं भयं पन्नगसत्तमाः ।
दैवमेवाश्रयामोऽत्र शृणुध्वं च वचो मम ॥
अहं शापे समुत्सृष्टे समश्रौषं वचस्तदा । मातुरुत्सङ्गमारूढो भयात्पन्नगसत्तमाः ।
देवानां पन्नगश्रेष्ठास्तीक्ष्णास्तीक्ष्ण इति प्रभो ॥
`शापदुःखाग्नितप्तानां पन्नगानामनामयम् । कृपया परयाऽऽविष्टाः प्रार्थयन्तो दिवौकसः ॥'
देवा ऊचुः ।
का हि लब्ध्वा प्रियान्पुत्राञ्शपेदेवं पितामह ।
ऋते कद्रूं तीक्ष्णरूपां देवदेव तवाग्रतः ॥
तथेति च वचस्तस्यास्त्वयाप्युक्तं पितामह ।
इच्छाम एतद्विज्ञातुं कारणं यन्न वारिता ॥
ब्रह्मोवाच ।
बहवः पन्नगास्तीक्ष्णा घोररूपा विषोल्बणाः ।
प्रजानां हितकामोऽहं न च वारितवांस्तदा ॥
ये दन्दशूकाः क्षुद्राश्च पापाचारा विषोल्बणाः ।
तेषां विनाशो भविता न तु ये धर्मचारिणः ॥
यन्निमित्तं च भविता मोक्षस्तेषां महाभयात् ।
पन्नगानां निबोधध्वं तस्मिन्काले समागते ॥
यायावरकुले धीमान्भविष्यति महानृषिः ।
जरत्कारुरिति ख्यातस्तपस्वी नियतेन्द्रियः ॥
तस्य पुत्रो जरत्कारोर्भविष्यति तपोधनः । आस्तीको नाम यज्ञं स प्रतिषेत्स्यति तं तदा ।
तत्र मोक्ष्यन्ति भुजगा ये भविष्यन्ति धार्मिकाः ॥
देवा ऊचुः ।
स मुनिप्रवरो ब्रह्मञ्जरत्कारुर्महातपाः ।
कस्यां पुत्रं महात्मानं जनयिष्यति वीर्यवान् ॥
ब्रह्मोवाच ।
`वासुकेर्भगिनी कन्या समुत्पन्ना सुशोभना ।
तस्मै दास्यति तां कन्यां वासुकिर्भुजगोत्तमः ॥
तस्यां जनयिता पुत्रं वेदवेदाङ्गपारगम् ।' सनामायां सनामा स कन्यायां द्विजसत्तमः ॥
एलापत्र उवाच ।
एवमस्त्विति तं देवाः पितामहमथाब्रुवन् ।
उत्क्वैवं वचनं देवान्विरिञ्चिस्त्रिदिवं ययौ ॥
सोऽहमेवं प्रपश्यामि वासुके भगिनी तव ।
जरत्कारुरिति ख्याता तां तस्मै प्रतिपादय ॥
भैक्षवद्भिक्षमाणाय नागानां भयशान्तये ।
ऋषये सुव्रतायैनामेष मोक्षः श्रुतो मया ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि अष्टत्रिंशोऽध्यायः ॥ 38 ॥

1-38-1 इतिचेतिचेति तत्तद्वचनाभिनयप्रदर्शनम् ॥ 1-38-4 न भवितेति न भवितैवेत्यर्थः । न तथाविधः यस्य राष्ट्रमृत्विजः स्वरूप वा द्रष्टुं शक्यं तादृशो न भवति मन्त्रवीर्यसंपन्नत्वात् ॥ 1-38-7 तीक्ष्णास्तीक्ष्णाः अत्यन्तं तीक्ष्णाः स्त्रिय इति शेषः ॥ 1-38-12 दन्दशूकाः दंशनशीलाः । क्षुद्राः अल्पेपि निमित्ते प्राणग्राहकाः ॥ अष्टत्रिंशोऽध्यायः ॥ 38 ॥

अध्यायः 039

एलापत्रोपदेशेन वासुकिभगिन्या जरत्कार्वा रक्षणम् ॥ 1 ॥

सौतिरुवाच ।
एलापत्रवचः श्रुत्वा ते नागा द्विजसत्तम ।
सर्वे प्रहृष्टमनसः साधुसाध्वित्यपूजयन् ॥
ततःप्रभृति तां कन्यां वासुकिः पर्यरक्षत ।
जरत्कारुं स्वसारं वै परं हर्षमवाप च ॥
ततो नातिमहान्कालः समतीत इवाभवत् ।
अथ देवासुराः `सर्वे ममन्थुर्वरुणालयम् ॥
तत्र नेत्रमभून्नागो वासुकिर्बलिनां वरः ।
समाप्यैव च तत्कर्म पितामहमुपागमन् ॥
देवा वासुकिना सार्धं पितामहमथाव्रुवन् ।
भगवञ्शापभीतोऽयं वासुकिस्तप्यते भृशम् ॥
अस्यैतन्मानसं शल्यं समुद्धर्तुं त्वमर्हसि ।
जनन्याः शापजं देव ज्ञातीनां हितमिच्छतः ॥
हितो ह्ययं सदास्मकं प्रियकारी च नागराट् ।
प्रसादं कुरु देवेश शमयास्य मनोज्वरम् ॥
ब्रह्मोवाच ।
मयैव तद्वितीर्णं वै वचनं मनसाऽमराः ।
एलापत्रेण नागेन यदस्याभिहितं पुरा ॥
तत्करोत्वेष नागेन्द्रः प्राप्तकालं वचः स्वयम् ।
विनशिष्यन्ति ये पापा न तु ये धर्मचारिणः ॥
उत्पन्नः स जरत्कारुस्तपस्युग्रे रतो द्विजः ।
तस्यैष भगिनीं काले जरत्कारुं प्रयच्छतु ॥
एलापत्रेण यत्प्रोक्तं वचनं भुजगेन ह ।
पन्नगानां हितं देवास्तत्तथा न तदन्यथा ॥
सौतिरुवाच ।
एतच्छ्रुत्वा तु नागेन्द्रः पितामहवचस्तदा ।
संदिश्य पन्नगान्सर्वान्वासुकिः शापमोहितः ॥
स्वसारमुद्यम्य तदा जरत्कारुमृषिं प्रति ।
सर्पान्बहूञ्जरत्कारौ नित्ययुक्तान्समादधत् ॥
जरत्कारुर्यदा भार्यामिच्छेद्वरयितुं प्रभुः ।
शीघ्रमेत्य तदाऽऽख्येयं तन्नः श्रेयो भविष्यति ॥ ॥

इति श्रीमनमहाभारते आदिपर्वणि आस्तीकपर्वणि एकोनचत्वारिंशोऽध्यायः ॥ 39 ॥

1-39-4 नेत्रं रज्जुः ॥ 1-39-13 जरत्कारौ जरत्कारुऋषिनिमित्तं । तदन्वेषणायेत्यर्थः ॥ एकोनचत्वारिंशोऽध्यायः ॥ 39 ॥

अध्यायः 040

जरत्कारुनामव्युत्पत्तिकथनम् ॥ 1 ॥ शौनकस्य सौतिं प्रति आस्तीकोत्पत्तिप्रश्नः ॥ 2 ॥ प्रसङ्गेन परीक्षिन्मृगयाकथनम् ॥ 3 ॥ परीक्षिता शमीकस्कन्धे मृतसर्पनिधानम् ॥ 4 ॥

शौनक उवाच ।
जरत्कारुरिति ख्यातो यस्त्वया सूतनन्दन ।
इच्छामि तदहं श्रोतुं ऋषेस्तस्य महात्मनः ॥
किं कारणं जरत्कारोर्नामैतत्प्रथितं भुवि ।
जरत्कारुनिरुक्तिं त्वं यथावद्वक्तुमर्हसि ॥
सौतिरुवाच ।
जरेति क्षयमाहुर्वै दारुणं कारुसंज्ञितम् ।
शरीरं कारु तस्यासीत्तत्स धीमाञ्शनैःशनैः ॥
क्षपयामास तीव्रेण तपसेत्यत उच्यते ।
जरत्कारुरिति ब्रह्मन्वासुकेर्भगिनी तथा ॥
एवमुक्तस्तु धर्मात्मा शौनकः प्राहसत्तदा ।
उग्रश्रवसमामन्त्र्य उपपन्नमिति ब्रुवन् ॥
शौनक उवाच ।
उक्तं नाम यथा पूर्वं सर्वं तच्छ्रुतवानहम् । यथा तु जातो ह्यास्तीक एतदिच्छामि वेदितुम् ।
तच्छ्रुत्वा वचनं तस्य सौतिः प्रोवाच शास्त्रतः ॥
सौतिरुवाच ।
संदिश्य पन्नगान्सर्वान्वासुकिः सुसमाहितः ।
स्वसारमुद्यम्य तदा जरत्कारुमृषिं प्रति ॥
अथ कालस्य महतः स मुनिः संशितव्रतः ।
तपस्यभिरतो धीमान्स दारान्नाभ्यकाङ्क्षत ॥
स तूर्ध्वरेतास्तपसि प्रसक्तः स्वाध्यायवान्वीतभयः कृतात्मा ।
चचार सर्वां पृथिवीं महात्मा न चापि दारान्मनसाध्यकाङ्क्षत् ॥
ततोऽपरस्मिन्संप्राप्ते काले कस्मिंश्चिदेव तु ।
परिक्षिन्नाम राजासीद्ब्रह्मन्कौरववंशजः ॥
यथा पाण्डुर्महाबाहुर्धनुर्धरवरो युधि ।
बभूव मृगयाशीलः पुरास्य प्रपितामहः ॥
`तथा विख्यातवाँल्लोके परीक्षिदभिमन्युजः ।' मृगान्विध्यन्वराहांश्च तरक्षून्महिषांस्तथा ।
अन्यांश्च विविधान्वन्यांश्चचार पृथिवीपतिः ॥
स कदाचिन्मृगं विद्ध्वा बाणेनानतपर्वणा ।
पृष्ठतो धनुरादाय ससार गहने वने ॥
यथैव भगवान्रुद्रो विद्ध्वा यज्ञमृगं दिवि ।
अन्वगच्छद्धनुष्पाणिः पर्यन्वेष्टुमितस्ततः ॥
न हि तेन मृगो विद्धो जीवन्गच्छति वै वने ।
पूर्वरूपं तु तत्तूर्णं तस्यासीत्स्वर्गतिं प्रति ॥
परिक्षितो नरेन्द्रस्य विद्धो यन्नष्टवान्मृगः ।
दूरं चापहृतस्तेन मृगेण स महीपतिः ॥
परिश्रान्तः पिपासार्त आससाद मुनिं वने ।
गवां प्रचारेष्वासीनं वत्सानां मुखनिःसृतम् ॥
भूयिष्ठमुपयुञ्जानं फेनमापिबतां पयः ।
तमभिद्रुत्य वेगेन स राजा संशितव्रतम् ॥
अपृच्छद्धनुरुद्यम्य तं मुनिं क्षुच्छ्रमान्वितः ।
भोभो ब्रह्मन्नहं राजा परीक्षिदभिमन्युजः ॥
मया विद्धो मृगो नष्टः कच्चित्तं दृष्टवानसि ।
स मुनिस्तं तु नोवाच किंचिन्मौनव्रते स्थितः ॥
तस्य स्कन्धे मृतं सर्पं क्रुद्धो राजा समासजत् ।
समुत्क्षिप्य धनुष्कोट्या स चैनं समुपैक्षत ॥
न स किंचिदुवाचैनं शुभं वा यदि वाऽशुभम् । स राजा क्रोधमुत्सृज्य व्यथितस्तं तथागतम् ।
दृष्ट्वा जगाम नगरमृषिस्त्वासीत्तथैव सः ॥
न हि तं राजशार्दूलं क्षमाशीलो महामुनिः ।
स्वधर्मनिरतं भूपं समाक्षिप्तोऽप्यधर्षयत् ॥
न हि तं राजशार्दूलस्तथा धर्मपरायणम् ।
जानाति भरतश्रेष्ठस्तत एनमधर्षयत् ॥
तरुणस्तस्य पुत्रोऽभूत्तिग्मतेजा महातपाः ।
शृङ्गी नाम महाक्रोधो दुष्पसादोमहाव्रतः ॥
स देवं परमासीनं सर्वभूतहिते रतम् ।
ब्रह्माणमुपतस्थे वै काले काले सुंसयतः ॥
सतेन समनुज्ञातो ब्रह्मणा गृहमेयिवान् ।
सख्योक्तः क्रीडमानेन स तत्र हसता किल ॥
संरम्भात्कोपनोऽतीव विषकल्पो मुनेः सुतः । उद्दिश्य पितरं तस्य यच्छ्रुत्वा रोषमाहरत् ।
ऋषिपुत्रेण नर्मार्थे कृशेन द्विजसत्तम ॥
कृश उवाच ।
तेजस्विनस्तव पिता तथैव च तपस्विनः ।
शवं स्कन्धेन वहति मा शृङ्गिन्गर्वितो भव ॥
व्याहरत्स्वृषिपुत्रेषु मा स्म किंचिद्वचो वद ।
अस्मद्विधेषु सिद्धेषु ब्रह्मवित्सु तपस्विषु ॥
क्व ते पुरुषमानित्वं क्व ते वाचस्तथाविधाः ।
दर्पजाः पितरं द्रष्टा यस्त्वं शवधरं तथा ॥
पित्रा च तव तत्कर्म नानुरूपमिवात्मनः ।
कृतं मुनिजनश्रेष्ठ येनाहं भृशदुःखितः ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि चत्वारिंशोऽध्यायः ॥ 40 ॥

1-40-3 कारु कामाद्युपद्रवमूलत्वाद्दारुणं शरीरं जरयति क्षपयतीति जरत्कारुरिति निर्वचनम् ॥ 1-40-4 तथा तादृस्येव ॥ 1-40-5 प्राहसत् अतिजीर्णयोरपि ब्रह्मचर्यविनाशः प्रसक्त इत्याश्चर्यं मत्वेति भावः । आमन्त्र्य हेउग्रश्रव इति संबोध्य । उपपन्नं युक्तं यत्तुल्यवयोरूपयोर्विवाह इति भावः ॥ 1-40-15 तत् मृगस्यादर्शनं । पूर्वरूपं कारणम् ॥ 1-40-17 प्रचारेषु गोष्ठेषु ॥ 1-40-18 उपयुञ्जानं भक्षयन्तम् । पयः आपिबतां वत्सानामिति पूर्वेणान्वयः ॥ 1-40-21 समासजत् आरोपयामास ॥ चत्वारिंशोऽध्यायः ॥ 40 ॥

अध्यायः 041

मुनिपुत्राच्छृङ्गिणः परीक्षितः शापः ॥ 1 ॥

सौतिरुवाच ।
एवमुक्तः स तेजस्वी शृङ्गी कोपसमन्वितः ।
मृतधारं गुरुं श्रुत्वा पर्यतप्यत मन्युना ॥
स त कृशमक्षिप्रेक्ष्य सूनृतां वाचमुत्सृजन् ।
अपृच्छत्तं कथं तातः `सर्वभूतहिते रतः ॥
अनन्यचेताः सततं विष्णुं दवेमतोषयत् । वन्यान्नभोजी सततं मुनिर्मौनव्रते स्थितः ।
एवंभूतः स तेजस्वी' स मेऽद्य मृतधारकः ॥
कृश उवाच ।
राज्ञा परिक्षिता तात मृगयां परिधावता ।
अवसक्तः पितुस्तेऽद्य मृतः स्कन्धे भुजङ्गमः ॥
शृङ्ग्युवाच ।
किं मे पित्रा कृतं तस्य राज्ञोऽनिष्टं दुरात्मनः ।
ब्रूहि तत्कृश तत्त्वेन पश्य मे तपसो बलम् ॥
कृश उवाच ।
स राजा मृगयां यातः परिक्षिदभिमन्युजः ।
ससार मृगमेकाकी विद्ध्वा बाणेन शीघ्रगम् ॥
न चापश्यन्मृगं राजा चरंस्तस्मिन्महावने ।
पितरं ते स दृष्ट्वैव पप्रच्छानभिभाषिणम् ॥
तं स्थाणुभूतं तिष्ठन्तं क्षुत्पिपासाश्रमातुरः ।
पुनःपुनर्मृगं नष्टं प्रपच्छ पितरं तव ॥
स च मौनव्रतोपेतो नैव तं प्रत्यभाषत ।
तस्य राजा धनुष्कोट्या सर्पं स्कन्धे समासजत् ॥
शृङ्गिंस्तव पिता सोऽपि तथैवास्ते यतव्रतः ।
सोऽपि राजा स्वनगरं प्रस्थितो गजसाह्वयम् ॥
सौतिरुवाच ।
श्रुत्वैवमृषिपुत्रस्तु शवं स्कन्धे प्रतिष्ठितम् ।
कोपसंरक्तनयनः प्रज्वलन्निव मन्युना ॥
आविष्टः स हि कोपेन शशाप नृपतिं तदा ।
वार्युपस्पृश्य तेजस्वी क्रोधवेगबलात्कृतः ॥
शृङ्ग्युवाच ।
योऽसौ वृद्धस्य तातस्य तथा कृच्छ्रगतस्य ह ।
स्कन्धे मृतं समास्राक्षीत्पन्नगं राजकिल्विषी ॥
तं पापमतिसंक्रुद्धस्तक्षकः पन्नगेश्वरः ।
आशीविषस्तिग्मतेजा मद्वाक्यबलचोदितः ॥
सप्तरात्रादितो नेता यमस्य सदनं प्रति ।
द्विजानामवमन्तारं कुरूणामयशस्करम् ॥
सौतिरुवाच ।
इति शप्त्वातिसंक्रुद्धः शृङ्गी पितरमभ्यगात् ।
आसीनं ग्रोव्रजे तस्मिन्वहन्तं शवपन्नगम् ॥
स तमलक्ष्य पितरं शृङ्गी स्कन्धगतेन वै ।
शवेन भुजगेनासीद्भूयः क्रोधसमाकुलः ॥
दुःखाच्चाश्रूणि मुमुचे पितरं चेदमब्रवीत् ।
श्रुत्वेमां धर्षणां तात तव तेन दुरात्मना ॥
राज्ञा परिक्षिता कोपादशपं तमहं नृपम् । यथार्हति स एवोग्रं शापं कुरुकुलाधमः ।
सप्तमेऽहनि तं पापं तक्षकः पन्नगोत्तमः ॥
वैवस्वतस्य सदनं नेता परमदारुणम् ।
सौतिरुवाच ।
तमब्रवीत्पिता ब्रह्मंस्तथा कोपसमन्वितम् ॥
शमीक उवाच ।
न मे प्रियं कृतं तात नैष धर्मस्तपस्विनाम् ।
वयं तस्य नरेन्द्रस्य विषये निवसामहे ॥
न्यायतो रक्षितास्तेन तस्य पापं न रोचये ।
सर्वथा वर्तमानस्य राज्ञो ह्यस्मद्विधैः सदा ॥
क्षन्तव्यं पुत्र धर्मो हि हतो हन्ति न संशयः ।
यदि राजा न संरक्षेत्पीडा नः परमा भवेत् ॥
न शक्नुयाम चरितुं धर्मं पुत्र यथासुखम् ।
रक्षमाणा वयं तात राजभिर्धर्मदृष्टिभिः ॥
चरामो विपुलं धर्मं तेषां भागोऽस्ति धर्मतः ।
सर्वथा वर्तमानस्य राज्ञः क्षन्तव्यमेव हि ॥
परिक्षित्तु विशेषेण यथाऽस्य प्रपितामहः ।
रक्षत्यस्मांस्तथा राज्ञा रक्षितव्याः प्रजा विभो ॥
अराजके जनपदे दोषा जायन्ति वै सदा ।
उद्वृत्तं सततं लोकं राजा दण्डेन शास्ति वै ॥
दण्डात्प्रतिभयं भूयः शान्तिरुत्पद्यते तदा ।
नोद्विग्नश्चरते धर्मं नोद्विग्नश्चरते क्रियाम् ॥
राज्ञा प्रतिष्ठितो धर्मो धर्मात्स्वर्गः प्रतिष्ठितः ।
राज्ञो यज्ञक्रियाः सर्वा यज्ञाद्देवाः प्रतिष्ठिताः ॥
देवाद्वृष्टिः प्रवर्तेत वृष्टेरोषधयः स्मृताः ।
ओषधिभ्यो मनुष्याणां धारयन्सततं हितम् ॥
मनुष्याणां च यो धाता राजा राज्यकरः पुनः ।
दशश्रोत्रियसमो राजा इत्येवं मनुरब्रवीत् ॥
तेनेह क्षुधितेनैत्य श्रान्तेन मृगलिप्सुना ।
अजानता कृतं मन्ये व्रतमेतदिदं मम ॥
कस्मादिदं त्वया बाल्यात्सहसा दुष्कृतं कृतम् ।
न ह्यर्हति नृपः शापमस्मत्तः पुत्र सर्वथा ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि एकचत्वारिंशोऽध्यायः ॥ 41 ॥

1-41-10 गजसाह्वयं हस्तिनपुरम् ॥ 1-41-13 कृच्छ्रगतस्य मौनव्रतधरस्य । राजा चासौ किल्बिषी च राजकिल्बिषी ॥ 1-41-21 विषये देशे ॥ 1-41-22 पापं द्रोहम् ॥ 1-41-27 दोषाः दस्युपीडादयः ॥ 1-41-30 मनुष्याणां हितं धारयन् कुर्वन् ॥ 1-41-31 धाता पोषकः ॥ 1-41-32 व्रतमजानतेति संबन्धः ॥ एकचत्वारिंशोऽध्यायः ॥ 41 ॥

अध्यायः 042

शृङ्गिशमीकसवादः ॥ 1 ॥ शमीकप्रेषितेन गौरमुखाख्यशिष्येण सह परिक्षित्संवादः ॥ 2 ॥ मन्त्रिभिः सह राज्ञं विचारः ॥ 3 ॥ तक्षककाश्यपसंवादः ॥ 4 ॥

शृङ्ग्युवाच ।
यद्येतत्साहसं तात यदि वा दुष्कृतं कृतम् ।
प्रियं वाप्यप्रियं वा ते वागुक्ता न मृषा भवेत् ॥
नैवान्यथेदं भविता पितरेष ब्रवीमि ते ।
नाहं मृषा ब्रवीम्येवं स्वैरेष्वपि कुतः शपन् ॥
शमीक उवाच ।
जानाम्युग्रप्रभावं त्वां तात सत्यगिरं तथा ।
नानृतं चोक्तपूर्वं ते नैतन्मिथ्या भविष्यति ॥
पित्रा पुत्रो वयस्थोऽपि सततं वाच्य एव तु ।
यथा स्याद्गुणसंयुक्तः प्राप्नुयाच्च महद्यशः ॥
किं पुनर्बाल एव त्वं तपसा भावितः सदा ।
वर्धते चेत्प्रभवतां कोपोऽतीव महात्मनाम् ॥
`उत्सीदेयुरिमे लोकाः क्षणा चास्य प्रतिक्रिया ।' सोऽहं पश्यामि वक्तव्यं त्वयि धर्मभृतां वर ।
पुत्रत्वं बालतां चैव तवावेक्ष्य च साहसम् ॥
स त्वं शमपरो भूत्वा वन्यमाहारमाचरन् ।
चर क्रोधमिमं हित्वा नैवं धर्मं प्रहास्यसि ॥
क्रोधो हि धर्मं हरति यतीनां दुःखसंचितम् ।
ततो धर्मविहीनानां गतिरिष्टा न विद्यते ॥
शम एव यतीनां हि क्षमिणां सिद्धिकारकः ।
क्षमावतामयं लोकः परश्चैव क्षमावताम् ॥
तस्माच्चरेथाः सततं क्षमाशीलो जितेन्द्रियः ।
क्षमया प्राप्स्यसे लोकान्ब्रह्मणः समनन्तरान् ॥
मया तु शममास्थाय यच्छक्यं कर्तुमद्य वै ।
तत्करिष्याम्यहं तात प्रेपयिष्ये नृपाय वै ॥
मम पुत्रेण शप्तोऽसि बालेनाकृतबुद्धिना ।
ममेमां धर्षणां त्वत्तः प्रेक्ष्य राजन्नमर्षिणा ॥
सौतिरुवाच ।
एवमादिश्य शिष्यं स प्रेषयामास सुव्रतः ।
परिक्षिते नृपतये दयापन्नो महातपाः ॥
संदिश्य कुशलप्रश्नं कार्यवृत्तान्तमेव च ।
शिष्यं गौरमुखं नाम शीलवन्तं समाहितम् ॥
सोऽभिगम्य ततः शीघ्रं नरेन्द्रं कुरुवर्धनम् ।
विवेश भवनं राज्ञः पूर्वं द्वास्थैर्निवेदितः ॥
पूजितस्तु नरेन्द्रेण द्विजो गौरमुखस्तदा ।
आचख्यौ च परिश्रान्तो राज्ञः सर्वमशेषतः ॥
शमीकवचनं घोरं यथोक्तं मन्त्रिसन्निधौ ।
शमीको नाम राजेन्द्र वर्तते विषये तव ॥
ऋषिः परमधर्मात्मा दान्तः शान्तो महातपाः ।
तस्य त्वया नरव्याघ्र सर्पः प्राणैर्वियोजितः ॥
अवसक्तो धनुष्कोट्या स्कन्धे मौनान्वितस्य च ।
क्षान्तवांस्तव तत्कर्म पुत्रस्तस्य न चक्षमे ॥
तेन शप्तोऽसि राजेन्द्र पितुरज्ञातमद्य वै ।
तक्षकः सप्तरात्रेण मृत्युस्तव भविष्यति ॥
तत्र रक्षां कुरुष्वेति पुनः पुनरथाब्रवीत् ।
तदन्यथा न शक्यं च कर्तुं केनचिदप्युत ॥
न हि शक्नोति संयन्तुं पुत्रं कोपसमन्वितम् ।
ततोऽहं प्रेषितस्तेन तव राजन्हितार्थिना ॥
सातिरुवाच ।
इति श्रुत्वा वचो घोरं स राजा कुरुनन्दनः ।
पर्यतप्यत तत्पापं कृत्वा राजा महातपाः ॥
तं च मौनव्रतं श्रुत्वा वने मुनिवरं तदा ।
भूय एवाभवद्राजा शोकसंतप्तमानसः ॥
अनुक्रोशात्मतां तस्य शमीकस्यावधार्य च ।
पर्यतप्यत भूयोपि कृत्वा तत्किल्बिषं मुनेः ॥
न हि मृत्युं तथा राजा श्रुत्वा वै सोऽन्वतप्यत ।
अशोचदमरप्रख्यो यथा कृत्वेह कर्म तत् ॥
ततस्तं प्रेषयामास राजा गौरमुखं तदा ।
भूयः प्रसादं भगवान्करोत्विह ममेति वै ॥
`श्रुत्वा तु वचनं राज्ञो मुनिर्गौरमुखस्तदा । समनुज्ञाप्य वेगेन प्रजगामाश्रमं गुरोः ॥'
तस्मिंश्च गतमात्रेऽथ राजा गौरमुखे तदा ।
मन्त्रिभिर्मन्त्रयामास सह संविग्नमानसः ॥
संमन्त्र्य मन्त्रिभिश्चैव स तथा मन्त्रतत्त्ववित् ।
प्रासादं कारयामास एकस्तम्भं सुरक्षितम् ॥
रक्षां च विदधे तत्र भिषजश्चौषधानि च ।
ब्राह्मणान्मन्त्रसिद्धांश्च सर्वतो वै न्ययोजयत् ॥
राजकार्याणि तत्रस्थः सर्वाण्येवाकरोच्च सः ।
मन्त्रिभिः सह धर्मज्ञः समन्तात्परिरक्षितः ॥
न चैनं कश्चिदारूढं लभते राजसत्तमम् ।
वातोऽपि निश्चरंस्तत्र प्रवेशे विनिवार्यते ॥
प्राप्ते च दिवसे तस्मिन्सप्तमे द्विजसत्तमः ।
काश्यपोऽभ्यागमद्विद्वांस्तं राजानं चिकित्सितुम् ॥
श्रुतं हि तेन तदभूद्यथा तं राजसत्तमम् ।
तक्षकः पन्नगश्रेष्ठो नेष्यते यमसादनम् ॥
तं दष्टं पन्नगेन्द्रेण करिष्येऽहमपज्वरम् ।
तत्र मेऽर्थश्च धर्मश्च भवितेति विचिन्तयन् ॥
तं ददर्श स नागेन्द्रस्तक्षकः काश्यपं पथि ।
गच्छन्तमेकमनसं द्विजो भूत्वा वयोऽतिगः ॥
तमब्रवीत्पन्नगेन्द्रः काश्यपं मुनिपुंगवम् ।
क्व भवांस्त्वरितो याति किंच कार्यं चिकीर्षति ॥
काश्यप उवाच ।
नृपं कुरुकुलोत्पन्नं परिक्षितमरिंदमम् ।
तक्षकः पन्नगश्रेष्ठस्तेजसाऽध्य प्रधक्ष्यति ॥
तं दष्टं पन्नगेन्द्रेण तेनाग्निसमतेजसम् । पाण्डवानां कुलकरं राजानममितौजसम् । 1-42-4oc गच्छामित्वरितं सौम्य सद्यः कर्तुमपज्वरम् ॥
`विज्ञातविषविद्योऽहं ब्राह्मणो लोकपूजितः । अस्मद्गुरुकटाक्षेण कल्योऽहं विषनाशने ॥'
तक्षक उवाच ।
अहं स तक्षको ब्रह्मंस्तं धक्ष्यामि महीपतिम् ।
निवर्तस्व न शक्तस्त्वं मया दष्टं चिकित्सितुम् ॥
काश्यप उवाच ।
अहं तं नृपतिं गत्वा त्वया दष्टमपज्वरम् ।
करिष्यामीति मे बुद्धिर्विद्याबलसमन्विता ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि द्विचत्वारिंशोऽध्यायः ॥ 42 ॥

1-42-2 स्वैरेष्वपि परिहासादिष्वपि ॥ 1-42-4 वयस्थोऽपि प्रौढोपि । वाच्यः शास्यः ॥ 1-42-5 प्रभवतां योगैश्वर्यवताम् ॥ 1-42-8 यतीनां आमुष्मिकहितार्थं यतमानानाम् ॥ 1-42-10 समनन्तरान् प्रत्यासन्नान् ॥ 1-42-11 संदेशहरमिति शेषः ॥ 1-42-19 न चक्षमे न क्षान्तवान् ॥ 1-42-23 पापं कृत्वैव पर्यतप्यत नतु मृत्युं श्रुत्वा ॥ 1-42-33 आरूढं प्रासादारूढम् ॥ 1-42-43 नृपतिं गत्वा नृपतिं नागेति पाठान्तरम् ॥ द्विचत्वारिंशोऽध्यायः ॥ 42 ॥

अध्यायः 043

स्वदष्टन्यग्रोधोज्जीवनेन परीक्षितस्य काश्यपस्य धनं दत्वा तक्षकेण कृतं परावर्तनं परीक्षिद्दंशश्च ॥ 1 ॥

तक्षक उवाच ।
यदि दष्टं मयेह त्वं शक्तः किंचिच्चिकित्सितुम् ।
ततो वृक्षं मया दष्टमिमं जीवय काश्यप ॥
परं मन्त्रबलं यत्ते तद्दर्शय यतस्व च ।
न्यग्रोधमेनं धक्ष्यामि पश्यतस्ते द्विजोत्तम ॥
काश्यप उवाच ।
दश नागेन्द्र वृक्षं त्वं यद्येतदभिमन्यसे । अहमेनं त्वया दष्टं जीवयिष्ये भुजंगम ।
`पश्य मन्त्रबलं मेऽद्य न्यग्रोधं दश पन्नग ॥'
सौतिरुवाच ।
एवमुक्तः स नागेन्द्रः काश्यपेन महात्मना ।
अदशद्वृक्षमभ्येत्य न्यग्रोधं पन्नगोत्तमः ॥
स वृक्षस्तेन दष्टस्तु पन्नगेन महात्मना ।
आशीविषविषोपेतः प्रजज्वाल समन्ततः ॥
तं दग्ध्वा स नगं नागः काश्यपं पुनरब्रवीत् ।
कुरु यत्नं द्विजश्रेष्ठ जीवयैव वनस्पतिम् ॥
सौतिरुवाच ।
भस्मीभूतं ततो वृक्षं पन्नगेन्द्रस्य तेजसा ।
भस्म सर्वं समाहृत्य काश्यपो वाक्यमब्रवीत् ॥
विद्याबलं पन्नगेन्द्र पश्य मेऽद्य वनस्पतौ ।
अहं संजीवयाम्येनं पश्यतस्ते भुजंगम ॥
ततः स भगवान्विद्वान्काश्यपो द्विजसत्तमः ।
भस्मराशीकृतं वृक्षं विद्यया समजीवयत् ॥
अङ्कुरं कृतवांस्तत्र ततः पर्णद्वयान्वितम् ।
पलाशिनं शाखिनं च तथा विटपिनं पुनः ॥
तं दृष्ट्वा जीवितं वृक्षं काश्यपेन महात्मना ।
उवाच तक्षको ब्रह्मन्नैतदत्यद्भुतं त्वयि ॥
द्विजेन्द्र यद्विषं हन्या मम वा मद्विधस्य वा ।
कं त्वमर्थमभिप्रेप्सुर्यासि तत्र तपोधन ॥
यत्तेऽभिलषितं प्राप्तं फलं तस्मान्नृपोत्तमात् ।
अहमेव प्रदास्यामि तत्ते यद्यपि दुर्लभम् ॥
विप्रशापाभिभूते च क्षीणायुषि नराधिपे ।
घटमानस्य ते विप्र सिद्धिः संशयिता भवेत् ॥
ततो यशः प्रदीप्तं ते त्रिषु लोकेषु विश्रुतम् ।
निरंशुरिव घर्मांशुरन्तर्धानमितो व्रजेत् ॥
काश्यप उवाच ।
धनार्थी याम्यहं तत्र तन्मे देहि भुजंगम ।
ततोऽहं विनिवर्तिष्ये स्वापतेयं प्रगृह्य वै ॥
तक्षक उवाच ।
यावद्धनं प्रार्थयसे तस्माद्राज्ञस्ततोऽधिकम् ।
अहमेव प्रदास्यामि निवर्तस्व द्विजोत्तम ॥
सौतिरुवाच ।
तक्षकस्य वचः श्रुत्वा काश्यपो द्विजसत्तमः ।
प्रदध्यौ सुमहातेजाराजानं प्रति बुद्धिमान् ॥
दिव्यज्ञानः स तेजस्वी ज्ञात्वा तं नृपतिं तदा ।
क्षीणायुषं पाण्डवेयमपावर्तत काश्यपः ॥
लब्ध्वा वित्तं मुनिवरस्तक्षकाद्यावदीप्सितम् ।
निवृत्ते काश्यपे तस्मिन्समयेन महात्मनि ॥
जगाम तक्षकस्तूर्णं नगरं नागसाह्वयम् ।
अथ शुश्राव गच्छन्स तक्षको जगतीपतिम् ॥
मन्त्रैर्विषहरैर्दिव्यै रक्ष्यमाणं प्रयत्नतः ।
सौतिरुवाच ।
स चिन्तयामास तदा मायायोगेन पार्थिवः ॥
मया वञ्चयितव्योऽसौ क उपायो भवेदिति ।
ततस्तापसरूपेण प्राहिणोत्स भुजंगमान् ॥
फलपत्रोदकं गृह्य राज्ञे नागोऽथ तक्षकः ।
तक्षक उवाच ।
गच्छध्वं यूयमव्यग्रा राजानं कार्यवत्तया ॥
फलपत्रोदकं नागाः प्रतिग्राहयितुं नृपम् ।
सौतिरुवाच ।
ते तक्षकसमादिष्टास्तथा चक्रुर्भुजङ्गमाः ॥
उपनिन्युस्तथा राज्ञे दर्भानम्भः फलानि च ।
तच्च सर्वं स राजेन्द्रः प्रतिजग्राह वीर्यवान् ॥
कृत्वा तेषां च कार्याणि गम्यतामित्युवाच तान् ।
गतेषु तेषु नागेषु तापसच्छद्मरूपिषु ॥
अमात्यान्सुहृदश्चैव प्रोवाच स नराधिपः ।
भक्षयन्तु भवन्तो वै स्वादूनीमानि सर्वशः ॥
तापसैरुपनीतानि फलानि सहिता मया ।
ततो राजा ससचिवः फलान्यादातुमैच्छत ॥
विधिना संप्रयुक्तो वै ऋषिवाक्येन तेन तु ।
यस्मिन्नेव फले नागस्तमेवाभक्षयत्स्वयम् ॥
ततो भक्षयतस्तस्य फलात्कृमिरभूदणुः ।
ह्रस्वकः कृष्णनयनस्ताम्रवर्णोऽथ शौनक ॥
स तं गृह्य नृपश्रेष्ठः सचिवानिदमब्रवीत् ।
अस्तमभ्येति सविता विषादद्य न मे भयम् ॥
सत्यवागस्तु स मुनिः कृमिर्मां दशतामयम् ।
तक्षको नाम भूत्वा वै तथा परिहृतं भवेत् ॥
ते चैनमन्ववर्तन्त मन्त्रिणः कालचोदिताः ।
एवमुक्त्वा स राजेन्द्रो ग्रीवायां सन्निवेश्यह ॥
कृमिकं प्राहसत्तूर्णं मुमूर्षुर्नष्टचेतनः ।
प्रहसन्नेव भोगेन तक्षकेणाभिवेष्टितः ॥
तस्मात्फलाद्विनिष्क्रम्य यत्तद्राज्ञे निवेदितम् । वेष्टयित्वा च भोगेन विनद्य च महास्वनम् ।
अदशत्पृथिवीपालं तक्षकः पन्नगेश्वरः ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि त्रिचत्वारिंशोऽध्यायः ॥ 43 ॥

1-43-3 दश दंशं कुरु ॥ 1-43-6 नग वृक्षम् ॥ 1-43-13 यत् फलं प्राप्तुमभिलषितं तत् इत्यन्वयः ॥ 1-43-14 घटमानस्य सज्जमानस्य ॥ 1-43-16 स्वापतेयं धनम् ॥ 1-43-22 तत्रागतैर्विषहरैरिति पाठान्तरम् ॥ 1-43-31 यज्जग्राह फलं राजा तत्र क्रिमिरभूदणुः इति पाठान्तरम् ॥ 1-43-33 क्रिमिको मां दशत्वयं इति पाठान्तरम् ॥ त्रिचत्वारिशोऽध्यायः ॥ 43 ॥

अध्यायः 044

परीक्षिन्मरणोत्तरं तत्पुत्रस्य जनमेजयस्य राज्याभिषेकः ॥ 1 ॥ वपुष्टमाविवाहः ॥ 2 ॥

सौतिरुवाच ।
तं तथा मन्त्रिणो दृष्ट्वा भोगेन परिवेष्टितम् ।
विषण्णवदनाः सर्वे रुरुदुर्भृशदुःखिताः ॥
तं तु नागं ततो दृष्ट्वा मन्त्रिणस्ते प्रदुद्रुवुः ।
अपश्यन्त तथा यान्तमाकाशे नागमद्भुतम् ॥
सीमन्तमिव कुर्वाणं नभसः पद्मवर्चसम् ।
तक्षकं पन्नगश्रेष्ठं भृशं शोकपरायणाः ॥
ततस्तु ते तद्गृहमग्निना वृतं प्रदीप्यमानं विषजेन भोगिनः ।
भयात्परित्यज्य दिशः प्रपेदिरे पपात तच्चाशनिताडितं यथा ॥
ततो नृपे तक्षकतेजसाहते प्रयुज्य सर्वाः परलोकसत्क्रियाः ।
शुचिर्दिजो राजपुरोहितस्तदा तथैव ते तस्य नृपस्य मन्त्रिणः ॥
नृपं शिशुं तस्य सुतं प्रचक्रिरे समेत्य सर्वे पुरवासिनो जनाः ।
नृपं यमाहुस्तममित्रघातिनं कुरुप्रवीरं जनमेजयं जनाः ॥
स बाल एवार्यमतिर्नृपोत्तमः सहैव तैर्मन्त्रिपुरोहितैस्तदा ।
शशास राज्यं कुरुपुंगवाग्रजो यथाऽस्य वीरः प्रपितामहस्तथा ॥
ततस्तु राजानममित्रतापनं समीक्ष्य ते तस्य नृपस्य मन्त्रिणः ।
सुवर्णवर्माणमुपेत्य काशिप वपुष्टमार्थं वरयांप्रचक्रमुः ॥
ततः स राजा प्रददौ वपुष्टमां कुरुप्रवीराय परीक्ष्य धर्मतः ।
स चापि तां प्राप्य मुदा युतोऽभव- न्न चान्यनारीषु मनो दधे क्वचित् ॥
सरःसु फुल्लेषु वनेषु चैव प्रसन्नचेता विजहार वीर्यवान् ।
तथा स राजन्यवरो विजह्रिवान् यथोर्वशीं प्राप्य पुरा पुरूरवाः ॥
वपुष्टमा चापि वरं पतिव्रता प्रतीतरूपा समवाप्य भूपतिम् ।
भावेन रामा रमयांबभूव तं विहारकालेष्ववरोधसुन्दरी ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि चतुश्चत्वारिंशोऽध्यायः ॥ 44 ॥

1-44-2 दह्यमानं ततो दृष्ट्वा इति पाठान्तरम् ॥ 1-44-7 प्रपितामहो युधिष्ठिरः ॥ 1-44-8 वपुष्टमा काशिराजकन्या ॥ 1-44-11 वरं वरणीयम् । प्रतीतरूपा हृष्टरूपा ॥ चतुश्चत्वारिंशोऽध्यायः ॥ 44 ॥

अध्यायः 045

जरत्कारोः स्वपितॄणां दर्शनं तद्भाषणं च ॥ 1 ॥

सौतिरुवाच ।
एतस्मिन्नेव काले तु जरत्कारुर्महातपाः ।
चचार पृथिवीं कृत्स्नां यत्रसायंगृहो मुनिः ॥
चरन्दीक्षां महातेजा दुश्चरामकृतात्मभिः ।
तीर्थेष्वाप्लवनं कुर्वन्पुण्येषु विचचार ह ॥
वायुभक्षो निराहारः शुष्यन्नहरहर्मुनिः ।
सं ददर्श पितॄन्गर्ते लम्बमानानधोमुखान् ॥
एकतन्त्ववशिष्टं वै वीरणस्तम्बमाश्रितान् ।
तं तन्तुं च शनैराखुमाददानं बिलेशयम् ॥
निराहारान्कृशान्दीनान्गर्ते स्वत्राणमिच्छतः ।
उपसृत्य स तान्दीनान्दीनरूपोऽभ्यभाषत ॥
के भवन्तोऽवलम्बन्ते वीरमस्तम्बमाश्रिताः ।
दुर्बलं खादितैर्मूलैराखुना बिलवासिना ॥
वीरणस्तम्बके मूलं यदप्येकमिह स्थितम् ।
तद्भप्ययं शनैराखुरादत्ते दशनैः शितैः ॥
छेत्स्यतेऽल्पावशिष्टत्वादेतदप्यचिरादिव ।
ततस्तु पतितारोऽत्र गर्ते व्यक्तमधोमुखाः ॥
अत्र मे दुःखमुत्पन्नं दृष्ट्वा युष्मानधोमुखान् ।
कृच्छ्रामापदमापन्नान्प्रियं किं करवाणि वः ॥
तपसोऽस्य चतुर्थेन तृतीयेनाथ वा पुनः ।
अर्धेन वापि निस्तर्तुमापदं ब्रूत मा चिरम् ॥
अथवापि समग्रेण तरन्तु तपसा मम ।
भवन्तः सर्व एवेह काममेवं विधीयताम् ॥
पितर ऊचुः ।
कुतो भवान्ब्रह्मचारी यो नस्त्रातुमिहेच्छसि ।
न तु विप्राग्र्य तपसा शक्यमेतद्व्यपोहितुम् ॥
अस्ति नस्तात तपसः फलं प्रवदतां वर ।
संतानप्रक्षयाद्ब्रह्मन्पतामो निरयेऽशुचौ ॥
सन्तानं हि परो धर्मं एवमाह पितामहः ।
लम्बतामिह नस्तात न ज्ञानं प्रतिभाति वै ॥
येन त्वां नाभिजानीमो लोके विख्यातपौरुषम् ।
वृद्धो भवान्महाभागोयोनः शोच्यान्सुदुःखितान ॥
शोचते चैव कारुण्याच्छृणु ये वै वयं द्विज ।
यायावरा नाम वयमृषयः संशितव्रताः ॥
लोकात्पुम्यादिह भ्रष्टाः सन्तानप्रक्षयान्मुने ।
प्रणष्टं नस्तपस्तीव्रं न हि नस्तन्तुरस्ति वै ॥
अस्तित्वेकोऽद्य नस्तन्तुः सोऽपि नास्ति यथा तथा ।
मन्दभाग्योऽल्पभाग्यानां तप एकं समास्थितः ॥
जरत्कारुरिति ख्यातो वेदवेदाङ्गपारगः ।
नियतात्मा महात्मा च सुव्रतः सुमहातपाः ॥
तेन स्म तपसो लोभात्कृच्छ्रमापादिता वयम् ।
न तस्य भार्या पुत्रो वा बान्धवो वाऽस्ति कश्चन ॥
तस्माल्लम्बामहे गर्ते नष्टसंज्ञा ह्यनाथवत् ।
स वक्तव्यस्त्वया दृष्टो ह्यस्माकं नाथवत्तया ॥
पितरस्तेऽवलम्बन्ते गर्ते दीना अधोमुखाः ।
साधु दारान्कुरुष्वेति प्रजायस्वेति चाभि भोः ॥
कुलतन्तुर्हि नः शिष्टः स एकैकस्तपोधन ।
यं तु पश्यसि नो ब्रह्मन्वीरणस्तम्बमाश्रयम् ॥
एषोऽस्माकं कुलस्तम्ब आस्ते स्वकुलवर्धनः ।
यानि पश्यसि वै ब्रह्मन्मूलानीहास्य वीरुधः ॥
एते नस्तन्तवस्तात कालेन परिभक्षिताः ।
यत्त्वेतत्पश्यसि ब्रह्मन्मूलमस्यार्धभक्षितम् ॥
यत्र लम्बामहे गर्ते सोऽप्येकस्तप आस्थितः ।
यमाखुं पश्यसि ब्रह्मन्काल एष महाबलः ॥
स तं तपोरतं मन्दं शनैः क्षपयते तुदन् ।
जरत्कारुं तपोलुब्धं मन्दात्मानमचेतसम् ॥
न हि नस्तत्तपस्तस्य तारयिष्यति सत्तम ।
छिन्नमूलान्परिभ्रष्टान्कालोपहतचेतसः ॥
अधः प्रविष्टान्पश्यास्मान्यथा दुष्कृतिनस्तथा ।
अस्मासु पतितेष्वत्र सह सर्वैः सबान्धवैः ॥
छिन्नः कालेन सोऽप्यत्र गन्ता वै नरकं ततः ।
तपो वाऽप्यथ चा यज्ञो यच्चान्यत्पावनं महत् ॥
तत्सर्वं न समं तात संतत्येति सतां मतम् ।
स तात दृष्ट्वा ब्रूयास्तं जरत्कारुं तपोधन ॥
यथा दृष्टमिदं चात्र त्वयाऽऽख्येयमशेषतः ।
यथा दारान्प्रकुर्यात्स पुत्रानुत्पादयेद्यथा ॥
वा ब्रह्मंस्त्वया वाच्यः सोऽस्माकं नाथवत्तया ।
बान्धवानां हितस्येह यथा चात्मकुलं तथा ॥
कस्त्वं बन्धुमिवास्माकमनुशोचसि सत्तम ।
श्रोतुमिच्छाम सर्वेषां को भवानिह तिष्ठति ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि पञ्चचत्वारिंशोऽध्यायः ॥ 45 ॥

1-45-5 स्वत्राणं स्वरक्षाम् ॥ 1-45-8 पतितारः पतिष्यथा ॥ 1-45-12 एतत् अस्मदीयं कृच्छ्रं व्यपोहितुं अपनेतुम् ॥ पञ्चचत्वारिंशोऽध्यायः ॥ 45 ॥

अध्यायः 046

जरत्कारोः स्वपितृसंवादानन्तरं दारान्वेषणम् ॥ 1 ॥

सौतिरुवाच ।
एतच्छ्रुत्वा जरत्कारुर्भृशं शोकपरायणः ।
उवाच तान्पितॄन्दुःखाद्बाष्पसंदिग्धया गिरा ॥
जरत्कारुरुवाच ।
मम पूर्वे भवन्तो वै पितरः सपितामहाः ।
तद्ब्रूत यन्मया कार्यं भवतां प्रियकाम्यया ॥
अहमेव जरत्कारुः किल्बिषी भवतां सुतः ।
ते दण्डं धारयत मे दुष्कृतेरकृतात्मनः ॥
पितर ऊचुः ।
पुत्र दिष्ट्याऽसि संप्राप्त इमं देशं यदृच्छया ।
किमर्थं च त्वया ब्रह्मन्न कृतो दारसङ्ग्रहः ॥
जरत्कारुरुवाच ।
ममायं पितरो नित्यं हृद्यर्थः परिवर्तते ।
ऊर्ध्वरेताः शरीरं वै प्रापयेयममुत्र वै ॥
न दारान्वै करिष्येऽहमिति मे भावितं मनः ।
एवं दृष्ट्वा तु भवतः शकुन्तानिव लम्बतः ॥
मया निवर्तिता बुद्धिर्ब्रह्मचर्यात्पितामहाः ।
करिष्ये वः प्रियं कामं निवेक्ष्येऽहमसंशयम् ॥
सनाम्नीं यद्यहं कन्यामुपलप्स्ये कदाचन ।
भविष्यति च या काचिद्भैक्ष्यवत्स्वयमुद्यता ॥
प्रतिग्रहीता तामस्मि न भरेयं च यामहम् । एवंविधमहं कुर्यां निवेशं प्राप्नुयां यदि ।
अन्यथा न करिष्येऽहं सत्यमेतत्पितामहाः ॥
तत्र चोत्पत्स्यते जन्तुर्भवतां तारणाय वै ।
शाश्वताश्चाव्ययाश्चैव तिष्ठन्तु पितरो मम ॥
सौतिरुवाच ।
एवमुक्त्वा तु स पितॄंश्चचार पृथिवी मुनिः ।
न च स्म लभते भार्यां वृद्धोऽयमिति शानक ॥
यदा निर्वेदमापन्नः पितृभिश्चोदिस्तथा ।
तदाऽरण्यं स गत्वोच्चैश्चुक्रोश भृशदुःखितः ॥
सत्वरण्यगतः प्राज्ञः पितॄणा हितकाम्यया ।
उवाच कन्यां याचामि तिस्रो वाचः शनैरिमाः ॥
यानि भूतानि सन्तीह स्थावराणि चराणि च ।
अन्तर्हितानि वा यानि तानि शृण्वन्तु मे वचः ॥
उग्रे तपसि वर्तन्तं पितरश्चोदयन्ति माम् ।
निविशस्वेति दुःखार्ताः सन्तानस्य चिकीर्षया ॥
निवेशायाखिलां भूमिं कन्याभैक्ष्यं चरामि भोः ।
दरिद्रो दुःखशीलश्च पितृभिः सन्नियोजितः ॥
यस्य कन्याऽस्ति भूतस्य ये मयेह प्रकीर्तिताः ।
ते मे कन्यां प्रयच्छन्तु चरतः सर्वतोदिशम् ॥
मम कन्या सनाम्नी या भैक्ष्यवच्चोदिता भवेत् ।
भरेयं चैव यां नाहं तां मे कन्यां प्रयच्छत ॥
ततस्ते पन्नगा ये वै जरत्कारौ समाहिताः ।
तामादाय प्रवृत्तिं ते वासुकेः प्रत्यवेदयन् ॥
तेषां श्रुत्वा स नागेन्द्रस्तां कन्यां समलङ्कृताम् ।
प्रगृह्यारण्यमगमत्समीपं तस्य पन्नगः ॥
तत्र तां भैक्ष्यवत्कन्यां प्रादात्तस्मै महात्मने ।
नागेन्द्रो वासुकिर्ब्रह्मन्न स तां प्रत्यगृह्णत ॥
असनामेति वै मत्वा भरणे चाविचारिते ।
मोक्षभावे स्थितश्चापि मन्दीभूतः परिग्रहे ॥
ततो नाम स कन्यायाः पप्रच्छ भृगुनन्दन ।
वासुकिं भरणं चास्या न कुर्यामित्युवाच ह ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि षट्चत्वारिंशोऽध्यायः ॥ 46 ॥

1-46-7 निवेक्ष्ये निवेशं विवाहं करिष्ये ॥ 1-46-9 न भरेयं धारणपोषणे न कुर्याम् ॥ 1-46-19 जरत्कारौ जरत्कारोरन्वेषणे । समाहिताः यत्ताः ॥ षट्चत्वारिंशोऽध्यायः ॥ 46 ॥

अध्यायः 047

जरत्कारोरुद्वाहः ॥ 1 ॥ तस्यां गर्भसंभवः ॥ 2 ॥ समयोल्लङ्घनेन क्रुद्धस्य मुनेः तपोर्थं गमनम् ॥ 3 ॥

सौतिरुवाच ।
वासुकिस्त्वब्रवीद्वाक्यं जरत्कारुमृषिं तदा ।
सनाम्नी तव कन्येयं स्वसा मे तपसान्विता ॥
भरिष्यामि च ते भार्यां प्रतीच्छेमां द्विजोत्तम । रक्षणं च करिष्येऽस्याः सर्वशक्त्या तपोधन ।
त्वदर्थं रक्ष्यते चैषा मया मुनिवरोत्तम ॥
जरत्कारुरुवाच ।
न भरिष्येऽहमेतां वै एष मे समयः कृतः ।
अप्रियं च न कर्तव्यं कृते चैनां त्यजाम्यहम् ॥
सौतिरुवाच ।
प्रतिश्रुते तु नागेन भरिष्ये भगिनीमिति ।
जरत्कारुस्तदा वेश्म भुजगस्य जगाम ह ॥
तत्र मन्त्रविदां श्रेष्ठस्तपोवृद्धो महाव्रतः ।
जग्राह पाणिं धर्मात्मा विधिमन्त्रपुरस्कृतम् ॥
ततो वासगृहं रम्यं पन्नगेन्द्रस्य संमतम् ।
जगाम भार्याम दाय स्तूयमानो महर्षिभिः ॥
शयनं तत्र संक्लृप्तं स्पर्ध्यास्तरणसंवृतम् ।
तत्र भार्यासहायो वै जरत्कारुरुवास ह ॥
स तत्र समयं चक्रे भार्यया सह सत्तमः ।
विप्रियं मे न कर्तव्यं न च वाच्यं कदाचन ॥
त्यजेयं विप्रिये च त्वां कृते वासं च ते गृहे ।
एतद्गृहाण वचनं मया यत्समुदीरितम् ॥
ततः परमसंविग्ना स्वसा नागपतेस्तदा ।
अतिदुःखान्विता वाक्यं तमुवाचैवमस्त्विति ॥
तथैव सा च भर्तारं दुःखशीलमुपचारत् ।
उपायैः श्वेतकाकीयैः प्रियकामा यशस्विनी ॥
ऋतुकाले ततः स्नाता कदाचिद्वासुकेः स्वसा ।
भर्तारं वै यथान्यायमुपतस्थे महामुनिम् ॥
तत्र तस्याः समभवद्गर्भो ज्वलनसन्निभः ।
अतीव तेजसा युक्तो वैश्वानरसमद्युतिः ॥
शुक्लपक्षे यथा सोमो व्यवर्धत तथैव सः ।
ततः कतिपयाहस्तु जरत्कारुर्महायशाः ॥
उत्सङ्गेऽस्याः शिरः कृत्वा सुष्वाप परिखिन्नवत् ।
तस्मिंश्च सुप्ते विप्रेन्द्रे सवितास्तमियाद्गिरिम् ॥
अह्नः परिक्षये ब्रह्मंस्ततः साऽचिन्तयत्तदा ।
वासुकेर्भगिनी भीता धर्मलोपान्मनस्विनी ॥
किं नु मे सुकृतं भूयाद्भर्तुरुत्थापनं न वा ।
दुःखशीलो हि धर्मात्मा कथं नास्यापराध्नुयाम् ॥
कोपो वा धर्मशीलस्य धर्मलोपोऽथवा पुनः ।
धर्मलोपो गरीयान्वै स्यादित्यत्राकरोन्मतिम् ॥
उत्थापयिष्ये यद्येनं ध्रुवं कोपं करिष्यति ।
धर्मलोपो भवेदस्य सन्ध्यातिक्रमणे ध्रुवम् ॥
इति निश्चित्य मनसा जरत्कारुर्भुजंगमा ।
तमृषिं दीप्ततपसं शयानमनलोपमम् ॥
उवाचेदं वचः श्लक्ष्णं ततो मधुरभाषिणी ।
उत्तिष्ठ त्वं महाभाग सूर्योऽस्तमुपगच्छति ॥
सन्ध्यामुपास्स्व भगवन्नपः स्पृष्ट्वा यतव्रतः ।
प्रादुष्कृताग्निहोत्रोऽयं मुहूर्तो रम्यदारुणः ॥
सन्ध्या प्रवर्तते चेयं पश्चिमायां दिशि प्रभो ।
एवमुक्तः स भगवाञ्जरत्कारुर्महातपाः ॥
भार्यां प्रस्फुरमाणौष्ठ इदं वचनमब्रवीत् ।
अवमानः प्रयुक्तोऽयं त्वया मम भुजंगमे ॥
समीपे ते न वत्स्यामि गमिष्यामि यथागतम् ।
शक्तिरस्ति न वामोरु मयि सुप्ते विभावसोः ॥
अस्तं गन्तुं यथाकालमिति मे हृदि वर्तते ।
न चाप्यवमतस्येह वासो रोचेत कस्यचित् ॥
किं पुनर्धर्मशीलस्य मम वा मद्विधस्य वा ।
एवमुक्ता जरत्कारुर्भर्त्रा हृदयकम्पनम् ॥
अब्रवीद्भगिनी तत्र वासुकेः सन्निवेशने ।
नावमानात्कृतवती तवाहं विप्रे बोधनम् ॥
धर्मलोपो न ते विप्र स्यादित्येतन्मया कृतम् ।
उवाच भार्यामित्युक्तो जरत्कारुर्महातपाः ॥
ऋषिः कोपसमाविष्टस्त्यक्तुकामो भुजंगमाम् ।
न मे वागनृतं प्राह गमिष्येऽहं भुजंगमे ॥
समयो ह्येष मे पूर्वं त्वया सह मिथः कृतः ।
सुखमस्म्युषितो भद्रे ब्रूयास्त्वं भ्रातरं शुभे ॥
इतो मयि गते भीरु गतः स भगवानिति ।
त्वं चापि मयि निष्क्रान्ते न शोकं कर्तुमर्हसि ॥
इत्युक्ता साऽनवद्याङ्गी प्रत्युवाच मुनिं तदा ।
जरत्कारुं जरत्कारुश्चिन्ताशोकपरायणा ॥
बाष्पगद्गदया वाचा मुखेन परिशुष्यता ।
कृताञ्जलिर्वरारोहा पर्यश्रुनयना ततः ॥
धैर्यमालम्ब्य वामोरूर्हृदयेन प्रवेपता ।
न मामर्हसि धर्मज्ञ परित्यक्तुमनागसम् ॥
धर्मे स्थितां स्थितो धर्मे सदा प्रियहिते रताम् ।
प्रदाने कारणं यच्च मम तुभ्यं द्विजोत्तम ॥
तदलब्धवतीं मन्दां किं मां वक्ष्यति वासुकिः ।
मातृशापाभिभूतानां ज्ञातीनां मम सत्तम ॥
अपत्यमीप्सितं त्वत्तस्तच्च तावन्न दृश्यते ।
त्वत्तो ह्यपत्यलाभेन ज्ञातीनां मे शिवं भवेत् ॥
संप्रयोगो भवेन्नायां मम मोघस्त्वया द्विज ।
ज्ञातीनां हितमिच्छन्ती भगवंस्त्वां प्रसादये ॥
इममव्यक्तरूपं मे गर्भमाधाय सत्तम ।
कथं त्यक्त्वा महात्मा सन्गन्तुमिच्छस्यनागसम् ॥
एवमुक्तस्तु स मुनिर्भार्यां वचनमब्रवीत् ।
यद्युक्तमनुरूपं च जरत्कारुं तपोधनः ॥
अस्त्ययं सुभगे गर्भस्तव वैश्वानरोपमः ।
ऋषिः परमधर्मात्मा वेदवेदाङ्गपारगः ॥
एवमुक्त्वा स धर्मात्मा जरत्कारुर्महानृषिः ।
उग्राय तपसे भूयो जगाम कृतनिश्चयः ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि सप्तचत्वारिंशोऽध्यायः ॥ 47 ॥

1-47-7 स्पर्ध्यं बहुमूल्यम् ॥ 1-47-9 विप्रिये कृते त्वां तव गृहे वासं च त्यजेयम् ॥ 1-47-11 श्वतकाकीयैः अनुकूलैः ॥ 1-47-15 उत्सङ्गे अङ्के ॥ 1-47-18 कोपो वा गरीयान्धर्मलोपो वा गरीयानिति कोदिद्वयमुपन्यस्य धर्मलोपमेव गुरुकरोति । कोपो वेति ॥ 1-47-22 प्रादुष्कृतः उद्धृतः अग्निहोत्रोऽग्निः यस्मिन्सः । धर्मसाधनत्वाद्रम्यः । भूतादिप्रचाराद्दारुणः ॥ 1-47-25 विभावसोः सूर्यस्य ॥ 1-47-39 संप्रयोगः संबन्ध । मोघो निष्फलः ॥ सप्तचत्वारिंशोऽध्यायः ॥ 47 ॥

अध्यायः 048

वासुकेः तद्भगिन्याश्च संवादः ॥ 1 ॥ आस्तीकोत्पत्तिः ॥ 2 ॥ तन्नामनिर्वचनम् ॥ 3 ॥

सौतिरुवाच ।
गतमात्रं तु भर्तारं जरत्कारुरवेदयत् ।
भ्रातुः सकाशमागत्य यथातथ्यं तपोधन ॥
ततः स भुजगश्रेष्ठः श्रुत्वा सुमहदप्रियम् ।
उवाच भगिनीं दीनां तदा दीनतरः स्वयम् ॥
वासुकिरुवाच ।
जानासि भद्रे यत्कार्यं प्रदाने कारणं च यत् ।
पन्नगानां हितार्थाय पुत्रस्ते स्यात्ततो यदि ॥
स सर्पसत्रात्किल नो मोक्षयिष्यति वीर्यवान् ।
एवं पितामहः पूर्वमुक्तवांस्तु सुरैः सह ॥
अप्यस्ति गर्भः सुभगे तस्मात्ते मुनिसत्तमात् ।
न चेच्छाम्यफलं तस्य दारकर्म मनीषिणः ॥
कामं च मम न न्याय्यं प्रष्टुं त्वां कार्यमीदृशम् ।
किंतु कार्यगरीयस्त्वात्ततस्त्वाऽहमचूचुदम् ॥
दुर्वार्यतां विदित्वा च भर्तुस्तेऽतितपस्विनः ।
नैनमन्वागमिष्यामि कदाचिद्धि शपेत्स माम् ॥
आचक्ष्व भद्रे भर्तुः स्वं सर्वमेव विचेष्टितम् ।
उद्धरस्व च शल्यं मे घोरं हृदि चिरस्थितम् ॥
जरत्कारुस्ततो वाक्यमित्युक्ता प्रत्यभाषत ।
आश्वासयन्ती सन्तप्तं वासुकिं पन्नगेश्वरम् ॥
जरत्कारुरुवाच ।
पृष्टो मयाऽपत्यहेतोः स महात्मा महातपाः ।
अस्तीत्युत्तरमुद्दिश्य ममेदं गतवांश्च सः ॥
स्वैरेष्वपि न तेनाहं स्मरामि वितथं वचः ।
उक्तपूर्वं कुतो राजन्सांपराये स वक्ष्यति ॥
न संतापस्त्वया कार्यः कार्यं प्रति भुजंगमे ।
उत्पत्स्यति च ते पुत्रो ज्वलनार्कसमप्रभः ॥
इत्युक्त्वा स हि मां भ्रातर्गतो भर्ता तपोधनः ।
तस्माद्व्येतु परं दुःखं तवेदं मनसि स्थितम् ॥
सौतिरुवाच ।
एतच्छ्रुत्वा स नागेन्द्रो वासुकिः परया मुदा ।
एवमस्त्विति तद्वाक्यं भगिन्याः प्रत्यगृह्णत ॥
सान्त्वमानार्थदानैश्च पूजया चारुरूपया ।
सोदर्यां पूजयामास स्वसारं पन्नगोत्तमः ॥
ततः प्रववृधे गर्भो महातेजा महाप्रभः ।
यथा मोमो द्विजश्रेष्ठ शुक्लपक्षोदितो दिवि ॥
अथ काले तु सा ब्रह्मन्प्रजज्ञे भुजगस्वसा ।
कुमारं देवगर्भाभं पितृमातृभयापहम् ॥
ववृधे स तु तत्रैव नागराजनिवेशने ।
वेदांश्चाधिजगे साङ्गान्भार्गवच्यवनात्मजात् ॥
चीर्णव्रतो बाल एव बुद्धिसत्त्वगुणान्वितः ।
नाम चास्याभवत्ख्यातं लोकेष्वास्तीक इत्युत ॥
अस्तीत्युक्त्वा गतो यस्मात्पिता गर्भस्थमेव तम् ।
वनं तस्मादिदं तस्य नामास्तीकेति विश्रुतम् ॥
स बाल एव तत्रस्थश्चरन्नमितबुद्धिमान् ।
गृहे पन्नगराजस्य प्रयत्नात्परिरक्षितः ॥
भगवानिव देवेशः शूलपाणिर्हिरण्मयः ।
विवर्धमानः सर्वांस्तान्पन्नगानभ्यहर्षयत् ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि अष्टचत्वारिंशोऽध्यायः ॥ 48 ॥

1-48-6 अचूचुदं कार्यसिद्धिं वक्तुं प्रेरितवान् ॥ 1-48-10 ममेदं कार्यमुद्दिश्य अस्तीत्युत्तरं दत्तवानिति शेषः ॥ 1-48-11 वितथं अनृतं तेन उक्तपूर्वं न स्मरामि । सांपराये संकटे ॥ 1-48-17 प्रजज्ञे जनयामास ॥ 1-48-22 हिरण्मयः दीप्तिमान् ॥ अष्टचत्वारिंशोऽध्यायः ॥ 48 ॥

अध्यायः 049

जनमेजयमन्त्रिसंवादमुखेन पुनः परीक्षिच्चरितकथनम् ॥ 1 ॥

शौनक उवाच ।
यदपृच्छत्तदा राजा मन्त्रिणो जनमेजयः ।
पितुः स्वर्गगतिं तन्मे विस्तरेण पुनर्वद ॥
सौतिरुवाच ।
शृणु ब्रह्मन्यथाऽपृच्छन्मन्त्रिणो नृपतिस्तदा ।
यथा चाख्यातवन्तस्ते निधनं तत्परिक्षितः ॥
जनमेजय उवाच ।
जानन्ति स्म भवन्तस्तद्यथावृत्तं पितुर्मम ।
आसीद्यथा स निधनं गतः काले महायशाः ॥
श्रुत्वा भवत्सकाशाद्धि पितुर्वृत्तमशेषतः ।
कल्याणं प्रतिपत्स्यामि विपरीतं न जातुचित् ॥
सौतिरुवाच ।
मन्त्रिणोऽथाब्रुवन्वाक्यं पृष्टास्तेन महात्मना ।
सर्वे धर्मविदः प्राज्ञा राजानं जनमेजयम् ॥
मन्त्रिण ऊचुः ।
शृणु पार्थिव यद्ब्रूषे पितुस्तव महात्मनः ।
चरितं पार्थिवेन्द्रस्य यथा निष्ठां गतश्च सः ॥
धर्मात्मा च महात्मा च प्रजापालः पिता तव ।
आसीदिहायथा वृत्तः स महात्मा शृणुष्व तत् ॥
चातुर्वर्ण्यं स्वधर्मस्थं स कृत्वा पर्यरक्षत ।
धर्मतो धर्मविद्राजा धर्मो विग्रहवानिव ॥
ररक्ष पृथिवीं देवीं श्रीमानतुलविक्रमः ।
द्वेष्टारस्तस्य नैवासन्स च द्वेष्टि न कंचन ॥
समः सर्वेषु भूतेषु प्रजापतिरिवाभवत् ।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव स्वकर्मसु ॥
स्थितः सुमनसो राजंस्तेन राज्ञा स्वधिष्ठिताः ।
विधवानाथविकलान्कृपणांश्च बभार सः ॥
सुदर्शः सर्वभूतानामासीत्सोम इवापरः ।
तुष्टपुष्टजनः श्रीमान्सत्यवाग्दृढविक्रमः ॥
धनुर्वेदे तु शिष्योऽभून्नृपः शारद्वतस्य सः ।
गोविन्दस्य प्रियश्चासीत्पिता ते जनमेजय ॥
लोकस्य चैव सर्वस्य प्रिय आसीन्महायशाः ।
परिक्षीणेषु कुरुषु सोत्तरायामजीजनत् ॥
परिक्षिदभवत्तेन सौभद्रस्यात्मजो बली ।
राजधर्मार्थकुशलो युक्तः सर्वगुणैर्वृतः ॥
जितेन्द्रियश्चात्मवांश्च मेधावी धर्मसेविता ।
षड्वर्गजिन्महाबुद्धिर्नीतिशास्त्रविदुत्तमः ॥
प्रजा इमास्तव पिता षष्टिवर्षाण्यपालयत् ।
ततो दिष्टान्तमापन्नः सर्वेषां दुःखमावहन् ॥
ततस्त्वं पुरुषश्रेष्ठ धर्मेण प्रतिपेदिवान् । इदं वर्षसहस्राणि राज्यं कुरुकुलागतम् ।
बाल एवाभिषिक्तस्त्वं सर्वभूतानुपालकः ॥
जनमेजय उवाच ।
नास्मिन्कुले जातु बभूव राजा यो न प्रजानां प्रियकृत्प्रियश्च ।
विशेषतः प्रेक्ष्य पितामहानां वृत्तं महद्वृत्तपरायणानाम् ॥
कथं निधनमापन्नः पिता मम तथाविधः ।
आचक्षध्वं यथावन्मे श्रोतुमिच्छामि तत्त्वतः ॥
सौतिरुवाच ।
एवं संचोदिता राज्ञा मन्त्रिणस्ते नराधिपम् ।
ऊचुः सर्वे यथावृत्तं राज्ञः प्रियहितैषिणः ॥
मन्त्रिण ऊचुः ।
स राजा पृथिवीपालः सर्वशस्त्रभृतां वरः ।
बभूव मृगयाशीलस्तव राजन्पिता सदा ॥
यथा पाण्डुर्महाबाहुर्धनुर्धरवरो युधि ।
अस्मास्वासज्य सर्वाणि राजकार्याण्यशेषतः ॥
स कदाचिद्वनगतो मृगं विव्याध पत्रिणा ।
विद्ध्वा चान्वसरत्तूर्णं तं मृगं गहने वने ॥
पदातिर्बद्धनिस्त्रिंशस्ततायुधकलापवान् ।
न चाससाद गहने मृगं नष्टं पिता तव ॥
परिश्रान्तो वयस्थश्च षष्टिवर्षो जरान्वितः ।
क्षुधितः स महारण्ये ददर्श मुनिसत्तमम् ॥
स तं पप्रच्छ राजेन्द्रो मुनिं मौनव्रते स्थितम् ।
न च किंचिदुवाचेदं पृष्टोऽपि समुनिस्तदा ॥
ततो राजा क्षुच्छ्रमार्तस्तं मुनिं स्थाणुवत्स्थितम् ।
मौनव्रतधरं शान्तं सद्यो मन्युवशं गतः ॥
न बुबोध च तं राजा मौनव्रतधरं मुनिम् ।
स तं क्रोधसमाविष्टो धर्षयामास ते पिता ॥
मृतं सर्पं धनुष्कोट्या समुत्क्षिप्य धरातलात् ।
तस्य शुद्धात्मनः प्रादात्स्कन्धे भरतसत्तम ॥
न चोवाच स मेधावी तमथो साध्वसाधु वा ।
तस्थौ तथैव चाक्रुद्धः सर्पं स्कन्धेन धारयन् ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि एकोनपञ्चाशत्तमोऽध्यायः ॥ 49 ॥

1-49-4 कल्याणं सर्वलोकहितं चेत्प्रतिपत्स्यामि प्रतीकारं करिष्यामि ॥ 1-49-6 ब्रूषे पृच्छसि । निष्ठां समाप्तिम् ॥ 1-49-11 स्वधिष्ठिताः सुष्ठुपालिताः ॥ 1-49-13 शारद्वतस्य कृपाचार्यस्य ॥ 1-49-14 सोत्तरायमिति पादपूरणार्थः सन्धिः । अजीजनज्जातः ॥ 1-49-17 षष्टिवषाणि जन्मतः षष्टिपर्वपर्यन्तं न तु राज्यलाभात् ॥ 1-49-18 वर्षसहस्राणि चिरकालमित्यर्थः । पालयितुमिति शेषः ॥ 1-49-20 आचक्षध्वं भ्वादेराकृतिगणत्वाच्छपो न लुक् ॥ 1-49-26 वयस्थो वृद्धः ॥ एकोनपञ्चाशत्तमोऽध्यायः ॥ 49 ॥

अध्यायः 050

शून्यारण्ये वृत्तस्य काश्यपतक्षकवृत्तान्तस्योपलब्धिप्रकारकथनम् ॥ 1 ॥

मन्त्रिण ऊचुः ।
ततः स राजा राजेन्द्र स्कन्धे तस्य भुजंगमम् ।
मुनेः क्षुत्क्षाम आसज्य स्वपुरं प्रययौ पुनः ॥
ऋषेस्तस्य तु पुत्रोऽभूद्गति जातो महायशाः ।
शृङ्गी नाम महातेजास्तिग्मवीर्योऽतिकोपनः ॥
ब्रह्माणं समुपागम्य मुनिः पूजां चकार ह ।
सोऽनुज्ञातस्ततस्तत्र शृङ्गी शुश्राव तं तदा ॥
सख्युः सकाशात्पितरं पित्रा ते धर्षितं पुरा ।
मृतं सर्पं समासक्तं स्थाणुभूतस्य तस्य तम् ॥
वहन्तं राजशार्दूल स्कन्धेनानपकारिणम् ।
तपस्विनमतीवाथ तं मुनिप्रवरं नृप ॥
जितेन्द्रियं विशुद्धं च स्थितं कर्मण्यथाद्भुतम् ।
तपसा द्योतितात्मानं स्वेष्वङ्गेषु यतं तदा ॥
शुभाचारं शुभकथं सुस्थितं तमलोलुपम् । अक्षुद्रमनसूयं च वृद्धं मौनव्रते स्थितम् ।
शरण्यं सर्वभूतानां पित्रा विनिकृतं तव ॥
शशापाथ महातेजाः पितरं ते रुषान्वितः ।
ऋषेः पुत्रो महातेजा बालोऽपि स्थविरद्युतिः ॥
स क्षिप्रमुदकं स्पृष्ट्वा रोषादिदमुवाच ह ।
पितरं तेऽभिसन्धाय तेजसा प्रज्वलन्निव ॥
अनागसि गुरौ यो मे मृतं सर्पवासृजत् ।
तं नागस्तक्षकः क्रुद्धस्तेजसा प्रदहिष्यति ॥
आशीविषस्तिग्मतेजा मद्वाक्यबलचोदितः ।
सप्तरात्रादितः पापं पश्य मे तपसो बलम् ॥
इत्युक्त्वा प्रययौ तत्र पिता यत्राऽस्य सोऽभवत् ।
दृष्ट्वा च पितरं तस्मै तं शापं प्रत्यवेदयत् ॥
स चापि मुनिशार्दूलः प्रेरयामास ते पितुः ।
शिष्यं गौरमुखं नाम शीलवन्तं गुणान्वितम् ॥
आचख्यौं सत्त्व विश्रान्तो राज्ञः सर्वमशेषतः ।
शप्तोऽसि मम पुत्रेण यत्तो भव महीपते ॥
तक्षकस्त्वां महाराज तेजसाऽसौ दहिष्यति ।
श्रुत्वा च तद्वचो घोरं पिता ते जनमेजय ॥
यत्तोऽभवत्परित्रस्तस्तक्षकात्पन्नगोत्तमात् ।
ततस्तस्मिंस्तु दिवसे सप्तमे समुपस्थिते ॥
राज्ञः समीपं ब्रह्मर्षिः काश्यपो गन्तुमैच्छत ।
तं ददर्शाथ नागेन्द्रस्तक्षकः काश्यपं तदा ॥
तमब्रवीत्पन्नगेन्द्रः काश्यपं त्वरितं द्विजम् ।
क्व भवांस्त्वरितो याति किं च कार्यं चिकीर्षति ॥
काश्यप उवाच ।
यत्र राजा कुरुश्रेष्ठः परिक्षिन्नाम वै द्विज ।
तक्षकेण भुजंगेन धक्ष्यते किल सोऽद्य वै ॥
गच्छाम्यहं तं त्वरितः सद्यः कर्तुमपज्वरम् ।
मयाऽभिपन्नं तं चापि न सर्पो धर्षयिष्यति ॥
तक्षक उवाच ।
किमर्थं तं मया दष्टं संजीवयितुमिच्छसि ।
अहं त तक्षको ब्रह्मन्पश्य मे वीर्यमद्भुतम् ॥
न शक्तस्त्वं मया दष्टं तं संजीवयितुं नृपम् ।
मन्त्रिण ऊचुः ।
इत्युक्त्वा तक्षकस्तत्र सोऽदशद्वै वनस्पतिम् ॥
स दष्टमात्रो नागेन भस्मीभूतोऽभवन्नगः ।
काश्यपश्च ततो राजन्नजीवयत तं नगम् ॥
ततस्तं लोभयामास कामं ब्रूहीति तक्षकः ।
स एवमुक्तस्तं प्राह काश्यपस्तक्षकं पुनः ॥
धनलिप्सुरहं तत्र यामीत्युक्तश्च तेन सः ।
तमुवाच महात्मानं तक्षकः श्लक्ष्णया गिरा ॥
यावद्धनं प्रार्थयसे राज्ञस्तस्मात्ततोऽधिकम् ।
गृहाण मत्त एव त्वं सन्निवर्तस्व चानघ ॥
स एवमुक्तो नागेन काश्यपो द्विपदां वरः ।
लब्ध्वा वित्तं निववृते तक्षकाद्यावदीप्सितम् ॥
तस्मिन्प्रतिगते विप्रे छद्मनोपेत्य तक्षकः ।
तं नृपं नृपतिश्रेष्ठं पितरं धार्मिकं तव ॥
प्रासादस्थं यत्तमपि दग्धवान्विषवह्निना ।
ततस्त्वं पुरुषव्याघ्र विजयायाभिषेचितः ॥
एतद्दृष्टं श्रुतं चापि यथावन्नृपसत्तम ।
अस्माभिर्निखिलं सर्वं कथितं तेऽतिदारुणम् ॥
श्रुत्वा चैतं नरश्रेष्ठ पार्थिवस्य पराभवम् ।
अस्य चर्षेरुदङ्कस्य विधत्स्व यदनन्तरम् ॥
सौतिरुवाच ।
एतस्मिन्नेव काले तु स राजा जनमेजयः ।
उवाच मन्त्रिणः सर्वानिदं वाक्यमरिदमः ॥
जनमेजय उवाच ।
अथ तत्कथितं केन यद्वृत्तं तद्वनस्पतौ ।
आश्चर्यभूतं लोकस्य भस्मराशीकृतं तदा ॥
यद्वृक्षं जीवयामास काश्यपस्तक्षकेण वै ।
नूनं मन्त्रैर्हतविषो न प्रणश्येत काश्यपात् ॥
चिन्तयामास पापात्मा मनसा पन्नगाधमः ।
दष्टं यदि मया विप्रः पार्थिवं जीवयिष्यति ॥
तक्षकः संहतविषो लोके यास्यति हास्यताम् ।
विचिन्त्यैवं कृता तेन ध्रुवं तुष्टिर्द्विजस्य वै ॥
भविष्यति ह्युपायेन यस्य दास्यामि यातनाम् ।
एकं तु श्रोतुमिच्छामि तद्वृत्तं निर्जने वने ॥
संवादं पन्नगेन्द्रस्य काश्यपस्य च कस्तदा । श्रुतवान्दृष्टवांश्चापि भवत्सु कथमागतम् ।
श्रुत्वा तस्य विधास्येऽहं पन्नगान्तकरीं मतिम् ॥
मन्त्रिण ऊचुः ।
शृणु राजन्यथास्माकं येन तत्कथितं पुरा ।
समागतं द्विजेन्द्रस्य पन्नगेन्द्रस्य चाध्वनि ॥
तस्मिन्वृक्षे नरः कश्चिदिन्धनार्थाय पार्थिव ।
विचिन्वन्पूर्वमारूढः शुष्कशाखावनस्पतौ ॥
न बुध्येतामुभौ तौ च नगस्थं पन्नगद्विजौ ।
सह तेनैव वृक्षेण भस्मीभूतोऽभवन्नृप ॥
द्विजप्रभावाद्राजेन्द्र व्यजीवत्स वनस्पतिः ।
तेनागम्य द्विजश्रेष्ठ पुंसाऽस्मासु निवेदितम् ॥
यथा वृत्तं तु तत्सर्वं तक्षकस्य द्विजस्य च । एतत्ते कथितं राजन्यथादृष्टं श्रुतं च यत् ।
श्रुत्वा च नृपशार्दूल विधत्स्व यदनन्तरम् ॥
सौतिरुवाच ।
मन्त्रिणां तु वचः श्रुत्वा स राजा जनमेजयः ।
पर्यतप्यत दुःखार्तः प्रत्यपिंषत्करं करे ॥
निःश्वासमुष्णमसकृद्दीर्घं राजीवलोचनः ।
मुमोचाश्रूणि च तदा नेत्राभ्यां प्ररुदन्नृपः ॥
उवाच च महीपालो दुःखशोकसमन्वितः ।
दुर्धरं बाष्पमुत्सृज्य स्पृष्ट्वा चापो यथाविधि ॥
मुहूर्तमिव च ध्यात्वा निश्चित्य मनसा नृपः ।
अमर्षी मन्त्रिणः सर्वानिदं वचनमब्रवीत् ॥
जनमेजय उवाच ।
श्रुत्वैतद्भवतां वाक्यं पितुर्मे स्वर्गतिं प्रति । निश्चितेयं मम मतिर्या च तां मे निबोधत ।
अनन्तरं च मन्येऽहं तक्षकाय दुरात्मने ॥
प्रतिकर्तव्यमित्येवं येन मे हिंसितः पिता ।
शृङ्गिणं हेतुमात्रं यः कृत्वा दग्ध्वा च पार्थिवम् ॥
इयं दुरात्मता तस्य काश्यपं यो न्यवर्तयत् ।
यद्यागच्छेत्स वै विप्रो ननु जीवेत्पिता मम ॥
परिहीयेत किं तस्य यदि जीवेत्स पार्थिवः ।
काश्यपस्य प्रसादेन मन्त्रिणां विनयेन च ॥
स तु वारितवान्मोहात्काश्यपं द्विजसत्तमम् ।
संजिजीवयिषुं प्राप्तं राजानमपराजितम् ॥
महानतिक्रमो ह्येष तक्षकस्य दुरात्मनः ।
द्विजस्य योऽददद्द्रव्यं मा नृपं जीवयेदिति ॥
उत्तङ्कस्य प्रियं कर्तुमात्मनश्च महत्प्रियम् ।
भवतां चैव सर्वेषां गच्छाम्यपचितिं पितुः ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि पञ्चाशत्तमोऽध्यायः ॥ 50 ॥

1-50-6 अङ्गेषु बागादिषु यतं नियतं शमदमवन्तमित्यर्थः ॥ 1-50-7 अक्षुद्रं गम्भीरं । तव पित्रा विनिकृतमपकृतम् ॥ 1-50-20 अभिपन्नं त्रातं धऱ्षयिष्यत्यमिभविष्यति ॥ 1-50-24 कामं काम्यमानमर्थम् ॥ 1-50-27 द्विपदा पुस्त्राणाम् ॥ 1-50-36 संहतविषः सम्या हतं नष्टं विषं यस्य स तथा संहृतविष इति पाठे स्पष्टोथः ॥ 1-50-39 समागणं समागमं भावे निष्ठा ॥ 1-50-44 करं कर निधाय प्रत्यपिंषत् ॥ 1-50-52 मोहान्मदीयसमर्थ्याज्ञानात् ॥ 1-50-54 अपचितिं वैरनिर्यातनम् ॥ पञ्चाशत्तमोऽध्यायः ॥ 50 ॥

अध्यायः 051

जनमेजयस्य सर्पसत्रप्रतिज्ञा ॥ 1 ॥ यज्ञसामग्रीसंपादनम् ॥ 2 ॥ दीक्षाग्रहणम् ॥ 3 ॥

सौतिरुवाच ।
एवमुक्त्वा ततः श्रीमान्मन्त्रिभिश्चानुमीदितः ।
आरुरोह प्रतिज्ञां स सर्पसत्राय पार्थिवः ॥
ब्रह्मन्भरतशार्दूलो राजा पारिक्षितस्तदा ।
पुरोहितमथाहूय ऋत्विजो वसुधाधिपः ॥
अब्रवीद्वाक्यसंपन्नः कार्यसंपत्करं वचः ।
यो मे हिंसितवांस्तातं तक्षकः स दुरात्मवान् ॥
प्रतिकुर्यां यथा तस्य तद्भवन्तो ब्रुवन्तु मे ।
अपि तत्कर्म विदितं भवतां येन पन्नगम् ॥
तक्षकं संप्रदीप्तेऽग्नौ प्रक्षिपेयं सबान्धवम् ।
यथा तेन पिता मह्यं पूर्वं दग्धो विषाग्निना ॥
तथाऽहमपि तं पापं दग्धुमिच्छामि पन्नगम् ॥
ऋत्विज ऊचुः ।
अस्ति राजन्महात्सत्रं त्वदर्थं देवनिर्मितम् ।
सर्वसत्रमिति ख्यातं पुराणे परिपठ्यते ॥
आहर्ता तस्य सत्रस्य त्वन्नान्योऽस्ति नराधिप ।
इति पौराणिकाः प्राहुरस्माकं चास्ति स क्रतुः ॥
एवमुक्तः स राजर्षिर्मेने दग्धं हि तक्षकम् ।
हुताशनमुखे दीप्ते प्रविष्टमिति सत्तम ॥
ततोऽब्रवीन्मन्त्रविदस्तान्राजा ब्राह्मणांस्तदा ।
आहरिष्यामि तत्सत्रं संभाराः संभ्रियन्तु मे ॥
सौतिरुवाच ।
ततस्त ऋत्विजस्तस्य शास्त्रतो द्विजसत्तम ।
तं देशं मापयामासुर्यज्ञायतनकारणात् ॥
यथावद्वेदविद्वांसः सर्वे बुद्धेः परंगताः ।
ऋद्ध्या परमया युक्तमिष्टं द्विजगणैर्युतम् ॥
प्रभूतधनधान्याढ्यमृत्विग्भिः सुनिषेवितम् ।
निर्माय चापि विधिवद्यज्ञायतनमीप्सितम् ॥
राजानं दीक्षयामासुः सर्पसत्राप्तये तदा ।
इदं चासीत्तत्र पूर्वं सर्पसत्रे भविष्यति ॥
निमित्तं महदुत्पन्नं यज्ञविघ्नकरं तदा ।
यज्ञस्यायतने तस्मिन्क्रियमाणे वचोऽब्रवीत् ॥
स्थपतिर्बुद्धिसंपन्नो वास्तुविद्याविशारदः ।
इत्यब्रवीत्सूत्रधारः सूतः पौराणिकस्तदा ॥
यस्मिन्देशे च काले च मापनेयं प्रवर्तिता ।
ब्राह्मणं कारणं कृत्वा नायं संस्थास्यते क्रतुः ॥
एतच्छ्रुत्वा तु राजासौ प्राग्दीक्षाकालमब्रवीत् ।
क्षत्तारं न हि मे कश्चिदज्ञातः प्रविशेदिति ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि एकपञ्चाशत्तमोऽध्यायः ॥ 51 ॥

1-51-5 मह्यं मम ॥ 1-51-7 त्वत् त्वत्तो नान्योस्ति ॥ 1-51-9 आहरिष्यामि करिष्यामि । संभ्रियन्तु संभ्रियन्ताम् ॥ 1-51-13 भविष्यति भाविनि ॥ 1-51-15 सूतो जात्या पौराणिकः शिल्पागमवेत्ता ॥ 1-51-16 नायं संस्थास्यते न समाप्स्यते ॥ 1-51-17 दीक्षाकालस्य प्रागिति प्राग्दी क्षाकालं क्षत्तारं द्वास्थम् ॥ एकपञ्चाशत्तमोऽध्यायः ॥ 51 ॥

अध्यायः 052

अग्नौ सर्पपतनम् ॥ 1 ॥

सौतिरुवाच ।
ततः कर्म प्रववृते सर्पसत्रविधानतः ।
पर्यक्रामंश्च विदिवत्स्वे स्वे कर्मणि याजकाः ॥
प्रावृत्य कृष्णवासांसि धूम्रसंरक्तलोचनाः ।
जुहुवुर्मन्त्रवच्चैव समिद्धं जातवेदसम् ॥
कम्पयन्तश्च सर्वेषामुरगाणां मनांसि च ।
सर्पानाजुहुवुस्तत्र सर्वानग्निमुखे तदा ॥
ततः सर्पाः समापेतुः प्रदीप्ते हव्यवाहने ।
विचेष्टमानाः कृपणमाह्वयन्तः परस्परम् ॥
विस्फुरन्तः श्वसन्तश्च वेष्टयन्तः परस्परम् ।
पुच्छैः शिरोभिश्च भृशं चित्रभानुं प्रपेदिरे ॥
श्वेताः कृष्णाश्च नीलाश्च स्थविराः शिशवस्तथा ।
नदन्तो विविधान्नादान्पेतुर्दीप्ते विभावसौ ॥
क्रोशयोजनमात्रा हि गोकर्णस्य प्रमाणतः ।
पतन्त्यजस्रं वेगेन वह्नावग्निमतां वर ॥
एवं शतसहस्राणि प्रयुतान्यर्बुदानि च ।
अवशानि विनष्टानि पन्नगानां तु तत्र वै ॥
तुरगा इव तत्रान्ये हस्तिहस्ता इवापरे ।
मत्ता इव च मातङ्गा महाकाया महाबलाः ॥
उच्चावचाश्च बहवो नानावर्णा विषोल्बणाः । घोराश्च परिघप्रख्या दन्दशूका महाबलाः ।
प्रपेतुरग्नावुरगा मातृवाग्दण्डपीडिताः ॥ ॥

इति श्रीमन्माहाभारते आदिपर्वणि आस्तीकपर्वणि द्विपञ्चाशत्तमोऽध्यायः ॥ 52 ॥

1-52-1 पर्यक्रामन् पराक्रान्तवन्तः ॥ 1-52-2 मन्त्रवन्मन्त्रयुक्तं यथा स्यात्तथा ॥ 1-52-3 आजुहुवुः आहूतवन्तः ॥ 1-52-5 चित्रभानुमग्निम् ॥ 1-52-7 प्रमाणतः प्रमाणं प्राप्य ॥ द्विपञ्चाशत्तमोऽध्यायः ॥ 52 ॥

अध्यायः 053

ऋत्विगादिनामकथनम् ॥ 1 ॥ इन्द्रकृतं तक्षकाश्वासनम् ॥ 2 ॥ वासुकेः स्वभगिन्या संवादः ॥ 3 ॥

शौनक उवाच ।
सर्पसत्रे तदा राज्ञः पाण्डवेयस्य धीमतः ।
जनमेजयस्य के त्वासन्नृत्विजः परमर्षयः ॥
के सदस्या बभूवुश्च सर्पसत्रे सुदारुणे ।
विषादजननेऽत्यर्थं पन्नगानां महाभय ॥
सर्वं विस्तरशस्तात भवाञ्छंसितुमर्हति ।
सर्पसत्रविधानज्ञविज्ञेयाः के च सूतज ॥
सौतिरुवाच ।
हन्त ते कथयिष्यामि नामानीह मनीषिणाम् ।
ये ऋत्विजः सदस्याश्च तस्यासन्नृपतेस्तदा ॥
तत्र होता बभूवाथ ब्राह्मणश्चण्डभार्गवः ।
च्यवनस्यान्वये ख्यातो जातो वेदविदां वरः ॥
उद्गाता ब्राह्मणो वृद्धो विद्वान्कौत्सौऽथ जैमिनिः ।
ब्र्हमाऽभवच्छार्ङ्गरवोऽथाध्वर्युश्चापि पिङ्गलः ॥
सदस्यश्चाभवद्व्यासः पुत्रशिष्यसहायवान् ।
उद्दालकः प्रमतकः श्वेतकेतुश्च पिङ्गलः ॥
असितो देवलश्चैव नारदः पर्वतस्तथा ।
आत्रेयः कुम्डजठरौ द्विजः कालघटस्तथा ॥
वात्स्यः श्रुतश्रवा वृद्धो जपस्वाध्यायशीलवान् ।
कोहलो देवशर्मा च मौद्गल्यः समसौरभः ॥
एते चान्ये च बहवो ब्राह्मणा वेदपारगाः ।
सदस्याश्चाभवंस्तत्र सत्रे पारिक्षितस्य ह ॥
जुह्वत्स्वृत्विक्ष्वथ तदा सर्पसत्रे महाक्रतौ ।
अहयः प्रापतंस्तत्र घोराः प्राणिभयावहाः ॥
वसामेदोवहाः कुल्या नागानां संप्रवर्तिताः ।
ववौ गन्धश्च तुमुलो दह्यतामनिशं तदा ॥
पततां चैव नागानां धिष्ठितानां तथाम्बरे ।
अश्रूयतानिशं शब्दः पच्यतां चाग्निना भृशम् ॥
तक्षकस्तु स नागेन्द्रः पुरंदरनिवेशनम् ।
गतः श्रुत्वैव राजानं दीक्षितं जनमेजयम् ॥
ततः सर्वं यथावृत्तमाख्याय भुजगोत्तमः ।
अगच्छच्छरणं भीत आगस्कृत्वा पुरंदरम् ॥
तमिन्द्रः प्राह सुप्रीतो न तवास्तीह तक्षक ।
भयं नागेन्द्र तस्माद्वै सर्पसत्रात्कदाचन ॥
प्रसादितो मया पूर्वं तवार्थाय पितामहः ।
तस्मात्तव भयं नास्ति व्येतु तेनसो ज्वरः ॥
सौतिरुवाच ।
एवमाश्वासितस्तेन ततः स भुजगोत्तमः ।
उवास भवने तस्मिञ्शक्रस्य मुदितः सुखी ॥
अजस्रं निपतत्स्वग्नौ नागेषु भृशदुःखितः ।
अल्पशेषपरीवारो वासुकिः पर्यतप्यत ॥
कश्मलं चाविशद्धोरं वासुकिं पन्नगोत्तमम् ।
स घूर्णमानहृदयो भगिनीमिदमब्रवीत् ॥
दह्यन्तेऽङ्गानि मे भद्रे न दिशः प्रतिभान्ति माम् ।
सीदामीव च संमोहाद्धूर्णतीव च मे मनः ॥
दृष्टिर्भ्राम्यति मेऽतीव हृदयं दीर्यतीव च ।
पतिष्याम्यवशोऽद्याहं तस्मिन्दीप्ते विभावसौ ॥
पारिक्षितस्य यज्ञोऽसौ वर्ततेऽस्मज्जिघांसया ।
व्यक्तं मयाऽभिगन्तव्यं प्रेतराजनिवेशनम् ॥
अयं स कालः संप्राप्तो यदर्थमसि मे स्वसः ।
जरत्करौ(पुरा)मयादत्तात्रायस्वास्मान्सबान्धवान् ॥
आस्तीकः किल यज्ञं तं वर्तन्तं भुजगोत्तमे ।
प्रतिषेत्स्यति मां पूर्वं स्वयमाह पितामहः ॥
तद्वत्से ब्रूहि वत्सं स्वं कुमारं वृद्धसंमतम् ।
ममाद्य त्वं सभृत्यस्य मोक्षार्थं वेदवित्तमम् ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि त्रिपञ्चाशत्तमोऽध्यायः ॥ 53 ॥

1-53-2 सदस्या उपद्रष्टारः ॥ 1-53-3 विधानज्ञेषु विज्ञेयाः श्रेष्ठाः ॥ 1-53-13 पच्यतां पच्यमानानाम् ॥ 1-53-15 आगः अपरांध कृत्वा ॥ त्रिपञ्चाशत्तमोऽध्यायः ॥ 53 ॥

अध्यायः 054

आस्तीकस्य स्वमात्रा सवादः । वासुकेराश्वासनं च ॥ 1 ॥ आस्तीकस्य सर्पसत्रं प्रति गमनम् ॥ 2 ॥

सौतिरुवाच ।
तत आहूय पुत्रं स्वं जरत्कारुर्भुजंगमा ।
वासुकेर्नागराजस्य वचनादिदमब्रवीत् ॥
अहं तव पितुः पुत्र भ्रात्रा दत्ता निमित्ततः ।
कालः स चायं संप्राप्तस्तत्कुरुष्व यथातथम् ॥
आस्तीक उवाच ।
किंनिमित्तं मम पितुर्दत्ता त्वं मातुलेन मे ।
तन्ममाचक्ष्व तत्त्वेन श्रुत्वा कर्ताऽस्मि तत्तथा ॥
सौतिरुवाच ।
तत आचष्ट सा तस्मै बान्धवानां हितैषिणी ।
भगिनी नागराजस्य जरत्कारुरविक्लबा ॥
जरत्कारुरुवाच ।
पन्नगानामशेषाणां माता कद्रूरिति श्रुता ।
तया शप्ता रुषितया सुता यस्मान्निबोध तत् ॥
उच्चैः श्रवाः सोऽश्वराजो यन्मिथ्या न कृतो मम ।
विनतार्थाय पणिते दासभावाय पुत्रकाः ॥
जनमेजयस्य वो यज्ञे धक्ष्यत्यनिलसारथिः ।
तत्र पञ्चत्वमापन्नाः प्रेतलोकं गमिष्यथ ॥
तां च शप्तवतीं देवः साक्षाल्लोकपितामहः ।
एवमस्त्विति तद्वाक्यं प्रोवाचानु मुमोद च ॥
वासुकिश्चापि तच्छ्रुत्वा पितामहवचस्तदा ।
अमृते मथिते तात देवाञ्छरणमीयिवान् ॥
सिद्धार्थाश्च सुराः सर्वे प्राप्यामृतमनुत्तमम् ।
भ्रातरं मे पुरस्कृत्य पितामहमुपागमन् ॥
ते तं प्रसादयामासुः सुराः सर्वेऽब्जसंभवम् ।
राज्ञा वासुकिना सार्धं शापोऽसौन भवेदिति ॥
देवा ऊचुः ।
वासुकिर्नागराजोऽयं दुःखितो ज्ञातिकारणात् ।
अभिशापः स मातुस्तु भगवन्न भवेत्कथम् ॥
ब्रह्मोवाच ।
जरत्कारुर्जरत्कारुं यां भार्यां समवाप्स्यति ।
तत्र जातो द्विजः शापान्मोक्षयिष्यति पन्नगान् ॥
एतच्छ्रुत्वा तु वचनं वासुकिः पन्नगोत्तमः ।
प्रादान्माममरप्रख्य तव पित्रे महात्मने ॥
प्रागेवानागते काले तस्मात्त्व मय्यजायथाः ।
अयं स कालः संप्राप्तो भयान्नस्त्रातुमर्हसि ॥
भ्रातरं चापि मे तस्मात्त्रातुमर्हसि पावकात् । न मोघं तु कृतं तत्स्याद्यदहं तव धीमते ।
पित्रे दत्ता विमोक्षार्थं कथं वा पुत्र मन्यसे ॥
सौतिरुवाच ।
एवमुक्तस्तथेत्युक्त्वा सास्तीको मातरं तदा ।
अब्रवीद्दुःखसंतप्तं वासुकिं जीवयन्निव ॥
अहं त्वां मोक्षयिष्यामि वासुके पन्नगोत्तम ।
तस्माच्छापान्महासत्त्व सत्यमेतद्ब्रवीमि ते ॥
भव स्वस्थमना नाग न हि ते विद्यते भयम् ।
प्रयतिष्ये तथा राजन्यथा श्रेयो भविष्यति ॥
न मे वागनृतं प्राह स्वैरेष्वपि कुतोऽन्यथा ।
तं वै नृपवरं गत्वा दीक्षितं जनमेजयम् ॥
वाग्भिर्मङ्गलयुक्ताभिस्तोषयिष्येऽद्य मातुल ।
यथा स यज्ञो नृपतेर्निवत्रिष्यति सत्तम ॥
स संभावय नागेन्द्र मयि सर्वं महामते ।
न ते मयि मनो जातु मिथ्या भवितुमर्हति ॥
वासुकिरुवाच ।
आस्तीक परिघूर्णामि हृदयं मे विदीर्यते ।
दिशो न प्रतिजानामि ब्रह्मदण्डनिपीडितः ॥
आस्तीक उवाच ।
न सन्तापस्त्वया कार्यः कथंचित्पन्नगोत्तम ।
प्रदीप्ताग्नेः समुत्पन्नं नाशयिष्यामि ते भयम् ॥
ब्रह्मदण्डं महाघोरं कालाग्निसमतेजसम् ।
नाशयिष्यामि माऽत्र त्वं भयंकार्षीः कथंचन ॥
सौतिरुवाच ।
ततः स वासुकेर्घोरमपनीय मनोज्वरम् ।
आधाय चात्मनोऽङ्गेषु जगाम त्वरितो भृशम् ॥
जनमेजयस्य तं यज्ञं सर्वैः समुदितं गुणैः ।
मोक्षाय भुजगेन्द्राणामास्तीको द्विजसत्तमः ॥
स गत्वाऽपश्यदास्तीको यज्ञायतनमुत्तमम् ।
वृतं सदस्यैर्बहुभिः सूर्यवह्निसमप्रभैः ॥
स तत्र वारितो द्वास्थैः प्रविशन्द्विजसत्तमः ।
अभितुष्टाव तं यज्ञं प्रवेशार्थी परंतपः ॥
स प्राप्य यज्ञायतनं वरिष्ठं द्विजोत्तमः पुण्यकृतां वरिष्ठः ।
तुष्टाव राजानमनन्तकीर्ति- मृत्विक्सदस्यांश्च तथैव चाग्निम् ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि चतुःपञ्चाशत्तमोऽध्यायः ॥ 54 ॥

1-54-4 आचष्ट व्यक्तं कथितवती । अविक्लबा अनाकुला ॥ 1-54-12 अभिशापः शापः ॥ 1-54-17 आस्तीक इति पादपूरणार्थः सुलोपः ॥ 1-54-22 मयि अयमस्मान्मोचयिष्यत्येवरूपो मनःसंकल्पो जातु कदापि मिथ्याऽन्यथा न ॥ 1-54-23 ब्रह्म वेदः मातृदेवो भवेति मातुराज्ञकरत्वविधानपरस्तदन्यथाकरणप्रयुक्तो दण्डो मातृशापरूपो ब्रह्मदण्डः ॥ 1-54-26 वासुकेश्चिन्ताज्वरं स्वयं गृहीत्वेत्यर्थः ॥ चतुःपञ्चाशत्तमोऽध्यायः ॥ 54 ॥

अध्यायः 055

आस्तीककृता जनमेजययज्ञप्रशंसा ॥ 1 ॥

आस्तीक उवाच ।
सोमस्य यज्ञो वरुणस्य यज्ञः प्रजापतेर्यज्ञ आसीत्प्रयागे ।
तथा यज्ञोऽयं तव भारताग्र्य पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः ॥
शक्रस्य यज्ञः शतसङ्ख्य उक्त- स्तथापरं तुल्यसङ्ख्यं शतं वै ।
तथा यज्ञोऽयं तव भारताग्र्य पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः ॥
यमस्य यज्ञो हरिमेधसश्च यथा यज्ञो रन्तिदेवस्य राज्ञः ।
तथा यज्ञोऽयं तव भारताग्र्य पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः ॥
गयस्य यज्ञः शशबिन्दोश्च राज्ञो यज्ञसल्तथा वैश्रवणस्य राज्ञः ।
तथा यज्ञोऽयं तव भारताग्र्य पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः ॥
नृगस्य यज्ञस्त्वजमीढस्य चासी- द्यथा यज्ञो दाशरथेश्च राज्ञः ।
तथा यज्ञोऽयं तव भारताग्र्य पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः ॥
यज्ञः श्रुतो दिवि देवस्य सूनो- र्युधिष्ठिरस्याजमीढस्य राज्ञः ।
तथा यज्ञोऽयं तव भारताग्र्य पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः ॥
कृष्णस्य यज्ञः सत्यवत्याः सुतस्य स्वयं च कर्म प्रचकार यत्र ।
तथा यज्ञोऽयं तव भारताग्र्य पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः ॥
इमे च ते सूर्यसमानवर्चसः समासते वृत्रहणः क्रतुं यथा ।
नैषां ज्ञातुं विद्यते ज्ञानमद्य दत्तं येभ्यो न प्रणश्येत्कदाचित् ॥
ऋत्विक्समो नास्ति लोकेषु चैव द्वैपायनेनेति विनिश्चितं मे ।
एतस्य शिष्या हि क्षितिं संचरन्ति सर्वर्त्विजः कर्मसु स्वेषु दक्षाः ॥
विभावसुश्चित्रभानुर्महात्मा हिरण्यरेता हुतभुक्कृष्णवर्त्मा ।
प्रदक्षिमावर्तशिखः प्रदीप्तो हव्यं तवेदं हुतभुग्वष्टि देवः ॥
नैह त्वदन्यो विद्यते जीवलोके समो नृपः पालयिता प्रजानाम् ।
धृत्या च ते प्रतीमनाः सदाहं त्वं वा वरुणो धर्मराजो यमो वा ॥
शक्रः साक्षाद्वज्रपाणिर्यथेह त्राता लोकेऽस्मिंस्त्वं तथेह प्रजानाम् ।
मतस्त्वं नः पुरुषेन्द्रेह लोके न च त्वदन्यो भूपतिरस्ति जज्ञे ॥
खट्वाङ्गनाभगदिलीपकल्प ययातिमान्धातृसमप्रभाव ।
आदित्यतेजःप्रतिमानतेजा भीष्मो यथा राजसि सुव्रतस्त्वम् ॥
वाल्मीकिवत्ते निभृतं स्ववीर्यं वसिष्ठवत्ते नियतश्च कोपः ।
प्रभुत्वमिन्द्रत्वसमं मतं मे द्युतिश्च नारायणवद्विभाति ॥
यमो यथा धर्मविनिश्चयज्ञः कृष्णो यथा सर्वगुणोपपन्नः ।
श्रियां निवासोऽसि यथा वसूनां निधानभूतोऽसि तथा क्रतूनाम् ॥
दम्भोद्भवेनासि समो बलेन रामो यथा शस्त्रविदस्त्रविच्च ।
और्वत्रिताभ्यामसि तुल्यतेजा दुष्प्रेक्षणीयोऽसि भगीरथेन ॥
सौतिरुवाच ।
एवं स्तुताः सर्व एव प्रसन्ना राजा सदस्या ऋत्विजो हव्यवाहः ।
तेषां दृष्ट्वा भावितानीङ्गितानि प्रोवाच राजा जनमेजयोऽथ ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि पञ्चपञ्चाशत्तमोऽध्यायः ॥ 55 ॥

1-55-6 देवस्य धर्मराजस्य ॥ 1-55-8 ज्ञानशब्दः कर्मव्युत्पन्नो ज्ञेयवचनः अद्य संप्रति ज्ञातुं ज्ञेयं न विद्यते सर्वस्य ज्ञातत्वादित्यर्थः ॥ 1-55-10 अग्निं स्तौति विभावसुरिति । वष्टि कामयते ॥ 1-55-12 न च त्वदन्यस्त्राता भूपतिरस्ति इदानीं न च जज्ञे प्रागपि ॥ 1-55-14 निभृतं गुप्तं । नियतो निगृहीतः ॥ 1-55-15 वसवोऽष्टौ तत्संबन्धिनीनां श्रियाम् ॥ 1-55-16 रामो भार्गवः और्वत्रितावृषी ॥ 1-55-17 भावितानि मनसि संकल्पितानि । भारतस्त्विङ्गितानीति पाठे भारतो राजा भरतवंशजत्वात् ॥ पञ्चपञ्चाशत्तमोऽध्यायः ॥ 55 ॥

अध्यायः 056

प्रशंसया तुष्टस्य जनमेजयस्य ऋत्विग्भिः संवादः ॥ 1 ॥ ऋत्विगाह्वानेन सतक्षकस्येन्द्रस्यागमनम् ॥ 2 ॥ भयेनेन्द्रे पलायितेऽग्निसमीपे तक्षकागमनम् ॥ 3 ॥ आस्तीकस्य यज्ञसमाप्तिवरयाचनम् ॥ 4 ॥

जनमेजय उवाच ।
बालोऽप्ययं स्थविर इवावभाषते नायं बालः स्थविरोऽयं मतो मे ।
इच्छाम्यहं वरमस्मै प्रदातुं तन्मे विप्राः संविदध्वं यथावत् ॥
सदस्या ऊचुः ।
बालोऽपि विप्रो मान्य एवेह राज्ञा `यश्चाविद्वान्यश्च विद्वान्यथावत् ।
प्रसादयैनं त्वरितो नरेन्द्र द्विजातिवर्यं सकलार्थसिद्धये ।' सर्वान्कामांस्त्वत्त एवार्हतेऽद्य यथा च नस्तक्षक एति शीघ्रम् ॥
सौतिरुवाच ।
व्याहर्तुकामे वरदे नृपे द्विजं वरं वृणीष्वेति ततोऽब्युवाच ।
होता वाक्यं नातिहृष्टान्तरात्मा कर्मण्यस्मिंस्तक्षको नैति तावत् ॥
जनमेजय उवाच ।
यथा चेदं कर्म समाप्यते मे यथा च वै तक्षक एति शीघ्रम् ।
तथा भवन्तः प्रयतन्तु सर्वे परं शक्त्या स हि मे विद्विषाणः ॥
ऋत्विज ऊचुः ।
यथा शस्त्राणि नः प्राहुर्यथा शंसति पावकः ।
इन्द्रस्य भवने राजंस्तक्षको भयपीडितः ॥
यथा सूतो लोहिताक्षो महात्मा पौराणिको वेदितवान्पुरस्तात् ।
स राजानं प्राह पृष्टस्तदानीं यथाहुर्विप्रास्तद्वदेतन्नृदेव ॥
पुराणमागम्य ततो ब्रवीम्यहं दत्तं तस्मै वरमिन्द्रेण राजन् ।
वसेह त्वं मत्सकाशे सुगुप्तो न पावकस्त्वां प्रदहिष्यतीति ॥
एतच्छ्रुत्वा दीक्षितस्तप्यमान आस्ते होतारं चोदयन्कर्म काले ।
`इन्द्रेण सार्धं तक्षकं पातयध्वं विभावसौ न विमुच्येत नागः ।' होता च यत्तोऽस्याजुहावाथ मन्त्रै- रथो महेन्द्रः स्वयमाजगाम ॥
`आयातु चेन्द्रोऽपि सतक्षकः पते- द्विभावसौ नागराजेन तूर्णम् ।
जम्भस्य हन्तेति जुहाव होता तदा जगामाहिदत्ताभयः प्रभुः ॥'
विमानमारुह्य महानुभावः सर्वैर्देवैः परिसंस्तूयमानः ।
बलाहकैश्चाप्यनुगम्यमानो विद्याधरैरप्सरसां गणैश्च `नागस्य नाशो मम चैव नाशो भविष्यतीत्येव विचिन्तयानः ॥'
तस्योत्तरीये निहितः स नागो भयोद्विग्नः शर्म नैवाभ्यगच्छत् ।
ततो राजा मन्त्रविदोऽब्रवीत्पुनः क्रुद्धो वाक्यं तक्षकस्यान्तमिच्छन् ॥
जनमेजय उवाच ।
इन्द्रस्य भवने विप्रा यदि नागः स तक्षकः ।
तमिन्द्रेणैव सहितं पातयध्यं विभावसौ ॥
सौतिरुवाच ।
जनमेजयेन राज्ञा तु नोदितस्तक्षकं प्रति ।
होता जुहाव तत्रस्थं तक्षकं पन्नगं तथा ॥
हूयमाने तथा चैव तक्षकः सपुरन्दरः ।
आकाशे ददृशे तत्र क्षणेन व्यथितस्तदा ॥
पुरन्दरस्तु तं यज्ञं दृष्ट्वोरुभयमाविशत् ।
हित्वा तु तक्षकं त्रस्तः स्वमेव भवनं ययौ ॥
इन्द्रे गते तु राजेन्द्र तक्षको भयमोहितः । मन्त्रशक्त्या पावकार्चिस्समीपमवशो गतः ।
`तं दृष्ट्वा ऋत्विजस्तत्र वचनं चेदमब्रुवन्' ॥
ऋत्विज ऊचुः ।
अयमायाति तूर्णं स तक्षकस्ते वशं नृप ।
श्रूयतेऽस्य महान्नादो नदतो भैरवं रवम् ॥
नूनं मुक्तो वज्रभृता स नागो भ्रष्टो नाकान्मन्त्रवित्रस्तकायः ।
घूर्णन्नाकाशे नष्टसंज्ञोऽभ्युपैति तीव्रान्निश्वासान्निश्वसन्पन्नगेन्द्रः ॥
वर्तते तव राजेन्द्र कर्मैतद्विधिवत्प्रभो ।
अस्मै तु द्विजमुख्याय वरं त्वं दातुमर्हसि ॥
जनमेजय उवाच ।
बालाभिरूपस्य तवाप्रमेय वरं प्रयच्छामि यथानुरूपम् ।
वृणीष्व यत्तेऽभिमतं हृदि स्थितं तत्ते प्रदास्याम्यपि चेददेयम् ॥
सौतिरुवाच ।
पतिष्यमाणे नागेन्द्रे तक्षके जातवेदसि ।
इदमन्तरमित्येवं तदास्तीकोऽभ्यचोदयत् ॥
आस्तीक उवाच ।
वरं ददासि चेन्मह्यं वृणोमि जनमेजय ।
सत्रं ते विरमत्वेतन्न पतेयुरिहोरगाः ॥
एवमुक्तस्तदा तेन ब्रह्मन्पारिक्षितस्तु सः ।
नातिहृष्टमनाश्चेदमास्तीकं वाक्यमब्रवीत् ॥
सुवर्णं रजतं गाश्च यच्चान्यन्मन्यसे विभो ।
तत्ते दद्यां वरं विप्र न निवर्तेत्क्रतुर्मम ॥
आस्तीक उवाच ।
सुवर्णं रजतं गाश्च न त्वां राजन्वृणोम्यहम् ।
सत्रं ते विरमत्वेतत्स्वस्ति मातृकुलस्य नः ॥
सौतिरुवाच ।
आस्तीकेनैवमुक्तस्तु राजा पारिक्षितस्तदा ।
पुनःपुनरुवाचेदमास्तीकं वदतां वरः ॥
अन्यं वरय भद्रं ते वरं द्विज्वरोत्तम ।
अयाचत न चाप्यन्यं वरं स भृगुनन्दन ॥
ततो वेदविदस्तात सदस्याः सर्व एव तम् ।
राजानमूचुः सहिता लभतां ब्राह्मणो वरम् ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि षट्पञ्चाशत्तमोऽध्यायः ॥ 56 ॥

1-56-1 संविदध्वमैकमत्यं कुरुध्वम् । संवदध्वमित्यपि पाठः ॥ 1-56-4 विद्विषाणः विद्वेषं कृतवान् । लिटः कान्च । अभ्यासलोप आर्षः ॥ 1-56-5 शस्त्राणि शंसनमन्त्रदेवताः ॥ 1-56-7 पुराणं पूर्वकल्पीयवृत्तान्तम् । आगम्य ज्ञात्वा ॥ 1-56-15 भयं आविशत् प्राप्तवान् ॥ 1-56-20 हे बाल ॥ षट्पञ्चाशत्तमोऽध्यायः ॥ 56 ॥

अध्यायः 057

सर्पसत्रे हतानां नागानां नामकथनम् ॥ 1 ।

शौनक उवाच ।
ये सर्पाः सर्पसत्रेऽस्मिन्पतिता हव्यवाहने ।
तेषां नामानि सर्वेषां श्रोतुमिच्छामि सूतज ॥
सौतिरुवाच ।
सहस्राणि बहून्यस्मिन्प्रयुतान्यर्बुदानि च ।
न शक्यं परिसंख्यातुं बहुत्वाद्द्विजसत्तम ॥
यथास्मृति तु नामानि पन्नगानां निबोध मे ।
उच्यमानानि मुख्यानां हुतानां जातवेदसि ॥
वासुकेः कुलजातांस्तु प्राधान्येन निबोध मे ।
नीलरक्तान्सितान्घोरान्महाकायान्विषोल्बणान् ॥
अवशान्मातृवाग्दण्डपीडितान्कृपणान्हूतान् ।
कोटिशो मानसः पूर्णः शलः पालो हलीमकः ॥
पिच्छलः कौणपश्चक्रः कालवेगः प्रकालनः ।
हिरण्यबाहुः शरणः कक्षकः कालदन्तकः ॥
एते वासुकिजा नागाः प्रविष्टा हव्यवाहने । अन्ये च बहवो विप्र तथा वै कुलसंभवाः ।
प्रदीप्ताग्नौ हुताःसर्वे घोररूपा महाबलाः ॥
तक्षकस्य कुले जातान्प्रवक्ष्यामि निबोध तान् ।
पुच्छाण्डको मण्डलकः पिण्डसेक्ता रभेणकः ॥
उच्छिखः शरभो भङ्गो बिल्वतेजा विरोहणः ।
शिली शलकरो मूकः सुकुमारः प्रवेपनः ॥
मुद्गरः शिशुरोमा च सुरोमा च महाहनुः ।
एते तक्षकजा नागाः प्रविष्टा हव्यवाहनम् ॥
पारावतः पारियात्रः पाण्डरो हरिणः कृशः ।
विहङ्गः शरभो मोदः प्रमोदः संहतापनः ॥
ऐरावतकुलादेते प्रविष्टा हव्यवाहनम् ।
कौरव्यकुलजान्नागाञ्शृणु मे त्वं द्विजोत्तम ॥
एरकः कुण्डलो वेणी वेणीस्कन्धः कुमारकः ।
बाहुकः शृङ्गबेरश्च धूर्तकः प्रातरातकौ ॥
कौरव्यकुलजास्त्वेते प्रविष्टा हव्यवाहनम् ।
धृतराष्ट्रकुले जाताञ्शृणु नागान्यथातथम् ॥
कीर्त्यमानान्मया ब्रह्मन्वातवेगान्विषोल्बणान् ।
शङ्कुकर्णः पिठरकः कुठारमुखसेचकौ ॥
पूर्णाङ्गदः पूर्णमुखः प्रहासः शकुनिर्दरिः ।
अमाहठः कामठकः सुषेणो मानसोऽव्ययः ॥
`अष्टावक्रः कोमलकः श्वसनो मौनवेपगः ।' भैरवो मुण्डवेदाङ्गः पिशङ्गश्चोदपारकः ।
ऋषभो वेगवान्नागः पिण्डारकमहाहनू ॥
रक्ताङ्गः सर्वसारङ्गः समृद्धपटवासकौ ।
वराहको वीरणकः सुचित्रश्चित्रवेगिकः ॥
पराशरस्तरुणको मणिः स्कन्धस्तथाऽऽरुणिः ।
इति नागा मया ब्रह्मन्कीर्तिताः कीर्तिवर्धनाः ॥
प्राधान्येन बहुत्वात्तु न सर्वे परिकीर्तिताः ।
एतेषां प्रसवो यश्च प्रसवस्य च सन्ततिः ॥
न शक्यं परिसंख्यातुं ये दीप्तं पावकं गताः । `द्विशीर्षाः पञ्चशीर्षाश्च सप्तशीर्षास्तथाऽपरे ।
दशशीर्षाः शतशीर्षास्तथान्ये बहुशीर्षकाः' ॥
कालानलविषा घोरा हुताः शतसहस्रशः ।
महाकाया महावेगाः शैलशृङ्गसमुच्छ्रयाः ॥
योजनायामविस्तारा द्वियोजनसमायताः ।
कामरूपाः कामबला दीप्तानलविषोल्बणाः ॥
दग्धास्तत्र महासत्रे ब्रह्मदण्डनिपाडिताः ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि सप्तपञ्चाशत्तमोऽध्यायः ॥ 57 ॥

1-57-23 योजनायमविस्तारा अपि मन्त्रसामर्थ्यात्स्वल्पप्रमाणाः अगस्त्यकरगतसमुद्रवद्वह्नौ प्रवेशयोग्या भवन्ति ॥ सप्तपञ्चाशत्तमोऽध्यायः ॥ 57 ॥

अध्यायः 058

आस्तीकवरप्रदानेन यज्ञसमाप्तिः ॥ 1 ॥ प्रत्यागतस्यास्तीकस्य सर्पेभ्यो वरलाभः ॥ 2 ॥

सौतिरुवाच ।
इदमत्यद्भुतं चान्यदास्तीकस्यानुशुश्रुम ।
तथा वरैश्छन्द्यमाने राज्ञा पारिक्षितेन हि ॥
इन्द्रहस्ताच्च्युतो नागः ख एव यदतिष्ठत ।
ततश्चिन्तापरो राजा बभूव जनमेजयः ॥
हूयमाने भृशं दीप्ते विधिवद्वसुरेतसि ।
न स्म स प्रापतद्वह्नौ तक्षको भयपीडितः ॥
शौनक उवाच ।
किं सूत तेषां विप्राणां मन्त्रग्रामो मनीषिणाम् ।
न प्रत्यभात्तदाऽग्नौ यत्स पपात न तक्षकः ॥
सौतिरुवाच ।
तमिन्द्रहस्ताद्वित्रस्तं विसंज्ञं पन्नगोत्तमम् ।
आस्तीकस्तिष्ठ तिष्ठेति वाचस्तिस्रोऽभ्युदैरयत् ॥
वितस्थे सोऽन्तरिक्षे च हृदयेन विदूयता ।
यथा तिष्ठति वै कश्चित्खं च गां चान्तरा नरः ॥
ततो राजाब्रवीद्वाक्यं सदस्यैश्चोदितो भृशम् ।
काममेतद्भवत्वेवं यथास्तीकस्य भाषितम् ॥
समाप्यतामिदं कर्म पन्नगाः सन्त्वनामयाः ।
प्रीयतामयमास्तीकः सत्यं सूतवचोऽस्तु तत् ॥
ततो हलहलाशब्दः प्रीतिजः समजायत ।
आस्तीकस्य वरे दत्ते तथैवोपरराम च ॥
स यज्ञः पाण्डवेयस्य राज्ञः पारिक्षितस्य ह ।
प्रीतिमांश्चाभवद्राजा भारतो जनमेजयः ॥
ऋत्विग्भ्यः ससदस्येभ्यो ये तत्रासन्समागताः ।
तेभ्यश्च प्रददौ वित्तं शतशोऽथ सहस्रशः ॥
लोहिताक्षाय सूताय तथा स्थपतये विभुः ।
येनोक्तं तस्य तत्राग्रे सर्पसत्रनिवर्तने ॥
निमित्तं ब्राह्मण इति तस्मै वित्तं ददौ बहु ।
दत्त्वा द्रव्यं यथान्यायं भोजनाच्छादनान्वितम् ॥
प्रीतस्तस्मै नरपतिरप्रमेयपराक्रमः ।
ततश्चकारावभृथं विधिदृष्टेन कर्मणा ॥
आस्तीकं प्रेषयामास गृहानेव सुसंस्कृतम् ।
राजा प्रीतमनाः प्रीतं कृतकृत्यं मनीषिणम् ॥
पुनरागमनं कार्यमिति चैनं वचोऽब्रवीत् ।
भविष्यसि सदस्यो मे वाजिमेधे महाक्रतौ ॥
तथेत्युक्त्वा प्रदुद्राव तदास्तीको मुदा युतः ।
कृत्वा स्वकार्यमतुलं तोषयित्वा च पार्थिवम् ॥
स गत्वा परमप्रीतो मातुलं मातरं च ताम् ।
अभिगम्योपसंगृह्य तथा वृत्तं न्यवेदयत् ॥
सौतिरुवाच ।
एतच्छ्रुत्वा प्रीयमाणाः समेता ये तत्रासन्पन्नगा वीतमोहाः ।
आस्तीके वै प्रीतिमन्तो बभूवु- रूचुश्चैनं वरमिष्टं वृमीष्व ॥
भूयोभूयः सर्वशस्तेऽब्रुवंस्तं किं ते प्रियं करवामाद्य विद्वन् ।
प्रीता वयं मोक्षिताश्चैव सर्वे कामं किं ते करवामाद्य वत्स ॥
आस्तीक उवाच ।
सायं प्रातर्ये प्रसन्नात्मरूपा लोके विप्रा मानवा ये परेऽपि ।
धर्माख्यानं ये पठेयुर्ममेदं तेषां युष्मन्नैव किंचिद्भयं स्यात् ॥
तैश्चाप्युक्तो भागिनेयः प्रसन्नै- रेतत्सत्यं काममेवं वरं ते ।
प्रीत्या युक्ताः कामितं सर्वशस्ते कर्तारः स्म प्रवणा भागिनेय ॥
असितं चार्तिमन्तं च सुनीथं चापि यः स्मरेत् ।
दिवा वा यदि वा रात्रौ नास्य सर्पभयं भवेत् ॥
यो जरत्कारुणा जातो जरत्कारौ महावशाः । आस्तीकः सर्पसत्रे वः पन्नगान्योऽभ्यरक्षत ।
तं स्मरन्तं महाभागा न मां हिंसितुमर्हथ ॥
सर्पापसर्प भद्रं ते गच्छ सर्प महाविष ।
जनेमेजयस्य यज्ञान्ते आस्तीकवचनं स्मर ॥
आस्तीकस्य वचः श्रुत्वा यः सर्पो न निवर्तते ।
शतधा भिद्यते मूर्धा शिंशवृक्षफलं यथा ॥
सौतिरुवाच ।
स एवमुक्तस्तु तदा द्विजेन्द्रः समागतैस्तैर्भुजगेन्द्रमुख्यैः ।
संप्राप्य प्रीतिं विपुलां महात्मा ततो मनो गमनायाथ दध्रे ॥
`इत्येवं नागराजोऽथ नागानां मध्यगस्तदा । उक्त्वा सहैव तैः सर्पैः स्वमेव भवनं ययौ ॥'
मोक्षयित्वा तु भुजगान्सर्पसत्राद्द्विजोत्तमः ।
जगाम काले धर्मात्मा दिष्टान्तं पुत्रपौत्रवान् ॥
इत्याख्यानं मयास्तीकं यथावत्तव कीर्तितम् ।
यत्कीर्तयित्वा सर्पेभ्यो न भयं विद्यते क्वचित् ॥
सौतिरुवाच ।
यथा कथितवान्ब्रह्मन्प्रमतिः पूर्वजस्तव ।
पुत्राय रुरवे प्रीतः पृच्छते भार्गवोत्तम ॥
यद्वाक्यं श्रुतवांश्चाहं तथा च कथितं मया ।
आस्तीकस्य कवेर्विप्र श्रीमच्चरितमादितः ॥
यन्मां त्वं पृष्टवान्ब्रह्मञ्श्रुत्वा डुण्डुभभाषितम् ।
व्येतु ते सुमहद्ब्रह्मन्कौतूहलमरिन्दम ॥
श्रुत्वा धर्मिष्ठमाख्यानमास्तीकं पुण्यवर्धनम् । `सर्वपापविनिर्मुक्तो दीर्घमायुरवाप्नुयात् ॥' ॥

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि अष्टपञ्चाशत्तमोऽध्यायः ॥ 58 ॥ ॥ समाप्तं चास्तीकपर्व ॥

1-58-6 स्वं च गांचान्तराद्यावापृथिव्योर्मध्ये अन्तरिक्ष इत्यर्थः ॥ 1-58-12 स यज्ञ उपररामेति पूर्वेणान्वयः ॥ 1-58-14 अवभृथं यज्ञसमाप्तिं ॥ 1-58-15 सुसंस्कृतं वस्त्रालङ्करणादिभिः शोभितम् ॥ 1-58-22 प्रवणा नम्राः ॥ 1-58-29 दिष्टान्तं मरणम् ॥ अष्टपञ्चाशत्तमोऽध्यायः ॥ 58 ॥

अध्यायः 059

(अथांशावतरणपर्व ॥ 6 ॥)

सौतेर्भारतकथनप्रतिज्ञा ॥ 1 ॥

शौनक उवाच ।
भृगुवंशात्प्रभृत्येव त्वया मे कीर्तितं महत् ।
आख्यानमखिलं तात सौते प्रीतोऽस्मितेन ते ॥
प्रक्ष्यामि चैव भूयस्त्वां यथावत्सूतनन्दन ।
याः कथा व्याससंपन्नास्ताश्च भूयो विचक्ष्व मे ॥
तस्मिन्परमदुष्पारे सर्पसत्रे महात्मनाम् ।
कर्मान्तरेषु यज्ञस्य सदस्यानां तथाऽध्वरे ॥
या बभूवुः कथाश्चित्रा येष्वर्थेषु यथातथम् ।
त्वत्त इच्छामहे श्रोतुं सौते त्वं वै प्रचक्ष्व नः ॥
सौतिरुवाच ।
कर्मान्तरेष्वकथयन्द्विजा वेदाश्रयाः कथाः ।
व्यासस्त्वकथयच्चित्रमाख्यानं भारतं महत् ॥
शौनक उवाच ।
महाभारतमाख्यानं पाण्डवानां यशस्करम् ।
जनमेजयेन पृष्टः सन्कृष्णद्वैपायनस्तदा ॥
श्रावयामास विधिवत्तदा कर्मान्तरे तु सः ।
तामहं विधिवत्पुण्यां श्रोतुमिच्छामि वै कथाम् ॥
मनःसागरसंभूतां महर्षेर्भावितात्मनः ।
कथयस्व सतां श्रेष्ठ सर्वरत्नमयीमिमाम् ॥
सौतिरुवाच ।
हन्त ते कथयिष्यामि महदाख्यानमुत्तमम् ।
कृष्णद्वैपायनमतं महाभारतमादितः ॥
शृणु सर्वमशेषेण कथ्यमानं मया द्विज ।
शंसितुं तन्महान्हर्षो ममापीह प्रवर्तते ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि अंशावतरणपर्वणि एकोनषष्टितमोऽध्यायः ॥ 59 ॥

अध्यायः 060

भारतकथानुबन्धः ॥ 1 ॥

सौतिरुवाच ।
श्रुत्वा तु सर्पसत्राय दीक्षितं जनमेजयम् ।
अभ्यगच्छदृषिर्विद्वान्कृष्णद्वैपायनस्तदा ॥
जनयामास यं काली शक्तेः पुत्रात्पराशरात् ।
कन्यैव यमुनाद्वीपे पाण्डवानां पितामहम् ॥
जातमात्रश्च यः सद्य इष्ट्या देहमवीवृधत् ।
वेदांश्चाधिजगे साङ्गन्सेतिहासान्महायशाः ॥
यं नाति तपसा कश्चिन्न वेदाध्ययनेन च ।
न व्रतैर्नोपवासैश्च न प्रसूत्या न मन्युना ॥
विव्यासैकं चतुर्धा यो वेदं वेदविदां वरः ।
परावरज्ञो ब्रह्मर्षिः कविः सत्यव्रतः शुचिः ॥
यः पाण्डुं धृतराष्ट्रं च विदुरं चाप्यजीजनत् ।
शन्तनोः संततिं तन्वन्पुण्यकीर्तिर्महायशाः ॥
जनमेजयस्य राजर्षेः स महात्मा सदस्तथा ।
विवेश सहितः शिष्यैर्वेदवेदाङ्गपारगैः ॥
तत्र राजानमासीनं ददर्श जनमेजयम् ।
वृतं सदस्यैर्बहुभिर्देवैरिव पुरन्दरम् ॥
तथा मूर्धाभिषिक्तैश्च नानाजनपदेश्वरैः ।
ऋत्विग्भिर्ब्रह्मकल्पैश्च कुशलैर्यज्ञसंस्तरे ॥
जनमेजयस्तु राजर्षिर्दृष्ट्वा तमृषिमागतम् ।
सगणोऽभ्युद्ययौ तूर्णं प्रीत्या भरतसत्तमः ॥
काञ्चनं विष्टरं तस्मै सदस्यानुमतः प्रभुः ।
आसनं कल्पयामास यथा शक्रो बृहस्पतेः ॥
तत्रोपविष्टं वरदं देवर्षिगणपूजितम् ।
पूजयामास राजेन्द्रः शास्त्रदृष्टेन कर्मणा ॥
पाद्यमाचमनीयं च अर्घ्यं गां च विधानतः ।
पितामहाय कृष्णाय तदर्हाय न्यवेदयत् ॥
प्रतिगृह्य तु तां पूजां पाम्डवाज्जनमेजयात् ।
गां चैव समनुज्ञाय व्यासः प्रीतोऽभवत्तदा ॥
तथा च पूजयित्वा तं प्रणयात्प्रतितामहम् ।
उपोपविश्य प्रीतात्मा पर्यपृच्छदनामयम् ॥
भगवानापि तं दृष्ट्वा कुशलं प्रतिवेद्य च ।
सदस्यैः पूजितः सर्वैः सदस्यान्प्रत्यपूजयत् ॥
ततस्तु सहितः सर्वैः सदस्यैर्जनमेजयः ।
इदं पश्चाद्द्विजश्रेष्ठं पर्यपृच्छत्कृताञ्जलिः ॥
जनमेजय उवाच ।
कुरूणां पाण्डवानां च भवान्प्रत्यक्षदर्शिवान् ।
तेषां चरितमिच्छामि कथ्यमानं त्वया द्विज ॥
कथं समभवद्भेदस्तेषामक्लिष्टकर्मणाम् ।
तच्च युद्धं कथं वृत्तं भूतान्तकरणं महत् ॥
पितामहानां सर्वेषां दैवेनाविष्टचेतसाम् । कार्त्स्न्येनैतन्ममाचक्ष्व यथा वृत्तं द्विजोत्तम ।
`इच्छामि तत्त्वतः श्रोतुं भगवन्कुशलो ह्यसि' ॥
सौतिरुवाच ।
तस्य तद्वचनं श्रुत्वा कृष्णद्वैपायनस्तदा ।
शशास शिष्यमासीनं वैशंपायनमन्तिके ॥
व्यास उवाच ।
कुरूणां पाण्डवानां च यथा भेदोऽभवत्पुरा ।
तदस्मै सर्वमाचक्ष्व यन्मत्तः श्रुतवानसि ॥
गुरोर्वचनमाज्ञाय स तु विप्रर्षभस्तदा ।
आचचक्षे ततः सर्वमितिहासं पुरातनम् ॥
राज्ञे तस्मै सदस्येभ्यः पार्थिवेभ्यश्च सर्वशः ।
भेदं सर्वविनाशं च कुरुपाण्डवयोस्तदा ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि अंशावतरणपर्वणि षष्टितमोऽध्यायः ॥ 60 ॥

1-60-2 काली सत्यवती ॥ 1-60-3 इष्ट्या इच्छया देहं सद्योऽवीवृधत् वर्धितवान् ॥ 1-60-4 यं व्यासम् । तपआदिना कश्चिन्नाति नात्येति नातिशेते ॥ 1-60-15 उपोपविश्य समीपे उपविश्य ॥ 1-60-16 प्रतिवेद्य प्रतिख्याप्य । अत्र पूजा स्तुतिरेव ॥ 1-60-17 इदं वक्ष्यमाणम् ॥ 1-60-18 प्रत्यक्षदर्शिवान् प्रत्यक्षदर्शी ॥ 1-60-19 भेदो वैरम् ॥ 1-60-20 पितामहानां प्रपितामहानाम् ॥ षष्टितमोऽध्यायः ॥ 60 ॥

अध्यायः 061

वैशंपायनेन जनमेजयाय संक्षिप्य भारतकथाकथनम् ॥ 1 ॥

वैशंपायन उवाच ।
`शृणु राजन्यथा वीरा भ्रातरः पञ्च पाण्डवाः । विरोधमन्वगच्छन्त धार्तराष्ट्रैर्दुरात्मभिः ॥'
गुरवे प्राङ्नमस्कृत्य मनोबुद्धिसमाधिभिः ।
संपूज्य च द्विजान्सर्वांस्तथान्यान्विदुषो जनान् ॥
महर्षेर्विश्रुतस्येह सर्वलोकेषु धीमतः ।
प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः ॥
श्रोतुं पात्रं च राजंस्त्वं प्राप्येमां भारतीं कथाम् ।
गुरोर्वक्त्रपरिस्पन्दो मनः प्रोत्साहतीव मे ॥
शृणु राजन्यथा भेदः कुरुपाण्डवयोरभूत् ।
राज्यार्थे द्यूतसंभूतो वनवासस्तथैव च ॥
यथा च युद्धमभवत्पृथिवीक्षयकारकम् ।
तत्तेऽहं कथयिष्यामि पृच्छते भरतर्षभ ॥
मृते पितरि ते वीरा वनादेत्य स्वमन्दिरम् ।
नचिरादेव विद्वांसो वेदे धनुषि चाभवन् ॥
तांस्तथा सत्ववीर्यौजःसंपन्नान्पौरसंमतान् ।
नामृष्यन्कुरवो दृष्ट्वा पाण्डवाञ्श्रीयशोभृतः ॥
ततो दुर्योधनः क्रूरः कर्णश्च सहसौबलः ।
तेषां निग्रहनिर्वासान्विविधांस्ते समारभन् ॥
ततो दुर्योधनः क्रूरः कुलिङ्गस्य मते स्थितः ।
पाम्डवान्विविधोपायै राज्यहेतोरपीडयत् ॥
ददावथ विषं पापो भीमाय धृतराष्ट्रजः ।
जरयामास तद्वीरः सहान्नेन वृकोदरः ॥
प्रमाणकोट्यां संसुप्तं पुनर्बद्ध्वा वृकोदरम् ।
तोयेषु भीमं गङ्गायाः प्रक्षिप्य पुरमाव्रजत् ॥
यदा विबुद्धः कौन्तेयस्तदा संछिद्य बन्धनम् ।
उदतिष्ठन्महाबाहुर्भीमसेनो गतव्यथः ॥
आशीविषैः कृष्णसर्पैः सुप्तं चैनमदंशयत् ।
सर्वेष्वेवाङ्गदेशेषु न ममार स शत्रुहा ॥
तेषां तु विप्रकारेषु तेषु तेषु महामतिः ।
मोक्षणे प्रतिकारे च विदुरोऽवहितोऽभवत् ॥
स्वर्गस्थो जीवलोकस्य यथा शक्रः सुखावहः ।
पाण्डवानां तथा नित्यं विदुरोऽपि सुखावहः ॥
यदा तु विविधोपायैः संवृतैर्विवृतैरपि ।
नाशकद्विनिहन्तुं तान्दैवभाव्यर्थरक्षितान् ॥
ततः संमन्त्र्य सचिवैर्वृषदुःशासनादिभिः ।
धृतराष्ट्रमनुज्ञाप्य जातुषं गृहमादिशत् ॥
`तत्र तान्वासयामास पाण्डवानमितौजसः ।' सुतप्रियैषी तान्राजा पाण्डवानम्बिकासुतः ।
ततो विवासयामास राज्यभोगबुभुक्षया ॥
ते प्रातिष्ठन्त सहिता नगरान्नागसाह्वयात् ।
प्रस्थाने चाभवन्मन्त्री क्षत्ता तेषां महात्मनाम् ॥
तेन मुक्ता जतुगृहान्निशीथे प्राद्रवन्वनम् ।
ततः संप्राप्य कौन्तेया नगरं वारणावतम् ॥
न्यवसन्त महात्मानो मात्रा सह परन्तपाः ।
धृतराष्ट्रेण चाज्ञप्ता उषिता जातुषे गृहे ॥
पुरोचनाद्रक्षमाणाः संवत्सरमतन्द्रिताः ।
सुरुङ्गां कारयित्वा तु विदुरेण प्रचोदिताः ॥
आदीप्य जातुषं वेश्म दग्ध्वा चैव पुरोचनम् ।
प्राद्रवन्भयसंविग्ना मात्रा सह पन्तपाः ॥
ददृशुर्दारुमं रक्षो हिडिम्बं वननिर्झरे ।
हत्वा च तं राक्षसेन्द्रं भीताः समवबोधनात् ॥
निशि संप्राद्रवन्पार्था धार्तराष्ट्रभयार्दिताः ।
प्राप्ता हिडिम्बा भीमेन यत्र जातो घटोत्कचः ॥
एकचक्रां ततो हत्वा पाण्डवाः संशितव्रताः ।
वेदाध्ययनसंपन्नास्तेऽभवन्ब्रह्मचारिणः ॥
ते तत्र नियताः कालं कंचिदूषुर्नरर्षभाः ।
मात्रा सहैकचक्रायां ब्राह्मणस्य निवेशने ॥
तत्राससाद क्षुधितं पुरुषादं वृकोदरः ।
भीमसेनो महाबाहुर्बकं नाम महाबलम् ॥
तं चापि पुरुषव्याघ्रो बाहुवीर्येण पाण्डवः ।
निहत्य तरसा वीरो नागरान्पर्यसान्त्वयत् ॥
ततस्ते शुश्रुवुः कृष्णां पञ्चालेषु स्वयंवराम् ।
श्रुत्वा चैवाभ्यगच्छ्त गत्वा चैवालभन्त ताम् ॥
ते तत्र द्रौपदीं लब्ध्वा परिसंवत्सरोषिताः ।
विदिता हास्तिनपुरं प्रत्याजग्मुररिन्दमाः ॥
ते उक्ता धृतराष्ट्रेण राज्ञा शान्तनवेन च ।
भ्रातृभिर्विग्रहस्तात कथं वो न भवेदिति ॥
अस्माभिः खाण्डवप्रस्थे युष्मद्वासोऽनुचिन्तितः ।
तस्माज्जनपदोपेतं सुविभक्तमहापथम् ॥
वासाय स्वाण्डवप्रस्थं व्रजध्वं गतमत्सराः ।
तयोस्ते वचनाज्जग्मुः सह सर्वैः सुहृज्जनैः ॥
नगरं खाण्डवप्रस्थं रत्नान्यादाय सर्वशः ।
तत्र ते न्यवसन्पार्थाः संवत्सरगणांन्बहून् ॥
वशे शस्त्रप्रतापेन कुर्वन्तोऽन्यान्महीभृतः ।
एवं धर्मप्रधानास्ते सत्यव्रतपरायणाः ॥
अप्रमत्तोत्थिताः क्षान्ताः प्रतपन्तोऽहितान्बहून् ।
अजयद्भीमसेनस्तु दिशं प्राचीं महायशाः ॥
उदीचीमर्जुनो वीरः प्रतीचीं नकुलस्तथा ।
दक्षिणां सहदेवस्तु विजिग्ये परवीरहा ॥
एवं चक्रुरिमां सर्वे वशे कृत्स्नां वसुन्धराम् ।
पञ्चभिः सूर्यसङ्काशैः सूर्येण च विराजता ॥
षट्सूर्येवाभवत्पृथ्वी पाण्डवैः सत्यविक्रमैः ।
ततो निमित्ते कस्मिंश्चिद्धर्मराजो युधिष्ठिरः ॥
वनं प्रस्थापयामास तेजस्वी सत्यविक्रमः ।
प्राणेभ्योऽपि प्रियतरं भ्रातरं सव्यसाचिनम् ॥
अर्जुनं पुरुषव्याघ्रं स्थिरात्मानं गुणैर्युतम् ।
स वै संवत्सरं पूर्णं मासं चैकं वने वसन् ॥
`तीर्थयात्रां च कृतवान्नागकन्यामवाप च ।
पाण्ड्यस्य तनयां लब्ध्वा तत्र ताभ्यांसहोषितः' ॥
ततोऽगच्छद्धृषीकेशं द्वारवत्यां कदाचन ।
लब्धवांस्तत्र बीभत्सुर्भार्यां राजीवलोचनाम् ॥
अनुजां वासुदेवस्य सुभद्रां भद्रभाषिणीम् ।
सा शचीव महेन्द्रेण श्रीः कृष्णेनेव सङ्गता ॥
सुभद्रा युयुजे प्रीत्या पाण्डवेनार्जुनेन ह ।
अतर्पयच्च कौन्तेयः खाण्डवे हव्यवाहनम् ॥
बीभत्सुर्वासुदेवेन सहितो नृपस्तम ।
नातिभारो हि पार्थस्य केशवेन सहाभवत् ॥
व्यवसायसहायस्य विष्णोः शत्रुवधेष्विव ।
पार्थायाग्निर्ददौ चापि गाण्डीवं धनुरुत्तमम् ॥
इषुधी चाक्षयैर्बाणै रथं च कपिलक्षणम् ।
मोक्षयामास बीभत्सुर्मयं यत्र महासुरम् ॥
स चकार सभां दिव्यां सर्वरत्नसमाचिताम् ।
तस्यां दुर्योधनो मन्दो लोभं चक्रे सुदुर्मतिः ॥
ततोऽक्षैर्वञ्चयित्वा च सौबलेन युधिष्ठिरम् ।
वनं प्रस्थापयामास सप्तवर्षाणि पञ्च च ॥
अज्ञातमेकं राष्ट्रे च ततो वर्षं त्रयोदशम् ।
ततश्चतुर्दशे वर्षे याचमानाः स्वकं वसु ॥
नालभन्त महाराज ततो युद्धमवर्तत ।
ततस्ते क्षत्रमुत्साद्य हत्वा दुर्योधनं नृपम् ॥
राज्यं विहतभूयिष्ठं प्रत्यपद्यन्त पाण्डवाः ।
`इष्ट्वा क्रतूंश्च विविधानश्वमेधादिकान्बहून् ॥
धृतराष्ट्रे गते स्वर्गं विदुरे पञ्चतां गते ।
गमयित्वा क्रियां स्वर्ग्यां राज्ञाममिततेजसाम् ॥
स्वं धाम याते वार्ष्णेये कृष्णदारान्प्ररक्ष्य च ।
महाप्रस्थानिकं कृत्वा गताः स्वर्गमनुत्तमम्' ॥
एवमेतत्पुरावृत्तं तेषामक्लिष्टकर्मणाम् ।
भेदो राज्यविनाशश्च जयश्च जयतांवर ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि अंशावतरणपर्वणि एकषष्टितमोऽध्यायः ॥ 61 ॥

1-61-4 प्रोत्साहतीव प्रोत्साहयतीव । परिस्पन्दमुदुत्साहयतीव मे इति पाठेगुरोर्वक्त्रपरिस्पन्दस्त्वं कथां कथयेत्याज्ञावचनं तज्जन्या मुत्प्रीतिः सा प्रोत्साहयती ॥ 4 ॥ 1-61-7 नचिरात् शीघ्र । विद्वांसोऽमवन् ॥ 1-61-12 प्रमाणकोट्यां गङ्गायास्तीर्थविशेषे । वृकनामा बहुभ क्षोऽग्निरुदरे यस्य स वृकोदरः ॥ 1-61-17 संवृतैर्गुप्तैः । विवृतै प्रकाशैः । दैवभाव्यर्थरक्षितान् दैवेनादृष्टेन भावी कुरुक्षयपाण्ड वराज्यलाभादिरर्थस्तस्मै रक्षितान् ॥ 1-61-18 वृषः कर्णः जातुषं लाक्षामयम् ॥ 1-61-20 अभवन्मित्रमित्यपि पाठः । क्षत्ता विदुरः ॥ 1-61-21 तेन क्षत्तुर्मन्त्रणेन ॥ 1-61-31 स्वयं वृणुते इति स्वयंवरा ताम् ॥ 1-61-33 शान्तनवेन भीष्मेण ॥ 1-61-36 आदाय भागश इत्यपि पाठः ॥ 1-61-48 नातीति खाण्डवदाह इति शेषः ॥ 1-61-49 व्यवसायो बुद्धिः ॥ 1-61-50 बाणैर्युक्ताविति शेषः । कपिलक्षणं वानरध्वजं । यत्र खाण्डवदाहे ॥ एकषष्टितमोऽध्यायः ॥ 61 ॥

अध्यायः 062

भारतप्रशंसा ॥ 1 ॥ तच्छ्रवणादिफलकथनम् ॥ 2 ॥

जनमेजय उवाच ।
कथितं वै समासेन त्वया सर्वं द्विजोत्तम ।
महाभारतमाख्यानं कुरूणां चरितं महत् ॥
कथां त्वनघ चित्रार्थां कथयस्व तपोधन ।
विस्तरश्रवणे जातं कौतूहलमतीव मे ॥
स भवान्विस्तरेणेमां पुनराख्यातुमर्हति ।
न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत् ॥
न तत्कारणमल्पं वै धर्मज्ञा यत्र पाण्डवाः ।
अवध्यान्सर्वशो जघ्नुः प्रशस्यन्ते च मानवैः ॥
किमर्थं ते नरव्याघ्राः शक्ताः सन्तो ह्यनागसः ।
प्रयुज्यमानान्संक्लेशान्क्षान्तवन्तो दुरात्मनाम् ॥
कथं नागायुतप्राणो बाहुशाली वृकोदरः ।
परिक्लिश्यन्नपि क्रोधं धृतवान्वै द्विजोत्तम ॥
कथं सा द्रौपदी कृष्णा क्लिश्यमाना दुरात्मभिः ।
शक्ता सती धार्तराष्ट्रान्नादहत्क्रोधचक्षुषा ॥
कथं व्यसनिनं द्यूते पार्थौ माद्रीसुतौ तदा ।
अन्वयुस्ते नरव्याघ्रा बाध्यमाना दुरात्मभिः ॥
कथं धर्मभृतां श्रेष्ठः सुतो धर्मस्य धर्मवित् ।
अनर्हः परमं क्लेशं सोढवान्स युधिष्ठिरः ॥
कथं च बहुलाः सेनाः पाण्डवः कृष्णसारथिः ।
अस्यन्नेकोऽनयत्सर्वाः पितृलोकं धनंजयः ॥
एतदाचक्ष्व मे सर्वं यथावृत्तं तपोधन ।
यद्यच्च कृतवन्तस्ते तत्रतत्र महारथाः ॥
वैशंपायन उवाच ।
क्षणं कुरु महाराज विपुलोऽयमनुक्रमः ।
पुण्याख्यानस्य वक्तव्यः कृष्णद्वैपायनेरितः ॥
महर्षेः सर्वलोकेषु पूजितस्य महात्मनः ।
प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः ॥
इदं शतसहस्रं हि श्लोकानां पुण्यकर्मणाम् ।
सत्यवत्यात्मजेनेह व्याख्यातममितौजसा ॥
`उपाख्यानैः सह ज्ञेयं श्राव्यं भारतमुत्तमम् ।
संक्षेपेण तु वक्ष्यामि सर्वमेतन्नराधिप ॥
अध्यायानां सहस्रे द्वे पर्वणां शतमेव च । श्लोकानां तु सहस्राणि नवतिश्च दशैव च ।
ततोऽष्टादशभिः पर्वैः संगृहीतं महर्षिणा' ॥
य इदं श्रावयेद्विद्वान्ये चेदं शृणुयुर्नराः ।
ते ब्रह्मणः स्थानमेत्य प्राप्नुयुर्देवतुल्यताम् ॥
इदं हि वेदैः समितं पवित्रमपि चोत्तमम् ।
श्राव्याणामुत्तमं चेदं पुराणमृषिसंस्तुतम् ॥
अस्मिन्नर्थश्च कामश्च निखिलेनोपदेक्ष्यते ।
इतिहासे महापुण्ये बुद्धिश्च परिनैष्ठिकी ॥
अक्षुद्रान्दानशीलांश्च सत्यशीलाननास्तिकान् ।
कार्ष्णं वेदमिमं विद्वाञ्छ्रावयित्वाऽर्थमश्नुते ॥
भ्रूणहत्याकृतं चापि पापं जह्यादसंशयम् ।
इतिहासमिमं श्रुत्वा पुरुषोऽपि सुदारुणः ॥
मुच्यते सर्वपापेभ्यो राहुणा चन्द्रमा यथा ।
जयो नामेतिहासोऽयं श्रोतव्यो विजिगीषुणा ॥
महीं विजयते राजा शत्रूंश्चापि पराजयेत् ।
इदं पुंसवनं श्रेष्ठमिदं स्वस्त्ययनं महत् ॥
महिषीयुवराजाभ्यां श्रोतव्यं बहुशस्तथा ।
वीरं जनयते पुत्रं कन्यां वा राज्यभागिनीम् ॥
धर्मशास्त्रमिदं पुण्यमर्थशास्त्रमिदं परम् ।
मोक्षशास्त्रमिदं प्रोक्तं व्यासेनामितबुद्धिना ॥
`धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ । यदिहास्ति तदन्यत्र यन्नेहास्ति न कुत्रचित् ।
इदं हि ब्राह्मणैर्लोके आख्यातं ब्राह्मणेष्विह' ॥
संप्रत्याचक्षते चेदं तथा श्रोष्यन्ति चापरे ।
पुत्राः शुश्रूषवः सन्ति प्रेष्याश्च प्रियकारिणः ॥
भरतानां महज्जन्म शृण्वतामनसूयताम् ।
नास्ति व्याधिभयं तेषां परलोकभयं कुतः ॥
शरीरेण कृतं पापं वाचा च मनसैव च ।
सर्वं संत्यजति क्षिप्रं य इदं शृणुयान्नरः ॥
धन्यं यशस्यमायुष्यं पुण्यं स्वर्ग्यं तथैव च ।
कृष्णद्वैपायनेनेदं कृतं पुण्यचिकीर्षुणा ॥
कीर्तिं प्रथयता लोके पाण्डवानां महात्मनाम् ।
अन्येषां क्षत्रियाणां च भूरिद्रविणतेजसाम् ॥
सर्वविद्यावदातानां लोके प्रथितकर्मणाम् ।
य इदं मानवो लोके पुण्यार्थे ब्राह्मणाञ्छुचीन् ॥
श्रावयेत महापुण्यं तस्य धर्मः सनातनः ।
कुरूणां प्रथितं वंशं कीर्तयन्सततं शुचिः ॥
वंशमाप्नोति विपुलं लोके पूज्यतमो भवेत् ।
योऽधीते भारतं पुम्यं ब्राह्मणो नियतव्रतः ॥
चतुरो वार्षिकान्मासान्सर्वपापैः प्रमुच्यते ।
विज्ञेयः स च वेदानां पारगो भारतं पठन् ॥
देवा राजर्षयो ह्यत्र पुण्या ब्रह्मर्षयस्तथा ।
कीर्त्यन्ते धूतपाप्मानः कीर्त्यते केशवस्तथा ॥
भगवांश्चापि देवेशो यत्र देवी च कीर्त्यते ।
अनेकजननो यत्र कार्तिकेयस्य संभवः ॥
ब्राह्मणानां गवां चैव माहात्म्यं यत्र कीर्त्यते ।
सर्वश्रुतिसमूहोऽयं श्रोतव्यो धर्मबुद्धिभिः ॥
य इदं श्रावयेद्विद्वान्ब्राह्मणानिह पर्वसु ।
धूतपाप्मा जितस्वर्गो ब्रह्म गच्छति शाश्वतम् ॥
श्रावयेद्ब्राह्मणाञ्श्राद्धे यश्चेमं पादमन्ततः ।
अक्षय्यं तस्य तच्छ्राद्धमुपावर्तेत्पितॄनिह ॥
अह्ना यदेनः क्रियते इन्द्रियैर्मनसाऽपि वा ।
ज्ञानादज्ञानतो वापि प्रकरोति नरश्च यत् ॥
तन्महाभारताख्यानं श्रुत्वैव प्रविलीयते ।
भरतानां महज्जन्म महाभारतमुच्यते ॥
निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते ।
भरतानां महज्जन्म महाभारतमुच्यते ॥
महतो ह्येनसो मर्त्यान्मोचयेदनुकीर्तितः ।
त्रिभिर्वर्षैर्महाभागः कृष्णद्वैपायनोऽब्रवीत् ॥
नित्योत्थितः शुचिः शक्तो महाभारतमादितः ।
तपोनियममास्थाय कृतमेतन्महर्षिणा ॥
तस्मान्नियमसंयुक्तैः श्रोतव्यं ब्राह्मणैरिदम् ।
कृष्णप्रोक्तामिमां पुण्यां भारतीमुत्तमां कथाम् ॥
श्रावयिष्यन्ति ये विप्रा ये च श्रोष्यन्ति मानवाः ।
सर्वथा वर्तमाना वै न ते शोच्याः कृताकृतैः ॥
नरेण धर्मकामेन सर्वः श्रोतव्य इत्यपि ।
निखिलेनेतिहासोऽयं ततः सिद्धिमवाप्नुयात् ॥
न तां स्वर्गगतिं प्राप्य तुष्टिं प्राप्नोति मानवः ।
यां श्रुत्वैवं महापुण्यमितिहासमुपाश्नुते ॥
शृण्वञ्श्राद्धः पुण्यशीलः श्रावयंश्चेदमद्भुतम् ।
नरः फलमवाप्नोति राजसूयाश्वमेधयोः ॥
यथा समुद्रो भगवान्यथा मेरुर्महागिरिः ।
उभौ ख्यातौ रत्ननिधी तथा भारतमुच्यते ॥
इदं हि वेदैः समितं पवित्रमषि चोत्तमम् ।
श्राव्यं श्रुतिसुखं चैव पावनं शीलवर्धनम् ॥
य इदं भारतं राजन्वाचकाय प्रयच्छति ।
तेन सर्वा मही दत्ता भवेत्सागरमेखला ॥
पारिक्षित कथां दिव्यां पुण्याय विजयाय च ।
कथ्यमानां मया कृत्स्नां शृणु हर्षकरीमिमाम् ॥
त्रिभिर्वर्षैः सदोत्थायी कृष्णद्वैपायनो मुनिः ।
महाभारतमाख्यानं कृतवानिदमद्भुतम् ॥
शृणु कीर्तयतस्तन्म इतिहासं पुरातनम् ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि अंशावतरणपर्वणि द्विषष्टितमोऽध्यायः ॥ 62 ॥

1-62-4 अवध्यान् भीष्मद्रोणादीन् ॥ 1-62-6 क्रोधं धृतवान् निरुद्धवान् ॥ 1-62-10 अस्यन् शरान् क्षिपन् स कथं क्लेशं सोढवानित्यनुषज्ज्यते ॥ 1-62-18 ऋषिभिर्मन्त्रैस्तद्द्रष्टृभिर्वा संस्तुतं समं स्तुतं वा ॥ 1-62-19 परिनैष्ठिकी परिनिष्ठा मोक्षस्तदुचिता ॥ 1-62-20 अनास्तिकान् नास्तिका न भवन्तीत्यनास्तिकास्तान् ॥ 1-62-23 पुंसवनं पुमांसः सूयन्तेऽस्मिन् श्रुते ॥ 1-62-24 महिषी पट्टराज्ञी ॥ 1-62-47 सर्वथा साधुनाऽसाधुना वा वर्त्मना वर्तमाना अपि कृताकृतैः क्रमेण पापपुण्यैस्ते न शोच्याः । एतच्छ्रवणादेव सर्वप्रत्यवायपरिहारो भवतीति भावः ॥ 1-62-49 स्वर्गादप्येतच्छ्रवणं सुखकरं मुक्तिहेतुत्वादिति भावः ॥ 1-62-50 श्राद्धः श्रद्धावान् ॥ 1-62-52 श्राव्यमर्थतो रम्यम् ॥ 1-62-55 सदोत्थायी सदोद्युक्तः ॥ द्विषष्टितमोऽध्यायः ॥ 62 ॥

अध्यायः 063

पूरुवंशकथनम् ॥ 1 ॥

वैशंपायन उवाच ।
पूरोर्वंशमहं धन्यं राज्ञाममिततेजसाम् ।
प्रवक्ष्यामि पितॄणां ते तेषां नामानि मे शृमु ॥
अव्यक्तप्रभवो ब्रह्मा शाश्वतो नित्य अव्ययः ।
तस्मान्मरीचिः संजज्ञे दक्षश्चैव प्रजापतिः ॥
अङ्गुष्ठाद्दक्षमसृजच्चक्षुर्भ्यां च मरीचिनम् ।
मरीचेः कश्यपः पुत्रो दक्षस्य दुहिताऽऽदितिः ॥
अदित्यां कश्यपाद्विवस्थान् ।
विवस्वतो मनुर्मनोरिला ॥
इलायाः पुरूरवाः । पुरूरवस आयुः ।
आयुषो नहुषः । नहुषस्य ययातिः ॥
ययातेर्द्वे भार्ये बभूवतुः ।
उशनसो दुहिता देवयानी वृषपर्वणश्च दुहिता शर्मिष्ठा नाम ॥
तत्रानुवंशो भवति । यदुं च तुर्वसुं चैव देवयानी व्यजायत ।
द्रुह्यं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी ॥
तत्र यदोर्यादवाः । पूरोः पौरवाः ।
पूरोर्भार्या कौसल्या बभूव । तस्यामस्य जज्ञे जनमेजयः ॥
स त्रीन्हयमेधानाजहार ।
विश्वजिता चेष्ट्वा वनं प्रविवेश ॥
जनमेजयस्तु सुनन्दां नामोपयेमे मागधीं ।
तस्यामस्य जज्ञे प्राचीन्वान् ॥
यः प्राचीं दिशं जिगाय ।
यावत्सूर्यादयात् तत्तस्य प्राचीनत्वम् ॥
प्राचीन्वांस्तु खल्वाश्मकीमुपयेमे यादवीम् ।
तस्यामस्य जज्ञे शस्यातिः ॥
शय्यातिस्तु त्रिशङ्कोर्दुहितरं वराङ्गीं नामोपयेमे तस्यामस्य जज्ञेऽहंयातिः ॥
अहंयातिस्तु खलु कृतवीर्यदुहितरं भानुमतीं नामोपयेमे ।
तस्यामस्य जज्ञे सार्वभौमः ॥
सार्वभौमस्तु खलु जित्वाऽऽजहार कैकयीं सुन्दरां नाम तामुपयेमे ।
तस्यामस्य जज्ञे जयत्सेनः ॥
जयत्सेनस्तु खलु वैदर्भीमुपयेमे सुश्रवां नाम ।
तस्यामस्य जज्ञेऽपराचीनः ॥
अपराचीनस्तु खलु वैदर्भीमपरामुपयेमे मर्यादां नाम ।
तस्यामस्य जज्ञेऽरिहः ॥
अरिहः खल्वाङ्गीमुपेयेमे ।
तस्यामस्य जज्ञे महाभौमः ॥
महाभौमस्तु खलु प्रसेनजिद्दुहितरमुपयेमे सुयज्ञां नाम ।
तस्यामस्य जज्ञे अयुतानायी ॥
यः पुरुषमेधे पुरुषाणामयुतमानयत्तत्तस्यायुतानायित्वम् ॥
अयुतानायी तु खलु पृथुश्रवसो दुहितरमुपयेमे भासां नाम ।
तस्यामस्य जज्ञेऽक्रोधनः ॥
अक्रोधनस्तु खलु कालिङ्गीं कण्डूं नामोपयेमे ।
तस्यामस्य जज्ञे देवातिथिः ॥
देवातिथिस्तु खलु वैदर्भीमुपयेमे मर्यादां नाम तस्यामस्य जज्ञे ऋचः ॥
ऋचस्तु खलु वामदेव्यामङ्गराजकन्यायामृक्षं पुत्रमजीजनत् ॥
ऋक्षस्तु खलु तक्षकदुहितरं ज्वलन्तीं नामोपयेमे ।
तस्यामन्त्यनारमुत्पादयामास ॥
अन्त्यनारस्तु खलु सरस्वत्यां द्वादशवार्षिकं सत्रमाजहार ।
तमुदवसाने सरस्वत्यभिगम्य भर्तारं वरयामास ॥
तस्यां पुत्रं जनयामास त्रस्नुं नाम ।
अत्रानुवंशो भवति ॥
त्रस्नुं सरस्वती पुत्रमन्त्यनारादजीजनत् ।
इलिलं जनयामास कालिन्द्यांत्रस्नुरात्मजम् ॥
इलिलस्तु रथन्तर्यां दुष्यन्तादीन्पञ्च पुत्रानजीजनत् ॥
दुष्यन्तस्तु लाक्षीं नाम भागीरथीमुपयेमे तस्यामस्य जज्ञे जनमेजयः ॥
सएव दुष्यन्तो विश्वामित्रदुहितरं शकुन्तलां नामोपयेमे ।
तस्यामस्य जज्ञे भरतः ॥
तत्रेमौ श्लोकौ भवतः । माता भस्त्रा पितुः पुत्रो यस्माज्जातः स एव सः ।
भरस्व पुत्रं दौष्यन्तिं सत्यमाह शकुन्तला ॥
रेतोधाः पुत्र उन्नयति नरदेव यमक्षयात् ।
त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला ॥
ततोऽस्य भरतत्वम् । भरतस्तु खलु काशेयीं सार्वसेनीमुपयेमे सुनन्दां नाम ।
तस्यामस्य जज्ञे भुमन्युः ॥
भुमन्युस्तु खलु दाशार्हीमुपयेमे सुवर्णां नाम ।
तस्यामस्य जज्ञे सुहोत्रः ॥
सुहोत्रस्तु खल्वैक्ष्वाकीमुपयेमे जयन्तीं नाम । तस्यामस्य जज्ञे हस्ती ।
य इदं पुरं निर्मापयामास ॥
तस्माद्धास्तिनपुरत्वम् ।
हस्ती खलु त्रैगर्तीमुपयेमे यशोदां नाम तस्यामस्य जज्ञे विकुञ्जतः ॥
विकुञ्जनस्तु खलु दाशार्हीमुपयेमे सुन्दरां नाम ।
तस्यामस्य जज्ञेऽजमीढः ॥
अजमीढस्य तु चतुर्विंशतिपुत्रशतं बभूव ।
कैकय्यां नागायां गान्धार्यां विमलायामृक्षायामिति ॥
पृथग्वंशकर्तारो नृपतयः ।
तत्र अजमीढादृक्षायां संवरणो जज्ञे स वंशकरः ॥
सवरणस्तु वैवस्वतीं तपतीं नामोपयेमे ।
तस्यामस्य जज्ञे कुरुः ॥
कुरुस्तु खलु दाशार्हीमुपयेमे शुभाङ्गीं नाम ।
तस्यामस्य जज्ञे विदूरथः ॥
विदूरथस्तु खलु मागधीमुपयेमे संप्रियां नाम ।
तस्यामस्य जज्ञेऽनश्वान् ॥
अनश्वांस्तु खलु मागधीमुपयेमेऽमृतां नाम ।
तस्यामस्य जज्ञे परिक्षित् ॥
परिक्षित्खलु बाहुकामुपयेमे सुवेषां नाम ।
तस्यामस्य जज्ञे भीमसेनः ॥
भीमसेनस्तु खलु कैकयीमुपयेमे सुकुमारीं नाम ।
तस्यामस्य जज्ञे परिश्रवाः ॥
यमाहुः प्रतीप इति । प्रतीपस्तु खलु शैब्यामुपयेमे सुनन्दीं नाम ।
तस्यां त्रीन्पुत्रानुत्पादयामास देवापिं शन्तनुं बाह्लीकं चेति ॥
देवापिस्तु खलु बाल एवारण्यं प्रविवेश ।
शन्तनुस्तु महीपालोऽभवत् ॥
तत्र श्लोको भवति । यं यं कराभ्यां स्पृशति जीर्णं स सुखमश्नुते ।
पुनर्युवा च भवति तस्मात्तं शन्तनुं विदुः ॥
तदस्य शन्तनुत्वं । शन्तनुस्तु खलु गङ्गां भागीरथीमुपयेमे तस्यामस्य जज्ञे देवव्रतः ।
यमाहुर्भीष्म इति ॥
भीष्मस्तु खलु पितुः प्रियचिकीर्षया सत्यवतीमानयामास मातरं ।
यामाहुः कालीति ॥
तस्यां पूर्वं पुराशरात्कन्यागर्भो द्वैपायनः ।
तस्यामेव शन्तनोर्द्वौ पुत्रौ बभूवतुः चित्राङ्गदो विचित्रवीर्यश्च ॥
चित्राङ्गदस्तु प्राप्तराज्य एव गन्धर्वेण निहृतः ।
ततो विचित्रवीर्यो राजा बभूव ॥
विचित्रवीर्यस्तु खलुकाशिराजस्य सुते अम्बिकाम्बालिके उदवहत् ।
विचित्रवीर्योऽनुत्पन्नापत्य एव विदेहत्वं प्राप्तः ॥
ततः सत्यवती चिन्तयामास कथं नु खलु शन्तनोः पिण्डविच्छेदो न स्यादिति ॥
साथ द्वैपायनं चिन्तयामास सोऽग्रतः स्थितः किं करवाणीति ।
तं सत्यवत्युवाच भ्राता तेऽनपत्य एव स्वर्गतः तस्यार्थेऽपत्यमुत्पादयेति ॥
स परमित्युवाच स तत्र त्रीन्पुत्रानुत्पादयामास धृतराष्ट्रं पाण्डुं विदुरं चेति ॥
धृतराष्ट्रात्पुत्रशतं बभूव गान्धार्यां वरदानाद्द्वैपायनस्य तेषां च धार्तराष्ट्राणां चत्वारः प्रधानाः दुर्योधनो दुश्शासनो विकर्णश्चित्रसेनश्चेति ॥
पाण्डोस्तु कुन्ती माद्रीति स्त्रीरत्ने बभूवतुः ।
स मृगयां चरन्मैथुनगतमृषिं मृगचारिणं बाणेन जघान ॥
स बाणविद्ध उवाच पाण्डुम् ।
अत्र श्लोको भवति ॥
योऽकृतार्थं हि मां ग्रूर बाणेनाघ्ना मृगव्रतम् ।
त्वामप्येतादृशो भावः क्षिप्रमेवागमिष्यति ॥
इति मृगव्रतचारिणा ऋषिणा शप्तः ।
स विषण्णरूपः पाण्डुस्तं शापं परिहरन्नोपसर्पति भार्ये ॥
कदाचित्स आह । स्वचापल्यादिदं प्राप्तवानहम् ।
पुराणेषु पठ्यमानं शृणोमि नानपत्यस्य लोकाः सन्तीति ॥
सा त्वं मदर्थे पुत्रानुत्पादयेति कुन्तीमुवाच ॥
सा कुन्ती पुत्रानुत्पादयामास धर्माद्युधिष्ठिरं मारुताद्भीमसेनमिन्द्रादर्जुनमिति । स हृष्टरूपः पाण्डुरुवाच ।
इयं ते सपत्नी भवति माद्र्यनपत्या व्रीडिता साध्वी अस्यामपत्यमुत्पाद्यतामिति ॥
सा कुन्ती तस्यै माद्र्यै तथेति व्रतमादिदेश ।
ततस्तस्यां नकुलसहदेवौ यमावश्विभ्यां जज्ञाते ॥
माद्रीं तु खलु स्वलङ्कृतां दृष्ट्वा पाण्डुर्भावं चक्रे ।
स तां प्राप्यैव विदेहत्वं प्राप्तः ॥
ततस्तेन सह चितामन्वारुरोह माद्री ।
कुन्तीं चोवाच यमयोरार्ययाऽप्रमत्तया भवितव्यमिति ॥
ततः पञ्चपाण्डवान्सह कुन्त्या हास्तिनपुरं नयन्ति स्म तपस्विनः ॥
तत्र भीष्माय धृतराष्ट्रविदुरयोः पाण्डोः स्वर्गगमनं याथातथ्यं निवेदयन्तिस्म तपस्विनः ॥
पाण्डवान्सह कुन्त्या जतुगृहे दाहयितुकामो धृतराष्ट्रात्मजोऽभूत् ॥
तांश्च विदुरो मोक्षयामास ।
ततो भीमो हिडिम्बं हत्वा पुत्रमुत्पादयामास हिडिम्बायां घटोत्कचं नाम ॥
ततश्चैकचक्रां जग्मुः कुशलिनः ।
ततः पाञ्चालविषयं गत्वा स्वयंवरे द्रौपदीं लब्ध्वाऽर्धराज्यं प्राप्येन्द्रप्रस्थनिवासिनस्तस्यां पुत्रानुत्पादयामासुर्द्रौपद्याम् ॥
प्रतिविन्ध्यां युधिष्ठिरः । सुतसोमं वृकोदरः ।
श्रुतकीर्तिमर्जुनः । शतानीकं नकुलः । श्रुतसेनं सहदेव इति ॥
शैव्यस्य कन्यां देवकीं नामोपयेमे युधिष्ठिरः ।
तस्यां पुत्रं जनयामास यौधेयं नाम ॥
भीमसेनस्तु वाराणस्यां काशिराजकन्यां जलन्धरां नामोपयेमे स्वयंवरस्थां ।
तस्यामस्य जज्ञे शर्वत्रातः ॥
अर्जुनस्तु खलु द्वारवतीं गत्वा भगवतो वासुदेवस्य भगिनीं सुभद्रां नामोदवहद्भार्यां ।
तस्यामभिमन्युं नाम पुत्रं जनयामास ॥
नकुलस्तु खलु चैद्यां रेणुमतीं नामोदवहत् ।
तस्यां पुत्रं जनयामास निरमित्रं नाम ॥
सहदेवस्तु खलु माद्रीमेव स्वयंवरे विजयां नामोदवहद्भार्याम् ।
तस्यां पुत्रं जनयामास सुहोत्रं नाम ॥
भीमसेनश्च पूर्वमेव हिडिम्बायां राक्षस्यां पुत्रमुत्पादयामास घटोत्कचं नाम ।
अर्जुनस्तु नागकन्यायामुलूप्यामिरावन्तं नाम पुत्रं जनयामास ॥
ततो मणलूरुपतिकन्यायां चित्राङ्गदायामर्जुनः पुत्रमुत्पादयामास बभ्रुवाहनं नाम ।
एते त्रयोदश पुत्राः पाण्डवानाम् ॥
विराटस्य दुहितरमुत्तरां नामाभिमन्युरुपेयेमे ।
तस्यामस्य परासुर्गर्भोऽजायत ॥
तमुत्सङ्गे प्रतिजग्राह पृथा नियोगात्पुरुषोत्तमस्य ।
षाण्मासिकं गर्भमहं जीवयामि पादस्पर्शादिति वासुदेव उवाच ॥
अहं जीवयामि कुमारमनन्तवीर्यं जात एवायमजायत । अभिमन्योः सत्येन चेयं पृथिवी धारयत्विति वासुदेवस्य पादस्पर्शात्सजीवोऽजायत ।
नाम तस्याकरोत्सुभद्रा ॥
परिक्षीणे कुले जात उत्तरायां परंतपः ।
परिक्षिदभवत्तस्मात्सौभद्रात्तु यशस्विनः ॥
परीक्षित्तु खलु भद्रवतीं नामोपयेमे ।
तस्यां तत्र भवाञ्जनमेजयः ॥
जनमेजयात्तु भवतः खलु वपुष्टमायां पुत्रौ द्वौ शतानीकः शङ्कुकर्णश्च ॥
शतानीकस्तु खलु वैदेहीमुपयेमे ।
तस्यामस्य जज्ञे पुत्रोऽश्वमेधदत्तः ॥
इत्येष पूरोर्वंशस्तु पाण्डवानां च कीर्तितः ।
पूरोर्वंशमिमं श्रुत्वा सर्वपापैः प्रमुच्यते ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि अंशावतरणपर्वणि त्रिषष्टितमोऽध्यायः ॥ 63 ॥

1-63-32 भस्त्रा चर्मकोशः तत्र निहितं बीजं यथा तदीयं न भवति एवं मातापि भस्त्रेव । येन हेतुना यो जातः स एव सः । कार्यस्य कारणानन्यत्वात् ॥ 1-63-33 पुत्रः रेतोधाः रेतोधातारं पितरं उन्नयति ऊर्ध्वं नयति । यमक्षयात् नरकात् ॥

अध्यायः 064

उपरिचरराजोपाख्यानम् ॥ 1 ॥ इन्द्रध्वजोत्सववृत्तान्तः ॥ 2 ॥ गिरिकाया उत्पत्तिः । उपरिचरस्य तया विवाहश्च ॥ 3 ॥ मृगयार्थं गतेनोपरिचरेण स्वपत्नीस्मरणात्स्कन्नस्य श्येनद्वरा प्रेषितस्य रेतसो यमुनाजले पतनम् ॥ 4 ॥ ब्रह्मशापान्मत्स्यभावं प्राप्तयाऽद्रिकया तद्रेतःपानम् ॥ 5 ॥ तदुदरे मिथुनोत्पत्तिः ॥ 6 ॥ तत्र पुत्रस्य उपरिचरवसुना ग्रहणम् । कन्याया दाशगृहे स्थितिः ॥ 7 ॥ नावं वाहयमानायां सत्यवतीनाम्न्यां दाशकन्यायां पराशराद्द्वैपायनस्योत्पत्तिः । तस्य व्यासनामप्राप्तिश्च ॥ 8 ॥ पाठान्तरे पराशरसत्यवतीविवाहादि ॥ 9 ॥ भीष्मादीनां संक्षेपतो जन्मवृत्तान्तकथनम् ॥ 10 ॥

वैशंपायन उवाच ।
राजोपरिचरो नाम धर्मनित्यो महीपतिः ।
बभूव मृगयाशीलः शश्वत्स्वाध्यायवाञ्छुचिः ॥
स चेदिविषयं रम्यं वसुः पौरवनन्दनः ।
इन्द्रोपदेशाज्जग्राह रमणीयं महीपतिः ॥
तमाश्रमे न्यस्तशस्त्रं निवसन्तं तपोनिधिम् ।
देवाः शक्रपुरोगा वै राजानमुपतस्थिरे ॥
इन्द्रत्वमर्हो राजायं तपसेत्यनुचिन्त्य वै ।
तं सान्त्वेन नृपं साक्षात्तपसः संन्यवर्तयन् ॥
देवा ऊचुः ।
न संकीर्येत धर्मोऽयं पृथिव्यां पृथिवीपते ।
त्वया हि धर्मो विधृतः कृत्स्नं धारयते जगत् ॥
इन्द्र उवाच ।
`देवानहं पालयिता पालय त्वं हि मानुषान् ।' लोके धर्मं पालय त्वं नित्ययुक्तः समाहितः ।
धर्मयुक्तस्ततो लोकान्पुण्यान्प्राप्स्यसि शाश्वतान् ॥
दिविष्ठस्य भुविष्ठस्त्वं सखाभूतो मम प्रियः ।
ऊधः पृथिव्या यो देशस्तमावस नराधिप ॥
पशव्यश्चैव पुण्यश्च प्रभूतधनधान्यवान् ।
स्वारक्ष्यश्चैव सौम्यश्च भोग्यैर्भूमिगुणैर्युतः ॥
अर्थवानेष देशो हि धनरत्नादिभिर्युतः ।
वसुपूर्णा च वसुधा वस चेदिषु चेदिप ॥
धर्मशीला जनपदाः सुसंतोषाश्च साधवः ।
न च मिथ्या प्रलापोऽत्र स्वैरेष्वपि कुतोऽन्यथा ॥
न च पित्रा विभज्यन्ते पुत्रा गुरुहिते रताः ।
युञ्जते धुरि नो गाश्च कृशान्संधुक्षयन्ति च ॥
सर्वे वर्णाः स्वधर्मस्थाः सदा चेदिषु मानद ।
न तेऽस्त्यविदितं किंचित्त्रिषु लोकेषु यद्भवेत् ॥
दैवोपभोग्यं दिव्यं त्वामाकाशे स्फाटिकं महत् ।
आकाशगं त्वां मद्दत्तं विमानमुपपत्स्यते ॥
त्वमेकः सर्वमर्त्येषु विमानवरमास्थितः ।
चरिष्यस्युपरिस्थो हि देवो विग्रहवानिव ॥
ददामि ते वैजयन्तीं मालामम्लानपङ्कजाम् ।
धारयिष्यति सङ्ग्रामे या त्वां शस्त्रैरविक्षतम् ॥
लक्षणं चैतदेवेह भविता ते नराधिप ।
इन्द्रमालेति विख्यातं धन्यमप्रतिमं महत् ॥
यष्टिं च वैणवीं तस्मै ददौ वृत्रनिषूदनः ।
इष्टप्रदानमुद्दिश्य शिष्टानां प्रतिपालिनीम् ॥
`एवं संसान्त्व्य नृपतिं तपसः संन्यवर्तयत् ।
प्रययौ दैवतैः सार्धं कृत्वा कार्यं दिवौकसाम् ॥
ततस्तु राजा चेदीनामिन्द्राभरणभूषितः । इन्द्रदत्तं विमानं तदास्थाय प्रययौ पुरीम् ॥'
तस्याः शक्रस्य पूजार्थं भूमौ भूमिपतिस्तदा ।
प्रवेशं कारयामास सर्वोत्सववरं तदा ॥
`मार्गशीर्षे महाराज पूर्वपक्षे महामखम् । ततःप्रभृति चाद्यापि यष्टेः क्षितिपसत्तमैः ॥'
प्रवेशः क्रियते राजन्यथा तेन प्रवर्तितः ।
अपरेद्युस्ततस्तस्याः क्रियतेऽत्युच्छ्रयो नृपैः ॥
अलङ्कृताया पिटकैर्गन्धमाल्यैश्च भूषणैः ।
`माल्यदामपरिक्षिप्तां द्वात्रिंशत्किष्कुसंमिताम् ॥
उद्धृत्य पिटके चापि द्वादशारत्निकोच्छ्रये ।
महारजनवासांसि परिक्षिप्य ध्वजोत्तमम् ॥
वासोभिरन्नपानैश्च पूजितैर्ब्राह्मणर्षभैः ।
पुण्याहं वाचयित्वाथ ध्वज उच्छ्रियते तदा ॥
शङ्खभेरीमृदङ्गैश्च संनादः क्रियते तदा' ।
भगवान्पूज्यते चात्र यष्टिरूपेण वासवः ॥
स्वयमेव गृहीतेन वसोः प्रीत्या महात्मनः ।
`माणिभद्रादयो यक्षाः पूज्यन्ते दैवतैः सह ॥
नानाविधानि दानानि दत्त्वार्थिभ्यः सुहृज्जनैः ।
अलङ्कृत्वा माल्यदामैर्वस्त्रैर्नानाविधैस्तथा ॥
दृतिभिः सजलैः सर्वैः क्रीडित्वा नृपशासनात् ।
सभाजयित्वा राजानं कृत्वा नर्माश्रयाः कथाः ॥
रमन्ते नागराः सर्वे तथा जानपदैः सह ।
सूताश्च मागधाश्चैव रमन्ते नटनर्तकाः ॥
प्रीत्या तु नृपशार्दूल सर्वे चक्रुर्महोत्सवम् ।
सान्तःपुरः सहामात्यः सर्वाभरणभूषितः ॥
महारजनवासांसि वसित्वा चेदिराट् तदा ।
जातिहिङ्गुलकेनाक्तः सदारो मुमुदे तदा ॥
एवं जानपदाः सर्वे चक्रुरिन्द्रमहं वसुः ॥' यथा चेदिपतिः प्रीतश्चकारेन्द्रमहं वसुः ॥'
एतां पूजां महेन्द्रस्तु दृष्ट्वा वसुकृतां शुभाम् ।
`हरिभिर्वाजिभिर्युक्तमन्तरिक्षगतं रथम् ॥
आस्थाय सह शच्या च वृतो ह्यप्सरसां गणैः ।' वसुना राजमुख्येन समागम्याब्रवीद्वचः ॥
ये पूजयिष्यन्ति च मुदा यथा चेदिपतिर्नृपः ।
कारयिष्यन्ति च मुदा यथा चेदिपतिर्नृपः ॥
तेषां श्रीर्विजयश्चैव सराष्ट्राणां भविष्यति ।
तथा स्फीतो जनपदो मुदितश्च भविष्यति ॥
`निरीतिकानि सस्यानि भवन्ति बहुधा नृप ।
राक्षसाश्च पिशाचाश्च न लुम्पन्ते कथंचन ॥
वैशंपायन उवाच ।'
एवं महात्मना तेन महेन्द्रेण नराधिप । वसुः प्रीत्या मघवता महाराजोऽभिसत्कृतः ।
एवं कृत्वा महेन्द्रस्तु जगाम स्वं निवेशनम् ॥
उत्सवं कारयिष्यन्ति सदा शक्रस्य ये नराः । भूमिरत्नादिभिर्दानैस्तथा पूज्या भवन्ति ते ।
वरदानमहायज्ञैस्तथा शक्रोत्सवेन च ॥
संपूजितो मघवता वसुश्चेदीश्वरो नृपः ।
पालयामास धर्मेण चेदिस्थः पृथिवीमिमाम् ॥
इन्द्रपीत्या चेदिपतिश्चकारेन्द्रमहं वसुः ।
पुत्राश्चास्य महावीर्याः पञ्चासन्नमितौजसः ॥
नानाराज्येषु च सुतान्स सम्राडभ्यषेचयत् ।
महारथो मागधानां विश्रुतो यो बृहद्रथः ॥
प्रत्यग्रहः कुशाम्बश्च यमाहुर्मणिवाहनम् ।
मत्सिल्लश्च यदुश्चैव राजन्यश्चापराजितः ॥
एते तस्य सुता राजन्राजर्षेर्भूरितेजसः ।
न्यवेशयन्नामभिः स्वैस्ते देशांश्च पुराणि च ॥
वासवाः पञ्च राजानः पृथग्वंशाश्च शास्वताः ।
वसन्तमिन्द्रप्रासादे आकाशे स्फाटिके च तम् ॥
उपतस्थुर्महात्मानं गन्धर्वाप्सरसो नृपम् ।
राजोपरिचरेत्येवं नाम तस्याथ विश्रुतम् ॥
पुरोपवाहिनीं तस्य नदीं शुक्तमतीं गिरिः ।
अरौत्सीच्चेतनायुक्तः कामात्कोलाहलः किल ॥
गिरिं कोलाहलं तं तु पदा वसुरताडयत् ।
निश्चक्राम ततस्तेन प्रहारविवरेण सा ॥
तस्यां नद्यां स जनयन्मिथुनं पर्वतः स्वयम् ।
तस्माद्विमोक्षणात्प्रीता नदी राज्ञे न्यवेदयत् ॥
`महिषी भविता कन्या पुमान्सेनापतिर्भवेत् ।
शुक्तिमत्या वचःश्रुत्वा दृष्ट्वा तौ राजसत्तमः' ॥
यः पुमानभवत्तत्र तं स राजर्षिसत्तमः ।
वसुर्वसुप्रदश्चक्रे सेनापतिमरिन्दमः ॥
चकार पत्नीं कन्यां तु तथा तां गिरिकां नृपः ।
वसोः पत्नी तु गिरिका कामकालं न्यवेदयत् ॥
ऋतुकालमनुप्राप्ता स्नाता पुंसवने शुचिः ।
तदहः पितरश्चैनपूचुर्जहि मृगानिति ॥
तं राजसत्तमं प्रीतास्तदा मतिमतां वरः ।
स पितॄणां नियोगेन तामतिक्रम्य पार्थिवः ॥
चकार मृगयां कामी गिरिकामेव संस्मरन् ।
अतीव रूपसंपन्नां साक्षाच्छ्रियमिवापराम् ॥
अशोकैश्चम्पकैश्चूतैरनेकैरतिमुक्तकैः ।
पुन्नागैः कर्णिकारैश्च बकुलैर्दिव्यपाटलैः ॥
पनसैर्नारिकेलैश्च चन्दनैश्चार्जुनैस्तथा ।
एतै रम्यैर्महावृक्षैः पुण्यैः स्वादुफलैर्युतम् ॥
कोकिलाकुलसन्नादं मत्तभ्रमरनादितम् ।
वसन्तकाले तत्पश्यन्वनं चैत्ररथोपमम् ॥
मन्मथाभिपरीतात्मा नापश्यद्गिरिकां तदा ।
अपश्यन्कामसंतप्तश्चरमाणो यदृच्छया ॥
पुष्पसंछन्नशाखाग्रं पल्लवैरुपशोभितम् ।
अशोकस्तबकैश्छन्नं रमणीयमपश्यत ॥
अधस्यात्तस्य छायायां सुखासीनो नराधिपः ।
मधुगन्धैश्च संयुक्तं पुष्पगन्धमनोहरम् ॥
वायुना प्रेर्यमाणस्तु धूम्राय मुदमन्वगात् । `भार्यां चिन्तयमानस्य मन्मथाग्निरवर्धत ।'
तस्य रेतः प्रचस्कन्द चरतो गहने वने ॥
स्कन्नमात्रं च तद्रेतो वृक्षपत्रेण भूमिपः ।
प्रतिजग्राह मिथ्या मे न पतेद्रेत इत्युत ॥
`अङ्गुलीयेन शुक्लस्य रक्षां च विदधे नृपः । अशोकस्तबकै रक्तैः पल्लवैश्चाप्यबन्धयत् ॥'
इदं मिथ्या परिस्कन्नं रेतो मे न भवेदिति ।
ऋतुश्च तस्याः पत्न्या मे न मोघः स्यादिति प्रभुः ॥
संचिन्त्यैवं तदा राजा विचार्य च पुनःपुनः ।
अमोघत्वं च विज्ञाय रेतसो राजसत्तमः ॥
शुक्रप्रस्थापने कालं महिष्या प्रसमीक्ष्य वै ।
अभिमन्त्र्याथ तच्छुक्रमारात्तिष्ठन्तमाशुगम् ॥
सूक्ष्मधर्मार्थतत्त्वज्ञो गत्वा श्येनं ततोऽब्रवीत् ।
मत्प्रियार्थमिदं सौम्य शुक्रं मम गृहं नय ॥
गिरिकायाः प्रयच्छाशु तस्या ह्यार्तवमद्य वै ।
वैशंपायन उवाच ।
गृहीत्वा तत्तदा श्येनस्तूर्णमुत्पत्य वेगवान् ॥
जवं परममास्थाय प्रदुद्राव विहंगमः ।
तमपश्यदथायान्तं श्येनं श्येनस्तथाऽपरः ॥
अभ्यद्रवच्च तं सद्यो दृष्ट्वैवामिषशङ्कया ।
तुण्डयुद्धमथाकाशे तावुभौ संप्रचक्रतुः ॥
युद्ध्यतोरपतद्रेतस्तच्चापि यमुनाम्भसि ।
तत्राद्रिकेति विख्याता ब्रह्मशापाद्वराप्सरा ॥
मीनभावमनुप्राप्ता बभूव यमुनाचरी ।
श्येनपादपरिभ्रष्टं तद्वीर्यमथ वासवम् ॥
जग्राह तरसोपेत्य साऽद्रिका मत्स्यरूपिणी ।
कदाचिदपि मत्सीं तां बबन्धुर्मत्स्यजीविनः ॥
मासे च दशमे प्राप्ते तदा भरतसत्तम ॥
उज्जह्रुरुदरात्तस्याः स्त्रीं पुमांसं च मानुषौ ॥
आश्चर्यभूतं तद्गत्वा राज्ञेऽथ प्रत्यवेदयन् ।
काये मत्स्या इमौ राजन्संभूतौ मानुषाविति ॥
तयोः पुमांसं जग्राह राजोपरिचरस्तदा ।
स मत्स्यो नाम राजासीद्धार्मिकः सत्यसङ्गरः ॥
साऽप्सरा मुक्तशापा च क्षणेन समपद्यत ।
या पुरोक्ता भगवता तिर्यग्योनिगता शुभा ॥
मानुषौ जनयित्वा त्वं शापमोक्षमवाप्स्यसि ।
ततः साजनयित्वा तौ विशस्ता मत्स्यघातिभिः ॥
संत्यज्य मत्स्यरूपं सा दिव्यं रूपमवाप्य च ।
सिद्धर्षिचारणपथं जगामाथ वराप्सराः ॥
सा कन्या दुहिता तस्या मत्स्या मत्स्यसगन्धिनी ।
राज्ञा दत्ता च दाशाय कन्येयं ते भवत्विति ॥
रूपसत्वसमायुक्ता सर्वैः समुदिता गुणैः ।
सा तु सत्यवती नाम मत्स्यघात्यभिसंश्रयात् ॥
आसीत्सा मत्स्यगन्धैव कंचित्कालं शुचिस्मिता ।
शुश्रूषार्थं पितुर्नावं वाहयन्तीं जले च ताम् ॥
तीर्थयात्रां परिक्रामन्नपश्यद्वै पराशरः ।
अतीव रूपसंपन्नां सिद्धानामपि काङ्क्षिताम् ॥
दृष्ट्वैव स च तां धीमांश्चकमे चारुहासिनीम् ।
दिव्यां तां वासवीं कन्यां रम्भोरूं मुनिपुङ्गवः ॥
संभवं चिन्तयित्वा तां ज्ञात्वा प्रोवाच शक्तिजः ।
क्व कर्णधारो नौर्येन नीयते ब्रूहि भामिनि ॥
मत्स्यगन्धोवाच ।
अनपत्यस्य दाशस्य सुता तत्प्रियकाम्यया ।
सहस्रजनसंपन्ना नौर्मया वाह्यते द्विज ॥
पराशर उवाच ।
शोभनं वासवि शुभे किं चिरायसि वाह्यताम् ।
कलशं भविता भद्रे सहस्रार्धेन संमितम् ॥
अहं शेषो भिविष्यामि नीयतामचिरेण वै ।
वैशंपायन उवाच ।
मत्स्यगन्धा तथेत्युक्त्वा नावं वाहयतां जले ॥
वीक्षमाणं मुनिं दृष्ट्वा प्रोवाचेदं वचस्तदा ।
मत्स्यगन्धेति मामाहुर्दाशराजसुतां जनाः ॥
जन्म शोकाभितप्तायाः कथं ज्ञास्यसि कथ्यताम् ।
पराशर उवाच ।
दिव्यज्ञानेन दृष्टं हि दृष्टमात्रेण ते वपुः ॥
प्रणयग्रहणार्थाय वक्ष्येव वासवि तच्छृणु ।
बर्हिषद इति ख्याताः पितरः सोमपास्तुते ॥
तेषां त्वं मानसी कन्या अच्छोदा नाम विश्रुता ।
अच्छोदं नाम तद्दिव्यं सरो यस्मात्समुत्थितम् ॥
त्वया न दृष्टपूर्वास्तु पितरस्ते कदाचन ।
संभूता मनसा तेषां पितॄन्स्वान्नाभिजानती ॥
सा त्वन्यं पितरं वव्रे स्वानतिक्रम्य तान्पितॄन् ।
नाम्ना वसुरिति ख्यातं मनुपुत्रं दिवि स्थितम् ॥
अद्रिकाऽप्सरसा युक्तं विमाने दिवि विष्ठितम् ।
सा तेन व्यभिचारेण मनसा कामचारिणी ॥
पितरं प्रार्थयित्वाऽन्यं योगाद्भष्टा पपात सा ।
अपश्यत्पतमाना सा विमानत्रयमन्तिकात् ॥
त्रसरेणुप्रमाणांस्तांस्तत्रापश्यत्स्वकान्पितॄन् ।
सुसूक्ष्मानपरिव्यक्तानङ्गैरङ्गेष्विवाहितान् ॥
तातेति तानुवाचार्ता पतन्ती सा ह्यधोमुखी ।
तैरुक्ता सा तु माभैषीस्तेन सा संस्थिता दिवि ॥
ततः प्रसादयामास स्वान्पितॄन्दीनया गिरा ।
तामूचुः पितरः कन्यां भ्रैष्टश्वर्यां व्यतिक्रमात् ॥
भ्रष्टैश्वर्या स्वदोषेण पतसि त्वं शुचिस्मिते ।
यैरारभन्ते कर्माणि शरीरैरिह देवताः ॥
तैरेव तत्कर्मफलं प्राप्नुवन्ति स्म देवताः ।
मनुष्यास्त्वन्यदेहेन शुभाशुभमिति स्थितिः ॥
सद्यः फलन्ति कर्माणि देवत्वे प्रेत्य मानुषे ।
तस्मात्त्वं पतसे पुत्रि प्रेत्यत्वं प्राप्स्यसे फलम् ॥
पितृहीना तु कन्या त्वं वसोर्हि त्वं सुता मता ।
मत्स्ययोनौ समुत्पन्ना सुताराज्ञो भविष्यसि ॥
अद्रिका मत्स्यरूपाऽभूद्गङ्गायमनुसङ्गमे ।
पराशरस्य दायादं त्वं पुत्रं जनयिष्यसि ॥
यो वेदमेकं ब्रह्मर्षिश्चतुर्धा विबजिष्यति ।
महाभिषक्सुतस्यैव शन्तनोः कीर्तिवर्धनम् ॥
ज्येष्ठं चित्राङ्गदं वीरं चित्रवीरं च विश्रुतम् ।
एतान्सूत्वा सुपुत्रांस्त्वं पुनरेव गमिष्यसि ॥
व्यतिक्रमात्पितॄणां च प्राप्स्यसे जन्म कुत्सितम् ।
अस्यैव राज्ञस्त्वं कन्या ह्यद्रिकायां भविष्यसि ॥
अष्टाविंशे भवित्री त्वं द्वापरे मत्स्ययोनिजा ।
एवमुक्ता पुरा तैस्त्वं जाता सत्यवती शुभा ॥
अद्रिकेत्यभिविख्याता ब्रह्मशापाद्वराप्सरा ।
मीनभावमनुप्राप्ता त्वं जनित्वा गता दिवम् ॥
तस्यां जातासि सा कन्या राज्ञो वीर्येण चैवहि ।
तस्माद्वासवि भद्रं ते याचे वंशकरं सुतम् ॥
संगमं मम कल्याणि कुरुष्वेत्यभ्यभाषत ॥
वैशंपायन उवाच ।
विस्मयाविष्टसर्वाङ्गी जातिस्मरणतां गता ।
साब्रवीत्पश्य भगवन्परपारे स्थितानृषीन् ॥
आवयोर्दृष्टयोरेभिः कथं नु स्यात्समागमः ।
एवं तयोक्तो भगवान्नीहारमसृजत्प्रभुः ॥
येन देशः स सर्वस्तु तमोभूत इवाभवत् ।
दृष्ट्वा सृष्टं तु नीहारं ततस्तं परमर्षिणा ॥
विस्मिता साभवत्कन्या व्रीडिता च तपस्विनी ।
सत्यवत्युवाच ।
विद्धि मां भगवन्कन्यां सदा पितृवशानुगाम् ॥
त्वत्संयोगाच्च दुष्येत कन्याभावो ममाऽनघ ।
कन्यात्वे दूषिते वापि कथं शक्ष्ये द्विजोत्तम ॥
गृह गन्तुमुषे चाहं धीमन्न स्थातुमुत्सहे ।
एतत्संचिन्त्य भगवन्विधत्स्व यदनन्तरम् ॥
वैशंपायन उवाच ।
एवमुक्तवतीं तीं तु प्रीतिमानुषिसत्तमः ।
उवाच मत्प्रियं कृत्वा कन्यैव त्वं भविष्यति ॥
वृणीष्व च वरं भीरुं यं त्वमिच्छसि भामिनि ।
वृथा हि न प्रसादो मे भूतपूर्वः शुचिस्मिते ॥
एवमुक्ता वरं वव्रे गात्रसौगन्ध्यमुत्तमम् ।
सचास्यै भगवान्प्रादान्मनः काङ्क्षितं प्रभुः ॥
ततो लब्धवरा प्रीता स्त्रीभावगुणभूषिता ।
जगाम सह संसर्गमृषिणाऽद्भुतकर्मणा ॥
तेन गन्धवतीत्येवं नामास्याः प्रथितं भुवि ।
तस्यास्तु योजनाद्गन्धमाजिघ्रन्त नरा भुवि ॥
तस्या योजनगन्धेति ततो नामापरं स्मृतम् ।
इति सत्यवती हृष्टा लब्ध्वा वरमनुत्तमम् ॥
पराशरेण संयुक्ता सद्यो गर्भं सुषाव सा ।
जज्ञे च यमुनाद्वीपे पाराशर्यः स वीर्यवान् ॥
स मातरमनुज्ञाप्य तपस्येव मनो दधे ।
स्मृतोऽहं दर्शयिष्यामि कृत्येष्विति च सोऽब्रवीत् ॥
एवं द्वैपायनो जज्ञे सत्यवत्यां पराशरात् ।
न्यस्तोद्वीपे यद्बालस्तस्माद्द्वैपायनःस्मृतः ॥
पादापसारिणं धर्मं स तु विद्वान्युगे युगे ।
आयुः शक्तिं च मर्त्यानां युगावस्थामवेक्ष्यच ॥
ब्रह्मणो ब्राह्मणानां च तथानुग्रहकाङ्क्षया ।
विव्यास वेदान्यस्मत्स तस्माद्व्यास इति स्मृतः ॥
वेदानध्यापयामास महाभारतपञ्चमान् ।
सुमन्तुं जैमिनिं पैलं शुकं चैव स्वमात्मजम् ॥
प्रभुर्वरिष्ठो वरदो वैशंपायनमेव च । संहितास्तैः पृथक्त्वेन भारतस्य प्रकाशिताः ॥ 1-64a-1a [ततो रम्ये वनोद्देशे दिव्यास्तरणसंयुते । 1-64a-1b वीरासनमुपास्थाय योगी ध्यानपरोऽभवत् ॥ 1-64a-2a श्वेतपट्टगृहे रम्ये पर्यङ्के सोत्तरच्छदे । 1-64a-2b तूष्णींभूतां तदा कन्यां ज्वलन्तीं योगतेजसा ॥ 1-64a-3a दृष्ट्वा तां तु समाधाय विचार्य च पुनः पुनः । 1-64a-3b स चिन्तयामास मुनिः किं कृतं सुकृतं भवेत् ॥ 1-64a-4a शिष्टानां तु समाचारः शिष्टाचार इति स्मृतः । 1-64a-4b श्रुतिस्मृतिविदो विप्रा धर्मज्ञा ज्ञानिनः स्मृताः ॥ 1-64a-5a धर्मज्ञैर्विहितो धर्मः श्रौतः स्मार्तो द्विधा द्विजैः । 1-64a-5b दानाग्निहोत्रमिज्या च श्रौतस्यैतद्धि लक्षणम् ॥ 1-64a-6a स्मार्तो वर्णाश्रमाचारो यमैश्च नियमैर्युतः । 1-64a-6b धर्मे तु धारणे धातुः सहत्वे चापि पठ्यते ॥ 1-64a-7a तत्रेष्टफलभाग्धर्म आचार्यैरुपदिश्यते । 1-64a-7b अनिष्टफलभाक्रेति तैरधर्मोऽपि भाष्यते ॥ 1-64a-8a तस्मादिष्टफलार्थाय धर्ममेव समाश्रयेत् । 1-64a-8b ब्राह्मो दैवस्तथैवार्षः प्राजापत्यश्च धार्मिकः ॥ 1-64a-9a विवाहा ब्राह्मणानां तु गान्धर्वो नैव धार्मिकः । 1-64a-9b त्रिवर्णेतरजातीनां गान्धर्वासुरराक्षसाः ॥ 1-64a-10a पैशाचो नैव कर्तव्यः पैशाचश्चाष्टमोऽधमः । 1-64a-10b सामर्षां व्यङ्गिकां कन्यां मातुश्च कुलजां तथा ॥ 1-64a-11a वृद्धां प्रव्राजितां वन्ध्यां पतितां च रजस्वलाम् । 1-64a-11b अपस्मारकुले जातां पिङ्गलांकुष्ठिनीं व्रणीम् ॥ 1-64a-12a न चास्नातां स्त्रियं गच्छेदिति धर्मानुशासनम् । 1-64a-12b पिता पितामहो भ्राता माता मातुल एव च ॥ 1-64a-13a उपाध्यायर्त्विजश्चैव कन्यादाने प्रभूत्तमाः । 1-64a-13b एतैर्दत्तां निषेवेत नादत्तामाददीत च ॥ 1-64a-14a इत्येव ऋषयः प्राहुर्विवाहे धर्मवित्तमाः । 1-64a-14b अस्या नास्ति पिता भ्राता माता मातुल एव च ॥ 1-64a-15a गान्धर्वेण विवाहेन न स्पृशामि यदृच्छया । 1-64a-15b क्रियाहीनं तु गान्धर्वं न कर्तव्यमनापदि ॥ 1-64a-16a यदस्यां जायते पुत्रो वेदव्यासो भवेदृषिः । 1-64a-16b क्रियाहीनः कथं विप्रो भवेदृषिरुदारधीः ॥ 1-64a-17x वैशंपायन उवाच । 1-64a-17a एवं चिन्तयतो भावं महर्षेर्भावितात्मनः । 1-64a-17b ज्ञात्वा चैवाभ्यवर्तन्त पितरो बर्हिषस्तदा ॥ 1-64a-18a तस्मिन्क्षणे ब्रह्मपुत्रो वसिष्ठोऽपि समेयिवान् । 1-64a-18b पूर्वं स्वागतमित्युक्त्वा वसिष्ठः प्रत्यभाषत ॥ 1-64a-19x पितृगणा ऊचुः । 1-64a-19a अस्माकं मानसीं कन्यामस्मच्छापेन वासवीम् । 1-64a-19b यदिचच्छशि पुत्रार्थं कन्यां गृह्मीष्वमा चिरम् ॥ 1-64a-20a पितॄणां वचनं श्रुत्वा वसिष्ठः प्रत्यभाषत । 1-64a-20b महर्षीणां वचः सत्यं पुराणेपि मया श्रुतम् ॥ 1-64a-21a पराशरो ब्रह्मचारी प्रजार्थी मम वंशधृत् । 1-64a-21b एवं संभाषमाणे तु वसिष्ठे पितृभिः सह ॥ 1-64a-22a ऋषयोऽभ्यागमंस्तत्र नैमिशारण्यवासिनः । 1-64a-22b विवाहं द्रष्टुमिच्छन्तः शक्तिपुत्रस्य धीमतः ॥ 1-64a-23a अरुन्धती महाभागा अदृश्यन्त्या सहैव सा । 1-64a-23b विश्वकर्मकृतां दिव्यां पर्णशालां प्रविश्य सा ॥ 1-64a-24a वैवाहिकांस्तु संभारान्संकल्प्य च यथाक्रमम् । 1-64a-24b अरुन्धती सत्यवतीं वधूं संगृह्य पाणिना ॥ 1-64a-25a भद्रासने प्रतिष्ठाप्य इन्द्राणीं समकल्पयत् । 1-64a-25b आपूर्यमाणपक्षे तु वैशाखे सोमदैवते ॥ 1-64a-26a शुभग्रहे त्रयोदश्यां मुहूर्ते मैत्र आगते । 1-64a-26b विवाहकाल इत्युक्त्वा वसिष्ठो मुनिभिः सह ॥ 1-64a-27a यमुनाद्वीपमासाद्य शिष्यैश्च मुनिपङ्क्तिभिः । 1-64a-27b स्थण्डिलं चतुरश्रं च गोमयेनोपलिप्य च ॥ 1-64a-28a अक्षतैः फलपुष्पैश्च स्वस्तिकैराम्रपल्लवैः । 1-64a-28b जलपूर्णघटैश्चैव सर्वतः परिशोभितम् ॥ 1-64a-29a तस्य मध्ये प्रतिष्ठाप्य बृस्यां मुनिवरं तदा । 1-64a-29b सिद्धार्थयवकल्कैश्च स्नातं सर्वौषधैरपि ॥ 1-64a-30a कृत्वार्जुनानि वस्त्राणि परिधाप्य महामुनिम् । 1-64a-30b वाचयित्वा तु पुण्याहमक्षतैस्तु समर्चितः ॥ 1-64a-31a गन्धानुलिप्तः स्रग्वी च सप्रतोदो वधूगृहे । 1-64a-31b अपदातिस्ततो गत्वा वधूज्ञातिभिरर्चितः ॥ 1-64a-32a स्नातामहतसंवीतां गन्धलिप्तां स्रगुज्ज्वलाम् । 1-64a-32b वधूं मङ्गलसंयुक्तामिषुहस्तां समीक्ष्य च ॥ 1-64a-33a उवाच वचनं काले कालज्ञः सर्वधर्मवित् । 1-64a-33b प्रतिग्रहो दातृवशः श्रुतमेवं मया पुरा ॥ 1-64a-34a यथा वक्ष्यन्ति पितरस्तत्करिष्यामहे वयम् । 1-64a-34x वैशंपायन उवाच । 1-64a-34b तद्धर्मिष्ठं यशस्यं च वचनं सत्यवादिनः ॥ 1-64a-35a श्रुत्वा तु पितरः सर्वे निःसङ्गा निष्परिग्रहाः । 1-64a-35b वसुं परमधर्मिष्ठमानीयेदं वचोऽब्रुवन् ॥ 1-64a-36a मत्स्ययोनौ समुत्पन्ना तव पुत्री विशेषतः । 1-64a-36b पराशराय मुनये दातुमर्हसि धर्मतः ॥ 1-64a-37x वसुरुवाच । 1-64a-37a सत्यं मम सुता सा हि दाशराजेन वर्धिता । 1-64a-37b अहं प्रभुः प्रदाने तु प्रजापालः प्रजार्थिनाम् ॥ 1-64a-38x पितर ऊचुः । 1-64a-38a निराशिषो वयं सर्वे निःसङ्गा निष्परिग्रहाः । 1-64a-38b कन्यादानेन संबन्धो दक्षिणाबन्ध उच्यते ॥ 1-64a-39a कर्मभूमिस्तु मानुष्यं भोगभूमिस्त्रिविष्टपम् । 1-64a-39b इह पुण्यकृतो यान्ति स्वर्गलोकं न संशयः ॥ 1-64a-40a इह लोके दुष्कृतिनो नरकं यान्ति निर्घृणाः । 1-64a-40b दक्षिणाबन्ध इत्युक्ते उभे सुकृतदुष्कृते ॥ 1-64a-41a दक्षिणाबन्धसंयुक्ता योगिनः प्रपतन्ति ते । 1-64a-41b तस्मान्नो मानसीं कन्यां योगाद्भ्रष्टां विशापते ॥ 1-64a-42a सुतात्वं तव संप्राप्तां सतीं भिक्षां ददस्व वै । 1-64a-42b इत्युक्त्वा पितरः सर्वे क्षणादन्तर्हितास्तदा ॥ 1-64a-43x वैशंपायन उवाच । 1-64a-43a याज्ञवल्क्यं समाहूय विवाहाचार्यमित्युत । 1-64a-43b वसुं चापि समाहूय वसिष्ठो मुनिभिः सह ॥ 1-64a-44a विवाहं कारयामास विधिदृष्टेन कर्मणा । 1-64a-44x वसुरुवाच । 1-64a-44b पराशर महाप्राज्ञ तव दास्याम्यहं सुताम् ॥ 1-64a-45a प्रतीच्छ चैनां भद्रं ते पाणिं गृह्णीष्व पाणिना । 1-64a-45x वैशंपायन उवाच । 1-64a-45b वसोस्तु वचनं श्रुत्वा याज्ञवल्क्यमते स्थितः ॥ 1-64a-46a कृतकौतुकमङ्गल्यः पाणिना पाणिमस्पृशत् । 1-64a-46b प्रभूताज्येन हविषा हुत्वा मन्त्रैर्हुताशनम् ॥ 1-64a-47a त्रिरग्निं तु परिक्रम्य समभ्यर्च्य हुताशनम् । 1-64a-47b महर्षीन्याज्ञवल्क्यादीन्दक्षिणाभिः प्रतर्प्यच ॥ 1-64a-48a लब्धानुज्ञोऽभिवाद्याशु प्रदक्षिणमथाकरोत् । 1-64a-48b पराशरे कृतोद्वाहे देवाः सर्पिगणास्तदा ॥ 1-64a-49a हृष्टा जग्मुः क्षणादेव वेदव्यासो भवत्विति । 1-64a-49b एवं सत्यवती हृष्टा पूजां लब्ध्वा यथेष्टतः ॥ 1-64a-50a पराशरेण संयुक्ता सद्यो गर्भं सुषाव सा । 1-64a-50b जज्ञे च यमुनाद्वीपे पाराशर्यः स वीर्यवान् ॥ 1-64a-51a जातमात्रः स ववृधे सप्तवर्षोऽभवत्तदा । 1-64a-51b स्नात्वाभिवाद्य पितरं तस्थौ व्यासः समाहितः ॥ 1-64a-52a स्वस्तीति वचनं चोक्त्वा ददौ कलशमुत्तमम् । 1-64a-52b गृहीत्वा कलशं प्राप्ते तस्थौ व्यासः समाहितः ॥ 1-64a-53a ततो दाशभयात्पत्नी स्नात्वा कन्या बभूव सा । 1-64a-53b अभिवाद्य मुनेः पादौ पुत्रं जग्राह पाणिना ॥ 1-64a-54a स्पृष्टमात्रे तु निर्भर्त्स्य मातरं वाक्यमब्रवीत् । 1-64a-54b मम पित्रा तु संस्पर्शान्मातस्त्वमभवः शुचिः ॥ 1-64a-55a अद्य दाशसुता कन्या न स्पृशेर्मामनिन्दिते । 1-64a-55x वैशंपायन उवाच । 1-64a-55b व्यासस्य वचनं श्रुत्वा बाष्पपूर्णमुखी तदा ॥ 1-64a-56a मनुष्यभावात्सा योषित्पपात मुनिपादयोः । 1-64a-56b महाप्रसादो भगवान्पुत्रं प्रोवाच धर्मवित् ॥ 1-64a-57a मा त्वमेवंविधं कार्षीर्नैतद्धर्म्यं मतं हि नः । 1-64a-57b दूष्यौ न मातापितरौ तथा पूर्वोपकारिणौ ॥ 1-64a-58a धारणाद्दुःखसहनात्तयोर्माता गरीयसी । 1-64a-58b बीजक्षेत्रसमायोगे सस्यं जायेत लौकिकम् ॥ 1-64a-59a जायते च सुतस्तद्वत्पुरुषस्त्रीसमागमे । 1-64a-59b मृगीणां पक्षिणां चैव अप्सराणां तथैव च ॥ 1-64a-60a शूद्रयोन्यां च जायन्ते मुनयो वेदपारगाः । 1-64a-60b ऋष्यशृङ्गो मृगीपुत्रः कण्वो बर्हिसुतस्तथा ॥ 1-64a-61a अगस्त्यश्च वसिष्ठश्च उर्वश्यां जनितावुभौ । 1-64a-61b सोमश्रवास्तु सर्प्यां तु अश्विनावश्विसंभवौ ॥ 1-64a-62a स्कन्दः स्कन्नेन शुक्लेन जातः शरवणे पुरा । 1-64a-62b एवमेव च देवानामृषीमां चैव संभवः ॥ 1-64a-63a लोकवेदप्रवृत्तिर्हि न मीमांस्या बुधैः सदा । 1-64a-63b वेदव्यास इति प्रोक्तः पुराणे च स्वयंभुवा ॥ 1-64a-64a धर्मनेता महर्षीणां मनुष्याणां त्वमेव च । 1-64a-64b तस्मात्पुत्र न दूष्येत वासवी योगचारिणी ॥ 1-64a-65a मत्प्रीत्यर्थं महाप्राज्ञ सस्नेहं वक्तुमर्हसि । 1-64a-65b प्रजाहितार्थं संभूतो विष्णोर्भागो महानृषिः ॥ 1-64a-66a तस्मात्स्वमातरं स्नेहात्प्रबवीहि तपोधन । 1-64a-66x वैशंपायन उवाच । 1-64a-66b गुरोर्वचनमाज्ञाय व्यासः प्रीतोऽभवत्तदा ॥ 1-64a-67a चिन्तयित्वा लोकवृत्तं मातुरङ्कमथाविशत् । 1-64a-67b पुत्रस्पर्शात्तु लोकेषु नान्यत्सुखमतीव हि ॥ 1-64a-68a व्यासं कमलपत्राक्षं परिष्वज्याश्र्ववर्तयत् । 1-64a-68b स्तन्यासारैः क्लिद्यमाना पुत्रमाघ्राय मूर्धनि ॥ 1-64a-69x वासव्युवाच । 1-64a-69a पुत्रलाभात्परं लोके नास्तीह प्रसवार्थिनाम् । 1-64a-69b दुर्लभं चेति मन्येऽहं मया प्राप्तं महत्तपः ॥ 1-64a-70a महता तपसा तात महायोगबलेन च । 1-64a-70b मया त्वं हि महाप्राज्ञ लब्धोऽमृतमिवामरैः ॥ 1-64a-71a तस्मात्त्वं मामृषेः पुत्र त्यक्तुं नार्हसि सांप्रतम् । 1-64a-71x वैशंपायन उवाच । 1-64a-71b एवमुक्तस्ततः स्नेहाद्व्यासो मातरमब्रवीत् ॥ 1-64a-72a त्वया स्पृष्टः परिष्वक्तो मूर्ध्नि चाघ्रायितो मुहुः । 1-64a-72b एतावन्मात्रया प्रीतो भविष्येषु नृपात्मजे ॥ 1-64a-73a स्मृतोऽहं दर्शयिष्यामि कृत्येष्विति च सोऽब्रवीत् । 1-64a-73b स मातरमनुज्ञाप्य तपस्येव मनो दधे ॥ 1-64a-74a ततः कन्यामनुज्ञाय पुनः कन्या भवत्विति । 1-64a-74b पराशरोऽपि भगवान्पुत्रेण सहितो ययौ ॥ 1-64a-75a गत्वाश्रमपदं पुम्यमदृश्यन्त्या पराशरः । 1-64a-75b जातकर्मादिसंस्कारं कारयामास धर्मतः ॥ 1-64a-76a कृतोपनयनो व्यासो याज्ञवल्क्येन भारत । 1-64a-76b वेदानधिजगौ साङ्गानोङ्कारेण त्रिमात्रया ॥ 1-64a-77a गुरवे दक्षिणां दत्त्वा तपः कर्तुं प्रचक्रमे । 1-64a-77b एवं द्वैपायनो जज्ञे सत्यवत्यां पराशरात् ॥ 1-64a-78a द्वीप न्यस्तः स यद्वालस्तस्माद्द्वैपायनोऽभवत् । 1-64a-78b पादापसारिणं धर्मं विद्वान्स तु युगे युगे ॥ 1-64a-79a आयुः शक्तिं च मर्त्यानां युगाद्युगमवेक्ष्य च । 1-64a-79b ब्रह्मर्षिर्ब्राह्मणानां च तथाऽनुग्रहकाङ्क्षया ॥ 1-64a-80a विव्यास वेदान्यस्माच्च वेदव्यास इति स्मृतः । 1-64a-80b ततः स महर्षिर्विद्वाञ्शिष्यानाहूय धर्मतः ॥ 1-64a-81a सुमन्तुं जैमिनिं पैलं शुकं चैव स्वमात्मजम् । 1-64a-81b प्रभुर्वरिष्ठो वरदो वैशंपायनमेव च ॥ 1-64a-82a वेदानध्यापयामास महाभारतपञ्चमान् । 1-64a-82b संहितास्तैः पृथक्त्वेन भारतस्य प्रकीर्तिता ॥ 1-64a-83a ततः सत्यवती हृष्टा जगाम स्वं निवेशनम् । 1-64a-83b तस्यास्तु योजनाद्गन्धमाजिघ्रन्ति नरा भुवि ॥ 1-64a-84a दाशराजस्तु तद्गन्धमाजिघ्रन्पीतिमावहत् । 1-64a-84x दाशराज उवाच । 1-64a-84b त्वामाहुर्मत्स्यगन्धेति कथं बाले सुगन्धता ॥ 1-64a-85a अपास्य मत्स्यगन्धत्वं केन दत्ता सुगन्धता 1-64a-85x सत्यवत्युवाच । 1-64a-85b शक्ते- पुत्रो महाप्राज्ञः पराशर इति श्रुतः ॥ 1-64a-86a नावं वाहयमानाया मम दृष्ट्वां सुशिक्षितम् । 1-64a-86b उपास्य मत्स्यगन्धत्वं योजनाद्गन्धतां ददौ ॥ 1-64a-87a ऋषेः प्रसादं दृष्ट्वा तु जनाः प्रीतिमुपागमन् । 1-64a-87b एवं लब्धो मया गन्धो न रोषं कर्तुमर्हसि ॥ 1-64a-88a दाशराजस्तु तद्वाक्यं प्रशशंस ननन्द च । 1-64a-88b एतत्पवित्रं पुण्यं च व्याससमवमुत्तमम् । 1-64a-88c इतिहासमिमं श्रुत्वा प्रजावन्तो भवन्ति च ॥
तथा भीष्मः शान्तनवो गङ्गायाममितद्युतिः ।
वसुवीर्यात्समभवन्महावीर्यो महायशाः ॥
वैदार्थविच्च भगवानृषिर्विप्रो महायशाः ।
शूले प्रोतः पुराणर्षिरचोरश्चोरशङ्कया ॥
अणीमाण्डव्य इत्येवं विख्यातः स महायशाः ।
स धर्ममाहूय पुरा महर्षिरिदमुक्तवान् ॥
इषीकया मया बाल्याद्विद्धा ह्येका शकुन्तिका ।
तत्किल्बिषं स्मरे धर्म नान्यत्पापमहं स्मरे ॥
तन्मे सहस्रममितं कस्मान्नेहाजयत्तपः ।
गरीयान्ब्राह्मणवधः सर्वभूतवधाद्यतः ॥
तस्मात्त्वं किल्बिषादस्माच्छूद्रयोनौ जनिष्यसि ।
वैशंपायन उवाच ।
तेन शापेन धर्मोऽपि शूद्रयोनावजायत ॥
विद्वान्विदुररूपेण धार्मिकः किल्बिषात्ततः ।
संजयो मुनिकल्पस्तु जज्ञे सूतो गवल्गणात् ॥
सूर्याच्च कुन्तिकन्यायां जज्ञे कर्णो महाबलः ।
सहजं कवचं बिभ्रत्कुण्डलोद्योतिताननः ॥
अनुग्रहार्थं लोकानां विष्णुर्लोकनमस्कृतः ।
वसुदेवात्तु देवक्यां प्रादुर्भूतो महायशाः ॥
अनादिनिधनो देवः स कर्ता जगतः प्रभुः ।
अव्यक्तमक्षरं ब्रह्म प्रधानं त्रिगुणात्मकम् ॥
आत्मानमव्ययं चैव प्रकृतिं प्रभवं प्रभुम् ।
पुरुषं विश्वकर्माणं सत्वयोगं ध्रुवाक्षरम् ॥
अनन्तमचलं देवं हंसं नारायणं प्रभुम् ।
धातारमजमव्यक्तं यमाहुः परमव्ययम् ॥
कैवल्यं निर्गुणं विश्वमनादिमजमव्ययम् ।
पुरुषः स विभुः कर्ता सर्वभूतपितामहः ॥
धर्मसंस्थापनार्थाय प्रजज्ञेऽन्धकवृष्णिषु ।
अस्त्रज्ञौ तु महावीर्यौ सर्वशास्त्रविशारदौ ॥
सात्यकिः कृतवर्मा च नारायणमनुव्रतौ ।
सत्यकाद्धृदिकाच्चैव जज्ञातेऽस्त्रविशारदौ ॥
भरद्वाजस्य च स्कन्नं द्रोण्यां शुक्रमवर्धत ।
सहर्षेरुग्रतपसस्तस्माद्द्रोणो व्यजायत ॥
गौतमान्मिथुनं जज्ञे शरस्तम्बाच्छरद्वतः ।
अश्वत्थाम्नश्च जननी कृपश्चैव महाबलः ॥
अश्वत्थामा ततो जज्ञे द्रोणादेव महाबलः ।
तथैव धृष्टद्युम्नोऽपि साक्षादग्निसमद्युतिः ॥
वैताने कर्मणि तते पावकात्समजायत ।
वीरो द्रोणविनाशाय धनुरादाय वीर्यवान् ॥
तथैव वेद्यां कृष्णापि जज्ञे तेजस्विनी शुभा ।
विभ्राजमाना वपुषा बिभ्रती रूपमुत्तमम् ॥
प्रह्रादशिष्यो नग्नजित्सुबलश्चाभवत्ततः ।
तस्य प्रजा धर्महन्त्री जज्ञे देवप्रकोपनात् ॥
गान्धारराजपुत्रोऽभूच्छकुनिः सौबलस्तथा ।
दुर्योधनस्य जननी जज्ञातेऽर्थविशारदौ ॥
कृष्णद्वैपायनाज्जज्ञे धृतराष्ट्रो जनेश्वरः ।
क्षेत्रे विचित्रवीर्यस्य पाण्डुश्चैव महाबलः ॥
धर्मार्थकुशलो धीमान्मेधावी धूतकल्मषः ।
विदुरः शूद्रयोनौ तु जज्ञे द्वैपायनादपि ॥
पाण्डोस्तु जज्ञिरे पञ्च पुत्रा देवसमाः पृथक् ।
द्वयोः स्त्रियोर्गुणज्येष्ठस्तेषामासीद्युधिष्ठिरः ॥
धर्माद्युधिष्ठिरो जज्ञे मारुताच्च वृकोदरः ।
इन्द्राद्धनंजयः श्रीमान्सर्वशस्त्रभृतां वरः ॥
जज्ञाते रूपसंपन्नावश्विभ्यां च यमावपि ।
नकुलः सहदेवश्च गुरुशुश्रूषणे रतौ ॥
तथा पुत्रशतं जज्ञे धृतराष्ट्रस्य धीमतः ।
दुर्योधनप्रभृतयो युयुत्सुः करणस्तथा ॥
ततो दुःशासनश्चैव दुःसहश्चापि भारत ।
दुर्मर्षणो विकर्णश्च चित्रसेनो विविंशतिः ॥
जयः सत्यव्रतश्चैव पुरुमित्रश्च भारत ।
वैश्यापुत्रो युयुत्सुश्च एकादश महारथाः ॥
अभिमन्युः सुभद्रायामर्जुनादभ्यजायत ।
स्वस्रीयो वासुदेवस्य पौत्रः पाण्डोर्महात्मनः ॥
पाण्डवेभ्यो हि पाञ्चाल्यां द्रौपद्यां पञ्च जज्ञिरे ।
कुमारा रूपसंपन्नाः सर्वशास्त्रविशारदाः ॥
प्रतिविन्ध्यो युधिष्ठिरात्सुतसोमो वृकोदरात् ।
अर्जुनाच्छ्रुतकीर्तिस्तु शतानीकस्तु नाकुलिः ॥
तथैव सहदेवाच्च श्रुतसेनः प्रतापवान् ।
हिडिम्बायां च भीमेन वने जज्ञे घटोत्कचः ॥
शिखण्डी द्रुपदाज्जज्ञे कन्या पुत्रत्वभागता ।
यां यक्षः पुरुषं चक्रे स्थूमः प्रियचिकीर्षया ॥
कुरूणां विग्रहे तस्मिन्समागच्छन्बहून्यथ ।
राज्ञां शतसहस्राणि योत्स्यमानानि संयुगे ॥
तेषामपरिमेयानां नामधेयानि सर्वशः । न शक्यानि समाख्यातुं वर्षाणामयुतैरपि ।
एते तु कीर्तिता मुख्या यैराख्यानमिदं ततम् ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि अंशावतरणपर्वणि चतुःषष्टितमोऽध्यायः ॥ 64 ॥

1-64-1 रञ्जकत्वाद्राजा । महीपतिः पृथ्वीपालकः ॥ 1-64-2 वसुः उपरिचरः ॥ 1-64-4 साक्षात्प्रत्यक्षभूय ॥ 1-64-5 न संकीर्येत निर्नायकत्वात् ॥ 1-64-8 पशव्यः पशुभ्यो हितः ॥ 1-64-11 गाः बलीवर्दान् । वृषभान्कृशान्न धुरि युञ्जते प्रत्युत संधुक्षयन्ति पुष्टान्कुर्वन्ति । अन्ये तु गाः स्त्रीगवीः तासामप्यान्ध्रादिदुर्देशेषु धुरि योजनं दृष्टं तदिह नास्तीत्याहुः ॥ 1-64-12 न त इति । आत्मज्ञानात्सर्वज्ञो भविष्यसीत्यर्थः ॥ 1-64-13 उपपत्स्यते उपस्थास्यते ॥ 1-64-15 वैजयन्तीं विजयहेतुं । अविक्षतमेव धारयिष्यति पालयिष्यति नतु विक्षतम् ॥ 1-64-16 लक्षणं चिह्नम् ॥ 1-64-17 इष्टप्रदानं प्रीतिदायमुद्दिश्य यष्टिं ददौ ॥ 1-64-20 शक्रस्य पूजार्थं तस्या यष्टेः प्रवेशं स्थापनम् ॥ 1-64-23 पिटकैः मञ्जूषारूपैर्वस्त्रमयैः कोशैः ॥ 1-64-46 वासवाः वसुपुत्राः ॥ 1-64-48 पुरोपवाहिनीं पुरसमीपे वहन्तीं ॥ 1-64-50 नदी राज्ञे न्यवेदयन्मिथुनमित्यनुषज्यते ॥ 1-64-54 तदहस्तस्मिन् दिने ॥ 1-64-63 वायुना कामोद्दीपकेन । धूम्रं मलिनं रतिकर्म तदर्थं । मुदं स्त्रीविषयां प्रीतिमनुसृत्य तामेन मनसाऽगात् । तया सह मानसं सुरतमकरोदित्यर्थः । प्रचस्कन्द पपात ॥ 1-64-64 मिथ्या प्रसवशून्यत्वेनालीकप्रायम् ॥ 1-64-68 अभिमन्त्र्य पुत्रोत्पत्तिलिङ्गैर्मन्त्रैः स्पृष्ट्वा ॥ 1-64-70 आर्तवमृतुकालीनं स्नानम् ॥ 1-64-73 युध्यतोः सतोः ॥ 1-64-76 मासे दशमे प्राप्ते बबन्धुरिति संबन्धः । उज्जह्नुः उद्धृतवन्तः ॥ 1-64-77 काये देहे । मत्स्याः मत्स्ययोषायाः ॥ 1-64-115 नीहारं धूमिकाम् ॥ 1-64-119 स्थातुं जीवितुं नोत्सहे कन्यात्वदूषणादित्यर्थः ॥ 1-64-128 द्वीपमेवाऽयनं न्यासस्थानं यस्य द्वीपायनः स्वार्थे तद्धितः द्वीपायन एव द्वैपायन इति नाम निर्वक्ति न्यस्त इति ॥ 1-64-125 पादापसारिणं युगेयुगे पादशः 1-64-88 तमश्लोकपूर्वार्धात्परं `इति सत्यवती हृष्टा' इत्यादि `भारतस्य प्रकाशिताः' इत्यन्तसार्धश्लोकसप्तकस्थाने इमे कुण्डलिताः श्लोकाः केषुचित्कोशेषूपलभ्यन्ते । 1-64-133 वसुवीर्यात् वस्वंशात् ॥ 1-64-136 शकुन्तिका मक्षिका ॥ 1-64-140 कुन्तिभोजस्य कन्यायां कुन्त्याम् ॥ 1-64-167 स्थूणो नाम्ना ॥ चतुःषष्ठितमोऽध्यायः ॥ 64 ॥

अध्यायः 065

विस्तरश्रवणेच्छया जनमेजयस्य प्रश्नः ॥ 1 ॥ परशुरामेण लोके निःक्षत्रिये कृते ब्राह्मणेभ्यः क्षत्रस्य पुनरुत्पत्तिः ॥ 2 ॥ तत्कालस्य धर्मभूयिष्ठत्वम् ॥ 3 ॥ देवैर्निर्जितानां दानवानां भूमावुत्पत्तिः ॥ 4 ॥ तद्भूरिभारार्तया पृथ्व्या प्रार्थितस्य ब्रह्मणो देवान्प्रत्यंशावतरणाज्ञापनम् ॥ 5 ॥ अवतारार्थं इन्द्रेण नारायणप्रार्थना ॥ 6 ॥

जनमेजय उवाच ।
य एते कीर्तिता ब्रह्मन्ये चान्ये नानुकीर्तिताः ।
सम्यक्ताञ्श्रोतुमिच्छामिराज्ञश्चान्यान्सहस्रशः ॥ 1 ॥
यदर्थमिह संभूता देवकल्पा महारथाः ।
भुवि तन्मे महाभाग सम्यगाख्यातुमर्हसि ॥
वैशम्पायन उवाच ।
रहस्यं खल्विदं राजन्देवानामिति नः श्रुतम् ।
तत्तु ते कथयिष्यामि नमस्कृत्वा स्वयंभुवे ॥
त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षित्रयां पुरा ।
जामदग्न्यस्तपस्तेपे महेन्द्रे पर्वतोत्तमे ॥
तदा निःक्षत्रिये लोके भार्गवेण कृते सति ।
ब्राह्मणान्क्षत्रिया राजन्सुतार्थिन्योऽभिचक्रमुः ॥
ताभिः सह समापेतुर्ब्राह्मणाः संशितव्रताः ।
ऋतावृतौ नरव्याघ्र न कामान्नानृतौ तथा ॥
तेभ्यश्च तेभिरे गर्भं क्षत्रियास्ताः सहस्रशः ।
ततः सुषुविरे राजन्क्षत्रियान्वीर्यवत्तरान् ॥
कुमारांश्च कुमारीश्च पुनः क्षत्राभिवृद्धये ।
एवं तद्ब्राह्मणैः क्षत्रं क्षत्रियासु तपस्विभिः ॥
जातं वृद्धं च धर्मेण सुदीर्गेणायुषान्वितम् ।
चत्वारोऽपि ततो वर्णा बभूवुर्ब्राह्मणोत्तराः ॥
अभ्यगच्छन्नृतौ नारीं न कामान्नानृतौ तथा ।
तथैवान्यानि भूतानि तिर्यग्योनिगतान्यपि ॥
ऋतौ दारांश्च गच्छन्ति तत्तथा भरतर्षभ ।
ततोऽवर्धन्त धर्मेण सहस्रशतजीविनः ॥
ताः प्रजाः पृथिवीपाल धर्मव्रतपरायणाः ।
आधिभिर्व्याधिभिश्चैव विमुक्ताः सर्वशो नराः ॥
अथेमां सागरोपान्तां गां गजेन्द्रगताखिलाम् ।
अध्यतिष्ठत्पुनः क्षत्रं सशैलवनपत्तनाम् ॥
प्रशासति पुनः क्षत्रे धर्मेणेमां वसुन्धराम् ।
ब्राह्मणाद्यास्ततो वर्णा लेभिरे मुदमुत्तमाम् ॥
कामक्रोधोद्भवान्दोषान्निरस्य च नराधिपाः ।
धर्मेण दण्डं दण्डेषु प्रणयन्तोऽन्वपालयन् ॥
तथा धर्मपरे क्षत्रे सहस्राक्षः शतक्रतुः ।
स्वादु देशे च काले च ववर्षाप्याययन्प्रजाः ॥
न बाल एव म्रियते तदा कश्चिज्जनाधिप ।
न च स्त्रियं प्रजानाति कश्चिदप्राप्तयौवनाम् ॥
एवमायुष्मतीभिस्तु प्रजाभिर्भरतर्षभ ।
इयं सागरपर्यन्ता ससापूर्यत मेदिनी ॥
ईजिरे च महायज्ञैः क्षत्रिया बहुदक्षिणैः ।
साङ्गोपनिषदान्वेदान्विप्राश्चाधीयते तदा ॥
न च विक्रीणते ब्र्हम ब्राह्मणाश्च तदा नृप ।
न च शूद्रसमभ्याशे वेदानुच्चारयन्त्युत ॥
कारयन्तः कृषिं गोभिस्तथा वैश्याः क्षिताविह ।
युञ्जते धुरि नो गाश्च कृशाङ्गांश्चाप्यजीवयन् ॥
फेनपांश्च तथा वत्सान्न दुहन्ति स्म मानवाः ।
न कूटमानैर्वणिजः पण्यं विक्रीणते तदा ॥
कर्माणि च नरव्याघ्र धर्मोपेतानि मानवाः ।
धर्ममेवानुपश्यन्तश्चक्रुर्धर्मपरायणाः ॥
स्वकर्मनिरताश्चासन्सर्वे वर्णा नराधिप ।
एवं तदा नरव्याघ्र धर्मो न ह्रसते क्वचित् ॥
काले गावः प्रसूयन्ते नार्यश्च भरतर्षभ ।
भवन्त्यृतुषु वृक्षाणां पुष्पाणि च फलानि च ॥
एवं कृतयुगे सम्यग्वर्तमाने तदा नृप ।
आपूर्यत मही कृत्स्ना प्राणिभिर्बहुभिर्भृशम् ॥
एवं समुदिते लोके मानुषे भरतर्षभ ।
असुरा जज्ञिरे क्षेत्रे राज्ञां तु मनुजेश्वर ॥
आदित्यैर्हि तदा दैत्या बहुशो निर्जिता युधि ।
ऐश्वर्याद्धंशिताः स्वर्गात्संबभूवुः क्षिताविह ॥
इह देवत्वमिच्छन्तो मानुषेषु तपस्विनः ।
जज्ञिरे भुवि भूतेषु तेषु तेष्वसुरा विभो ॥
गोष्वश्वेषु च राजेन्द्र खरोष्ट्रमहिषेषु च ।
क्रव्यात्सु चैव भूतेषु गजेषु च मृगेषु च ॥
जातैरिह महीपाल जायमानैश्च तैर्मही ।
न शशाकात्मनात्मानमियं धारयितुं धरा ॥
अथ जाता महीपालाः केचिद्बहुमदान्विताः ।
दितेः पुत्रा दनोश्चैव तदा लोकादिह च्युताः ॥
वीर्यवन्तोऽवलिप्तास्ते नानारूपधरा महीम् ।
इमां सागरपर्यन्तां परीयुररिमर्दनाः ॥
ब्राह्मणान्क्षत्रियान्वैश्याञ्शूद्रांश्चैवाप्यपीडयन् ।
अन्यानि चैव सत्वानि पीडयामासुरोजसा ॥
त्रासयन्तोऽभिनिघ्नन्तः सर्वभूतगणांश्च ते ।
विचेरुः सर्वशो राजन्महीं शतसहस्रशः ॥
आश्रमस्थान्महर्षींश्च धर्षयन्तस्ततस्ततः ।
अब्रह्मण्या वीर्यमदा मत्ता मदबलेन च ॥
एवं वीर्यबलोत्सिक्तैर्भूरियं तैर्महासुरैः ।
पीड्यमाना मही राजन्ब्रह्माणमुपचक्रमे ॥
न ह्यमी भूतसत्वौघाः पन्नगाः सनगां महीम् ।
तदा धारयितुं शेकुराक्रान्तां दानवैर्बलात् ॥
ततो मही महीपाल भारार्ता भयपीडिता ।
जगाम शरणं देवं सर्वभूतपितामहम् ॥
सा संवृतं महाभागैर्देवद्विजमहर्षिभिः ।
ददर्श देवं ब्रह्माणं लोककर्तारमव्ययम् ॥
गन्धर्वैरप्सरोभिश्च बन्दिकर्मसु निष्ठितैः ।
वन्द्यमानं मुदोपतैर्ववन्दे चैनमेत्य सा ॥
अथ विज्ञापयामास भूमिस्तं शरणार्थिनी ।
सन्निधौ लोकपालानां सर्वेषामेव भारत ॥
तत्प्रधानात्मनस्तस्य भूमेः कृत्यं स्वयंभुवः ।
पूर्वमेवाभवद्राजन्विदितं परमेष्ठिनः ॥
स्रष्टा हि जगतः कस्मान्न संबुध्येत भारत ।
ससुरासुरलोकानामशेषेण मनोगतम् ॥
तामुवाच महाराज भूमिं भूमिपतिः प्रभुः ।
प्रभवः सर्वभूतानामीशः शंभुः प्रजापतिः ॥
ब्रह्मोवाच ।
यदर्थमभिसंप्राप्ता मत्सकाशं वसुन्धरे ।
तदर्थं सन्नियोक्ष्यामि सर्वानेव दिवौकसः ॥
`उत्तिष्ठ गच्छ वसुधे स्वस्थानमिति साऽगमत् ।'
वैशंपायन उवाच ।
इत्युक्त्वा स महीं देवो ब्रह्मा राजन्विसृज्य च ।
आदिदेश तदा सर्वान्विबुधान्भूतकृत्स्वयम् ॥
अस्या भूमेर्निरसितुं भारं भागैः पृथक्पृथक् ।
अस्यामेव प्रसूयध्वं तिरोधायेति चाब्रवीत् ॥
तथैव च समानीय गन्धर्वाप्सरसां गणान् ।
उवाच भगवान्सर्वानिदं वचनमर्थवत् ॥
ब्रह्मोवाच ।
स्वैः स्वैरंशैः प्रसूयध्वं यथेष्टं मानेषेषु च ।
वैशम्पायन उवाच ।
अथ शक्रादयः सर्वे श्रुत्वा सुरगुरोर्वचः ।
तथ्यमर्थ्यं च पथ्यं च तस्य ते जगृहुस्तदा ॥
अथ ते सर्वशोंशैः स्वैर्गन्तुं भूमिं कृतक्षणाः ।
नारायणममित्रघ्नं वैकुण्ठमुपचक्रमुः ॥
यः स चक्रगदापाणिः पीतवासाः शितिप्रभः ।
पद्मनाभः सुरारिघ्नः पृथुचार्वञ्चितेक्षणः ॥
प्रजापतिपतिर्देवः सुरनाथो महाबलः ।
श्रीवत्साङ्को हृषीकेशः सर्वदैवतपूजितः ॥
तं भुवः शोधनायेन्द्र उवाच पुरुषोत्तमम् ।
अंशेनावतरेत्येवं तथेत्याह च तं हरिः ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि अंशावतरणपर्वणि पञ्चषष्टितमोऽध्यायः ॥ 65 ॥ ॥ समाप्तमंशावतरणपर्व ॥

1-65-4 त्रिःसप्तकृत्वा एकविंशतिवारान् ॥ 1-65-13 हे गजेन्द्रगत हे गजेन्द्रगमन ॥ 1-65-20 ब्रह्म वेदं न विक्रीणते भृतकाध्यापनं न कुर्वत इत्यर्थः ॥ 1-65-21 वैश्याः स्वयं धुरि गा बलीवर्दान् न युञ्जते ॥ 1-65-22 फेनपान् अतृणादानभिलक्ष्य न दुहन्ति धेनूरिति शेषः । कूटमानैः कपटतुलाप्रस्थादिभिः ॥ 1-65-29 देवत्वं राजत्वम् ॥ 1-65-36 मही उपचक्रमे गन्तुमिति शेषः ॥ 1-65-48 तिरोधाय स्वंस्वं रूपं प्रच्छाद्य ॥ 1-65-54 शोधनाय कण्टकभूतखलोन्मूलनाय ॥ पञ्चषष्टितमोऽध्यायः ॥ 65 ॥

अध्यायः 066

(अथ संभवपर्व ॥ 7 ॥)

अदित्यादिदक्षकन्यावंशकथनम् ॥ 1 ॥

वैशंपायन उवाच ।
अथ नारायणेनेन्द्रश्चकार सह संविदम् ।
अवतर्तुं महीं स्वर्गादंशतः महितः सुरैः ॥
आदिश्य च स्वयं शक्रः सर्वानेव दिवौकसः ।
निर्जगाम पुनस्तस्मात्क्षयान्नारायणस्य ह ॥
तेऽमरारिविनाशाय सर्वलोकहिताय च ।
अवतेरुः क्रमेणैव महीं स्वर्गाद्दिवौकसः ॥
ततो ब्रह्मर्षिवंशेषु पार्थिवर्षिकुलेषु च ।
जज्ञिरे राजशार्दूल यथाकामं दिवौकसः ॥
दानवान्राक्षसांश्चैव गन्धर्वान्पन्नगांस्तथा ।
पुरुषादानि चान्यानि जघ्नुः सत्वान्यनेकशः ॥
दानवा राक्षसाश्चैव गन्धर्वाः पन्नगास्तथा ।
न तान्बलस्थान्बाल्येऽपि जघ्नुर्भरतसत्तम ॥
जनमेजय उवाच ।
देवदानवसङ्घानां गन्धर्वाप्सरसां तथा ।
मानवानां च सर्वेषां तथा वै यक्षरक्षसाम् ॥
श्रोतुमिच्छामि तत्त्वेन संभवं कृत्स्नमादितः ।
प्राणिनां चैव सर्वेषां संभवं वक्तुमर्हसि ॥
वैशम्पायन उवाच ।
हन्त ते कथयिष्यामि नमस्कृत्य स्वयंभुवे ।
सुरादीनामहं सम्यग्लोकानां प्रभवाप्ययम् ॥
ब्रह्मणो मानसाः पुत्रा विदिताः षण्महर्षयः ।
मरीचिरत्र्यह्गिरसौ पुलस्त्यः पुलहः क्रतुः ॥
मरीचेः कश्यपः पुत्रः कश्यपात्तु इमाः प्रजाः ।
प्रजज्ञिरे महाभागा दक्षकन्यास्त्रयोदश ॥
अदितिर्दितिर्दनुः काला दनायुः सिंहिका तथा ।
क्रोधा प्राधा च विश्वा च विनता कपिला मुनिः ॥
कद्रूश्च मनुजव्याघ्र दक्षकन्यैव भारत ।
एतासां वीर्यसंपन्नं पुत्रपौत्रमनन्तकम् ॥
अदित्यां द्वादशादित्याः संभूता भुवनेश्वराः ।
ये राजन्नामतस्तांस्ते कीर्तयिष्यामि भारत ॥
धाता मित्रोऽर्यमा शक्रो वरुणस्त्वंश एव च ।
भगो विवस्वान्पूषा च सविता दशमस्तथा ॥
एकादशस्तथा त्वष्टा द्वादशो विष्णुरुच्यते ।
जघन्यजस्तु सर्वेषामादित्यानां गुणाधिकः ॥
एक एव दितेः पुत्रो हिरण्यकशिपुः स्मृतः ।
नाम्ना ख्यातास्तु तस्येमे पञ्च पुत्रा महात्मनः ॥
प्रह्लादः पूर्वजस्तेषां संह्लादस्तदनन्तरम् ।
अनुह्लादस्तृतीयोऽभूत्तस्माच्च शिबिबाष्कलौ ॥
प्रह्लादस्य त्रयः पुत्राः ख्याताः सर्वत्र भारत ।
विरोचनश्च कुम्भश्च निकुम्भश्चेति भारत ॥
विरोचनस्य पुत्रोऽभूद्बलिरेकः प्रतापवान् ।
बलेश्च प्रथितः पुत्रो बाणो नाम महासुरः ॥
रुद्रस्यानुचरः श्रीमान्महाकालेति यं विदुः ।
चत्वारिंशद्दनोः पुत्राः ख्याताः सर्वत्र भारत ॥
तेषां प्रथमजो राजा विप्रचित्तिर्महायशाः ।
शम्बरो नमुचिश्चैव पुलोमा चेति विश्रुतः ॥
असिलोमा च केशी च दुर्जयश्चैव दानवः ।
अयःशिरा अश्वशिरा अश्वशह्कुश्च वीर्यवान् ॥
तथा गगनमूर्धा च वेगवान्केतुमांश्च सः ।
स्वर्भानुरश्वोऽश्वपतिर्वृषपर्वाऽजकस्तथा ॥
अश्वग्रीवश्च सूक्ष्मश्च तुहुण्डश्च महाबलः ।
इषुपादेकचक्रश्च विरूपाक्षहराहरौ ॥
निचन्द्रश्च निकुम्भश्च कुपटः कपटस्तथा । शरभः शलभश्चैव सूर्याचन्द्रमसौ तथा ।
एते ख्याता दनोर्वंशे दानवाः परिकीर्तिताः ॥
अन्यौ तु खलु देवानां सूर्याचन्द्रमसौ स्मृतौ ।
अन्यौ दानवमुख्यानां सूर्याचन्द्रमसौ तथा ॥
इमे च वंशाः प्रथिताः सत्ववन्तो महाबलाः ।
दनुपुत्रा महाराज दश दानववंशजाः ॥
एकाक्षो मृतपो वीरः प्रलम्बनरकावपि ।
वातापिः शत्रुतपनः शठश्चैव महासुरः ॥
गविष्ठश्च वनायुश्च दीर्घजिह्वश्च दानवः ।
असङ्ख्येयाः स्मृतास्तेषां पुत्राः पौत्राश्च भारत ॥
सिंहिका सुषुवे पुत्रं राहुं चन्द्रार्कमर्दनम् ।
सुचन्द्रं चन्द्रहर्तारं तथा चन्द्रप्रमर्दनम् ॥
क्रूरस्वभावं क्रूरायाः पुत्रपौत्रमनन्तकम् ।
गणः क्रोधवशो नाम क्रूरकर्माऽरिमर्दनः ॥
दनायुषः पुनः पुत्राश्चत्वारोऽसुरपुंगवाः ।
विक्षरो बलवीरौ च वृत्रश्चैव महासुरः ॥
कालायाः प्रथिताः पुत्राः कालकल्पाः प्रहारिणः ।
प्रविख्याता महावीर्या दानवेषु परन्तपाः ॥
विनाशनश्च क्रोधश्च क्रोधहन्ता तथैव च ।
क्रोधशत्रुस्तथैवान्ये कालकेया इति श्रुताः ॥
असुराणामुपाध्यायः शक्रस्त्वषिसुतोऽभवत् ।
ख्याताश्चोशनसः पुत्राश्चत्वारोऽसुरयाजकाः ॥
त्वष्टा धरस्तथात्रिश्च द्वावन्यौ रौद्रकर्मिणौ ।
तेजसा सूर्यसंकाशा ब्रह्मलोकपरायणाः ॥
इत्येष वंशप्रभवः कथितस्ते तरस्विनाम् ।
असुराणां सुराणां च पुराणे संश्रुतो मया ॥
एतेषां यदपत्यं तु न शक्यं तदशेषतः ॥
प्रसंख्यातुं महीपाल गुणभूतमनन्तकम् ॥
तार्क्ष्यश्चारिष्टनेमिश्च तथैव गरुडारुणौ ।
आरुणिर्वारुणिश्चैव वैनतेयाः प्रकीर्तिताः ॥
शेषोऽनन्तो वासुकिश्च तक्षकश्च भुजङ्गमः ।
कूर्मश्च कुलिकश्चैव काद्रवेयाः प्रकीर्तिताः ॥
भीमसेनोग्रसेनौ च सुपर्णो वरुणस्तथा ।
गोपतिर्धृतराष्ट्रश्च सूर्यवर्चाश्च सप्तमः ॥
सत्यवागर्कपर्णश्च प्रयुतश्चापि विश्रुतः ।
भीमश्चित्ररथश्चैव विख्यातः सर्वविद्वशी ॥
तथा शालिशिरा राजन्पर्जन्यश्च चतुर्दशः ।
कलिः पञ्चदशस्तेषां नारदश्चैव षोडशः ॥
इत्येते देवगन्धर्वा मौनेयाः परिकीर्तिताः ॥
अथ प्रभूतान्यन्यानि कीर्तयिष्यामि भारत ।
अनवद्यां मनुं वंशामसुरां मार्गणप्रियाम् ॥
अरूपां सुभगां भासीमिति प्राधा व्यजायत ।
सिद्धः पूर्णश्च बर्हिश्च पूर्णायुश्च महायशाः ॥
ब्रह्मचारी रतिगुणः सुपर्णश्चैव सप्तमः ।
विश्वावसुश्च भानुश्च सुचन्द्रो दशमस्तथा ॥
इत्येते देवगन्धर्वाः प्राधेयाः परिकीर्तिताः ।
इमं त्वप्सरसां वंशं विदितं पुण्यलक्षणम् ॥
अरिष्टाऽसूत सुभगा देवी देवर्षितः पुरा ।
अलम्बुषा मिश्रकेशी विद्युत्पर्णा तिलोत्तमा ॥
अरुणा रक्षिता चैव रम्बा तद्वन्मनोरमा ।
केशिनी च सुबाहुश्च सुरता सुरजा तथा ॥
सुप्रिया चातिबाहुश्च विख्यातौ च हाहा हूहूः ।
तुम्बुरुश्चेति चत्वारः स्मृता गन्धर्वसत्तमाः ॥
अमृतं ब्राह्मणा गावो गन्धर्वाप्सरसस्तथा ।
अपत्यं कपिलायास्तु पुराणे परिकीर्तितम् ॥
इति ते सर्वभूतानां संभवः कथितो मया ।
यथावत्संपरिख्यातो गन्धर्वाप्सरसां तथा ॥
भुजंगानां सुपर्णानां रुद्राणां मरुतां तथा ।
गवां च ब्राह्मणानां च श्रीमतां पुण्यकर्मणाम् ॥
आयुष्यश्चैव पुण्यश्च धन्यः श्रुतिसुखावहः ।
श्रोतव्यश्चैव सततं श्राव्यश्चैवानसूयता ॥
इमं तु वंशं नियमेन यः पठे- न्महात्मनां ब्राह्मणदेवसन्निधौ ।
अपत्यलाभं लभते स पुष्कलं श्रियं यशः प्रेत्य च शोभनां गतिम् ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि षट्षष्टितमोऽध्यायः ॥ 66 ॥

1-66-2 क्षयात् स्थानात् ॥ 1-66-16 जघन्यजः पश्चाज्जातः ॥ 1-66-32 क्रूरायाः क्रोधायाः ॥ 1-66-39 गुणभूतप्रधानरूपम् ॥ षट्षष्टितमोऽध्यायः ॥ 66 ॥

अध्यायः 067

ऋष्यादिवंशकथनम् ॥ 1 ॥

वैशंपायन उवाच ।
ब्रह्मणो मानसाः पुत्रा विदिताः षण्महर्षयः ।
एकादश सुताः स्थाणोः ख्याताः परमतेजसः ॥
मृगव्याधश्च सर्पश्च निर्ऋतिश्च महायशाः ।
अजैकपादहिर्बिध्न्यः पिनाकी च परन्तपः ॥
दहनोऽथेश्वरश्चैव कपाली च महाद्युतिः ।
स्थाणुर्भगश्च भगवान् रुद्रा एकादश स्मृताः ॥
मरीचिरङ्गिरा अत्रिः पुलस्त्यः पुलहः क्रतुः ।
षडेते ब्रह्मणः पुत्रा वीर्यवन्तो महर्षयः ॥
त्रयस्त्वङ्गिरसः पुत्रा लोके सर्वत्र विश्रुताः ।
बृहस्पतिरुतथ्यश्च संवर्तश्च धृतव्रताः ॥
अत्रेस्तु बहवः पुत्राः श्रूयन्ते मनुजाधिप ।
सर्वे वेदविदः सिद्धाः शान्तात्मानो महर्षयः ॥
राक्षसाश्च पुलस्त्यस्य वानराः किन्नरास्तथा ।
यक्षाश्च मनुजव्याघ्र पुत्रास्तस्य च धीमतः ॥
पुलहस्य सुता राजञ्शरभाश्च प्रकीर्तिताः ।
सिंहाः किपुरुषा व्याघ्रा ऋक्षा ईहामृगास्तथा ॥
क्रतोः क्रतुसमाः पुत्राः पतङ्गसहचारिणः ।
विश्रुतास्त्रिषु लोकेषु सत्यव्रतपरायणाः ॥
दक्षस्त्वजायताङ्गुष्ठाद्दक्षिणाद्भगवानृषिः ।
ब्रह्मणः पृथिवीपाल शान्तात्मा सुमहातपाः ॥
वामादजायताङ्गुष्ठाद्भार्या तस्य महात्मनः ।
तस्यां पञ्चाशतं कन्याः स एवाजनयन्मुनिः ॥
ताः सर्वास्त्वनवद्याङ्ग्यः कन्याः कमललोचनाः ।
पुत्रिकाः स्थापयामास नष्टपुत्रः प्रजापतिः ॥
ददौ स दश धर्माय सप्तविंशतिमिन्दवे ।
दिव्येन विधिना राजन्कश्यपाय त्रयोदश ॥
नामतो धर्मपत्न्यस्ताः कीर्त्यमाना निबोध मे ।
कीर्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्रिया तथा ॥
बुद्धिर्लज्जा मतिश्चैव पत्न्यो धर्मस्य ता दश ।
द्वाराण्येतानि धर्मस्य विहितानि स्वयंभुवा ॥
सप्तविंशतिः सोमस्य पत्न्यो लोकस्य विश्रुताः ।
कालस्य नयने युक्ताः सोमपत्न्याः शुचिव्रताः ॥
सर्वा नक्षत्रयोगिन्यो लोकयात्राविधानतः । पैतामहो मुनिर्देवस्तस्य पुत्रः प्रजापतिः ।
तस्याष्टौ वसवः पुत्रास्तेषां वक्ष्यामि विस्तरम् ॥
धरो ध्रुवश्च सोमश्च अहश्चैवानिलोऽनलः ।
प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्तिताः ॥
धूम्रायास्तु धरः पुत्रो ब्रह्मविद्यो ध्रुवस्तथा ।
चन्द्रमास्तु मनस्विन्याः श्वासायाः श्वसनस्तथा ॥
रतायाश्चाप्यहः पुत्रः शाण्डिल्याश्च हुताशनः ।
प्रत्यूषश्च प्रभासश्च प्रभातायाः सुतौ स्मृतौ ॥
धरस्य पुत्रो द्रविणो हुतहव्यवहस्तथा । `आपस्य पुत्रो वैतण्ड्यः श्रमः शान्तोमुनिस्तथा' ।
ध्रुवस्य पुत्रो भगवान्कालो लोकप्रकालनः ॥
सोमस्य तु सुतो वर्चा वर्चस्वी येन जायते ।
मनोहरायाः शिशिरः प्राणोऽथ रमणस्तथा ॥
अह्नः सुतस्तथा ज्योतिः शमः शान्तस्तथा मुनिः ।
अग्नेः पुत्रः कुमारस्तु श्रीमाञ्छरवणालयः ॥
तस्य शाखो विशाखश्च नैगमेयश्च पृष्ठजः ।
कृत्तिकाभ्युपपत्तेश्च कार्तिकेय इति स्मृतः ॥
अनिलस्य शिवा भार्या तस्याः पुत्रो मनोजवः ।
अविज्ञातगतिश्चैव द्वौ पुत्रावनिलस्य तु ॥
प्रत्यूषस्य विदुः पुत्रमृषिं नाम्नाऽथ देवलम् । द्वौ पुत्रौ देवलस्यापि क्षमावन्तौ मनीषिणौ ।
बृहस्पतेस्तु भगिनी वरस्त्री ब्रह्मवादिनी ॥
योगसिद्धा जगत्कृत्स्नमसक्ता विचचार ह ।
प्रभासस्य तु भार्या सा वसूनामष्टमस्य ह ॥
विश्वकर्मा महाभागो जज्ञे शिल्पप्रजापतिः ।
कर्ता शिल्पसहस्राणां त्रिदशानां च वर्धकिः ॥
भूषणानां च सर्वेषां कर्ता शिल्पवतां वरः ।
यो दिव्यानि विमानानि त्रिदशानां चकारह ॥
मनुष्याश्चोपजीवन्ति यस्य शिल्पं महात्मनः ।
पूजयन्ति च यं नित्यं विश्वकर्माणमव्ययम् ॥
स्तनं तु दक्षिणं भित्त्वा ब्रह्मणो नरविग्रहः ।
निःसृतो भगवान्धर्मः सर्वलोकसुखावहः ॥
त्रयस्तस्य वराः पुत्राः सर्वभूतमनोहराः ।
शमः कामश्च हर्षश्च तेजसा लोकधारिणः ॥
कामस्य तु रतिर्भार्या शमस्य प्राप्तिरङ्गना ।
नन्दा तु भार्या हर्षस्य यासु लोकाः प्रतिष्ठिताः ॥
मरीचेः कश्यपः पुत्रः कश्यपस्य सुरासुराः ।
जज्ञिरे नृपशार्दूल लोकानां प्रभवस्तु सः ॥
त्वाष्ट्री तु सवितुर्भार्या वडवारूपधारिणी ।
असूयत महाभागा सान्तरिक्षेऽस्विनावुभौ ॥
द्वादशैवादितेः पुत्राः शक्रमुख्या नराधिप ।
तेषामवरजो विष्णुर्यत्र लोकाः प्रतिष्ठिताः ॥
त्रयस्त्रिंशत यत्येते देवास्तेषामहं तव ।
अन्वयं संप्रवक्ष्यामि पक्षैश्च कुलतो गणान् ॥
रुद्राणामपरः पक्षः साध्यानां मरुतां तथा ।
वसूनां भार्गवं विद्याद्विश्वेदेवांस्तथैव च ॥
वैनतेयस्तु गरुडो बलवानरुणस्तथा ।
बृहस्पतिश्च भगवानादित्येष्वेव गण्यते ॥
अश्विनौ गुह्यकान्विद्धि सर्वौषध्यस्तथा पशून् ।
एते देवगणा राजन्कीर्तितास्तेऽनुपूर्वशः ॥
यान्कीर्तयित्वा मनुजः सर्वपापैः प्रमुच्यते ।
ब्रह्मणो हृदयं भित्त्वा निःसृतो भगवान्भृगुः ॥
भृगोः पुत्रः कविर्विद्वाञ्छुक्रः कविसुतो ग्रहः । त्रैलोक्यप्राणयात्रार्थं वर्षावर्षे भयाभये ।
स्वयंभुवा नियुक्तः सन्भुवनं परिधावति ॥
योगाचार्यो महाबुद्धिर्दैत्यानामभवद्गुरुः ।
सुराणां चापि मेधावी ब्रह्मचारी यतव्रतः ॥
तस्मिन्नियुक्ते विधिना योगक्षेमाय भार्गवे ।
अन्यमुत्पादयामास पुत्रं भृगुरनिन्दितम् ॥
च्यवनं दीप्ततपसं धर्मात्मानं यशस्विनम् ।
यः स रोषाच्च्युतो गर्भान्मातुर्मोक्षाय भारत ॥
आरुषी तु मनोः कन्या तस्य पत्नी मनीषिणः ।
और्वस्तस्यां समभवदूरुं भित्त्वा महायशाः ॥
महातेजा महावीर्यो बाल एव गुणैर्युतः ।
ऋचीकस्तस्य पुत्रस्तु जमदग्निस्ततोऽभवत् ॥
जमदग्नेस्तु चत्वार आसन्पुत्रा महात्मनः । रामस्तेषां जघन्योऽभूदजघन्यैर्गुणैर्युतः ।
सर्वशस्त्रेषु कुशलः क्षत्रियान्तकरो वशी ॥
और्वस्यासीत्पुत्रशतं जमदग्निपुरोगमम् ।
तेषां पुत्रसहस्राणि बभूवुर्भुवि विस्तरः ॥
द्वौ पुत्रो ब्रह्मणस्त्वन्यौ ययोस्तिष्ठति लक्षणम् ।
लोके धाता विधाता च यौ स्थितौ मनुना सह ॥
तयोरेव स्वसा देवी लक्ष्मीः पद्मगृहा शुभा ।
तस्यास्तु मानसाः पुत्रास्तुरगा व्योमचारिणः ॥
वरुणस्य भार्या या ज्येष्ठा शुक्राद्देवी व्यजायत ।
तस्याः पुत्रं बलं विद्धि सुरां च सुरनन्दिनीम् ॥
प्रजानामन्नकामानामन्योन्यपरिभक्षणात् ।
अधर्मस्तत्र संजातः सर्वभूतविनाशकः ॥
तस्यापि निर्ऋतिर्भार्या नैर्ऋता येन राक्षसाः ।
घोरास्तस्यास्त्रयः पुत्राः पापकर्मरताः सदा ॥
भयो महाभयश्चैव मृत्युर्भूतान्तकस्तथा ।
न तस्य भार्या पुत्रो वा कश्चिदस्त्यन्तको हि सः ॥
काकीं श्येनीं तथा भासीं धृतराष्ट्रीं तथा शुकीम् ।
ताम्रा तु सुषुवे देवी पञ्चैता लोकविश्रुताः ॥
उलूकान्सुषुवे काकी श्येनी श्येनान्व्यजायत ।
भासी भासानजनयद्गृध्रांश्चैव जनाधिप ॥
धृतराष्ट्री तु हंसांश्च कलहंसांश्च सर्वशः ।
चक्रवाकांश्च भद्रा तु जनयामास सैव तु ॥
शुकी च जनयामास शुकानेव यशस्विनी ।
कल्याणगुणसंपन्ना सर्वलक्षणपूजिता ॥
नव क्रोधवशा नारीः प्रजज्ञे क्रोधसंभवाः ।
मृगी च मृगमन्दा च हरी भद्रमना अपि ॥
मातङ्गी त्वथ शार्दूली श्वेता सुरभिरेव च ।
सर्वलक्षणसंपन्ना सुरसा चैव भामिनी ॥
अपत्यं तु मृगाः सर्वे मृग्या नरवरोत्तम ।
ऋक्षाश्च मृगमन्दायाः सृमराश्च परंतप ॥
ततस्त्वैरावतं नागं जज्ञे भद्रमनाः सुतम् ।
ऐरावतः सुतस्तस्या देवनागो महागजः ॥
हर्याश्च हरयोऽपत्यं वानराश्च तरस्विनः ।
गोलाङ्गूलांश्च भद्रं ते हर्याः पुत्रान्प्रचक्षते ॥
प्रजज्ञे त्वथ शार्दूली सिंहान्व्याग्राननेकशः ।
द्वीपिनश्च महासत्वान्सर्वानेव न सशंयः ॥
मातङ्ग्यपि च मातङ्गानपत्यानि नराधिप ।
दिशां गजं तु श्वेताख्यं श्वेताऽजनयदाशुगम् ॥
तथा दुहितरौ राजन्सुरभिर्वै व्यजायत ।
रोहिणी चैव भद्रं ते गन्धर्वी तु यशस्विनी ॥
विमलामपि भद्रं ते अनलामपि भारत ।
रोहिण्यां जज्ञिरे गावो गन्धर्व्यां वाजिनः सुताः ॥
`इरायाः कन्यका जातास्तिस्रः कमललोचनाः ।
वनस्पतीनां वृक्षाणां वीरुधां चैव मातरः ॥
लतारुहे च द्वे प्रोक्ते वीरुधां चैव ताः स्मृताः ।
गृह्णन्ति ये विना पुष्पं फलानि तरवः पृथक् ॥
लतासुतास्ते विज्ञेयास्तानेवाहुर्वनस्पतीन् ।
पुष्पैः फलग्रहान्वृक्षान्रुहायाः प्रसवं विदुः ॥
लतागुल्मानि वृक्षाश्च त्वक्सारतृणजन्तवः ।
वीरुधो याः प्रजास्तस्यास्तत्र वंशः समाप्यते ॥
सप्तपिम्डफलान्वृक्षाननलापि व्यजायत ॥
अनलायाः शुकी पुत्री कंकस्तु सुरसासुतः ।
अरुणस्य भार्या श्येनी तु वीर्यवन्तौ महाबलौ ॥
संपातिं जनयामास वीर्यवन्तं जटायुषम् ।
सुरसाऽजनयन्नागान्कद्रूः पुत्रांस्तु पन्नगान् ॥
द्वौ पुत्रौ विनतायास्तु विख्यातौ गरुडारुणौ । इत्येष सर्वभूतानां महतां मनुजाधिप ।
प्रभवः कीर्तितः सम्यङ्मया मतिमतां वर ॥
यं श्रुत्वा पुरुषः सम्यङ्मुक्तो भवति पाप्मनः ।
सर्वज्ञतां च लभते रतिमग्र्यां च विन्दति ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि सप्तषष्टितमोऽध्यायः ॥ 67 ॥

1-67-1 ब्रह्मण इति षण्महर्षयः स्थाणुश्च सप्तम इति बोध्यम् । तत्रादौ स्थाणुसंततिमेवाह एकादशेति । एकादश तथा रुद्राः स्थाणोश्चैव हि मानसाः इति पाठान्तरम् । अत्र स्थिरत्वात्स्थाणुर्ब्रह्मा ॥ 1-67-5 बृहस्पतिरुचथ्यश्चेति पाठान्तरम् ॥ 1-67-8 ईहामृगाः वृकाः ॥ 1-67-9 पतङ्गसहचारिणः सूर्यसहचरा वालखिल्याः ॥ 1-67-16 नयने ज्ञापने ॥ 1-67-17 नक्षत्रयोगिन्यो नक्षत्रनामयुक्ताः । विधानतः विधानार्थमभवन् । पैतामहो देवो धर्मः पितामहस्तनाज्जातत्वात् । तस्य पितामहस्य पुत्रो दक्षः तदङ्गुष्ठाज्जातत्वात् । तस्य संबन्धिनी वसुनाम्नी कन्या तस्यां धर्माद्वसवोष्टौ जाता इत्यर्थः । वसोस्तु वसवः पुत्रा इत्यन्यत्रोक्तेः ॥ 1-67-19 धूम्राय इति वसोरेव धूम्रादीनि नामान्तराणि कल्पभेदात् । अन्या एता न दक्षकन्या इति वा ॥ 1-67-24 कृत्तिकानां षण्णां मातृत्वेनाभ्युपपत्तेरङ्गीकारात् ॥ 1-67-35 बडवा अश्वा अन्तरिक्षे अश्विनावसूत नासिकायां शुक्रप्रक्षेपात् ॥ 1-67-37 त्रयस्त्रिंशत् अष्टौ वसव एकादश रुद्रा द्वादशादित्याः प्रजापतिश्च वषट्कारश्च ॥ 1-67-43 योगाचार्य इति । चापी व्यस्तौ । सुराणामपि च गुरुरिति संबन्धः । देवानां गुरुरेव योगाचार्यो योगबलेन कायद्वयं कृत्वा दैत्यानामप्याचार्योऽभवदित्यर्थः ॥ 1-67-73 पिण्डफलान्सप्त । खर्जूरतालहिंताला ताली खर्जूरिका तथा । गुवाकानारिकेलश्च सप्त पिण्डफला द्रुमाः इत्युक्तरूपान् । इह पुराणान्तरविरोधो नामभेदात्कल्पभेदाद्वापनेयः ॥ सप्तषष्टितमोऽध्यायः ॥ 67 ॥

अध्यायः 068

जरासन्धादीनां संभवः ॥ 1 ॥ द्रोणादीनां संभवः ॥ 2 ॥ धृतराष्ट्रादीनां संभवः ॥ 3 ॥ दुर्योधनादीनां संभवः ॥ 4 ॥ युधिष्ठिरादीनां संभवः ॥ 5 ॥ धृष्टद्युम्नादीनां संभवः ॥ 6 ॥ पृथाचरित्रं । कर्णोत्पत्तिश्च ॥ 7 ॥ बलरामादीनां संभवः ॥ 8 ॥ द्रौपदीसंभवः ॥ 9 ॥ कुन्तीमाद्र्योः संभवः ॥ 10 ॥

जनमेजय उवाच ।
देवानां दानवानां च गन्धर्वोरगरक्षसाम् ।
सिंहव्याघ्रमृगाणां च पन्नगानां पतत्त्रिणाम् ॥
अन्येषां चैव भूतानां संभवं भगवन्नहम् । श्रोतुमिच्छामि तत्त्वेन मानुषेषु महात्मनाम् ।
जन्म कर्म च भूतानामेतेषामनुपूर्वशः ॥
वैशंपायन उवाच ।
मानुषेषु मनुष्येन्द्र संभूता ये दिवौकसः ।
प्रथमं दानवाश्चैव तांस्ते वक्ष्यामि सर्वशः ॥
विप्रचित्तिरिति ख्यातो य आसीद्दानवर्षभः ।
जरासन्ध इति ख्यातः स आसीन्मनुजर्षभः ॥
दितेः पुत्रस्तु यो राजन्हिरण्यकशिपुः स्मृतः ।
स जज्ञे मानुषे लोके शिशुपालो नरर्षभः ॥
संह्लाद इति विख्यातः प्रह्लादस्यानुजस्तु यः ।
स शल्य इति विख्यातो जज्ञे वाहीकपुङ्गवः ॥
अनुह्लादस्तु तेजस्वी योऽभूत्ख्यातो जघन्यजः ।
धृष्टकेतुरिति ख्यातः स बभूव नरेश्वरः ॥
यस्तु राजञ्शिबिर्नाम दैतेयः परिकीर्तितः ।
द्रुम इत्यभिविख्यातः स आसीद्भुवि पार्थिवः ॥
बाष्कलो नाम यस्तेषामासीदसुरसत्तमः ।
भगदत्त इति ख्यातः सं जज्ञे पुरुषर्षभः ॥
अयःशिरा अश्वशिरा अयःशङ्कुश्च वीर्यवान् ।
तथा गगनमूर्धा च वेगवांश्चात्र पञ्चमः ॥
पञ्चैते जज्ञिरे राजन्वीर्यवन्तो महासुराः । केकयेषु महात्मानः पार्थिवर्षभसत्तमाः ।
केतुमानिति विख्यातो यस्ततोऽन्यःप्रतापवान् ॥
अमितौजा इति ख्यातः सोग्रकर्मा नराधिपः ।
स्वर्भानुरिति विख्यातः श्रीमान्यस्तु महासुरः ॥
उग्रसेन इति ख्यात उग्रकर्मा नराधिपः ।
यस्त्वश्व इति विख्यातः श्रीमानासीन्महासुरः ॥
अशोको नाम राजाऽभून्महावीर्योऽपराजितः ।
तस्मादवरजो यस्तु राजन्नश्वपतिः स्मृतः ॥
दैतेयः सोऽभवद्राजा हार्दिक्यो मनुजर्षभः ।
वृषपर्वेति विख्यातः श्रीमान्यस्तु महासुरः ॥
दीर्घप्रज्ञ इति ख्यातः पृथिव्यां सोऽभवन्नृपः ।
अजकस्त्ववरो राजन्य आसीद्वृषपर्वणः ॥
स शाल्व इति विख्यातः पृथिव्यामभवन्नृपः ।
अश्वग्रीव इति ख्यातः सत्ववान्यो महासुरः ॥
रोचमान इति ख्यातः पृथिव्यां कोऽभवन्नृपः ।
सूक्ष्मस्तु मतिमान्राजन्कीर्तिमान्यः प्रकीर्तितः ॥
बृहद्रथ इति ख्यातः क्षितावासीत्स पार्थिवः ।
तुहुण्ड इति विख्यातो य आसीदसुरोत्तमः ॥
सेनाबिन्दुरिति ख्यातः स बूभव नराधिपः ।
इषुमान्नाम यस्तेषामसुराणां बलाधिकः ॥
नग्नजिन्नाम राजासीद्भुवि विख्यातविक्रमः ।
एकचक्र इति ख्यात आसीद्यस्तु महासुरः ॥
प्रतिविन्घ्य इति ख्यातो बभूव प्रथितः क्षितौ ।
विरूपाक्षस्तु दैतेयश्चित्रयोधी महासुरः ॥
चित्रधर्मेति विख्यातः क्षितावासीत्स पार्थिवः ।
हरस्त्वरिहरो वीर आसीद्यो दानवोत्तमः ॥
सुबाहुरिति विख्यातः श्रीमानासीत्स पार्थिवः ।
अहरस्तु महातेजाः शत्रुपक्षक्षयंकरः ॥
बाह्लिको नाम राजा स बभूव प्रथितः क्षितौ ।
निचन्द्रश्चन्द्रवक्त्रस्तु य आसीदसुरोत्तमः ॥
मुञ्जकेश इति ख्यातः श्रीमानासीत्स पार्थिवः ।
निकुम्भस्त्वजितः संख्ये महामतिरजायत ॥
भूमौ भूमिपतिश्रेष्ठो देवाधिप इति स्मृतः ।
शरभो नाम यस्तेषां दैतेयानां महासुरः ॥
पौरवो नाम राजर्षिः स बभूव नरोत्तमः ।
कुपटस्तु महावीर्यः श्रीमान्राजन्महासुरः ॥
सुपार्श्व इति विख्यातः क्षितौ जज्ञे महीपतिः ।
कपटस्तु राजन्राजर्षिः क्षितौ जज्ञे महासुरः ॥
पार्वतेय इति ख्यातः काञ्चनाचलसन्निभः ।
द्वितीयः शलभस्तेषामसुराणां बभूव ह ॥
प्रह्लादो नाम बाह्लीकः स बभूव नराधिपः ।
चन्द्रस्तु दितिजश्रेष्ठो लोके ताराधिपोपमः ॥
चन्द्रवर्मेति विख्यातः काम्बोजानां नराधिपः ।
अर्क इत्यभिविख्यातो यस्तु दानवपुङ्गवः ॥
ऋषिको नाम राजर्षिर्बभूव नृपसत्तमः ।
मृतपा इति विख्यातो य आसीदसुरोत्तमः ॥
पश्चिमानूपकं विद्धि तं नृपं नृपसत्तम ।
गविष्ठस्तु महातेजा यः प्रख्यातो महासुरः ॥
द्रुमसेन इति ख्यातः पृथिव्यां सोऽभवन्नृपः ।
मयूर इति विख्यातः श्रीमान्यस्तु महासुरः ॥
स विश्व इति विख्यातो बभूव पृथिवीपतिः ।
सुपर्ण इति विख्यातस्तस्मादवरजस्तु यः ॥
कालकीर्तिरिति ख्यातः पृथिव्यां सोऽभवन्नृपः ।
चन्द्रहन्तेति यस्तेषां कीर्तितः प्रवरोऽसुरः ॥
शुनको नाम राजर्षिः स बभूव नराधिपः ।
विनाशनस्तु चन्द्रस्य य आख्यातो महासुरः ॥
जानकिर्नाम विख्यातः सोऽभवन्मनुजाधिपः ।
दीर्घजिह्वस्तु कौरव्य य उक्तो दानवर्षभः ॥
काशिराजः स विख्यातः पृथिव्यां पृथिवीपते । ग्रहं तु सुषुवे यं तु सिंहिकार्केन्दुमर्दनम् ।
स क्राथ इति विख्यातो बभूव मनुजाधिपः ॥
दनायुषस्तु पुत्राणां चतुर्णां प्रवरोऽसुरः ।
विक्षरो नाम तेजस्वी वसुमित्रो नृपः स्मृतः ॥
द्वितीयो विक्षराद्यस्तु नराधिप महासुरः ।
पाण्ड्यराष्ट्राधिप इति विख्यातः सोऽभवन्नृपः ॥
बली वीर इति ख्यातो यस्त्वासीदसुरोत्तमः ।
पौण्ड्रमात्स्यक इत्येवं बभूव स नराधिपः ॥
वृत्र इत्यभिविख्यातो यस्तु राजन्महासुरः ।
मणिमान्नाम राजर्षिः स बभूव नराधिपः ॥
क्रोधहन्तेति यस्तस्य बभूवावरजोऽसुरः ।
दण्ड इत्यभिविख्यातः स आसीन्नृपतिः क्षितौ ॥
क्रोधवर्धन इत्येवं यस्त्वन्यः परिकीर्तितः ।
दण्डधार इति ख्यातः सोऽभवन्मनुजर्षभः ॥
कालेयानां तु ये पुत्रास्तेषामष्टौ नराधिपाः ।
जज्ञिरे राजशार्दूल शार्दूलसमविक्रमाः ॥
मगधेषु जयत्सेनस्तेषामासीत्स पार्थिवः ।
अष्टानां प्रवरस्तेषां कालेयानां महासुरः ॥
द्वितीयस्तु ततस्तेषां श्रीमान्हरिहयोपमः ।
अपराजित इत्येवं स बभूव नराधिपः ॥
तृतीयस्तु महातेजा महामायो महासुरः ।
निषादाधिपतिर्जज्ञे भुवि भीमपराक्रमः ॥
तेषामन्यतमो यस्तु चतुर्थः परिकीर्तितः ।
श्रेणिमानिति विख्यातः क्षितौ राजर्षिसत्तमः ॥
पञ्चमस्त्वभवत्तेषां प्रवरो यो महासुरः ।
महौजा इति विख्यातो बभूवेह परन्दपः ॥
षष्ठस्तु मतिमान्यो वै तेषामासीन्महासुरः ।
अभीरुरिति विख्यातः क्षितौ राजर्षिसत्तमः ॥
समुद्रसेनस्तु नृपस्तेषामेवाभवद्गणात् ।
विश्रुतः सागरान्तायां क्षितौ धर्मार्थतत्त्ववित् ॥
बृहन्नामाष्टमस्तेषां कालेयानां नराधिप ।
बभूव राजा धर्मात्मा सर्वभूतहिते रतः ॥
कुक्षिस्तु राजन्विख्यातो दानवानां महाबलः ।
पार्वतीय इति ख्यातः काञ्चनाचलसन्निभः ॥
क्रथनश्च महावीर्यः श्रीमान्राजा महासुरः ।
सूर्याक्ष इति विख्यातः क्षितौ जज्ञे महीपतिः ॥
असुराणां तु यः सकूर्यः श्रीमांश्चैव महासुरः ।
दरदो नाम बाह्लीको वरः सर्वमहीक्षिताम् ॥
गणः क्रोधवशो नाम यस्ते राजन्प्रकीर्तितः ।
ततः संजज्ञिरे वीराः क्षिताविह नराधिपाः ॥
मद्रकः कर्णवेष्टश्च सिद्धार्थः कीटकस्तथा ।
सुवीरश्च सुबाहुश्च महावीरोऽथ बाह्लिकः ॥
क्रथो विचित्रः सुरथः श्रीमान्नीलश्च भूमिपः ।
चीरवासाश्च कौरव्य भूमिपालश्च नामतः ॥
दन्तवक्त्रश्च नामासीद्दुर्जयश्चैव दानवः ।
रुक्मी च नृपशार्दूलो राजा च जनमेजयः ॥
आषाढो वायुवेगश्च भूरितेजास्तथैव च ।
एकलव्यः सुमित्रश्च वाटधानोऽथ गोमुखः ॥
कारूषकाश्च राजानः क्षेमधूर्तिस्तथैव च ।
श्रुतायुरुद्वहश्चैव बृहत्सेनस्तथैव च ॥
क्षेमोग्रतीर्थः कुहरः कलिङ्गेषु नराधिपः ।
मतिमांश्च मनुष्येन्द्र ईश्वरश्चेति विश्रुतः ॥
गणात्क्रोधवशादेष राजपूगोऽभवत्क्षितौ ।
जातः पुरा महाभागो महाकीर्तिर्महाबलः ॥
कालनेमिरिति ख्यातो दानवानां महाबलः ।
स कंस इति विख्यात उग्रसेनसुतो बली ॥
यस्त्वासीद्देवको नाम देवराजसमद्युतिः ।
स गन्धर्वपतिर्मुख्यः क्षितौ जज्ञे नराधिपः ॥
बृहस्पतेर्बृहत्कीर्तेर्देवर्षेर्विद्धि भारत ।
अशाद्द्रोणं समुत्पन्नं भारद्वाजमयोनिजम् ॥
धन्विनां नृपशार्दूल यः सर्वास्त्रविदुत्तमः ।
महाकीर्तिर्महातेजाः स जज्ञे मनुजेश्वर ॥
धनुर्वेदे च वेदे च यं तं वेदविदो विदुः ।
वरिष्ठं चित्रकर्माणं द्रोणं स्वकुलवर्धनम् ॥
महादेवान्तकाभ्यां च कामात्क्रोधाच्च भारत ।
एकत्वमुपसंपद्य जज्ञे शूरः परन्तपः ॥
अश्वत्थामा महावीर्यः शत्रुपक्षभयावहः ।
वीरः कमलपत्राक्षः क्षितावासीन्नराधिपः ॥
जज्ञिरे वसवस्त्वष्टौ गङ्गायां शन्तनोः सुताः ।
वसिष्ठस्य च शापेन नियोगाद्वासवस्य च ॥
तेषामवरजो भीष्मः कुरूणामभयङ्करः ।
मतिमान्वेदविद्वाग्मी शत्रुपक्षक्षयङ्करः ॥
जामदग्न्येन रामेण सर्वास्त्रविदुषां वरः ।
योऽप्युध्यत महातेजा भार्गवेण महात्मना ॥
यस्तु राजन्कृपो नाम ब्रह्मर्षिरभवत्क्षितौ ।
रुद्राणां तु गणाद्विद्धि संभूतमतिपौरुषम् ॥
शकुनिर्नाम यस्त्वासीद्राजा लोके महारथः ।
द्वापरं विद्धि तं राजन्संभूतमरिमर्दनम् ॥
सात्यकिः सत्यसन्धश्च योऽसौ वृष्णिकुलोद्वहः ।
पक्षात्स जज्ञे मरुतां देवानामरिमर्दनः ॥
द्रुपदश्चैव राजर्षिस्तत एवाभवद्गणात् ।
मानुषे नृप लोकेऽस्मिन्सर्वशस्त्रभृतां वरः ॥
ततश्च कृतवर्माणं विद्धि राजञ्जनाधिपम् ।
तमप्रतिमकर्माणं क्षत्रियर्षभसत्तमम् ॥
मरुतां तु गणाद्विद्धि संजातमरिमर्दनम् ।
विराटं नाम राजानं परराष्ट्रप्रतापनम् ॥
अरिष्टायास्तु यः पुत्रो हंस इत्यभिविश्रुतः ।
स गन्धर्वपतिर्जज्ञे कुरुवंशविवर्धनः ॥
धृतराष्ट्र इति ख्यातः कृष्णद्वैपायनात्मजः ।
दीर्घबाहुर्महातेजाः प्रज्ञाचक्षुर्नराधिपः ॥
मातुर्दोषादृषेः कोपादन्ध एव व्यजायत ॥
`मरुतां तु गणाद्वीरः सर्वशस्त्रभृतां वरः । पाण्डुर्जज्ञे महाबाहुस्तव पूर्वपितामहः ।'
तस्यैवावरजो भ्राता महासत्वो महाबलः ॥
धर्मात्तु सुमहाभागं पुत्रं पुत्रवतां वरम् ।
विदुरं विद्धि तं लोके जातं बुद्धिमतां वरम् ॥
कलेरंशस्तु संजज्ञे भुवि दुर्योधनो नृपः ।
दुर्बद्धिर्दुर्मतिश्चैव कुरूणामयशस्करः ॥
जगतो यस्तु सर्वस्य विद्विष्टः कलिपूरुषः ।
यः सर्वां घातयामास पृथिवीं पृथिवीपते ॥
उद्दीपितं येन वैरं भूतान्तकरणं महत् ।
पौलस्त्या भ्रातरश्चास्य जज्ञिरे मनुजेष्विह ॥
शतं दुःशासनादीनां सर्वेषां क्रूरकर्मणाम् ।
दुर्मुखो दुःसहश्चैव ये चान्ये नानुकीर्तिताः ॥
दुर्योधनसहायास्ते पौलस्त्या भरतर्षभ ।
वैश्यापुत्रो युयुत्सुश्च धार्तराष्ट्रः शताधिकः ॥
जनमेजय उवाच ।
ज्येष्ठानुज्येष्ठतामेषां नामधेयानि वा विभो ।
धृतराष्ट्रस्य पुत्राणामानुपूर्व्येण कीर्तय ॥
वैशंपायन उवाच ।
दुर्योधनो युयुत्सुश्च राजन्दुःशासनस्तथा ।
दुःसहो दुःशलश्चैव दुर्मुखश्च तथापरः ॥
विविंशतिर्विकर्णश्च जलसन्धः सुलोचनः ।
विन्दानुविन्दौ दुर्धर्षः सुबाहुर्दुष्प्रधर्षणः ॥
दुर्मर्षणो दुर्मुखश्च दुष्कर्णः कर्ण एव च ।
चत्रोपचित्रौ चित्राक्षश्चारुचित्राङ्गदश्च ह ॥
दुर्मदो दुष्प्रहर्षश्च विवित्सुर्विकटः समः ।
ऊर्णनाभः पद्मनाभस्तथा नन्दोपनन्दकौ ॥
सेनापतिः सुषेणश्च कुण्डोदरमहोदरौ ।
चित्रबाहुश्चित्रवर्मा सुवर्मा दुर्विरोचनः ॥
अयोबाहुर्महाबाहुश्चित्रचापसुकुण्डलौ ।
भीमवेगो भीमबलो बलाकी भीमविक्रमः ॥
उग्रायुधो भीमशरः कनकायुर्दृढायुधः ।
दृढवर्मा दृढक्षत्रः सोमकीर्तिरनूदरः ॥
जरासन्धो दृढसन्धः सत्यसन्धः सहस्रवाक् ।
उग्रश्रवा उग्रसेनः क्षेममूर्तिस्तथैव च ॥
अपराजितः पण्डितको विशालाक्षो दुराधनः ॥
दृढहस्तः सुहस्तश्च वातवेगसुवर्चसौ ।
आदित्यकेतुर्बह्वाशी नागदत्तानुयायिनौ ॥
कवाची निषङ्गी दण्डी दण्डधारो धनुर्ग्रहः ।
उग्रो भीमरथो वीरो वीरबाहुरलोलुपः ॥
अभयो रौद्रकर्मा च तथा दृढरथश्च यः ।
अनाधृष्यः कुम्डभेदी विरावी दीर्घलोचनः ॥
दीर्घबाहुर्महाबाहुर्व्यूढोरुः कनकाङ्गदः ।
कुण्डजश्चित्रकश्चैव दुःशला च शताधिका ॥
वैश्यापुत्रो युयुत्सुश्च धार्तराष्ट्रः शताधिकः ।
एतदेकशतं राजन्कन्या चैका प्रकीर्तिता ॥
नामधेयानुपूर्व्या च ज्येष्ठानुज्येष्ठतां विदुः ।
सर्वे त्वतिरथाः शूराः सर्वे युद्धविशारदाः ॥
सर्वे वेदविदश्चैव राजञ्शास्त्रे च परागाः ।
सर्वे सङ्घ्रामविद्यासु विद्याभिजनशोभिनः ॥
सर्वेषामनुरूपाश्च कृता दारा महीपते ।
दुःशलां समये राजसिन्धुराजाय कौरवः ॥
जयद्रथाय प्रददौ सौबलानुमते तदा ।
धर्मस्यांशं तु राजानं विद्धि राजन्युधिष्ठिरम् ॥
भीमसेनं तु वातस्य देवराजस्य चार्जुनम् ।
अश्विनोस्तु तथैवांशौ रूपेणाप्रतिमौ भुवि ॥
नकुलः सहदेवश्च सर्वभूतमनोहरौ ।
स्युवर्चा इति ख्यातः सोमपुत्रः प्रतापवान् ॥
सोऽभिमन्युर्बृहत्कीर्तिरर्जुनस्य सुतोऽभवत् ।
यस्यावतरणे राजन्सुरान्सोमोऽब्रवीदिदम् ॥
नाहं दद्यां प्रियं पुत्रं मम प्राणैर्गरीयसम् ।
समयः क्रियतामेष न शक्यमतिवर्तितुम् ॥
सुरकार्यं हि नः कार्यमसुराणां क्षितौ वधः ।
तत्र यास्यत्ययं वर्चा न च स्थास्यति वै चिरम् ॥
ऐन्द्रिर्नरस्तु भविता यस्य नारायणः सखा ।
सोर्जुनेत्यभिविख्यातः पाण्डोः पुत्रः प्रतापवान् ॥
तस्यायं भविता पुत्रो बालो भुवि महारथः ।
ततः षोडशवर्षाणि स्थास्यत्यमरसत्तमाः ॥
अस्य षोडशवर्षस्य स सङ्ग्रामो भविष्यति ।
यत्रांशा वः करिष्यन्ति कर्म वीरनिषूदनम् ॥
नरनारायणाभ्यां तु स सङ्ग्रामो विनाकृतः ।
चक्रव्यूहं समास्थाय योधयिष्यन्ति वःसुराः ॥
विमुखाञ्छात्रवान्सर्वान्कारयिष्यति मे सुतः ।
बालः प्रविश्य च व्यूहमभेद्यं विचरिष्यति ॥
महारथानां वीराणां कदनं च करिष्यति ।
सर्वेषामेव शत्रूणां चतुर्थांशं नयिष्यति ॥
दिनार्धेन महाबाहुः प्रेतराजपुरं प्रति ।
ततो महारथैर्वीरैः समेत्य बहुशो रणे ॥
दिनक्षये महाबाहुर्मया भूयः समेष्यति ।
एकं वंशकरं पुत्रं वीरं वै जनयिष्यति ॥
प्रनष्टं भारतं वंशं स भूयो धारयिष्यति ।
वैशंपायन उवाच ।
एतत्सोमवचः श्रुत्वा तथास्त्विति दिवौकसः ॥
प्रत्यूचुः सहिताः सर्वे ताराधिपमपूजयन् ।
एवं ते कथितं राजंस्तव जन्म पितुः पितुः ॥
अग्नेर्भागं तु विद्धि त्वं धृष्टद्युम्नं महारथण् ।
शिखण्डिनमथो राजंस्त्रीपूर्वं विद्धि राक्षसम् ॥
द्रौपदेयाश्च ये पञ्च बभूवुर्भरतर्षभ ।
विश्वान्देवगणान्विद्धि संजातान्भरतर्षभ ॥
प्रतिविन्ध्यः सुतसोमः श्रुतकीर्तिस्तथापरः ।
नाकुलिस्तु शतानीकः श्रुतसेनश्च वीर्यवान् ॥
शूरो नाम यदुश्रेष्ठो वसुदेवपिताऽभवत् । तस्य कन्या पृथा नाम रूपेणासदृशी भुवि ।
पितुः स्वस्रीयपुत्राय सोऽनपत्याय वीर्यवान् ।
अग्रमग्रे प्रतिज्ञाय स्वस्यापत्यस्य वै तदा ॥
अग्रजातेति तां कन्यां शूरोऽनुग्रहकाङ्क्षया ।
अददत्कुन्तिभोजाय स तां दुहितरं तदा ॥
सा नियुक्ता पितुर्गेहे ब्राह्मणातिथिपूजने ।
उग्रं पर्यचरद्धोरं ब्राह्मणं संशितव्रतम् ॥
निकूढनिश्चयं धर्मे यं तं दुर्वाससं विदुः ।
समुग्रं शंसितात्मानं सर्वयत्नैरतोषयत् ॥
तुष्टोऽभिचारसंयुक्तमाचचक्षे यथाविधि ।
उवाच चैनां भगवान्प्रीतोऽस्मि सुभगे तव ॥
यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि ।
तस्य तस्य प्रसादात्त्वं देवि पुत्राञ्जनिष्यसि ॥
एवमुक्ता च सा बाला तदा कौतूहलान्विता ।
कन्या सती देवमर्कमाजुहाव यशस्विनी ॥
प्रकाशकर्ता भगवांस्तस्यां गर्भं दधौ तदा ।
अजीजनत्सुतं चास्यां सर्वशस्त्रभृतांवरम् ॥
सकुण्डलं सकवचं देवगर्भं श्रियान्वितम् ।
दिवाकरसमं दीप्त्या चारुसर्वाङ्गभूषितम् ॥
निगूहमाना जातं वै बन्धुपक्षभयात्तदा ।
उत्ससर्ज जले कुन्ती तं कुमारं यशस्विनम् ॥
तमुत्सृष्टं जले गर्भं राधाभर्ता महायशाः ।
राधायाः कल्पयामास पुत्रं सोऽधिरथस्तदा ॥
चक्रतुर्नामधेयं च तस्य बालस्य तावुभौ ।
दंपती वसुषेणेति दिक्षु सर्वासु विश्रुतम् ॥
संवर्धमानो बलवान्सर्वास्त्रेषूत्तमोऽभवत् ।
वेदाङ्गानि च सर्वाणि जजाप जपतां वरः ॥
यस्मिन्काले जपन्नास्ते धीमान्सत्यपराक्रमः ।
नादेयं ब्राह्मणेष्वासीत्तस्मिन्काले महात्मनः ॥
तमिन्द्रो ब्राह्मणो भूत्वा पुत्रार्थे भूतभावनः ।
ययाचे कुण्डले वीरं कवचं च सहाङ्गजम् ॥
उत्कृत्य कर्णो ह्यददत्कवचं कुण्डले तथा ॥
शक्तिं शक्रो ददौ तस्मै विस्मितश्चेदमब्रवीत् ॥
देवासुरमनुष्याणां गन्धर्वोरगरक्षसाम् ।
यस्मिन्क्षेप्स्यसि दुर्धर्ष स एको न भविष्यति ॥
वैशंपायन उवाच ।
पुरा नाम च तस्यासीद्वसुषेण इति क्षितौ ।
ततो वैकर्तनः कर्णः कर्मणा तेन सोऽभवत् ॥
आमुक्तकवचो वीरो यस्तु जज्ञे महायशाः ।
स कर्ण इति विख्यातः पृथायाः प्रथमः सुतः ॥
स तु सूतकुले वीरो ववृधे राजसत्तम ।
कर्णं नरवरश्रेष्ठं सर्वशस्त्रभृतां वरम् ॥
दुर्योधनस्य सचिवं मित्रं शत्रुविनाशनम् ।
दिवाकरस्य तं विद्धि राजन्नंशमनुत्तमम् ॥
यस्तु नारायणो नाम देवदेवः सनातनः ।
तस्यांशो मानुषेष्वासीद्वासुदेवः प्रतापवान् ॥
शेषस्यांशश्च नागस्य बलदेवो महाबलः ।
सनत्कुमारं प्रद्युम्नं विद्धि राजन्महौजसम् ॥
एवमन्ये मनुष्येन्द्रा बहवोंशा दिवौकसाम् ।
जज्ञिरे वसुदेवस्य कुले कुलविवर्धनाः ॥
गणस्त्वप्सरसां यो वै मया राजन्प्रकीर्तितः ।
तस्य भागः क्षितौ जज्ञे नियोगाद्वासवस्य ह ॥
तानि षोडशदेवीनां सहस्राणि नराधिप ।
बभूवुर्मानुषे लोके वासुदेवपरिग्रहः ॥
श्रियस्तु भागः संजज्ञे रत्यर्थं पृथिवीतले ।
[भीष्मकस्य कुले साध्वी रुक्मिणी नाम नामतः ॥
द्रौपदी त्वथ संजज्ञे शची भागादनिन्दिता ।] द्रुपदस्य कुले जाता वेदिमध्यादनिन्दिता ॥
नातिह्रस्वा न महती नीलोत्पलसुगन्धिनी ।
पद्मायताक्षी सुश्रोणी स्वसिताञ्चितमूर्धजा ॥
सर्वलक्षणसंपन्ना वैदूर्यमणिसंनिभा ।
पञ्चानां पुरुषेन्द्राणां चित्तप्रमथनी रहः ॥
सिद्धिर्धृतिश्च ये देव्यौ पञ्चानां मातरौ तु ते ।
कुन्ती माद्री च जज्ञाते मतिस्तु कुबलात्मजा ॥
इति देवासुराणां ते गन्धर्वाप्सरसां तथा ।
अंशावतरणं राजन्राक्षसानां च कीर्तितम् ॥
ये पृथिव्यां समुद्भूता राजानो युद्धदुर्मदाः ।
महात्मानो यदूनां च ये जाता विपुले कुले ॥
ब्राह्मणाः क्षत्रिया वैश्या मया ते परिकीर्तिताः ।
धन्यं यशस्यं पुत्रीयमायुष्यं विजयावहम् ॥
इदमंशावतरणं श्रोतव्यमनसूयता ।
अंशावतरणं श्रुत्वा देवगन्धर्वरक्षसाम् ॥
प्रभवाप्ययवित्प्राज्ञो न कृच्छ्रेष्ववसीदति ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि अष्टषष्टितमोऽध्यायः ॥ 68 ॥

कुण्डलितोयं पाठः क्वचिन्न दृश्यते ।

अध्यायः 069

कुरुवंशकथनम् ॥ 1 ॥ संक्षेपेण ययात्युपाख्यानम् ॥ 2 ॥

जनमेजय उवाच ।
त्वत्तः श्रुतमिदं ब्रह्मन्देवदानवरक्षसाम् ।
अंशावतरणं सम्यग्गन्धर्वाप्सरसां तथा ॥
इमं तु भूय इच्छामि कुरूणां वंशमादितः ।
कथ्यमानं त्वया विप्र विप्रर्षिगणसन्निधौ ॥
वैशंपायन उवाच ।
धर्मार्थकामसहितं राजर्षीणां प्रकीर्तितम् ।
पवित्रं कीर्त्यमानं मे निबोधेदं मनीषिणाम् ॥
प्रजापतेस्तु दक्षस्य मनोर्वैवस्वतस्य च ।
भरतस्य कुरोः पूरोराजमीढस्य चानघ ॥
यादवानामिमं वंशं कौरवाणां च सर्वशः ।
तथैव भरतानां च पुण्यं स्वस्त्ययनं महत् ॥
धन्यं यशस्यमायुष्यं कीर्तयिष्यामि तेऽनघ ।
तेजोभिरुदिताः सर्वे महर्षिसमतेजसः ॥
दश प्राचेतसः पुत्राः सन्तः पुण्यजनाः स्मृताः ।
मुखजेनाग्निना यैस्ते पूर्वं दग्धा महौजसः ॥
तेभ्यः प्राचेतसो जज्ञे दक्षो दक्षादिमाः प्रजाः ।
संभूताः पुरुषव्याघ्र स हि लोकपितामहः ॥
वीरिण्या सह सङ्गम्य दक्षः प्राचेतसो मुनिः ।
आत्मतुल्यानजनयत्सहस्रं संशितव्रतान् ॥
सहस्रसङ्ख्यानसंभूतान्दक्षपुत्रांश्च नारदः ।
मोक्षमध्यापयामास साङ्ख्यज्ञानमनुत्तमम् ॥
`नाशार्थं योजयामास दिगन्तज्ञानकर्मसु' । ततः पञ्चाशतं कन्या पुत्रिका अभिसन्दधे ।
प्रजापतिः प्रजा दक्षः सिसृक्षुर्जनमेजय ॥
ददौ दश स धर्माय कश्यपाय त्रयोदश ।
कालस्य नयने युक्ताः सप्तविंशतिमिन्दवे ॥
त्रयोदशानां पत्नीनां या तु दाक्षायणी वरा ।
मारीचः कश्यपस्त्वस्यामादित्यान्समजीजनत् ॥
इन्द्रादीन्वीर्यसंपन्नान्विवस्वन्तमथापि च ।
विवस्वतः सुतो जज्ञे यमो वैवस्वतः प्रभुः ॥
`मार्ताण्डस्य यमी चापि सुता राजन्नजायत' ।
मार्तण्डस्य मनुर्धीमानजायत सुतः प्रभुः ॥
धर्मात्मा स मनुर्धीमान्यत्र वंशः प्रतिष्ठितः ।
मनोर्वंशो मानवानां ततोऽयं प्रथितोऽभवत् ॥
ब्रह्मक्षत्रादयस्तस्मान्मनोर्जातास्तु मानवाः ।
ततोऽभवन्महाराज ब्रह्म क्षत्रेण सङ्गतम् ॥
ब्राह्मणा मानवास्तेषां साङ्गं वेदमदारयन् ।
वेनं धृष्णुं नरिष्यन्तं नाभागेक्ष्वाकुमेव च ॥
कारूषमथ शर्यातिं तथा चैवाष्टमीमिलाम् ।
पृष्टध्रं नवमं प्राहुः क्षत्रधर्मपरायणम् ॥
नाभागारिष्टदशमान्मनोः पुत्रान्प्रचक्षते ।
पञ्चाशत्तु मनोः पुत्रास्तथैवान्येऽभवन्क्षितौ ॥
अन्योन्यभेदात्ते सर्वे विनेशुरिति नः श्रुतम् ।
पुरूरवास्ततो विद्वानिलायां समपद्यत ॥
सा वै तस्याभवन्माता पिता चैवेति नः श्रुतम् ।
त्रयोदश समुद्रस्य द्वीपानश्नन्पुरूरवाः ॥
अमानुषैर्वृतः सत्वैर्मानुषः सन्महायशाः ।
विप्रैः स विग्रहं चक्रे वीर्योन्मत्तः पुरूरवाः ॥
जहार च स विप्राणां रत्नान्युत्क्रोशतामपि ।
सनत्कुमारस्तं राजन्ब्रह्मलोकादुपेत्य ह ॥
अनुदर्शं ततश्चक्रे प्रत्यगृह्णान्न चाप्यसौ ।
ततो महर्षिभिः क्रुद्धैः सद्यः शप्तो व्यनश्यत ॥
लोभान्वितो बलमदान्नष्टसंज्ञो नराधिपः ।
स हि गन्धर्वलोकस्थानुर्वश्या सहितो विराट् ॥
आनिनाय क्रियार्थेऽग्नीन्यथावद्विहितांस्त्रिधा ।
षट् सुता जज्ञिरे चैलादायुर्धीमानमावसुः ॥
दृढायुश्च वनायुश्च शतायुश्चोर्वशीसुताः ।
नहुषं वृद्धशर्माणं रजिं गयमनेनसम् ॥
स्वर्भानवी सुतानेतानायोः पुत्रान्प्रचक्षते ।
आयुषो नहुषः पुत्रो धीमान्सत्यपराक्रमः ॥
राज्यं शशास सुमहद्धर्मेण पृथिवीपते ।
पितॄन्देवानृषीन्विप्रान्गन्धर्वोरगराक्षसान् ॥
नहुषः पालयामास ब्रह्मक्षत्रमथो विशः ।
स हत्वा दस्युसंघातानृषीन्करमदापयत् ॥
पशुवच्चैव तान्पृष्ठे वाहयामास वीर्यवान् ।
कारयामास चेन्द्रत्वमभिभूय दिवौकसः ॥
तेजसा तपसा चैव विक्रमेणौजसा तथा । `विश्लिष्टो नहुषः शप्तः सद्यो ह्यजगरोऽभवत्' ।
यतिं ययातिं संयातिमायातिमयतिं ध्रुवम् ॥
नहुषो जनयामास षट् सुतान्प्रियवादिनः ।
यतिस्तु योगमास्थाय ब्रह्मीभूतोऽभवन्मुनिः ॥
ययातिर्नाहुषः सम्राडासीत्सत्यपराक्रमः ।
स पालयामास महीमीजे च बहुभिर्मखैः ॥
अतिभक्त्या पितॄनर्चन्देवांश्च प्रयतः सदा ।
अन्वगृह्णात्प्रजाः सर्वा ययातिरपराजितः ॥
तस्य पुत्रा महेष्वासाः सर्वैः समुदिता गुणैः ।
देवयान्यां महाराज शर्मिष्ठायां च जज्ञिरे ॥
देवयान्यामजायेतां यदुस्तुर्वसुरेव च ।
द्रुह्युश्चानुश्च पूरुश्च शर्मिष्ठायां च जज्ञिरे ॥
स शाश्वतीः समा राजन्प्रजा धर्मेण पालयन् ।
जरामार्च्छन्महाघोरां नाहुषो रूपनाशिनीम् ॥
जराऽभिभूतः पुत्रान्स राजा वचनमब्रवीत् ।
यदुं पूरुं तुर्वसुं च द्रुह्युं चानुं च भारत ॥
यौवनेन चरन्कामान्युवा युवतिभिः सह ।
बिहर्तुमहमिच्छामि साह्यं कुरुत पुत्रकाः ॥
तं पुत्रो दैवयानेयः पूर्वजो वाक्यमब्रवीत् ।
किं कार्यं भवतः कार्यमस्माकं यौवनेन ते ॥
ययातिरब्रवीत्तं वै जरा मे प्रतिगृह्यताम् ।
यौवनेन त्वदीयेन चरेयं विषयानहम् ॥
यजतो दीर्घसत्रैर्मे शापाच्चोशनसो मुनेः ।
कामार्थः परिहीणोऽयं तप्येयं तेन पुत्रकाः ॥
मामकेन शरीरेण राज्यमेकः प्रशास्तु वः ।
अहं तन्वाऽभिनवया युवा काममवाप्नुयाम् ॥
वैशंपायन उवाच ।
ते न तस्य प्रत्यगृह्णन्यदुप्रभृतयो जराम् ।
तमब्रवीत्ततः पूरुः कनीयान्सत्यविक्रमः ॥
राजंश्चराभिनवया तन्वा यौवनगोचरः ।
अहं जरां समादाय राज्ये स्थास्यामि तेज्ञया ॥
एवमुक्तः स राजर्षिस्तपोवीर्यसमाश्रयात् ।
संचारयामास जरां तदा पुत्रे महात्मनि ॥
पौरवेणाथ वयसा राजा यौवनमास्थितः ।
यायातेनापि वयसा राज्यं पूरुरकारयत् ॥
ततो वर्षसहस्राणि ययातिरपराजितः ।
स्थितः स नृपशार्दूलः शार्दूलसमविक्रमः ॥
ययातिरपि पत्नीभ्यां दीर्घकालं विहृत्य च ।
विश्वाच्या सहितो रेमे पुनश्चैत्ररथे वने ॥
नाध्यगच्छत्तदा तृप्तिं कामानां स महायशाः ।
अवेत्य मनसा राजन्निमां गाथां तदा जगौ ॥
न जातु कामः कामानामुपभोगेन शाम्यति ।
इविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥
यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः ।
नालमेकस्य तत्सर्वमिति मत्वा शमं व्रजेत् ॥
यदा न कुरुते पापं सर्वभूतेषु कर्हिचित् ।
कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा ॥
न बिभेति यदा चायं यदा चास्मान्न बिभ्यति ।
यदा नेच्छति न द्वेष्टि ब्रह्म संपद्यते तदा ॥
इत्यवेक्ष्य महाप्राज्ञः कामानां फल्गुतां नृप ।
समाधाय मनो बुद्ध्या प्रत्यगृह्णाज्जरां सुतात् ॥
`ततो वर्षसहस्रान्ते ययातिरपराजितः ।' दत्वा च यौवनं राजा पूरुं राज्येऽभिषिच्य च ।
अतृप्त एव कामानां पूरुं पुत्रमुवाच ह ॥
त्वया दायादवानस्मि त्वं मे वंशकरः सुतः ।
पौरवो वंश इति ते ख्यातिं लोके गमिष्यति ॥
वैशंपायन उवाच ।
ततः स नृपशार्दूल पूरुं राज्येऽभिषिच्य च ।
ततः सुचरितं कृत्वा भृगुतुङ्गे महातपाः ॥
कालेन महता पश्चात्कालधर्ममुपेयिवान् ।
कारयित्वा त्वनशनं सदारः स्वर्गमाप्तवान् ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि एकोनसप्ततितमोऽध्यायः ॥ 69 ॥

1-69-7 प्राचेतसः प्राचे देशाय यज्ञक्रियया अतति सततं गच्छतीति प्राचेताः तस्य प्राचेतसः प्राचीनबर्हिषः । पुण्यजनाः पुण्योत्पादकास्तपः शीला इत्यर्थः । यैस्ते महौजसो महाप्रभावा वृक्षौषधयो दग्धाः ॥ 1-69-9 वीरिण्या वीरणपुत्र्या ॥ 1-69-10 मोक्षं मोक्षहेतुं । सांख्यज्ञानं विवेकजं विज्ञानम् ॥ 1-69-15 यमी यमुना ॥ 1-69-21 अन्योन्यभेदात्परस्परवैरात् ॥ 1-69-22 मातैव लब्धपुंभावा राज्य दानात्पिताप्यभूत् । मुख्यः पिता तु बुध एव ॥ 1-69-25 अनुदश दर्शो दर्शनं स पश्चाद्यस्य स श्रुतियुक्त्युपदेशोऽनुदर्शस्तं तत स्तदुपदेशमित्यर्थः ॥ 1-69-26 विराड्विराजमानः ॥ 1-69-27 त्रिधा गार्हपत्यदक्षिणाग्न्याहवनीयभेदेन । आयुःशब्दः उक रान्तः सान्तश्च ॥ 1-69-42 कार्यं प्रयोजनम् । कार्यं कर्तव्यम् ॥ 1-69-44 व्रतनिर्बन्धाच्छुक्रशापाच्च कामरूपः पुरुषार्थो हीनः ॥ 1-69-47 तेज्ञया तव आज्ञया । पूर्वरूपमाकारलोपो वार्षः ॥ 1-69-52 कामामां कामभोगेन । अवेत्य कामसेवया तृप्त्यभावं ज्ञात्वा ॥ 1-69-53 हविषा समिदाज्यादिना ॥ 1-69-54 एकस्य कामिनः सर्वं नालमपर्याप्तम् । शमं कामशान्तिम् ॥ 1-69-59 दायादवान् पुत्रवान् ॥ 1-69-61 कारयित्वा कृत्वा ॥ एकोनसप्ततितमोऽध्यायः ॥ 69 ॥

अध्यायः 070

ययात्युपाख्यानारम्भः ॥ 1 ॥ सञ्जीवनीविद्यालाभार्थं देवैः शुक्रसमीपे कचस्य प्रेषणम् ॥ 2 ॥ कचस्य शिष्यत्वेनाङ्गीकारः ॥ 3 ॥ दैत्यैर्हतस्य कचस्योज्जीवनम् ॥ 4 ॥ दैत्यैर्भस्मीकृत्य तन्मिश्रितसुराद्वारा स्वकुक्षिं प्रापितस्य कचस्य शुक्रेण विद्यादानपूर्वकमुज्जीवनम् ॥ 5 ॥ शुक्रेण सुरापाननिषेधः ॥ 6 ॥

जनमेजय उवाच ।
ययातिः पूर्वजोऽस्माकं दशमो यः प्रजापतेः ।
कथं स शुक्रतनयां लेभे परमदुर्लभाम् ॥
एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन ।
आनुपूर्व्या च मे शंस राज्ञो वंशकरान्पृथक् ॥
वैशंपायन उवाच ।
ययातिरासीन्नृपतिर्देवराजसमद्युतिः ।
तं शुक्रवृषपर्वाणौ वव्राते वै यथा पुरा ॥
तत्तेऽहं संप्रवक्ष्यामि पृच्छते जनमेजय ।
देवयान्याश्च संयोगं ययातेर्नाहुषस्य च ॥
सुराणामसुराणां च समजायत वै मिथः ।
ऐश्वर्यं प्रति संघर्षस्त्रैलोक्ये सचराचरे ॥
जिगीषया ततो देवा वव्रिरेऽङ्गिरसं मुनिम् ।
पौरोहित्येन याज्यार्थे काव्यं तूशनसं परे ॥
ब्राह्मणौ तावुभौ नित्यमन्योन्यस्पर्धिनौ भृशम् ।
तत्र देवा निजघ्नुर्यान्दानवान्युधि संगतान् ॥
तान्पुनर्जीवयामास काव्यो विद्याबलाश्रयात् ।
ततस्ते पुनरुत्थाय योधयांचक्रिरे सुरान् ॥
असुरास्तु निजघ्नुर्यान्सुरान्समरमूर्धनि ।
न तान्सञ्जीवयामास बृहस्पतिरुदारधीः ॥
न हि वेद स तां विद्यां यां काव्योवेत्ति वीर्यवान् ।
सञ्जीविनीं ततो देवा विषादमगमन्परम् ॥
ते तु देवा भयोद्विग्नाः काव्यादुशनसस्तदा ।
ऊचुः कचमुपागम्य ज्येष्ठं पुत्रं बृहस्पतेः ॥
भजमानान्भजस्वास्मान्कुरु नः साह्यमुत्तमम् ।
या सा विद्या निवसति ब्राह्मणेऽमिततेजसि ॥
शुक्रे तामाहर क्षिप्रं भागभाङ्गो भविष्यसि ।
वृषपर्वसमीपे हि शक्यो द्रष्टुं त्वया द्विजः ॥
रक्षते दानवांस्तत्र न स रक्षत्यदानवान् ।
तमाराधयितुं शक्तो भवान्पूर्ववयाः कविम् ॥
देवयानीं च दयितां सुतां तस्य महात्मनः ।
त्वमाराधयितुं शक्तो नान्यः कश्चन विद्यते ॥
शीलदाक्षिण्यमाधुर्यैराचारेण दमेन च ।
देवयान्यां हि तुष्टायां विद्यां तां प्राप्स्यसि ध्रुवम् ॥
वैशंपायन उवाच ।
तथेत्युक्त्वा ततः प्रायाद्बृहस्पतिसुतः कचः ।
तदाऽभिपूजितो देवैः समीपे वृषपर्वणः ॥
स गत्वा त्वरितो राजन्देवैः संप्रेषितः कचः ।
असुरेन्द्रपुरे शुक्रं दृष्ट्वा वाक्यमुवाच ह ॥
ऋषेरङ्गिरसः पौत्रं पुत्रं साक्षाद्बृहस्पतेः ।
नाम्ना कच इति ख्यातं शिष्यं गृह्णात् मां भवान् ॥
ब्रह्मचर्यं चरिष्यामि त्वय्यहं परमं गुरौ ।
अनुमन्यस्व मां ब्रह्मन्सहस्रं परिवत्सरान् ॥
शुक्र उवाच ।
कच सुस्वागतं तेऽस्तु प्रतिगृह्णामि ते वचः ।
अर्चयिष्येऽहमर्च्यं त्वामर्चितोऽस्तु बृहस्पतिः ॥
वैशंपायन उवाच ।
कचस्तु तं तथेत्युक्त्वा प्रतिजग्राह तद्व्रतम् ।
आदिष्टं कविपुत्रेण शुक्रेणोशनसा स्वयम् ॥
व्रतस्य प्राप्तकालं स यथोक्तं प्रत्यगृह्णत ।
आराधयन्नुपाध्यायं देवयानीं च भारत ॥
नित्यमाराधयिष्यंस्तां युवा यौवनगां मुनिः ।
गायन्नृत्यन्वादयंश्च देवयानीमतोषयत् ॥
स शीलयन्देवयानीं कन्यां संप्राप्तयौवनाम् ।
पुष्पैः फलैः प्रेषणैश्च तोषयामास भारत ॥
देवयान्यपि तं विप्रं नियमव्रतधारिणम् ।
गायन्ती च ललन्ती च रहः पर्यचरत्तथा ॥
`गायन्तं चैव शुल्कं च दातारं प्रियवादिनम् । नार्यो नरं कामयन्ते रूपिणं स्रग्विणं तथा ॥'
पञ्चवर्षशतान्येवं कचस्य चरतो व्रतम् ।
तत्रातीयुरथो बुद्ध्वा दानवास्तं ततः कचम् ॥
गा रक्षन्तं वने दृष्ट्वा रहस्येकममर्षिताः ।
जघ्नुर्बृहस्पतेर्द्वेषाद्विद्यारक्षार्थमेव च ॥
हत्वा शालावृकेभ्यश्च प्रायच्छँल्लवशः कृतम् ।
ततो गावो निवृत्तास्ता अगोपाः स्वं निवेशनम् ॥
सा दृष्ट्वा रहिता गाश्च कचेनाभ्यागता वनात् ।
उवाच वचनं काले देवयान्यथ भारत ॥
देवयान्युवाच ।
आहुतं चाग्निहोत्रं ते सूर्यश्चास्तं गतः प्रभो ।
अगोपाश्चागता गावः कचस्तात न दृश्यते ॥
व्यक्तं हतो मृतो वापि कचस्तात भविष्यति ।
तं विना न च जीवेयमिति सत्यं ब्रवीमि ते ॥
शुक्र उवाच ।
अयमेहीति संशब्द्य मृतं संजीवयाम्यहम् ।
वैशंपायन उवाच ।
ततः संजीविनीं विद्यां प्रयुज्य कचमाह्वयत् ॥
भित्त्वा भित्त्वा शरीराणि वृकाणां स विनिर्गतः ।
आहूतः प्रादुरभवत्कचो हृष्टोऽथ विद्यया ॥
कस्माच्चिरायितोऽसीति पृष्टस्तामाह भार्गवीम् ।
कच उवाच ।
समिधश्च कुशादीनि काष्ठभारं च भामिनि ॥
गृहीत्वा श्रमभारार्तो वटवृक्षं समाश्रितः ।
गावश्च सहिताः सर्वा वृक्षच्छायामुपाश्रिताः ॥
असुरास्तत्र मां दृष्ट्वा कस्त्वमित्यभ्यचोदयन् ।
बृहस्पतिसुतश्चाहं कच इत्यभिविश्रुतः ॥
इत्युक्तमात्रे मां हत्वा पेषीकृत्वा तु दानवाः ।
दत्त्वा शालावृकेभ्यस्तु सुखं जग्मुः स्वमालयं ॥
आहूतो विद्यया भद्रे भार्गवेण महात्मना ।
त्वत्समीपमिहायातः कथंचित्प्राप्तजीवितः ॥
हतोऽहमिति चाचख्यौ पृष्टो ब्राह्मणकन्यया ।
स पुनर्देवयान्योक्तः पुष्पाण्याहर मे द्विज ॥
वनं ययौ कचो विप्रो ददृशुर्दानवाश्च तम् ।
पुनस्तं पेषयित्वा तु समुद्राम्भस्यमिश्रयन् ॥
चिरं गतं पुनः कन्या पित्रे तं संन्यवेदयत् । विप्रेण पुनराहूतो विद्यया गुरुदेहजः ।
पुनरावृत्य तद्वृत्तं न्यवेदयत तद्यथा ॥
ततस्तृतीयं हत्वा तं दग्ध्वा कृत्वा च चूर्णशः ।
प्रायच्छन्ब्राह्मणायैव सुरायामसुरास्तथा ॥
`अपिबत्सुरया सार्धं कचभस्म भृगूद्वहः ।
सा सायन्तनवेलायामगोपा गाः समागताः ॥
देवयानी शङ्कमाना दृष्ट्वा पितरमब्रवीत् ।' पुष्पाहारः प्रेषणकृत्कचस्तात न दृश्यते ॥
व्यक्तं हतो मृतो वापि कचस्तात भविष्यति ।
तं विना न च जीवेयं कचं सत्यं ब्रवीमि ते ॥
`वैशंपायन उवाच ।
श्रुत्वा पुत्रीवचः काव्यो मन्त्रेणाहूतवान्कचम् ।
ज्ञात्वा बहिष्ठमज्ञात्वा स्वकुक्षिस्थं कचं नृप' ॥
शुक्र उवाच ।
बृहस्पतेः सुतः पुत्रि कचः प्रेतगतिं गतः ।
विद्यया जीवितोऽप्येवं हन्यते करवाम किम् ॥
मैवं शुचो मा रुद देवयानि न त्वादृशी मर्त्यमनुप्रशोचते ।
यस्यास्तव ब्रह्म च ब्राह्मणाश्च सेन्द्रा देवा वसवोऽथाश्विनौ च ॥
सुरद्विषश्चैव जगच्च सर्व- मुपस्थाने सन्नमन्ति प्रभावात् ।
अशक्योऽसौ जीवयितुं द्विजातिः संजीवितो वध्यते चैव भूयः ॥
देवयान्युवाच ।
यस्याङ्गिरा वृद्धतमः पितामहो बृहस्पतिश्चापि पिता तपोनिधिः ।
ऋषेः पुत्रं तमथो वापि पौत्रं कथं न शोचेयमहं न रुद्याम् ॥
स ब्रह्मचारी च तपोधनश्च सदोत्थितः कर्मसु चैव दक्षः ।
कचस्य मार्गं प्रतिपत्स्ये न भोक्ष्ये प्रियो हि मे तात कचोऽभिरूपः ॥
शुक्र उवाच ।
असंशयं मामसुरा द्विषन्ति ये शिष्यं मेऽनागसं सूदयन्ति ।
अब्राह्मणं कर्तुमिच्छ्ति रौद्रा- स्ते मां यथा व्यभिचरन्ति नित्यम् । अप्यस्य पापस्य भवेदिहान्तः कं ब्रह्महत्या न दहेदपीन्द्रम् ॥
`वैशंपायन उवाच ।
संचोदितो देवयान्या महर्षिः पुनराह्वयत् ।
संरम्भेणैव काव्यो हि बृहस्पतिसुतं कचम् ॥
कचोऽपि राजन्स महानुभावो विद्याबलाल्लब्धमतिर्महात्मा ।'
गुरोर्हि भीतो विद्यया चोपहूतः । शनैर्वाक्यं जठरे व्याजहार ॥
`प्रसीद भगवन्मह्यं कचोऽहमभिवादये । यथा बहुमतः पुत्रस्तथा मन्यतु मां भवान् ॥'
वैशंपायन उवाच ।
तमब्रवीत्केन पथोपनीत- स्त्वं चोदरे तिष्ठसि ब्रूहि विप्र ।
अस्मिन्मुहूर्ते ह्यसुरान्विनाश्य गच्छामि देवानहमद्य विप्र ॥
कच उवाच ।
तव प्रसादान्न जहाति मां स्मृतिः स्मरामि सर्वं यच्च यथा च वृत्तम् ।
नत्वेवं स्यात्तपसः संक्षयो मे ततः क्लेशं घोरमिमं सहामि ॥
असुरैः सुरायां भवतोऽस्मि दत्तो हत्वा दग्ध्वा चूर्णयित्वा च काव्य ।
ब्राह्मीं मायां चासुरीं विप्र मायां त्वयि स्थिते कथमेवातिवर्तेत् ॥
शुक्र उवाच ।
किं ते प्रियं करवाण्यद्य वत्से वधेन मे जीवितं स्यात्कचस्य ।
नान्यत्र कुक्षेर्मम भेदनेन दृश्येत्कचो मद्गतो देवयानि ॥
देवयान्युवाच ।
द्वौ मां शोकावग्निकल्पौ दहेतां कचस्य नाशस्तव चैवोपघातः ।
कचस्य नाशे मम शर्म नास्ति तवोपघाते जीवितुं नास्मि शक्ता ॥
शुक्र उवाच ।
संसिद्धरूपोऽसि बृहस्पतेः सुत यत्त्वां भक्तं भजते देवयानी ।
विद्यामिमां प्राप्नुहि जीवनीं त्वं न चेदिन्द्रः कचरूपी त्वमद्य ॥
न निवर्तेत्पुनर्जीवन्कश्चिदन्यो ममोदरात् ।
ब्राह्मणं वर्जयित्वैकं तस्माद्विद्यामवाप्नुहि ॥
पुत्रो भूत्वा भावय भावितो मा- मस्मद्देहादुपनिष्क्रम्य तात ।
समीक्षेथा धर्मवतीमवेक्षां गुरोः सकाशात्प्राप्य विद्यां सविद्यः ॥
वैशंपायन उवाच ।
गुरोः सकाशात्समवाप्य विद्यां भित्त्वा कुक्षिं निर्विचक्राम विप्रः ।
कचोऽभिरूपस्तत्क्षणाद्ब्राह्मणस्य शुक्लात्यये पौर्णमास्यामिवेन्दुः ॥
दृष्ट्वा च तं पतितं ब्रह्मराशि- मुत्थापयामास मृतं कचोऽपि ।
विद्यां सिद्धां तामवाप्याभिवाद्य ततः कचस्तं गुरुमित्युवाच ॥
यः श्रोत्रयोरमृतं सन्निषिञ्चे- द्विद्यामविद्यस्य यथा त्वमार्यः ।
तं मन्येऽहं पितरं मातरं च तस्मै न द्रुह्येत्कृतमस्य जानन् ॥
ऋतस्य दातारमनुत्तमस्य निधिं निधीनामपि लब्धविद्याः ।
ये नाद्रियन्ते गुरुमर्चनीयं पापाँल्लोकांस्ते व्रजन्त्यप्रतिष्ठाः ॥
वैशंपायन उवाच ।
सुरापानाद्वञ्चनां प्राप्य विद्वा- न्संज्ञानाशं चैव महातिघोरम् ।
दृष्ट्वा कचं चापि तथाभिरूपं पीतं तदा सुरया मोहितेन ॥
समन्युरुत्थाय महानुभाव- स्तदोशना विप्रहितं चिकीर्षुः ।
सुरापानं प्रति संजातमन्युः काव्यः स्वयं वाक्यमिदं जगाद ॥
यो ब्राह्मणोऽद्यप्रभृतीह कश्चि- न्मोहात्सुरां पास्यति मन्दबुद्धिः ।
अपेतधर्मा ब्र्हमहा चैव स स्या- दस्मिंल्लोके गर्हितः स्यात्परे च ॥
मया चैतां विप्रधर्मोक्तिसीमां मर्यादां वै स्थापितां सर्वलोके ।
सन्तो विप्राः शुश्रुवांसो गुरूणां देवा लोकाश्चोपशृण्वन्तु सर्वे ॥
वैशंपायन उवाच ।
इतीदमुक्त्वा स महानुभाव- स्तपोनिधीनां निधिरप्रमेयः ।
तान्दानवान्दैवविमूढबुद्धी- निदं समाहूय वचोऽभ्युवाच ॥
आचक्षे वो दानवा बालिशाः स्थ सिद्धः कचो वत्स्यति मत्सकाशे ।
सञ्जीविनीं प्राप्य विद्यां महात्मा तुल्यप्रभावो ब्राह्मणो ब्रह्मभूतः ॥
`योऽकार्षीद्दुष्करं कर्म देवानां कारणात्कचः ।
न तत्किर्तिर्जरां गच्छेद्याज्ञीयश्च भविष्यति ॥
वैशंपायन उवाच ।'
एतावदुक्त्वा वचनं विरराम स भार्गवः ।
दानवा विस्मयाविष्टाः प्रययुः स्वं निवेशनम् ॥
गुरोरुष्य सकाशे तु दश वर्षशतानि सः ।
अनुज्ञातः कचो गन्तुमियेष त्रिदशालयम् ॥ ॥

इति श्रीमन्मेहाभारते आदिपर्वणि संभवपर्वणि सप्ततितमोऽध्यायः ॥ 70 ॥

1-70-3 विप्रदानवौ वव्राते जामातृत्वेनेति शेषः ॥ 1-70-25 प्रेषणैः प्रेष्यत्वादिभिः ॥ 1-70-31 उवाच शुक्रं प्रति ॥ 1-70-39 पेषः पिष्टम् । पिष्टीकृत्येत्यर्थः ॥ 1-70-43 गुरुदेहजः कचः । आवृत्य आगत्य । तद्वृत्तमसुरचेष्टितम् ॥ 1-70-44 ब्राह्मणाय शुक्राय ॥ 1-70-50 मर्त्यं त्वं तु मत्प्रभावादमरकल्पासि । ब्रह्म वेदः तस्य नमनं स्वार्थप्रकाशेन ॥ 1-70-60 चाद्दैवीं मायां । मायात्रयविदि त्वयि सति को देवोऽसुरो ब्राह्मणो वाऽतिक्रामेदतस्त्वदुदरभेदनं मम दुःसाध्यमेवेति भावः ॥ 1-70-65 भावय जीवय भावितो मया जीवितः । कृतघ्नो मा भूरिति भावः ॥ 1-70-66 शुक्लस्याह्नो रवेर्वा अत्यये शुक्लात्यये ॥ 1-70-69 ऋतस्य वेदस्य । निधीनां विद्यानां निधिमाश्रयम् । प्रतिष्ठा विद्याफलं तच्छून्या अप्रतिष्ठाः ॥ सप्ततितमोऽध्यायः ॥ 70 ॥

अध्यायः 071

स्वपाणिग्रहणार्थं प्रार्थितवत्या देवयान्या कचस्य विवादः ॥ 1 ॥ कचदेवयान्योः परस्परशापदानम् ॥ 2 ॥

वैशंपायन उवाच ।
समावृतव्रतं तं तु विसृष्टं गुरुणा कचम् ।
प्रस्थितं त्रिदशावासं देवयान्यब्रवीदिदम् ॥
ऋषेरङ्गिरसः पौत्र वृत्तेनाभिजनेन च ।
भ्राजसे विद्यया चैव तपसा च दमेन च ॥
ऋषिर्यथाङ्गिरा मान्यः पितुर्मम महायशाः ।
तथा प्रान्यश्च पूज्यश्च मम भूयो बृहस्पतिः ॥
एवं ज्ञात्वा विजानीहि यद्ब्रवीमि तपोधन ।
व्रतस्थे नियमोपेते यथा वर्ताम्यहं त्वयि ॥
स समावृतविद्यो मां भक्तां भजितुमर्हसि ।
गृहाण पाणिं विधिवन्मम मन्त्रपुरस्कृतम् ॥
कच उवाच ।
पूज्यो मान्यश्च भगवान्यथा तव पिता मम ।
तथा त्वमनवद्याङ्गि पूजनीयतरा मम ॥
प्राणेभ्योऽपि प्रियतरा भार्गवस्य महात्मनः ।
त्वं भत्रे धर्मतः पूज्या गुरुपुत्री सदा मम ॥
यथा मम गुरुर्नित्यं मान्यः शुक्रः पिता तव ।
देवयानि तथैव त्वं नैवं मां वक्तुमर्हसि ॥
देवयान्युवाच ।
गुरुपुत्रस्य पुत्रो वै न त्वं पुत्रश्च मे पितुः ।
तस्मात्पूज्यश्च मान्यश्च ममापि त्वं द्विजोत्तम ॥
असुरैर्हन्यमाने च कच त्वयि पुनःपुनः ।
तदाप्रभृति या प्रीतिस्तां त्वमद्य स्मरस्व मे ॥
सौहार्दे चानुरागे च वेत्थ मे भक्तिमुत्तमाम् ।
न मामर्हसि धर्मज्ञ त्यक्तुं भक्तामनागसम् ॥
कच उवाच ।
अनियोज्ये नियोक्तुं मां देवयानि न चार्हसि ।
प्रसीद सुभ्रु त्वं मह्यं गुरोर्गुरुतरा शुभे ॥
यत्रोषितं विशालाक्षि त्वया चन्द्रनिभानने ।
तत्राहमुषितो भद्रे कुक्षौ काव्यस्य भामिनि ॥
भगिनी धर्मतो मे त्वं मैवं वोचः सुमध्यमे ।
सुखमस्म्युषितो भद्रे न मन्युर्विद्यते मम ॥
आपृच्छे त्वां गमिष्यामि शिवमाशंस मे पथि । अविरोधेन धर्मस्य स्मर्तव्योऽस्मि कथान्तरे ।
अप्रमत्तोत्थिता नित्यमाराधय गुरुं मम ॥
देवयान्युवाच ।
यदि मां धर्मकामार्थे प्रत्याख्यास्यसि याचितः ।
ततः कच न ते विद्या सिद्धिमेषा गमिष्यति ॥
कच उवाच ।
गुरुपुत्रीति कृत्वाऽहं प्रत्याचक्षे न दोषतः ।
गुरुणा चाननुज्ञातः काममेवं शपस्व माम् ॥
आर्षं धर्मं ब्रुवाणोऽहं देवयानि यथा त्वया ।
शप्तो ह्यनर्हः शापस्य कामतोऽद्य न धर्मतः ॥
तस्माद्भवत्या यः कामो न तथा स भविष्यति ।
ऋषिपुत्रो न ते कश्चिज्जातु पाणिं ग्रहीष्यति ॥
फलिष्यति न ते विद्या यत्त्वं मामात्थ तत्तथा ।
अध्यापयिष्यामि तु यं तस्य विद्या फलिष्यति ॥
वैशंपायन उवाच ।
एवमुक्त्वा द्विजश्रेष्ठो देवयानीं कचस्तदा ।
त्रिदशेशालयं शीघ्रं जगाम द्विजसत्तमः ॥
तमागतमभिप्रेक्ष्य देवा इन्द्रपुरोगमाः ।
बृहस्पतिं सभाज्येदं कचं वचनमब्रुवन् ॥
देवा ऊचुः ।
यत्त्वयास्मद्धितं कर्म कृतं वै परमाद्भुतम् ।
न ते यशः प्रणशिता भागभाक्व भविष्यसि ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि एकसप्ततितमोऽध्यायः ॥ 71 ॥

1-71-1 समावृतव्रतं समाप्तव्रतम् ॥ 1-71-9 गुरुः पुत्रो यस्य अङ्गिरसः पुत्रः पौत्रः ॥ 1-71-15 उत्थिता अनलसा ॥ 1-71-17 अननुज्ञातस्त्वदुक्तकार्ये ॥ 1-71-23 प्रणशिता प्रणङ्क्ष्यति ॥ एकसप्ततितमोऽध्यायः ॥ 71 ॥

अध्यायः 072

स्वर्गंप्रत्यागतात्कचात्संजीविन्यध्ययनेन देवानां कृतार्थता ॥ 1 ॥ शुक्रवृषपर्वणोर्विरोधोत्पादनार्थमिन्द्रकृतं कन्यानां वस्त्रमिश्रणम् ॥ 2 ॥ वस्त्रमिश्रणेन शर्मिष्ठादेवयान्योर्विरोधः ॥ 3 ॥ शर्मिष्ठया कूपे प्रक्षिप्ताया देवयान्या ययातिना कूपादुद्धरणम् ॥ 4 ॥ शुक्रस्य कूपसमीपागमनं देवयानीसान्त्वनं च ॥ 5 ॥

वैशंपायन उवाच ।
कृतविद्ये कचे प्राप्ते हृष्टरूपा दिवौकसः ।
कचादधीत्य तां विद्यां कृतार्था भरतर्षभ ॥
सर्व एव समागम्य शतक्रतुमथाब्रुवन् ।
कालस्ते विक्रमस्याद्य जहि शत्रून्पुरन्दर ॥
वैशंपायन उवाच ।
एवमुक्तस्तु सहितैस्त्रिदशैर्मघवांस्तदा ।
तथेत्युक्त्वा प्रचक्राम सोऽपश्यत वने स्त्रियः ॥
क्रीडन्तीनां तु कन्यानां वने चैत्ररथोपमे ।
वायुभूतः स वस्त्राणि सर्वाण्येव व्यमिश्रयत् ॥
ततो जलात्समुत्तीर्य कन्यास्ताः सहितास्तदा ।
वस्त्राणि जगृहुस्तानि यथाऽऽसन्नान्यनेकशः ॥
तत्र वासो देवयानयाः शर्मिष्ठा जगृहे तदा ।
व्यतिमिश्रमजानन्ती दुहिता वृषपर्वणः ॥
ततस्तयोर्मिथस्तत्र विरोधः समजायत ।
देवयान्याश्च राजेन्द्र शर्मिष्ठायाश्च तत्कृते ॥
देवयान्युवाच ।
कस्माद्गृह्णासि मे वस्त्रं शिष्या भूत्वा ममासुरि ।
समुदाचारहीनाया न ते साधु भविष्यति ॥
सर्मिष्ठोवाच ।
आसीनं च शयानं च पिता ते पितरं मम ।
स्तौतिबन्दीव चाभीक्ष्णं नीचैः स्थित्वा विनीतवत् ॥
याचतस्त्वं हि दुहिता स्तुवतः प्रतिगृह्णतः ।
सुताहं स्तूयमानस्य ददतोऽप्रतिगृह्णतः ॥
आदुन्वस्व विदुन्वस्व द्रुह्य कुप्यस्व याचकि ।
अनायुधा सायुधाया रिक्ता क्षुभ्यसि भिक्षुकि ॥
लप्स्यसे प्रतियोद्धारं न हि त्वां गणयाम्यहम् । `प्रतिकूलं वदसि चेदितःप्रभृति याचकि ॥'
वैशंपायन उवाच ।
समुच्छ्रयं देवयानीं गतां सक्तां च वाससि । शर्मिष्ठा प्राक्षिपत्कूपे ततः स्वपुरमागमत् ।
हतेयमिति विज्ञाय शर्मिष्ठा पापनिश्चया ॥
अनवेक्ष्य ययौ वेश्म क्रोधवेगपरायणा । `प्रविश्य स्वगृहं स्वस्था धर्ममासुरमास्थिता ।'
अथ तं देशमभ्यागाद्ययातिर्नहुषात्मजः ॥
श्रान्तयुग्यः श्रान्तहयो मृगलिप्सुः पिपासितः ।
स नाहुषः प्रेक्षमाण उदपानं गतोदकम् ॥
ददर्श राजा तां तत्र कन्यामग्निशिखामिव ।
तामपृच्छत्स दृष्ट्वैव कन्याममरवर्णिनीम् ॥
सान्त्वयित्वा नृपश्रेष्ठः साम्ना परमवल्गुना ।
का त्वं ताम्रनखी श्यामा सुमृष्टमणिकुण्डला ॥
दीर्घं ध्यायसि चात्यर्थं कस्माच्छ्वसिषि चातुरा ।
कथं च पतिताऽस्यस्मिन्कूपे वीरुत्तृणावृते ॥
दुहिता चैव कस्य त्वं वद सत्यं सुमध्यमे ।
देवयान्युवाच ।
योऽसौ देवैर्हतान्दैत्यानुत्थापयति विद्यया ॥
तस्य शुक्रस्य कन्याहं स मां नूनं न बुध्यते ।
एष मे दक्षिणो राजन्पाणिस्ताम्रनखाङ्गुलिः ॥
समुद्धर गृहीत्वा मां कुलीनस्त्वं हि मे मतः ।
जानामि हि त्वां संशान्तं वीर्यवन्तं यशस्विनम् ॥
तस्मान्मां पतितामस्मात्कूपादुद्धर्तुमर्हसि ।
वैशंपायन उवाच ।
तामथो ब्राह्मणीं कन्यां विज्ञायनहुषात्मजः ॥
गृहीत्वा दक्षिणे पाणावुज्जहार ततोऽवटात् ।
उद्धृत्य चैनां तरसा तस्मात्कूपान्नराधिपः ॥
`ययातिरुवाच ।
गच्छ भद्रे यथाकामं न भयं विद्यते तव ।
इत्युच्यमाना नृपतिं देवयानीदमुत्तरम् ॥
उवाच मामुपादाय गच्छ शीघ्रं प्रियो हि मे ।
गृहीताहं त्वया पाणौ तस्माद्भर्ता भविष्यसि ॥
इत्येवमुक्तो नृपतिराह क्षत्रकुलोद्भवः ।
त्वं भद्रे ब्राह्मणी तस्मान्मया नार्हसि सङ्गमम् ॥
सर्वलोकगुरुः काव्यस्त्वं तस्य दुहिता शुभे ।
तस्मादपि भयं मेऽद्य ततः कल्याणि नार्हसि ॥
देवयान्युवाच ।
यदि मद्वचनान्नाद्य मां नेच्छसि नराधिप ।
त्वामेव वरये पित्रा तस्माल्लप्स्यसि गच्छ हि ॥
वैशंपायन उवाच ।
आमन्त्रयित्वा सुश्रोणीं ययातिः स्वपुरं ययौ ।
गते तु नाहुषे तस्मिन्देवयान्यप्यनिन्दिता ॥
क्वचिद्गत्वा च रुदती वृक्षमाश्रित्य धिष्ठिता ।
ततश्चिरायमाणायां दुहितर्यथ भार्गवः ॥
संस्मृत्योवाच धात्रीं तां दुहितुः स्नेहविक्लवः ।
धात्रि त्वमानय क्षिप्रं देवयानीं समुध्यमाम् ॥
इत्युक्तमात्रे सा धात्री त्वरिताऽऽनयितुं गता ।
यत्रयत्र सशीभिः सा गता पदममार्गत ॥
सा ददर्श तथा दीनां श्रमार्तां रुदतीं स्थिताम् ।
वृत्तान्तं किमिदं भद्रे शीघ्रं वद पिताह्वयत् ॥
एवमुक्ताह धात्रीं तां शर्मिष्ठावृजिनं कृतम् ।
उवाच शोकसंतप्ता घूर्णिकामागतां पुरः' ॥
देवयान्युवाच ।
त्वरितं घूर्णिके गच्छ शीघ्रमाचक्ष्व मे पितुः ॥
नेदानीं संप्रवेक्ष्यामि नगरं वृषपर्वणः ।
वैशंपायन उवाच ।
सा तत्र त्वरितं गत्वा घूर्णिकाऽसुरमन्दिरम् ॥
दृष्ट्वा काव्यमुवाचेदं संभ्रमाविष्टचेतना ।
आचचक्षे महाप्राज्ञं देवयानीं वने हताम् ॥
शर्मिष्ठया महाभाग दुहित्रा वृषपर्वणः ।
श्रुत्वा दुहितरं काव्यस्तत्र शर्मिष्ठया हताम् ॥
त्वरया निर्ययौ दुःखान्मार्गमाणः सुतां वने ।
दृष्ट्वा दुहितरं काव्यो देवयानीं ततो वने ॥
बाहुभ्यां संपरिष्वज्य दुःखितो वाक्यमब्रवीत् ।
आत्मदोषैर्नियच्छन्ति सर्वे दुःखसुखे जनाः ॥
मन्ये दुश्चरितं तेऽस्ति यस्येयं निष्कृतिः कृता ।
देवयान्युवाच ।
निष्कृतिर्मेऽस्तु वा मास्तु शृणुष्वावहितो मम ॥
शर्मिष्ठया यदुक्ताऽस्मि दुहित्रा वृषपर्वणः ॥
सत्यं किलैतत्सा प्राह दैत्यानामसि गायनः ॥
एवं हि मे कथयति शर्मिष्ठा वार्षपर्वणी ।
वचनं तीक्ष्णपरुषं क्रोधरक्तेक्षणा भृशम् ॥
स्तुवतो दुहिता नित्यं याचतः प्रतिगृह्णतः ।
अहं तु स्तूयमानस्य ददतोऽप्रतिगृह्णतः ॥
इदं मामाह शर्मिष्ठा दुहिता वृषपर्वणः ।
क्रोधसंरक्तनयना दर्पपूर्णा पुनः पुनः ॥
यद्यह स्तुवतस्तात दुहिता प्रतिगृह्णतः ।
प्रसादयिष्ये शर्मिष्ठामित्युक्ता तु सखी मया ॥
`उक्ताप्येवं भृशं मां सा निगृह्य विजने वने । कूपे प्रक्षेपयामास प्रक्षिप्य गृहमागमत् ॥'
शुक्र उवाच ।
स्तुवतो दुहिता न त्वं याचतः प्रतिगृह्णतः ।
अस्तोतुः स्तूयमानस्य दुहिता देवयान्यसि ॥
वृषपर्वैव तद्वेद शक्रो राजा च नाहुषः ।
अचिन्त्यं ब्रह्म निर्द्वन्द्वमैश्वरं हि बलं मम ॥
`जानामि जीविनीं विद्यां लोकेस्मिञ्शाश्वतीं ध्रुवम् ।
मृतः संजीवते जन्तुर्यया कमललोचने ॥
कत्थनं स्वगुणानां च कृत्वा तप्यति सज्जनः ।
ततो वक्तुमशक्तोऽस्मित्वं मे जानासि यद्बलम् ॥
तसमादुत्तिष्ठ गच्छामः स्वगृहं कुलनन्दिनि ।
क्षमां कृत्वा विशालाक्षि क्षमासारा हि साधवः' ॥
यच्च किंचित्सर्वगतं भूमौ वा यदि वा दिवि ।
तस्याहमीश्वरो नित्यं तुष्टेनोक्तः स्वयंभुवा ॥
अहं जलं विमुञ्चामि प्रजानां हितकाम्यया ।
पुष्णाम्यौषधयः सर्वा इति सत्यं ब्रवीमि ते ॥
वैशंपायन उवाच ।
एवं विषादमापन्नां मन्युना संप्रपीडिताम् ।
वचनैर्मधुरैः श्लक्ष्णैः सान्त्वयामास तां पिता ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि द्विसप्ततितमोऽध्यायः ॥ 72 ॥

1-72-3 प्रचक्राम भूतलं प्रतीति शेषः ॥ 1-72-8 समुदाचारः सदाचारः ॥ 1-72-11 आदुन्वस्व आभिमुख्येन वक्षस्ताडनादिना संतापं प्राप्नुहि । विदुन्वस्व पांसुषु लुण्ठनादिना । द्रुह्य द्रोहं चिरकालिकं क्रोधं कुरु । कुप्यस्व सद्यः परानिष्टफलो यत्नः कोपस्तं कुरु । रिक्ता दरिद्रा ॥ 1-72-12 प्रतियोद्धारं प्रहर्तारम् ॥ 1-72-15 युग्या रथवाहकाः । हयाः केवलाश्वाः । उदकं पीयतेस्मादित्युदपानं कूपः ॥ 1-72-23 अवटाद्गर्तात् ॥ 1-72-34 घूर्णिकां दासीम् ॥ 1-72-37 हतां ताडिताम् ॥ 1-72-40 नियच्छन्ति प्रयच्छन्ति प्राप्नुवन्तीति भावः ॥ 1-72-41 एतदेवाह मन्ये इति । निष्कृतिः फलभोगेन निरसनम् ॥ 1-72-45 इदं पूर्वोक्तम् ॥ 1-72-49 नाहुषो ययातिः । मम ऐश्वरं निर्द्वन्द्वमप्रतिपक्षं बलमस्ति ॥ द्विसप्ततितमोऽध्यायः ॥ 72 ॥

अध्यायः 073

शुक्रदेवयानीसंवादः ॥ 1 ॥

शुक्र उवाच ।
यः परेषां नरो नित्यमतिवादांस्तितिक्षते ।
देवयानि विजानीहि तेन सर्वमिदं जितम् ॥
यः समुत्पतितं क्रोधं निगृह्णाति इयं यथा ।
स यन्तेत्युच्यते सद्भिर्न यो रश्मिषु लम्बते ॥
यः समुत्पतितं क्रोधमक्रोधेन निरस्यति ।
देवयानि विजानीहि तेन सर्वमिदं जितम् ॥
यः समुत्पतितं क्रोधं क्षमयेह निरस्यति ।
यथोरगस्त्वचं जीर्णां स वै पुरुष उच्यते ॥
यः संधारयते मन्युं योऽतिवादांस्तितिक्षते ।
यश्च तप्तो न तपति दृढं सोऽर्थस्य भाजनम् ॥
यो यजेदपरिश्रान्तो मासिमासि शतं समाः ।
न क्रुद्ध्येद्यश्च सर्वस्य तयोरक्रोधनोऽधिकः ॥
`तस्मादक्रोधनः श्रेष्ठः कामक्रोधौ विगर्हितौ ।
क्रुद्धस्य निष्फलान्येव दानयज्ञतपांसि च ॥
तस्मादक्रोधने यज्ञतपोदानफलं महत् ।
भवेदसंशयं भद्रे नेतरस्मिन्कदाचन ॥
न यतिर्न तपस्वी च न यज्वा न च धर्मभाक् ।
क्रोधस्य यो वशं गच्छेत्तस्य लोकद्वयं न च ॥
पुत्रो भृत्यः सुहृद्भ्राता भार्या धर्मश्च सत्यता ।
तस्यैतान्यपयास्यन्ति क्रोधशीलस्य निश्चितम् ॥
यत्कुमाराः कुमार्यश्च वैरं कुर्युरचेतसः ।
न तत्प्राज्ञोऽनुकुर्वीत न विदुस्ते बलाबलम् ॥
देवयान्युवाच ।
वेदाहं तात बालाऽपि धर्माणां यदिहान्तरम् ।
अक्रोधे चातिवादे च वेद चापि बलाबलम् ॥
`स्ववृत्तिमननुष्ठाय धर्ममुत्सृज्य तत्त्वतः ।' शिष्यस्याशिष्यवृत्तेस्तु न क्षन्तव्यं बुभूषता ॥
`प्रेष्यः शिष्यः स्ववृत्तिं हि विसृज्य विफलं गतः ।' तस्मात्संकीर्णवृत्तेषु वासो मम न रोचते ॥
पुमांसो ये हि निन्दन्ति वृत्तेनाभिजनेन च ।
न तेषु निवसेत्प्राज्ञः श्रेयोऽर्थी पापबुद्धिषु ॥
ये त्वेनमभिजानन्ति वृत्तेनाभिजनेन वा ।
तेषु साधुषु वस्तव्यं स वासः श्रेष्ठ उच्यते ॥
`सुयन्त्रितपरा नित्यं विहीनाश्च धनैर्वराः ।
दुर्वृत्ताः पापकर्माणश्चण्डाला धनिनोपि च ॥
नैव जात्या हि चण्डालाः स्वकर्मविहितैर्विना ।
धनाभिजनविद्यासु सक्ताश्चण्डालधर्मिणः ॥
अकारणाश्च द्वेष्यन्ति परिवादं वदन्ति ते ।
साधोस्तत्र न वासोस्ति पापिभिः पापतां व्रजेत् ॥
सुकृते दुष्कृते वापि यत्र सज्जति यो नरः । ध्रुवं रतिर्भवेत्तस्य तस्माद्द्वेषं न रोचयेत् ॥'
वाग्दुरुक्तं महाघोरं दुहितुर्वृषपर्वणः ।
मम मथ्नाति हृदयमग्निकाम इवारणिम् ॥
न ह्यतो दुष्करतरं मन्ये लोकेष्वपि त्रिषु ।
यः सपत्नश्रियं दीप्तां हीनश्रीः पर्युपासते ॥
मरणं शोभनं तस्य इति विद्वज्जना विदुः ।
`अवमानमवाप्नोति शनैर्नीचसमागमात् ॥
अतिवादा वक्त्रतो निःसरन्ति यैराहतः शोचति रात्र्यहानि ।
परस्य वै मर्मसु ते पतन्ति तस्माद्धीरो नैव मुच्येत्परेषु ॥
निरोहेदायुधैश्छिन्नं संरोहेद्दग्धमाग्निना ।
वाक्क्षतं च न संरोहेदाशरीरं शरीरिणाम् ॥
संरोहित शरैर्विद्धं नवं परशुना हतम् ।
वाचा दुरुक्तं बीभत्सं न संरोहेत वाक्क्षतम्' ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि त्रिसप्ततितमोऽध्यायः ॥ 73 ॥

1-73-2 रश्मिषु क्रोधफलभूतास्वापत्सु । पक्षे स्पष्टोऽर्थः ॥ 1-73-3 अक्रोधेन क्रोधविरोधिना सहनेन ॥ त्रिसप्ततितमोऽध्यायः ॥ 73 ॥

अध्यायः 074

शुक्रवृषपर्वणोः संवादः ॥ 1 ॥ शुक्रकोपशान्तये वृषपर्वनियोगात् शर्मिष्ठया देवयानीदास्याङ्गीकारः ॥ 2 ॥ प्रसन्नया देवयान्या सह शुक्रस्य पुरप्रवेशनम् ॥ 3 ॥

वैशंपायन उवाच ।
ततः काव्यो भृगुश्रेष्ठः समन्युरुपगम्य ह ।
वृषपर्वाणमासीनमित्युवाचाविचारयन् ॥
नाधर्मश्चरितो राजन्सद्यः फलति गौरिव ।
शनैरावर्त्यमानो हि कर्तुर्मूलानि कृन्तति ॥
पुत्रेषु वा नप्तृषु वा न चेदात्मनि पश्यति ।
फलत्येव ध्रुवं पायं गुरुभुक्तमिवोदरे ॥
`अधीयानं हितं राजन्क्षमावन्तं जितेन्द्रियम् ।' यदघातयथा विप्रं कचमाङ्गिरसं तदा ।
अपापशीलं धर्मज्ञं शुश्रूषुं मद्गृहे रतम् ॥
`शर्मिष्ठया देवयानी क्रूरमुक्ता बहु प्रभो ।
विप्रकृत्य च संरम्भात्कूपे क्षिप्ता मनस्विनी ॥
सा न कल्पेत वासाय तयाहं रहितः कथम् । वसेयमिह तस्मात्ते त्यजामि विषयं नृप ॥'
वधादनर्हतस्तस्य वधाच्च दुहितुर्मम । वषपर्वन्निबोधेयं त्यक्ष्यामि त्वां सबान्धवम् ।
स्थातुं त्वद्विषये राजन्न शक्ष्यामि त्वया सह ॥
`मा शोच वृषपर्वंस्त्वं मा क्रुध्यस्व विशांपते । स्थातुं ते विषये राजन्न शक्ष्यामि तया विना ।
अस्या गतिर्गतिर्मह्यं प्रियमस्याः प्रियं मम ॥
वृषपर्वोवाच ।
यदि ब्रह्मन्घातयामि यदि वा क्रोशयाम्यहम् ।
शर्मिष्ठया देवयानीं तेन गच्छाम्यसद्गतिम् ॥
शुक्र उवाच ।'
अहो मामभिजानासि दैत्य मिथ्याप्रलापिनम् ।
यथेममात्मनो दोषं न नियच्छस्पुपेक्षसे ॥
वृषपर्वोवाच ।
नाधर्मं न मृषावादं त्वयि जानामि भार्गव ।
त्वयि धर्मश्च सत्यं च तत्प्रसीदतु नो भवान् ॥
यद्यस्मानपहाय त्वमितो गच्छसि भार्गव ।
समुद्रं संप्रवेक्ष्यामि पूर्वं मद्बान्धवैः सह ॥
पातालमथवा चाग्निं नान्यदस्ति परायणम् । यद्येव देवान्गच्छेस्त्वं मां च त्यक्त्वा ग्रहाधिप ।
सर्वत्यागं ततः कृत्वा प्रविशामि हुताशनम्' ॥
शुक्र उवाच ।
समुद्रं प्रविशध्वं वा दिशो वा द्रवतासुराः ।
दुहितुर्नाप्रियं सोहुं शक्तोऽहं दयिता हि मे ॥
प्रसाद्यतां देवयानी जीवितं यत्र मे स्थितम् ।
योगक्षेमकरस्तेऽहमिन्द्रस्येव बृहस्पतिः ॥
वृषपर्वोवाच ।
यत्किंचिदसुरेन्द्राणां विद्यते वसु भार्गव ।
भुवि हस्तिगवाश्वं च तस्य त्वं मम चेश्चरः ॥
शुक्र उवाच ।
यत्किंचिदस्ति द्रविणं दैत्येन्द्राणां महासुर ।
तस्येश्वरोस्मि यद्येषा देवयानी प्रसाद्यताम् ॥
वैशंपायन उवाच ।
एवमुक्तस्तथेत्याह वृषपर्वा महाकविम् ।
देवयान्यन्तिकं गत्वा तमर्थं प्राह भार्गवः ॥
देवयान्युवाच ।
यदि त्वमीश्वरस्तात राज्ञो वित्तस्य भार्गव ।
नाभिजानामि तत्तेऽहं राजा तु वदतु स्वयम् ॥
`वैशंपायन उवाच ।
शुक्रस्य वचनं श्रुत्वा वृषपर्वा सबान्धवः ।
देवयानि प्रसीदेति पपात भुवि पादयोः ॥
वृषपर्वोवाच ।
स्तुत्यो वन्द्यश्च सततं मया तातश्च ते शुभे ।' यं काममभिकामाऽसि देवयानि शुचिस्मिते ।
तत्तेऽहं संप्रदास्यामि यदि वापि हि दुर्लभम् ॥
देवयान्युवाच ।
दासीं कन्यासहस्रेण शर्मिष्ठामभिकामये ।
अनु मां तत्र गच्छेत्सा यत्र दद्याच्च मे पिता ॥
वृषपर्वोवाच ।
उत्तिष्ठ त्वं गच्छ धात्रि शर्मिष्ठां शीघ्रमानय ।
यं च कामयते कामं देवयानी करोतु तम् ॥
`त्यजेदेकं कुलस्यार्थे ग्रामार्थे च कुलं त्यजेत् ।
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत्' ॥
वैशंपायन उवाच ।
ततो धात्री तत्र गत्वा शर्मिष्ठां वाक्यमब्रवीत् ।
उत्तिष्ठ भद्रे शर्मिष्ठे ज्ञातीनां सुखमावह ॥
त्यजति ब्राह्मणः शिष्यान्देवयान्या प्रचोदितः ।
सायं कामयते कां स कार्योऽद्य त्वयाऽनघे ॥
शर्मिष्ठोवाच ।
यं सा कामयते कां करवाण्यहमद्य तम् । यद्येवमाह्वयेच्छुक्रो देवयानीकृते हि माम् ।
मद्दोषान्मागमच्छुक्रो देवयानी च मत्कृते ॥
वैशंपायन उवाच ।
ततः कन्यासहस्रेण वृता शिबिकया तदा ।
पितुर्नियोगात्त्वरिता निश्चक्राम पुरोत्तमात् ॥
शर्मिष्ठोवाच ।
अहं दासीसहस्रेण दासी ते परिचारिका ।
अनु त्वां तत्र यास्यामि यत्र दास्यति ते पिता ॥
देवयान्युवाच ।
स्तुवतो दुहिताऽहं ते याचतः प्रतिगृह्णतः ।
स्तूयमानस्य दुहिता कथं दासी भविष्यसि ॥
शर्मिष्ठोवाच ।
येनकेनचिदार्तानां ज्ञातीनां सुखमावहेत् ।
अतस्त्वामनुयास्यामि तत्र दास्यति ते पिता ॥
वैशंपायन उवाच ।
प्रतिश्रुते दासभावे दुहित्रा वृषपर्वणः ।
देवयानी नृपश्रेष्ठ पितरं वाक्यमब्रवीत् ॥
देवयान्युवाच ।
प्रविशामि पुरं तात तुष्टाऽस्मि द्विजसत्तम ।
अमोघं तव विज्ञानमस्ति विद्याबलं च ते ॥
वैशंपायन उवाच ।
एवमुक्तो दुहित्रा स द्विजश्रेष्ठो महायशाः ।
प्रविवेश पुरं हृष्टः पूजितः सर्वदानैवः ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि चतुःसप्ततितमोऽध्यायः ॥ 74 ॥

अध्यायः 075

मृगयार्थं गतस्य ययातेः पुनर्देवयानीसमागमः ॥ 1 ॥ शुक्राज्ञया तयोर्विवाहः ॥ 2 ॥ देवयानीशर्मिष्ठायां सह ययातेः स्वपुरप्रवेशः ॥ 3 ॥

वैशंपायन उवाच ।
अथ दीर्घस्य कालस्य देवयानी नृपोत्तम ।
वनं तदेव निर्याता क्रीडार्थं वरवर्णिनी ॥
तेन दासीसहस्रेण सार्धं शर्मिष्ठया तदा ।
तमेव देशं संप्राप्ता यथाकामं चचार सा ॥
ताभिः सखीभिः सहिता सर्वाभिर्मुदिता भृशम् ।
क्रीडन्त्योऽभिरताः सर्वाः पिबन्त्यो मधुमाधवीं ॥
खादन्त्यो विविधान्भक्ष्यान्विदशन्त्यः फलानि च ।
पुनश्च नाडुषो राजा मृगलिप्सुर्यदृच्छया ॥
तमेव देशं संप्राप्तो जलार्थी श्रमकर्शितः ।
ददर्श देवयानीं स शर्मिष्ठां ताश्च योषितः ॥
पिबन्तीर्ललमानाश्च दिव्याभरणभूषिताः । आसनप्रवरे दिव्ये सर्वरत्नविभूषिते ।
उपविष्टां च ददृशे देवयानीं शुचिस्मिताम् ॥
रूपेणाप्रतिमां तासां स्त्रीणां मध्ये वराङ्गनम् ।
`आसनाच्च ततः किंचिद्विहीनां हेमभीषिताम् ॥
असुरेन्द्रसुतां चापि निषण्णां चारुहासिनीम् ।
ददर्श पादौ विप्रायाः संवहन्तीमनिन्दिताम् ॥
गायन्त्योऽथ प्रनृत्यन्त्यो वादयन्त्योऽथ भारत । दृष्ट्वा ययातिमतुलं लज्जयाऽवनताः स्थिताः ॥'
ययातिरुवाच ।
द्वाभ्यां कन्यासहस्राभ्यां द्वे कन्ये परिवारिते । गोत्रे च नामनी चैव द्वयोः पृच्छाम्यहं शुभे ।
देवयान्युवाच ।
आख्यास्याम्यहमादत्स्व वचनं मे नराधिप ।
शुक्रो नामासुरगुरुः सुतां जानीहि तस्य माम् ॥
इयं च मे सखी दासी यत्राहं तत्र गामिनी ।
दुहिता दानवेन्द्रस्य शर्मिष्ठा वृषपर्वणः ॥
ययातिरुवाच ।
कथं तु ते सखी दासी कन्येयं वरवर्णिनी ।
असुरेन्द्रसुता सुभ्रूः परं कौतूहलं हि मे ॥
`नैव देवी न गन्धर्वी न यक्षी न च किन्नरी ।
नैवंरूपा मया नारी दृष्टपूर्वा महीतले ॥
श्रीरिवायतपद्माक्षी सर्वलक्षणशोभना ।
असुरेन्द्रसुता कन्या सर्वालङ्कारभूषिता ॥
दैवेनोपहता सुभ्रूरुताहो तपसापि वा ।
अन्यथैषाऽनवद्याङ्गी दासी नेह भविष्यति ॥
अस्या रूपेण ते रूपं न किंचित्सदृशं भवेत् । पुरा दुश्चरितेनेयं तव दासी भवत्यहो ॥'
देवयान्युवाच ।
सर्व एव नरश्रेष्ठ विधानमनुवर्तते ।
विधानविहितं मत्वा मा विचित्राः कथाःकृथाः ॥
राजवद्रूपवेषौ ते ब्राह्मीं वाचं बिभर्षि च ।
को नाम त्वं कुतश्चासि कस्य पुत्रश्च शस मे ॥
ययातिरुवाच ।
ब्रहमचर्येण वेदो मे कृत्स्रः श्रुतिपथं गतः ।
राजाहं राजपुत्रश्च ययातिरिति विश्रुतः ॥
देवयान्युवाच ।
केनास्यर्थेन नृपते इमं देशमुपागतः ।
जिघृक्षुर्वारिजं किंचिदथवा मृगलिप्सया ॥
ययातिरुवाच ।
मृगलिप्सुरहं भद्रे पानीयार्थमुपागतः ।
बहुधाऽप्यनुयुक्तोऽस्मि तदनुज्ञातुमर्हसि ॥
देवयान्युवाच ।
द्वाभ्यां कन्यासहस्राभ्यां दास्या शर्मिष्ठया सह ।
त्वदधीनाऽस्मि भद्रं ते सखा भर्ता च मे भव ॥
`वैशंपायन उवाच ।
असुरेन्द्रसुतामीक्ष्य तस्यां सक्तेन चेतसा ।
शर्मिष्ठा महिषी मह्यमिति मत्वा वचोऽब्रवीत्' ॥
ययातिरुवाच ।
विद्ध्यौशनसि भद्रं ते न त्वामर्होऽस्मि भामिनि ।
अविवाह्या हि राजानो देवयानि पितुस्तव ॥
`परभार्या स्वसा श्रेष्ठा सगोत्रा पतिता स्नुषा ।
अवरा भिक्षुकाऽस्वस्था अगम्याः कीर्तिता बुधैः ॥
देवयान्युवाच ।
संसृष्टं ब्रह्मणा क्षत्रं क्षत्रेण ब्रह्म संहितम् । `अन्यत्वमस्ति न तयोरेकान्ततरमास्थिते ।'
ऋषिश्चाप्यृषिपुत्रश्च नाहुषाङ्ग वहस्व माम् ॥
ययातिरुवाच ।
एकदेहोद्भवा वर्णाश्चत्वारोऽपि वराङ्गने ।
पृथग्धर्माः पृथक्शौचास्तेषां तु ब्राह्मणो वरः ॥
देवयान्युवाच ।
पाणि धर्मो नाहुषाऽयं न पुंभिः सेवितः पुरा ।
तं मे त्वमग्रहीरग्रे वृणोमि त्वामहं ततः ॥
कथं नु मे मनस्विन्याः पाणिमन्यः पुमान्स्पृशेत् ।
गृहीतमृषिपुत्रेण स्वयं वाप्यृषिणा त्वया ॥
ययातिरुवाच ।
क्रुद्धादाशीविषात्सर्पाज्ज्वलनात्सर्वतोमुखात् ।
दुराधर्षतरो विप्रो ज्ञेयः पुंसा विजानता ॥
देवयान्युवाच ।
कथमाशीविषात्सर्पाज्ज्वलनात्सर्वतोमुखात् ।
दुराधर्षतरो विप्र इत्यात्थ पुरुषर्षभ ॥
ययातिरुवाच ।
एकमाशीविषो हन्ति शस्त्रेणैकश्च वध्यते ।
हन्ति विप्रः सराष्ट्राणि पुराण्यपि हि कोपितः ॥
दुराधर्षतरो विप्रस्तस्माद्भीरु मतो मम ।
अतोऽदत्तां च पित्रा त्वां भद्रे न विवहाम्यहम् ॥
देवयान्युवाच ।
दत्तां वहस्व तन्मा त्वं पित्रा राजन्वृतो मया ।
आयचतो भयं नास्ति दत्तां च प्रतिगृह्णतः ॥
`तिष्ठ राजन्मुहूर्तं च प्रेषयिष्याम्यहं पितुः । गच्छ त्वं धात्रिके शीघ्रं ब्रह्मकल्पमिहानय ।
स्वयंवरे वृतं शीघ्रं निवेदय च नाहुषम्' ॥
वैशंपायन उवाच ।
त्वरितं देवयान्याथ संदिष्टं पितुरात्मनः ।
सर्वं निवेदयामास धात्री तस्मै यथातथम् ॥
श्रुत्वैव च स राजानं दर्शयामास भार्गवः । दृष्ट्वैव चागतं शुक्रं ययातिः पृथिवीपतिः ।
ववन्दे ब्राह्मणं काव्यं प्राञ्जलिः प्रणतः स्थितः ॥
देवयान्युवाच ।
राजायं नाहुषस्तात दुर्गमे पाणिमग्रहीत् । नान्यपूर्वगृहीतं मे तेनाहमभया कृता ।
नमस्ते देहि मामस्मै लोके नान्यं पतिं वृणे ॥
शुक्र उवाच ।
अन्यो धर्मः प्रियस्त्वन्यो वृतस्ते नाहुषः पतिः ।
कचशापात्त्वया पूर्वं नान्यद्भवितुमर्हति ॥
वृतोऽनया पतिर्वीर सुतया त्वं ममेष्टया । स्वयं ग्रहे महान्दोषो ब्राह्मण्या वर्णसंकरात् ।
गृहाणेमां मया दत्तां महिषीं नहुषात्मज ॥
ययातिरुवाच ।
अधर्मो न स्पृशेदेष महान्मामिह भार्गव ।
वर्णसंकरजो ब्रह्मन्निति त्वां प्रवृणोम्यहम् ॥
शुक्र उवाच ।
अधर्मात्त्वां विमुञ्चामि शृणु त्वं वरमीप्सितम् ।
अस्मिन्विवाहे मा म्लासीरहं पापं नुदामि ते ॥
वहस्व भार्यां धर्मेण देवयानीं सुमध्यमाम् ।
अनया सह संप्रीतिमतुलां समवाप्नुहि ॥
इयं चापि कुमारी ते शर्मिष्ठा वार्षपर्वणी ।
संपूज्या सततं राजन्मा चैनां शयने ह्वयेः ॥
रहस्येनां समाहूय न वदेर्न च संस्पृशेः ।
वहस्व भार्यां भद्रं ते यथा काममवाप्स्यसि ॥
वैशंपायन उवाच ।
एवमुक्तो ययातिस्तु शुक्रं कृत्वा प्रदक्षिणम् ।
शास्त्रोक्तविधिना राजा विवाहमकरोच्छुभम् ॥
लब्ध्वा शुक्रान्महद्वित्तं देवयानीं तदोत्तमाम् ।
द्विसहस्रेण कन्यानां तथा शर्मिष्ठया सह ॥
संपूजितश्च शुक्रेण दैत्यैश्च नृपसत्तमः ।
जगाम स्वपुरं हृष्टोऽनुज्ञातोऽथ महात्मना ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि पञ्चसप्ततितमोऽध्यायः ॥ 75 ॥

1-75-3 मधुमाधवीं मधुवृक्षमदिराम् ॥ 1-75-18 विधानं दैवं अनुवर्तते अनुसृत्यास्ति ॥ 1-75-21 अर्थेन कार्येण । वारिजं मीनं पद्मादि वा ॥ 1-75-22 अनुयुक्तोस्मि पलायिते मृगे श्रान्तोस्मि ॥ 1-75-27 संसृष्टं उच्छिन्नस्य क्षत्रस्य ब्राह्मणवीर्यादेव पुनरुद्भवाद्ब्रह्मणा क्षत्रं संसृष्टम् । क्षत्रियकन्यासु लोपामुद्रादिषु ब्राह्मणानामुत्पत्तिदर्शनात्क्षत्रेण ब्रह्म संहितं मिश्रम् ॥ 1-75-28 एकस्येश्वरस्य देहो देहावयवाः मुखबाहूरुपादास्तदुद्भवाः ॥ 1-75-35 मा मां भयं क्षत्रियेण ब्राह्मणीपरिणयनदोषजम् ॥ 1-75-39 दुर्गमे संकटे ॥ 1-75-43 ईप्सितं वरं च वृणीध्वेत्युक्तोऽपीदानीं न वृतवान् पश्चात्त्वन्यत्र जरासंक्रमणसामर्थ्यरूपः शुक्रेणैव स्वप्रतिज्ञासिद्धये दत्त इति ध्येयम् ॥ पञ्चसप्ततितमोऽध्यायः ॥ 75 ॥

अध्यायः 076

देवयान्याः पुत्रोत्पत्तिः ॥ 1 ॥ अशोकवनिकायां शर्मिष्ठाया ययातिसमागमात्पुत्रोत्पत्तिः ॥ 2 ॥

वैशंपायन उवाच ।
ययातिः स्वपुरं प्राप्य महेन्द्रपुरसंनिभम् ।
प्रविश्यान्तःपुरं तत्र देवयानीं न्यवेशयत् ॥
देवयान्याश्चानुमते सुतां तां वृषपर्वणः ।
अशोकवनिकाभ्याशे गृहं कृत्वा न्यवेशयत् ॥
वृतां दासीसहस्रेण शर्मिष्ठां वार्षपर्वणीम् ।
वासोभरन्नपानैश्च संविभज्य सुसत्कृताम् ॥
देवयान्या तु सहितः स नृपो नहुषात्मजः ।
`प्रीत्या परमया युक्तो मुमुदे शाश्वतीः समाः ॥
अशोकवनिकामध्ये देवयानी समागता ।
शर्मिष्ठया सा क्रीडित्वा रमणीये मनोरमे ॥
तत्रैव तां तु निर्दिश्य राज्ञा सह ययौ गृहम् । एवमेव सह प्रीत्या बहु कालं मुमोद च ॥'
विजहार बहूनब्दान्देववन्मुदितः सुखी ॥
ऋतुकाले तु संप्राप्ते देवयानी वराङ्गना ।
लेभे गर्भं प्रथमतः कुमारं च व्यजायत ॥
गते वर्षसहस्रे तु शर्मिष्ठा वार्षपर्वणी ।
ददर्श यौवनं प्राप्ता ऋतुं सा चान्वचिन्तयत् ॥
`शुद्धा स्नाता तु शर्मिष्ठा सर्वालङ्कारशोभिता ।
अशोकशाखामालम्ब्य सुपुष्पस्तबकैर्वृताम् ॥
आदर्शे मुखमुद्वीक्ष्य भर्तुर्दर्शनलालसा ।
शोकमोहसमाविष्टा वचनं चेदमब्रवीत् ॥
अशोक शोकापनुद शोकोपहतचेतसाम् । त्वन्नामानं कुरुष्वाद्य प्रियसंदर्शनेन माम् ।
एवमुक्तवती सा तु शर्मिष्ठा पुनरब्रवीत् ॥'
ऋतुकालश्च संप्राप्तो न च मेऽस्ति वृतः पतिः ।
किं प्राप्तं किं नु कर्तव्यं किं वा कृत्वा सुखं भवेत् ॥
देवयानी प्रजाताऽसौ वृथाऽहं प्राप्तयौवना ।
यथा तया वृतो भर्ता तथैवाहं वृणोमि तम् ॥
राज्ञा पुत्रफलं देयमिति मे निश्चिता मतिः ।
अपीदानीं स धर्मात्मा ईयान्मे दर्शनं रहः ॥
`केशैर्बध्या तु राजानं याचेऽहं सदृशं पतिम् । स्पृहेदिदं देवयानी पुत्रमीक्ष्य पुनःपुनः ।
क्रीडन्नन्तःपुरे तस्याः क्वचित्क्षणमवाप्य च ॥
वैशंपायन उवाच ।'
अथ निष्क्रम्य राजाऽसौ तस्मिन्काले यदृच्छया ।
अशोकवनिकाभ्याशे शर्मिष्ठां प्राप तिष्ठतीम् ॥
तमेकं रहिते दृष्ट्वा शर्मिष्ठा चारुहासिनी ।
प्रत्युद्गम्याञ्जलिं कृत्वा राजानं वाक्यमब्रवीत् ॥
शर्मिष्ठोवाच ।
सोमस्येन्द्रस्य विष्णोर्वा यमस्य वरुणस्य वा ।
तव वा नाहुष गृहे कः स्त्रियं द्रष्टुमर्हति ॥
रूपाभिजनशीलैर्हि त्वं राजन्वेत्थ मां सदा ।
सा त्वां याचे प्रसाद्याहमृतुं देहि नराधिप ॥
ययातिरुवाच ।
वेद्मि त्वां शीलसंपन्नां दैत्यकन्यामनिन्दिताम् ।
रूपं च ते न पश्यामि सूच्यग्रमपि निन्दितम् ॥
`तदाप्रभृति दृष्ट्वा त्वां स्मराम्यनिशमुत्तमे' । अब्रवीदुशना काव्यो देवयानीं यदाऽवहम् ।
नेयमाह्वयितव्या ते शयने वार्षपर्वणी ॥
`देवयान्याः प्रियं कृत्वा शर्मिष्ठामपि पोषय ॥'
शर्मिष्ठोवाच ।
न नर्मयुक्तमनृतं हिनस्ति न स्त्रीषु राजन्न विवाहकाले ।
प्राणात्यये सर्वधनापहारे पञ्चानृतान्याहुरपातकानि ॥
पृष्टं तु साक्ष्ये प्रवदन्तमन्यथा वदन्ति मिथ्या पतितं नरेन्द्र ।
एकार्थतायां तु समाहितायां मिथ्या वदन्तं ह्यनृतं हिनस्ति ॥
`अनृतं नानृतं स्त्रीषु परिहासविवाहयोः । आत्मप्राणार्थघाते च तदेवोत्तमतां व्रजेत् ॥'
ययातिरुवाच ।
राजा प्रमाणं भूतानां स नश्येत मृषा वदन् ।
अर्थकृच्छ्रमपि प्राप्य न मिथ्या कर्तुमुत्सहे ॥
शर्मिष्ठोवाच ।
समावेतौ मतो राजन्पतिः सख्याश्च यः पतिः ।
समं विवाहमित्याहुः सख्या मेऽसि वृतः पतिः ॥
`सह दत्तास्मि काव्येन देवयान्या मनीषिणा । पूज्या पोषयितव्येति न मृषा कर्तुमर्हसि ॥'
सुवर्णमणिमुक्तानि वस्त्राण्याभरणानि च ।
याचितॄणां ददासि त्वं गोभूम्यादीनि यानि च ॥
बहिःस्थं दानमित्युक्तं न शरीराश्रितं नृप ।
दुष्करं पुत्रदानं च आत्मदानं च दुष्करम् ॥
शरीरदानात्तत्सर्वं दत्तं भवति मारिष ।
यस्य यस्य यथा कामस्तस्य तस्य ददाम्यहम् ॥
इत्युक्त्वा नगरे राजंस्त्रिकालं घोषितं त्वया । त्वयोक्तमनृतं राजन्वृथा घोषितमेव वा ।
तत्सत्यं कुरु राजेन्द्र यथा वैश्रवणस्तथा ॥
ययातिरुवाच ।
दातव्यं याचमानेभ्य इति मे व्रतमाहितम् ।
त्वं च याचसि मां कामं ब्रूहि किं करवाणि ते ॥
`धनं वा यदि वा किंचिद्राज्यं वाऽपि शुचिस्मिते ।'
शर्मिष्ठोवाच ।
अधर्मात्पाहि मां राजन्धर्मं च प्रतिपादय ॥
`नान्यं वृणे पुत्रकामा पुत्रात्परतरं न च ।' त्वत्तोऽपत्यवती लोके चरेयं धर्ममुत्तमम् ॥
त्रय एवाधना राजन्भार्या दासस्तथा सुतः ।
यत्ते समधिगच्छन्ति यस्यैते तस्य तद्धनम् ॥
`पुत्रार्थं भर्तृपोषार्थं स्त्रियः सृष्टाः स्वयंभुवा । अपतिर्वापि या कन्या अनपत्या च या भवेत् ।
तासां जन्म वृथा लोके गतिस्तासां न विद्यते ॥'
देवयान्या भुजिष्याऽस्मि वश्या च तव भार्गवी ।
सा चाहं च त्वया राजन्भजनीये भजस्व माम् ॥
वैशंपायन उवाच ।
एवमुक्तस्तु राजा स तथ्यमित्यभिजज्ञिवान् ।
पूजयामास शर्मिष्ठां धर्मं च प्रत्यपादयत् ॥
स समागम्य शर्मिष्ठां यथा काममवाप्य च ।
अन्योन्यं चाभिसंपूज्य जग्मतुस्तौ यथागतम् ॥
तस्मिन्समागमे सुभ्रूः शर्मिष्ठा चारुहासिनी ।
लेभे गर्भं प्रथमतस्तस्मान्नृपतिसत्तमात् ॥
प्रयज्ञे च ततः काले राजन्राजीवलोचना ।
कुमारं देवगर्भाभं राजीवनिभलोचनम् ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि षट्सप्ततितमोऽध्यायः ॥ 76 ॥

अध्यायः 077

शर्मिष्ठापुत्रदर्शनेन देवयान्याः शर्मिष्ठया सह संवादः ॥ 1 ॥ देवयानीशर्मिष्ठयोः पुत्रान्तरोत्पत्तिः ॥ 2 ॥ शर्मिष्ठापुत्रान्ययातिजाञ्ज्ञात्वा कुपितायाः देवयान्याः शुक्रसमीपे गमनम् ॥ 3 ॥ ययातेः शुक्रशापाज्जराप्राप्तिः ॥ 4 ॥ तस्या अन्यस्मिन्संक्रमणरूपवरप्राप्तिः ॥ 5 ॥

वैशंपायन उवाच ।
`तस्मिन्नक्षत्रसंयोगे शुक्ले पुण्यर्क्षगेन्दुना ।
स राजा मुमुदे सम्राट् तया शर्मिष्ठया सह ॥
प्रजानां श्रीरिवाभ्याशे शर्मिष्ठा ह्यभवद्वधूः ।
पन्नगीवोग्ररूपा वै देवयानी ममाप्यभूत् ॥
पर्जन्य इव सस्यानां देवानाममृतं यथा । तद्वन्ममापि संभूता शर्मिष्ठा वार्षपर्वणी ।
इत्येवं मनसा ज्ञात्वा देवयानीमवर्जयत् ॥'
श्रुत्वा कुमारं जातं तु देवयानी शुचिस्मिता ।
चिन्तयामास दुःखार्ता शर्मिष्ठां प्रति भारत ॥
अभिगम्य च शर्मिष्ठां देवयान्यब्रवीदिदम् ।
देवयान्वुवाच ।
किमिदं वृजिनं सुभ्रु कृतं वै कामलुब्धया ॥
शर्मिष्ठोवाच ।
ऋषिरभ्यागतः कश्चिद्धर्मात्मा वेदपारगः ।
स मया वरदः कामं याचितो धर्मसंहितम् ॥
`अपत्यार्थे स तु मया वृतो वै चारुहासिनि' । नाहमन्यायतः काममाचरामि शुचिस्मिते ।
तस्मादृषेर्ममापत्यमिति सत्यं ब्रवीमि ते ॥
देवयान्युवाच ।
शोभनं भीरु यद्येवमथ स ज्ञायते द्विजः ।
गोत्रनामाभिजनतो वेत्तुमिच्छामि तं द्विजम् ॥
शर्मिष्ठोवाच ।
तपसा तेजसा चैव दीप्यमानं यथा रविम् ।
तं दृष्ट्वा मम संप्रष्टुं शक्तिर्नासीच्छुचिस्मिते ॥
देवयान्युवाच ।
यद्येतदेवं शर्मिष्ठे न मन्युर्विद्यते मम ।
अपत्यं यदि ते लब्धं ज्येष्ठाच्छ्रेष्ठाच्च वै द्विजात् ॥
वैशंपायन उवाच ।
अन्योन्यमेवमुक्त्वा तु संप्रहस्य च ते मिथः ।
जगाम भार्गवी वेश्म तथ्यमित्यवजग्मुषी ॥
ययातिर्देवयान्यां तु पुत्रावजनयन्नृपः ।
यदुं च तुर्वसुं चैव शक्रविष्णू इवापरौ ॥
`तस्मिन्काले तु राजर्षिर्ययातिः पृथिवीपतिः ।
माध्वीकरससंयुक्तां मदिरां मदवर्धनीम् ॥
पाययामास शुक्रस्य तनयां रक्तपिङ्गलाम् ।
पीत्वा पीत्वा च मदिरां देवयानी मुमोह सा ॥
रुदती गायमाना च नृत्यन्ती च मुहुर्मुहुः ।
बहु प्रलपती देवी राजानमिदमब्रवीत् ॥
राजवद्रूपवेषौ ते किमर्थं त्वमिहागतः ।
केन कार्येण संप्राप्तो निर्जनं गहनं वनम् ॥
द्विजश्रेष्ठ नृपश्रेष्ठो ययातिश्चोग्रदर्शनः ।
तस्मादितः पलायस्व हितमिच्छसि चेद्द्विज ॥
इत्येवं प्रलपन्तीं तां देवयानीं तु नाहुषः ।
भर्त्सयामास वचनैरनर्हां पापवर्धनीम् ॥
ततो वर्षवरान्मूकान्व्यङ्गान्वृद्धांश्च पङ्गुकान् ।
रक्षणे देवयान्याः स पोषणे च शशास तान् ॥
ततस्तु नाहुषो राजा शर्मिष्ठां प्राप्य बुद्धिमान् । रेमे च सुचिरं कालं तया शर्मिष्ठया सह ॥'
तस्मादेव तु राजर्षेः शर्मिष्ठा वार्षपर्वणी ।
द्रुह्युं चानुं च पूरुं च त्रीन्कुमारानजीजनत् ॥
ततः काले तु कस्मिंश्चिद्देवयानी शुचिस्मिता ।
ययातिसहिता राजञ्जगाम रहितं वनम् ॥
ददर्श च तदा तत्र कुमारान्देवरूपिणः ।
क्रीडमानान्सुविश्रब्धान्विस्मिता चेदमब्रवीत् ॥
देवयान्युवाच ।
`कस्यैते दारका राजन्देवपुत्रोपमाः शुभाः ।
वर्चसा रूपतश्चैव सदृशा मे मतास्तव ॥
वैशंपायन उवाच ।
एवं पृष्ट्वा तु राजानं कुमारान्पर्यपृच्छत ॥
तस्मिन्काले तु तच्छ्रुत्वा धात्री तेषां वचोऽब्रवीत् ।
किं न ब्रूत कुमारा वः पितरं वै द्विजर्षभम् ॥
कुमारा ऊचुः ।
ऋषिश्च ब्राह्मणश्चैव द्विजातिश्चैव नः पिता । शर्मिष्ठा नानृतं ब्रूते देवयानि क्षमस्व नः ॥'
देवयान्युवाच ।
किंनामधेयगोत्रो वः पुत्रका ब्राह्मणः पिता ।
प्रब्रूत तत्त्वतः क्षिप्रं कश्चासौ क्व च वर्तते ॥
प्रब्रूत मे यथा तथ्यं श्रोतुमिच्छामि तं ह्यहम् ।
एवमुक्ताः कुमारस्ते देवयान्या सुमध्यया ॥
तेऽदर्शयन्प्रदेशिन्या तमेव नृपसत्तमम् ।
शर्मिष्ठां मातरं चैव तथाऽऽचख्युश्च दारकाः ॥
वैशंपायन उवाच ।
इत्युक्त्वा सहितास्ते तु राजानमुपचक्रमुः ।
नाभ्यनन्दत तान्राजा देवयान्यास्तदान्तिके ॥
रुदन्तस्तेऽथ शर्मिष्ठामभ्ययुर्बालकास्ततः ।
`अविब्रुवन्ती किंचिच्च राजानं चारुलोचना ॥
नातिदूराच्च राजानं सा चातिष्ठदवाङ्मुखी ।
श्रुत्वा तेषां तु बालानां सव्रीड इव पार्थिवः ॥
प्रतिवक्तुमशक्तोऽभूत्तूष्णींभूतोऽभवन्नृपः ।
दृष्ट्वा तु तेषां बालानां प्रणयं पार्थिवं प्रति ॥
बुद्ध्वा तु तत्त्वतो देवी शर्मिष्ठापिदमब्रवीत् ।
अभ्यागच्छति मां कश्चिदृषिरित्येवमब्रवीः ॥
ययातिमेवं राजानं त्वं गोपायसि भामिनि ।
पूर्वमेव मया प्रोक्तं त्वया तु वृजिनं कृतम् ॥
मदधीना सती कस्मादकार्षीर्विप्रियं मम । तमेवाऽऽसुरधर्मं त्वमास्थिता न बिभेषि मे ॥'
शर्मिष्ठोवाच ।
यदुक्तमृषिरित्येव तत्सत्यं चारुहासिनि ।
न्यायतो धर्मतश्चैव चरन्ती न बिभेमि ते ॥
यदा त्वया वृतो भर्ता वृत एव तदा मया ।
सखीभर्ता हि धर्मेण भर्ता भवति शोभने ॥
पूज्यासि मम मान्या च ज्येष्ठा च ब्राह्मणी ह्यसि ।
त्वत्तोपि मे पूज्यतमो राजर्षिः किं न वेत्थ तत् ॥
`त्वत्पित्रा मम गुरुणा सह दत्ते उभे शुभे ।
ततो भर्ता च पूज्यश्च पोष्यां पोषयतीह माम् ॥
वैशंपायन उवाच ।
श्रुत्वा तस्यास्ततो वाक्यं देवयान्यब्रवीदिदम् ।
रमस्वेह यथाकामं देव्या शर्मिष्ठया सह ॥
राजन्नाद्येह वत्स्यामि विप्रियं मे कृतं त्वया ।
इति जज्वाल कोपेन देवयानी ततो भृशम् ॥
निर्दहन्तीव सव्रीडां शर्मिष्ठां समुदीक्ष्य च । अपविध्य च सर्वाणि भूषणान्यसितेक्षणा ॥'
सहसोत्पतितां श्यामां दृष्ट्वा तां साश्रुलोचनाम् ।
तूर्णं सकाशं काव्यस्य प्रस्थितां व्यथितस्तदा ॥
अनुवव्राज संभ्रान्तः पृष्ठतः सान्त्वयन्नृपः ।
न्यवर्तत नचैव स्म क्रोधसंरक्तलोचना ॥
अविब्रुवन्ती किंचित्सा राजानं साश्रुलोचना ।
अचिरादेव संप्राप्ता काव्यस्योशनसोऽन्तिकम् ॥
सा तु दृष्ट्वै पितरमभिवाद्याग्रतः स्थिता ।
अनन्तरं यायातिस्तु पूजयामास भार्गवम् ॥
देवयान्युवाच ।
अधर्मेण जितो धर्मः प्रवृत्तमधरोत्तरम् ।
शर्मिष्ठयाऽतिवृत्ताऽस्मि दुहित्रा वृषपर्वणः ॥
त्रयोऽस्यां जनिताः पुत्रा राज्ञाऽनेन ययातिना ।
दुर्भगाया मम द्वौ तु पुत्रौ तात ब्रवीमि ते ॥
धर्मज्ञ इति विख्यात एष राजा भृगूद्वह ।
अतिक्रान्तश्च मर्यादां काव्यैतत्कथयामि ते ॥
शुक्र उवाच ।
धर्मज्ञः सन्महाराज योऽधर्ममकृथाः प्रियम् ।
तस्माज्जरा त्वामचिराद्धर्षयिष्यति दुर्जया ॥
ययातिरुवाच ।
ऋतुं वै याचमानाया भगवन्नान्यचेतसा ।
दुहितुर्दानवेन्द्रस्य धर्म्यमेतत्कृतं मया ॥
ऋतुं वै याचमानाया न ददाति पुमानृतुम् ।
भ्रूणहेत्युच्यते ब्रह्मन् स इह ब्रह्मवादिभिः ॥
अभिकामां स्त्रियं यश्च गम्यां रहसि याचितः ।
नोपैति स च धर्मेषु भ्रूणहेत्युच्यते बुधैः ॥
`यद्यद्वृणोति मां कश्चित्तत्तद्देयमिति व्रतम् ।
त्वया च सापि दत्ता मे नान्यं नाथमिहेच्छति' ॥
इत्येतानि समीक्ष्याहं कारणानि भृगूद्वह । अधर्मभयसंविग्नः शर्मिष्ठामुपजग्मिवान् ।
`मत्वैतन्मे धर्म इति कृतं ब्रह्मन्क्षमस्व माम् ॥'
शुक्र उवाच ।
नन्वहं प्रत्यवेक्ष्यस्ते मदधीनोऽसि पार्थिव ।
मिथ्याचारस्य धर्मेषु चौर्यं भवति नाहुष ॥
वैशंपायन उवाच ।
क्रुद्धेनोशनसा शप्तो ययातिर्नाहुषस्तदा ।
पूर्वं वयः परित्यज्य जरां सद्योऽन्वपद्यत ॥
ययातिरुवाच ।
अतृप्तो यौवनस्याहं देवयान्यां भृगूद्वह ।
प्रसादं कुरु मे ब्रह्मञ्जरेयं न विशेच्च माम् ॥
शुक्र उवाच ।
नाहं मृषा ब्रवीम्येतज्जरां प्राप्तोऽसि भूमिप ।
जरां त्वेतां त्वमन्यस्मिन्संक्रामय यदीच्छसि ॥
ययातिरुवाच ।
राज्यभाक्स भवेद्ब्रह्मन्पुण्यभाक्कीर्तिभाक्तथा ।
यो मे दद्याद्वयः पुत्रस्तद्भवाननुमन्यताम् ॥
शुक्र उवाच ।
संक्रामयिष्यसि जरां येथेष्टं नहुषात्मज ।
मामनुध्याय भावेन न च पापमवाप्स्यसि ॥
वयो दास्यति ते पुत्रो यः स राजा भविष्यति ।
आयुष्मान्कीर्तिमांश्चैव बह्वपत्यस्तथैव च ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि सप्तसप्ततितमोऽध्यायः ॥ 77 ॥

1-77-49 अधरोत्तरं नीचस्याभिवृद्धिरुत्तमस्य ह्रासः । अतिवृत्तास्मि राज्ञः सकाशादपत्यत्रयाधिगमनेतिक्रान्तोल्लङ्घिताऽस्मि ॥ 1-77-52 अधर्ममेव प्रियमकृथाः ॥ 1-77-53 नान्यचेतसा न कामलोभेन ॥ 1-77-58 प्रत्यवेक्ष्यः अस्मिन्मकर्मणि मदाज्ञापि त्वया प्रार्थनीयेति भावः ॥ 1-77-62 ज्येष्ठस्य राज्याप्रदानजं पापम् ॥ सप्तसप्ततितमोऽध्यायः ॥ 77 ॥

अध्यायः 078

स्वजरामनङ्गीकुर्वतां यदुप्रभृतीनां ययातिना शापः ॥ 1 ॥ तामङ्गीकुर्वतः पूरोर्वरदानम् ॥ 2 ॥

वैशंपायन उवाच ।
जरां प्राप्य ययातिस्तु स्वपुरं प्राप्य चैव हि ।
पुत्रं ज्येष्ठं वरिष्ठं च यदुमित्यब्रवीद्वचः ॥
ययातिरुवाच ।
जरावली च मां तात पलितानि च पर्यगुः ।
काव्यस्योशनसः शापान्न च तृप्तोऽस्मि यौवने ॥
त्वं यदो प्रतिपद्यस्व पाप्मानं जरया सह ।
यौवनेन त्वदीयेन चरेयं विषयानहम् ॥
पूर्णे वर्षसहस्रे तु पुनस्ते यौवनं त्वहम् ।
दत्त्वा स्वं प्रतिपत्स्यामि पाप्मानं जरया सह ॥
यदुरुवाच ।
जरायां बहवो दोषाः पानभोजनकारिताः ।
तस्माज्जरां न ते राजन्ग्रहीष्य इति मे मतिः ॥
सितश्मश्रुर्निरानन्दो जरया शिथिलीकृतः ।
वलीसङ्गतगात्रस्तु दुर्दर्शो दुर्बलः कृशः ॥
अशक्तः कार्यकरणे परिभूतः स यौवतैः ।
सहोपजीविभिश्चैव तां जरां नाभिकामये ॥
सन्ति ते बहवः पुत्रा मत्तः प्रियतरा नृप ।
जरां ग्रहीतुं धर्मज्ञ तस्मादन्यं वृणीष्व वै ॥
ययातिरुवाच ।
यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि ।
तस्मादराज्यभाक्तात प्रजा तव भविष्यति ॥
`प्रत्याख्यातस्तु राजा स तुर्वसुं प्रत्युवाच ह ।' तुर्वसो प्रतिपद्यस्व पाप्मानं जरया सह ।
यौवनेन चरेयं वै विषयांस्तव पुत्रक ॥
पूर्णे वर्षसहस्रे तु पुनर्दास्यामि यौवनम् ।
स्वं चैव प्रतिपत्स्यामि पाप्मानं जरया सह ॥
तुर्वसुरुवाच ।
न कामये जरां तात कामभोगप्रणाशिनीम् ।
बलरूपान्तकरणीं बुद्धिप्राणप्रणाशिनीम् ॥
ययातिरुवाच ।
यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि ।
तस्मात्प्रजा समुच्छेदं तुर्वसो तव यास्यति ॥
संकीर्णाचारधर्मेषु प्रतिलोमचरेषु च ।
पिशिताशिषु चान्त्येषु मूढ राजा भविष्यसि ॥
गुरुदारप्रसक्तेषु तिर्यग्योनिगतेषु च ।
पशुधर्मेषु पापेषु म्लेच्छेषु त्वं भविष्यसि ॥
वैशंपायन उवाच ।
एवं स तुर्वसुं शप्त्वा ययातिः सुतमात्मनः ।
शर्मिष्ठायाः सुतं द्रुह्युमिदं वचनमब्रवीत् ॥
ययातिरुवाच ।
द्रुह्यो त्वं प्रतिपद्यस्व वर्णरूपविनाशिनीम् ।
जरां वर्षसहस्रं मे यौवनं स्वं ददस्व च ॥
पूर्णे वर्षसहस्रे तु पुनर्दास्यामि यौवनम् ।
स्वं चादास्यामि भूयोऽहं पाप्मानं जरया सह ॥
द्रुह्युरुवाच ।
न गजं न रथं नाश्वं जीर्णो भुङ्क्ते न च स्त्रियम् ।
वाग्भङ्गश्चास्य भवति तां जरां नाभिकामये ॥
ययातिरुवाच ।
यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि ।
तस्माद्द्रुह्यो प्रियः कामो न ते संपत्स्यते क्वचित् ॥
यत्राश्वरथमुख्यानामश्वानां स्याद्गतं न च ।
हस्तिनां पीठकानां च गर्दभानां तथैव च ॥
बस्तानां च गवां चैव शिबिकायास्तथैव च । उडुपप्लवसंतारो यत्र नित्यं भविष्यति ।
ययातिरुवाच ।
अनो त्वं प्रतिपद्यस्व पाप्मानं जरया सह ।
एकं वर्षसहस्रं तु चरेयं यौवनेन ते ॥
अनुरुवाच ।
जीर्णः शिशुवदादत्ते कालेऽन्नमशुचिर्यथा ।
न जुहोति च कालेऽग्निं तां जरां नाभिकामये ॥
ययातिरुवाच ।
यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि ।
जरादोषस्त्वया प्रोक्तस्तस्मात्त्वं प्रतिलप्स्यसे ॥
प्रजाश्च यौवनप्राप्ता विनशिष्यन्त्यनो तव ।
अग्निप्रस्कन्दनपरस्त्वं चाप्येवं भविष्यसि ॥
वैशंपायन उवाच ।
प्रत्याख्यातश्चतुर्भिश्च शप्त्वा तान्यदुपूर्वकान् ।
पूरोः सकाशमगमन्मत्त्वा पूरुमलङ्घनम् ॥
ययातिरुवाच ।
पूरो त्वं मे प्रियः पुत्रस्त्वं वरीयान्भविष्यसि ।
जरा वली च मांतात पलितानि च पर्यगुः ॥
काव्यस्योशनसः शापान्न च तृप्तोऽस्मि यौवने । पूरो त्वं प्रतिपद्यस्व पाप्मानं जरया सह ।
कंचित्कालं चरेयं वै विषयान्वयसातव ॥
पूर्णे वर्षसहस्रे तु पुनर्दास्यामि यौवनम् ।
स्वं चैव प्रतिपत्स्यामि पाप्मानं जरया सह ॥
वैशंपायन उवाच ।
एवमुक्तः प्रत्युवाच पूरुः पितरमज्जसा ।
यदात्थ मां महाराज तत्करिष्यामि ते वचः ॥
`गुरोर्वै वचनं पुण्यं स्वर्ग्यमायुष्करं नृणाम् ।
गुरुप्रसादात्त्रैलोक्यमन्वशासच्छतक्रतुः ॥
गुरोरनुमतं प्राप्य सर्वान्कामानमाप्नुयात् ।
यावदिच्छसि तावच्च धारयिष्यामि ते जराम्' ॥
प्रतिपत्स्यामि ते राजन्पाप्मानं जरया सह ।
गृहाण यौवनं मत्तश्चर कामान्यथेप्सितान् ॥
जरयाहं प्रतिच्छन्नो वयोरूपधरस्तव ।
यौवनं भवते दत्त्वा चरिष्यामि यथात्थमाम् ॥
ययातिरुवाच ।
पूरो प्रीतोऽस्मि ते वत्स प्रीतश्चेदं ददामि ते ।
सर्वकामसमृद्धा ते प्रजा राज्ये भविष्यति ॥
वैशंपायन उवाच ।
एवमुक्त्वा ययातिस्तु स्मृत्वा काव्यं महातपाः ।
संक्रामयामास जरां तदा पूरौ महात्मनि ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि अष्टसप्ततितमोऽध्यायः ॥ 78 ॥

1-78-2 वली त्वचःसंवलनम् । पलितानि केशरोम्णां शौक्ल्यम् । पर्यगुः परितः शरीरे गतानि प्राप्तानियौवने यौवनसाध्ये कामभोगे ॥ 1-78-3 पाप्मानं भोगसामर्थ्येऽपि तदिच्छारूपं चित्तस्य दौस्थ्यम् । चरेयं भुज्जीय ॥ 1-78-5 दोषाः कफाद्याधिक्याद्वमनादयः ॥ 1-78-15 तिर्यग्योनीनामिव गतं प्रकाशं मैथुनाद्याचरणं येप तेषु ॥ 1-78-21 पीठकानां राजयोग्यानां नरयानविशेषाणां तखतरावा इति म्लेच्छेषु प्रसिद्धानाम् ॥ 1-78-26 अग्निप्रस्कन्दनं श्रौतस्मार्ताद्यग्निसाध्यकर्मत्यागस्तत्परः ॥ 1-78-28 वरीयान्स्वभ्रातृभ्यो महान् । जरो देहेन्द्रियशक्तिघातः ॥ 1-78-31 अञ्जसा आर्जवेन ॥ 1-78-34 यथेप्सितान् यावज्जीवम् ॥ अष्टसप्ततितमोऽध्यायः ॥ 78 ॥

अध्यायः 079

विषयानुभवेन ययातेर्वैराग्यप्राप्तिः ॥ 1 ॥ पूरोः ययातिना यौवनप्रत्यर्पणम् ॥ 2 ॥ तस्य राज्याभिषेकः ॥ 3 ॥ ययातेर्वनं प्रति गमनम् ॥ 4 ॥ यदुप्रभृतीनां वंशकथनम् ॥ 5 ॥

वैशंपायन उवाच ।
पौरवेणाथ वयसा ययातिर्नहुषात्मजः । `रूपयौवनसंपन्नः कुमारः समपद्यत ।'
प्रीतियुक्तो नृपश्रेष्ठश्चरा विषयान्प्रियान् ॥
यथाकामं यथोत्साहं यथाकालं यथासुखम् ।
धर्माविरुद्धं राजेन्द्रो यथा भवति सोऽन्वभूत् ॥
देवानतर्पयद्यज्ञैः श्राद्धैस्तद्वित्पितॄनपि ।
दीनाननुग्रहैरिष्टैः कामैश्च द्विजसत्तमान् ॥
अतिथीनन्नपानैश्च विशश्च परिपालनैः ।
आनृशंस्येन शूद्रांश्च दस्यून्सन्निग्रहेण च ॥
धर्मेण च प्रजाः सर्वा यथावदनुरञ्जयन् ।
ययातिः पालयामास साक्षादिन्द्र इवापरः ॥
स राजा सिंहविक्रान्तो युवा विषयगोचरः ।
अविरोधेन धर्मस्य चचार सुखमुत्तमम् ॥
स संप्राप्य शुभान्कामांस्तृप्तः खिन्नश्च पार्थिवः ।
कालं वर्षसहस्रान्तं सस्मार मनुजाधिपः ॥
परिसंख्याय कालज्ञः कलाः काष्ठाश्च वीर्यवान् ।
यौवनं प्राप्य राजर्षिः सहस्रपरिवत्सरान् ॥
विश्वाच्या सहितो रेमे व्यभ्राजन्नन्दने वने ।
अलकायां स कालं तु मेरुशृङ्गे तथोत्तरे ॥
यदा स पश्यते कालं धर्मात्मा तं महीपतिः ।
पूर्णं मत्वा ततः कालं पूरुं पुत्रमुवाच ह ॥
यथाकामं यथोत्साहं यथाकालमरिन्दम ।
सेविता विषयाः पुत्र यौवनेन मया तव ॥
न जातु कामः कामानामुपभोगेन शाम्यति ।
हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥
यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः ।
एकस्यापि न पर्याप्तं तस्मान्नृष्णां परित्यजेत् ॥
या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः ।
योऽसौ प्राणान्तिको रोगस्तांतृष्णां त्यजतः सुखम् ॥
पूर्णं वर्षसहस्रं मे विषयासक्तचेतसः ।
तथाप्यनुदिनं तृष्णा ममैतेष्वभिजायते ॥
तस्मादेनामहं त्यक्त्वा ब्रह्मण्याधाय मानसम् ।
निर्द्वन्द्वो निर्ममो भूत्वा चरिष्यामि मृगैः सह ॥
पूरो प्रीतोऽस्मि भद्रं ते गृहाणेदं स्वयौवनम् । राज्यं चेदं गृहाण त्वं `यावदिच्छसि यौवनम् ।
तावद्दीर्घायुषा भुङ्ख' त्वं हि मे प्रियकृत्सुतः ॥
वैशंपायन उवाच ।'
प्रतिपेदे जरां राजा ययातिर्नाहुषस्तदा ।
यौवनं प्रतिपेदे च पूरुः स्वं पुनरात्मवान् ॥
अभिषेक्तुकामं नृपतिं पूरुं पुत्रं कनीयसम् ।
ब्राह्मणप्रमुखा वर्णा इदं वचनमब्रुवन् ॥
कथं शुक्रस्य नप्तारं देवयान्याः सुतं प्रभो ।
ज्येष्ठं यदुमतिक्रम्य राज्यं पूरोः प्रयच्छसि ॥
यदुर्ज्येष्ठस्तव सुतो जातस्तमनु तुर्वसुः ।
शर्मिष्ठायाः सुतो द्रुह्युस्ततोऽनुः पूरुरेव च ॥
कथं ज्येष्ठानतिक्रम्य कनीयान्राज्यमर्हति ।
एतत्संबोधयामस्त्वां धर्मं त्वं प्रतिपालय ॥
ययातिरुवाच ।
ब्राह्मणप्रमुखा वर्णाः सर्वे शृण्वन्तु मे वचः ।
ज्येष्ठं प्रति यथा राज्यं न देयं मे कथंचन ॥
मम ज्येष्ठेन यदुना नियोगो नानुपालितः ।
प्रतिकूलः पितुर्यश्च न स पुत्रः सतां मतः ॥
मातापित्रोर्वचनकृद्धितः पथ्यश्च यः सुतः ।
स पुत्रः पुत्रवद्यश्च वर्तते पितृमातृषु ॥
`पुदिति नरकस्याख्या दुःखं च नरकं विदुः ।
पुतस्त्राणात्ततः पुत्त्रमिहेच्छन्ति परत्र च ॥
आत्मनः सदृशः पुत्रः पितृदेवर्षिपूजने ।
यो बहूनां गुणकरः स पुत्रो ज्येष्ठ उच्यते ॥
मूकोऽन्धो बधिरः श्वित्री स्वधर्मं नानुतिष्ठति ।
चोरः किल्बिषिकः पुत्रो ज्येष्ठो न ज्येष्ठ उच्यते ॥
ज्येष्ठांशहारी गुणकृदिह लोके परत्र च । श्रेयान्पुत्रो गुणोपेतः स पुत्रो नेतरो वृथा ।
वदन्ति धर्मं धर्मज्ञाः पितॄणां पुत्रकारणात् ॥
वेदोक्तं संभवं मह्यमनेन हृदयोद्भवम् ।
तस्य जातमिदं कृत्स्नमात्मा पुत्र इति श्रुतिः' ॥
यदुनाऽहमवज्ञातस्तथा तुर्वसुनापि च ।
द्रुह्युना चानुना चैव मय्यवज्ञ कृता भृशम् ॥
पूरुणा तु कृतं वाक्यं मानितं च विशेषतः ।
कनीयान्मम दायादो धृता येन जरा मम ॥
मम कामः स च कृतः पूरुणा मित्ररूपिणा ।
शुक्रेण च वरोदत्तः काव्येनोशनसा स्वयम् ॥
पुत्रो यस्त्वाऽनुवर्तेत स राजा पृथिवीपतिः ।
`यो वानुवर्ती पुत्राणां स पुत्रो दायभाग्भवेत्' ॥
भवतोऽनुनयाम्येवं पूरू राज्येऽभिषिच्यताम् ।
प्रकृतय ऊचुः ।
यः पुत्रो गुणसंपन्नो मातापित्रोर्हितः सदा ॥
सर्वमर्हति कल्याणं कनीयानपि सत्तमः ।
`वेद धमार्थशास्त्रेषु मुनिभिः कथितं पुरा' ॥
अर्हः पूरुरिदं राज्यं यः सुतः प्रियकृत्तव ।
वरदानेन शुक्रस्य न शक्यं वक्तुमुत्तरम् ॥
वैशंपायन उवाच ।
पौरजानपदैस्तुष्टैरित्युक्तो नाहुषस्तदा ।
अभ्यषिञ्चत्ततः पूरुं राज्ये स्वे सुतमात्मनः ॥
`यदुं च तुर्वसुं चोभौ द्रुह्युं चैव सहानुजम् ।
अन्तेषु स विनिक्षिप्य नाहुषः स्वात्मजान्सुतान्' ॥
दत्त्वा च पूरवे राज्यं वनवासाय दीक्षितः ।
पुरात्स निर्ययौ राजा ब्राह्मणैस्तापसैः सह ॥
`देवयान्या च सहितः शर्मिष्ठया च भारत ।
अकरोत्स वने राजा सभार्यस्तप उत्तमम्' ॥
यदोस्तु यादवा जातास्तुर्वसोर्यवनाः स्मृताः ।
द्रुह्योः सुतास्तु वै भोजा अनोस्तु म्लेच्छजातयः ॥
पूरोस्तु पौरवो वंशो यत्र जातोऽसि पार्थिव ।
इदं वर्षसहस्राणि राज्यं कारयितुं वशी ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि ऊनाशीतितमोऽध्यायः ॥ 79 ॥

1-79-1 चचार बुभोज ॥ 1-79-6 विषया दिव्यगन्धादयो गोचरे वशे यस्य स विषयगोचरः ॥ 1-79-19 कनीयसं कनीयांसम् ॥

अध्यायः 080

॥ उत्तरयायातारभ्यः ॥

ययातेः स्वर्गगमनम् ॥ 1 ॥

वैशंपायन उवाच ।
एवं स नाहुषो राजा ययातिः पुत्रमीप्सितम् ।
राज्येऽभिषिच्य मुदितो वानप्रस्थोऽभवन्मुनिः ॥
उषित्वा च वने वासं ब्राह्मणैः संशितव्रतः ।
फलमूलाशनो दान्तस्ततः स्वर्गमितो गतः ॥
स गतः स्वर्निवासं तं निवसन्मुदितः सुखी ।
कालेन नातिमहता पुनः शक्रेण पातितः ॥
`साधुभिः संगतिं लब्ध्वा पुनः स्वर्गमुपेयिवान् ।
जनमेजय उवाच ।
स्वर्गतश्च पुनर्ब्रह्मन्निवसन्देववेश्मनि ।
कालेन नातिमहता कथं शक्रेण पातितः' ॥
निपतन्प्रच्युतः स्वर्गादप्राप्तो मेदिनीतलम् ।
स्थित आसीदन्तरिक्षे स तदेति श्रुतं मया ॥
तत एव पुनश्चापि गतः स्वर्गमिति श्रुतम् ।
राज्ञा वसुमता सार्धमष्टकेन च वीर्यवान् ॥
प्रतर्दनेन शिविना समेत्य किल संसदि ।
कर्मणा केन स दिवं पुनः प्राप्तो महीपतिः ॥
सर्वमेतदशेषेण श्रोतुमिच्छामि तत्त्वतः ।
कथ्यमानं त्वया विप्र विप्रर्षिगणसंनिधौ ॥
देवराजसमो ह्यासीद्ययातिः पृथिवीपतिः ।
वर्धनः कुरुवंशस्य विभावसुसमद्युतिः ॥
तस्य विस्तीर्णयशसः सत्यकीर्तेर्महात्मनः ।
चरितं श्रोतुमिच्छामि दिवि चेह च सर्वशः ॥
वैशंपायन उवाच ।
हन्त ते कथयिष्यामि ययातेरुत्तरां कथाम् ।
दिवि चेह च पुण्यार्थां सर्वपापप्रणाशिनीम् ॥
ययातिर्नाहुषो राजा पूरुं पुत्रं कनीयसम् ।
राज्येऽभिषिच्य मुदितः प्रावव्राज वनं तदा ॥
अन्त्युषे स विनिक्षिप्य पुत्रान्यदुपुरोगमान् ।
फलमूलाशनो राजा वने संन्यवसच्चिरम् ॥
शंसितात्मा जितक्रोधस्तर्पयन्पितृदेवताः ।
अग्नींश्च विधिवज्जुह्वन्वानप्रस्थविधानतः ॥
अथितीन्पूजयामास वन्येन हविषा विभुः ।
शिलोञ्छवृत्तिमास्थाय शेषान्नकृतभोजनः ॥
पूर्णं वर्षसहस्रं च एवंवृत्तिरभून्नृपः ।
अब्भक्षः शरदस्त्रिंशदासीन्नियतवाङ्मनाः ॥
ततश्च वायुभक्षोऽभूत्संवत्सरमतन्द्रितः ।
तथा पञ्चाग्निमध्ये च तपस्तेपे स वत्सरम् ॥
एकपादः स्तितश्चासीत्षण्मासाननिलाशनः ।
पुण्यकीर्तिस्ततः स्वर्गे जगामावृत्य रोदसी ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि अशीतितमोऽध्यायः ॥ 80 ॥

1-80-13 अन्त्येषु म्लेच्छेषु ॥ 1-80-17 पञ्चाग्नयश्चत्वारोऽग्नयः पञ्चमः सूर्यः ॥ 1-80-18 आवृत्य व्याप्य । रोदसी द्यावभूमी । पृथिव्यामिव स्वर्गेपि मुख्योऽभूदित्यर्थः ॥ अशीतितमोऽध्यायः ॥ 80 ॥

अध्यायः 081

इन्द्रययातिसंवादः ॥ 1 ॥

वैशंपायन उवाच ।
स्वर्गतः स तु राजेन्द्रो निवसन्देववेश्मनि ।
पूजितस्त्रिदशैः साध्यैर्मरुद्भिर्वसुभिस्तथा ॥
देवलोकं ब्रह्मलोकं संचरन्पुण्यकृद्वशी ।
अवसत्पृथिवीपालो दीर्घकालमिति श्रुतिः ॥
स कदाचिन्नृपश्रेष्ठो ययातिः शक्रमागमत् ।
कथान्ते तत्र शक्रेण स पृष्टः पृथिवीपतिः ॥
शक्र उवाच ।
यदा स पूरुस्तव रूपेण राज- ञ्जरां गृहीत्वा प्रचचार भूमौ ।
तदा च राज्यं संप्रदायैव तस्मै त्वया किमुक्तः कथयेह सत्यम् ॥
ययातिरुवाच ।
गङ्गायमुनयोर्मध्ये कृत्स्नोयं विषयस्तव ।
मध्ये पृथिव्यास्त्वं राजा भ्रातरोऽन्त्याधिपास्तव ॥
`न च कुर्यान्नरो दैन्यं शाठ्यं क्रोधं तथैव च ।
जैहयं च मत्सरं वैरं सर्वत्रेदं न कारयेत् ॥
मातरं पितरं ज्येष्ठं विद्वांसं च तपोधनम् ।
क्षमावन्तं च राजेन्द्र नावमन्येत बुद्धिमान् ॥
ळशक्तस्तु क्षमते नित्यमशक्तः क्रुध्यते नरः ।
दुर्जनः सुजनं द्वेष्टि दुर्बलो बलवत्तरम् ॥
रूपवन्तमरूपी च धनवन्तं च निर्धनः ।
अकर्मी कर्मिणं द्वेष्टि धार्मिकं च नधार्मिकः ॥
निर्गुणो गुणवन्तं च पुत्रैतत्कलिलक्षणम् ।
विपरीतं च राजेन्द्र एतेषु कृतलक्षणम् ॥
ब्राह्मणो वाथ वा राजा वैश्यो वा शूद्र एव वा ।
प्रशस्तेषु प्रसक्ताश्चेत्प्रशस्यन्ते यशस्विनः ॥
तस्मात्प्रशस्ते राजेन्द्र नरः सक्तमना भवेत् ।
अलोकज्ञा ह्यप्रशस्ता भ्रातरस्ते ह्यबुद्धयः ॥
अन्त्याधिपतयः सर्वे ह्यभवन्गुरुशासनात् ।
इन्द्र उवाच ।
त्वं हि धर्मविदो राजन्कत्थसे धर्मसुत्तमम् ।
कथयस्व पुनर्मेऽद्य लोकवृत्तान्तमुत्तमम् ॥
ययातिरुवाच'
अक्रोधनः क्रोधनेभ्यो विशिष्ट- स्तथा तितिक्षुरतितिक्षोर्विशिष्टः ।
अमानुषेभ्यो मानुषाश्च प्रधाना विद्वांस्तथैवाविदुषः प्रधानः ॥
आक्रुश्यमानो नाकोशेन्मन्युरेव तितिक्षतः ।
आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति ॥
नारुन्तुदः स्यान्न नृशंसवादी न हीनतः परमभ्याददीत ।
ययाऽस्य वाचा पर उद्विजेत न तां वदेद्रुशतीं पापलोक्याम् ॥
अरुन्तुदं पुरुषं तीक्ष्णवाचं वाक्कण्टकैर्वितुदन्तं मनुष्यन् ।
विद्यादलक्ष्मीकतमं जनानां मुखे निबद्धां निर्ऋतिं वहन्तम् ॥
सद्भिः पुरस्तादभिपूजितः स्या- त्सद्भिस्तथा पृष्ठतो रक्षितः स्यात् ।
सदाऽसतामतिवादांस्तितिक्षे- त्सतां वृत्तं चाददीतार्यवृत्तः ॥
वाक्सायका वदनान्निष्पतन्ति यैराहतः शोचति रात्र्यहानि ।
परस्य ये मर्मसु संपतन्ति तान्पण्डितो नावसृजेत्परेषु ॥
नहीदृशं संवननं त्रिषु लोकेषु विद्यते ।
दया मैत्री च भूतेषु दानं च मधुरा च वाक् ॥
तस्मात्सान्त्वं सदा वाच्यं न वाच्यं परुषं क्वचित् ।
पूज्यान्संपूजयेद्दद्यान्न च याचेत्कदाचन ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि एकाशीतितमोऽध्यायः ॥ 81 ॥

1-81-16 अस्य आक्रोष्टुः सुकृतं तितिक्षुर्विन्दति । रुशतीं अकल्याणी ॥ 1-81-17 निर्ऋति दुर्देवताम् ॥ 1-81-20 संवननं वशीकरणम् ॥ एकाशीतितमोऽध्यायः ॥ 81 ॥

अध्यायः 082

स्वर्गतो ययातेः पतनं । अष्टकप्रश्नश्च ॥ 1 ॥

इन्द्र उवाच ।
सर्वाणि कर्माणि समाप्य राजन् गृहं परित्यज्य वनं गतोऽसि ।
तत्त्वां पृच्छामि नहुषस्य पुत्र केनासि तुल्यस्तपसा ययाते ॥
ययातिरुवाच ।
नाहं देवमनुष्येषु गन्धर्वेषु महर्षिषु ।
आत्मनस्तपसा तुल्यं कंचित्पश्यामि वासव ॥
इन्द्र उवाच ।
यदाऽवमंस्थाः सदृशः श्रेयसश्च अल्पीयसश्चाविदितप्रभावः ।
तस्माल्लोकास्त्वन्तवन्तस्तवे मे क्षीणे पुण्ये पतिताऽस्यद्य राजन् ॥
ययातिरुवाच ।
सुरर्षिगन्धर्वनरावमाना- त्क्षयं गता मे यदि शक्रलोकाः ।
इच्छाम्यहं सुरलोकाद्विहीनः सतां मध्ये पतितुं देवराज ॥
इन्द्र उवाच ।
सतां सकाशे पतिताऽसि राजं- श्च्युतः प्रतिष्ठां यत्र लब्धासि भूयः ।
एतद्विदित्वा च पुनर्ययाते त्वं माऽवमंस्थाः सदृशः श्रेयसश्च ॥
वैशंपायन उवाच ।
ततः प्रहायामरराजजुष्टा- न्पुण्याँल्लोकान्पतमानं ययातिम् ।
संप्रेक्ष्य राजर्षिवरोऽष्टकस्त- मुवाच सद्धर्मविधानगोप्ता ॥
अष्टक उवाच ।
कस्त्वं युवा वासवतुल्यरूपः स्वतेजसा दीप्यमानो यथाऽग्निः ।
पतस्युदीर्णाम्बुधरान्धकारा- त्खात्खेचराणां प्रवरो यथाऽर्कः ॥
दृष्ट्वा च त्वां सूर्यपथात्पतन्तं वैश्वानरार्कद्युतिमप्रमेयम् ।
किं नु स्विदेतत्पततीति सर्वे वितर्कयन्तः परिमोहिताः स्मः ॥
दृष्ट्वा च त्वां धिष्ठितं देवमार्गे शक्रार्कविष्णुप्रतिमप्रभावम् ।
अभ्युद्गतास्त्वां वयमद्य सर्वे तत्त्वं प्रपाते तव जिज्ञासमानाः ॥
न चापि त्वां धृष्णुमः प्रष्टुमग्रे न च त्वमस्मान्पृच्छसि ये वयं स्मः ।
तत्त्वां पृच्छामि स्पृहणीयरूप कस्य त्वं वा किंनिमित्तं त्वमागाः ॥
भयं तु ते व्येतु विषादमोहौ त्यजाशु चैवेन्द्रसमप्रभाव ।
त्वां वर्तमानं हि सतां सकाशे नालं प्रसोढुं बलहाऽपि शक्रः ॥
सन्तः प्रतिष्ठा हि सुखच्युतानां सतां सदैवामरराजकल्प ।
ते सङ्गताः स्थावरजङ्गमेशाः प्रतिष्ठितस्त्वं सदृशेषु सत्सु ॥
प्रभुरग्निः प्रतपने भूमिरावपने प्रभुः ।
प्रभुः सूर्यः प्रकाशित्वे सतां चाभ्यागतः प्रभुः ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि द्व्यशीतितमोऽध्यायः ॥ 82 ॥

1-82-3 अवमंस्थाः सर्वेभ्य आत्मन आधिक्योक्त्या । सदृशः सदृशान् ॥ 1-82-5 यत्र पतिता प्रतिष्ठां लब्धासि लप्स्यसि ॥ 1-82-10 धुष्णुमः प्रगल्भामहे ॥ 1-82-13 आवपने संग्रहे बीजावापे वा ॥ द्व्यशीतितमोऽध्यायः ॥ 82 ॥

अध्यायः 083

ययातेः स्वनामकथनपूर्वकं अष्टकेन सह संवादः ॥ 1 ॥ तत्र ययातिना स्वस्य स्वर्गादधःपतनकारणकथनम् ॥ 2 ॥

ययातिरुवाच ।
अहं ययातिर्नहुषस्य पुत्रः पूरोः पिता सर्वभूतावमानात् ।
प्रभ्रंशितः सुरसिद्धर्षिलोका- त्परिच्युतः प्रपताम्यल्पपुण्यः ॥
अहं हि पूर्वो वयसा भवद्भ्य- स्तेनाभिवादं भवतां न प्रयुञ्जे ।
यो विद्यया तपसा जन्मना वा वृद्धः स पूज्यो भवति द्विजानाम् ॥
अष्टक उवाच ।
अवादीस्त्वं वयसा यः प्रवृद्धः स वै राजन्नाभ्यधिकः कथ्यते च ।
यो विद्यया तपसा संप्रवृद्धः स एव पूज्यो भवति द्विजानाम् ॥
ययातिरुवाच ।
प्रतिकूलं कर्मणां पापमाहु- स्तद्वर्ततेऽप्रवणे पापलोक्यम् ।
सन्तोऽसतां नानुवर्तन्ति चैत- द्यथा चैषामनुकूलास्तथाऽऽसन् ॥
अभूद्धनं मे विपुलं गतं त- द्विचेष्टमानो नाधिगन्ता तदस्मि ।
एवं प्रधार्यात्महिते निविष्टो यो वर्तते स विजानाति जीवः ॥
महाधनो यो यजते सुयज्ञै- र्यः सर्वविद्यासु विनीतबुद्धिः ।
वेदानधीत्य तपसा योज्य देहं दिवं स यायात्पुरुषो वीतमोहः ॥
न जातु हृष्येन्महता धनेन वेदानधीयीतानहंकृतः स्यात् ।
नानाभावा बहवो जीवलोके दैवाधीना नष्टचेष्टाधिकाराः । तत्तत्प्राप्य न विहन्येत धीरो दिष्टं बलीय इति मत्वाऽऽत्मबुद्ध्या ॥
सुखं हि जन्तुर्यदि वाऽपि दुःखं दैवाधीनं विन्दते नात्मशक्त्या ।
तस्माद्दिष्टं बलवन्मन्यमानो न संज्वरेन्नापि हृष्येत्कथंचित् ॥
दुःखैर्न तप्येन्न सुखैः प्रहृष्ये- त्समेन वर्तेत सदैव धीरः ।
दिष्टं बलीय इति मन्यमानो न संज्वरेन्नापि हृष्येत्कथंचित् ॥
भये न मुह्याम्यष्टकाहं कदाचि- त्सन्तापो मे मानसो नास्ति कश्चित् ।
धाता यथा मां विदधीत लोके ध्रुवं तथाऽहं भवितेति मत्वा ॥
संस्वेदजा अण्डजाश्चोद्भिदश्च सरीसृपाः कृमयोऽथाप्सु मत्स्याः ।
तथाश्मनस्तृणकाष्ठं च सर्वे दिष्टक्षये स्वां प्रकृतिं भजन्ति ॥
अनित्यतां सुखदुःस्वस्य बुद्ध्वा कस्मात्संतापमष्टकाहं भजेयम् ।
किं कुर्यां वै किं च कृत्वा न तप्ये तस्मात्सन्तापं वर्जयाम्यप्रमत्तः ॥
वैशंपायन उवाच ।
एवं व्रुवाणं नृपतिं ययाति- मथाष्टकः पुनरेवान्वपृच्छत् ।
मातामहं सर्वगुणोपपन्नं तत्रस्थितं स्वर्गलोके यथावत् ॥
अष्टक उवाच ।
ये ये लोकाः पार्थिवेन्द्रप्रधाना- स्त्वया भुक्ता यं च कालं यथावत् ।
तान्मे राजन्ब्रूहि सर्वान्यथाव- त्क्षेत्रज्ञवद्भाषसे त्वं हि धर्मान् ॥
ययातिरुवाच ।
राजाऽहमासमिह सार्वभौम- स्ततो लोकान्महतश्चाजयं वै ।
तत्रावसं वर्षसहस्रमात्रं ततो लोकं परमस्म्यभ्युपेतः ॥
ततः पुरीं पुरुहूतस्य रम्यां सहस्रद्वारां शतयोजनायताम् ।
अध्यावसं वर्षसहस्रमात्रं ततो लोकं परमस्म्यभ्युपेतः ॥
ततो दिव्यमजरं प्राप्य लोकं प्रजापतेर्लोकपतेर्दुरापम् ।
तत्रावसं वर्षसहस्रमात्रं ततो लोकं परमस्म्यभ्युपेतः ॥
स देवदेवस्य निवेशने च विहृत्य लोकानवसं यथेष्टम् ।
संपूज्यमानस्त्रिदशैः समस्तै- स्तुल्यप्रभावद्युतिरीश्वराणाम् ॥
तथाऽऽवसं नन्दने कामरूपी संवत्सराणामयुतं शतानाम् ।
सहाप्सरोभिर्विहरन्पुण्यगन्धा- न्पश्यन्नगान्पुष्पितांश्चारुरूपान् ॥
तत्र स्थितं मां देव सुखेषु सक्तं कालेऽतीते महति ततोऽतिमात्रम् ।
दूतो देवानामब्रवीदुग्ररूपो ध्वंसेत्युच्चैस्त्रिः प्लुतेन स्वरेण ॥
एतावन्मे विदितं राजसिंह ततो भ्रष्टोऽहं नन्दनात्क्षीणपुण्यः ।
वाचोऽश्रौषं चान्तरिक्षे सुराणां सानुक्रोंशाः शोचतां मां नरेन्द्र ॥
अहो कष्टं क्षीणपुण्यो ययातिः पतत्यसौ पुण्यकृत्पुण्यकीर्तिः ।
तानब्रुवं पतमानस्ततोऽहं सतां मध्ये निपतेयं कथं नु ॥
तैराख्याता भवतां यज्ञभूमिः समीक्ष्य चेमां त्वरितमुपागतोऽस्मि ।
हविर्गन्धं देशिकं यज्ञभूमे- र्धूमापाङ्गं प्रतिगृह्य प्रतीतः ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि त्र्यशीतितमोऽध्यायः ॥ 83 ॥

1-83-2 ययातिरपनीततपोविद्यागर्वत्वाद्वयोज्यैष्ठ्यमेव पुरस्कृत्याह । अहं हीति । तदेवोपपादयत्युत्तरार्धेन ॥ 1-83-3 तदसहमानोऽष्टक आह । अवादीरिति । त्वं च विद्यातपःसंप्रवृद्ध इति भावः ॥ 1-83-4 विद्यातपसोः श्रैष्ठ्ये अष्टकेन स्तुते तत्र स्वानुभूतं विघ्नं दर्शयन्ययातिरुवाच । प्रतिकूलमिति । कर्मणां पुण्यानां प्रतिकूलं नाशकं पापं गर्वस्तच्चाप्रवणेऽनम्रे दर्पवति वर्तते । पापलोक्यं नरकप्रदम् । एतत्पापमसतां संबन्धि सन्तो नानुवर्तन्ते इदानीमपि । किंच प्राञ्चोपि सन्तो यथैषां कर्मणामनुकूला उपबृंहकाः स्युस्तथा तेन प्रकारेण दम्भदर्पादिराहित्येन आसन् । अहं त्वत द्विधत्वात्स्वर्गादिन्द्रेण च्यावित इत्याशयः ॥ 1-83-5 तद्दम्भादिराहित्येन प्रसिद्धं धनं पुण्यं मे मम विपुलं यदभूत्तद्गतं नष्टं दर्पादित्यर्थः । पुनरिदानीं तच्चेष्टमानोऽपि तत्पुनर्नाधिगन्तास्मि । एवं प्रधार्य मामिकां गतिं ज्ञात्वा य आत्महिते निविष्टो यो वर्तते स धीरो जानाति नान्य इत्यर्थः ॥ 1-83-7 एतदेवाह । न जात्विति धनेन तपसा तर्हि त्वमे कुतोऽहंकारं कृतवानित्यत आह । नानेति । जीवलोकेऽस्मिन् जीवा नानाभावाः पृथक्स्वभावाः केचिद्धर्मरुचयः केचिद्विपरीताः । यतो दैवाधीनाः । अतएव नष्टा वृथाभूता चेष्टा उद्योगोऽधिकारः सामर्थ्यं च येषां ते तथा । दृष्टा इति शेषः । मूढानां पुण्ये पण्डितानां पापे च प्रवृत्तिकरं दैवमेव बलवदित्यर्थः । एवं विद्वांस्तत्तप्राप्य तत्सुखं दुःखं वा प्राप्य न विहन्येत । हर्षविषादाभ्यामात्मानं न हिंस्यादित्यर्थः ॥ 1-83-8 एतदेव विवृणोति । सुखं हीति द्वाभ्याम् ॥ 1-83-10 भयं तु ते व्येतु विषादमोहाविति यदष्टकेनोक्तं तत्रोत्तरमाह । भये इति । धाता दिष्टं ॥ 1-83-11 अहमिवान्येऽपि दिष्टाधीना एवेत्याह । संस्वेदजा इति । एतेपि दिष्टक्षये पुण्यपापानुभवानन्तरम् । स्वां प्रकृतिं स्वकर्मशेषानुगुणां योनिं भजन्ति प्राप्नुवन्ति ॥ 1-83-12 अहं तु दिष्टक्षयाभावात्प्राप्तेपि दुःखे न तप्ये इत्याह । अनित्यतामिति ॥ 1-83-14 क्षेत्रज्ञवत् ज्ञानिवत् ॥ 1-83-23 तैरिति । देशिकमुपदेष्टारमिव स्थितं । हविषां गन्धो यत्र तं धूमापाङ्गं धूमप्रान्तं प्रतिगृह्य आघ्राय प्रतीतः जातप्रत्ययः ॥ त्र्यशीतितमोऽध्यायः ॥ 83 ॥

अध्यायः 084

मृतस्य स्वर्गादिभोगानन्तरं पुनर्जननप्रकारकथनम् ॥ 1 ॥

अष्टक उवाच ।
यदाऽवसो नन्दने कामरूपी संवत्सराणामयुतं शतानाम् ।
किं कारणं कार्तयुगप्रधान हित्वा च त्वं वसुधामन्वपद्यः ॥
ययातिरुवाच ।
ज्ञातिः सुहृत्स्वजनो वा यथेह क्षीणे वित्ते त्यज्यते मानवैर्हि ।
तथा तत्र क्षीणपुण्यं मनुष्यं त्यजन्ति सद्यः सेश्वरा देवसङ्घाः ॥
अष्टक उवाच ।
तस्मिन्कथं क्षीणपुण्या भवन्ति संमुह्यते मेऽत्र मनोऽतिमात्रम् ।
किं वा विशिष्टाः कस्य धामोपयान्ति तद्वै ब्रूहि क्षेत्रवित्त्वं मतो मे ॥
ययातिरुवाच ।
इमं भौमं नरकं ते पतन्ति ललाप्यमाना नरदेव सर्वे ।
ते कङ्कगोमायुबलाशनार्थे क्षीणे पुण्ये बहुधा प्रव्रजन्ति ॥
तस्मादेतद्वर्जनीयं नरेन्द्र दुष्टं लोके गर्हणीयं च कर्म ।
आख्यातं ते पार्थिव सर्वमेव भूयश्चेदानीं वद किं ते वदामि ॥
अष्टक उवाच ।
यदा तु तान्वितुदन्ते वयांसि तथा गृध्राः शितिकण्ठाः पतङ्गाः ।
कथं भवन्ति कथमाभवन्ति न भौममन्यं नरकं शृणोमि ॥
ययातिरुवाच ।
ऊर्ध्वं देहात्कर्मणो जृम्भमाणा- द्व्यक्तं पृथिव्यामनुसंचरन्ति ।
इमं भौमं नरकं ते पतन्ति नावेक्षन्ते वर्षपूगाननेकान् ॥
षष्टिं सहस्राणि पतन्ति व्योम्नि तथा अशीतिं परिवत्सराणि ।
तान्वै तुदन्ति पततः प्रपातं भीमा भौमा राक्षसास्तीक्ष्णदंष्ट्राः ॥
अष्टक उवाच ।
यदेनसस्ते पततस्तुदन्ति भीमा भौमा राक्षसास्तीक्ष्णदंष्ट्राः ।
कथं भवन्ति कथमाभवन्ति कथंभूता गर्भभूता भवन्ति ॥
ययातिरुवाच ।
अस्रं रेतः पुष्पफलानुपृक्त- मन्वेति तद्वै पुरुषेण सृष्टम् ।
स वै तस्या रज आपद्यते वै स गर्भभूतः समुपैति तत्र ॥
वनस्पतीनोषधीश्चाविशन्ति आपो वायुं पृथिवीं चान्तरिक्षम् ।
चतुष्पदं द्विपदं चाति सर्व- मेवंभूता गर्भभूता भवन्ति ॥
अष्टक उवाच ।
अन्यद्वपुर्विदधातीह गर्भ- मुताहोस्वित्स्वेन कायेन याति ।
आपद्यमानो नरयोनिमेता- माचक्ष्व मे संशयात्प्रब्रवीमि ॥
शरीरदेहातिसमुच्छ्रयं च चक्षुःश्रोत्रे लभते केन संज्ञाम् ।
एतत्तत्त्वं सर्वमाचक्ष्व पृष्टः क्षेत्रज्ञं त्वां तात मन्याम सर्वे ॥
ययातिरुवाच ।
वायुः समुत्कर्षति गर्भयोनि- मृतौ रेतः पुष्पफलानुपृक्तम् ।
स तत्र तन्मात्रकृताधिकारः क्रमेण संवर्धयतीह गर्भम् ॥
स जायमानो विगृहीतमात्रः संज्ञामधिष्ठाय ततो मनुष्यः ।
स श्रोत्राभ्यां वेदयतीह शब्दं स वै रूपं पश्यति चक्षुषा च ॥
घ्राणेन गन्धं जिह्वयाऽथो रसं च त्वचा स्पर्शं मनसा वेदभावम् ।
इत्यष्टकेहोपहितं हि विद्धि महात्मनः प्राणभृतः शरीरे ॥
अष्टक उवाच ।
यः संस्थितः पुरुषो दह्यते वा निखन्यते वापि निकृष्यते वा ।
अभावभूतः स विनाशमेत्य केनात्मानं चेतयते परस्तात् ॥
ययातिरुवाच ।
हित्वा सोऽसून्सुप्तवन्निष्टनित्वा पुरोधाय सुकृतं दुष्कृतं वा ।
अन्यां योनिं पवनाग्रानुसारी हित्वा देहं भजते राजसिंह ॥
पुण्यां योनिं पुण्यकृतो व्रजन्ति पापां योनिं पापकृतो व्रजन्ति ।
कीटाः पतङ्गाश्च भवन्ति पापा न मे विवक्षास्ति महानुभाव ॥
चतुष्पदा द्विपदाः षट्पदाश्च तथाभूता गर्भभूता भवन्ति ।
आख्यातमेतन्निखिलेन सर्वं भूयस्तु किं पृच्छसि राजसिंह ॥
अष्टक उवाच ।
किंस्वित्कृत्वा लभते तात लोका- न्मर्त्यः श्रेष्ठांस्तपसा विद्यया च ।
तन्मे पृष्टः शंस सर्वं यथाव- च्छुभाँल्लोकान्येन गच्छेत्क्रमेण ॥
ययातिरुवाच ।
तपश्च दानं च शमो दमश्च ह्रीरार्जवं सर्वभूतानुकम्पा ।
स्वर्गस्य लोकस्य वदन्ति सन्तो द्वाराणि सप्तैव महान्ति पुंसाम् । नश्यन्ति मानेन तमोऽभिभूताः पुंसः सदैवेति वदन्ति सन्तः ॥
अधीयानः पण्डितंमन्यमानो यो विद्यया हन्ति यशः परेषाम् ।
तस्यान्तवन्तश्च भवन्ति लोका न चास्य तद्ब्रह्म फलं ददाति ॥
चत्वारि कर्माण्यभयङ्कराणि भयं प्रयच्छन्त्ययथाकृतानि ।
मानाग्निहोत्रमुत मानमौनं मानेनाधीतमुत मानयज्ञः ॥
न मानमान्यो मुदमाददीत न सन्तापं प्राप्नुयाच्चावमानात् ।
सन्तः सतः पूजयन्तीह लोके नासाधवः साधुबुद्धिं लभन्ते ॥
इति दद्यामिति यज इत्यदीय इति व्रतम् ।
इत्येतानि भयान्याहुस्तानि वर्ज्यानि सर्वशः ॥
ये चाश्रयं वेदयन्ते पुराणं मनीषिणो मानसमार्गरुद्धम् ।
तन्निःश्रेयस्तेन संयोगमेत्य परां शान्तिं प्रत्युः प्रेत्य चेह ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि चतुरशीतितमोऽध्यायः ॥ 84 ॥

1-84-1 कार्तयुगप्रधाना कृतयुगे भवाः कार्तयुगा अत्यन्तनिष्पापास्तेषां मुख्यतमेत्यर्थः ॥ 1-84-3 तत्र क्षीणपुण्याः कथं किंप्रकारा भवन्ति । ततश्च किंविशिष्टाः कीदृसाः सन्तः कस्य धाम स्थानं यान्ति कं लोकं यान्तीत्यर्थः ॥ 1-84-4 तत्र कस्य धामेत्यस्योत्तरं इमं भौममिति । पुण्ये क्षीणे सति नरकं नरकोपमं बौमं भूसम्बन्धिनं इमं लोकं प्रति पतन्ति । कथं भवन्तीत्यस्योत्तरं ते कङ्केति । कङ्काश्च गोमायवश्च तेषां बलं सङ्घः तस्या शनार्थे अशनविषयीभूतैतद्देहरक्षणार्थे बहुधा प्रव्रजन्ति पर्यटन्ति ॥ 1-84-5 तस्मादेतत्काम्यकर्म दुष्टं विषिद्धं गर्हणीयम् ॥ 1-84-6 ननु कङ्कादिभक्षितस्य कथं स्वरूपसत्ता कथं वा शरीरान्तरेणाविर्भाव इति देहात्मवादमाश्रित्य शङ्कते । भौमो नरकश्च क इति पृच्छति च । यदा तु तानिति ॥ 1-84-7 ऊर्ध्वं देहात् देहक्षयानन्तरम् । जृम्भमाणात्प्रबुद्धात्कर्मणो हेतोः व्यक्तं स्थूलं शरीरं अनु अनुप्रविश्य जीवाः संचरन्ति कर्मफलानि भुञ्जते इति यत् तदेव भौमो नरकः । कुतोऽस्य नरकत्वमत आह । नावेक्षन्ते वर्षपूगाननेकान् यस्मादत्र पतिता गतं वयो न बुध्यन्ते कर्मभूमिं प्राप्यापि स्वहिताय न यतन्तेऽत इत्यर्थः । एतेन कङ्कादिभक्षितस्यापि सत्वं देहयोगश्चास्तीत्युक्तम् ॥ 1-84-8 षष्टिं सहस्राण्यशीतिं च सहस्राणि परिवत्सराणि व्योम्नि स्वर्गे स्थित्वा पतन्ति । दारादयो भौमा राक्षसाः । पातं भूमिस्थितिं प्रपततः अनुभवतः ॥ 1-84-9 यत् यान् एनसः पापाद्धेतोः पततः स्वर्गाह्यवमानान् ते राक्षसास्तुदन्ति ते पुरुषाः कथं भवन्ति प्रपातभ्रष्टा इव कथं न शीर्यन्ते । कथं वा आभवन्ति इन्द्रियादिमन्तो भवन्ति । कथं वा गर्भत्वं प्राप्नुवन्तीति प्रश्नत्रयम् ॥ 1-84-10 रेतः कर्तृ । अस्रं स्त्रीरजः कर्मभूतं अन्वेति । तद्द्वयं पुष्पफलादिभावेनानुपृक्तं कललादिरूपं भवति । तत् आहारादिवत्कथं न जीर्यत इत्यत आह । पुरुषेणेति । ईश्वरेणेत्यर्थः । रजः तदुपलक्षितान् धातून् । समुपैति दुःखादीनीति शेषः ॥ 1-84-11 मात्रुदरपर्यन्तं प्रवेशक्रममाह । वनस्पतीति ॥ 1-84-12 नरयोनिमापद्यमानो जीवः स्वेन कायेन जैवेनैव रूपेण गर्भं मातुरुदरं याति उत तत्र प्रवेष्टुमन्यद्वपुर्विदधाति ॥ 1-84-13 शरीरदेहातिसमुच्छ्रयं मातुः शरीरे गर्भदेहस्यातिसमुच्छ्रयं वृद्धिम् । चक्षुःश्रोत्रे इतीन्द्रियमात्रोपलक्षणम् ॥ 1-84-14 देहसमुच्छ्रयक्रममाह । वायुरिति । ऋतौ तत्काले वायुः गर्भयोनिं अस्रं प्रति रेतः समुत्कर्षति प्रापयति । ततश्च पुष्पफलानुपृक्तं कललादिरूपगर्भं सएव तत्र गर्भाशये क्रमेण संवर्धयति । कथंभूतः तन्मात्रे वृद्धिमात्रएव कृताधिकारः समर्थः ॥ 1-84-15 स जीवः विगृहीता मात्रा सूक्ष्मशरीरं येन सः ॥ 1-84-16 श्रोत्रादिकं इत्युपहितं संबद्धं विद्धि ॥ 1-84-17 देहात्मवादेन पुनः शङ्कते । यः संस्थित इति । परस्तात् आत्मानं केन कारणेन चेतयते जानाति । देहातिरिक्तजीवाभावादिति बावः ॥ 1-84-18 जीवो देहाद्भिन्नः पूर्वदेहं त्यक्त्वा सूक्ष्मदेहेन देहान्तरं प्राप्नोतीत्याह । हित्वेति । पवनाग्रानुसारी आतिवाहिकपवनानुसारी ॥ 1-84-19 कर्मानुसारेण योनिप्राप्तिमाह । पुण्यामिति ॥ 1-84-21 किंस्वित्कृत्वेति सामान्यप्रश्नः । तपसा विद्ययेति विशेषप्रश्नः । चो वार्थे ॥ 1-84-22 पुंसः पुमांसः ॥ 1-84-23 दर्पवता कृतमध्ययनादि न मोक्षोपयोगि नापि स्वर्गदं प्रत्युत भयावहमित्याह द्वाभ्याम् । अधीयान इति ॥ 1-84-25 अतो मानापमानादिद्वन्द्वसहिष्णुर्भवेदित्याह । न मानमान्य इति ॥ 1-84-26 इति दद्यामिति दाम्भिकस्य स्वधर्मप्रकाशनाभिनयः ॥ 1-84-27 मानसमार्गरुद्धं ध्यानविषयीभूतं । वेदयन्ते जानन्ति । तद्वेदनं निःश्रेयः सुखसाधनम् ॥ चतुरशीतितमोऽध्यायः ॥ 84 ॥

अध्यायः 085

ब्रह्मचर्याद्याश्रमविषयकाष्टकययातिप्रश्नप्रतिवचनम् ॥ 1 ॥

अष्टक उवाच ।
चरन्गृहस्थः कथमेति धर्मा- न्कथं भिक्षुः कथमाचार्यकर्मा ।
वानप्रस्थः सत्पथे सन्निविष्टो बहून्यस्मिन्संप्रति वेदयन्ति ॥
ययातिरुवाच ।
आहूताध्यायी गुरुकर्मस्वचोद्यः पूर्वोत्थायी चरमं चोपशायी ।
मृदुर्दान्तो धृतिमानप्रमत्तः स्वाध्याशीलः सिध्यति ब्रह्मचारी ॥
धर्मागतं प्राप्य धनं यजेत दद्यात्सदैवातिथीन्भोजयेच्च ।
अनाददानश्च परैरदत्तं सैषा गृहस्थोपनिषत्पुराणी ॥
स्ववीर्यजीवी वृजिनान्निवृत्तो दाता परेभ्यो न परोपतापी ।
तादृङ्मुनिः सिद्धिमुपैति मुख्यां वसन्नरण्ये नियताहारचेष्टः ॥
अशिल्पजीवी गुणवांश्चैव नित्यं जितेन्द्रियः सर्वतो विप्रयुक्तः ।
अनोकशायी लघुरल्पप्रसार- श्चरन्देशानेकचरः स भिक्षुः ॥
रात्र्या यया वाऽभिजिताश्च लोका भवन्ति कामाभिजिताः सुखाश्च ।
तामेव रात्रिं प्रयतेत विद्वा- नरण्यसंस्थो भवितुं यतात्मा ॥
दशैव पूर्वान्दश चापरांश्च ज्ञातीनथात्मानमथैकविंशम् ।
अरण्यवासी सुकृते दधाति विमुच्यारण्ये स्वशरीरधातून् ॥
अष्टक उवाच ।
कतिस्विदेव मुनयः कति मौनानि चाप्युत ।
भवन्तीति तदाचक्ष्व श्रोतुमिच्छामहे वयम् ॥
ययातिरुवाच ।
अरण्ये वसतो यस्य ग्रामो भवति पृष्ठतः ।
ग्रामे वा वसतोऽरण्यं स मुनिः स्याज्जनाधिप ॥
अष्टक उवाच ।
कथंस्विद्वसतोऽरण्ये ग्रामो भवति पृष्ठतः ।
ग्रामे वा वसतोऽरण्यं कथं भवति पृष्ठतः ॥
ययातिरुवाच ।
न ग्राम्यमुपयुञ्जीत य आरण्यो मुनिर्भवेत् ।
तथास्य वसतोऽरण्ये ग्रामो भवति पृष्ठतः ॥
अनग्निरनिकेतश्चाप्यगोत्रचरणो मुनिः ।
कौपीनाच्छादनं यावत्तावदिच्छेच्च चीवरम् ॥
यावत्प्राणाभिसन्धानं तावदिच्छेच्च भोजनम् ।
तथाऽस्य वसतो ग्रामेऽरण्यं भवति पृष्ठतः ॥
यस्तु कामान्परित्यज्य त्यक्तकर्मा जितेन्द्रियः ।
आतिष्ठेच्च मुनिर्मौनं स लोके सिद्धिमाप्नुयात् ॥
धौतदन्तं कृत्तनखं सदा स्नातमलङ्कृतम् ।
असितं सितकर्माणं कस्तमर्हति नार्चितुम् ॥
तपसा कर्शितः क्षामः क्षीणमांसास्थिशोणितः ।
स च लोकमिमं जित्वा लोकं विजयते परम् ॥
यदा भवति निर्द्वन्द्वो मुनिर्मौनं समास्थितः ।
अथ लोकमिमं जित्वा लोकं विजयते परम् ॥
आस्येन तु यदाऽहारं गोवन्मृगयते मुनिः ।
अथास्य लोकः सर्वोऽयं सोऽमृतत्वाय कल्पते ॥
सामान्यधर्मः सर्वेषां क्रोधो लोभो द्रुहाऽक्षमा । विहाय मत्सरं शाठ्यं दर्पं दम्भं च पैशुनम् ।
क्रोधं लोभं ममत्वं च यस्य नास्ति स धर्मवित् ॥
अष्टक उवाच ।
नित्याशनो ब्रह्मचारी गृहस्थो वनगो मुनिः ।
नाधर्ममशनात्प्राप्येत्कथं ब्रूहीह पृच्छते ॥
ययातिरुवाच ।
अष्टौ ग्रासा मुनेः प्रोक्ताः षोडशारण्यवासिनः ।
द्वात्रिंशत्तु गृहस्थस्य अमितं ब्रह्मचारिणः ॥
इत्येवं कारणैर्ज्ञेयमष्टकैतच्छुभाशुभम् ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि पञ्चाशीतितमोऽध्यायः ॥ 85 ॥

1-85-1 अस्मिन्धर्मे विषये बहूनि प्राप्तिद्वाराणि वेदयन्ति वैदिकाः ॥ 1-85-4 स्ववीर्यजीवी स्वप्रयत्नलब्धजीविकः ॥ 1-85-5 अनोकशायी यत्र क्वचनशायी । लघुः परिग्रहशून्यः ॥ 1-85-6 तामेव रात्रिं तदैव सर्वपरिग्रहं संन्यस्य अरण्यसंस्थो भवितुं प्रयतेत ॥ 1-85-8 संन्यासः कतिधेति पृच्छति । कतिस्विदिति ॥ 1-85-9 संन्यासं चतुष्प्रकारमभिप्रेत्य प्रथमं कुटीचकबहूदकरूपं भेदद्वयमाह । अरण्येति ॥ 1-85-10 ग्रामारण्ययोः पृष्ठतःकरणं कथमिति पृच्छति । कथमिति ॥ 1-85-11 कृटीचकं विशिनष्टि । न ग्राम्यमिति ॥ 1-85-12 बहूदकं विशिनष्टि । अनग्निरिति ॥ 1-85-14 हंसपरमहंसौ प्रस्तौति । यस्त्विति ॥ 1-85-15 धौतदन्तं शुद्धाहारम् । कृत्तनखं त्यक्तहिंसासाधनम् । सदा स्नातं नित्यं शुद्धचित्तम् । अलंकृतं शमादिना । असितं बन्धरहितम् । सितकर्माणं शुद्धकर्माणम् ॥ 1-85-18 आस्यस्य यावदपेक्षितं तावदेव मृगयते नतु परदिनार्थणार्जयतीत्यर्थः ॥ पञ्चाशीतितमोऽध्यायः ॥ 85 ॥

अध्यायः 086

स्वर्गाच्च्युतस्य ययातेरष्टकादियज्ञभूमिं प्रत्यागमननिमित्तकथनम् ॥ 1 ॥ अष्टकप्रतर्दनयोर्ययातिना संवादः ॥ 2 ॥

अष्टक उवाच ।
कतरस्त्वनयोः पूर्वं देवानामेति साम्यताम् ।
उभयोर्धावतो राजन्सूर्याचन्द्रमसोरिव ॥
ययातिरुवाच ।
अनिकेतो गृहस्थेषु कामवृत्तेषु संयतः ।
ग्राम एव वसन्भिक्षुस्तयोः पूर्वतरं गतः ॥
अप्राप्य दीर्घमायुस्तु यः प्राप्तो विकृतिं चरेत् ।
तप्यते यदि तत्कृत्वा चरेत्सोऽन्यत्तपस्ततः ॥
पापानां कर्मणां नित्यं बिभीयाद्यस्तु मानवः ।
सुखमप्याचरन्नित्यं सोऽत्यन्तं सुखमेधते ॥
यद्वै नृशंसं तदसत्यमाहु- र्यः सेवते धर्ममनर्थबुद्धिः ।
अस्वोऽप्यनीशश्च तथैव राजं- स्तदार्जवं स समाधिस्तदार्यम् ॥
अष्टक उवाच ।
केनासि हूतः प्रहितोऽसि राज- न्युवा स्रग्वी दर्शनीयः सुवर्चाः ।
कुतऋ आयातः कतरस्यां दिशि त्व- मुताहोस्वित्पार्थिवं स्थानमस्ति ॥
ययातिरुवाच ।
इमं भौमं नरकं क्षीणपुण्यः प्रवेष्टुमुर्वीं गगनाद्विप्रहीणः ।
`विद्वांश्चैवं मतिमानार्यबुद्धि- र्ममाभवत्कर्मलोक्यं च सर्वम्' । उक्त्वाऽहं वः प्रपतिष्याम्यनन्तरं त्वरन्ति मां लोकपा ब्राह्मणा ये ॥
सतां सकाशे तु वृतः प्रपात- स्ते सङ्गता गुणवन्तश्च सर्वे ।
शक्राच्च लब्धो हि वरो मयैष पतिष्यता भूमितलं नरेन्द्र ॥
अष्टक उवाच ।
पृच्छामि त्वां मा प्रपत प्रपातं यदि लोकाः पार्थिव सन्ति मेऽत्र ।
यद्यन्तरिक्षे यदि वा दिवि स्थिताः क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये ॥
ययातिरुवाच ।
यावत्पृथिव्यां विहितं गवाश्वं सहारण्यैः पशुभिः पार्वतैश्च ।
तावल्लोका दिवि ते संस्थिता वै तथा विजानीहि नरेन्द्रसिंह ॥
अष्टक उवाच ।
तांस्ते ददामि मा प्रपत प्रपातं ये मे लोका दिवि राजेन्द्र सन्ति ।
यद्यन्तरिक्षे यदि वा दिवि श्रिता- स्तानाक्रम क्षिप्रमपेतमोहः ॥
ययातिरुवाच ।
नास्मद्विधोऽब्राह्मणो ब्रह्मविच्च प्रतिग्रहे वर्तते राजमुख्य ।
यथा प्रदेयं सततं द्विजेभ्य- स्तथाऽददं पूर्वमहं नरेन्द्र ॥
नाब्राह्मणः कृपणो जातु जीवे- द्या चाप्यस्याऽब्राह्मणी वीरपत्नी ।
सोऽहं नैवाकृतपूर्वं चरेयं विधित्समानः किमु तत्र साधुः ॥
प्रतर्दन उवाच ।
पृच्छामि त्वां स्पृहणीयरूप प्रतर्दनोऽहं यदि मे सन्ति लोकाः ।
यद्यन्तरिक्षे यदि वा दिवि श्रिताः क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये ॥
ययातिरुवाच ।
सन्ति लोका बहवस्ते नरेन्द्र अप्येकैकः सप्तसप्ताप्यहानि ।
मधुच्युतो घृतपृक्ता विशोका- स्ते नान्तवन्तः प्रतिपालयन्ति ॥
प्रतर्दन उवाच ।
तांस्ते ददानि मा प्रपत प्रपातं ये मे लोकास्तव ते वै भवन्तु ।
यद्यन्तरिक्षे यदि वा दिवि श्रिता- स्तानाक्रम क्षिप्रमपेतमोहः ॥
ययातिरुवाच ।
न तुल्यतेजाः सुकृतं कामयेत योगक्षेमं पार्थिव पार्थिवः सन् ।
दैवादेशादापदं प्राप्य विद्वां- श्चरेन्नृशंसं न हि जातु राजा ॥
धर्म्यं मार्गं यतमानो यशस्यं कुर्यान्नृपो धर्ममवेक्षमाणः ।
न मद्विधो धर्मबुद्धिः प्रजान- न्कुर्यादेवं कृपणं मां यथाऽत्थ ॥
कुर्यादपूर्वं न कृतं यदन्यै- र्विधित्समानः किमु तत्र साधु ।
`धर्माधर्मौ सुविनिश्चित्य सम्य- क्कार्याकार्येष्वप्रमत्तश्चरेद्यः ॥
स वै धीमान्सत्यसन्धः कृतात्मा राजा भवेल्लोकपालो महिम्ना ।
यदा भवेत्संशयो धर्मकार्ये कामार्थौ वा यत्र विन्दन्ति सम्यक् ॥
कार्यं तत्र प्रथमं धर्मकार्यं यन्नो विरुध्यादर्थकामौ स धर्मः
वैशंपायन उवाच ।'
ब्रुवाणमेवं नृपतिं ययातिं नृपोत्तमो वसुमानब्रवीत्तम् ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि षडशीतितमोऽध्यायः ॥ 86 ॥

1-86-1 अनयोः कुटीचकबहूदकयोः ॥ 1-86-2 गृहस्थेषु शरीरस्थेष्विन्द्रियेषु ॥ 1-86-3 दीर्घमायुः प्राप्तः सिद्धिमप्राप्य यो विकृतिं पापं चरेत् । तत्कृत्वा तप्येत यदि सोन्यत्तपः प्रायश्चित्तं चरेत् ॥ 1-86-4 कर्मणां सकाशात् बिभीयात् । सुखं यथेच्छम् ॥ 1-86-5 नृशंसं हिंस्रं यत्कर्म तदसत्यं असत्संबन्धि । अनर्थबुद्धिः फलेच्छारहितः । अनीशः ईशत्वबुद्धिरहितः ॥ 1-86-6 केन कतरस्यां दिशि प्रहिहितोसीत्यन्वयः ॥ 1-86-7 विप्रहीणश्च्युतः । उक्त्वा आपृच्छ्य । वो युष्मान् । ब्राह्मणाः ब्रह्मनियुक्ताः ॥ 1-86-12 अब्राह्मणः ब्राह्मणेतरः ब्राह्मणस्यैव भिक्षावृत्तित्वात् । ब्रह्मविद्वेदार्थवेत् । न वर्तते न प्रवर्तते । प्रत्युत पूर्वमददमेव ॥ 1-86-13 कृपणो याचकः । या चाप्यस्य क्षत्रियस्य अब्राह्मणी क्षत्रिया सापि कृपणा नजीवेत् । तद्विधित्समानः कर्तुमिच्छुः तत्र तदा किमु साधुः स्यां अपितु नैवेत्यर्थः ॥ 1-86-15 प्रत्येकं सप्तसप्ताप्यहानि सेविताः सन्तो नान्तवन्तः । मधुच्युतः सुखस्रवः । घृतपृक्तास्तेजोयुक्ताः । ते त्वां प्रतिपालयन्ति प्रतीक्षन्ते ॥ 1-86-17 नृशंसं निन्द्यं ॥ 1-86-19 अन्यै राजभिर्यत्प्रतिग्रहाख्यं न कृतं तदपूर्वम् ॥ षडशीतितमोऽध्यायः ॥ 86 ॥

अध्यायः 087

वसुमतः शिबेश्च ययातिना संवादः ॥ 1 ॥ पुनरष्टकययातिसंवादः ॥ 2 ॥ तत्रागतया माधव्या स्वपुत्रान्प्रति यया तेर्मातामहत्वकथनम् ॥ 3 ॥ तद्वचनेन ययातेरष्टकादिदत्तपुण्यस्वीकारपूर्वकमष्टकादिभिः सह स्वर्गगमनम् ॥ 4 ॥ ययातिना मार्गे अष्टकादीन्प्रति विस्तरेण स्ववृत्तान्तकथनम् ॥ 5 ॥ ययात्युपाख्यानश्रवणादिफलकथनम् ॥ 6 ॥

वसुमानुवाच ।
पृच्छामि त्वां वसुमानौषदश्वि- र्यद्यस्ति लोको दिवि मे नरेन्द्र ।
यद्यन्तरिक्षे प्रथितो महात्मन् क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये ॥
ययातिरुवाच ।
यदन्तरिक्षं पृथिवी दिशश्च यत्तेजसा तपते भानुमांश्च ।
लोकास्तावन्तो दिवि संस्थिता वै तेनान्तवन्तः प्रतिपालयन्ति ॥
वसुमानुवाच ।
तांस्ते ददानि मा प्रपत प्रपातं ये मे लोकास्तव ते वै भवन्तु ।
क्रीणीष्वैतांस्तृणकेनापि राज- न्प्रतिग्रहस्ते यदि धीमन्प्रदुष्टः ॥
ययातिरुवाच ।
न मिथ्याऽहं विक्रयं वै स्मरामि वृथा गृहीतं शिशुकाच्छङ्कमानः ।
कुर्यां न चैवाकृतपूर्वमन्यै- र्विधित्समानः किमु तत्र साधुः ॥
वसुमानुवाच ।
तांस्त्वं लोकान्प्रतिपद्यस्व राज- न्मया दत्तान्यदि नेष्टः क्रयस्ते ।
अहं न तान्वै प्रतिगन्ता नरेन्द्र सर्वे लोकास्तव ते वै भवन्तु ॥
शिबिरुवाच ।
पृच्छामि त्वां शिबिरौशीनरोऽहं ममापि लोका यदि सन्तीह तात ।
यद्यन्तरिक्षे यदि वा दिवि श्रिताः क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये ॥
ययातिरुवाच ।
यत्त्वं वाचा हृदयेनापि साधू- न्परीप्समानान्नावमंस्था नरेन्द्र ।
तेनानन्ता दिवि लोकाः श्रितास्ते विद्युद्रूपाः स्वनवन्तो महान्तः ॥
शिबिरुवाच ।
तांस्त्वं लोकान्प्रतिपद्यस्व राज- न्मया दत्तान्यदि नेष्टः क्रयस्ते ।
न चाहं तान्प्रतिपत्स्ये ह दत्त्वा यत्र गत्वा नानुशोचन्ति धीराः ॥
ययातिरुवाच ।
यथा त्वमिन्द्रप्रतिमप्रभाव- स्ते चाप्यनन्ता नरदेव लोकाः ।
तथाऽद्य लोके न रमेऽन्यदत्ते तस्माच्छिबे नाभिनन्दामि दायम् ॥
अष्टक उवाच ।
न चेदेकैकशो राजँल्लोकान्नः प्रतिनन्दसि ।
सर्वे प्रदाय भवते गन्तारो नरकं वयम् ॥
ययातिरुवाच ।
यदर्होऽहं तद्यतध्वं सन्तः सत्याभिनन्दिनः ।
अहं तन्नाभिजानामि यत्कृतं न मया पुरा ॥
अष्टक उवाच ।
कस्यैते प्रतिदृश्यन्ते रथाः पञ्च हिरण्मयाः ।
यानारुह्य नरो लोकानभिवाञ्छति शाश्वतान् ॥
ययातिरुवाच ।
युष्मानेते वहिष्यन्ति रथाः पञ्च हिरण्मयाः ।
उच्चैः सन्तः प्रकाशन्ते ज्वलन्तोऽग्निशिखा इव ॥
`वैशंपायन उवाच ।
अश्वमेधे महायज्ञे स्वयंभुविहिते पुरा ।
हयस्य यानि चाङ्गानि संनिकृत्य यथाक्रमम् ॥
होताऽध्वर्युरथोद्गाता ब्रह्मणा सह भारत ।
अग्नौ प्रास्यन्ति विधिवत्समस्ताः षोडशर्त्विजः ॥
धूमगन्धं च पापिष्ठा ये जिघ्रन्ति नरा भुवि ।
विमुक्तपापाः पूतास्ते तत्क्षणेनाभवन्नराः ॥
एतस्मिन्नन्तरे चैव माधवी सा तपोधना ।
मृगचर्मपरीताङ्गी परिधाय मृगत्वचम् ॥
मृगैः परिचरन्ती सा मृगाहारविचेष्टिता ।
यज्ञवाटं मृगगणैः प्रविश्य भृशविस्मिता ॥
आघ्रायन्ती धूमगन्धं मृगैरेव चचार सा ।
यज्ञवाटमटन्ती सा पुत्रांस्तानपराजितान् ॥
पश्यन्ती यज्ञमाहात्म्यं मुदं लेभे च माधवी ।
असंस्पृशन्तं वसुधां ययातिं नाहुषं यदा ॥
दिविष्ठं प्राप्तमाज्ञाय ववन्दे पितरं तदा ।
तदा वसुमनापृच्छन्मातरं वै तपस्विनीम् ॥
भवत्या यत्कृतमिदं वन्दनं पादयोरिह ।
कोयं देवोपमो राजा याऽभिवन्दसि मे वद ॥
माधव्युवाच ।
शृणुध्वं सहिताः पुत्रा नाहुषोयं पिता मम ।
ययातिर्मम पुत्राणां मातामह इति स्मृतः ॥
पूरुं मे भ्रातरं राज्ये समावेश्य दिवं गतः ।
केन वा कारणेनैवमिह प्राप्तो महायशाः ॥
वैशंपायन उवाच ।
तस्यास्तद्वचनं श्रुत्वा स्वर्गाद्भ्रष्टेति चाब्रवीत् ।
सा पुत्रस्य वचः श्रुत्वा संभ्रमाविष्टचेतना ॥
माधवी पितरं प्राह दौहित्रपरिवारितम् ।
तपसा निर्जिताँल्लोकान्प्रतिगृह्णीष्व मामकान् ॥
पुत्राणामिव पौत्राणां धर्मादधिगतं धनम् । स्वार्थणेव वदन्तीह ऋषयो धर्मपाठकाः ।
तस्माद्दानेन तपसा चास्माकं दिवमाव्रज ॥
ययातिरुवाच ।
यदि धर्मफलं ह्येतच्छोभनं भविता तव ।
दुहित्रा चैव दौहित्रैस्तारितोऽहं महात्मभिः ॥
तस्मात्पवित्रं दौहित्रमद्यप्रभृति पैतृके ।
त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस्तिलाः ॥
त्रीणि चात्र प्रशंसन्ति शौचमक्रोधमत्वराम् ।
भोक्तारः परिवेष्टारः श्रावितारः पवित्रकाः ॥
दिवसस्याष्टमे भागे मन्दीभवति भास्करे ।
स कालः कुतपो नाम पितॄणां दत्तमक्षयम् ॥
तिलाः पिशाचाद्रक्षन्ति दर्भा रक्षन्ति राक्षसात् ।
रक्षन्ति श्रोत्रियाः पङ्क्तिं यतिभिर्भुक्तमक्षयम् ॥
लब्ध्वा पात्रं तु विद्वांसं श्रोत्रियं सुव्रतं शुचिम् ।
स कालः कालतो दत्तं नान्यथा काल इष्यते ॥
वैशंपायन उवाच ।
एवमुक्त्वा ययातिस्तु पुनः प्रोवाच बुद्धिमान् । सर्वे ह्यवभृथस्नातास्त्वरध्वं कार्यगौरवात् ॥'
अष्टक उवाच ।
आतिष्ठ स्वरथं राजन्विक्रमस्व विहायसम् ।
वयमप्यनुयास्यामो यदा कालो भविष्यति ॥
ययातिरुवाच ।
सर्वैरिदानीं गन्तव्यं सह स्वर्गजितो वयम् ।
एष नो विरजाः पन्था दृश्यते देवसद्मनः ॥
वैशंपायन उवाच ।
`अष्टकश्च शिबिश्चैव काशेयश्च प्रतर्दनः । ऐक्ष्वाकवो वसुमनाश्चत्वारो भूमिपास्तदा ।
सर्वे ह्यवभृथस्नाताः स्वर्गताः साधवः सह ॥'
तेऽधिरुह्य रथान्सर्वे प्रयाता नृपस्तमाः ।
आक्रमन्तो दिवं भाभिर्धर्मेणावृत्य रोदसी ॥
अष्टक उवाच ।
अहं मन्ये पूर्वमेकोऽस्मि गन्ता सखा चेन्द्रः सर्वथा मे महात्मा ।
कस्मादेवं शिबिरौशीनरोऽय- मेकोऽत्यगात्सर्ववेगेन वाहान् ॥
ययातिरुवाच ।
अददद्याचमानाय यावद्वित्तमविन्दत ।
उशीनरस्य पुत्रोऽयं तस्माच्छ्रेष्ठोहि वः शिबिः ॥
दानं तपः संत्यमथाऽपि धर्मो ह्रीः श्रीः क्षमा सौम्यमथो विधित्सा ।
राजन्नेतान्यप्रमेयाणि राज्ञः शिबेः स्थितान्यप्रतिमस्य बुद्ध्या ॥
एवं वृत्तो ह्रीनिषेवश्च यस्मा- त्तस्माच्छिबिरत्यगाद्वै रथेन ।
वैशंपायन उवाच ।
अथाष्टकः पुनरेवान्वपृच्छ- न्मातामहं कौतुकेनेन्द्रकल्पम् ॥
पृच्छामि त्वां नृपते ब्रूहि सत्यं कुतश्च कश्चासि सुतश्च कस्य ।
कृतं त्वया यद्धि न तस्य कर्ता लोके त्वदन्यः क्षत्रियो ब्राह्मणो वा ॥
ययातिरुवाच ।
ययातिरस्मि नहुषस्य पुत्रः पूरोः पिता सार्वबौमस्त्विहासम् ।
गुह्यं चार्थं मामकेभ्यो ब्रवीमि मातामहोऽहं भवतां प्रकाशम् ॥
सर्वामिमां पृथिवीं निर्जिगाय दत्त्वा प्रतस्थे विपिनं ब्राह्मणेभ्यः ।
मेध्यानश्वानेकशतान्सुरूपां- स्तदा देवाः पुण्यभाजो भवन्ति ॥
अदामहं पृथिवीं ब्राह्मणेभ्यः पूर्णामिमामखिलां वाहनेन ।
गोभिः सुवर्णेन धनैश्च मुख्यै- स्तदाऽददं गाः शथमर्बुदानि ॥
सत्येन मे द्यौश्च वसुन्धरा च तथैवाग्निज्वर्लते मानुषेषु ।
न मे वृथा व्याहृतमेव वाक्यं सत्यं हि सन्तः प्रतिपूजयन्ति ॥
यदष्टक प्रब्रवीमीह सत्यं प्रतर्दनं चौषदश्विं तथैव ।
सर्वे च लोका मुनयश्च देवाः सत्येन पूज्या इति मे मनोगतम् ॥
यो नः स्वर्गजितः सर्वान्यथावृत्तं निवेदयेत् ।
अनसूयुर्द्विजाग्र्येभ्यः स लभेन्नः सलोकताम् ॥
वैशंपायन उवाच ।
एवं राजा स महात्मा ह्यतीव स्वैर्दौहित्रैस्तारितोऽमित्रसाह ।
त्यक्त्वा महीं परमोदारकर्मा स्वर्गं गतः कर्मभिर्व्याप्य पृथ्वीम् ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि सप्ताशीतितमोऽध्यायः ॥ 87 ॥

1-87-2 यत् यत् तपते प्रकाशयति ॥ 1-87-4 शिशुकात् शैशवमारभ्य ॥ 1-87-7 परीप्समानान् याचकान् । नावमंस्था नावमानं कृतवानसि । स्वनवन्तः संगीतादिध्वनियुक्ताः ॥ 1-87-10 गन्तारो मृत्वा प्राप्स्यामः । नरकं भूलोकम् ॥ 1-87-11 यतध्वं कर्तुम् । नाभिजानामि नाङ्गीकरोमि ॥ 1-87-13 प्रकाशन्ते दृश्यन्ते । ज्वलन्तो दीप्यमानाः ॥ 1-87-14 अकृतहोमसमाप्तीनामवभृथायोगात् होमोपि समापित इत्याह । अश्वमेध इति । पुरा स्वयंभुविहिते कर्तव्यतया विहिते अश्वमेधे अष्टकादिभिः क्रियमाणे ॥ 1-87-41 सौम्यमक्रूरत्वम् । विधित्सा पालनेच्छा ॥ 1-87-42 सत्यमेव श्रेयःसाधनमिति विधातुं पूर्वोक्तप्रश्नोत्तरे अनुवदति । अथाष्टक इत्यादिना ॥ 1-87-44 प्रकाशं प्रागुक्तमपि स्पष्टतरम् ॥ 1-87-45 एवं कृते सति पुण्यभाजः सन्तः देवा भवन्ति ॥ सप्ताशीतितमोऽध्यायः ॥ 87 ॥

अध्यायः 088

पूरुवंशकथनम् ॥ 1 ॥

जनमेजय उवाच ।
पुत्रं ययातेः प्रबूहि पूरुं धर्मभृतां वरम् ।
आनुपूर्व्येण ये चान्ये पूरोर्वंशविवर्धनाः ॥
विस्तरेण पुनर्ब्रूहि दौष्यन्तेर्जनमेजयात् ।
संबभूव यथा राजा भरतो द्विजसत्तम ॥
वैशंपायन उवाच ।
पूरुर्नृपतिशार्दूलो यथैवास्य पिता नृप ।
धर्मनित्यः स्थितो राज्ये शक्रतुल्यपराक्रमः ॥
प्रवीरेश्वररौद्राश्वास्त्रयः पुत्रा महारथाः ।
पूरोः पौष्ट्यामजायन्त प्रवीरो वंशकृत्ततः ॥
मनस्युरभवत्तस्माच्छूरसेनीसुतः प्रभुः ।
पृथिव्याश्चतुरन्ताया गोप्ता राजीवलोचनः ॥
शक्तः संहननो वाग्मी सौवीरीतनयास्त्रयः ।
मनस्योरभवन्पुत्राः शूराः सर्वे महारथाः ॥
अन्वग्भानुप्रभृतयो मिश्रकेश्यां मनस्विनः ।
रौद्राश्वस्य महेष्वासा दशाप्सरसि सूनवः ॥
यज्वानो जज्ञिरे शूराः प्रजावन्तो बहुश्रुताः ।
सर्वे सर्वास्त्रविद्वासः सर्वे धर्मपरायणाः ॥
ऋचेयुरथ कक्षेयुः कृकणेयुश्च वीर्यवान् ।
स्थण्डिलेयुर्वनेयुश्च जलेयुश्च महायशाः ॥
तेजेयुर्बलावान्धीमान्सत्येयुश्चन्द्रविक्रमः ।
धर्मेयुः सन्नतेयुश्च दशमो देवविक्रमः ॥
अनाधृष्टिरभूत्तेषां विद्वान्भुवि तथैकराट् ।
ऋचेयुरथ विक्रान्तो देवानामिव वासवः ॥
अनाधृष्टिसुतस्त्वासीद्राजसूयाश्वमेधकृत् ।
मतिनार इति ख्यातो राजा परमधार्मिकः ॥
मतिनारसुता राजंश्चत्वारोऽमितविक्रमाः ।
तंसुर्महानतिरथो द्रुह्युश्चाप्रतिमद्युतिः ॥
तेषां तंसुर्महावीर्यः पौरवं वंशमुद्वहन् ।
आजहार यशो दीप्तं जिगाय च वसुंधराम् ॥
ईलिनं तु सुतं तंसुर्जनयामास वीर्यवान् ।
सोऽपि कृत्स्नामिमां भूमिं विजिग्ये जयतां वरः ॥
रथन्तर्यां सुतान्पञ्च पञ्चभूतोपमांस्ततः ।
ईलिनो जनयामास दुष्यन्तप्रभृतीन्नृपान् ॥
दुष्यन्तं शूरभीमौ च प्रवसुं वसुमेव च ।
तेषां श्रेष्ठोऽभवद्राजा दुष्यन्तो दुर्जयो युधि ॥
दुष्यन्ताल्लक्षणायां तु जज्ञे वै जनमेजयः ।
शकुन्तलायां भरतो दौष्यन्तिरभवत्सुतः ॥
तस्माद्भरतवंशस्य विप्रतस्थे महद्यशः ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि अष्टाशीतितमोऽध्यायः ॥ 88 ॥

अध्यायः 089

शकुन्तलोपाख्यानारम्भः ॥ 1 ॥

जनमेजय उवाच ।
भगवन्विस्तरेणेह भरतस्य महात्मनः ।
जन्म कर्म च सुश्रूषोस्तन्मे शंसितुमर्हसि ॥
वैशंपायन उवाच ।
पौरवाणां वंशकरो दुष्यन्तो नाम वीर्यवान् ।
पृथिव्याश्चतुरन्ताया गोप्ता भरतसत्तम ॥
चतुर्भागं भुवः कृत्स्नं यो भुङ्क्ते मनुजेश्वरः ।
समुद्रावरणांश्चापि देशान्स समितिंजयः ॥
आम्लेच्छावधिकान्सर्वान्स भुङ्क्ते रिपुमर्दनः ।
रत्नाकरसमुद्रान्तांश्चातुर्वर्ण्यजनावृतान् ॥
न वर्णसङ्करकरो न कृष्याकरकृज्जनः ।
न पापकृत्कश्चिदासीत्तस्मिन्राजनि शासति ॥
धर्मे रतिं सेवमाना धर्मार्थावभिपेदिरे ।
तदा नरा नरव्याघ्र तस्मिञ्जनपदेश्वरे ॥
नासीच्चोरभयं तात न क्षुधाभयमण्वपि ।
नासीद्व्याधिभयं चापि तस्मिञ्जनपदेश्वरे ॥
स्वधर्मै रेमिरे वर्णा दैवे कर्मणि निःस्पृहाः ।
तमाश्रित्य महीपालमासंश्चैवाकुतोभयाः ॥
कालवर्षी च पर्जन्यः सस्यानि रसवन्ति च ।
सर्वरत्नसमृद्धा च मही पशुमती तथा ॥
स्वकर्मनिरता विप्रा नानृतं तेषु विद्यते ।
स चाद्भुतमहावीर्यो वज्रसंहननो युवा ॥
उद्यम्य मन्दरं दोर्भ्यां वहेत्सवनकाननम् ।
चतुष्पथगदायुद्धे सर्वप्रहरणेषु च ॥
नागपृष्ठेऽश्वपृष्ठे च बभूव परिनिष्ठतः ।
बले विष्णुसमश्चासीत्तेजसा भास्करोपमः ॥
अक्षोभ्यत्वेऽर्णवसमः सहिष्णुत्वे धरासमः ।
संमतः स महीपालः प्रसन्नपुरराष्ट्रवान् ॥
भूयो धर्मपरैर्भावैर्मुदितं जनमादिशत् ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि एकोननवतितमोऽध्यायः ॥ 89 ॥

1-89-5 न कृष्याकरकृत् कृषिकृन्न भुवोऽकृष्टपच्यत्वात् । आकरः सुवर्णादिधातूत्पत्तिस्थानं तत्रापि यत्नं न करोति पृथिव्या रत्नैर्धातुभिश्च पूर्णत्वात् ॥ 1-89-8 दैवे कर्मणि वृष्ट्याद्यर्थे कारीर्यादिकाम्यकर्मणि ॥ 1-89-9 तदेवाह कालेति ॥ 1-89-10 वज्रसंहननो दृढदेहः ॥ 1-89-11 सवनकाननं वनं जलमुपवनं वा ॥ 1-89-14 आदिशत् शशास ॥ एकोननवतितमोऽध्यायः ॥ 89 ॥

अध्यायः 090

मृगयार्थं दुष्यन्तस्यारण्यगमनम् ॥ 1 ॥

जनमेजय उवाच ।
संभवं भरतस्याहं चरितं च महामतेः ।
शकुन्तलायाश्चोत्पत्तिं श्रोतुमिच्छामि तत्त्वतः ॥
दुष्यन्तेन च वीरेण यथा प्राप्ता शकुन्तला ।
तं वै पुरुषसिंहस्य भगवन्विस्तरं त्वहम् ॥
श्रोतुमिच्छामि तत्त्वज्ञ सर्वं मतिमतां वर ।
वैशंपायन उवाच ।
स कदाचिन्महाबाहुः प्रभूतबलवाहनः ॥
वनं जगाम गहनं हयनागशतैर्वृतः ।
बलेन चतुरङ्गेण वृतः परमवल्गुना ॥
खड्गशक्तिधरैर्वीरैर्गदामुसलपाणिभिः ।
प्रासतोमरहस्तैश्च ययौ योधशतैर्वृतः ॥
सिंहनादैश्च योधानां शङ्खदुनदुभिनिःस्वनैः ।
रथनेमिस्वनैश्चैव सनागवरबृंहितैः ॥
नानायुधधरैश्चापि नानावेषधरैस्तथा ।
ह्रेषितस्वनमिश्रैश्च क्ष्वेडितास्फोटितस्वनैः ॥
आसीत्किलकिलाशब्दस्तस्मिन्गच्छति पार्थिवे ।
प्रासादवरशृङ्गस्थाः परया नृपशोभया ॥
ददृशुस्तं स्त्रियस्तत्र शूरमात्मयशस्करम् ।
शक्रोपमममित्रघ्नं परवारणवारणम् ॥
पश्यन्तः स्त्रीगणास्तत्र वज्रपाणिं स्म मेनिरे ।
अयं स पुरुषव्याघ्रो रणे वसुपराक्रमः ॥
यस्य बाहुबलं प्राप्य न भवन्त्यसुहृद्गणाः ।
इति वाचो ब्रुवन्त्यस्ताः स्त्रियः प्रेम्णा नराधिपं ॥
तुष्टुवुः पुष्पवृष्टीश्च ससृजुस्तस्य मूर्धनि ।
तत्रतत्र च विप्रेन्द्रैः स्तूयमानः समन्ततः ॥
निर्ययौ परमप्रीत्या वनं मृगजिघांसया ।
तं देवराजप्रतिमं मत्तवारणधूर्गतम् ॥
द्विजक्षत्रियविट्शूद्रा निर्यान्तमनुजग्मिरे ।
ददृशुर्वर्धमानास्ते आशीर्भिश्च जयेन च ॥
सुदूरमनुजग्मुस्तं पौरजानपदास्तथा ।
न्यवर्तन्त ततः पश्चादनुज्ञाता नृपेण ह ॥
सुपर्णप्रतिमेनाथ रथेन वसुधाधिपः ।
महीमापूरयामास घोषेण त्रिदिवं तथा ॥
स गच्छन्ददृशे धीमान्नन्दनप्रतिमं वनम् ।
बिल्वार्कखदिराकीर्णं कपित्थधवसंकुलम् ॥
विषमं पर्वतस्रस्तै रश्मभिश्च समावृतम् ।
निर्जलं निर्मनुष्यं च बहुयोजनमायतम् ॥
मृगसिंहैर्वृतं घोरैरन्यैश्चापि वनेचरैः ।
तद्वनं मनुजव्याघ्रः सभृत्यबलवाहनः ॥
लोडयामास दुष्यन्तः सूदयन्विविधान्मृगान् ।
बाणगोचरसंप्राप्तांस्तत्र व्याघ्रगणान्बहून् ॥
पातयामास दुष्यन्तो निर्बिभेद च सायकैः ।
दूरस्थान्सायकैः कांश्चिदभिनत्स नराधिपः ॥
अभ्याशमागतांश्चान्यान्खड्गेन निरकृन्तत ।
कांश्चिदेणान्समाजघ्ने शक्त्या शक्तिमतां वरः ॥
गदामण्डलतत्त्वज्ञश्चचारामितविक्रमः ।
तोमरैरसिभिश्चापि गदामुसलकम्पनैः ॥
चचार स विनिघ्नन्वै वन्यांस्तत्र मृगद्विजान् ।
राज्ञा चाद्भुतवीर्येण योधैश्च समरप्रियैः ॥
लोड्यमानं महारण्यं तत्यजुः स्म मृगाधिपाः ।
तत्र विद्रुतयूथानि हतयूथपतीनि च ॥
मृगयूथान्यथौत्सुक्याच्छब्दं चक्रुस्ततस्ततः ।
शुष्काश्चापि नदीर्गत्वा जलनैराश्यकर्शिताः ॥
व्यायामक्लान्तहृदयाः पतन्ति स्म विचेतसः ।
क्षुत्पिपासापरीताश्च श्रान्ताश्च पतिता भुवि ॥
केचित्तत्र नरव्याघ्रैरभक्ष्यन्त बुभुक्षितैः ।
केचिदग्निमथोत्पाद्य संसाध्य च वनेचराः ॥
भक्षयन्ति स्म मांसानि प्रकुट्य विधिवत्तदा ।
तत्र केचिद्गजा मत्ता बलिनः शस्त्रविक्षताः ॥
संकोच्याग्रकरान्भीताः प्राद्रवन्ति स्म वेगिताः ।
शकृन्मूत्रं सृजन्तश्च क्षरन्तः शोणितं बहु ॥
वन्या गजवरास्तत्र ममृदुर्मनुजान्बहून् । तद्वनं बलमेघेन शरधारेण संवृतम् ।
व्यरोचत मृगाकीर्णं राज्ञा हतमृगाधिपम् ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि नवतितमोऽध्यायः ॥ 90 ॥

1-90-9 परवारणवारणं शत्रगजानां निवारकम् ॥ 1-90-13 धर्गतं स्कन्धारूढम् ॥ 1-90-28 संसाध्य पाकादिना संस्कृत्य ॥ 1-90-29 प्रकुट्य चूर्णीकृत्य । गजा वनगजाः ॥ नवतितमोऽध्यायः ॥ 90 ॥

अध्यायः 091

मृगयाप्रसङ्गेन दुष्यन्तस्य कण्वाश्रमगमनम् ॥ 1 ॥

वैशंपायन उवाच ।
ततो मृगसहस्राणि हत्वा सबलवाहनः ।
तत्र मेघघनप्रख्यं सिद्धचारणसेवितम् ॥
वनमालोकयामास नगराद्योजनद्वये ।
मृगाननुचरन्वन्याञ्श्रमेण परिपीडितः ॥
मृगाननुचरन्राजा वेगेनाश्वानचोदयत् ।
राजा मृगप्रसङ्गेन वनमन्यद्विवेश ह ॥
एक एवोत्तमबलः क्षुत्पिपासाश्रमान्वितः ।
स वनस्यान्तमासाद्य महच्छून्यं समासदत् ॥
तच्चाप्यतीत्य नृपतिरुत्तमाश्रमसंयुतम् ।
मनःप्रह्लादजननं दृष्टिकान्तमतीव च ॥
सीतमारुतसंयुक्तं जगामान्यन्महद्वनम् ।
पुष्पितैः पादपैः कीर्णमतीव सुखशाद्वलम् ॥
विपुलं मधुरारावैर्नादितं विहगैस्तथा ।
पुंस्कोकिलनिनादैश्च झिल्लीकगणनादितम् ॥
प्रवृद्धविटपैर्वृक्षैः सुखच्छायैः समावृतम् ।
षट्पदाघूर्णिततलं लक्ष्म्या परमया युतम् ॥
नापुष्पः पादपः कश्चिन्नाफलो नापि कण्टकी ।
षट्पदैर्नाप्यपाकीर्णस्तस्मिन्वै काननेऽभवत् ॥
विगहैर्नादितं पुष्पैरलङ्कृतमतीव च ।
सर्वर्तुकुसुमैर्वृक्षैः सुखच्छायैः समावृतम् ॥
मनोरमं सहेष्वासो विवेश वनमुत्तमम् ।
मारुता कलितास्तत्र द्रुमाः कुसुमशाखिनः ॥
पुष्पवृष्टिं विचित्रां तु व्यसजंस्ते पुनः पुनः ।
दिवस्पृशोऽथ संघुष्टाः पक्षिभिर्मधुरस्वनैः ॥
विरेजुः पादपास्तत्र विचित्रकुसुमाम्बराः ।
तेषां तत्र प्रवालेषु पुष्पभारावनामिषु ॥
रुवन्ति रावान्मधुरान्षट्पदा मधुलिप्सवः ।
तत्र प्रदेशांश्च बहून्कुसुमोत्करमण्डितान् ॥
लतागृहपरिक्षिप्तान्मनसः प्रीतिवर्धनान् ।
संपश्यन्सुमहातेजा बभूव मुदितस्तदा ॥
परस्पराश्लिष्टशाखैः पादपैः कुसुमान्वितैः ।
अशोभत वनं तत्तु महेन्द्रध्वजसन्निभैः ॥
सिद्धचारणसङ्घैश्च गन्धर्वाप्सरसां गणैः ।
सेवितं वनमत्यर्थं मत्तवानरकिन्नरैः ॥
सुखः शीतः सुगन्धी च पुष्परेणुवहोऽनिलः ।
परिक्रामन्वने वृक्षानुपैतीव रिरंसया ॥
एवंगुणसमायुक्तं ददर्श स वनं नृपः ।
नदीकच्छोद्भं कान्तमुच्छ्रितध्वजसन्निभम् ॥
प्रेक्षमाणो वनं तत्तु सुप्रहृष्टविहङ्गमम् ।
आश्रमप्रवरं रम्यं ददर्श च मनोरमम् ॥
नानावृक्षसमाकीर्णं संप्रज्वलितपावकम् ।
तं तदाऽप्रतिमं श्रीमानाश्रमं प्रत्यपूजयत् ॥
यतिभिर्वालखिल्यैश्च वृतं मुनिगणान्वितम् ।
अग्न्यगारैश्च बहुभिः पुष्पसंस्तरसंस्तृतम् ॥
महाकच्छैर्बृहद्भिश्च विभ्राजितमतीव च ।
मालिनीमभितो राजन्नदीं पुण्यां सुखोदकाम् ॥
नैकपक्षिगणाकीर्णां तपोवनमनोरमाम् ।
तत्रव्यालमृगान्सैम्यान्पश्यन्प्रीतिमवाप सः ॥
तं चाप्रतिरथः श्रीमानाश्रमं प्रत्यपद्यत ।
देवलोकप्रतीकाशं सर्वतः सुमनोहरम् ॥
नदीं चाश्रमसंश्लिष्टां पुण्यतोयां ददर्श सः ।
सर्वप्राणभृतां तत्र जननीमिव धिष्ठिताम् ॥
सचक्रवाकपुलिनां पुष्पफेनप्रवाहिनीम् ।
सकिन्नरगणावासां वारनर्क्षनिषेविताम् ॥
पुण्यस्वाध्यायसंघुष्टा पुलिनैरुपशोभिताम् ।
मत्तवारणशार्दूलभुजगेन्द्रनिषेविताम् ॥
तस्यास्तीरे भगवतः काश्यपस्य महात्मनः ।
आश्रमप्रवरं रम्यं महर्षिगणसेवितम् ॥
नदीमाश्रमसंबद्धां दृष्ट्वाश्रमपदं तथा ।
चकाराभिप्रवेशाय मतिं स नृपतिस्तदा ॥
अलङ्कृतं द्वीपवत्या मालिन्या रम्यतीरया ।
नरनारायणस्थानं गङ्गयेवोपशोभितम् ॥
मत्तबर्हिणसंघुष्टं प्रविवेश महद्वनम् ।
तत्स चैत्ररथप्रख्यं समुपेत्य नरर्षभः ॥
अतीव गुणसंपन्नमनिर्देश्यं च वर्चसा ।
महर्षिं काश्यपं द्रष्टुमथ कण्वं तपोधनम् ॥
ध्वजिनीमश्वसंबाधां पदातिगजसङ्कुलाम् ।
अवस्थाप्य वनद्वारि सेनामिदमुवाच सः ॥
मुनिं विरजसं द्रष्टुं गमिष्यामि तपोधनम् ।
काश्यपं स्थीयतामत्र यावदागमनं मम ॥
तद्वनं नन्दनप्रख्यमासाद्य मनुजेश्वरः ॥
क्षुत्पिपासे जहौ राजा मुदं चावाप पुष्कलाम् ॥
सामात्यो राजलिङ्गानि सोपनीय नराधिपः ।
पुरोहितसहायश्च जगामाश्रममुत्तमम् ॥
दिदृक्षुस्तत्र तमृषिं तपोराशिमथाव्ययम् । ब्रह्मलोकप्रतीकाशमाश्रमं सोऽभिवीक्ष्य ह ।
षट्पदोद्गीतसंघुष्टं नानाद्विजगणायुतम् ॥
विस्मयोत्फुल्लनयनो राजा प्रीतो बभूवह । ऋचो बह्वृचमुख्यैश्च प्रेर्यमाणाः पदक्रमैः ।
शुश्राव मनुजव्याघ्रो विततेष्विह कर्मसु ॥
यज्ञविद्याङ्गविद्भिश्च यजुर्विद्भिश्च शोभितम् ।
मधुरैः सामगीतैश्च ऋषिभिर्नियतव्रतैः ॥
भारुण्डसामगीताभिरथर्वशिरसोद्गतैः ।
यतात्मभिः सुनियतैः शुशुभे स तदाश्रमः ॥
अथर्ववेदप्रवराः पूगयज्ञियसामगाः ।
संहितामीरयन्ति स्म पदक्रमयुतां तु ते ॥
शब्दसंस्कारसंयुक्तर्ब्रुवद्भिश्चापरैर्द्विजैः ।
नादितः स बभौ श्रीमान्ब्रह्मलोक इवापरः ॥
यज्ञसंस्तरविद्भिश्च क्रमशिक्षाविशारदैः ।
न्यायतत्त्वात्मविज्ञानसंपन्नैर्वेदपारगैः ॥
नानावाक्यसमाहारसमवायविशारदैः ।
विशेषकार्यविद्भिश्च मोक्षधर्मपरायणैः ॥
स्तापनाक्षेपसिद्धान्तपरमार्थज्ञतां गतैः ।
शब्दच्छन्दोनिरुक्तज्ञैः कालज्ञानविशारदैः ॥
द्रव्यकर्मगुणज्ञैश्च कार्यकारणवेदिभिः ।
पक्षिवानररुतज्ञैश्च व्यासग्रन्थसमाश्रितैः ॥
नानाशास्त्रेषु मुख्यैश्च शुश्राव स्वनमीरितम् ।
लोकायतिकमुख्यैश्च समन्तादनुनादितम् ॥
तत्रतत्र च विप्रेन्द्रान्नियतान्संशितव्रतान् ।
जपहोमपरान्विप्रान्ददर्श परवीरहा ॥
आसनानि विचित्राणि रुचिराणि महीपतिः ।
प्रयत्नोपहितानि स्म दृष्ट्वा विस्मयमागमत् ॥
देवतायतनानां च प्रेक्ष्य पूजां कृतां द्विजैः ।
ब्रह्मलोकस्थमात्मानं मेने स नृपसत्तमः ॥
स काश्यपतपोगुप्तमाश्रमप्रवरं शुभम् ।
नातृप्यत्प्रेक्षमाणो वै तपोवनगुणैर्युतम् ॥
स काश्यपस्यायतनं महाव्रतै- र्वृतं समान्तादृषिभिस्तपोधनैः ।
विवेश सामात्यपुरोहितोऽरिहा विविक्तमत्यर्थमनोहरं शुभम् ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि एकनवतितमोऽध्यायः ॥ 91 ॥

1-91-4 शून्यं वृक्षादिरहितमूषरम् ॥ 1-91-18 रिरंसया रमयितुमिच्छया ॥ 1-91-19 नदीकच्छोद्भवं कच्छः सजलोऽनूपप्रदेशः ॥ 1-91-29 काश्यपस्य कश्यपगोत्रस्य कण्वस्य ॥ 1-91-39 विततेषु वैतानिकेषु इष्टिपशुसोमादिषु प्रवर्तमानेषु ॥ 1-91-40 यज्ञविद्यायामङ्गभूतानि कल्पसूत्रादीनि ॥ 1-91-41 भारुण्डसामानि पूगयज्ञियसामानि च साम्नामवान्तरभेदाः ॥ 1-91-46 स्थापनं प्रथमं स्वसिद्धान्तव्यवस्था ततस्तत्र शङ्काऽऽक्षेपः तस्याः परिहारः सिद्धान्तस्तैर्या परमार्थज्ञता तां गतैः ॥ 1-91-48 लोके एव आयतन्ते ते लोकायतिकाः तेषु लोकरञ्जनपरेषु मुख्यैः ॥ एकनवतितमोऽध्यायः ॥ 91 ॥

अध्यायः 092

कण्वाश्रमे दुष्यन्तशकुन्तलासंवादः ॥ 1 ॥ शकुन्तलायाः स्वजन्मवृत्तान्तकथनारम्भः ॥ 2 ॥

वैशंपायन उवाच ।
ततो गच्छन्महाबाहुरेकोऽमात्यान्विसृज्य तान् ।
नापश्यच्चाश्रमे तस्मिंस्तमृषिं संशितव्रतम् ॥
सोऽपश्यमानस्तमृषिं शून्यं दृष्ट्वा तथाऽऽश्रमम् ।
उवाच क इहेत्युच्चैर्वनं सन्नादयन्निव ॥
श्रुत्वाऽथ तस्य तं शब्दं कन्या श्रीरिव रूपिणी ।
निश्चक्रामाश्रमात्तस्मात्तापसीवेषधारिणी ॥
सा तं दृष्ट्वैव राजानं दुष्यन्तमसितेक्षणा ।
`सुप्रीताऽभ्यागतं तं तु पूज्यं प्राप्तमथेश्वरम् ॥
रूपयौवनसंपन्ना शीलाचारवती शुभा ।
सा तमायतपद्माक्षं व्यूढोरस्कं महाभुजम् ॥
सिंहस्कन्धं दीर्घबाहुं सर्वलक्षणपूजितम् । स्पृष्टं मधुरया वाचा साऽब्रवीज्जनमेजया ॥'
स्वागतं त इति क्षिप्रमुवाच प्रतिपूज्य च ।
आसनेनार्चयित्वा च पाद्येनार्घ्येण चैव हि ॥
पप्रच्छानामयं राजन्कुशलं च नराधिपम् ।
यथावदर्चयित्वाऽथ पृष्ट्वा चानामयं तदा ॥
उवाच स्मयमानेव किं कार्यं क्रियतामिति ।
`आश्रमस्याभिगमने किं त्वं कार्यं चिकीर्षसि ॥
कस्त्वमद्येह संप्राप्तो महर्षेराश्रमं शुभम् ।' तामब्रवीत्ततो राजा कन्यां मधुरभाषिणीम् ॥
दृष्ट्वा सर्वानवद्याङ्गीं यथावत्प्रतिपूजितः ।
`राजर्षेस्तस्य पुत्रोऽहमिलिनस्य महात्मनः ॥
दुष्यन्त इति मे नाम सत्यं पुष्करलोचने ।' आगतोऽहं महाभागमृषिं कण्वमुपासितुम् ॥
क्व गतो भगवान्भद्रे गन्ममाचक्ष्व शोभने ।
शकुन्तलोवाच ।
गतः पिता मे भगवान्फलान्याहर्तुमाश्रमात् ।
मुहूर्तं संप्रतीक्षस्व द्रष्टास्येनमुपागतम् ॥
वैशंपायन उवाच ।
अपश्यमानस्तमृषिं तथा चोक्तस्तया च सः ।
तां दृष्ट्वा च वरारोहां श्रीमतीं चारुहासिनीम् ॥
विभ्राजमानां वपुषा तपसा च दमेन च ।
रूपयौवनसंपन्नामित्युवाच महीपतिः ॥
का त्वं कस्यासि सुश्रोणि किमर्थं चागता वनम् ।
एवंरूपगुणोपेता कुतस्त्वमसि शोभने ॥
दर्शनादेव हि शुभे त्वया मेऽपहृतं मनः ।
इच्छामि त्वामहं ज्ञातुं तन्ममाचक्ष्व शोभने ॥
`स्थितोस्म्यमितसौभाग्ये विवक्षुश्चास्मि किंचन ।
शृणु मे नागनासोरु वचनं मत्तकाशिनि ॥
राजर्षेरन्वये जातः पूरोरस्मि विशेषतः ।
वृण्वे त्वामद्य सुश्रोणि दुष्यन्तो वरवर्णिनि ॥
न मेऽन्यत्र क्षत्रियाया मनो जातु प्रवर्तते ।
ऋषिपुत्रीषु चान्यासु नावरासु परासु च ॥
तस्मात्प्रणिहितात्मानं विद्दि मां कलभाषिणि ।
यस्यां मे त्वयि भावोऽस्ति क्षत्रिया ह्यसि का वदा ॥
न हि मे भीरु विप्रायां मनः प्रसहते गतिम् । भजे त्वामायतापाङ्गे भक्तं भजितुमर्हसि ।
भुङ्क्ष राज्यं विशालाक्षि बुद्धिं मात्वन्यथा कृथाः' ॥
एवमुक्ता तु सा कन्या तेन राज्ञा तमाश्रमे ।
उवाच हसती वाक्यमिदं सुमधुराक्षरम् ॥
कण्वस्याहं भगवतो दुष्यन्त दुहिता मता ।
तपस्विनो धृतिमतो धर्मज्ञस्य महात्मनः ॥
`अस्वतन्त्रास्मि राजेन्द्र काश्यपो मे गुरुः पिता । तमेव प्रार्थय स्वार्थं नायुक्तं कर्तुमर्हसि ॥'
दुष्यन्त उवाच ।
ऊर्ध्वरेता महाभागे भगवाँल्लोकपूजितः ।
चलेद्धि वृत्ताद्धर्मोपि न चलेत्संशितव्रतः ॥
कथं त्वं तस्य दुहिता संभूता वरवर्णिनी ।
संशयो मे महानत्र तन्मे छेत्तुमिहार्हसि ॥
शकुन्तलोवाच ।
यथाऽयमागमो मह्यं यथा चेदमभूत्पुरा ।
`अन्यथा सन्तमात्मानमन्यथा सत्सु भाषते ॥
स पापेनावृतो मूर्खस्तेन आत्मापहारकः ।' शृणु राजन्यथातत्त्वं यथाऽस्मि दुहिता मुनेः ॥
ऋषिः कश्चिदिहागम्य मम जन्माभ्यचोदयत् ।
`ऊर्ध्वरेता यथासि त्वं कुतस्त्वेयं शकुन्तला ॥
पुत्री त्वत्तः कथं जाता तत्त्वं मे ब्रूहि काश्यप ।' तस्मै प्रोवाच भगवान्यथा तच्छृणु पार्थिवा ॥
कण्व उवाच ।
तप्यमानः किल पुरा विश्वामित्रो महत्तपः ।
सुभृशं तापयामास शक्रं सुरगणेश्वरम् ॥
तपसा दीप्तवीर्योऽयं स्थानान्मां च्यावयेदिति ।
भीतः पुरन्दरस्तस्मान्मेनकामिदमब्रवीत् ॥
गुणैरप्सरसां दिव्यैर्मेनके त्वं विशिष्यसे ।
श्रेयो मे कुरु कल्याणि यत्त्वां वक्ष्यामि तच्छृणु ॥
असावादित्यशङ्काशो विश्वामित्रो महातपाः ।
तप्यमानस्तपो घोरं मम कम्पयते मनः ॥
मेनके तव भारोऽयं विश्वामित्रः सुमध्यमे ।
शंसितात्मा सुदुर्धर्ष उग्रे तपसि वर्तते ॥
स मां न च्यावयेत्स्थानात्तं वै गत्वा प्रलोभय ।
चर तस्य तपोविघ्नं कुरु मे प्रियमुत्तमम् ॥
रूपयौवनमाधुर्यचेष्टितस्मितभाषणैः ।
लोभयित्वा वरारोहे तपसस्तं निवर्तय ॥
मेनकोवाच ।
महातेजाः स भगवांस्तथैव च महातपाः ।
कोपनश्च तथा ह्येनं जानाति भगवानपि ॥
तेजस्तपसश्चैव कोपस्य च महात्मनः ।
त्वमप्युद्विजसे यस्य नोद्विजेयमहं कथम् ॥
महाभागं वसिष्ठं यः पुत्रैरिष्टैर्व्ययोजयत् ।
क्षत्रजातश्च यः पूर्वमभवद्ब्राह्मणो बलात् ॥
शौचार्थं यो नदीं चक्रे दुर्गमां बहुभिर्जलैः ।
यां तां पुण्यतमां लोके कौशिकीति विदुर्जनाः ॥
बभार यत्रास्य पुरा काले दुर्गे महात्मनः ।
दारान्मतङ्गो धर्मात्मा राजर्षिर्व्याधतां गतः ॥
अतीतकाले दुर्भिक्षे अभ्येत्य पुनराक्षमम् ।
मुनिः पारेति नद्या वै नाम चक्रे तदा प्रभुः ॥
मतङ्गं याजयाञ्चक्रे यत्र प्रीतमनाः स्वयम् ।
त्वं च सोमं भयाद्यस्य गतः पातुं सुरेश्वर ॥
चकारान्यं च लोकं वै क्रुद्धो नक्षत्रसंपदा । प्रतिश्रवणपूर्वाणि नक्षत्राणि चकार यः ।
गुरुशापहतस्यापि त्रिशङ्कोः शरणं ददौ ॥
ब्रह्मर्षिशापं राजर्षिः कथं मोक्ष्यति कौशिकः ।
अवमत्य तदा देवैर्यज्ञाङ्गं तद्विनाशितम् ॥
अन्यानि च महातेजा यज्ञाङ्गान्यसृजत्प्रभुः ।
निनाय च तदा स्वर्गं त्रिशङ्कुं स महातपाः ॥
एतानि यस्य कर्माणि तस्याहं भृशमुद्विजे ।
यथाऽसौ न दहेत्क्रुद्धस्तथाऽऽज्ञापय मां विभो ॥
तेजसा निर्दहेल्लोकान्कम्पयेद्धरणीं पदा ।
संक्षिपेच्च महामेरुं तूर्णमावर्तयेद्दिशः ॥
तादृशं तपसा युक्तं प्रदीप्तमिव पावकम् ।
कथमस्मद्विधा नारी जितेन्द्रियमभिस्पृशेत् ॥
हुताशनमुखं दीप्तं सूर्यचन्द्राक्षितारकम् ।
कालजिह्वं सुरश्रेष्ठ कथमस्मद्विधा स्पृशेत् ॥
यमश्च सोमश्च महर्षयश्च साध्या विश्वे वालस्विल्याश्च सर्वे ।
एतेऽपि यस्योद्विजन्ते प्रभावा- त्तस्मात्कस्मान्मादृशी नोद्विजेत ॥
त्वयैवमुक्ता च कथं समीप- मृषेर्न गच्छेयमहं सुरेन्द्र ।
रक्षां च मे चिन्तय देवराज यथा त्वदर्थं रक्षिताऽहं चरेयम् ॥
कामं तु मे मारुतस्तत्र वासः प्रक्रीडिताया विवृणोतु देव ।
भवेच्च मे मन्मथस्तत्र कार्ये सहायभूतस्तु तव प्रसादात् ॥
वनाच्च वायुः सुरभिः प्रवाया- त्तस्मिन्काले तमृषिं लोभयन्त्याः ।
तथेत्युक्त्वा विहिते चैव तस्मिं- स्ततो ययौ साऽऽश्रमं कौशिकस्य ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि द्विनवतितमोऽध्यायः ॥ 92 ॥

1-92-23 हसती हसन्ती ॥ 1-92-30 अभ्यचोदयत् पृष्टवान् ॥ 1-92-43 बभार पोषितवान् । मतङ्गस्त्रिशङ्कुः ॥ 1-92-44 आश्रममभ्येत्य तपस्तप्त्वेति शेषः । नद्याः कौशिक्याः ॥ 1-92-49 तस्य तस्मात् ॥ 1-92-50 आवर्तयेदेकीकुर्यात् ॥ 1-92-52 सूर्यचन्द्रावेवाक्ष्णोः संबन्धिनी तारके यस्य तावपि भ्रूभङ्गमात्रेण स्रष्टुं समर्थ इत्यर्थः ॥ 1-92-55 प्रक्रीडितायाः प्रकृष्टं क्रीडितं यस्याः । विवृणोतु अपसारयतु ॥ द्विनवतितमोऽध्यायः ॥ 92 ॥

अध्यायः 093

विश्वामित्रान्मेनकायां शकुन्तलाया जन्मकथनम् ॥ 1 ॥

कण्व उवाच ।
एवमुक्तस्तया शक्रः संदिदेश सदागतिम् ।
प्रातिष्ठत तदा काले मेनका वायुना सह ॥
अथापश्यद्वरारोहा तपसा दग्धकिल्बिषम् ।
मिश्वामित्रं तप्यमानं मेनका भीरुराश्रमे ॥
अभिवाद्य ततः सा तं प्राक्रीडदृषिसन्निधौ ।
अपोवाह च वासोऽस्या मारुतः शशिसंनिभम् ॥
सागच्छत्त्वरिता भूमिं वासस्तदभिलिप्सती ।
कुत्सयन्तीव सव्रीडं मारुतं वरवर्णिनी ॥
पश्यतस्तस्य राजर्षेरप्यग्निसमतेजसः ।
विश्वामित्रस्ततस्तां तु विषमस्थामनिन्दिताम् ॥
गृद्धां वाससि संभ्रान्तां मेनकां मुनिसत्तमः ।
अनिर्देश्यवयोरूपामपश्यद्विवृतां तदा ॥
तस्या रूपगुणान्दृष्ट्वा स तु विप्रर्षभस्तदा ।
चकार भावं संसर्गे तया कामवशं गतः ॥
न्यमन्त्रयत चाप्येनां सा चाप्यैच्छदनिन्दिता ।
तौ तत्र सुचिरं कालमुभौ व्यवहरतां तदा ॥
रममाणौ यथाकामं यतैकदिवसं तथा ।
`एवं वर्षसहस्राणामतीतं नान्वचिन्तयत् ॥
कामक्रोधावजितवान्मुनिर्नित्यं समाहितः ।
चिरार्जितस्य तपसः क्षयं स कृतवान्मुनिः ॥
तपसः संक्षयादेव मुनिर्मोहं समाविशत् ।
मोहाभिभूतः क्रोधात्मा ग्रसन्मूलफलान्मुनिः ॥
पादैर्जलरवं कृत्वा अन्तर्द्वीपे कुटीं गतः ।
मेनका गन्तुकामा तु शुश्राव जलनिस्वनम् ॥
तपसा दीप्तवीर्योऽसावाकाशादेति याति च ।
अद्य संज्ञां विजानामि ययाऽद्य तपसः क्षयः ॥
गन्तुं न युक्तमित्युक्त्वा ऋतुस्नाताथ मेनका । कामरागाभिभूतस्य मुनेः पार्स्वं जगाम ह ॥'
जनयामास स मुनिर्मेनकायां शकुन्तलाम् ।
प्रस्थे हिमवतो रम्ये मालिनीमभितो नदीम् ॥
`देवगर्भोपमां बालां सर्वाभरणभूषिताम् ।
शयानां शयने रम्ये मेनका वाक्यमब्रवीत् ॥
महर्षेरुग्रतपसस्तेजस्त्वमसि भामिनि । तस्मात्स्वर्गं गमिष्यामि देवकार्यार्थमागता ॥'
जातमुत्सृज्य तं गर्भं मेनका मालिनीमनु ।
कृतकार्या ततस्तूर्णमगच्छच्छक्रसंसदम् ॥
तं वने विजने गर्भं सिंहव्याघ्रसमाकुले । दृष्ट्वा शयानं शकुनाः समन्तात्पर्यवारयन् ।
नेमां हिंस्युर्वने बालां क्रव्यादा मांसगृद्धिनः ॥
पर्यरक्षन्त तां तत्र शकुन्ता मेनकात्मजाम् ।
उपस्प्रष्टुं गतश्चाहमपश्यं शयितामिमाम् ॥
निर्जने विपिने रम्ये शकुन्तैः परिवारिताम् । `मां दृष्ट्वैवाभ्यपद्यन्त पादयोः पतिता द्विजाः ।
अब्रुञ्शकुनाः सर्वे कलं मधुरभाषिणः ॥
विश्वामित्रसुतां ब्रह्मन्न्यासभूतां भरस्व वै ।
कामक्रोधावजितवान्सखा ते कौशिकीं गतः ॥
तस्मात्पोषय तत्पुत्रीं दयावानिति तेऽब्रुवन् । सर्वभूतरुतज्ञोऽहं दयावान्सर्वजन्तुषु ॥'
आनयित्वा ततश्चैनां दुहितृत्वे न्यवेशयम् ॥
शरीरकृत्प्राणदाता यस्य चान्नानि भुञ्जते ।
क्रमेणैते त्रयोऽप्युक्ताः पितरो धर्मशासने ॥
निर्जने तु वने यस्माच्छकुन्तैः परिवारिता ।
शकुन्तलेति नामास्याः कृतं चापि ततो मया ॥
एवं दुहितरं विद्धि मम विप्र शकुन्तलाम् ।
शकुन्तला च पितरं मन्यते मामनिन्दिता ॥
शकुन्तलोवाच ।
एतदाचष्ट पृष्टः सन्मम जन्म महर्षये ।
सुतां कण्वस्य मामेवं विद्धि त्वं मनुजाधिप ॥
कण्वं हि पितरं मन्ये पितरं स्वमजानती ।
इति ते कथितं राजन्यथावृत्तं श्रुतं मया ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि त्रिनवतितमोऽध्यायः ॥ 93 ॥

1-93-1 सदागतिम् वायुम् ॥ 1-93-6 गृद्धां सक्ताम् । विवृतामनाच्छादिताम् ॥ 1-93-8 न्यमन्त्रयत एहीत्याकारितवान् । व्यहरतां विहारं चक्रतुः ॥ 1-93-20 उपस्प्रष्टुं आचमनादिकं कर्तुम् ॥ 1-93-25 शरीरकृन्निषेक्ता । प्राणदाताऽभयप्रदः ॥ त्रिनवतितमोऽध्यायः ॥ 93 ॥

अध्यायः 094

समयबन्धपूर्वकं गान्धर्वेण विवाहेन शकुन्तलापाणिग्रहणम् ॥ 1 ॥ कण्वस्य स्वाश्रमं प्रति प्रत्यागमनम् ॥ 2 ॥ कण्वशकुन्तलासंवादः ॥ 3 ॥ कण्वाच्छकुन्तलाया वरलाभः ॥ 4 ॥

दुष्यन्त उवाच ।
सुव्यक्तं राजपुत्री त्वं यथा कल्याणि भाषसे ।
भार्या मे भव सुश्रोणि ब्रूहि किं करवाणि ते ॥
सुवर्णमालां वासांसि कुण्डले परिहाटके ।
नानापत्तनजे शुभ्रे मणिरत्ने च शोभने ॥
आहरामि तवाद्याहं निष्कादीन्यजिनानि च ।
सर्वं राज्यं तवाद्यास्तु भार्या मे भव शोभने ॥
गान्धर्वेण च मां भीरु विवाहेनैहि सुन्दरि ।
विवाहानां हि रम्भोरु गान्धर्वः श्रेष्ठ उच्यते ॥
शकुन्तलोवाच ।
फलाहारो गतो राजन्पिता मे इत आश्रमात् ।
मुहूर्तं संप्रतीक्षस्व स मां तुभ्यं प्रदास्यति ॥
`पिता हि मे प्रभुर्नित्यं दैवतं परमं मम ।
यस्मै मां दास्यति पिता स मे भर्ता भविष्यति ॥
पिता रक्षति कौमारे भर्ता रक्षति यौवने ।
पुत्रस्तु स्थाविरे भावे न स्त्री स्वातन्त्र्यमर्हति ॥
समन्यमाना राजेन्द्र पितरं मे तपस्विनम् ।
अधर्मेण हि धर्मिष्ठ कथं वरमुपास्महे ॥
दुष्यन्त उवाच ।
मामैवं वद कल्याणि तपोराशिं दमात्मकम् ।
शकुन्तलोवाच ।
मन्युप्रहरणा विप्रा न विप्राः शस्त्रपाणयः ॥
मन्युना घ्नन्ति ते शत्रून्वज्रेणेन्द्र इवासुरान् ।
अग्निर्दहति तेजोभिः सूर्यो दहति रश्मिभिः ॥
राजा दहति दण्डेन ब्राह्मणो मन्युना दहेत् ।
क्रोधिता मन्युना घ्नन्ति वज्रपाणिरिवासुरान् ॥
दुष्यन्त उवाच ।
जाने भद्रे महर्षिं तं तस्य मन्युर्न विद्यते ।' इच्छामि त्वां वरारोहे भजमानामनिन्दिते ।
त्वदर्थं मां स्थितं विद्धि त्वद्गतं हि मनो मम ॥
आत्मनो बन्धुरात्मैव गतिरात्मैव चात्मनः ।
आत्मनैवात्मनो दानं कर्तुमर्हसि धर्मतः ॥
अष्टावेव समासेन विवाहा धर्मतः स्मृताः ।
ब्राह्मो दैवस्तथैवार्षः प्राजापत्यस्तथाऽऽसुरः ॥
गान्धर्वो राक्षसश्चैव पैशाचश्चाष्टमः स्मृतः ।
तेषां धर्म्यान्यथापूर्वं मनुः स्वायंभुवोऽब्रवीत् ॥
प्रशस्तांश्चतुरः पूर्वान्ब्राह्मणस्योपधारय ।
षडानुपूर्व्या क्षत्रस्य विद्धि धर्म्याननिन्दिते ॥
राज्ञां तु राक्षसोऽप्युक्तो विट्शूद्रेष्वासुरः स्मृतः ।
पञ्चानां तु त्रयो धर्म्या अधर्म्यौ द्वौ स्मृताविह ॥
पैशाच आसुरश्चैव न कर्तव्यौ कदाचन ।
अनेन विधिना कार्यो धर्मस्यैषा गतिः स्मृता ॥
गान्धर्वराक्षसौ क्षत्रे धर्म्यौ तौ मा विशङ्किथाः ।
पृथग्वा यदि वा मिश्रौ कर्तव्यौ नात्र संशयः ॥
सा त्वं मम सकामस्य सकामा वरवर्णिनी ।
गान्धर्वेण विवाहेन भार्या भवितुमर्हसि ॥
शकुन्तलोवाच ।
यदि धर्मपथस्त्वेव यदि चात्मा प्रभुर्मम ।
प्रदाने पौरवश्रेष्ठ शृणु मे समयं प्रभो ॥
सत्यं मे प्रतिजानीहि यथा वक्ष्याम्यहं रहः ।
मयि जायेत यः पुत्रः स भवेत्त्वदनन्तरः ॥
युवराजो महाराज सत्यमेतद्ब्रवीमि ते ।
यद्येतदेवं दुष्यन्त अस्तु मे सङ्गमस्त्वया ॥
वैशंपायन उवाच ।
`तस्यास्तु सर्वं संश्रुत्य यथोक्तं स विशांपतिः ।
दुष्यन्तः पुनरेवाह यद्यदिच्छसि तद्वद ॥
शकुन्तलोवाच ।
ख्यातो लोकप्रवादोयं विवाह इति शास्त्रतः ।
वैवाहिकीं क्रियां सन्तः प्रशंसन्ति प्रजाहिताम् ॥
लोकप्रवादशान्त्यर्थं विवाहं विधिना कुरु ।
सन्त्यत्र यज्ञपात्राणि दर्भाः सुमनसोऽक्षताः ॥
यथा युक्तो विवाहः स्यात्तथा युक्ता प्रजा भवेत् ।
तस्मादाज्यं हविर्लाजाः सिकता ब्राह्मणास्तव ॥
वैवाहिकानि चान्यानि समस्तानीह पार्थिव ।
दुरुक्तमपि राजेन्द्र क्षन्तव्यं धर्मकारणात् ॥
वैशंपायन उवाच ।'
एवमस्त्विति तां राजा प्रत्युवाचाविचारयन् ।
अपि च त्वां हि नेष्यामि नगरं स्वं शुचिस्मिते ॥
यथा त्वमर्हा सुश्रोणि मन्यसे तद्ब्रवीमि ते ।
एवमुक्त्वा स राजर्षिस्तामनिन्दितगामिनीम् ॥
`पुरोहितं समाहूय वचनं युक्तमब्रवीत् ।
राजपुत्र्या यदुक्तं वै न वृथा कर्तुमुत्सहे ॥
क्रियाहीनो हि न भवेन्मम पुत्रो महाद्युतिः ।
तथा कुरुष्व शास्त्रोक्तं विवाहं मा चिरंकुरु ॥
एवमुक्तो नृपतिना द्विजः परमयन्त्रितः ।
शोभनं राजराजेति विधिना कृतवान्द्विजः ॥
शासनाद्विप्रमुख्यस्य कृतकौतुकमङ्गलः ।' जग्राह विधिवत्पाणावुवास च तया सह ॥
विश्वास्य चैनां स प्रायादब्रवीच्च पुनः पुनः ।
प्रेषयिष्ये तवार्थाय वाहिनीं चतुरङ्गिणीम् ॥
`त्रैविद्यवृद्धैः सहितां नानाराजजनैः सह ।
शिबिकासहस्रैः सहिता वयमायान्ति बान्धवाः ॥
मूकाश्चैव किराताश्च कुब्जा वामनकैः सह ।
सहिताः कञ्चुकिवरैर्वाहिनी सूतमागधैः ॥
शङ्खदुन्दुभिनिर्घोषैर्वनं च समुपैष्यति ।
तथा त्वामानयिष्यामि नगरं स्वं शुचिस्मिते ॥
अन्यथा त्वां न नेष्यामि स्वनिवेशमसत्कृताम् ।
सर्वमङ्गलसत्कारैः सुभ्रु सत्यं करोमि ते ॥
वैशंपायन उवाच ।
एवमुक्त्वा स राजर्षिस्तामनिन्दितगामिनीम् ।
परिष्वज्य च बाहुभ्यां स्मितपूर्वमुदैक्षत ॥
प्रदक्षिणीकृतां देवीं पुनस्तां परिषस्वजे ।
शकुन्तला सा सुमुखी पपात नृपपादयोः ॥
तां देवीं पुनरुत्थाप्य मा शुचेति पुनः पुनः । शपेयं सुकृतेनैव प्रापयिष्ये नृपात्मजे ॥'
इति तस्याः प्रतिश्रुत्य स नृपो जनमेजय ।
मनसा चिन्तयन्प्रायात्काश्यपं प्रति पार्थिव ॥
भगवांस्तपसा युक्तः श्रुत्वा किं नु करिष्यति । तं न प्रसाद्यागतोऽहं प्रसीदेति द्विजोत्तमम् ।
एवं संचिन्तयन्नेव प्रविवेश स्वकं पुरम् ॥
ततो मुहूर्ते याते तु कण्वोऽप्याश्रममागमत् ।
शकुन्तला च पितरं ह्रिया नोपजगाम तम् ॥
`शङ्कितेव च विप्रर्षिमुपचक्राम सा शनैः ।
ततोऽस्य भारं जग्राह आसनं चाप्यकल्पयत् ॥
प्राक्षालयच्च सा पादौ काश्यपस्य महात्मनः ।
न चैनं लज्जयाऽशक्नोदक्षिभ्यामभिवीक्षितुम् ॥
शकुन्तला च सव्रीडा तमृषिं नाभ्यभाषत ।
तस्मात्स्वधर्मात्स्खलिता भीता सा भरतर्षभ ॥
अभवद्दोषदर्शित्वाद्ब्रह्मचारिण्ययन्त्रिता ।
स तदा व्रीडितां दृष्ट्वा ऋषिस्तां प्रत्यभाषत ॥
कण्व उवाच ।
सव्रीडैव च दीर्घायुः पुरेव भविता न च ।
वृत्तं कथय रम्भोरु मा त्रासं च प्रकल्पय ॥
वैशंपायन उवाच ।
ततः प्रक्षाल्य पादौ सा विश्रान्तं पुनरब्रवीत् ।
निधाय कामं तस्यर्षेः कन्दानि च फलानि च ॥
ततः संवाह्य पादौ सा विश्रान्तं वेदिमध्यमा ।
शकुन्तला पौरवाणां दुष्यन्तं जग्मुषी पतिम् ॥
ततः कृच्छ्रादतिशुभा सव्रीडा श्रमती तदा ।
सगद्गदमुवाचेदं काश्यपं सा शुचिस्मिता ॥
शकुन्तलोवाच ।
राजा ताताजगामेह दुष्यन्त इलिलात्मजः ।
मया पतिर्वृतो योऽसौ दैवयोगादिहागतः ॥
तस्य तात प्रसीद त्वं भर्ता मे सुमहायशाः ।
अतः सर्वं तु यद्वृत्तं दिव्यज्ञानेन पश्यसि ॥
अभयं क्षत्रियकुले प्रसादं कर्तुमर्हसि ।
वैशंपायन उवाच ।
चक्षुषा स तु दिव्येन सर्वं विज्ञाय काश्यपः ॥
ततो धर्मिष्ठतां मत्वा धर्मे चास्खलितं मनः ।
उवाच भगवान्प्रीतस्तद्वृत्तं सुमहातपाः ॥
कण्व उवाच ।
एवमेतन्मया ज्ञातं दृष्टं दिव्येन चक्षुषा ।
त्वयाऽद्य राजान्वयया मामनादृत्य यत्कृतम्' ॥
पुंसा सह समायोगो न स धर्मोपघातकः ।
न भयं विद्यते भद्रे मा शुचः सुकृतं कृतम् ॥
क्षत्रियस्य तु गान्धर्वो विवाहः श्रेष्ठ उच्यते ।
सकामायाः सकामेन निमन्त्रः श्रेष्ठ उच्यते ॥
`किं पुनर्विधिवत्कृत्वा सुप्रजस्त्वमवाप्स्यसि ।' धर्मात्मा च महात्मा च दुष्यन्तः पुरुषोत्तमः ॥
अभ्यागच्छत्पतिर्यस्त्वां भजमानां शकुन्तले ।
महात्मा जनिता लोके पुत्रस्तव महायशाः ॥
स च सर्वां समुद्रान्तां कृत्स्नां भोक्ष्यति मेदिनीम् ।
परं चाभिप्रयातस्य चक्रं तस्य महात्मनः ॥
भविष्यत्यप्रतिहतं सततं चक्रवर्तिनः ।
प्रसन्न एव तस्याहं त्वकृते वरवर्णिनि ॥
ऋतवो बहवस्ते वै गता व्यर्थाः शुचिस्मिते । सार्थकं सांप्रतं ह्येतन्न च पाप्मास्ति तेऽनघे ।
गृहाण च वरं मत्तस्तत्कृते यदभीप्सितम् ॥
शकुन्तलोवाच ।
मया पतिर्वृतो योऽसौ दुष्यन्तः पुरुषोत्तमः । मम चैव पतिर्दृष्टो देवतानां समक्षतः ।
तस्मै ससचिवाय त्वं प्रसादं कर्तुमर्हसि ॥
वैशंपायन उवाच ।
इत्येवमुक्त्वा मनसा प्रणिधाय मनस्विनी ।
ततो धर्मिष्ठतां वव्रे राज्ये चास्खलनं तथा ॥
शकुन्तलां पौरवाणां दुष्यन्तहितकाम्यया ।
`एवमस्त्विति तां प्राह कण्वो धर्मभृतां वरः ॥
पस्पर्श चापि पाणिभ्यां सुतां श्रीमिवरूपिणीम् ॥
कण्व उवाच ।
अद्यप्रभृति देवी त्वं दुष्यन्तस्य महात्मनः ।
पतिव्रतानां या वृत्तिस्तां वृत्तिमनुपालय ॥
वैशंपायन उवाच ।
इत्येवमुक्त्वा धर्मात्मा तां विशुद्ध्यर्थमस्पृशत् । स्पृष्टमात्रे शरीरे तु परं हर्षमवाप सा ॥' ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि चतुर्नवतितमोऽध्यायः ॥ 94 ॥

1-94-4 गान्धर्वो वरवध्वोरैकमत्येन कृतः ॥ 1-94-5 फलाहारः फळन्याहर्तुं गतः ॥ 1-94-17 पञ्चानां ब्राह्मादीनां त्रयो ब्राह्मदैवप्राजापत्या धर्म्याः । द्वावर्षासुरो कन्याशुल्कग्रहणादधर्म्यौ ॥ 1-94-18 तयोरप्यासुरः पैशाचवदत्यन्तं हेय इत्याह । पैशाच इति ॥ 1-94-19 परिशेषाद्गन्धर्वराक्षसौ क्षत्रियस्य धर्म्यावित्याह गान्धर्वेति ॥ 1-94-42 शपेयं शपथं कुर्याम् ॥ चतुर्नवतितमोऽध्यायः ॥ 94 ॥

अध्यायः 095

शकुन्तलायाः पुत्रोत्पत्तिः ॥ 1 ॥ तस्य सर्वदमनेतिनामप्राप्तिः ॥ 2 ॥

वैशंपायन उवाच ।
प्रतिज्ञाय च दुष्यन्ते प्रतियाते दिने दिने । `गर्भश्च ववृधे तस्यां राजपुत्र्यां महात्मनः ॥'
शकुन्तला चिन्तयन्ती राजानं कार्यगौरवात् ।
दिवारात्रमनिद्रैव स्नानभोजनवर्जिता ॥
राजप्रेषणिका विप्राश्चतुरङ्गबलान्विताः ।
अद्य श्वो वा परश्वो वा समायान्तीति निस्चिता ॥
दिनान्पक्षानृतून्मासानयनानि च सर्वशः ।
गण्यमानानि वर्षाणि व्यतीयुस्त्रीणि भारत ॥
त्रिषु वर्षेषु पूर्णेषु ऋषेर्वचनगौरवात् ।
ऋषिपत्न्यः सुबहुशो हेतुमद्वाक्यमब्रुवन् ॥
ऋषिपत्न्य ऊचुः ।
शृणु भद्रे लोकवृत्तं श्रुत्वा यद्रोचते तव ।
तत्कुरुष्व हितं देवि नावमान्यं गुरोर्वचः ॥
देवानां दैवतं विष्णुर्विप्राणामग्निर्ब्रह्म च ।
नारीणां दैवतं भर्ता लोकानां ब्राह्मणो गुरुः ॥
सूतिकाले प्रसूष्वेति भगवांस्ते पिताऽब्रवीत् ।
करिष्यामीति कर्तव्यं तदा ते सुकृतं भवेत् ॥
वैशंपायन उवाच ।
पत्नीनां वचनं श्रुत्वा साधु साध्वित्यचिन्तयत् ।' गर्भं सुषाव वामोरूः कुमारममितौजसम् ॥
त्रिषु वर्षेषु पूर्णेषु प्राजायत शकुन्तला ।
रूपौदार्यगुणोपेतं दौष्यन्तिं जनमेजय ॥
`जाते' तस्मिन्नन्तरिक्षात्पुष्पवृष्टिः पपात ह ।
देवदुन्दुभयो नेदुर्ननृतुश्चाप्सरोगणाः ॥
गायद्भिर्मधुरं तत्र देवैः शक्रोऽभ्युवाच ह ।
शकुन्तले तव सुतश्चक्रवर्ती भविष्यति ॥
बलं तेजश्च रूपं च न समं भुवि केनचित् ।
आहर्ता वाजिमेधस्य शतसङ्ख्यस्य पौरवः ॥
अनेकारपि साहस्रै राजसूयादिभिर्मखैः ।
स्वार्थं ब्राह्मणसात्कृत्वा दक्षिणाममितां ददत् ॥
देवतानां वचः श्रुत्वा कण्वाश्रमनिवासिनः ।
सभाजयन्तः कण्वस्य सुतां सर्वे महर्षयः ॥
शकुन्तला च तच्छ्रुत्वा परं हर्षमवाप सा । द्विजानाहूय मुनिभिः सत्कृत्य च महायशाः ।'
जातकर्मादिसंस्कारं कण्वः पुण्यवतां वरः ।
तस्याथ कारयामास वर्धमानस्य चासकृत् ॥
यथाविधि यथान्यायं क्रियाः सर्वास्त्वकारयत् ।
दन्तैः शुक्लैः शिखरिभिःसिंहसंहननोऽभवत् ॥
चक्राङ्कितकरः श्रीमान्स्वयं विष्णुरिवापरः । `चतुष्किष्कुर्महातेजा महामूर्धा महाबलः ॥'
कुमारो देवगर्भाभः स तत्राशु व्यवर्धत ।
`ऋषेर्भयात्तु दुष्यन्तः स्मरन्नैवाह्वयत्तदा ॥
गते काले तु महति न सस्मार तपोधनाम् ।' षड्वर्षेषु ततो बालः कण्वाश्रमपदं प्रति ॥
व्याघ्रान्सिंहान्वराहांश्च वृकांश्च महिषांस्तथा ।
`ऋक्षांश्चाभ्यहनद्व्यालान्पद्भ्यामाश्रमपीडकान् ॥
बलाद्भुजाभ्यां संगृह्य बलवान्संनियम्य च ।' बद्ध्वा वृक्षेषु दौष्यन्तिराश्रमस्य समन्ततः ॥
आरुरोह द्रुमांश्चैव क्रीडन्स्म परिधावति ।
`वनं च लोडयामास सिंहव्याघ्रगणैर्वृतम् ॥
ततश्च राक्षसान्सर्वान्पिशाचांश्च रिपून्रणे ।
मुष्टियुद्धेन तान्हत्वा ऋषीनाराधयत्तदा ॥
कश्चिद्दितिसुतस्तं तु हन्तुकामो महाबलः ।
वध्यमानांस्तु दैतेयानमर्षी तं समभ्ययात् ॥
तमागतं प्रहस्यैव बाहुभ्यां परिगृह्य च ।
दृढं चाबध्य बाहुभ्यां पीडयामास तं तदा ॥
मर्दितो न शशाकास्मान्मोचितुं बलवत्तया ।
प्राक्रोशद्भैरवं तत्र द्वारेभ्यो निःसृतं त्वसृक् ॥
तेन शब्देन वित्रस्ता मृगाः सिंहादयो गणाः ।
सुस्रुवुश्च शकृन्मूत्रमाश्रमस्थाश्च सुस्रुवुः ॥
निरसुं जानुभिः कृत्वा विससर्ज च सोऽपतत् ।
तद्दृष्ट्वा विस्मयं जग्मुः कुमारस्य विचेष्टितम् ॥
नित्यकालं वध्यमाना दैतेया राक्षसैः सह । कुमारस्य भयादेव नैव जग्मुस्तदाश्रमम् ॥'
ततोऽस्य नाम चक्रुस्ते कण्वाश्रमनिवासिनः ।
कण्वेन सहिताः सर्वे दृष्ट्वा कर्मातिमानुषम् ॥
अस्त्वयं सर्वदमनः सर्वं हि दमयत्यसौ ।
स सर्वदमनो नाम कुमारः समपद्यत ॥
विक्रमेणौजसा चैव बलेन च समन्वितः ।
`अप्रेषयति दुष्यन्ते महिष्यास्तनयस्य च ॥
पाण्डुभावपरीताङ्गीं चिन्तया समभिप्लुताम् ।
लम्बालकां कृशां दीनां तथा मलिनवाससम् ॥
`शकुन्तलां च संप्रेक्ष्य प्रदध्यौ स मुनिस्तदा ।
शास्त्राणि सर्ववेदाश्च द्वादशाब्दस्य चाभवन्' ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि पञ्चनवतितमोऽध्यायः ॥ 95 ॥

अध्यायः 096

शकुन्तलाया दुष्यन्तं प्रति प्रेषयितुं कण्वकृत उपदेशः ॥ 1 ॥ हास्तिनपुरगमनविषयेकण्वशकुन्तलासर्वदमनानां विवादः ॥ 2 ॥ कण्वेन स्वशिष्यद्वारा शकुन्तलासर्वदमनयोर्हास्तिनपुरप्रेषणम् ॥ 3 ॥ पुरप्रवेशान्निर्विण्णैः शिष्यैः कण्वाश्रमं प्रति निवर्तनम् ॥ 4 ॥

वैशंपायन उवाच ।
तं कुमारमृषिर्दृष्ट्वा कर्म चास्यातिमानुषम् ।
समयो यौवराज्याय इत्यनुध्याय स द्विजः ॥
`शकुन्तलां समाहूय कण्वो वचनमब्रवीत् ।
कण्व उवाच ।
शृणु भद्रे मम सुते मम वाक्यं शुचिस्मिते ॥
पतिव्रतानां नारीणां विशिष्टमिति चोच्यते ।
पतिशुश्रूषणं पूर्वं मनोवाक्कायचेष्टितैः ॥
अनुज्ञाता मया पूर्वं पूजयैतद्व्रतं तव ।
एतेनैव च वृत्तेन पुण्याँल्लोकानवाप्य च ॥
तस्यान्ते मानुषे लोके विशिष्टां तप्स्यसे श्रियम् ।
तस्माद्भद्रेऽद्य यातव्यं समीपं पौरवस्य ह ॥
स्वयं नायाति मत्वा ते गतं कालं शुचिस्मिते ।
गत्वाऽऽराधय राजानं दुष्यन्तं हितकाम्यया ॥
दौष्यन्तिं यौवराज्यस्थं दृष्ट्वा प्रीतिमवाप्स्यसि ।
देवतानां गुरूणां च क्षत्रियाणां च भामिनि ॥
भर्तॄणां च विशेषेम हितं संगमनं भवेत् ।
तस्मात्पुत्रि कुमारेण गन्तव्यं मत्प्रियेप्सया ॥
प्रतिवाक्यं न दद्यास्त्वं शपिता मम पादयोः ॥
वैशंपायन उवाच ।
एवमुक्त्वा सुतां तत्र पौत्रं कण्वोऽभ्यभाषत ।
परिष्वज्य च बाहुभ्यां मूर्ध्न्युपाघ्राय पौरवम् ॥
सोमवंशोद्भवो राजा दुष्यन्त इति विश्रुतः ।
तस्याग्रमहिषी चैषा तव माता शुचिव्रता ॥
गन्तुकामा भर्तृपार्श्वं त्वया सह सुमध्यमा ।
गत्वाऽभिवाद्य राजनं यौवराज्यमवाप्स्यसि ॥
स पिता तव राजेन्द्रस्तस्य त्वं वशगो भव ।
पितृपैतामहं राज्यमातिष्ठस्व स्वभावतः ॥
तस्मिन्काले स्वराज्यस्थो मामनुस्मर पौरव ॥
वैशंपायन उवाच ।
अभिवाद्य मुनेः पादौ पौरवो वाक्यमब्रवीत् ।
त्वं पिता मम विप्रर्षे त्वं माता त्वं गतिश्च मे ॥
न चान्यं पितरं मन्ये त्वामृते तु महातपः ।
तव शुश्रूषणं पुण्यमिह लोके परत्र च ॥
शकुन्तला भर्तृकामा स्वयं यातु यथेष्टतः ।
अहं सुश्रूषणपरः पादमूले वसामि वः ॥
क्रीडां व्यालमृगैः सार्धं करिष्ये न पुरा यथा ।
त्वच्छासनपरो नित्यं स्वाध्यायं च करोम्यहम् ॥
एवमुक्त्वा तु संश्लिष्य पादौ कण्वस्य तिष्ठतः ।
तस्य तद्वचनं श्रुत्वा प्ररुरोद शकुन्तला ॥
स्नेहात्पितुश्च पुत्रस्य हर्षशोकसमन्विता ।
निशाम्य रुदतीमार्तां दौष्यन्तिर्वाक्यमब्रवीत् ॥
श्रुत्वा भगवतो वाक्यं किं रोदिषि शकुन्तले ।
गन्तव्यं काल्य उत्थाय भर्तृप्रीतिस्ववास्ति चेत् ॥
शकुन्तलोवाच ।
एकस्तु कुरुते पापं फलं भुङ्क्ते महाजनः ।
मया निवारितो नित्यं न करोषि वचो मम ॥
निःसृतान्कुञ्जरान्नित्यं बाहुभ्यां संप्रमथ्य वै ।
वनं च लोडयन्नित्यं सिंहव्याघ्रगणैर्वृतम् ॥
एवंविधानि चान्यानि कृत्वा वै पुरुनन्दन ।
रुषितो भगवांस्तात तस्मादावां विवासितौ ॥
नाहं गच्छामि दुष्यन्तं नास्मि पुत्र हितैषिणी ।
पादमूले वसिष्यामि महर्षेर्भावितात्मनः ॥
वैशंपायन उवाच ।
एवमुक्त्वा तु रुदती पपात मुनिपादयोः । एवं विलपतीं कण्वश्चानुनीय च हेतुभिः ।
पुनः प्रोवाच भगवानानृशंस्याद्धितं वचः ॥
कण्व उवाच ।
शकुन्तले शृणुष्वेदं हितं पथ्यं च भामिनि ।
पतिव्रताभावगुणान्हित्वा साध्यं न किंचन ॥
प्रतिव्रतानां देवा वै तुष्टाः सर्वरप्रदाः ।
प्रसादं च करिष्यन्ति आपदो मोक्षयन्ति च ॥
पतिप्रसादात्पुण्यं च प्राप्नुवन्ति न चाशुभम् ।
तस्माद्गत्वा तु राजानमाराधय शुचिस्मिते ॥
वैशंपायन उवाच ।
शकुन्तलां तथोक्त्वा वै शाकुन्तलमथाब्रवीत् ।
दौहित्रो मम पौत्रस्त्वमिलिलस्य महात्मनः ॥
शृणुष्व वचनं सत्यं प्रब्रवीमि तवानघ ।
मनसा भर्तृकामा वै वाग्भिरुक्त्वा पृथग्विधम् ॥
गन्तुं नेच्छति कल्याणी तस्मात्तात वहस्व वै । शक्तस्त्वं प्रतिगन्तुं च मुनिभिः सह पौरव ॥'
इत्युक्त्वा सर्वदमनं कण्वः शिष्यानथाब्रवीत् ।
शकुन्तलामिमां शीग्रं सपुत्रामाश्रमादितः ॥
भर्तुः प्रापयताभ्याशं सर्वलक्षणपूजिताम् ।
नारीणां चिरवासो हि बान्धवेषु न रोचते ॥
कीर्तिचारित्रधर्म्नस्तस्मान्नयत मा चिरम् ॥
`वैशंपायन उवाच ।
धर्माभिपूजितं पुत्रं काश्यपेन निशाम्य तु ।
काश्यपात्प्राप्य चानुज्ञां मुमुदे च शकुन्तला ॥
कण्वस्य वचनं श्रुत्वा प्रतिगच्छेति चासकृत् । तथेत्युक्त्वा तु कण्वं च मातरं पौरवोऽब्रवीत् ।
किं चिरायसि मातस्त्वं गमिष्यामो नृपालयम् ॥
एवमुक्त्वा तु तां देवीं दुष्यन्तस्य महात्मनः ।
अभिवाद्य मुनेः पादौ गन्तुमैच्छत्स पौरवः ॥
शकुन्तला च पितरमभिवाद्य कृताञ्जलिः ।
प्रदक्षिणीकृत्य तदा पितरं वाक्यमब्रवीत् ॥
अज्ञानान्मे पिता चेति दुरुक्तं वापि चानृतम् ।
अकार्यं वाप्यनिष्टं वा क्षन्तुमर्हति तद्भवान् ॥
एवमुक्तो नतशिरा मुनिर्नोवाच किंचन ।
मनुष्यभावात्कण्वोऽपि मुनिरश्रूण्यवर्तयत् ॥
अब्भक्षान्वायुभक्षांश्च शीर्णपर्णाशनान्मुनीन् ।
फलमूलाशिनो दान्तान्कृशान्धमनिसंततान् ॥
व्रतिनो जटिलान्मुण्डान्वल्कलाजिनसंवृतान् ।
समाहूय मुनिः कण्वः कारुण्यादिदमब्रवीत् ॥
मया तु लालिता नित्यं मम पुत्री यशस्विनी ।
वने जाता विवृद्धा च न च जानाति किंचन ॥
आश्रमात्तु पथा सर्वैर्नीयतां क्षत्रियालयम् ।
द्वितीययोजने विप्राः प्रतिष्ठानं प्रतिष्ठितम् ॥
प्रतिष्ठाने पुरे राजा शाकुन्तलपितामहः ।
अध्युवास चिरं कालमुर्वश्या सहितः पुरा ॥
अनूपजाङ्गलयुतं धनधान्यसमाकुलम् ।
प्रतिष्ठितं पुरवरं गङ्गायामुनसङ्गमे ॥
तत्र सङ्गममासाद्य स्नात्वा हुतहुताशनाः । शाकमूलफलाहारा निवर्तध्वं तपोधनाः ।
अन्यथा तु भवेद्विप्रा अध्वनो गमने श्रमः ॥'
तथेत्युक्त्वा च ते सर्वे प्रातिष्ठन्त महौजसः ।
`शकुन्तलां पुरस्कृत्य दुष्यन्तस्य पुरं प्रति ॥
गृहीत्वा चामरप्रख्यं पुत्रं कमललोचनम् ।
आजग्मुश्च पुरं रम्यं दुष्यन्ताध्युषितं वनात् ॥
शकुन्तलां समादाय मुनयो धर्मवत्सलाः ।
ते वनानि नदीः शैलान्गिरिप्रस्रवणानि च ॥
कन्दराणि नितम्बांश्च राष्ट्राणि नगराणि च ।
आश्रमाणि च पुण्यानि गत्वा चैव गतश्रमाः ॥
शनैर्मध्याह्नवेलायां प्रतिष्ठानं समाययुः ।
तां पुरीं पुरुहूतेन ऐलस्यार्थे विनिर्मिताम् ॥
परिघाट्टालकैर्मुख्यैरुपकल्पशतैरपि ।
शतघ्नीचक्रयन्त्रैश्च गुप्तामन्यैर्दुरासदाम् ॥
हर्म्यप्रसादसंबाधां नानापण्यविभूषिताम् ।
मण्टपैः ससभै रम्यैः प्रपाभिश्च समावृताम् ॥
राजमार्गेण महता सुविभक्तेन शोभिताम् ।
कैलासशिखराकारैर्गोपुरैः समलङ्कृताम् ॥
द्वारतोरणनिर्यूहैर्मङ्गलैरुपशोभिताम् ।
उद्यानाम्रवणोपेतां महतीं सालमेखलाम् ॥
सर्वपुष्करिणीभिश्च उद्यानैश्च समावृताम् ।
वर्णाश्रमैः स्वधर्मस्थैर्नित्योत्सवसमाहितैः ॥
धनधान्यसमृद्धैश्च संतुष्टै रत्नपूजितैः ।
कृतयज्ञैश्च विद्वद्भिरग्निहोत्रपरैः सदा ॥
वर्जिता कार्यकरणैर्दानशीलैर्दयापरैः ।
अधर्मभीरुभिः सर्वैः स्वर्गलोकजिगीषुभिः ॥
एवंविधजनोपेतमिन्द्रलोकमिवापरम् ।
तस्मिन्नगरमध्ये तु राजवेश्म प्रतिष्ठितम् ॥
इन्द्रसद्मप्रतीकाशं संपूर्णं वित्तसंचयैः ।
तस्य मध्ये सभा दिव्या नानारत्नविभूषिता ॥
तस्यां सभायां राजर्षिः सर्वालङ्कारभूषितः ।
ब्राह्मणैः क्षत्रियैश्चापि मन्त्रिभिश्चापि संवृतः ॥
संस्तूयमानो राजेन्द्रः सूतमागधबन्दिभिः ।
कार्यार्थिषु तदाऽभ्येत्य कृत्वा कार्यं गतेषु सः ॥
सुखासीनोऽभवद्राजा तस्मिन्काले महर्षयः ।
शकुन्तानां स्वनं श्रुत्वा निमित्तज्ञास्त्वलक्षयन् ॥
शकुन्तले निमित्तानि शोभनानि भवन्ति नः । कार्यसिद्धिं वदन्त्येते ध्रुवं राज्ञी भविष्यसि ।
अस्मिंस्तु दिवसे पुत्रो युवराजो भविष्यति ॥
वैशंपायन उवाच ।
वर्धमानपुरद्वारं तूर्यघोषनिनादितम् ।
शकुन्तलां पुरस्कृत्य विविशुस्ते महर्षयः ॥
प्रविशन्तं नृपसुतं प्रशशंसुश्च वीक्षकाः ।
वर्धमानपुरद्वारं प्रविशन्नेव पौरवः ॥
इन्द्रलोकस्थमात्मानं मेने हर्षसमन्वितः ॥
ततो वै नागराः सर्वे समाहूय परस्परम् ।
द्रष्टुकामा नृपसुतं समपद्यन्त भारत ॥
नागरा ऊचुः ।
देवतेव जनस्याग्रे भ्राजते श्रीरिवागता ।
जयन्तेनेव पौलोमी इन्द्रलोकादिहागता ॥
इति ब्रुवन्तस्ते सर्वे महर्षीनिदमब्रुवन् ।
अभिवादयन्तः सहिता महर्षीन्देववर्चसः ॥
अद्य नः सफलं जन्म कृतार्थाश्च ततो वयम् ।
एवं ये स्म प्रपश्यामो महर्षीन्सूर्यवर्चसः ॥
वैशंपायन उवाच ।
इत्युक्त्वा सहिताः केचिदन्वगच्छन्त पौरवम् ।
हैमवत्याः सुतमिव कुमारं पुष्करेक्षणम् ॥
ये केचिदब्रुवन्मूढाः शाकुन्तलदिदृक्षवः ।
कृष्णाजिनेन संछन्नाननिच्छन्तो ह्यवेक्षितुम् ॥
पिशाचा इव दृश्यन्ते नागराणां विरूपिणः ।
विना सन्ध्यां पिशाचास्ते प्रविशन्ति पुरोत्तमम् ॥
क्षुत्पिपासार्दितान्दीनान्वल्कलाजिनवाससः ।
त्वगस्थिभूतान्निर्मांसान्धमनीसन्ततानपि ॥
पिङ्गलाक्षान्पिङ्गजटान्दीर्घदन्तान्निरूदरान् ।
विशीर्षकानूर्ध्वहस्तान्दृष्ट्वा हास्यन्ति नागराः ॥
एवमुक्तवतां तेषां गिरं श्रुत्वा महर्षयः ।
अन्योन्यं ते समाहूय इदं वचनमब्रुवन् ॥
उक्तं भगवता वाक्यं न कृतं सत्यवादिना ।
पुरप्रवेशनं नात्र कर्तव्यमिति शासनम् ॥
किं कारणं प्रवेक्ष्यामो नगरं दुर्जनैर्वृतम् ।
त्यक्तसङ्गस्य च मुनेर्नगरे किं प्रयोजनम् ॥
गमिष्यामो वनं तस्माद्गङ्गायामुनसङ्गमम् ।
एवमुक्त्वा मुनिगणाः प्रतिजग्मुर्यथागतम् ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि षण्णवतितमोऽध्यायः ॥ 96 ॥

1-96-10 पुत्र्याः पुत्रः पौत्रः दौहित्र इत्यर्थः ॥

अध्यायः 097

सपुत्रायाः शकुन्तलाया दुप्यन्तसमीपगमनं ॥ 1 ॥ तयोः संवादश्च ॥ 2 ॥

वैशंपायन उवाच ।
गतान्मुनिगणान्दृष्ट्वा पुत्रं संगृह्य पाणिना ।
मातापितृभ्यां रहिता यथा शोचन्ति दारकाः ॥
तथा शोकपरीताङ्गी धृतिमालम्ब्य दुःखिता ।
गतेषु तेषु विप्रेषु राजमार्गेण भामिनी ॥
पुत्रेणैव सहायेन सा जगाम शनैः शनैः ।
अदृष्टपूर्वान्पश्यन्वै राजमार्गेण पौरवः ॥
हर्म्यप्रसादचैत्यांश्च सभा दिव्या विचित्रिताः ।
कौतूहलसमाविष्टो दृष्ट्वा विस्मयमागतः ॥
सर्वे ब्रुवन्ति तां दृष्ट्वा पद्महीनामिव श्रियम् ।
गत्या च संहीसदृशीं कोकिलेन स्वरे समाम् ॥
मुखेन चन्द्रसदृशीं श्रिया पद्मालयासमाम् ।
स्मितेन कुन्दसदृशीं पद्मगर्भसमत्वचम् ॥
पद्मपत्रविशालाक्षीं तप्तजाम्बूनदप्रभाम् ।
करान्तमितमध्यैषा सुकेशी संहतस्तनी ॥
जघनं सुविशालं वै ऊरू करिकरोपमौ ।
रक्ततुङ्गतलौ पादौ धरण्यां सुप्रतिष्ठितौ ॥
एवं रूपसमायुक्ता स्वर्गलोकादिवागता ।
इति स्म सर्वेऽमन्यन्त दुष्यन्तनगरे जनाः ॥
पुनः पुनरवोचंस्ते शाकुन्तलगुणानपि ।
सिंहेक्षणः सिंहदंष्ट्रः सिंहस्कन्धो महाभुजः ॥
सिंहोरस्कः सिंहबलः सिंहविक्रान्तगाम्ययम् ।
पृथ्वंसः पृथुवक्षाश्च छत्राकारशिरा महान् ॥
पाणिपादतले रक्तो रक्तास्यो दुन्दुभिस्वनः ।
राजलक्षणयुक्तश्च राजश्रीश्चास्य लक्ष्यते ॥
आकारेण च रूपेण शरीरेणापि तेजसा ।
दुष्यन्तेन समो ह्येष कस्य पुत्रो भविष्यति ॥
एवं ब्रुवन्तस्ते सर्वे प्रशशंसुः सहस्रशः ।
युक्तिवादानवोचन्त सर्वाः प्राणभृतः स्त्रियः ॥
बान्धवा इव सस्नेहा अनुजग्मुः शकुन्तलाम् ।
पौराणां तद्वचः श्रुत्वा तूष्णींभूता शकुन्तला ॥
वेश्मद्वारं समासाद्य विह्वला सा नृपात्मजा ।
चिन्तयामास सहसा कार्यगौरवकारणात् ॥
लज्जया च परीताङ्गी राजन्राजसमक्षतः ।
अघृणा किं नु वक्ष्यामि दुष्यन्तं मम कारणात् ॥
एवमुक्त्वा तु कृपणा चिन्तयन्ती शकुन्तला ।' अभिसृत्य च राजानं वेदिता सा प्रवेशिता ॥
सह तेन कुमारेण तरुणादित्यवर्चसा ।
`सिंहासनस्थं राजानं महेन्द्रसदृशद्युतिम् ॥
शकुन्तला नतशिराः परं हर्षमवाप्य च ।' पूजयित्वा यथान्यायमब्रवीत्तं शकुन्तला ॥
`अभिवादय राजानं पितरं ते दृढव्रतम् ।
एवमुक्त्वा सुतं तत्र लज्जानतमुखी स्थिता ॥
स्तम्भमालिङ्ग्य राजानं प्रसीदस्वेत्युवाच सा ।
शाकुन्तलोपि राजानमभिवाद्य कृताञ्जलिः ॥
हर्षेणोत्फुल्लनयनो राजानं चान्ववैक्षत ।
दुष्यन्तो धर्मबुद्ध्या तु चिन्तयन्नेव सोब्रवीत् ॥
किमागमनकार्यं ते ब्रूहि त्वं वरवर्णिनि ।
करिष्यामि न संदेहः सपुत्राया विशेषतः ॥
शकुन्तलोवाच ।
प्रसीदस्व महाराज वक्ष्यामि पुरुषोत्तम ।
एष पुत्रो हि ते राजन्मय्युत्पन्नः परंतप ॥
तस्मात्पुत्रस्त्वया राजन्यौवराज्येऽभिषिच्यताम् ।
यथोक्तमाश्रमे तस्मिन्वर्तस्व पुरुषोत्तम ॥
मया समागमे पूर्वं कृतः स समयस्त्वया ।
तत्त्वं स्मर महाबाहो कण्वाश्रमपदं प्रति ॥
वैशंपायन उवाच ।
तस्योपभोगसक्तस्य स्त्रीषु चान्यासु भारत ।
शकुन्तला सपुत्रा च मनस्यन्तरधीयत ॥
स धारयन्मनस्येनां सपुत्रां सस्मितां तदा ।
तदोपगृह्य मनसा चिरं सुखमवाप सः ॥
सोऽथ श्रुत्वापि तद्वाक्यं तस्या राजा स्मरन्नपि ।
अब्रवीन्न स्मरामीति त्वया भद्रे समागमम् ॥
मैथुनं च वृथा नाहं गच्छेयमिति मे मतिः ।
नाभिजानामि कल्याणि त्वया सह समागमम्' ॥
धर्मार्थकामसंबन्धं न स्मरामि त्वया सह ।
गच्छ वा तिष्ठ वा कामं यद्वापीच्छसि तत्कुरु ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि सप्तनवतितमोऽध्यायः ॥ 97 ॥

अध्यायः 098

शकुन्तलायाः स्वपाणिग्रहणमनङ्कीकुर्वता दुष्यन्तेन सह विवादः ॥ 1 ॥

एवमुक्ता वरारोहा व्रीडितेव मनस्विनी ।
विसंज्ञेव च दुःखेन तस्थौ स्थूणेव निश्चला ॥
संरम्भामर्षताम्राक्षी स्फुरमाणोष्ठसंपुटा ।
कटाक्षैर्निर्दहन्तीव तिर्यग्राजानमैक्षत ॥
आकारं गूहमाना च मन्युना च समीरितम् ।
तपसा संभृतं तेजो धारयामास वै तदा ॥
सा मुहूर्तमिव ध्यात्वा दुःखामर्षसमन्विता ।
भर्तारमभिसंप्रेक्ष्य यथान्यायं वचोऽब्रवीत् ॥
जानन्नपि महाराज कस्मादेवं प्रभाषसे ।
न जानामीति निःशङ्कं यथान्यः प्राकृतस्तथा ॥
तस्य ते हृदयं वेद सत्यस्यैवानृतस्य च ।
साक्षिणं बत कल्याणमात्मानमवमन्यसे ॥
योऽन्यथा सन्तमात्मानन्यथा प्रतिपद्यते ।
किं तेन न कृतं पापं चोरेणात्मापहारिणा ॥
एकोऽहमस्मीति च मन्यसे त्वं न हृच्छयं वेत्सि मुनिं पुराणम् ।
यो वेदिता कर्मणः पापकस्य तस्यान्तिके त्वं वृजिनं करोषि ॥
`धर्म एव हि साधूनां सर्वेषां हितकारणम् ।
नित्यं मिथ्याविहीनानां न च दुःखावहो भवेत्' ॥
मन्यते पापकं कृत्वा न कश्चिद्वेत्ति मामिति ।
विदन्ति चैनं देवाश्च यश्चैवान्तरपूरुषः ॥
आदित्यचन्द्रावनिलोऽनलश्च द्यौर्भूमिरापो हृदयं यमश्च ।
अहश्च रात्रिश्च उभे च सन्ध्ये धर्मश्च जानाति नरस्य वृत्तम् ॥
यमो वैवस्वतस्तस्य निर्यातयति दुष्कृतम् ।
हृदि स्थितः कर्मसाक्षी क्षेत्रज्ञो यस्य तुष्यति ॥
न तुष्यति च यस्यैष पुरुषस्य दुरात्मनः ।
तं यमः पापकर्माणं निर्भर्त्सयति दुष्कृतम् ॥
योऽवमत्यात्मनात्मानमन्यथा प्रतिपद्यते ।
न तस्य देवाः श्रेयांसो यस्यात्मापि न कारणम् ॥
स्वयं प्राप्तेति मामेवं मावमंस्था पतिव्रताम् ।
अर्चार्हां नार्चयसि मां स्वयं भार्यामुपस्थिताम् ॥
किमर्थं मां प्राकृतवदुपप्रेक्षसि संसदि ।
नखल्वहमिदं शून्ये रौमि किं न शृणोषि मे ॥
यदि मे याचमानाया वचनं न करिष्यसि ।
दुष्यन्त शतधा त्वद्य मूर्धा ते विफलिष्यति ॥
जायां पतिः संप्रविश्य यदस्यां जायते पुनः ।
जायायास्तद्धि जायात्वं पौराणाः कवयो विदुः ॥
यदागमवतः पुंसस्तदपत्यं प्रजायते ।
तत्तारयति संतत्या पूर्वप्रेतान्पितामहान् ॥
पुन्नाम्नो नरकाद्यस्मात्पितरं त्रायते सुतः ।
तस्मात्पुत्र इति प्रोक्तः पूर्वमेव स्वयंभुवा ॥
`पुत्रेण लोकाञ्जयन्ति पौत्रेणानन्त्यमश्नुते । अथ पौत्रस्य पुत्रेण मोदन्ते प्रपितामहाः ॥'
सा भार्या या गृहे दक्षा सा भार्या या प्रजावती ।
सा भार्या या पतिप्राणा सा भार्या या पतिव्रता ॥
अर्धं भार्या मनुष्यस्य भार्या श्रेष्ठतमः सखा ।
भार्या मूलं त्रिवर्गस्य यः सभार्यः स बन्धुमान् ॥
भार्यावन्तः क्रियावन्तः सभार्या गृहमेधिनः ।
भार्यावन्तः प्रमोदन्ते भार्यावन्तः श्रियावृताः ॥
सखायः प्रविविक्तेषु भवन्त्येताः प्रियंवदाः ।
पितरो धर्मकार्येषु भवन्त्यार्तस्य मातरः ॥
कान्तारेष्वपि विश्रामो जनस्याध्वनि कस्य वै । यः सदारः स विश्वास्यस्तस्माद्दाराः परा गतिः ।
संसरन्तमभिप्रेतं विषमेष्वेकपातिनम् ।
भार्यैवान्वेति भर्तारं सततं या पतिव्रता ॥
प्रथमं संस्थिता भार्या पतिं प्रेत्य प्रतीक्षते ।
पूर्वप्रेतं तु भर्तारं पश्चात्साप्यनुगच्छति ॥
एतस्मात्कारणाद्राजन्पाणिग्रहणमिष्यते ।
यदाप्नोति पतिर्भार्यामिह लोके परत्र च ॥
`पोषणार्थं शरीरस्य पाथेयं स्वर्गतस्य वै ।' आत्माऽऽत्मनैव जनितः पुत्र इत्युच्यते बुधैः ॥
तस्माद्भार्यां पतिः पश्येन्मातृवत्पुत्रमातरम् ।
`अन्तरात्मैव सर्वस्य पुत्रो नामोच्यते सदा ॥
गती रूपं च चेष्टा च आवर्ता लक्षणानि च ।
पितॄणां यानि दृश्यन्ते पुत्राणां सन्ति तानि च ॥
तेषां शीलगुणाचारास्तत्संपर्काच्छुभाशुभात् ।' भार्यायां जनितं पुत्रमादर्शे स्वमिवाननम् ॥
जनिता मोदते प्रेक्ष्य स्वर्गं प्राप्येव पुण्यकृत् ।
`पतिव्रतारूपधराः परबीजस्य संग्रहात् ॥
कुलं विनाश्य भर्तॄणां नरकं यान्ति दारुणम् ।
परेण जनिताः पुत्राः स्वभार्यायां यथेष्टतः ॥
मम पुत्रा इति मतास्ते पुत्रा अपि शत्रवः ।
द्विषन्ति प्रतिकुर्वन्ति न ते वचनंकारिणः ॥
द्वेष्टि तांश्च पिता चापि स्वबीजे न तथा नृप ।
न द्वेष्टि पितरं पुत्रो जनितारमथापि वा ॥
न द्वेष्टि जनिता पुत्रं तस्मादात्मा सुतो भवेत् ।' दह्यमाना मनोदुःखैर्व्याधिभिस्तुमुलैर्जनः ॥
ह्लादन्ते स्वेषु दारेषु घर्मार्ताः सलिलेष्विव ।
`विप्रवासकृशा दीना नरा मलिनवाससः ॥
तेऽपि स्वदारांस्तुष्यन्ति दरिद्रा धनलाभवत् ।' अप्रियोक्तोपि दाराणां न ब्रूयादप्रियं बुधः ॥
रतिं प्रीतिं च धर्मं च तदायत्तमवेक्ष्य च ।
`आत्मनोऽर्धमिति श्रौतं सा रक्षति धनं प्रजाः ॥
शरीरं लोकयात्रां वै धर्मं स्वर्गमृषीन्पितॄन् ।' आत्मनो जन्मनः क्षेत्रं पुण्या रामाः सनातनाः ॥
ऋषीणामपि का शक्तिः स्रष्टुं रामामृते प्रजा- ।
`देवानामपि का शक्तिः कर्तुं संभवमात्मनः ॥
पण्डितस्यापि लोकेषु स्त्रीषु सृष्टिः प्रतिष्ठिता ।
ऋषिभ्यो ह्यृषयः केचिच्चण्डालीष्वपि जज्ञिरे' ॥
परिसृत्य यथा सूनुर्धरणीरेणुकुण्ठितः ।
पितुरालिङ्गतेऽङ्गानि किमस्त्यभ्यधिकं ततः ॥
स त्वं सूनुमनुप्राप्तं साभिलाषं मनस्विनम् ।
प्रेक्षमाणं कटाक्षेण किमर्थमवमन्यसे ॥
अण्डानि बिभ्रति स्वानि न त्यजन्ति पिपीलिकाः ।
किं पुनस्त्वं न मन्येथाः सर्वथा पुत्रमीदृशम् ॥
न भरेथाः कथं नु त्वं मयि जातं स्वमात्मजम् ।
`ममाण्डानीति वर्ध्ते कोकिलाण्डानि वायसाः ॥
किं पुनस्त्वं न मन्येथाः सर्वज्ञः पुत्रमीदृशम् ।
मलयाच्चन्दनं जातमतिशीतं वदन्ति वै ॥
शिशोरालिङ्गनं तस्माच्चन्दनादधिकं भवेत् ।' न वाससां न रामाणां नापां स्पर्शस्तथाविधः ॥
शिशुनालिङ्ग्यमानस्य स्पर्शः सूनोर्यथा सुखः ।
पुत्रस्पर्शात्प्रियतरः स्पर्शो लोके न विद्यते ॥
स्पृशतु त्वां समालिङ्ग्य पुत्रोऽयं प्रियदर्शनः ।
ब्राह्मणो द्विपदां श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम् ॥
मुरुर्गरीयसां श्रेष्ठः पुत्रः स्पर्शवतां वरः ॥
त्रिषु वर्षेषु पूर्णेषु प्रजातोऽयमरिन्दमः ॥
`अद्यायं मन्नियोगात्तु तवाह्वानं प्रतीक्षते । कुमारो राजशार्दूल तव शोकप्रणाशनः ॥'
आहर्ता वाजिमेधस्य शतसङ्ख्यस्य पौरवः ।
`राजसूयादिकानन्यान्क्रतूनमितदक्षिणान् ॥
इति गौरन्तरिक्षे मां सूतके ह्यवदत्पुरा ।
हन्त स्वमङ्कमारोप्य स्नेहाद्ग्रामान्तरं गताः ॥
मूर्ध्नि पुत्रानुपाघ्राय प्रतिनन्दन्ति मानवाः ।
वेदेष्वपि वदन्तीमं मन्त्रग्रामं द्विजातयः ॥
जातकर्मणि पुत्राणां तवापि विदितं ध्रुवम् ।
अङ्गादङ्गात्संभवसि हृदयादधिजायसे ॥
आत्मा वै पुत्रनामासि स जीव शरदः शतम् ।
उपजिघ्रन्ति पितरो मन्त्रेणानेन मूर्धनि ॥
पोषणं त्वदधीनं मे सन्तानमपि चाक्षयम् ।
तस्मात्त्वं जीव मे पुत्र स सुखी शरदां शतम् ॥
एको भूत्वा द्विधा भूत इति वादः प्रवर्तते ।
त्वदङ्गेभ्यः प्रसूतोऽयं पुरुषात्पुरुषः परः ॥
सरसीवामलेऽऽत्मानं द्वितीयं पश्य ते सुतम् ।
`सरसीवामले सोमं प्रेक्षात्मानं त्वमात्मनि' ॥
यथाचाहवनीयोऽग्निर्वर्हपत्यात्प्रणीयते ।
एवं त्वत्तः प्रणीतोऽयं त्वमेकः सन्द्विधा कृतः ॥
मृगापकृष्टेन हि वै मृगयां परिधावता ।
अहमासादिता राजन्कुमारी पितुराश्रमे ॥
उर्वशी पूर्वचित्तिश्च सहजन्या च मेनका ।
विश्वाची च घृताची च षडेवाप्सरसां वराः ॥
तासां वै मेनका नाम ब्रह्मयोनिर्वराप्सराः ।
दिवः संप्राप्य जगतीं विश्वामित्रादजीजनत् ॥
`श्रीमानृषिर्धर्मपरो वैश्वानर इवापरः ।
ब्रह्मयोनिः कुशो नाम विश्वामित्रपितामहः ॥
कुशस्य पुत्रो बलवान्कुशनाभश्च धार्मिकः ।
गाधिस्तस्य सुतो राजन्विश्वामित्रस्तु गाधिजः ॥
एवंविधो मम पिता मेनका जननी वरा ।' सा मां हिमवतः पृष्ठे सुषुवे मेनकाऽप्सराः ॥
परित्यज्य च मां याता परात्मजमिवासती ।
`पक्षिणः पुम्यवन्तस्ते सहिता धर्मतस्तदा ॥
पक्षैस्तैरभिगुप्ता च तस्मादस्मि शकुन्तला ।
ततोऽहमृषिणा दृष्टा काश्यपेन महात्मना ॥
जलार्थमग्निहोत्रस्य गतं दृष्ट्वा तु पक्षिणः ।
न्यासभूतामिव मुनेः प्रददुर्मां दयावतः ॥
कण्वस्त्वालोक्य मां प्रीतो हसन्तीति हविर्भुजः ।
स माऽरणिमिवादाय स्वमाश्रममुपागमत् ॥
सा वै संभाविता राजन्ननुक्रोशान्महर्षिणा ।
तेनैव स्वसुतेवाहं राजन्वै वरवर्णिनी ॥
विश्वामित्रसुता चाहं वर्धिता मुनिना नृप ।
यौवने वर्तमानां च दृष्टवानसि मां नृप ॥
आश्रमे पर्णशालायां कुमारीं विजने तदा ।
धात्रा प्रचोदितां शून्ये पित्रा विरहितां मिथः ॥
वाग्भिस्त्वं सूनृताभिर्मामपत्यार्थमचूचुदः ।
अकार्षीस्त्वाश्रमे वासं धर्मकामार्थनिश्चितम् ॥
गान्धर्वेण विवाहेन विधिना पाणिमग्रहीः ।
साऽहं कुलं च शीलं च सत्यवादित्वमात्मनः ॥
स्वधर्मं च पुरस्कृत्य त्वामद्य शरणं गता ।
तस्मान्नर्हसि संश्रुत्य तथेति वितथं वचः ॥
स्वधर्मं पृष्ठतः कृत्वा परित्यक्तुमुपस्थिताम् ।
त्वन्नाथां लोकनाथस्त्वं नार्हसि त्वमनागसम्' ॥
किं नु कर्माशुभं पूर्वं कृतवत्यस्मि पार्थिव ।
यदहं बान्धवैस्त्यक्ता बाल्ये संप्रति वै त्वया ॥
कामं त्वया परित्यक्ता गमिष्याम्यहमाश्रमम् ।
इमं बालं तु संत्युक्तं नार्हस्यात्मजमात्मना ॥
दुष्यन्त उवाच ।
न पुत्रमभिजानामि त्वयि जातं शकुन्तले ।
असत्वचना नार्यः कस्ते श्रद्धास्यते वचः ॥
`अश्रद्धेयमिदं वाक्यं कथयन्ती न लज्जसे ।
विशेषतो मत्सकाशे दुष्टतापसि गम्यताम्' ॥
क्व महर्षिस्तपस्युग्रः क्वाप्सराः सा च मेनका ।
क्व च त्वमेवं कृपणा तापसीवेषधारिणी ॥
अतिकायश्च पुत्रस्ते बालोऽतिबलवानयम् ।
कथमल्पेन कालेन सालस्कन्ध इवोद्गतः ॥
सुनिकृष्टा च योनिस्ते पुंश्चली प्रतिभासि मे ।
यदृच्छया कामरागाज्जाता मेनकया ह्यसि ॥
सर्वमेव परोक्षं मे यत्त्वं वदसि तापसि ।
`सर्वा वामाः स्त्रियो लोके सर्वाः कामपरायणाः ॥
सर्वाः स्त्रियः परवशाः सर्वाः क्रोधसमाकुलाः ।
असत्योक्ताः स्त्रियः सर्वा न कण्वं वक्तुमर्हसि' ॥
मेनका निरनुक्रोशा वर्धकी जननी तव ।
यया हिमवतः पादे निर्माल्यवदुपेक्षिता ॥
स चापि निरनुक्रोशः क्षत्रयोनिः पिता तव ।
विश्वामित्रो ब्राह्मणत्वे लुब्धः कामपरायणः ॥
सुषाव सुरनारी मां विश्वामित्राद्यथेष्टतः ।
अहो जानामि ते जन्म कुत्सितं कुलटे जनैः ॥
मेनकाऽप्सरसां श्रेष्ठा महर्षिश्चापि ते पिता ।
तयोरपत्यं कस्मात्त्वं पुंश्चलीवाभिभाषसे ॥
जातिश्चापि निकृष्टो ते कुलीनेति विजल्पसे ।
जनयित्वा त्वमुत्सृष्टा कोकिलेन परैर्भृता ॥
अरिष्टैरिव दुर्बद्धिः कण्वो वर्धयिता पिता ।
अश्रद्धेयमिदं वाक्यं यत्त्वं जल्पसि तापसि ॥
ब्रुवन्ती राजसान्निध्ये गम्यतां यत्र चेच्छसि ।
`सुवर्णमणिमुक्तानि वस्त्राण्याभरणानि च ॥
यदिहेच्छसि भोगार्थं तापसि प्रतिगृह्यताम् ।
नाहं त्वां द्रष्टुमिच्छामि यथेष्टं गम्यतामितः' ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि अष्टनवतितमोऽध्यायः ॥ 98 ॥

अध्यायः 099

दुष्यन्तशकुन्तलाविवादः ॥ 1 ॥

शकुन्तलोवाच ।
राजन्सर्षपमात्राणि परच्छिद्राणि पश्यसि ।
आत्मनो बिल्वमात्राणि पश्यन्नपि न पश्यसि ॥
मेनका त्रिदशेष्वेव त्रिदशाश्चानु मेनकाम् ।
ममैवोद्रिच्यते जन्म दुष्यन्त तव जन्मतः ॥
क्षितौ चरसि राजंस्त्वमन्तरिक्षे चराम्यहम् ।
आवयोरन्तरं पश्य मेरुसर्षपयोरिव ॥
महेन्द्रस्य कुबेरस्य यमस्य वरुणस्य च ।
भवनान्यनुसंयामि प्रभावं पश्य मे नृप ॥
`पुरा नरवरः पुत्र उर्वश्यां जनितस्तदा ।
आयुर्नाम महाराज तव पूर्वपितामहः ॥
महर्षयश्च बहवः क्षत्रियाश्च परन्तपाः । अप्सरःसु ऋषीणां च मातृदोषो न विद्यते ॥'
सत्यश्चापि प्रवादोऽयं प्रवक्ष्यामि च ते नृप ।
निदर्शनार्थं न द्वेषाच्छ्रुत्वा तत्क्षन्तुमर्हसि ॥
विरूपो यावदादर्शे नात्मनो वीक्षते मुखम् ।
मन्यते तावदात्मानमन्येभ्यो रूपवत्तरम् ॥
यदा तु रूपमादर्शे विरूपं सोऽभिवीक्षते ।
तदा ह्रीमांस्तु जानीयादन्तरं नेतरं जनम् ॥
अतीव रूपसंपन्नो न कंचिदवमन्यते ।
अतीव जल्पन्दुर्वाचो भवतीह विहेतुकः ॥
`पांसुपातेन हृष्यन्ति कुञ्जरा मदशालिनः ।
तथा परिवदन्नन्यान्हृष्टो भवति दुर्मतिः ॥
सत्यधर्मच्युतात्पुंसः क्रुद्धादाशीविषादिव ।
सुनास्तिकोप्युद्विजते जनः किं पुनरास्तिकः ॥
स्वयमुत्पाद्य पुत्रं वै सदृशं योऽवमन्यते ।
तस्य देवाः श्रियं घ्नन्ति तत्रैनं कलिराविशेत् ॥
अभव्येऽप्यनृतेऽशुद्धे नास्तिके पापकर्मणि । दुराचारे कलिर्ह्याशु न कलिर्धर्मचारिषु ॥'
मूर्खो हि जल्पतां पुंसां श्रुत्वा वाचः शुभाशुभाः ।
अशुभं वाक्यमादत्ते पुरीषमिव सूकरः ॥
प्राज्ञस्तु जल्पतां पुंसां श्रुत्वा वाचः शुभाशुभाः ।
गुणवद्वाक्यमादत्ते हंसः क्षीरमिवाम्भसि ॥
`आत्मनो दुष्टभावत्वं जानन्नीचोऽप्रसन्नधीः ।
परेषामपि जानाति स्वधर्मसदृशान्गुणान् ॥
दह्यमानास्तु तीव्रेण नीचाः परयशोग्निना । अशक्तास्तद्गतिं गन्तुं ततो निन्दां प्रकुर्वते ॥'
अन्यान्परिवदन्साधुर्यथा हि परितप्यते ।
तथा परिवदन्नन्यान्हृष्टो भवति दुर्जनः ॥
`अपवादरता मूर्खा भवन्ति हि विशेषतः । नापवादरताः सन्तो भवन्ति स्म विशेषतः ॥'
अभिवाद्य यथा वृद्धान्साधुर्गच्छति निर्वृतिम् ।
एवं सज्जनमाक्रुश्य मूर्खो भवति निर्वृतः ॥
सुखं जीवन्त्यदोषज्ञा मूर्खा दोषानुदर्शिनः ।
यथा वाच्याः परैः सन्तः परानाहुस्तथाविधान् ॥
अतो हास्यतरं लोके किंचिदन्यन्न विद्यते ।
यदि दुर्जन इत्याहुः सज्जनं दुर्जनाः स्वयम् ॥
`दारुणाल्लोकसंक्लेशाद्दुःखमाप्नोत्यसंशयम् ॥' कुलवंशप्रतिष्ठां हि पितरः पुत्रमब्रुवन् ॥
उत्तमं सर्वधर्माणां तस्मात्पुत्रं तु न त्यजेत् ।
स्वपत्नीप्रभवाँल्लब्धान्कृतान्समयवर्धितान् ॥
क्रीतान्कन्यासु चोत्पन्नान्पुत्रान्वै मनुरब्रवीत् ।
`ते च षड्वन्धुदायादाः षडदायादबान्धवाः ॥
धर्मकृत्यवहा नॄणां मनसः प्रीतिवर्धनाः ।
त्रायन्ते नरकाज्जाताः पुत्रा धर्मप्लवाः पितॄन् ॥
स त्वं नृपतिशार्दूल न पुत्रं त्यक्तुमर्हसि ।
तस्मात्पुत्रं च सत्यं च पालयस्व महीपते ॥
उभयं पालयस्वैतन्नानृतं वक्तुमर्हसि ।' आत्मानं सत्यधर्मौ च पालयेथा महीपते ।
नरेन्द्रसिंह कपटं न हि वोढुं त्वमर्हसि ॥
वरं कूपशताद्वापी वरं वापीशतात्क्रतुः ।
वरं क्रतुशतात्पुत्रः सत्यं पुत्रशताद्वरम् ॥
अश्वमेधसहस्रं च सत्यं च तुलया धृतम् ।
अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते ॥
सर्ववेदाधिगमनं सर्वतीर्थावगाहनम् ।
सत्यस्यैव च राजेन्द्र कलां नार्हति षोडशीम् ॥
नास्ति सत्यसमो धर्मो न सत्याद्विद्यते परम् ।
न हि तीव्रतरं पापमनृतादिह विद्यते ॥
राजन्सत्यं परो धर्मः सत्याच्च समयः परः ।
मात्याक्षीः समयं राजन्सत्यं सङ्गतमस्तु ते ॥
`यः पापो न विजानीयात्कर्म कृत्वा नराधिप ।
न हि तादृक्परं पापमनृतादिह विद्यते ॥
यस्य ते हृदयं वेद सत्यस्यैवानृतस्य च ।
कल्याणावेक्षणं तस्मात्कर्तुमर्हसि धर्मतः ॥
यो न कामान्न च क्रोधान्न द्रोहादतिवर्तते । अमित्रं वापि मित्रं वा स एवोत्तमपूरुषः ॥'
अनृतश्चेत्प्रसङ्गस्ते श्रद्दधासि न चेत्स्वयम् ।
आश्रमं गन्तुमिच्छामि त्वादृशो नास्ति सङ्गतं ॥
`पुत्रत्वे शङ्कमानस्य त्वं बुद्ध्या निश्चयं कुरु ।
गतिः स्वरः स्मृतिः सत्वं शीलं विद्या च विक्रमः ॥
धृष्णुप्रकृतिभावौ च आवर्ता रोमराजयः ।
समा यस्य यदा स्युस्ते तस्य पुत्रो न संशयः ॥
सादृश्येनोद्धऋतं बिम्बं तव देहाद्विशांपते ।
तातेति भाषमाणं वै मा स्म राजन्वृथा कृथाः ॥
ऋते च गर्दभीक्षीरात्पयः पास्यति मे सुतः ।' ऋतेपि त्वां च दुष्यन्त शैलराजावतंसिकाम् ।
चतुरन्तामिमामुर्वीं पुत्रो मे पालयिष्यति ॥
`शकुन्तले तव सुतश्चक्रवर्ती भविष्यति ।
एवमुक्तं महेन्द्रेण भविष्यति न चान्यथा ॥
साक्षित्वे बहवो ह्युक्ता देवदूतादयो मया ।
न ब्रुवन्ति तथा सत्यमुताहो नानृतं किल ॥
असाक्षिणी मन्दबाग्या गमिष्यामि यथागतम् ॥'
वैशंपायन उवाच ।
एतावदुक्त्वा वचनं प्रातिष्ठत शकुन्तला ।
`तस्याः क्रोधसमुत्थोग्निः सधूमो मूर्ध्न्यदृश्यत ॥
संनियम्यात्मनोऽङ्गेषु ततः क्रोधाग्निमात्मजम् ।
प्रस्थितैवानवद्याङ्गी सह पुत्रेण वै वनम्' ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि एकोनशततमोऽध्यायः ॥ 99 ॥

अध्यायः 100

आकाशवाणीश्रवणानन्तरं सपुत्रायाः शकुन्तलाया राज्ञाङ्गीकारः ॥ 1 ॥ भरतेतिनामकरणपूर्वकं पुत्रस्य राज्येऽभिषेकः ॥ 2 ॥

वैशंपायन उवाच ।
अथान्तरिक्षे दुष्यन्तं वागुवाचाशरीरिणी ।
ऋत्विक्पुरोहिताचार्यैर्मन्त्रिभिश्चाभिसंवृतम् ॥
माता भस्त्रा पितुः पुत्रो यस्माज्जातः स एव सः ।
भरस्व पुत्रं दौष्यन्तिं सत्यमाह शकुन्तला ॥
`सर्वेभ्यो ह्यङ्गमङ्गेभ्यः साक्षादुत्पद्यते सुतः ।
आत्मा चैव सुतो नाम तेनैव तव पौरव ॥
आहितं ह्यात्मनाऽऽत्मानं परिरक्ष इमं सुतम् ।
अनन्यां त्वं प्रतीक्षस्व मावमंस्थाः शकुन्तलाम् ॥
स्त्रियः पवित्रमतुलमेतद्दुष्यन्त धर्मतः ।
मासि मासि रजो ह्यासां दुरितान्यपकर्षति ॥
ततः सर्वाणि भूतानि व्याजह्रस्तं समन्ततः ।
देवा ऊचुः ।
आहितस्त्वत्तनोरेष मावमंस्थाः शकुन्तलाम्' ॥
रेतोधाः पुत्र उन्नयति नरदेव यमक्षयात् ।
त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला ॥
`पतिर्जायां प्रविशति स तस्यां जायते पुनः । अन्योन्यप्रकृतिर्ह्येषा मावमंस्थाः शकुन्तलाम् ॥'
जाया जनयते पुत्रमात्मनोऽङ्गाद्द्विधा कृतम् ।
तस्माद्भरस्व दुष्यन्त पुत्रं शाकुन्तलं नृप ॥
सुभूतिरेषा न त्याज्या जीवितं जीवयात्मजम् ।
शाकुन्तलं महात्मानं दुष्यन्त भर पौरवम् ॥
भर्तव्योऽयं त्वया यस्मादस्माकं वचनादपि ।
तस्माद्भवत्वयं नाम्ना भरतो नाम ते सुतः ॥
`भरताद्भारती कीर्तिर्येनेदं भारतं कुलम् ।
अपरे ये च पूर्वे च भारता इति तेऽभवन् ॥
वैशंपायन उवाच ।
एवमुक्त्वा ततो देवा ऋषयश्च तपोधनाः । पतिव्रतेति संहृष्टाः पुष्पवृष्टिं ववर्षिरे ॥'
तच्छ्रुत्वा पौरवो वाक्यं व्याहृतं वे दिवौकसाम् । `सिंहासनात्समुत्थाय प्रणम्य च दिवौकसः ॥'
पुरोहितममात्यांश्च संप्रहृष्टोऽब्रवीदिदम् ।
शृण्वन्त्वेतद्भवन्तोऽपि देवदूतस्य भाषितम् ॥
`शृण्वन्तु देवतानां च महर्षीणां च भाषितम्' ।
अहमप्येवमेवैनं जानामि सुतमात्मजम् ॥
यद्यहं वचनादस्या गृह्णीयामिममात्मजम् ।
भवेद्धि शङ्का लोकस्य नैवं शुद्धो भवेदयम् ॥
वैशंपायन उवाच ।
तां विशोध्य तदा राजा देवैः सह महर्षिभिः ।
हृष्टः प्रमुदितश्चापि प्रतिजग्राह तं सुतम् ॥
ततस्तस्य तदा राजा पितृकर्माणि सर्वशः । कारयामास मुदितः प्रीतिमानात्मजस्य ह ।
मूर्ध्नि चैनं समाघ्राय सस्नेहं परिषस्वजे ॥
सभाज्यमानो विप्रैश्च स्तूयमानश्च बन्दिभिः ।
मुदं स परमां लेभे पुत्रस्पर्शनजां नृपः ॥
स्वां चैव भार्यां धर्मज्ञः पूजयामास धर्मतः ।
अब्रवीच्चैव तां राजा सान्त्वपूर्वमिदं वचः ॥
लोकस्यायं परोक्षस्तु संबन्धो नौ पुराऽभवत् ।
कृतो लोकसमक्षोऽद्य संबन्धो वै पुनः कृतः ॥
तस्मादेतन्मया तस्य तन्निमित्तं प्रभाषितम् ॥
शङ्केत वाऽयं लोकोऽथ स्त्रीभावान्मयि संगतम् ।
तस्मादेतन्मया चापि तच्छुद्ध्यर्थं विचारितम् ॥
`ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव पृथग्विधाः ।
त्वां देवि वूजयिष्यन्ति निर्विशङ्कां पतिव्रताम्' ॥
पुत्रश्चायं वृतो राज्ये त्वमग्रमहिषी भव ॥
यच्च कोपनयात्यर्थं त्वयोक्तोऽस्म्यप्रियं प्रिये ।
प्रणयिन्या विशालाक्षितत्क्षान्तं ते मया शुभे ॥
`अनृतं वाप्यनिष्टं वा दुरुक्तं वातिदुष्कृतम् । त्वयाप्येवं विशालाक्षि क्षन्तव्यं मम दुर्वचः ।
क्षान्त्या पतिकृते नार्यः पातिव्रत्यं व्रजन्ति ताः ॥
एवमुक्त्वा तु राजर्षिस्तामनिन्दितगामिनीम् ।
अन्तःपुरं प्रवेश्याथ दुष्यन्तो महिषीं प्रियाम् ॥
वासोभिरन्नपानैश्च पूजयित्वा तु भारत ।
`स मातरमुपस्थाय रथन्तर्यामभाषत ॥
मम पुत्रो वने जातस्तव शोकप्रणशनः ।
ऋणादद्य विमुक्तोऽहं तव पौत्रेण शोभने ॥
विश्वामित्रसुता चेयं कण्वेन च विवर्धिता ।
स्नुषा तव महाभागे प्रसीदस्व शकुन्तलाम् ॥
पुत्रस्य वचनं श्रुत्वा पौत्रं सा परिषस्वजे ।
पादयोः पतितां तत्र रथन्तर्या शकुन्तलाम् ॥
परिष्वज्य च बाहुभ्यां हर्षादश्रुण्यवर्तयत् ।
उवाच वचनं सत्यं लक्षये लक्षणानि च ॥
तव पुत्रो विशालाक्षि चक्रवर्ती भविष्यति ।
तव भर्ता विशालाक्षि त्रैलोक्यविजयी भवेत् ॥
दिव्यान्भोगाननुप्राप्ता भव त्वं वरवर्णिनि ।
एवमुक्ता रथ्तर्या परं हर्षमवाप सा ॥
शकुन्तलां तदा राजा शास्त्रोक्तेनैव कर्मणा ।
ततोऽग्रमहिषीं कृत्वा सर्वाभरणभूषिताम् ॥
ब्राह्मणेभ्यो धनं दत्त्वा सैनिकानां च भूपतिः ।
दौष्यन्तिं च ततो राजा पुत्रं शाकुन्तलं तदा' ॥
भरतं नामतः कृत्वा यौवराज्येऽभ्यषेचयत् ।
`भरते भारमावेश्य कृतकृत्योऽभवन्नृपः ॥
ततो वर्षशतं पूर्णं राज्यं कृत्वा नराधिपः । गत्वा वनानि दुष्यन्तः स्वर्गलोकमुपेयिवान् ॥' ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि शततमोऽध्यायः ॥ 100 ॥

अध्यायः 101

भरतचरित्रकथनम् ॥ 1 ॥ तद्वंशकथनं च ॥ 2 ॥

`वैशंपायन उवाच ।
दुष्यन्ताद्भरतो राज्यं यथान्यायमवाप सः ।' तस्य तत्प्रथितं कर्म प्रावर्तत महात्मनः ॥
भास्वरं दिव्यमजितं लोकसंनादनं महत् ।
स विजित्य महीपालांश्चकार वशवर्तिनः ॥
चचार च सतां धर्मं प्राप्य चानुत्तमं यशः ।
स राजा चक्रवर्त्यासीत्सार्वभौमः प्रतापवान् ॥
ईजे च बहुभिर्यज्ञैर्यथा शक्रो मरुत्पतिः ।
याजयामास तं कण्वो दक्षवद्भूरिदक्षिणम् ॥
श्रीमद्गोविततं नाम वाजिमेधमवाप सः ।
यस्मिन्सहस्रं पद्मानां कण्वाय भरतो ददौ ॥
सोऽश्वमेधशतैरीजे यमुनामनु तीरगः ।
त्रिशतैश्च सरस्वत्यां गङ्गामनु चतुःशतैः ॥
दौष्यन्तिर्भरतो यज्ञैरीजे शाकुन्तलो नृपः ।
तस्माद्भरतवंशस्य विप्रतस्थे महद्यशः ॥
भरतस्य वरस्त्रीषु पुत्राः संजज्ञिरे पृथक् ।
नाभ्यनन्दत्तदा राजा नानुरूपा ममेति तान् ॥
ततस्तान्मातरः क्रुद्धाः पुत्रान्निन्युर्यमक्षयम् ।
ततस्तस्य नरेन्द्रस्य वितथं पुत्रजन्म तत् ॥
ततो महद्भिः क्रतुभिरीजानो भरतस्तदा ।
लेभे पुत्रं भरद्पाजाद्भुमन्युं नाम भारत ॥
ततः पुत्रिणमात्मानं ज्ञात्वा पौरवनन्दनः ।
भुमन्युं भरतश्रेष्ठ यौवराज्येऽभ्यषेचयत् ॥
ततो दिविरथो नाम भुमन्योरभवत्सुतः ।
सुहोत्रश्च सुहोता च सुहविः सुयजुस्तथा ॥
पुष्करिण्यामृचीकश्च भुमन्योरभवन्सुताः ।
तेषां ज्येष्ठः सुहोत्रस्तु राज्यमाप महीक्षिताम् ॥
राजसूयाश्वमेधाद्यैः सोऽयजद्बहुभिः सवैः ।
सुहोत्रः पृथिवीं कृत्स्नां बुभुजे सागराम्बराम् ॥
पूर्णां हस्तिगवाश्वैश्च बहुरत्नसमाकुलाम् ।
ममज्जेव मही तस्य भूरिभारावपीडिता ॥
हस्त्यश्वरथसंपूर्णा मनुष्यकलिला भृशम् ।
सुहोत्रे राजनि तदा धर्मतः शासति प्रजाः ॥
चैत्ययूपाङ्किता चासीद्भूमिः शतसहस्रशः ।
प्रवृद्धजनसस्या च सर्वदैव व्यरोचत ॥
ऐक्ष्वाकी जनयामास सुहोत्रात्पृथिवीपतेः ।
अजमीढं सुमीढं च पुरुमीढं च भारत ॥
अजमीढो वरस्तेषां तस्मिन्वंशः प्रतिष्ठितः ।
षट् पुत्रान्सोप्यजनयत्तिसृषु स्त्रीषु भारत ॥
ऋक्षं धूमिन्यथो नीली दुष्यन्तपरमेष्ठइनौ ।
केशिन्यजनयज्जह्नुं सुतौ च जनरूषिणौ ॥
विदुः संवरणं वीरमृक्षाद्राथन्तरीसुतम् । तथेमे सर्वपञ्चाला दुष्यन्तपरमेष्ठिनोः ।
अन्वयाः कुशिका राजञ्जन्होरमिततेजसः ॥
जनरूषणयोर्ज्येष्ठमृक्षमाहुर्जनाधिपम् ।
ऋक्षात्संवरणो जज्ञे राजन्वंशकरस्तव ॥
आर्क्षे संवरणे राजन्प्रशासति वसुन्धराम् ।
संक्षयः सुमहानासीत्प्रजानामिति नः श्रुतम् ॥
व्यशीर्यत ततो राष्ट्रं क्षयैर्नानाविधैस्तदा ।
क्षुन्मृत्युभ्यामनावृष्ट्या व्याधिभिश्च समाहतम् ॥
अभ्यघ्नन्भारतांश्चैव सपत्नानां बलानि च ।
चालयन्वसुधां चेमां बलेन चतुरङ्गिणा ॥
अभ्ययात्तं च पाञ्चल्यो विजित्य तरसा महीम् ।
अक्षौहिणीभिर्दशभिः स एनं समरेऽजयत् ॥
ततः सदारः सामात्यः सपुत्रः ससुहृज्जनः ।
राजा संवरणस्तस्मात्पलायत महाभयात् ॥
`ते प्रतीचीं पराभूताः प्रपन्ना भारता दिशम्' । सिन्धोर्नदस्य महतो निकुञ्जे न्यवसंस्तदा ।
नदीविपयपर्यन्ते पर्वतस्य समीपतः ॥
तत्रावसन्बहून्कालान्भारता दुर्गमाश्रिताः ।
तेषां निवसतां तत्र सहस्रं परिवत्सरान् ॥
अथाभ्यगच्छद्भरतान्वसिष्ठो भगवानृषिः ।
तमागतं प्रयत्नेन प्रत्युद्गम्याभिवाद्य च ॥
अर्घ्यमभ्याहरंस्तस्मै ते सर्वे भारतास्तदा ।
निवेद्य सर्वमृषये सत्कारेण सुवर्चसे ॥
तमासने चोपविष्टं राजा वव्रे स्वयं तदा ।
पुरोहितो भवान्नोऽस्तु राज्याय प्रयतेमहि ॥
ओमित्येवं वसिष्ठोऽपि भारतान्प्रत्यपद्यत ।
अथाभ्यषिञ्चत्साम्राज्ये सर्वक्षत्रस्य पौरवम् ॥
विषाणभूतं सर्वस्यां पृथिव्यामिति नः श्रुतम् ।
भरताध्युषितं पूर्वं सोऽध्यतिष्ठत्पुरोतोतमम् ॥
पुनर्बलिभृतश्चैव चक्रे सर्वमहीक्षितः ।
ततः स पृथिवीं प्राप्य पुनरीजे महाबलः ॥
आजमीढो महायज्ञैर्बहुभिर्भूरिदक्षिणैः ।
ततः संवरणात्सौरी तपती सुषुवे कुरुम् ॥
राजत्वे तं प्रजाः सर्वा धर्मज्ञ इति वव्रिरे । `महिम्ना तस्य कुरवो लेभिरे प्रत्ययं भृशम् ।'
तस्य नाम्नाऽभिविख्यातं पृथिव्यां कुरुजाङ्गलं ॥
कुरुक्षेत्रं स तपसा पुण्यं चक्रे महातपाः ।
अश्ववन्तमभिष्यन्तं तथा चैत्ररथं मुनिम् ॥
जनमेजयं च विख्यातं पुत्रांश्चास्यानुशुश्रुम ।
पञ्चैतान्वाहिनी पुत्रान्व्यजायत मनस्विनी ॥
अविक्षितः परिक्षित्तु शबलाश्वस्तु वीर्यवान् ।
आदिराजो विराजश्च शाल्मलिश्च महाबलः ॥
उच्चैःश्रवा भङ्गकारो जितारिश्चाष्टमः स्मृतः । एतेषामन्ववाये तु ख्यातास्ते कर्मजैर्गुणैः ।
जनमेजयादयः सप्त तथैवान्ये महारथाः ॥
परीक्षितोऽभवन्पुत्राः सर्वे धर्मार्थकोविदाः ।
कक्षसेनोग्रसेनौ तु चित्रसेनश्च वीर्यवान् ॥
इन्द्रसेनः सुषेणश्च भीमसेनश्च नामतः ।
जनमेजयस्य तनया भुवि ख्याता महाबलाः ॥
धृतराष्ट्रः प्रथमजः पाण्डुर्बाह्लीक एव च ।
निषधश्च महातेजास्तथा जाम्बूनदो बली ॥
कुण्डोदरः पदातिश्च वसातिश्चाष्टमः स्मृतः ।
सर्वे धर्मार्थकुशलाः सर्वभूतहिते रताः ॥
धृतराष्ट्रोऽथ राजासीत्तस्य पुत्रोऽथ कुण्डिकः ।
हस्ती वितर्कः क्राथश्च कुण्डिनश्चापि पञ्चमः ॥
हविश्रवास्तथेन्द्राभो भुमन्युश्चापराजितः ।
धृतराष्ट्रसुतानां तु त्रीनेतान्प्रथितान्भुवि ॥
प्रतीपं धर्मनेत्रं च सुनेत्रं चापि भारत ।
प्रतीपः प्रथितस्तेषां बभूवाप्रतिमो भुवि ॥
प्रतीपस्य त्रयः पुत्रा जज्ञिरे भरतर्षभ ।
देवापिः शन्तनुश्चैव बाह्लीकश्च महारथः ॥
देवापिस्तु प्रवव्राज तेषां धर्महितेप्सया ।
शन्तनुश्च महीं लेभे बाह्लीकश्च महारथः ॥
भरतस्यान्वयास्त्वेते देवकल्पा महारथाः ।
बभूवुर्ब्रह्मकल्पाश्च बहवो राजसत्तमाः ॥
एवंविधा महाभागा देवरूपाः प्रहारिणः ।
अन्ववाये महाराज ऐलवंशविवर्धनाः ॥
`गङ्गातीरं समागम्य दीक्षितो जनमेजय ।
अश्वमेधसहस्राणि वाजपेयशतानि च ॥
पुनरीजे महायज्ञैः समाप्तवरदक्षिणैः ।
अग्निष्टोमातिरात्राणामुक्थानां सोमवत्पुनः ॥
वाजपेयेष्टिसत्राणां सहस्रैश्च सुसंभृतैः ।
दृष्ट्वा शाकुन्तलो राजा तर्पयित्वा द्विजान्धनैः ॥
पुनः सहस्रं पद्मानां कण्वाय भरतो ददौ ।
जम्बूनदस्य शुद्धस्य कनकस्य महायशाः ॥
यस्य यूपाः शतव्यामाः परिणाहेऽथ काञ्चनाः ।
सहस्रव्याममुद्वृद्धाः सेन्द्रैर्देवैः समुच्छ्रिताः ॥
स्वलङ्कृता भ्राजमानाः सर्वरत्नैर्मनोरमैः ।
हिरण्यं द्विरदानश्वान्महिषोष्ट्रगजाविकम् ॥
दासीदासं धनं धान्यं गाः सुशीलाः सवत्सकाः ।
भूमिं यूपसहस्राङ्कां कण्वाय बहुदक्षिणाम् ॥
बहूनां ब्रह्मकल्पानां धनं दत्त्वा क्रतून्बहून् ।
ग्रामान्गृहाणि शुभ्राणि कोटिशोथाददत्तदा ॥
भरताद्भारती कीर्तिर्येनेदं भारतं कुलम् ।' भरतस्यान्वये जाता देवकल्पा महारथाः ॥
बहवो ब्रह्मकल्पाश्च बभूवुः क्षत्रसत्तमाः ।
तेषामपरिमेयानि नामधेयानि सन्त्युत ॥
तेषां कुले यथा मुख्यान्कीर्तयिष्यामि भारत ।
महाभागान्देवकल्पान्सत्यार्जवपरायणान् ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि एकोत्तरशततमोऽध्यायः ॥ 101 ॥

1-101-9 वितथं विगतस्तथाभावो जनकसादृश्यं यत्र तत्तादृशं पुत्रजन्म ॥ 1-101-23 आर्क्षे ऋक्षपुत्रे ॥ 1-101-24 क्षयैर्नाशहेतुभिः क्षुत्प्रभृतिभिः ॥ 1-101-26 अभ्ययात्तं संवरणम् । एनं संवरणमेव ॥ 1-101-35 बलिभृतः करदान् ॥ 1-101-36 सौरी सूर्यकन्या ॥ 1-101-40 अश्ववत एवाविक्षिदिति संज्ञान्तरम् ॥ एकोत्तरशत्ततमोऽध्यायः ॥ 101 ॥

अध्यायः 102

महाभिषगुपाख्यानम् ॥ 1 ॥ महाभिषग्गङ्गयोः शापः ॥ 2 ॥ अष्टवसूनां गङ्गायाश्च संवादः ॥ 3 ॥

वैशंपायन उवाच ।
इक्ष्वाकुवंशप्रभो राजासीत्पृथिवीपतिः ।
महाभिषगिति ख्यातः सत्यवाक्सत्यविक्रमः ॥
सोऽश्वमेधसहस्रेण राजसूयशतेन च ।
तोषयामास देवेशं स्वर्गं लेभे ततः प्रभुः ॥
ततः कदाचिद्ब्रह्माणमुपासांचक्रिरे सुराः ।
तत्र राजर्षयो ह्यासन्स च राजा महाभिषक् ॥
अथ गङ्गा सरिच्छ्रेष्ठा समुपायात्पितामहम् ।
तस्या वासः समुद्धूतं मारुतेन शशिप्रभम् ॥
ततोऽभवन्सुरगणाः सहसाऽवाङ्मुखास्तदा ।
महाभिषक्तु राजर्षिरशङ्को दृष्टवान्नदीम् ॥
सोपध्यातो भगवता ब्रह्मणा तु महाभिषक् ।
उक्तश्च जातो मर्त्येषु पुनर्लोकानवाप्स्यसि ॥
यया हृतमनाश्चासि गङ्गया त्वं हि दुर्मते ।
सा ते वै मानुषे लोके विप्रियाण्याचरिष्यति ॥
यदा ते भविता मन्युस्तदा शापाद्विमोक्ष्यते ।
वैशंपायन उवाच ।
स चिन्तयित्वा नृपतिर्नृपानन्यांस्तपोधनान् ॥
प्रतीपं रोचयामास पितरं भूरितेजसम् ।
सा महाभिषजं दृष्ट्वा नदी दैर्याच्च्युतं नृपम् ॥
तमेव मनसा ध्यायन्त्युपावृत्ता सरिद्वरा ।
सा तु विध्वस्तवपुषः कश्मलाभिहतान्नृप ॥
ददर्श पथि गच्छन्ती वसून्देवान्दिवौकसः ।
तथारूपांश्च तान्दृष्ट्वा प्रपच्छ सरितां वरा ॥
किमिदं नष्टरूपाः स्थ कच्चित्क्षेमं दिवौकसाम् ।
तामूचुर्वसवो देवाः शप्ताः स्मो वै महानदि ॥
अल्पेऽपराधे संरम्भाद्वसिष्ठेन महात्मना ।
विमूढा हि वयं सर्वे प्रच्छन्नमृषिसत्तमम् ॥
सन्ध्यां वसिष्ठमासीनं तमत्यभिसृताः पुरा ।
तेन कोपाद्वयं शप्ता योनौ संभवतेति ह ॥
न तच्छक्यं निवर्तयितुं यदुक्तं ब्रह्मवादिना ।
त्वमस्मान्मानुषी भूत्वा सूष्व पुत्रान्वसून्भुवि ॥
न मानुषीणां जठरं प्रविशेम वयं शुभे ।
इत्युक्ता तैश्च वसुभिस्तथेत्युक्त्वाऽब्रवीदिदम् ॥
गङ्गोवाच ।
मर्त्येषु पुरुषश्रेष्ठः को वः कर्ता भविष्यति ।
वसव ऊचुः ।
प्रतीपस्य सुतो राजा शान्तनुर्लोकविश्रुतः ।
भविता मानुषे लोके स नः कर्ता भविष्यति ॥
गङ्गोवाच ।
ममाप्येवं मतं देवा यथा मां वदथानघाः ।
प्रियं तस्य करिष्यामि युष्माकं चेतदीप्सितम् ॥
वसव ऊचुः ।
जातान्कुमारान्स्वानप्सु प्रक्षेप्तुं वै त्वमर्हसि ।
यथा नचिरकालं नो निष्कृतिः स्यात्त्रिलोकगे ॥
जिघृक्षवो वयं सर्वे सुरभिं मन्दबुद्धयः ।
शप्ता ब्रह्मर्षिणा तेन तांस्त्वं मोचय चाशु नः ॥
गङ्गोवाच ।
एवमेतत्करिष्यामि पुत्रस्तस्य विधीयताम् ।
नास्य मोघः सङ्गमः स्यात्पुत्रहेतोर्मया सह ॥
वसव ऊचुः ।
तुरीयार्धं प्रदास्यामो वीर्यस्यैकैकशो वयम् ।
तेन वीर्येण पुत्रस्ते भविता तस्य चेप्सितः ॥
न संपत्स्यति मर्त्येषु पुनस्तस्य तु सन्ततिः ।
तस्मादपुत्रः पुत्रस्ते भविष्यति स वीर्यवान् ॥
एवं ते समयं कृत्वा गङ्गया वसवः सह ।
जग्मुः संहृष्टमनसो यथासंकल्पमञ्जसा ॥ ॥

इति श्रीमन्महाभारते आदिप्रवमि संभवपर्वणि द्व्यधिकशततमोऽध्यायः ॥ 102 ॥

1-102-6 अपध्यातः शप्तः ॥ 1-102-10 विध्वस्तवपुषो दिवश्च्युतत्वात् ॥ 1-102-14 अत्यभिसृता अतिक्रान्तवन्तः । वक्ष्यमाणेन तद्धेनुहरणेनेति शेषः ॥ 1-102-19 नचिरकालं शीघ्रम् । नोऽस्माकम् ॥ 1-102-22 तुरीयार्धमष्टमांशम् ॥ द्व्यधिकशततमोऽध्यायः ॥ 102 ॥

अध्यायः 103

प्रतीपेन गङ्गायाः स्नुषात्वेन परिग्रहः ॥ 1 ॥ शान्तनूत्पत्तिः ॥ 2 ॥ तस्य राज्येऽभिषेकः ॥ 3 ॥ मृगयार्थं गतस्य शान्त नोर्गङ्गया संवादः ॥ 4 ॥

वैशंपायन उवाच ।
ततः प्रतीपो राजाऽऽसीत्सर्वभूतहितः सदा ।
निषसाद समा बह्वीर्गङ्गाद्वारगतो जपन् ॥
तस्य रूपगुणोपेता गङ्गा स्त्रीरूपधारिणी ।
उत्तीर्य सलिलात्तस्माल्लोभनीयतमाकृतिः ॥
अधीयानस्य राजर्षेर्दिव्यरूपा मनस्विनी ।
दक्षिणं शालसङ्काशमूरुं भेजे शुभानना ॥
प्रतीपस्तु महीपालस्तामुवाच यशस्विनीम् । `वाक्यं वाक्यविदां श्रेष्ठो धर्मनिश्चयतत्त्ववित् ।'
करोमि किं ते कल्याणि प्रियं यत्तेऽभिकाङ्क्षितम् ॥
स्त्र्युवाच ।
त्वामहं कामये राजन्भजमानां भजस्व माम् ।
त्यागः कामवतीनां हि स्त्रीणां सद्भिर्विगर्हितः ॥
प्रतीप उवाच ।
नाहं परस्त्रियं कामाद्गच्छेदं वरवर्णिनि ।
न चासवर्णां कल्याणि धर्म्यमेतद्धि मे व्रतम् ॥
`यः स्वदारान्परित्यज्य पारक्यां सेवते स्त्रियम् । निरयान्नैव मुच्यते यावदाभूतसंप्लवम् ॥'
स्त्र्युवाच ।
नाश्रेयस्यस्मि नागम्या न वक्तव्या च कर्हिचित् ।
भजन्तीं भज मां राजन्दिव्यां कन्यां वरस्त्रियम् ॥
प्रतीप उवाच ।
त्वया निवृत्तमेतत्तु यन्मां चोदयसि प्रियम् ।
अन्यथा प्रतिपन्नं मां नाशयेद्धर्मविप्लवः ॥
प्राप्य दक्षिणमूरुं मे त्वमाश्लिष्टा वराङ्गने ।
अपत्यानां स्नुषाणां च भीरु विद्ध्येतदासनम् ॥
सव्योरुः कामिनीभोग्यस्त्वया स च विवर्जितः ।
तस्मादहं नाचरिष्ये त्वयि कामं वराङ्गने ॥
स्नुषा मे भव सुश्रोणि पुत्रार्थं त्वां वृणोम्यहम् ।
स्नुषापक्षं हि वामोरु त्वमागम्य समाश्रिता ॥
स्त्र्युवाच ।
एवमप्यस्तु धर्मज्ञ संयुज्येयं सुतेन ते ।
त्वद्भक्त्या तु भजिष्यामि प्रख्यातं भारतं कुलम् ॥
पृथिव्यां पार्थिवा ये च तेषां यूयं परायणम् ।
गुणा न हि मया शक्या वक्तुं वर्षशतैरपि ॥
कुलस्य ये वः प्रथितास्तत्साधुत्वमथोत्तमम् ।
समयेनेह धर्मज्ञ आचरेयं च यद्विभो ॥
तत्सर्वमेव पुत्रस्ते न मीमांसेत कर्हिचित् ।
एवं वसन्ती पुत्रे ते वर्धयिष्याम्यहं रतिम् ॥
पुत्रैः पुण्यैः प्रियैश्चैव स्वर्गं प्राप्स्यति ते सुतः ।
वैशंपायन उवाच ।
तथेत्युक्त्वा तु सा राजंस्तत्रैवान्तरधीयत ।
`अदृश्या राजसिंहस्य पश्यतः साऽभवत्तदा ॥'
पुत्रजन्म प्रतीक्षन्वै स राजा तदधारयत् ।
एतस्मिन्नेव काले तु प्रतीपः क्षत्रियर्षभः ॥
तपस्तेपे सुतस्यार्थे सभार्यः कुरुनन्दन ।
`प्रतीपस्य तु भार्यायां गर्भः श्रीमानवर्धत ॥
श्रिया परमया युक्तः शरच्छुक्ले यथा शशी ।
ततस्तु दशमे मासि प्राजायत रविप्रभम् ॥
कुमारं देवगर्भाभं प्रतीपमहिषी तदा ।' तयोः समभवत्पुत्रो वृद्धयोः स महाभिषक् ॥
शान्तस्य जज्ञे सन्तानस्तस्मादासीत्स शान्तनुः ।
`तस्य जातस्य कृत्यानि प्रतीपोऽकारयत्प्रभुः ॥
जातकर्मादि विप्रेण वेदोक्तैः कर्मभिस्तदा ।
नामकर्म च विप्रास्तु चक्रुः परमसत्कृतम् ॥
शान्तनोरवनीपाल वेदोक्तैः कर्मभिस्तदा ।
ततः संवर्धितो राजा शान्तनुर्लोकधार्मिकः ॥
स तु लेभे परां निष्ठां प्राप्य धर्मभृतां वरः ।
धनुर्वेदे च वेदे च गतिं स परमा गतः ॥
यौवनं चापि संप्राप्तः कुमारो वदतां वरः ।' संस्मरंश्चाक्षयाँल्लोकान्विजातान्स्वेन कर्मणा ॥
पुण्यकर्मकृदेवासीच्छान्तनुः कुरुसत्तमः ।
प्रतीपः शान्तनुं पुत्रं यौवनस्थं ततोऽन्वशात् ॥
पुरा स्त्री मां समभ्यागाच्छान्तनो भूतये तव ।
त्वामाव्रजेद्यदि रहः सा पुत्र वरवर्णिनी ॥
कामयानाऽभिरूपाढ्या दिव्यस्त्री पुत्रकाम्यया ।
सा त्वया नानुयोक्तव्या कासि कस्यासि चाङ्गने ॥
यच्च कुर्यान्न तत्कर्म सा प्रष्टव्या त्वयाऽनघ ।
सन्नियोगाद्भजन्तीं तां भजेथा इत्युवाच तम् ॥
एवं संदिश्य तनयं प्रतीपः शान्तनुं तदा ।
स्वे च राज्येऽभिषिच्यैनं वनं राजा विवेश ह ॥
स राजा शान्तनुर्धीमान्देवराजसमद्युतिः ।
`बभूव सर्वलोकस्य सत्यवागिति संमतः ॥
पीनस्कन्धो महाबाहुर्मत्तवारणविक्रमः ।
अन्वितः परिपूर्णार्थैः सर्वैर्नृपतिलक्षणैः ॥
अमात्यलक्षणोपेतः क्षत्रधर्मविशेषवित् ।
वशे चक्रे महीमेको विजित्य वसुधाधिपान् ॥
वेदानागमयत्कृत्स्नान्राजधर्मांश्च सर्वशः ।
ईजे च बहुभिः सत्रैः क्रतुभिर्भूरिदक्षिणैः ॥
तर्पयामास विप्रांश्च वेदाध्ययनकोविदान् ।
रत्नैरुच्चावचैर्गोभिर्ग्रामैरश्वैर्धनैरपि ॥
वयोरूपेण संपन्नः पौरुषेण बलेन च ।
ऐश्वर्येण प्रतापेन विक्रमेण धनेन च ॥
वर्तमानश्च सत्येन सर्वधर्मविशारदः ।
तं महीपं महीपाला राजराजमकुर्वत ॥
वीतशोकभयाबाधाः सुखस्वप्नप्रबोधाः ।
श्रिया भरतशार्दूल समपद्यन्त भूमिपाः ॥
नियमैः सर्ववर्णानां ब्रह्मोत्तरमवर्तत ।
ब्राह्मणाभिमुखं क्षत्रं क्षत्रियाभिमुखा विशः ॥
ब्रह्मक्षत्रानुकूलांश्च शूद्राः पर्यचरन्विशः ।
एवं पशुवराहाणां तथैव मृगपक्षिणाम् ॥
शान्तनावथ राज्यस्थे नावर्तत वृथा वधः ।
असुखानामनाथानां तिर्यग्योनिषु वर्तताम् ॥
स एव राजा सर्वेषां भूतानामभवत्पिता ।
स हस्तिनाम्नि धर्मात्मा विहरन्कुरुनन्दनः ॥
तेजसा सूर्यकल्पोऽभूद्वायुना च समो बले ।
अन्तकप्रतिमः कोपे क्षमया पृथिवीसमः ॥
बभूव राजा सुमतिः प्रजानां सत्यविक्रमः । स वनेषु च रम्येषु शैलप्रस्रवणेषु च ॥'
चचार मृगयाशीलः शान्तनुर्वनगोचरः ।
स मृगान्महिषांश्चैव विनिघ्नन्राजसत्तमः ॥
गङ्गामनु चचारैकः सिद्धचारणसेविताम् ।
स कदाचिन्महाराज ददर्श परमां स्त्रियम् ॥
जाज्वल्यमानां वपुषा साक्षाच्छ्रियमिवापराम् ।
सर्वानवद्यां सुदतीं दिव्याभरणभूषिताम् ॥
सूक्ष्माम्बरधरामेकां पद्मोदरसमप्रभाम् ।
`स्नातगात्रां धौतवस्त्रां गङ्गातीररुहे वने ॥
प्रकीर्णकेशीं पाणिभ्यां संस्पृशन्तीं शिरोरुहान् ।
रूपेण वयसा कान्त्या शरीरावयवैस्तथा ॥
हावभावविलासैश्च लोचनाञ्चलविक्रियैः ।
श्रोणीभारेण मध्येन स्तनाभ्यामुरसा दृशा ॥
कवरीभरेण पादाभ्यामिङ्गितेन स्मितेन च ।
कोकिलालापसंल्लापैर्न्यक्कुर्वन्तीं त्रिलोकगाम् ॥
वाणीं च गिरिजां लक्ष्मीं योषितोन्याः सुराङ्गनाः । सा च शान्तनुमब्यागादलक्ष्मीमपकर्षती ॥'
तां दृष्ट्वा हृष्टरोमाऽभूद्विस्मितो रूपसंपदा ।
पिबन्निव च नेत्राभ्यां नातृप्यत नराधिपः ॥
सा च दृष्ट्वैव राजानं विचरन्तं महाद्युतिम् ।
स्नेहादागतसौहार्दा नातृप्यत विलासिनी ॥
`गङ्गा कामेन राजानं प्रेक्षमाणा विलासिनी ।
चञ्चूर्यताग्रतस्तस्य किन्नरीवाप्सरोपमा ॥
दृष्ट्वा प्रहृष्टरूपोऽभूद्दर्शनादेव शान्तनुः । रूपेणातीत्य तिष्ठन्तीं सर्वा राजन्ययोषितः ॥'
तामुवाच ततो राजा सान्त्वयञ्श्लक्ष्णया गिरा ।
देवी वा दानवी वा त्वं गन्धर्वी चाथवाऽप्सराः ॥
यक्षी वा पन्नगी वाऽपि मानुषी वा सुमध्यमे ।
`याऽसि काऽसि सुरप्रख्ये महिषी मे भवानघे ॥
त्वां गता हि मम प्रामा वसु यन्मेऽस्ति किंचन ।' याचे त्वां सुरगर्भाभे भार्या मे भव शोभने ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि त्र्यधिकशततमोऽध्यायः ॥ 103 ॥

1-103-1 तत इति ॥ 1-103-8 दिव्यां दिवि भवाम् ॥ 1-103-9 निवृत्तं निरस्तम् ॥ 1-103-10 आश्लिष्टा संगता ॥ 1-103-15 समयेन नियमेन ॥ 1-103-16 न मीमांसेत न विचारयेत् ॥ 1-103-22 शान्तस्योपरतस्य वंशस्य संतानो विस्तार इति शान्ततनुः । तकारलोपेन शान्तनुरिति नाम ॥ 1-103-26 संस्मरन्निति व्यवहितमपि ज्ञानबलेन जानातीत्यर्थः ॥ 1-103-29 नानुयोक्तव्या न प्रष्टव्या ॥ त्र्यधिकशततमोऽध्यायः ॥ 103 ॥

अध्यायः 104

समयबन्धपूर्वकं गङ्गाशान्तन्वोर्विवाहः ॥ 1 ॥

वैशंपायन उवाच ।
एतच्छ्रुत्वा वचो राज्ञः सस्मितं मृदु वल्गु च ।
यशस्विनी च साऽगच्छच्छान्तनोर्भूतये तदा ॥
सा तु दृष्ट्वा नृपश्रेष्ठं चरन्तं तीरमाश्रितम् ।
वसूनां समयं स्मृत्वाऽथाभ्यगच्छदनिन्दिता ॥
प्रजार्थिनी राजपुत्रं शान्तनुं पृथिवीपतिम् ।
प्रतीपवचनं चापि संस्मृत्यैव स्वयं नृपम् ॥
कालोऽयमिति मत्वा सा वसूनां शापचोदिता ।
उवाच चैव राज्ञः सा ह्लादयन्ती मनो गिरा ॥
गङ्गोवाच ।
भविष्यामि महीपाल महिषी ते वशानुगा ।
न तु त्वं वा द्वितीयो वा ज्ञातुमिच्छेत्कथंचन ॥
यत्तु कुर्यामहं राजञ्शुभं वा यदि वाऽशुभम् ।
न तद्वारयितव्याऽस्मि न वक्तव्या तथाऽप्रियम् ॥
एवं हि वर्तमानेऽहं त्वयि वत्स्यामि पार्थिव ।
वारिता विप्रियं चोक्ता त्यजेयं त्वामसंशयम् ॥
एष मे समयो राजन्भज मां त्वं यथेप्सितम् ।
अनुनीताऽस्मि ते पित्रा भर्ता मे त्वं भव प्रभो ॥
वैशंपायन उवाच ।
तथेति सा यदा तूक्ता तदा भरतसत्तम ।
प्रहर्षमतुलं लेभे प्राप्य तं पार्थिवोत्तमम् ॥
प्रतिज्ञाय तु तत्तस्यास्तथेति मनुजाधिपः ।
रथमारोप्य तां देवीं जगाम स तया सह ॥
सा च शान्तनुमभ्यागात्साक्षाल्लक्ष्मीरिवापरा ।
आसाद्य शान्तनुस्तां च बुभुजे कामतो वशी ॥
न प्रष्टव्येति मन्वानो न स तां किंचिदूचिवान् ।
स तस्याः शीलवृत्तेन रूपौदार्यगुणेन च ॥
उपचारेण च रहस्तुतोष जगतीपतिः ।
स राजा परमप्रीतः परमस्त्रीप्रलालितः ॥
दिव्यरूपा हि सा देवी गङ्गा त्रिपथगामिनी ।
मानुषं विग्रहं कृत्वा श्रीमन्तं वरवर्णिनी ॥
भाग्योपनतकामस्य भार्या चोपनताऽभवत् ।
शन्तनोर्नृपसिंहस्य देवराजसमद्युतेः ॥
संभोगस्नेहचातुर्यैर्हावलास्यैर्मनोहरैः ।
राजानं रमयामास यथा रज्येत स प्रभुः ॥
स राजा रतिसक्तोऽभूदुत्तमस्त्रीगुणैर्हृतः ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि चतुरधिकशततमोऽध्यायः ॥ 104 ॥

अध्यायः 105

गङ्गया जातमात्रस्य पुत्रसप्तकस्य हननम् ॥ 1 ॥ अष्टमपुत्रहननोद्युक्तां स्वभार्यां प्रति शांन्तनुप्रश्नाः ॥ 2 ॥ पूर्ववृत्तकथनपूर्वकं गङ्गायाः प्रतिवचनम् ॥ 3 ॥

वैशंपायन उवाच ।
संवत्सरानृतून्मासान्बुबुधे न बहून्गतान् ।
रममाणस्तया सार्धं यथाकामं नरेश्वरः ॥
`दिविष्ठान्मानुषांश्चैव भोगान्भुङ्क्ते स वै नृपः ।' आसाद्य शान्तनुः श्रीमान्मुमुदे योषितां वराम् ॥
ऋतुकाले तु सा देवी दिव्यं गर्भमधारयत् ।
अष्टावजनयत्पुत्रांस्तस्मादमरसन्निभान् ॥
जातं जातं च सा पुत्रं क्षिपत्यम्यसि भारत ।
सूतके कण्ठमाक्रम्य तान्निनाय यमक्षयम् ॥
प्रीणाम्यहं त्वामित्युक्त्वा गङ्गास्रोतस्यमज्जयत् ।
तस्य तन्न प्रियं राज्ञः शान्तनोरभवत्तदा ॥
न च तां किंचनोवाच त्यागाद्भीतो महीपतिः ।
`अमीमांस्या कर्मयोनिरागमश्चेति शान्तनुः ॥
स्मरन्पितृवचश्चैव नापृच्छत्पुत्रकिल्बिषम् ।
जाताञ्जातांश्च वै हन्ति सा स्त्री सप्त वरान्सुतान् ॥
शान्तनुर्धर्मभङ्गाच्च नापृच्छत्तां कथंचन । अष्टमं तु जिघांसन्त्यां चुक्षुभे शान्तनोर्धृतिः ॥'
अथैनामष्टमे पुत्रे जाते प्रहसतीमिव ।
उवाच राजा दुःखार्तः परीप्सन्पुत्रमात्मनः ॥
`आलभन्तीं तदा दृष्ट्वा तां स कौरवनन्दनः । अब्रवीद्भरतश्रेष्ठो वाक्यं परमदुःखितः ॥'
मावधीः कस्य काऽसीति किं हिनत्सि सुतानिति ।
पुत्रघ्नि सुमहत्पापं संप्राप्तं ते सुगर्हितम् ॥
गङ्गोवाच ।
पुत्रकाम न ते हन्मि पुत्रं पुत्रवतां वर ।
जीर्णस्तु मम वासोऽयं यथा स समयः कृतः ॥
अहं गङ्गा जह्नुसुता महर्षिगणसेविता ।
देवकार्यार्थसिद्ध्यर्थमुषिताऽहं त्वया सह ॥
इमेऽष्टौ वसवो देवा महाभागा महौजसः ।
वसिष्ठशापदोषेण मानुषत्वमुपागताः ॥
तेषां जनयिता नान्यस्त्वदृते भुवि विद्यते ।
मद्विधा मानुषी धात्री लोके नास्तीह काचन ॥
तस्मात्तज्जननीहेतोर्मानुषत्वमुपागता ।
जनयित्वा वसूनष्टौ जिता लोकास्त्वयाऽक्षयाः ॥
देवानां समयस्त्वेष वसूनां संश्रुतो मया ।
जातं जातं मोक्षयिष्ये जन्मतो मानुषादिति ॥
तत्ते शापाद्विनिर्मुक्ता आपवस्य महात्मनः ।
स्वस्ति तेस्तु गमिष्यामि पुत्रं पाहि महाव्रतम् ॥
`अयं तव सुतस्तेषां वीर्येण कुलनन्दनः । संभूतोतिजनं कर्म करिष्यति न संशयः ॥'
एष पर्यायवासो मे वसूनां सन्निधौ कृतः ।
मत्प्रसूतिं विजानीहि गङ्गादत्तमिमं सुतम् ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि पञ्चाधिकशततमोऽध्यायः ॥ 105 ॥

1-105-11 तेत्वया ॥ 1-105-15 धात्री गर्भधारिणी ॥ 1-105-17 संश्रुतोऽङ्गीकृतः ॥ 1-105-18 आपवस्य वसिष्ठस्य ॥ पञ्चाधिकशततमोऽध्यायः ॥ 105 ॥

अध्यायः 106

स्वगोहर्तॄणां वसूनां वसिष्ठेन शापः ॥ 1 ॥ पुनस्तत्प्रार्थनया तुष्टने वसिष्टेन शापसंकोचः ॥ 2 ॥ गङ्गाया भीष्मेण सह स्वलोकगमनम् ॥ 3 ॥

शान्तनुरुवाच ।
आपवो नाम कोन्वेष वसूनां किं च दुष्कृतम् । `शशाप यस्मात्कल्याणि स वसूंश्चारुदर्शने ।'
यस्याभिशापात्ते सर्वे मानुषीं योनिमागताः ॥
अनेन च कुमारेण त्वया दत्तेन किं कृतम् ।
यस्य चैव कृतेनायं मानुषेषु निवत्स्यति ॥
ईशा वै सर्वलोकस्य वसवस्ते च वै कथम् ।
मानुषेषूदपद्यन्त तन्ममाचक्ष्व जाह्नवि ॥
वैशंपायन उवाच ।
एवमुक्ता तदा गङ्गा राजानमिदमब्रवीत् ।
भर्तारं जाह्नवी देवी शान्तनुं पुरुषर्षभ ॥
गङ्गोवाच ।
यं लेभे वरुणः पुत्रं पुरा भरतसत्तम ।
वसिष्ठनामा स मुनिः ख्यात आपव इत्युत ॥
तस्याश्रमपदं पुण्यं मृगपक्षिसमन्वितम् ।
मेरोः पार्श्वे नगेन्द्रस्य सर्वर्तुकुसुमावृतम् ॥
स वारुणिस्तपस्तेपे तस्मिन्भरतसत्तम ।
वने पुण्यकृतां श्रेष्ठः स्वादुमूलफलोदके ॥
दक्षस्य दुहिता या तु सुरभीत्यभिशब्दिता ।
गां प्रजाता तु सा देवी कश्यपाद्भरतर्षभ ॥
अनुग्रहार्थं जगतः सर्वकामदुहां वराम् ।
तां लेभे गां तु धर्मात्मा होमधेनुं स वारुणिः ॥
सा तस्मिंस्तापसारण्ये वसन्ती मुनिसेविते ।
चचार पुण्ये रम्ये च गौरपेतभया तदा ॥
अथ तद्वनमाजग्मुः कदाचिद्भरतर्षभ ।
पृथ्वाद्या वसवः सर्वे देवा देवर्षिसेवितम् ॥
ते सदारा वनं तच्च व्यचरन्त समन्ततः ।
रेमिरे रमणीयेषु पर्वतेषु वनेषु च ॥
तत्रैकस्याथ भार्या तु वसोर्वासवविक्रम ।
संचरन्ती वने तस्मिन्गां ददर्श सुमध्यमा ॥
नन्दिनीं नाम राजेन्द्र सर्वकामधुगुत्तमाम् ।
सा विस्मयसमाविष्टा शीलद्रविणसंपदा ॥
द्यवे वै दर्शयामास तां गां गोवृषभेक्षण ।
आपीनां च सुदोग्ध्रीं च सुवालधिखुरां शुभां ॥
उपपन्नां गुणैः सर्वैः शीलेनानुत्तमेन च ।
एवंगुणसमायुक्तां वसवे वसुनन्दिनी ॥
दर्शयामास राजेन्द्र पुरा पौरवनन्दन ।
द्यौस्तदा तां तु दृष्ट्वैव गां गजेन्द्रेन्द्रविक्रम ॥
उवाच राजंस्तां देवीं तस्या रूपगुणान्वदन् ।
एषा गौरुत्तमा देवी वारुणेरसितेक्षणा ॥
ऋषेस्तस्य वरारोहे यस्येदं वनमुत्तमम् ।
अस्याः क्षीरं पिबेन्मर्त्यः स्वादु यो वै सुमध्यमे ॥
दशवर्षसहस्राणि स जीवेत्स्थिरयौवनः ।
वैशंपायन उवाच ।
एतच्छ्रुत्वा तु सा देवी नृपोत्तम सुमध्यमा ॥
तमुवाचानवद्याङ्गी भर्तारं दीप्ततेजसम् ।
अस्ति मे मानुषे लोके नरदेवात्मजा सखी ॥
नाम्नाजितवती नाम रूपयौवनशालिनी ।
उशीनरस्य राजर्षेः सत्यसन्धस्य धीमतः ॥
दुहिता प्रथिता लोके मानुषे रूपसंपदा ।
तस्या हेतोर्महाभाग सवत्सां गां ममेप्सिताम् ॥
आनयस्वामरश्रेष्ठ त्वरितं पुण्यवर्धन ।
यावदस्याः पयः पीत्वा सा सखी मम मानद ॥
मानुषेषु भवत्वेका जरारोगविवर्जिता ।
एतन्मम महाभाग कर्तुमर्हस्यनिन्दित ॥
प्रियात्प्रियतरं ह्यस्मान्नास्ति मेऽन्यत्कथंचन ।
एतच्छ्रुत्वा वचस्तस्या देव्याः प्रियचिकीर्षया ॥
पृथ्वाद्यैर्भ्रातृभिः सार्धं द्यौस्तदा तां जहार गाम् ।
तया कमलपत्राक्ष्या नियुक्तो द्यौस्तदा नृप ॥
ऋषेस्तस्य तपस्वीव्रं न शशाक निरीक्षितुम् ।
हृता गौः सा तदा तेन प्रपातस्तु न तर्कितः ॥
अथाश्रमपदं प्राप्तः फलान्यादाय वारुणिः ।
न चापश्यत्स गां तत्र सवत्सां काननोत्तमे ॥
ततः स मृगयामास वने तस्मिंस्तपोधनः ।
नाध्यागमच्च मृगयंस्तां गां मुनिरुदारधीः ॥
ज्ञात्वा तथाऽपनीतां तां वसुभिर्दिव्यदर्शनः ।
ययौ क्रोधवशं सद्यः शशाप च वसूंस्तदा ॥
यस्मान्मे वसवो जह्रुर्गां वै दोग्ध्रीं सुवालधिम् ।
तस्मात्सर्वे जनिष्यन्ति मानुषेषु न संशयः ॥
एवं शशाप भगवान्वसूंस्तान्भरतर्षभ ।
वशं क्रोधस्य संप्राप्त आपवो मुनिसत्तमः ॥
शप्त्वा च तान्महाभागस्तपस्येव मनो दधे ।
एवं स शप्तवान्राजन्वसूनष्टौ तपोधनः ॥
महाप्रभावो ब्रह्मर्षिर्देवान्क्रोधसमन्वितः ।
`एवं शप्तास्ततस्तेन मुनिना यामुनेन वै ॥
अष्टौ समस्ता वंसवो दिवो दोषेण सत्तम ।' अथाश्रमपदं प्राप्तास्ते वै भूयो महात्मनः ॥
शप्ताः स्म इति जानन्त ऋषिं तमुपचक्रमुः ।
प्रसादयन्तस्तमृषिं वसवः पार्थिवर्षभ ॥
लेभिरे न च तस्मात्ते प्रसादमृषिसत्तमात् ।
आपवात्पुरुषव्याघ्र सर्वधर्मविशारदात् ॥
उवाच च स धर्मात्मा शप्ता यूयं धरादयः ।
अनुसंवत्सरात्सर्वे शापमोक्षमवाप्स्यथ ॥
अयं तु यत्कृते यूयं मया शप्ताः स वत्स्यति ।
द्यौस्तदा मानुषे लोके दीर्घकालं स्वकर्मणः ॥
नानृतं तच्चिकीर्षामि क्रुद्धो युष्मान्यदब्रुवम् ।
न प्रजास्यति चाप्येष मानुषेषु महामनाः ॥
भविष्यति च धर्मात्मा सर्वशास्त्रविशारदः ।
पितुः प्रियहिते युक्तः स्त्रीभोगान्वर्जयिष्यति ॥
एवमुक्त्वा वसून्सर्वान्सजगाम महानृषिः ।
ततो मामुपजग्मुस्ते समेता वसवस्तदा ॥
अयाचन्त च मां राजन्वरं तच्च मया कृतम् ।
जाताञ्जातान्प्रक्षिपास्मान्स्वयं गङ्गे त्वमम्भसि ॥
एवं तेषामहं सम्यक् शप्तानां राजसत्तम ।
मोक्षार्थं मानुषाल्लोकाद्यथावत्कृतवत्यहम् ॥
अयं शापादृषेस्तस्य एक एव नृपोत्तम ।
द्यौ राजन्मानुषे लोके चिरं वत्स्यति भारत ॥
अयं कुमारः पुत्रस्ते विवृद्धः पुनरेष्यति ।
अहं च ते भविष्यामि आह्वानोपगता नृप ॥
वैशंपायन उवाच ।
एतदाख्याय सा देवी तत्रैवान्तरधीयत ।
आदाय च कुमारं तं जगामाथ यथेप्सितम् ॥
स तु देवव्रतो नाम गाङ्गेय इति चाभवत् ।
द्युनामा शान्तनोः पुत्रः शान्तनोरधिको गुणैः ॥
शान्तनुश्चापि शोकार्तो जगाम स्वपुरं ततः ।
तस्याहं कीर्तयिष्यामि शान्तनोरधिकान्गुणान् ॥
महाभाग्यं च नृपतेर्भारतस्य महात्मनः ।
यस्येतिहासो द्युतिमान्महाभारतमुच्यते ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि षडधिकशततमोऽध्यायः ॥ 106 ॥

1-106-8 गां प्रजाता नन्दिनीं जनितवती ॥ 1-106-15 द्यवे द्युसंज्ञाय वसवे । वालधिः पुच्छम् ॥ 1-106-16 वसुनन्दिनी वसुप्रिया ॥ 1-106-28 प्रपातो वसिष्ठशापरूपः ॥ 1-106-41 न प्रजास्यत्यात्मनः प्रजेच्छां न करिष्यति । क्यजन्तोयम् ॥ षडधिकशततमोऽध्यायः ॥ 106 ॥

अध्यायः 107

शान्तनुभीष्मयोश्चरितम् ॥ 1 ॥ शान्तनोः पुनर्गङ्गादर्शनं तया सह संवादश्च ॥ 2 ॥ गङ्गादत्तेन भीष्मेण सह शान्तनोः स्वपुरप्रवेशः ॥ 3 ॥ भीष्मस्य यौवराज्येभिषेकः ॥ 4 ॥ शान्तनुभावं ज्ञात्वा दाशाशयानुसारेण प्रतिज्ञापूर्वकं भीष्मेण दाशकन्यानयनम् ॥ 5 ॥ तुष्टेन शान्तनुना भीष्माय स्वच्छन्दमरणवरदानम् ॥ 6 ॥

वैशंपायन उवाच ।
स राजा शान्तनुर्धीमान्देवराजर्षिसत्कृतः ।
धर्मात्मा सर्वलोकेषु सत्यवागिति विश्रुतः ॥
शान्तनोः कीर्तयिष्यामि सर्वानेव गुणानहम् । दमो दानं क्षमा बुद्धिर्ह्रीर्धृतिस्तेज उत्तमम् ।
नित्यान्यासन्महासत्वे शान्तनौ पुरुषर्षभे ॥
एवं स गुणसंपन्नो धर्मार्थकुशलो नृपः ।
आसीद्भरतवंशस्य गोप्ता सर्वजनस्य च ॥
कम्बुग्रीवः पृथुव्यंसो मत्तवारणविक्रमः ।
अन्वितः परिपूर्णार्थैः सर्वैर्नृपतिलक्षणैः ॥
तस्य कीर्तिमतो वृत्तमवेक्ष्य सततं नराः ।
धर्म एव परः कामादर्थाच्चेति व्यवस्थितः ॥
एवमासीन्महासत्वः शान्तनुर्भरतर्षभ ।
न चास्य सदृशः कश्चिद्धर्मतः पार्थिवोऽभवत् ॥
वर्तमानं हि धर्मेषु सर्वधर्मभृतां वरम् ।
तं महीपा महीपालं राजराज्येऽभ्यषेचयन् ॥
वीतशोकभयाबाधाः सुखस्वप्ननिबोधनाः ।
पतिं भारतगोप्तारं समपद्यन्त भूमिपाः ॥
तेन कीर्तिमता शिष्टाः शक्रप्रतिमतेजसा ।
यज्ञदानक्रियाशीलाः समपद्यन्त भूमिपाः ॥
शान्तनुप्रमुखैर्गुप्ते लोके नृपतिभिस्तदा ।
नियमात्सर्ववर्णानां धर्मोत्तरमवर्तत ॥
ब्रह्म पर्यचरत्क्षत्रं विशः क्षत्रमनुव्रताः ।
ब्रह्मक्षत्रानुरक्ताश्च शूद्राः पर्यचरन्विशः ॥
स हास्तिनपुरे रम्ये कुरूणां पुटभेदने ।
वसन्सागरपर्यन्तामन्वशासद्वसुन्धराम् ॥
स देवराजसदृशो धर्मज्ञः सत्यवागृजुः ।
दानधर्मतपोयोगाच्छ्रिया परमया युतः ॥
अरागद्वेषसंयुक्तः सोमवत्प्रियदर्शनः ॥ तेजसा सूर्यकल्पोऽभूद्वायुवेगसमो जवे ।
अन्तकप्रतिमः कोपे क्षमया पृथिवीसमः ॥
वधः पशुवराहाणां तथैव मृगपक्षिणाम् ।
शान्तनौ पृथिवीपाले नावर्तत तथा नृप ॥
ब्रह्मधर्मोत्तरे राज्ये शान्तनुर्विनयात्मवान् ।
समं शशास भूतानि कामरागविवर्जितः ॥
`चकोरनेत्रस्ताम्रास्यः सिंहर्षभगतिर्युवा । गुणैरनुपमैर्युक्तः समस्तैराभिगामिकैः ।
गम्भीरः सत्वसंपन्नः पूर्णचन्द्रनिभाननः ॥'
देवर्षिपितृयज्ञार्थमारभ्यन्त तदा क्रियाः ।
न चाधर्मेण केषांचित्प्राणिनामभवद्वधः ॥
असुखानामनाथानां तिर्यग्योनिषु वर्तताम् ।
स एव राजा सर्वेषां भूतानामभवत्पिता ॥
तस्मिन्कुरुपतिश्रेष्ठे राजराजेश्वरे सति ।
श्रिता वागभवत्सत्यं दानधर्माश्रितं मनः ॥
`यज्ञार्थं पशवः सृष्टाः संतानार्थं च मैथुनम् ।' स समाः षोडशाष्टौ च चतस्रोऽष्टौ तथाऽपराः ।
रतिमप्राप्नुवन्स्त्रीषु बभूव वनगोचरः ॥
तथारूपस्तथाचारस्तथावृत्तस्तथाश्रुतः ।
गाङ्गेयस्तस्य पुत्रोऽभून्नाम्ना देवव्रतो वसुः ॥
सर्वास्त्रेषु स निष्णातः पार्थिवेष्वितरेषु च ।
महाबलो महासत्वो महावीर्यो महारथः ॥
स कदाचिन्मृगं विद्ध्वा गङ्गामनुसरन्नदीम् ।
भागीरथीमल्पजलां शान्तनुर्दृष्टवान्नृपः ॥
तां दृष्ट्वा चिन्तयामास शान्तनुः पुरुषर्षभः ।
स्यन्दते किं न्वियं नाद्य सरिच्छ्रेष्ठा यथा पुरा ॥
ततो निमित्तमन्विच्छन्ददर्श स महामनाः ।
कुमारं रूपसंपन्नं बृहन्तं चारुदर्शनम् ॥
दिव्यमस्त्रं विकुर्वाणं यथा देवं पुरन्दरम् ।
कृत्स्नां गङ्गां समावृत्य शरैस्तीक्ष्णैरवस्थितम् ॥
तां शरैराचितां दृष्ट्वा नदीं गङ्गां तदन्तिके ।
अभवद्विस्मितो राजा दृष्ट्वा कर्मातिमानुषम् ॥
जातमात्रं पुरा दृष्टं तं पुत्रं शान्तनुस्तदा ।
नोपलेभे स्मृतिं धीमानभिज्ञातुं तमात्मजम् ॥
स तु तं पितरं दृष्ट्वा मोहयामास मायया ।
संमोह्य तु ततः क्षिप्रं तत्रैवान्तरधीयत ॥
तदद्बुतं ततो दृष्ट्वा तत्र राजा स शान्तनुः ।
सङ्कमानः सुतं गङ्गामब्रवीद्दर्शयेति ह ॥
दर्शयामास तं गङ्गा बिभ्रती रूपमुत्तमम् ।
गृहीत्वा दक्षिणे पाणौ तं कुमारमलङ्कृतम् ॥
अलङ्कृतामाभरणैर्विरजोम्बरधारिणीम् ।
दृष्टपूर्वामपि स तां नाभ्यजानात्स शान्तनुः ॥
गङ्गोवाच ।
यं पुत्रमष्टमं राजंस्त्वं पुरा मय्यविन्दथाः ।
स चायं पुरुषव्याघ्र सर्वास्त्रविदनुत्तमः ॥
गृहाणेमं महाराज मया संवर्धितं सुतम् ।
आदाय पुरुषव्याघ्र नयस्वैनं गृहं विभो ॥
वेदानधिजगे साङ्गान्वसिष्ठादेष वीर्यवान् ।
कृतास्त्रः परमेष्वासो देवराजसमो युधि ॥
सुराणां संमतो नित्यमसुराणां च भारत ।
उशा वेद यच्छास्त्रमयं तद्वेद सर्वशः ॥
तथैवाङ्गिरसः पुत्रः सुरसुरनमस्कृतः ।
यद्वेद शास्त्रं तच्चापि कृत्स्नमस्मिन्प्रतिष्ठितम् ॥
तव पुत्रे महाबाहौ साङ्गोपाङ्गं महात्मनि ।
ऋषिः परैरनाधृष्यो जामदग्न्यः प्रतापवान् ॥
यदस्त्रं वेद राभश्च तदेतस्मिन्प्रतिष्ठितम् ।
महेष्वासमिमं राजन्राजधर्मार्थकोविदम् ॥
मया दत्तं निजं पुत्रं वीरं वीर गृहं नय ।
वैशंपायन उवाच ।
`इत्युक्त्वा सा महाभागा तत्रैवान्तरधीयत ।'
तयैवं समनुज्ञातः पुत्रमादाय शान्तनुः ॥
भ्राजमानं यथाऽदित्यमाययौ स्वपुरं प्रति ।
पौरवस्तु पुरीं गत्वा पुरन्दरपुरोपमाम् ॥
सर्वकामसमृद्धार्थं मेने सोत्मानमात्मना ।
पौरवेषु ततः पुत्रं राज्यार्थमभयप्रदम् ॥
गुणवन्तं महात्मानं यौवराज्येऽभ्यषेचयत् ।
पौरवाञ्शान्तनोः पुत्रः पितरं च महायशाः ॥
राष्ट्रं च रञ्जयामास वृत्तेन भरतर्षभ ।
स तथा सह पुत्रेण रममाणो महीपतिः ॥
वर्तयामास वर्षाणि चत्वार्यमितविक्रमः ।
स कदाचिद्वनं यातो यमुनामभितो नदीम् ॥
महीपतिरनिर्देश्यमाजिघ्रद्गन्धमुत्तमम् ।
तस्य प्रभवमन्विच्छन्विचचार समन्ततः ॥
स ददर्श तदा कन्यां दाशानां देवरूपिणीम् ।
तामपृच्छत्स दृष्ट्वैव कन्यामसितलोचनाम् ॥
कस्य त्वमसि का चासि किं च भीरु चिकीर्षसि ।
साऽब्रवीद्दाशकन्याऽस्मि धर्मार्थं वाहये तरिम् ॥
पितुर्नियोगाद्भद्रं ते दाशराज्ञो महात्मनः ।
रूपमाधुर्यगन्धैस्तां संयुक्तां देवरूपिणीम् ॥
समीक्ष्य राजा दाशेयीं कामयामास शान्तनुः ।
स गत्वा पितरं तस्या वरयामास तां तदा ॥
पर्यपृच्छत्ततस्तस्याः पितरं सोत्मकारणात् ।
स च तं प्रत्युवाचेदं दाशराजो महीपतिम् ॥
जातमात्रैव मे देया वराय वरवर्णिनी ।
हृदि कामस्तु मे कश्चित्तं निबोध जनेश्वर ॥
यदीमां धर्मपत्नीं त्वं मत्तः प्रार्थयसेऽनघ ।
सत्यवागसि सत्येन समयं कुरु मे ततः ॥
समयेन प्रदद्यां ते कन्यामहमिमां नृप ।
न हि मे त्वत्समः कश्चिद्वरो जातु भविष्यति ॥
शान्तनुरुवाच ।
श्रुत्वा तव वरं दाश व्यवस्येयमहं तव ।
दातव्यं चेत्प्रदास्यामि न त्वदेयं कथंचन ॥
दाश उवाच ।
अस्यां जायेत यः पुत्रः स राजा पृथिवीपते ।
त्वदूर्ध्वमभिषेक्तव्यो नान्यः कश्चन पार्थिव ॥
वैशंपायन उवाच ।
नाकामयत तं दातुं वरं दाशाय शान्तनुः ।
शरीरजेन तीव्रेण दह्यमानोऽपि भारत ॥
स चिन्तयन्नेव तदा दाशकन्यां महीपतिः ।
प्रत्ययाद्धास्तिनपुरं कामोपहतचेतनः ॥
ततः कदाचिच्छोचन्तं शान्तनुं ध्यानमास्थितम् ।
पुत्रो देवव्रतोऽभ्येत्य पितरं वाक्यमब्रवीत् ॥
सर्वतो भवतः क्षेमं विधेयाः सर्वपार्थिवाः ।
तत्किमर्थमिहाभीक्ष्णं परिशोचसि दुःखितः ॥
ध्यायन्निव च मां राजन्नाभिभाषसि किंचन ।
न चाश्वेन विनिर्यासि विवर्णो हरिणः कृशः ॥
व्याधिमिच्छामि ते ज्ञातुं प्रतिकुर्यां हि तत्र वै ।
`वैशंपायन उवाच ।
स तं काममवाच्यं वै दाशकन्यां प्रतीदृशम् ॥
विवर्तुं नाशकत्तस्मै पिता पुत्रस्य शान्तनुः ।' एवमुक्तः स पुत्रेण शान्तनुः प्रत्यभाषत ॥
असंशयं ध्यानपरो यथा वत्स तथा शृणु ।
अपत्यं नस्त्वमेवैकः कुले महति भारत ॥
शस्त्रनित्यश्च सततं पौरुषे पर्यवस्थितः ।
अनित्यतां च लोकानामनुशोचामि पुत्रक ॥
कथंचित्तव गाङ्गेय विपत्तौ नास्ति नः कुलम् ।
असंशयं त्वमेवैकः शतादपि वरः सुतः ॥
न चाप्यहं वृथा भूयो दारान्कर्तुमिहोत्सहे ।
संतानस्याविनाशाय कामये भद्रमस्तु ते ॥
अनपत्यतैकपुत्रत्वमित्याहुर्धर्मवादिनः । `चक्षुरेकं च पुत्रश्च अस्ति नास्ति च भारत ।
चक्षुर्नाशे तनोर्नाशः पुत्रनाशे कुलक्षयः ॥'
अग्निहोत्रं त्रयी विद्या यज्ञाश्च सहदक्षिणाः ।
सर्वाण्येतान्यपत्यस्य कलां नार्हन्ति षोडशीम् ॥
एवमेतन्मनुष्येषु तच्च सर्वं प्रजास्विति ।
यदपत्यं महाप्राज्ञ तत्र मे नास्ति संशयः ॥
`अपत्येनानृणो लोके पितॄणां नास्ति संशयः ।' एषा त्रयी पुराणानां देवतानां च शाश्वती ॥
`अपत्यं कर्म विद्या च त्रीणि ज्योतींषि भारत ॥'
त्वं च शूरः सदाऽमर्षी शस्त्रनित्यश्च भारत ।
नान्यत्र युद्धात्तस्मात्ते निधनं विद्यते क्वचित् ॥
सोऽस्मि संशयमापन्नस्त्वयि शान्ते कथं भवेत् ।
इति ते कारणं तात दुःखस्योक्तमशेषतः ॥
वैशंपायन उवाच ।
ततस्तत्कारणं राज्ञो ज्ञात्वा सर्वमशेषतः ।
देवव्रतो महाबुद्धिः प्रज्ञया चान्वचिन्तयत् ॥
अपत्यफलसंयुक्तमेतच्छ्रुत्वा पितुर्वचः ।
सूतं भूयोऽपि संतप्त आह्वयामास वै पितुः ॥
सूतस्तु कुरुमुख्यस्य उपयातस्तदाज्ञया ।
तमुवाच महाप्राज्ञो भीष्मो वै सारथिं पितुः ॥
त्वं सारथे पितुर्मह्यं सखासि रथधूर्गतः ।
अपि जानासि यदि वै कस्यां भावो नृपस्य तु ॥
तदाचक्ष्व भवान्पृष्टः करिष्ये न तदन्यथा ।
सूत उवाच ।
दाशकन्या कुरुश्रेष्ठ तत्र भावः पितुर्गतः ॥
वृतः स नरदेवेन तदा वचनमब्रवीत् ।
योऽस्यां पुमान्भवेज्जातः स राजा त्वदनन्तरम् ॥
नाकामयत तं दातुं पिता तव वरं तदा ।
स चापि निश्चयस्तस्य न च दद्यां ततोऽन्यथा ॥
एतत्ते कथितं वीर कुरुष्व यदनन्तरम् ।
वैशंपायन उवाच ।
ततः स पितुराज्ञाय मतं सम्यगवेक्ष्य च ।
ज्ञात्वा च मानसं पुत्रः प्रययौ यमुनां प्रति ॥
क्षत्रियैः सह धर्मात्मा पुराणैर्धर्मचारिभिः ।
उच्चैश्श्रवसमागम्य कन्यां वव्रे पितुः स्वयम्' ॥
तं दाशः प्रतिजग्राह विधिवत्प्रतिपूज्य च ।
अब्रवीच्चैनमासीनं राजसंसदि भारत ॥
`राज्यशुल्का प्रदातव्या कन्येयं याचतां वर । अपत्यं यद्भवेदस्याः स राजाऽस्तु पितुः परम् ॥'
त्वमेवात्र महाबाहो शान्तनोर्वंशवर्धनः ।
पुत्रः शस्त्रभृतां श्रेष्ठः किं नु वक्ष्यामि ते वचः ॥
`कुमारिकायाः शुल्कार्थं किंचिद्वक्ष्यामि भारत ।' कोहि संबन्धखं श्लाघ्यमीप्सितं यौनमीदृशम् ।
अतिक्रामन्न तप्येत साक्षादपि शतक्रतुः ॥
अपत्यं चैतदार्यस्य यो युष्माकं समो गुणैः ।
यस्य शुक्रात्सत्यवती संभूता वरवर्णिनी ॥
तेन मे बहुशस्तात पिता ते परिकीर्तितः ।
अर्हः सत्यवतीं वोढुं धर्मज्ञः स नराधिपः ॥
`इयं सत्यवती देवी पितरं तेऽब्रवीत्तथा ।
अर्थितश्चापिराजर्षिः प्रत्याख्यातः पुरा मया' ॥
कन्यापितृत्वात्किंचित्तु वक्ष्यामि त्वां नराधिप ।
बलवत्सपत्नतामत्र दोषं पश्यामि केवलम् ॥
`भूयांसं त्वयि पश्यामि तद्दोषमपराजित ।' यस्य हि त्वं सपत्नः स्या गन्धर्वस्यासुरस्य वा ॥
न स जातु चिरं जीवेत्त्वयि क्रुद्धे परन्तप ।
एतावानत्र दोषो हि नान्यः कश्चन पार्थिव ॥
एतज्जानीहि भद्रं ते दानादाने परन्तप ॥
वैशंपायन उवाच ।
एवमुक्तस्तु गाङ्गेयस्तद्युक्तं प्रत्यभाषत ।
शृण्वतां भूमिपालानां पितुरर्थाय भारत ॥
`इदं वचनमाधत्स्व नास्ति वक्तास्य मत्समः ।
अन्यो जातो न जनिता न च कश्चन संप्रति' ॥
एवमेतत्करिष्यामि यथा त्वमनुभाषसे ।
योऽस्यां जनिष्यते पुत्रः स नो राजा भविष्यति ॥
इत्युक्तः पुनरेव स्म तं दाशः प्रत्यभाषत ।
चिकीर्षुर्दुष्करं कर्म राज्यार्थे भरतर्षभ ॥
त्वमेव नाथः संप्राप्तः शान्तनोरमितद्युते ।
कन्यायाश्चैव धर्मात्मन्प्रभुर्दानाय चेश्वरः ॥
इदं तु वचनं सौम्य कार्यं चैव निबोध मे ।
कौमारिकाणां शीलेन वक्ष्याम्यहमरिन्दम ॥
यत्त्वया सत्यवत्यर्थे सत्यधर्मपरायण ।
राजमध्ये प्रतिज्ञातमनुरूपं तवैव तत् ॥
नान्यथा तन्महाबाहो संशयोऽत्र न कश्चन ।
तवापत्यं भवेद्यत्तु तत्र नः संशयो महान् ॥
वैशंपायन उवाच ।
तस्यैतन्मतमाज्ञाय सत्यधर्मपरायणः ।
प्रत्यजानात्तदा राजन्पितुः प्रियचिकीर्षया ॥
गाङ्गेय उवाच ।
`उच्चैश्श्रवः समाधत्स्व प्रतिज्ञां जनसंसदि ।
ऋषयो वाथ वा देवा भूतान्यन्तर्हितानि च ॥
यानि यानीह शृण्वन्तु नास्ति वक्तास्य मत्समः ।' दाशराज निबोधेदं वचनं मे नृपोत्तम ॥
शृण्वतां भूमिपालानां यद्ब्रवीमि पितुः कृते ।
राज्यं तावत्पूर्वमेव मया त्यक्तं नराधिपाः ॥
अपत्यहेतोरपि च करिष्येऽद्य विनिश्चयम् ।
अद्यप्रभृति मे दाश ब्रह्मचर्यं भविष्यति ॥
अपुत्रस्यापि मे लोका भविष्यन्त्यक्षया दिवि ।
`न हि जन्मप्रभृत्युक्तं मया किंचिदिहानृतम् ॥
यावत्प्राणा ध्रियन्ते वै मम देहं समाश्रिताः ।
तावन्न जनयिष्यामि पित्रे कन्यां प्रयच्छ मे ॥
परित्यजाम्यहं राज्यं मैथुनं चापि सर्वशः । ऊर्ध्वरेता भविष्यामि दाश सत्यं ब्रवीमि ते ॥'
वैशंपायन उवाच ।
तस्य तद्वचनं श्रुत्वा संप्रहृष्टतनूरुहः ।
ददानीत्येव तं दाशो धर्मात्मा प्रत्यभाषत ॥
ततोन्तरिक्षेऽप्सरसो देवाः सर्षिगणास्तदा । `तद्दृष्टा दुष्करं कर्म प्रशशंसुश्च पार्थिवाः ॥'
अभ्यवर्षन्त कुसुमैर्भीष्मोऽयमिति चाब्रुवन् ।
ततः स पितुरर्थाय तामुवाच यशस्विनीम् ॥
अधिरोह रथं मातर्गच्छावः स्वगृहानिति ।
एवमुक्त्वा तु भीष्मस्तां रथमारोप्य भामिनीं ॥
आगम्य हास्तिनपुरं शान्तनोः संन्यवेदयत् ।
तस्य तद्दुष्करं कर्म प्रशशंसुर्नाराधिपाः ॥
समेताश्च पृथक्चैव भीष्मोयमिति चाब्रुवन् ।
तच्छ्रुत्वा दुष्करं कर्म कृतं भीष्मेण शान्तनुः ॥
बभूव दुःखितो राजा चिररात्राय भारत । स तेन कर्मणा सूनोः प्रीतस्तस्मै वरं ददौ ॥'
स्वच्छन्दमरणं तुष्टो ददौ तस्मै महात्मने ।
न ते मृत्युः प्रभविता यावज्जीवितुमिच्छसि ॥
त्वत्तो ह्यनुज्ञां संप्राप्य मृत्युः प्रभविताऽनघ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि सप्ताधिकशततमोऽध्यायः ॥ 107 ॥

1-107-12 पुटभेदने पत्तने ॥ 1-107-16 ब्रह्मधर्मोत्तरे अहिंसाधर्मप्रधाने ॥ 1-107-20 वाक् सत्यं श्रिताभवत् ॥ 1-107-36 अधिजगे अधीतवान् ॥ 1-107-49 तरिं नावम् ॥ 1-107-56 व्यवस्येयं विनिश्चिनुयम् ॥ 1-107-58 शरीरजेन कामेन ॥ 1-107-62 हरिणः पाण्डुगात्रः ॥ 1-107-72 पुराणानां पुरातनानाम् ॥ 1-107-95 दाने वसुवचनं अदाने बलवत्सपत्नता अत्र कारणमिति शेषः ॥ सप्तोत्तरशततमोऽध्यायः ॥ 107 ॥

अध्यायः 108

शान्तनुसत्यवतीविवाहः ॥ 1 ॥ चित्राङ्गदविचित्रवीर्ययोरुत्पत्तिः ॥ 2 ॥ शान्तनुमरणम् ॥ 3 ॥ चित्राङ्गदमरणम् ॥ 4 ॥ विचित्रवीर्यस्य राज्येऽभिषेकः ॥ 5 ॥

वैशंपायन उवाच ।
`चेदिराजसुतां ज्ञात्वा दाशराजेन वर्धिताम् । विवाहं कारयामास शास्त्रदृष्टेन कर्मणा ॥'
ततो विवाहे निर्वृत्ते स राजा शान्तनुर्नृपः ।
तां कन्यां रूपसंपन्नां स्वगृहे संन्यवेशयत् ॥
ततः शान्तनवो धीमान्सत्यवत्यामजायत ।
वीरश्चित्राङ्गदो नाम वीर्यवान्पुरुषेश्वरः ॥
अथापरं महेष्वासं सत्यवत्यां सुतं प्रभुः ।
विचित्रवीर्यं राजानं जनयामास वीर्यवान् ॥
अप्राप्तवति तस्मिंस्तु यौवनं पुरुषर्षभे ।
स राजा शान्तनुर्धीमान्कालधर्ममुपेयिवान् ॥
स्वर्गते शान्तनौ भीष्मश्चित्राङ्गदमरिन्दनम् ।
स्थापयामास वै राज्ये सत्यवत्या मते स्थितः ॥
स तु चित्राङ्गदः शौर्यात्सर्वांश्चिक्षेप पार्थिवान् ।
मनुष्यं न हि मेन स कंचित्सदृशमात्मनः ॥
तं क्षिपन्तं सुरांश्चैव मनुष्यानसुरांस्तथा ।
गन्धर्वराजो बलवांस्तुल्यनामाऽभ्ययात्तदा ॥
गन्धर्व उवाच ।
`त्वं वै सदृशनामासि युद्धं देहि नृपात्मज ।
नाम वाऽन्यत्प्रगृह्णीष्व यदि युद्धं न दास्यसि ॥
त्वयाहं युद्धमिच्छामि त्वत्सकाशं तु नामतः ।
आगतोस्मि वृथाऽऽभाष्य न गच्छेन्नाम ते मम ॥
इत्युक्त्वा गर्जमानौ तौ हिरण्वत्यास्तटं गतौ' ।
तेनास्य सुमहद्युद्धं कुरुक्षेत्रे बभूव ह ॥
तयोर्बलवतोस्तत्र गन्धर्वकुरुमुख्ययोः ।
नद्यास्तीरे हिरण्वत्याः समास्तिस्रोऽभवद्रणः ॥
तस्मिन्विमर्दे तुमुले शस्त्रवर्षसमाकुले ।
मायाधिकोऽवधीद्वीरं गन्धर्वः कुरुसत्तमम् ॥
स हत्वा तु नरश्रेष्ठं चित्राङ्गदमरिन्दमम् ।
अन्ताय कृत्वा गन्धर्वो दिवमाचक्रमे ततः ॥
तस्मिन्पुरुषशार्दूले निहते भूरितेजसि ।
भीष्मः शान्तनवो राजा प्रेतकार्याण्यकारयत् ॥
विचित्रवीर्यं च तदा बालमप्राप्तयौवनम् ।
कुरुराज्ये महाबाहुरभ्यषिञ्चदनन्तरम् ॥
विचित्रवीर्यः स तदा भीष्मस्य वचने स्थितः ।
अन्वशासन्महाराज पितृपैतामहं पदम् ॥
स धर्मशास्त्रकुशलं भीष्मं शान्तनवं नृपः ।
पूजयामास धर्मेण स चैनं प्रत्यपालयत् ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि अष्टाधिकशततमोऽध्यायः ॥ 108 ॥

अध्यायः 109

भीष्मस्य काशिपतिकन्याहरणार्थं वाराणसीगमनम् ॥ 1 ॥ कन्यां हृतवता भीष्मेण युद्धे राज्ञां पराजयः ॥ 2 ॥ मध्येमार्गं साल्वपराजयः ॥ 3 ॥ विचित्रवीर्यविवाहोपक्रमे तमनिच्छन्त्या ज्येष्ठाया अम्बयाः साल्वं प्रति गमनम् ॥ 4 ॥ तेन प्रत्याख्यातायाः पुनर्भीष्मं प्राप्ताय अम्ब्रायाः भीष्मेण निराकरणम् ॥ 5 ॥ भीष्मजिघांसया तपस्यन्त्या अम्बायाः प्रसन्नात्कुमारान्मालाप्राप्तिः ॥ 6 ॥

वैशंपायन उवाच ।
हते चित्राङ्गदे भीष्मो बाले भ्रातरि कौरव ।
पालयामास तद्राज्यं सत्यवत्या मते स्थितः ॥
`तथा विचित्रवीर्यं तु वर्तमानं सुखेऽतुले ।' संप्राप्तयौवनं दृष्ट्वा भ्रातरं धीमतां वरः ।
भीष्मो विचित्रवीर्यस्य विवाहायाकरोन्मतिम् ॥
अथ काशिपतेर्भीष्मः कन्यास्तिस्रोऽप्सरोपमाः ।
शुश्राव सहिता राजन्वृण्वाना वै स्वयंवरम् ॥
ततः स रथिनां श्रेष्ठो रथेनैकेन शत्रुजित् ।
जगामानुमते मातुः पुरीं वाराणसीं प्रभुः ॥
तत्र राज्ञः समुदितान्सर्वतः समुपागतान् ।
ददर्श कन्यास्ताश्वै भीष्मः शान्तनुनन्दनः ॥
`तासां कामेन संमत्ताः सहिताः काशिकोसलाः । वङ्गाः पुण्ड्राः कलिङ्गाश्च ते जग्मुस्तां पुरीं प्रति ॥'
कीर्त्यमानेषु राज्ञां तु तदा नामसु सर्वशः ।
एकाकिनं तदा भीष्मं वृद्धं शान्तनुनन्दनम् ॥
सोद्वेगा इव तं दृष्ट्वा कन्याः परमशोभनाः ।
अपाक्रामन्त ताः सर्वा वृद्ध इत्येव चिन्तया ॥
वृद्धः परमधर्मात्मा वलीपलितधारणः ।
किकारणमिहायातो निर्लज्जो भरतर्षभः ॥
मिथ्याप्रतिज्ञो लोकेषु किं वदिष्यति भारत ।
ब्रह्मचारीति भीष्मो हि वृथैव प्रथितो भुवि ॥
इत्येवं प्रबुवन्तस्ते हसन्ति स्म नृपाधमाः ।
वैशंपायन उवाच ।
क्षत्रियाणां वचः श्रुत्वा भीष्मश्चुक्रोध भारत ॥
भीष्मस्तदा स्वयं कन्या वरयामास ताः प्रभुः ।
उवाच च महीपालान्राजञ्जलदनिःस्वनः ॥
रथमारोप्य ताः कन्या भीष्मः प्रहरतां वरः ।
आहूय दानं कन्यानां गुणवद्भ्यः स्मृतं बुधैः ॥
अलङ्कृत्य यथाशक्ति प्रदाय च धनान्यपि ।
प्रयच्छन्त्यपरे कन्यां मिथुनेन गवामपि ॥
वित्तेन कथितेनान्ये बलेनान्येऽनुमान्य च ।
प्रमत्तामुपयन्त्यन्ये स्वयमन्ये च विन्दते ॥
आर्षं विधिं पुरस्कृत्य दारान्विन्दन्ति चापरे ।
अष्टमं तमथो वित्त विवाहं कविभिर्वृतम् ॥
स्वयंवरं तु राजन्याः प्रशंसन्त्युपयान्ति च ।
प्रमथ्य तु हृतामाहुर्ज्यायसीं धर्मवादिनः ॥
ता इमाः पृथिवीपाला जिहीर्षामि बलादितः ।
ते यतध्वं परं शक्त्या विजयायेतराय वा ॥
स्थितोऽहं पृथिवीपाला युद्धाय कृतनिश्चयः ।
वैशंपायन उवाच ।
एवमुक्त्वा महीपालान्काशिराजं च वीर्यवान् ॥
सर्वाः कन्याः स कौरव्यो रथमारोप्य च स्वकम् ।
आमन्त्र्य च स तान्प्रायाच्छीघ्रं कन्याः प्रगृह्य ताः ॥
ततस्ते पार्थिवाः सर्वे समुत्पेतुरमर्षिताः ।
संस्पृशन्तः स्वकान्बाहून्दशन्तो दशनच्छदान् ॥
तेषामाभरणान्याशु त्वरितानां विमुञ्चताम् ।
आमुञ्चतां च वर्माणि संभ्रमः सुमहानभूत् ॥
ताराणामिव संपातो बभूव जनमेजय ।
भूषणानां च सर्वेषां कवचानां च सर्वशः ॥
सवर्मभिर्भूषणैश्च प्रकीर्यद्बिरितस्ततः ।
सक्रोधामर्षजिह्मभ्रूकषायीकृतलोचनाः ॥
सूतोपक्लृप्तान् रुचिरान्सदश्वैरुपकल्पितान् ।
रथानास्थाय ते वीराः सर्वप्रहरणान्विताः ॥
प्रयान्तमथ कौरव्यमनुसस्रुरुदायुधाः । ततः समभवद्युद्धं तेषां तस्य च भारत ।
एकस्य च बहूनां च तुमुलं रोमहर्षणम् ॥
ते त्विषून्दशसाहस्रांस्तस्मिन्युगपदाक्षिपन् ।
अप्राप्तांश्चैव तानाशु भीष्मः सर्वांस्तथाऽन्तरा ॥
अच्छिनच्छरवर्षेण महता लोमवाहिना ।
ततस्ते पार्थिवाः सर्वे सर्वतः परिवार्य तम् ॥
ववृषुः शरवर्षेण वर्षेणेवाद्रिमम्बुदाः ।
स तं बाणमयं वर्षं शरैरावार्य सर्वतः ॥
ततः सर्वान्महीपालान्पर्यविध्यत्त्रिभिस्त्रिभिः ।
एकैकस्तु ततो भीष्मं राजन्विव्याध पञ्चभिः ॥
स च तान्प्रतिविव्याध द्वाभ्यां द्वाभ्यां पराक्रमन् ।
तद्युद्धमासीत्तुमुलं घोरं देवासुरोपमम् ॥
पश्यतां लोकवीराणां शरशक्तिसमाकुलम् ।
स धनूंषि ध्वजाग्राणि वर्माणि च शिरांसि ॥
चिच्छेद समरे भीष्मः शतशोथ सहस्रशः ।
तस्यातिपुरुषं कर्म लाघवं रथचारिणः ॥
रक्षणं चात्मनः संख्ये शत्रवोऽप्यभ्यपूजयन् ।
`अक्षतः क्षपयित्वान्यानसङ्ख्येयपराक्रमः ॥
आनिनाय स काश्यस्य सुताः सागरगासुतः ।' तान्विनिर्जित्य तु रणे सर्वशस्त्रभृतां वरः ॥
कन्याभिः सहितः प्रायाद्भारतो भारतान्प्रति ।
ततस्तं पृष्ठतो राजञ्शाल्वराजो महारथः ॥
अभ्यगच्छदमेयात्मा भीष्मं शान्तनवं रणे ।
वारणं जघने भिन्दन्दन्ताभ्यामपरो यथा ॥
वासितामनुसंप्राप्तो यूथपो बलिनां वरः ।
स्त्रीकामस्तिष्ठतिष्ठेति भीष्ममाह स पार्थिवः ॥
साल्वराजो महाबाहुरमर्षेण प्रचोदितः ।
ततः स पुरुषव्याघ्रो भीष्मः परबलार्दनः ॥
तद्वाक्याकुलितः क्रोधाद्विधूमोग्निरिव ज्वलन् ।
विततेषुधनुष्पाणिर्विकुञ्चितललाटभृत् ॥
क्षत्रधर्मं समास्थाय व्यपेतभयसंभ्रमः ।
निवर्तयामास रथं साल्वं प्रति महारथः ॥
निवर्तमानं तं दृष्ट्वा राजानः सर्व एव ते ।
प्रेक्षकाः समपद्यन्त भीष्मसाल्वसमागमे ॥
तौ वृषाविव नर्दन्तौ बलिनौ वासितान्तरे ।
अन्योन्यमभिवर्तेतां बलविक्रमशालिनौ ॥
ततो भीष्मं शान्तनवं शरैः शतसहस्रशः ।
साल्वराजो नरश्रेष्ठः समवाकिरदाशुगैः ॥
पूर्वमभ्यर्दितं दृष्ट्वा भीष्मं साल्वेन ते नृपाः ।
विस्मिताः समपद्यन्त साधुसाध्विति चाब्रुवन् ॥
लाघवं तस्य ते दृष्ट्वा समरे सर्वपार्थिवाः ।
अपूजयन्त संहृष्टा वाग्भिः साल्वं नराधिपम् ॥
क्षत्रियाणां ततो वाचः श्रुत्वा परपुञ्जयः ।
क्रुद्धः शान्तनवो भीष्मस्तिष्ठतिष्ठेत्यभाषत ॥
सारथिं चाब्रवीत्क्रुद्धो याहि यत्रैष पार्थिवः ।
यावदेनं निहन्म्यद्य भुजङ्गमिव पक्षिराट् ॥
ततोऽस्त्रं वारुणं सम्यग्योजयामास कौरवः ।
तेनाश्वांश्चतुरोऽमृद्गात्साल्वराजस्य भूपते ॥
अस्त्रैरस्त्राणि संवार्य साल्वराजस्य कौरवः ।
भीष्मो नृपतिशार्दूल न्यवधीत्तस्य सारथिम् ॥
अस्त्रेण चास्याथैन्द्रेण न्यवधीत्तुरगोत्तमान् ।
कन्याहेतोर्नरश्रेष्ठ भीष्मः शान्तनवस्तदा ॥
जित्वा विसर्जयामास जीवन्तं नृपसत्तमम् ।
ततः साल्वः स्वनगरं प्रययौ भरतर्षभ ॥
स्वराज्यमन्वशाच्चैव धर्मेण नृपतिस्तदा ।
राजानो ये च तत्रासन्स्वयंवरदिदृक्षवः ॥
स्वान्येव तेऽपि राष्ट्राणि जग्मुः परपुरञ्जयाः ।
एवं विजित्य ताः कन्या भीष्मः प्रहरतां वरः ॥
प्रययौ हास्तिनपुरं यत्र राजा स कौरवः ।
विचित्रवीर्यो धर्मात्मा प्रशास्ति वसुधामिमाम् ॥
यथा पितास्य कौरव्यः शान्तनुर्नृपसत्तमः ।
सोऽचिरेणैव कालेन अत्यक्रामन्नराधिप ॥
वनानि सरितश्चैव शैलांश्च विनिधान्द्रुमान् ।
अक्षतः क्षपयित्वाऽरीन्सङ्ख्येऽसङ्ख्येयविक्रमः ॥
आनयामास काश्यस्य सुताः सागरगासुतः ।
स्नुषा इव स धर्मात्मा भगिनीरिव चानुजाः ॥
यथा दुहितश्चैव परिगृह्य ययौ कुरून् ।
आनिन्ये स महाबाहुर्भ्रातुः प्रियचिकीर्षया ॥
ताः सर्वगुणसंपन्ना भ्राता भ्रात्रे यवीयसे ।
भीष्मो विचित्रवीर्याय प्रददौ विक्रमाहृताः ॥
एवं धर्मेण धर्मज्ञः कृत्वा कर्मातिमानुषम् ।
भ्रातुर्विचित्रवीर्यस्य विवाहायोपचक्रमे ॥
सत्यवत्या सह मिथः कृत्वा निश्चयमात्मवान् । विवाहं कारयिष्यन्तं भीष्मं काशिपतेः सुता ।
ज्येष्ठा तासामिदं वाक्यमब्रवीद्धसती तदा ॥
मया सौभपतिः पूर्वं मनसा हि वृतः पतिः ।
तेन चास्मि वृता पूर्वमेष कामश्च मे पितुः ॥
मया वरयितव्योऽभूत्साल्वस्तस्मिन्स्वयंवरे ।
एतद्विज्ञाय धर्मज्ञ धर्मतत्त्वं समाचर ॥
एवमुक्तस्तया भीष्मः कन्यया विप्रसंसदि ।
चिन्तामभ्यगमद्वीरो युक्तां तस्यैव कर्मणः ॥
`अन्यसक्ता त्वियं कन्या ज्येष्ठा त्वम्बा मया जिता ।
वाचा दत्ता मनोदत्ता कृतमङ्गलवाचना ॥
निर्दिष्टा तु परस्यैव सा त्याज्या परचिन्तिनी । इत्युक्त्वा चानुमान्यैव भ्रातरं स्ववशानुगम् ॥'
विनिश्चित्य स धर्मज्ञो ब्राह्मणैर्वेदपारगैः ।
अनुजज्ञे तदा ज्येष्ठामम्बां काशिपतेः सुताम् ॥
अम्बिकाम्बालिके भार्ये प्रादाद्भ्रात्रे यवीयसे ।
भीष्मो विचित्रवीर्याय विधिदृष्टेन कर्मणा ॥
तयोः पाणी गृहीत्वा तु रूपयौवनदर्पितः ।
विचित्रवीर्यो धर्मात्मा नाम्बामैच्छत्कथंचन ॥
`अम्बामन्यस्य कीर्त्यन्तीमब्रवीच्चारुदर्शनाम् ।
विचित्रवीर्य उवाच ।
पापस्य फलमेवैष कामोऽसाधुर्निरर्थकः ।
परतन्त्रोपभोगो मामार्य नाऽऽयोक्तुमर्हसि ॥
भीष्म उवाच ।
प्रातिष्ठच्छान्तनोर्वंशस्तात यस्य त्वमन्वयः ।
अकामवृत्तो धर्मात्मन्साधु मन्ये मतं तव ॥
इत्युक्त्वाम्बां समालोक्य विधिवद्वाक्यमब्रवीत् ।
विसृष्टा ह्यसि गच्छ त्वं यथाकाममनिन्दिते ॥
नानियोज्ये समर्थोऽहं नियोक्तुं भ्रातरं प्रियम् ।
अन्यबावगतां चापि को नारीं वासयेद्गृहे ॥
अतस्त्वां न नियोक्ष्यामि अन्यकामासि गम्यताम् ।
अहमप्यूर्ध्वरेता वै निवृत्तो दारकर्मणि ॥
न संबन्धस्तदावाभ्यां भविता वै कथंचन ।
वैशंपायन उवाच ।
इत्युक्ता सा गता तत्र सखीभिः परिवारिता ॥
निर्दिष्टा हि शनै राजन्साल्वराजपुरं प्रति ।
अथाम्बा साल्वंमागम्य साऽब्रवीत्प्रतिपूज्य तं ॥
पुरा निर्दिष्टभावा त्वामागतास्मि वरानन ।
देवव्रतं समुत्सृज्य सानुजं भरतर्षभम् ॥
प्रतिगृह्णीष्व भद्रं ते विधिवन्मां समुद्यताम् ॥
वैशंपायन उवाच ।
तयैवमुक्तः साल्वोपि प्रहसन्निदमब्रवीत् ।
निर्जिताऽसीह भीष्मेण मां विनिर्जित्य राजसु ॥
अन्येन निर्जितां भद्रे विसृष्टां तेन चालयात् ।
न गृह्णामि वरारोहे तत्र चैव तु गम्यताम् ॥
वैशंपायन उवाच ।
इत्युक्ता सा समागम्य कुरुराज्यमनुत्तमम् ।
अम्बाब्रवीत्ततो भीष्मं त्वयाऽहं सहसा हृता ॥
क्षत्रधर्ममवेक्षस्व त्वं भर्ता मम धर्मतः ।
यां यः स्वयंवरे कन्यां निर्जयेच्छौर्यसंपदा ॥
राज्ञः सर्वान्विनिर्जित्य स तामुद्वाहयेद्ध्रुवम् ।
अतस्त्वमेव भर्ता मे त्वयाऽहं निर्जिता यतः ॥
तस्माद्वहस्व मां भीष्म निर्जितां संसदि त्वया ।
ऊर्ध्वरेता ह्यहमिति प्रत्युवाच पुनःपुनः ॥
भीष्मं सा चाब्रवीदम्बा यथाजैषीस्तथा कुरु ।
एवमन्वगमद्भीष्मं षट्समाः पुष्करेक्षणा ॥
ऊर्ध्वरेतास्त्वहं भद्रे विवाहविमुखोऽभवम् ।
तमेव साल्वं गच्छ त्वं यः पुरा मनसा वृतः ॥
अन्यसक्तं किमर्थं त्वमात्मानमवदः पुरा ।
अन्यसक्तां वधूं कन्यां वासयेत्स्वगृहे न हि ॥
नाहमुद्वाहयिष्ये त्वां मम भ्रात्रे यवीयसे ।
विचित्रवीर्याय शुभे यथेष्टं गम्यतामिति ॥
भूयः साल्वं समभ्येत्य राजन्गृह्णीष्व मामिति ।
नाहं गृह्णाम्यन्यजितामिति साल्वनिराकृता ॥
ऊर्ध्वरेतास्त्वहमिति भीष्मेण च निराकृता ।
अम्बा भीष्मं पुनः साल्वं भीष्मं साल्वं पुनः पुनः ॥
गमनागमनेनैवमनैषीत्षट् समा नृप ।
अश्रुभिर्भूमिमुक्षन्ती शोचन्ती सा मनस्विनी ॥
पीनोन्नतकुचद्वन्द्वा विशालजघनेक्षणा ।
श्रोणीभरालसगमा राकाचन्द्रनिभानना ॥
वर्षत्कादम्बिनीमूर्ध्नि स्फुरन्ती चञ्चलेव सा । सा ततो द्वादश समा बाहुदामभितो नदीम् ।
पार्श्वे हिमवतो रम्ये तपो घोरं समाददे ॥
संक्षिप्तकरणा तत्र तप आस्थाय सुव्रता ।
पादाङ्गुष्ठेन साऽतिष्ठदकम्पन्त ततः सुराः ॥
तस्यास्तत्तु तपो दृष्ट्वा सुराणां क्षोभकारकम् ।
विस्मितश्चैव हृष्टश्च तस्यानुग्रहबुद्धिमान् ॥
अनन्तसेनो भगवान्कुमारो वरदः प्रभुः ।
मानयन्राजपुत्रीं तां ददौ तस्यै शुभां स्रजम् ॥
एषा पुष्करिणी दिव्या यथावत्समुपस्थिता ।
अम्बे त्वच्छोकशमनी माला भुवि भविष्यति ॥
एतां चैव मया दत्तां मालां यो धारयिष्यति ।
सोऽस्य भीष्मस्य निधने कारणं वै भविष्यति ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि नवाधिकशततमोऽध्यायः ॥ 109 ॥

1-109-13 आहूयेति ब्राह्मः ॥ 1-109-14 मिथुनेन गृहीतेनेत्यार्षः ॥ 1-109-15 वित्तेनेत्यासुरः । बलेनेति राक्षसः । अनुमान्येति गान्धर्वः । प्रमत्तामिति पैशाचः । स्वयमन्ये इति प्राजापत्यः ॥ 1-109-16 आर्षं विधिं यज्ञम् । तेन दैव उक्तः । अष्टमं राक्षसं विवाहम् ॥ 1-109-17 प्रशंसति । स्वयंवरमिति ॥ 1-109-24 प्रकीर्यद्भिर्भऊषणैरुपलक्षिता अनुसस्रुरिति तृतीयेनान्वयः ॥ 1-109-43 वृषौ रेतःसेककामौ गजौ गोवृषावेव वा तत्साहचर्याद्वासिता पुष्पिणी गौस्तदन्तरे वन्निमित्तम् ॥ 1-109-52 जीवन्तं प्राणमात्रावशेषितम् ॥ 1-109-58 काश्यस्य काशिराजस्य । अनुजाः कनिष्ठाः ॥ 1-109-71 अम्बां दृष्ट्वेति शेषः । अब्रवीत् भीष्ममिति शेषः ॥ नवाधिकशततमः ॥ 109 ॥

अध्यायः 110

संग्रहेण अम्बाचरित्रकथनम् ॥ 1 ॥

अम्बोवाच ।
अन्यपूर्वेति मां साल्वो नाभिनन्दति बालिशः ।
साहं धर्माच्च कामाच्च विहीना शोकधारिणी ॥
अपतिः क्षत्रियान्सर्वानाक्रन्दामि समन्ततः ।
इयं वः क्षत्रिया माला या भीष्मं निहनिष्यति ॥
अहं च भार्या तस्य स्यां यो भीष्मं घातयिष्यति ।
तस्याश्चङ्क्रम्यमाणायाः समाः पञ्च गताः पराः ॥
नाभवच्छरणं कश्चित्क्षत्रियो भीष्मजाद्भयात् ।
अगच्छत्सोमकं साऽम्बा पाञ्चालेषु यशस्विनम् ॥
सत्यसन्धं महेष्वासं सत्यधर्मपरायणम् ।
सा सभाद्वारमागम्य पाञ्चालैरभिरक्षितम् ॥
पाञ्चालराजमाक्रन्दत्प्रगृह्य सुभुजा भुजौ ।
भीष्मेण हन्यमानां मां मज्जन्तीमिव च ह्रदे ॥
यज्ञसेनाभिधावेह पाणिमालम्ब्य चोद्धर ।
तेन मे सर्वधर्माश्च रतिभोगाश्च केवलाः ॥
उभौ च लोकौ कीर्तिश्च समूलौ सफलौ हृतौ ।
***न्त्येवं न विन्दामि राजन्यं शरणं क्वचित् ॥
किं नु निःक्षत्रियो लोको यत्रानाथोऽवसीदति ।
समागम्य तु राजानो मयोक्ता राजसत्तमाः ॥
शृण्वन्तु सर्वे राजानो मयोक्तं राजसत्तमाः ।
इक्ष्वाकूणां तु ये वृद्धाः पाञ्चालानां च ये वराः ॥
त्वत्प्रसादाद्विवाहेऽस्मिन्मा धर्मो मा पराजयेत् ।
प्रसीद यज्ञसेनेह गतिर्मे भव सोमक ॥
यज्ञसेन उवाच ।
जानामि त्वां बोधयामि राजपुत्रि विशेषतः ।
यथाशक्ति यथाधर्मं बलं संधारयाम्यहम् ॥
अन्यस्मात्पार्थिवाद्यत्ते भयं स्यात्पार्थिवात्मजे ।
तस्यापनयने हेतुं संविधातुमहं प्रभुः ॥
नहि शान्तनवस्याहं महास्त्रस्य प्रहारिणः ।
ईश्वरः क्षत्रियाणां हि बलं धर्मोऽनुवर्तते ॥
सा साधु व्रज कल्याणि न मां भीष्मो दहेद्बलात् ।
न प्रत्यगृह्णंस्ते सर्वे किमित्येव न वेद्म्यहम् ॥
न हि भीष्मादहं धर्मं शक्तो दातुं कथंचन ।
वैशंपायन उवाच ।
इत्युक्ता स्रजमासज्य द्वारि राज्ञो व्यपाद्रवत् ॥
व्युदस्तां सर्वलोकेषु तपसा संशितव्रताम् ।
तामन्वगच्छद्द्रुपदः सान्त्वं जल्पन्पुनः पुनः ॥
स्रजं गृहाण कल्याणि न नो वैरं प्रसञ्जय ॥
अम्बोवाच ।
एवमेव त्वया कार्यमिति स्म प्रतिकाङ्क्षते ।
न तु तस्यान्यथा भावो दैवमेतदमानुषम् ॥
यश्चैनां स्रजमादाय स्वयं वै प्रतिमोक्षते ।
स भीष्मं समरे हन्ता मम धर्मप्रणाशनम् ॥
वैशंपायन उवाच ।
तां स्रजं द्रुपदो राजा कंचित्कालं ररक्ष सः ।
ततो विस्रम्भमास्थाय तूष्णीमेतामुपैक्षत ॥
तां शिखण्डिन्यबध्नात्तु बाला पितुरवज्ञया ।
तां पिता त्वत्यजच्छीघ्रं त्रस्तो भीष्मस्य किल्बिषात् ॥
इषीकं ब्राह्मणं भीता साभ्यगच्छत्तपस्विनम् ।
गङ्गाद्वारि तपस्यन्तं तुष्टिहेतोस्तपस्विनी ॥
उपचाराभितुष्टस्तामब्रवीदृषिसत्तमः ।
गङ्गाद्वारे विभजनं भविता नचिरादिव ॥
तत्र गन्धर्वराजानं तुम्बुरुं प्रियदर्शनम् ।
आराधयितुमीहस्व सम्यक्परिचरस्व तम् ॥
अहमप्यत्र साचिव्यं कर्तास्मि तव शोभने ।
तं तदाचर भद्रं ते स ते श्रेयो विधास्यति ॥
ततो विभजनं तत्र गन्धर्वाणामवर्तत ।
तत्र द्वाववशिष्येतां गन्धर्वावमितौ जसौ ॥
तयोरेकः समीक्ष्यैनां स्त्रीबुभूषुरुवाच ह ।
इदं गृह्णीष्व पुंलिङ्गं वृणे स्त्रीलिङ्गमेव ते ॥
नियमं चक्रतुस्तत्र स्त्री पुमांश्चैव तावुभौ ।
ततः पुमान्समभवच्छिखण्डी परवीरहा ॥
स्त्री भूत्वा ह्यपचक्राम स गन्धर्वो मुदान्वितः ।
लब्ध्वा तु महतीं प्रीतिं याज्ञसेनिर्महायशाः ॥
ततो बुद्बुदकं गत्वा पुनरस्त्राणि सोऽकरोत् ।
तत्र चास्त्राणि दिव्यानि कृत्वा स सुमहाद्युतिः ॥
स्वदेशमभिसंपदे पाञ्चालं कुरुनन्दन ।
सोऽभिवाद्य पितुः पादौ महेष्वासः कृताञ्जलिः ॥
उवाच भवता भीष्मान्न भेतव्यं कथंचन ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि दशाधिकशततमोऽध्यायः ॥ 110 ॥

1-110-10 पाञ्चालानां च ये वराः ते राजानः मयोक्ता इति पूर्वेण संबन्धः ॥ 1-110-14 ईश्वरो नहि ॥ 1-110-16 भीष्मात् भीष्ममपेक्ष्य ॥ 1-110-24 विभजनं उत्सवविशेषः ॥ दशाधिकशततमोऽध्यायः ॥ 110 ॥

अध्यायः 111

विचित्रवीर्यस्य अम्बिकाम्बालिकाश्यां विवाहः ॥ 1 ॥ विचित्रवीर्यमरणम् ॥ 2 ॥

वैशंपायन उवाच ।
अम्बायां निर्गतायां तु भीष्मः शान्तनवस्तदा ।
न्यायेन कारयामास राज्ञो वैवाहिकीं क्रियाम् ॥
अम्बिकाम्बालिके चैव परिणीयाग्निसंनिधौ । `तयोः पाणी गृहीत्वा तु कौरव्यो रूपदर्पितः ।'
विचित्रवीर्यो धर्मात्मा कामात्मा समपद्यत ॥
ते चापि बृहतीश्यामे नीलकुञ्चितमूर्धजे ।
रक्ततुङ्गनखोपेते पीनश्रोणिपयोधऱे ॥
आत्मनः प्रतिरूपोऽसौ लब्धः पतिरिति स्थिते ।
विचित्रवीर्यं कल्याण्यौ पूजयामासतुः शुभे ॥
`अन्योन्यं प्रति सक्ते च एकभावे इव स्थिते ।' स चाश्विरूपसदृशो देवतुल्यपराक्रमः ।
सर्वासामेव नारीणां चित्तप्रमथनो रहः ॥
ताभ्यां सह समाः सप्त विहरन्पृथिवीपतिः ।
विचित्रवीर्यस्तरुणो यक्ष्मणा समगृह्यत ॥
सुहृदां यतमानानामाप्तैः सह चिकित्सकैः ।
जगामास्तमिवादित्यः कौरव्यो यमसादनम् ॥
धर्मात्मा स तु गाङ्गेयः चिन्ताशोकपरायणः ।
प्रेतकार्याणि सर्वाणि तस्य सम्यगकारयत् ॥
राज्ञो विचित्रवीर्यस्य सत्यवत्या मते स्थितः ।
ऋत्विग्बिः सहितो भीष्मः सर्वैश्च कुरुपुङ्गवैः ॥

1-111-3 बृहतीश्यामे बृहतीपुष्पद्रक्तश्यामे ॥ 1-111-4 प्रतिरूपः अनुरूपः ॥ एकादशाधिकशततमोऽध्यायः ॥ 111 ॥

अध्यायः 112

विचित्रवीर्यभार्ययोरम्बिकाम्बालिकयोः पुत्रोत्पादनाय सत्यवत्या नियुक्तेन भीष्मेण तदनङ्गीकारः ॥ 1 ॥

वैशंपायन उवाच ।
ततः सत्यवती दीना कृपणा पुत्रगृद्धिनी ।
पुत्रस्य कृत्वा कार्याणि स्नुषाभ्यां सह भारत ॥
समाश्वास्य स्नुषे ते च भर्तृशोकनिपीडिते । धर्मं च पितृवंशं च मातृवंशं च भामिनी ।
प्रसमीक्ष्य महाभागा गाङ्गेयं वाक्यमब्रवीत् ॥
`दुःखार्दिता तु सा देवी मज्जन्ती शोकसागरे । शन्तनोर्धर्मनित्यस्य कौरव्यस्य यशस्विनः ।'
त्वयि पिण्डश्च कीर्तिश्च संतानश्च प्रतिष्ठितः ॥
`भ्राता विचित्रवीर्यस्ते भूतानामन्तमेयिवान् ।' यथाकर्म शुभं कृत्वा स्वर्गोपगमनं ध्रुवम् ।
यथा चायुर्ध्रुवं सत्ये त्वयि धर्मस्तथा ध्रुवः ॥
वेत्थ धर्मांश्च धर्मज्ञ समासेनेतरेण च ।
विविधास्त्वं श्रुतीर्वेत्थ वेदाङ्गानि च सर्वशः ॥
व्यवस्थानं च ते धर्मे कुलाचारं च लक्षये ।
प्रतिपत्तिं च कृच्छ्रेषु शुक्राङ्गिरसयोरिव ॥
तस्मात्सुभृशमाश्वस्य त्वयि धर्मभृतां वर ।
कार्ये त्वां विनियोक्ष्यामि तच्छ्रुत्वा कर्तुमर्हसि ॥
मम पुत्रस्तव भ्राता वीर्यवान्सुप्रियश्च ते ।
बाल एव गतः स्वर्गमपुत्रः पुरुषर्षभ ॥
इमे महिष्यौ भ्रातुस्ते काशिराजसुते शुभे ।
रूपयौवनसंपन्ने पुत्रकामे च भारत ॥
तयोरुत्पादयापत्यं सन्तानाय कुलस्य नः ।
मन्नियोगान्महाबाहो धर्मं कर्तुमिहार्हसि ॥
राज्ये चैवाभिषिच्यस्व भारताननुशाधि च ।
दारांश्च कुरु धर्मेण मा निमज्जीः पितामहान् ॥
वैशंपायन उवाच ।
तथोच्यमानो मात्रा स सुहृद्भिश्च परन्तपः ।
इत्युवाचाथ धर्मात्मा धर्म्यमेवोत्तरं वचः ॥
असंशयं परो धर्मस्त्वया मातरुदाहृतः ।
त्वमपत्यं प्रति च मे प्रतिज्ञां वेत्थ वै परां ॥
जानासि च यथावृत्तं शुल्कहेतोस्त्वदन्तरे ।
स सत्यवति सत्यं ते प्रतिजानाम्यहं पुनः ॥
परित्यजेयं त्रैलोक्यं राज्यं देवेषु वा पुनः ।
यद्वाऽप्यधिकमेताभ्यां न तु सत्यं कथंचन ॥
त्यजेच्च पृथिवी गन्धमापश्च रसमात्मनः ।
ज्योतिस्तथा त्यजेद्रूपं वायुः स्पर्शगुणं त्यजेत् ॥
प्रभां समुत्सृजेदर्को धूमकेतुस्तथोष्मताम् ।
त्यजेच्छब्दं तथाऽऽकाशं सोमः शीतांशुतां त्यजेत् ॥
विक्रमं वृत्रहा जह्याद्धर्मं जह्याच्च धर्मराट् ।
न त्वहं सत्यमुत्स्रष्टुं व्यवसेयं कथंचन ॥
`तन्न जात्वन्यथा कुर्यां लोकानामपि संक्षये । अमरत्वस्य वा हेतोस्त्रैलोक्यस्य धनस्य च ॥'
एवमुक्ता तु पुत्रेण भूरिद्रविणतेजसा ।
माता सत्यवती भीष्ममुवाच तदनन्तरम् ॥
जानामि ते स्थितिं सत्ये परां सत्यपराक्रम ।
इच्छन्सृजेथास्त्रींल्लोकानन्यांस्त्वं स्वेन तेजसा ॥
जानामि चैवं सत्यं तन्मदर्थे यच्च भाषितम् ।
आपद्धर्मं त्वमावेक्ष्य वह पैतामहीं धुरम् ॥
यथा ते कुलतन्तुश्च धर्मश्च न पराभवेत् ।
सुहृदश्च प्रहृष्येरंस्तथा कुरु परन्तप ॥
`आत्मनश्च हितं तात प्रियं च मम भारत ।' लालप्यमानां तामेवं कृपणां पुत्रगृद्धिनीम् ।
धर्मादपेतं ब्रुवतीं भीष्मो भूयोऽब्रवीदिदम् ॥
राज्ञि धर्मानवेक्षस्व मा नः सर्वान्व्यनीनशः ।
सत्याच्च्युतिः क्षत्रियस्य न धर्मेषु प्रशस्यते ॥
शान्तनोरपि संतानं यथा स्यादक्षयं भुवि ।
तत्ते धर्मं प्रवक्ष्यामि क्षात्रं राज्ञि सनातनम् ॥
श्रुत्वा तं प्रतिपद्यस्व प्राज्ञैः सह पुरोहितैः ।
आपद्धर्मार्थकुशलैर्लोकतन्त्रमवेक्ष्य च ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि द्वादशाधिकशततमोऽध्यायः ॥ 112 ॥

1-112-11 अभिषिच्यस्व अभिषेचय । आत्मानमिति शेषः । कुरु अङ्गीकुरु । मा निमज्जीर्मा निमज्जय ॥ 1-112-14 त्वदन्तरेत्वन्निमित्तम् ॥ 1-112-20 भूरिद्रविणतेजसा बहुबलोत्साहवता ॥ द्वादशाधिकशततमोऽध्यायः ॥ 112 ॥

अध्यायः 113

दीर्घतमसो ऋषेरुपाख्यानम् ॥ 1 ॥

भीष्म उवाच ।
जामदग्न्येन रामेण पितुर्वधममृष्यता ।
राजा परशुना पूर्वं हैहयाधिपतिर्हतः ॥
शतानि दशबाहूनां निकृत्तान्यर्जुनस्य वै ।
लोकस्याचरितो धर्मस्तेनाति किल दुश्चरः ॥
पुनश्च धनुरादाय महास्त्राणि प्रमुञ्चता ।
निर्दग्धं क्षत्रमसकृद्रथेन जयता महीम् ॥
एवमुच्चावचैरस्त्रैर्भार्गवेण महात्मना ।
त्रिःसप्तकृत्वः पृथिवी कृता निःक्षत्रिया पुरा ॥
एवं निःक्षत्रिये लोके कृते तेन महर्षिणा ।
ततः संभूय सर्वाभिः क्षत्रियाभिः समन्ततः ॥
उत्पादितान्यपत्यानि ब्राह्मणैर्वेदपारगैः ।
पाणिग्राहस्य तनय इति वेदेषु निश्चितम् ॥
धर्मं मनसि संस्थाप्य ब्राह्मणांस्ताः समभ्ययुः ।
लोकेऽप्याचरितो दृष्टः क्षत्रियाणां पुनर्भवः ॥
ततः पुनः समुदितं क्षत्रं समभवत्तदा ।
इमं चैवात्र वक्ष्येऽहमितिहासं पुरातनम् ॥
अथोचथ्य इति ख्यात आसीद्धीमानृषिः पुरा ।
ममता नाम तस्यासीद्भार्या परमसंमता ॥
उचथ्यस्य यवीयांस्तु पुरोधास्त्रिदिवौकसाम् ।
बृहस्पतिर्बृहत्तेजा ममतामन्वपद्यत ॥
उवाच ममता तं तु देवरं वदतां वरम् ।
अन्तर्वत्नी त्वहं भ्रात्रा ज्येष्ठेनारम्यतामिति ॥
अयं च मे महाभाग कुक्षावेव बृहस्पते ।
औचथ्यो देवमत्रापि षडङ्गं प्रत्यधीयत ॥
अमोघरेतास्त्वं चापि द्वयोर्नास्त्यत्र संभवः ।
तस्मादेवं गते त्वद्य उपारमितुमर्हसि ॥
वैशंपायन उवाच ।
एवमुक्तस्तदा सम्यक् बृहस्पतिरुदारधीः ।
कामात्मानं तदात्मानं न शशाक नियच्छितुम् ॥
स बभूव ततः कामी तया सार्धमकामया ।
उत्सृजन्तं तु तं रेतः स गर्भस्थोऽभ्यभाषत ॥
भोस्तात मा गमः कामं द्वयोर्नास्तीह संभवः ।
अल्पावकाशो भगवन्पूर्वं चाहमिहागतः ॥
अमोघरेताश्च भवान्न पीडां कर्तुमर्हति ।
अश्रुत्वैव तु तद्वाक्यं गर्भस्थस्य बृहस्पतिः ॥
जगाम मैथुनायैव ममतां चारुलोचनाम् ।
शुक्रोत्सर्गं ततो बुद्ध्वा तस्या गर्भगतो मुनिः ॥
पद्भ्यामारोधयन्मार्गं शुक्रस्य च बृहस्पतेः ।
स्थानमप्राप्तमथ तच्छुक्रं प्रतिहतं तदा ॥
पपात सहसा भूमौ ततः क्रुद्धो बृहस्पतिः ।
तं दृष्ट्वा पतितं शुक्रं शशाप स रुषान्वितः ॥
उचथ्यपुत्रं गर्भस्थं निर्भर्त्स्य भगवानृषिः ।
यन्मां त्वमीदृशे काले सर्वभूतेप्सिते सति ॥
एवमात्थ वचस्तस्मात्तमो दीर्घं प्रवेक्ष्यसि ।
स वै दीर्घतमा नाम शापादृषिरजायत ॥
बृहस्पतेर्बृहत्कीर्तेर्बृहस्पतिरिवौजसा ।
जात्यन्धो वेदवित्प्राज्ञः पत्नीं लेभे स विद्यया ॥
तरुणीं रुपसंपन्नां प्रद्वेषीं नाम ब्राह्मणीम् ।
स पुत्राञ्जनयामास गौतमादीन्महायशाः ॥
ऋषेरुचथ्यस्य तदा सन्तानकुलवृद्धये ।
धर्मात्मा च महात्मा च वेदवेदाङ्गपारगः ॥
गोधर्मं सौरभेयाच्च सोऽधीत्य निखिलं मुनिः ।
प्रावर्तत तदा कर्तुं श्रद्धावांस्तमशङ्कया ॥
ततो वितथमर्यादं तं दृष्ट्वा मुनिसत्तमाः ।
क्रुद्धा मोहाभिभूतास्ते सर्वे तत्राश्रमौकसः ॥
अहोऽयं भिन्नमर्यादो नाश्रमे वस्तुमर्हति ।
तस्मादेनं वयं सर्वे पापात्मानं त्यजामहे ॥
इत्यन्योन्यं समाभाष्य ते दीर्घतमसं मुनिम् ।
पुत्रलाभाच्च सा पत्नी न तुतोष पतिं तदा ॥
प्रद्विषन्तीं पतिर्भार्यां किं मां द्वेक्षीति चाब्रवीत् ।
प्रद्वेष्युवाच ।
भार्याया भरणाद्भर्ता पालनाच्च पतिः स्मृतः ॥
अहं त्वद्भरणाशक्ता जात्यन्धं ससुतं तदा ।
नित्यकालं श्रमेणार्ता न भरेयं महातपः ॥
भीष्म उवाच ।
तस्मास्तद्वचनं श्रुत्वा ऋषिः कोपसमन्वितः ।
प्रत्युवाच ततः पत्नीं प्रद्वेषीं ससुतां तदा ॥
नीयतां क्षत्रियकुले धनार्थश्च भविष्यति ।
प्रद्वेष्युवाच ।
त्वया दत्तं धनं विप्र नेच्छेयं दुःखकारणम् ॥
यथेष्टं कुरु विप्रेन्द्र न भेरयं पुरा यथा ।
दीर्घतमा उवाच ।
अद्यप्रभृति मर्यादा मया लोके प्रतिष्ठिता ॥
एक एव पतिर्नार्या यावज्जीवं परायणम् ।
मृते जीवति वा तस्मिन्नापरं प्राप्नुयान्नरम् ॥
अभिगम्य परं नारी पतिष्यति न संशयः ।
अपतीनां तु नारीणामद्यप्रभृति पातकम् ॥
यद्यस्ति चेद्धनं सर्वं वृथाभोगा भवन्तु ताः ।
अकीर्तिः परिवादाश्च नित्यं तासां भवन्तु वै ॥
इति तद्वचनं श्रुत्वा ब्राह्मणी भृशकोपिता ।
गङ्गायां नीयतामेष पुत्रा इत्येवमब्रवीत् ॥
लोभमोहाभिभूतास्ते पुत्रास्तं गौतमादयः ।
वद्ध्वोडुपे परिक्षिप्य गङ्गायां समवासृजन् ॥
कस्मादन्धश्च वृद्धश्च भर्तव्योऽयमिति स्म ते ।
चिन्तयित्वा ततः क्रूराः प्रतिजग्मुरथो गृहान् ॥
सोऽनुस्रोतस्तदा विप्रः प्लवमानो यदृच्छया ।
जगाम सुबहून्देशानन्धस्तेनोडुपेन ह ॥
तं तु राजा बलिर्नाम सर्वधर्मविदां वरः ।
अपश्यन्मज्जनगतः स्रोतसाऽभ्याशमागतम् ॥
जग्राह चैनं धर्मात्मा बलिः सत्यपराक्रमः ।
ज्ञात्वा चैवं स वव्रेऽथ पुत्रार्थे भरतर्षभ ॥
`तं पूजयित्वा राजर्षिर्विश्रान्तं मुनिमब्रवीत् ।' सन्तानार्थं महाभाग भार्यासु मम मानद ।
पुत्रान्धर्मार्थकुशलानुत्पादयितुमर्हसि ॥
भीष्म उवाच ।
एवमुक्तः स तेजस्वी तं तथेत्युक्तवानृषिः ।
तस्मैस राजा स्वां भार्यां सुदेष्णां प्राहिणोत्तदा ॥
अन्धं वृद्धं च तं मत्वा न सा देवी जगाम ह ।
स्वां तु धात्रेयिकां तस्मै वृद्धाय प्राहिणोत्तदा ॥
तस्यां काक्षीवदादीन्स शूद्रयोनावृषिस्तदा ।
जनयामास धर्मात्मा पुत्रानेकादशैव तु ॥
काक्षीवदादीन्पुत्रांस्तान्दृष्ट्वा सर्वानधीयतः ।
उवाच तमृषिं राजा ममेम इति भारत ॥
नेत्युवाच महर्षिस्तं ममेम इति चाब्रवीत् ।
शूद्रयोनौ मया हीमे जाताः काक्षीवदादयः ॥
अन्धं वृद्धं च मां दृष्ट्वा सुदेष्णा महिषी तव ।
अवमन्य ददौ मूढा शूद्रां धात्रेयिकां मम ॥
भीष्म उवाच ।
ततः प्रसादयामास पुनस्तमृषिसत्तमम् ।
बलिः सुदेष्णां स्वां भार्यां तस्मै स प्राहिणोत्पुनः ॥
तां स दीर्घतमाङ्गेषु स्पृष्ट्वा देवीमथाब्रवीत् ।
भविष्यन्ति कुमारास्ते तेजसाऽऽदित्यवर्चसः ॥
अङ्गो वङ्गः कलिङ्गश्च पुण्ड्रः सुह्मश्च ते सुताः ।
तेषां देशाः समाख्याताः स्वनामकथिता भुवि ॥
अङ्गस्याङ्गोऽभवद्देशो वङ्गो वङ्गस्य च स्मृतः ।
कलिङ्गविषयश्चैव कलिङ्गस्य च स स्मृतः ॥
पुण्ड्रस्य पुण्ड्राः प्रख्याताः सुह्माः सुह्मस्य च स्मृताः ।
एवं बलेः पुरा वंशः प्रख्यातो वै महर्षिजः ॥
एवमन्ये महेष्वासा ब्राह्मणैः क्षत्रिया भुवि । जाताः परमधर्मज्ञा वीर्यवन्तो महाबलाः ।
एतच्छ्रुत्वा त्वमप्यत्र मातः कुरु यथेप्सितम् ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि त्रयोदशाधिकशततमोऽध्यायः ॥ 113 ॥

1-113-10 अन्वपद्यत उपगतवान् ॥ 1-113-11 आरम्यतामुपरम्यताम् ॥ 1-113-14 आत्मानं चित्तम् । नियच्छितुं नियन्तुम् ॥ 1-113-16 कामं मैथुनं मा गमः ॥ 1-113-20 तं शशापेति संबन्धः ॥ 1-113-22 दीर्घं तमः अन्धत्वम् ॥ 1-113-25 सम्यक् तानं विस्तारो यस्य तस्य कुलस्य वृद्धये विस्तीर्णस्यापि वृद्धये इत्यर्थः ॥ 1-113-26 गोधर्मं प्रकाशमैथुनम् । सौरभेयात् कामधेनुपुत्रादधीत्याधिगम्य ॥ 1-113-27 मोहाभिभूतत्वमपापे पापदर्शित्वात् ॥ 1-113-29 समाभा य क्रुद्धा इति पूर्वेणान्वयः ॥ 1-113-30 द्वेक्षि द्वेषं करोषि । पतिः पालनादुपसर्गेभ्यः । भरणादन्नादिना भर्ता च ॥ 1-113-31 अहं तु प्रत्युत त्वद्भरणाशक्ता सती न भरेयम् । तदा तदेव । लुप्तोपमा । पूर्ववदित्यर्थः ॥ 1-113-33 धनमर्थश्चोपभोगादिः ॥ 1-113-34 न भरेयं यथा पुरा भर्त्रन्तरं करिष्यामीत्याशयः ॥ 1-113-42 मज्जनगतः स्नानार्थं गतः । स्रोतसा प्रवाहेण । अभ्याशं समीपम् ॥ 1-113-46 धात्रेयिकां दासीम् ॥ 1-113-52 अङ्गेषु स्पृष्ट्वा स्वरूपज्ञानार्थमिति भावः । संधिरार्षः ॥ 1-113-56 यथेप्सितं ब्राह्मणेभ्यो वंशवृद्धिमित्यर्थः ॥ त्रयोदशाधिकशततमोऽध्यायः ॥ 113 ॥

अध्यायः 114

सत्यवत्या स्वस्मिन्कन्यात्वावस्थायां व्यासोत्पत्तिकथनम् ॥ 1 ॥ स्मरणमात्रादागतेन व्यासेन सह सत्यवत्याः संवादः ॥ 2 ॥ व्यासेन अम्बिकाम्बालिकलोः पुत्रोत्पादनाङ्गीकारः ॥ 3 ॥

भीष्म उवाच ।
पुनर्भरतवंशस्य हेतुं सन्तानवृद्धये ।
वक्ष्यामि नियतं मातस्तन्मे निगदतः शृणु ॥
ब्राह्मणो गुणवान्कश्चिद्धनेनोपनिमन्त्र्यताम् ।
विचित्रवीर्यक्षेत्रेषु यः समुत्पादयेत्प्रजाः ॥
`वैशंपायन उवाच ।
भीष्मस्य तु वचः श्रुत्वा धर्महेत्वर्थसंहितम् ।
माता सत्यवती भीष्मं पुनरेवाभ्यभाषत ॥
औचथ्यमधिकृत्येदमङ्गं च यदुदाहृतम् ।
पौराणी श्रुतिरित्येषा प्राप्तकालमिदं कुरु ॥
त्वं हि पुत्र कुलस्यास्य ज्येष्ठः श्रेष्ठश्च भारत ।
यथा च ते पितुर्वाक्यं मम कार्यं तथाऽनघ ॥
मम पुत्रस्तव भ्राता यवीयान्सुप्रियश्च ते ।
बाल एव गतः स्वर्गं भारतो भरतर्षभ ॥
इमे महिष्यौ तस्येह काशिराजसुते उभे ।
रूपयौवनसंपन्ने पुत्रकामे च भारत ॥
धर्म्यमेतत्परं ज्ञात्वा सन्तानाय कुलस्य च ।
आभ्यां मम नियोगात्तु धर्मं चरितुमर्हसि ॥
भीष्म उवाच ।
असंशयं परो धर्मस्त्वयाः मातः प्रकीर्तितः ।
त्वमप्येतां प्रतिज्ञां तु वेत्थ या मयि वर्तते ॥
अमरत्वस्य वा हेतोस्त्रैलोक्यसदनस्य वा ।
उत्सृजेयमहं प्राणान्न तु सत्यं कथंचन ॥
सत्यवत्युवाच ।
जानामि त्वयि धर्मज्ञ सत्यं सत्यपराक्रम ।
इच्छंस्त्वमिह लोकांस्त्रीन्सृजेरन्यानरिन्दम ॥
यथा तु नः कुलं चैव धर्मश्च न पराभवेत् ।
सुहृदश्च प्रहृष्टाः स्युस्तथा त्वं कर्तुमर्हसि ॥
भीष्म उवाच ।
त्वमेव कुलवृद्धासि गौरवं तु परं त्वयि ।
सोपायं कुलसन्ताने वक्तुमर्हसि नः परम् ॥
स्त्रियो हि परमं गुह्यं धारयन्ति सदा कुले ।
पुरुषांश्चैव मायाभिर्बह्वीभिरुपगृह्णते ॥
सा सत्यवति संपश्य धर्मं सत्यपरायणे । यथा न जह्यां सत्यं च न सीदेच्च कुलं हि नः ॥'
वैशंपायन उवाच ।
ततः सत्यवती भीष्मं वाचा संसज्जमानया ।
विहसन्तीव सव्रीडमिदं वचनमब्रवीत् ॥
सत्यमेतन्महाबाहो यथा वदसि भारत ।
विश्वासात्ते प्रवक्ष्यामि सन्तानाय कुलस्य नः ॥
न ते शक्यमनाख्यातुमापद्धर्मं तथाविधम् ।
त्वमेव नः कुले धर्मस्त्वं सत्यं त्वं परा गतिः ॥
`यत्त्वं वक्ष्यसि तत्कार्यमस्माभिरिति मे मतिः ।' तस्मान्निशम्य सत्यं मे कुरुष्व यदनन्तरम् ।
`शृणु भीष्म वचो मह्यं धर्मार्थसहितं हितम् ॥
न च विस्रम्भकथितं भवान्सूचितुमर्हति ।
यस्तु राजा वसुर्नाम श्रुतस्ते भरतर्षभ ॥
तस्य शुक्लादहं मत्स्या धृता कुक्षौ पुरा किल ।
मातरं मे जलाद्धृत्वा दाशः परमधर्मवित् ॥
मां तु स्वगृहमानीय दुहितृत्वेऽभ्यकल्पयत् । धर्मयुक्तः स धर्मेण पिता चासीत्ततो मम ॥'
धर्मयुक्तस्य धर्मार्थं पितुरासीत्तरी मम ।
सा कदाचिदहं तत्र गता प्रथमयौवनम् ॥
अथ धर्मविदां श्रेष्ठः परमर्षिः पराशरः ।
आजगाम तरीं धीमांस्तरिष्यन्यमुनां नदीम् ॥
स तार्यमाणो यमुनां मामुपेत्याब्रवीत्तदा । सान्त्वपूर्वं मुनिश्रेष्ठः कामार्तो मधुरं वचः ।
उक्त्वा जन्म कुलं मह्यं नासि दाशसुतेति च ॥
तमहं शापभीता च पितुर्भीता च भारत ।
वरैरसुलभैरुक्ता न प्रत्याख्यातुमुत्सहे ॥
`प्रेक्ष्य तांस्तु महाभागान्पारावारे ऋषीन्स्थितान् ।
यमुनातीरविन्यस्तान्प्रदीप्तानिव पावकान् ॥
पुरस्तादरुणश्चैव तरुणः संप्रकाशते ।
येनैषा ताम्रवस्त्रेव द्यौः कृता प्रविजृम्भिता ॥
उक्तमात्रो मया तत्र नीहारमसृजत्प्रभुः । पराशरः सत्यधृतिर्द्वीपे च यमुनाम्भसि ॥'
अभिभूय स मां बालां तेजसा वशमानयत् ।
तमसा लोकमावृत्य नौगतामेव भारत ॥
मत्स्यगन्धो महानासीत्पुरा मम जुगुप्सितः ।
तमपास्य शुभं गन्धमिमं प्रादात्स मे मुनिः ॥
ततो मामाह स मुनिर्गर्भमुत्सृज्य मामकम् ।
द्वोपेऽस्या एव सरितः कन्यैव त्वं भविष्यसि ॥
कन्यात्वं च ददौ प्रीतः पुनर्विद्वांस्तपोधनः ।
तस्य वीर्यमहं दृष्ट्वा तथा युक्तं महात्मनः ॥
विस्मिता व्यथिता चैव प्रादामात्मानमेव च । ततस्तदा महात्मा स कन्यायां मयि भारत ।
प्रहृष्टोऽजनयत्पुत्रं द्वीप एव पराशरः ॥'
पाराशर्यो महायोगी स बभूव महानृषिः ।
कन्यापुत्रो मम पुरा द्वैपायन इति श्रुतः ॥
यो व्यस्य वेदांश्चतुरस्तपसा भगवानृषिः ।
लोके व्यासत्वमापेदे कार्ष्ण्यात्कृष्णत्वमेव च ॥
सत्यवादी शमपरस्तपस्वी दग्धकिल्बिषः ।
सद्योत्पन्नः स तु महान्सह पित्रा ततो गतः ॥
स नियुक्तो मया व्यक्तं त्वया चाप्रतिमद्युतिः ।
भ्रातुः क्षेत्रेषु कल्याणमपत्यं जनयिष्यति ॥
स हि मामुक्तवांस्तत्र स्मरेः कृच्छ्रेषु मामिति ।
तं स्मरिष्ये महाबाहो यदि भीष्म त्वमिच्छसि ॥
तव ह्यनुमते भीष्म नियतं स महातपाः ।
विचित्रवीर्यक्षेत्रेषु पुत्रानुत्पादयिष्यति ॥
वैशंपायन उवाच ।
महर्षेः कीर्तने तस्य भीष्मः प्राञ्जलिरब्रवीत् । `देशकालौ च जानासि क्रियतामर्थसिद्धये ।'
धर्ममर्थं च कामं च त्रीनेतान्योनुपश्यति ॥
अर्थमर्थानुबन्धं च धर्मं धर्मानुबन्धनम् ।
कामं कामानुबन्धं च विपरीतान्पृथक्पृथक् ॥
यो विचिन्त्य धिया धीरो व्यवस्यति स बुद्धिमान् ।
तदिदं धर्मयुक्तं च हितं चैव कुलस्य नः ॥
उक्तं भवत्या यच्छ्रेयस्तन्मह्यं रोचते भृशम् ।
वैशंपायन उवाच ।
ततस्तस्मिन्प्रतिज्ञाते भीष्मेण कुरुनन्दन ॥
कृष्णद्वैपायनं काली चिन्तयामास वै मुनिम् ।
स वेदान्विब्रुवन्धीमान्मातुर्विज्ञाय चिन्तितम् ॥
प्रादुर्बभूवाविदितः क्षणेन कुरुनन्दन ।
तस्मै पूजां ततः कृत्वा सुताय विधिपूर्वकम् ॥
परिष्वज्य च बाहुभ्यां प्रस्रवैरभ्यषिञ्चत ।
मुमोच बाष्पं दाशेयी पुत्रं दृष्ट्वा चिरस्य तु ॥
तामद्भिः परिषिच्यार्तां महर्षिरभिवाद्य च ।
मातरं पूर्वजः पुत्रो व्यासो वचनमब्रवीत् ॥
भवत्या यदभिप्रेतं तदहं कर्तुमागतः ।
शाधि मां धर्मतत्त्वज्ञे करवाणि प्रियं तव ॥
तस्मै पूजां ततोऽकार्षीत्पुरोधाः परमर्षये ।
स च तां प्रतिजग्राह विधिमन्मन्त्रपूर्वकम् ॥
पूजितो मन्त्रपूर्वं तु विधिवत्प्रीतिमाप सः ।
तमासनगतं माता पृष्ट्वा कुशलमव्ययम् ॥
सत्यवत्यथ वीक्ष्यैनमुवाचेदमनन्तरम् ।
मातापित्रोः प्रजायन्ते पुत्राः साधारणाः कवे ॥
तेषां पिता यथा स्वीमी तथा माता न संशयः ।
विधानविहितः स त्वं यथा मे प्रथमः सुतः ॥
विचित्रवीर्यो ब्रह्मर्षे तथा मेऽवरजः सुतः ।
यथैव पितृतो भीष्मस्तथा त्वमपि मातृतः ॥
भ्राता विचित्रवीर्यस्य यथा वा पुत्र मन्यसे ।
अयं शान्तनवः सत्यं पालयन्सत्यविक्रमः ॥
बुद्धिं न कुरुतेऽपत्ये तथा राज्याऽनुशासने ।
स त्वं व्यपेक्षया भ्रातुः सन्तानाय कुलस्य च ॥
भीष्मस्य चास्य वचनान्नियोगाच्च ममानघ ।
अनुक्रोशाच्च भूतानां सर्वेषां रक्षणाय च ॥
आनृशंस्याच्च यद्ब्रूयां तच्छ्रुत्वा कर्तुमर्हसि ।
यवीयसस्व भ्रातुर्भार्ये सुरसुतोपमे ॥
रूपयौवनसंपन्ने पुत्रकामे च धर्मतः ।
तयोरुत्पादयापत्यं समर्थो ह्यसि पुत्रक ॥
अनुरूपं कुलस्यास्य संतत्याः प्रसवस्य च ।
व्यास उवाच ।
वेत्थ धर्मं सत्यवति परं चापरमेव च ॥
तथा तव महाप्राज्ञे धर्मे प्रणिहिता मतिः ।
तस्मादहं त्वन्नियोगाद्धर्ममुद्दिश्य कारणम् ॥
ईप्सितं ते करिष्यामि दृष्टं ह्येतत्सनातनम् ।
भ्रातुः पुत्रान्प्रदास्यामि मित्रावरुणयोः समान् ॥
व्रतं चरेतां ते देव्यौ निर्दिष्टमिह यन्मया ।
संवत्सरं यथान्यायं ततः शुद्धे भविष्यतः ॥
नहि मामव्रतोपेता उपेयात्काचिदङ्गना ।
सत्यवत्युवाच ।
सद्यो यथा प्रपद्येते देव्यौ गर्भं तथा कुरु ॥
अराजकेषु राष्ट्रेषु प्रजाऽनाथा विनश्यति ।
नश्यन्ति च क्रियाः सर्वा नास्ति वृष्टिर्न देवता ॥
कथं चाराजकं राष्ट्रं शक्यं धारयितुं प्रभो ।
तस्माद्गर्भं समाधत्स्व भीष्मः संवर्धयिष्यति ॥
व्यास उवाच ।
यदि पुत्रः प्रदातव्यो मया भ्रातुरकालिकः ।
विरूपतां मे सहतां तयोरेतत्परं व्रतम् ॥
यदि मे सहते गन्धं रूपं वेषं तथा वपुः ।
अद्यैव गर्भं कौसल्या विशिष्टं प्रतिपद्यताम् ॥
`तस्यापि च शतं पुत्रा भवितारो न संशयः । गोप्तारः कुरुवंशस्य भवत्याः शोकनाशनाः ॥'
वैशंपायन उवाच ।
एवमुक्त्वा महातेजा व्यासः सत्यवतीं तदा ।
शयने सा च कौसल्या शुचिवस्त्रा ह्यलङ्कृता ॥
समागमनमाकाङ्क्षेदिति सोऽन्तर्हितो मुनिः ।
ततोऽभिगम्य सा देवी स्नुषां रहसि संगताम् ॥
धर्म्यमर्थसमायुक्तमुवाच वचनं हितम् ।
कौसल्ये धर्मतन्त्रं त्वां यद्ब्रवीमि निबोध तत् ॥
भरतानां समुच्छेदो व्यक्तं मद्भाग्यसंक्षयात् ।
व्यथितां मां च संप्रेक्ष्य पितृवंशं च पीडितम् ॥
भीष्मो बुद्धिमदान्मह्यं कुलस्यास्य विवृद्धये ।
सा च बुद्धिस्त्वय्यधीना पुत्रि प्रापय मां तथा ॥
नष्टं च भारतं वंशं पुनरेव समुद्धऱ ।
पुत्रं जनय सुश्रोणि देवराजसमप्रभम् ॥
स हि राज्यधुरं गुर्वीमुद्वक्ष्यति कुलस्य नः । `एवमुक्त्वा तु सा देवी स्नुषां सत्यवती तदा ॥'
सा धर्मतोऽनुनीयैनां कथंचिद्धर्मचारिणीम् ।
भोजयामास विप्रांश्च देवर्षीनतिथींस्तथा ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि चतुर्दशाधिकशततमोऽध्यायः ॥ 114 ॥

1-114-16 संसज्जमानया स्खलनवत्या ॥ 1-114-17 विश्वासादन्तरङ्गत्वबुद्धेः । संतानाय विस्ताराय ॥ 1-114-18 आपद्धर्ममवेक्ष्येति शेषः ॥ 1-114-38 व्यक्तं निःसंशयम् ॥ 1-114-42 अनुबध्यतेऽनेनेत्यनुबन्धः फलं ॥ 1-114-45 काली सत्यवती ॥ 1-114-47 प्रस्रवैः स्नेहस्रुतस्तनैः ॥ 1-114-53 विधानविहितः पूर्वपुण्यप्रसूतः ॥ 1-114-56 व्यपेक्षया स्नेहानुबन्धेन ॥ 1-114-58 आनृशंस्यादनैष्ठुर्यात् ॥ 1-114-63 देव्यौ राजभार्ये ॥ 1-114-74 यथा भीष्मेणोक्तं तथा मां प्रापय इष्टार्थेन योजय ॥ 1-114-76 उद्वक्ष्यति धुरं धुर उद्वहनंम करिष्यति ॥ चतुर्दशाधिकशततमोऽध्यायः ॥ 114 ॥

अध्यायः 115

अम्बिकायां व्यासाद्धृतराष्ट्रस्योत्पत्तिः ॥ 1 ॥ अम्बालिकायां पाण्डोरुत्पत्तिः ॥ 2 ॥ अम्बिकादास्यां विदुरस्योत्पत्तिः ॥ 3 ॥

वैशंपायन उवाच ।
ततः सत्यवती काले वधूं स्नातामृतौ तदा ।
संवेशयन्ती शयने शनैर्वचनमब्रवीत् ॥
कौसल्ये देवरस्तेऽस्ति सोऽद्य त्वाऽनुप्रवेक्ष्यति ।
अप्रमत्ता प्रतीक्षैनं निशीथे ह्यागमिष्यति ॥
श्वश्र्वास्तद्वचनं श्रुत्वा शयाना शयने शुभे ।
साऽचिन्तयत्तदा भीष्ममन्यांश्च कुरुपुङ्गवान् ॥
`ततः सुप्तजनप्रायेऽर्धरात्रे भगवानृषिः ।
दीप्यमानेषु दीपेषु शरणं प्रविवेश ह ॥
ततोऽम्बिकायां प्रथमं नियुक्तः सत्यवागृषिः ।
जगाम तस्याः शयनं विपुले तपसि स्थितः ॥
तं समीक्ष्य तु कौसल्या दुष्प्रेक्षमतथोचिता ।
विरूप इति वित्रस्ता संकुच्यासीन्निमीलिता ॥
विरूपो हि जटी चापि दुर्वर्णः परुषः कृशः । सुगन्धेतरगन्धश्च सर्वथा दुष्प्रधर्षणः ॥'
तस्य कृष्णस्य कपिलां जटां दीप्ते च लोचने ।
बब्रूणि चैव श्मश्रूमि दृष्ट्वा देवी न्यमीलयत् ॥
संभूव तया सार्धं मातुः प्रियचिकीर्षया ।
भयात्काशिसुता तं तु नाशक्नोदभिवीक्षितुम् ॥
ततो निष्क्रान्तमागम्य माता पुत्रमुवाच ह ।
अप्यस्यां गुणवान्पुत्र राजपुत्रो भविष्यति ॥
निशम्य तद्वचो मातुर्व्यासः सत्यवतीसुतः । `प्रोवाचातीन्द्रियज्ञानो विधिना संप्रचोदितः ॥'
नागायुतसमप्राणो विद्वान्राजर्षिसत्तमः ।
महाभागो महावीर्यो महाबुद्धिर्भविष्यति ॥
तस्य चापि शतं पुत्रा भविष्यन्ति महात्मनः ।
किंतु मातुः स वैगुण्यादन्ध एव भविष्यति ॥
तस्य तद्वचनं श्रुत्वा माता पुत्रमथाऽब्रवीत् ।
नान्धः कुरूणां नृपतिरनुरूपस्तपोधन ॥
ज्ञातिवंशस्य गोप्तारं पितॄणां वंशवर्धनम् ।
`अपरस्यामपि पुनर्मम शोकविनाशनम् ॥
तस्मादवरजं पुत्रं जनयान्यं नराधिपम् ।
भ्रातुर्भार्याऽवरा चेयं रूपयौवनशालिनी ॥
अस्यामुत्पादयाऽपत्यं मन्नियोगाद्गुणाधिकम् ।' द्वितीयं कुरुवंशस्य राजानं दातुमर्हसि ॥
स तथेति प्रतिज्ञाय निश्चक्राम महायशाः ।
साऽपि कालेन कौसल्या सुषुवेऽन्धं तमात्मजम् ॥
पुनरेव तु सा देवी परिभाष्य स्नुषां ततः ।
ऋषिमावाहयत्सत्या यथापूर्वमरिन्दम ॥
`अम्बालिकां समाहूय तस्यां सत्यवती सुतम् ।
भूयो नियोजयामास सन्तानाय कुलस्य वै ॥
विषण्णाम्बालिका साध्वी निषण्णा शयनोत्तमे ।
कोन्वेष्यतीति ध्यायन्ती नियतां संप्रतीक्षते' ॥
ततस्तेनैव विधिना महर्षिस्तामपद्यत ।
अम्बालिकामथाऽभ्यागादृषिं दृष्ट्वा च साऽपि तम् ॥
विवर्णा पाण्डुसंकाशा समपद्यत भारत ।
तां भीतां पाण्डुसंकाशां विषण्णां प्रेक्ष्य भारत ॥
व्यासः सत्यवतीपुत्र इदं वचनमब्रवीत् ।
यस्मात्पाण्डुत्वमापन्ना विरूपं प्रेक्ष्य मामिह ॥
तस्मादेष सुतस्ते वै पाण्डुरेव भविष्यति ।
नाम चास्यैतदेवेह भविष्यति शुभानने ॥
इत्युक्त्वा स निराक्रामद्भगवानृषिसत्तमः ।
ततो निष्क्रान्तमालोक्य सत्या पुत्रमथाऽब्रवीत् ॥
`कुमारो ब्रूहि मे पुत्र अप्यत्र भविता शुभः ।' शशंस स पुनर्मात्रे तस्य बालस्य पाण्डुताम् ॥
`भविष्यति सुविक्रान्तः कुमारो दिक्षु विश्रुतः ।
पाण्डुत्वं वर्णतस्तस्य मातृदोषाद्भविष्यति ॥
तस्य पुत्रा महेष्वासा भविष्यन्तीह पञ्च वै । इत्युक्त्वा मातरं तत्र सोऽभिवाद्य जगाम ह ॥'
तं माता पुनरेवान्यमेकं पुत्रमयाचत ।
तथेति च महर्षिस्तां मातरं प्रत्यभाषत ॥
ततः कुमारं सा देवी प्राप्तकालमजीजनत् ।
पाण्डुलक्षणसंपन्नं दीप्यमानमिव श्रिया ॥
यस्य पुत्रा महेष्वासा जज्ञिरे पञ्च पाण्डवाः ।
`तयोर्जन्मक्रियाः सर्वा यथावदनुपूर्वशः ॥
कारयामास वै भीष्मो ब्राह्मणैर्वेदपारगैः ।
अन्धं दृष्ट्वाऽम्बिकापुत्रं जातं सत्यवती सुतम् ॥
कौसल्यार्थे समाहूय पुत्रमन्यमयाचत ।
अन्धोयमन्यमिच्छामि कौसल्यातनयं शुभम् ॥
एवमुक्तो महर्षिस्तां मातरं प्रत्यभाषत ।
नियता यदि कौसल्या भविष्यति पुनःशुभा ॥
भविष्यति कुमारोऽस्या धर्मशास्त्रार्थतत्ववित् । तां समाधाय वै भूयः स्नुषां सत्यवती पुनः ॥'
ऋतुकाले ततो ज्येष्ठां वधूं तस्मै न्ययोजयत् ।
सा तु रूपं च गन्धं च महर्षेः प्रविचिन्त्य तं ॥
नाकरोद्वचनं देव्या भयात्सुरसुतोपमा ।
ततःस्वैर्भूषणैर्दासीं भूषयित्वाऽप्सरोपमाम् ॥
प्रेषयामास कृष्णाय ततः काशिपतेः सुता ।
सा तं त्वृषिमनुप्राप्तं प्रत्युद्गम्याभिवाद्य च ॥
संविवेशाभ्यनुज्ञाता सत्कृत्योपचचार ह । `वाग्भावोपप्रदानेन गात्रसंस्पर्शनेन च ॥'
कामोपभोगेन रहस्तस्यां तुष्टिमगादृषिः ।
तया सहोषितो राजन्महर्षिः संशितव्रतः ॥
उत्तिष्ठन्नब्रवीदेनामभुजिष्या भविष्यसि । अयं च ते शुभे गर्भः श्रेयानुदरमागतः ।
धर्मात्मा भविता लोके सर्वबुद्धिमतां वरः ॥
स जज्ञे विदुरो नाम कृष्णद्वैपायनात्मजः ।
धृतराष्ट्रस्य वै भ्राता पाण्डोश्चैव महात्मनः ॥
धर्मो विदुररूपेण शापात्तस्य महात्मनः ।
माण्डव्यस्यार्थतत्त्वज्ञः कामक्रोधविवर्जितः ॥
कृष्णद्वैपायनोऽप्येतत्सत्यवत्यै न्यवेदयत् ।
प्रलम्भमात्मनश्चैव शूद्रायाः पुत्रजन्म च ॥
स धर्मस्यानृणो भूत्वा पुनर्मात्रा समेत्य च ।
तस्यै गर्भं समावेद्य तत्रैवान्तरधीयत ॥
एते विचित्रवीर्यस्य क्षेत्रे द्वैपायनादपि ।
जज्ञिरे देवगर्भाभाः कुरुवंशविवर्धनाः ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि पञ्चादशाधिकशततमोऽध्यायः ॥ 115 ॥

1-115-42 अभुजिष्या अदासी ॥ 1-115-45 प्रलम्भमात्मस्थोने दासीनियोजनम् ॥ पञ्चादशाधिकशततमोऽध्यायः ॥ 115 ॥

अध्यायः 116

माण्डव्योपाख्यानम् ॥ 1 ॥ राजाज्ञया माण्डव्यस्य शूलारोपणम् ॥ 2 ॥

जनमेजय उवाच ।
किं कृतं कर्म धर्मेण येन शापमुपेयिवान् ।
कस्य शापाच्च ब्रह्मर्षेः शूद्रयोनावजायत ॥
वैशंपायन उवाच ।
बभूव ब्राह्मणः कश्चिन्माण्डव्य इति विश्रुतः ।
धृतिमान्सर्वधर्मज्ञः सत्ये तपसि च स्थितः ॥
`स तीर्थयात्रां विचरन्नाजगाम यदृच्छया । संनिकृष्टानि तीर्थानि ग्रामाणां यानि कानि च ।
तत्राश्रमपदं कृत्वा वसति स्म महामुनिः ॥'
स आश्रमपदद्वारि वृक्षमूले महातपाः ।
ऊर्ध्वबाहुर्महायोगी तस्थौ मौनव्रतान्वितः ॥
तस्य कालेन महता तस्मिंस्तपसि वर्ततः ।
तमाश्रममनुप्राप्ता दस्यवो लोप्त्रहारिणः ॥
अनुसार्यमाणा बहुभी रक्षिभिर्भरतर्षभ ।
`तामेव वसतिं जग्मुस्ते ग्रामाल्लोप्त्रहारिणः ॥
यस्मिन्नावसथे शेते स मुनिः संशितव्रतः ।' ते तस्यावसथे लोप्त्रं दस्यवः कुरुसत्तम ॥
निधाय च भयाल्लीनास्तत्रैवानागते बले ।
तेषु लीनेष्वथो शीघ्रं ततस्तद्रक्षिणां बलम् ॥
आजगाम ततोऽपश्यंस्तमृषिं तस्करानुगाः ।
तमपृच्छंस्ततो राजंस्तथावृत्तं तपोधनम् ॥
कतरेण पथा याता दस्यवो द्विजसत्तम ।
तेन गच्छामहे ब्रह्मन्यथा शीघ्रतरं वयम् ॥
तथा तु रक्षिमां तेषां ब्रुवतां स तपोधनः ।
न किंचिद्वचनं राजन्नब्रवीत्साध्वसाधु वा ॥
ततस्ते राजपुरुषा विचिन्वानास्तमाश्रमम् ।
ददृशुस्तत्र लीनांस्तांश्चोरांस्तद्द्रव्यमेव च ॥
ततः शङ्का समभवद्रक्षिणां तं मुनिं प्रति ।
संयम्यैनं ततो राज्ञे दस्यूंश्चैव न्यवेदयन् ॥
तं राजा सह तैश्चोरैरन्वशाद्वध्यतामिति ।
स रक्षिभिस्तैरज्ञातः शूले प्रोतो महातपाः ॥
ततस्ते शूलमारोप्य तं मुनिं रक्षिणस्तदा ।
प्रतिजग्मुर्महीपालं धनान्यादाय तान्यथ ॥
शूलस्थः स तु धर्मात्मा कालेन महता ततः ।
निराहारोऽपि विप्रर्षिर्मरणं नाभ्यपद्यत ॥
धारयामास च प्राणानृषींश्च समुपानयत् ।
शूलाग्रे तप्यमानेन तपस्तेन महात्मना ॥
सन्तापं परमं जग्मुर्मुनयस्तपसाऽन्विताः । ते रात्रौ शकुना भूत्वा सन्निपत्त्य तु भारत ।
दर्शन्तो यथाशक्ति तमपृच्छन्द्विजोत्तमम् ॥
श्रोतुमिच्छामहे ब्रह्मन्किं पापं कृतवानसि ।
येनेह समनुप्राप्तं शूले दुःखभयं महत् ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि षोडशाधिकशततमोऽध्यायः ॥ 116 ॥

1-116-1 कस्य कीदृशस्य ॥ 1-116-6 लोप्त्रं लुप्यत इति व्युत्पत्त्या चोरापहृतं धनम् ॥ 1-116-8 बले राजसैन्ये ॥ 1-116-13 संयम्य चोरवन्निगृह्य ॥ 1-116-14 प्रोतोऽर्पितः ॥ 1-116-17 समुपानयात् स्वसमीपमिति शेषः ॥ 1-116-18 दर्शयन्तः स्वानि रूपामि प्रकाशयन्तः ॥ षोडशाधिकशततमोऽध्यायः ॥ 116 ॥

अध्यायः 117

माण्डव्यं ऋषिं ज्ञात्वा भीतेन राज्ञा तस्य शूलाद्विमोक्षणम् ॥ 1 ॥ अणीमाण्डव्यस्य यमेन विवादः ॥ 2 ॥ माण्डव्यं न यमस्य शापः ॥ 3 ॥

वैशंपायन उवाच ।
ततः स मुनिशार्दूलस्तानुवाच तपोधनान् ।
दोषतः कं गमिष्यामि न हि मेऽन्योपराध्यति ॥
तं दृष्ट्वा रक्षिणस्तत्र तथा बहुतिथेऽहनि ।
न्यवेदयंस्तथा राज्ञे यथावृत्तं नराधिप ॥
राजा च तमृषिं श्रुत्वा निष्क्रम्य सह मन्त्रिभिः ।
प्रसादयामास तदा शूलस्थमृषिसत्तमम् ॥
प्रजोवाच ।
यन्मयाऽपकृतं मोहादज्ञानादृषिसत्तम ।
प्रसादये त्वां तत्राहं न मे त्वं क्रोद्धुमर्हसि ॥
वैशंपायन उवाच ।
एवमुक्तस्ततो राज्ञा प्रसादमकरोन्मुनिः ।
कृतप्रसादं राजा तं ततः समवतारयत् ॥
अवतार्य च शूलाग्रात्तच्छूलं निश्चकर्ष ह ।
अशक्नुवंश्च निष्क्रष्टुं शूलं मूले स चिच्छिदे ॥
स तथान्तर्गतेनैव शूलेन व्यचरन्मुनिः । कण्ठपार्श्वान्तरस्थेन शङ्कुना मुनिराचत् ।
पुष्पभाजनधारी स्यादिति चिन्तापरोऽभवत् ॥'
स चातितपसा लोकान्विजिग्ये दुर्लभान्परैः ॥
अणीमाण्डव्य इति च ततो लोकेषु गीयते ।
स गत्वा सदनं विप्रो धर्मस्य परमार्थवित् ॥
आसनस्थं ततो धर्मं दृष्ट्वोपालभत प्रभुम् ।
किं नु तद्दुष्कृतं कर्म मया कृतमजानता ॥
यस्येयं फलनिर्वृत्तिरीदृश्यासादिता मया ।
शीघ्रमाचक्ष्व मे तत्त्वं पश्य मे तपसो बलम् ॥
धर्म उवाच ।
पतङ्गिकानां पुच्छेषु त्वयेषीका प्रवेशिता ।
कर्मणस्तस्य ते प्राप्तं फलमेतत्तपोधन ॥
स्वल्पमेव यथा दत्तं दानं बहुगुणं भवेत् ।
अधर्म एवं विप्रर्षे बहुदुःखफलप्रदः ॥
अणीमाण्डव्य उवाच ।
कस्मिन्काले मया तत्तु कृतं ब्रूहि यथातथम् ।
तेनोक्तं धर्मराजेन बालभावे त्वया कृतम् ॥
अणीमाण्डव्य उवाच ।
बालो हि द्वादशाद्वर्षाज्जन्मतो यत्करिष्यति ।
न भविष्यत्यधर्मोऽत्र न प्रज्ञास्यति वै दिशः ॥
अल्पेऽपराधेऽपि महान्मम दण्डस्त्वया धृतः ।
गरीयान्ब्राह्मणवधः सर्वभूतवधादपि ॥
शूद्रयोनावतो धर्म मानुषः संभविष्यसि ।
मर्यादां स्थापयाम्यद्य लोके कर्मफलोदयाम् ॥
आ चतुर्दशकाद्वर्षान्न भविष्यति पातकम् ।
परतः कुर्वतामेव दोष एव भविष्यति ॥
वैशंपायन उवाच ।
एतेन त्वपराधेन शापात्तस्य महात्मनः ।
धर्मो विदुररूपेण शूद्रयोनावजायत ॥
धर्मे चार्थे च कुशलो लोभक्रोधविवर्जितः ।
दीर्घदर्शी शमपरः कुरूणां च हिते रतः ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि सप्तदशाधिकशततमोऽध्यायः ॥ 117 ॥

1-117-1 दोषतः कंगमिष्यामि न कमपि दोषिणं कथयामि । स्वकृतमे भुञ्जे इत्यर्थः ॥ 1-117-9 अणी शूलाग्रं तद्युक्तो माण्डव्यः ॥ 1-117-10 उपालभत गर्हितवान् ॥ 1-117-15 दिशो देशनाः धर्मशास्त्राणि यतो न प्रज्ञास्यति बालत्वात् ॥ 1-117-16 ब्राह्मणवधो ब्राह्मणपीडनम् ॥ 1-117-20 दीर्घदर्शी सर्वकालपरामर्शी । शमपरो निर्वैरः ॥ सप्तदशाधिकशततमोऽध्यायः ॥ 117 ॥

अध्यायः 118

कंचित्कालं भीष्मेण राज्यपरिपालनानन्तरं पाण्डो राज्येऽभिषेकः ॥ 1 ॥

वैशंपायन उवाच ।
`धृतराष्ट्रे च पाण्डौ च विदुरे च महात्मनि ।' एषु त्रिषु कुमारेषु जातेषु कुरुजाङ्गलम् ।
कुरवोऽथ कुरुक्षेत्रं त्रयमेतदवर्धत ॥
ऊर्ध्वसस्याऽभवद्भूमिः सस्यानि फलवन्ति च ।
यथर्तुवर्षी पर्जन्यो बहुपुष्पफला द्रुमाः ॥
वाहनानि प्रहृष्टानि मुदिता मृगपक्षिणः ।
गन्धवन्ति च माल्यानि रसवन्ति फलानि च ॥
वणिग्भिश्चान्वकीर्यन्त नगराण्यथ शिल्पिभिः ।
शूराश्च कृतविद्याश्च सन्तश्च सुखिनोऽभवन् ॥
नाभवन्दस्यवः केचिन्नाधर्मरुचयो जनाः ।
प्रदेशेष्वपि राष्ट्राणां कृतं युगमवर्तत ॥
धर्मक्रिया यज्ञशीलाः सत्यव्रतपरायणाः ।
अन्योन्यप्रीतिसंयुक्ता व्यवर्धन्त प्रजास्तदा ॥
मानक्रोधविहीनाश्च नरा लोभविवर्जिताः ।
अन्योन्यमभ्यनन्दन्त धर्मोत्तरमवर्तत ॥
तन्महोदधिवत्पूर्णं नगरं वै व्यरोचत ।
द्वारतोरणनिर्यूहैर्युक्तमभ्रचयोपमैः ॥
प्रसादशतसंबाधं महेन्द्रपुरसन्निभम् । नदीषु वनखण्डेषु वापीपल्वलसानुषु ।
काननेषु च रम्येषु विजह्रुर्मुदिता जनाः ॥
उत्तरैः कुरुभिः सार्धं दक्षिणाः कुरवस्तथा ।
विस्पर्धमाना व्यचरंस्तथा देवर्षिचारणैः ॥
नाभवत्कृपणः कश्चिन्नाभवन्विधवाः स्त्रियः ।
तस्मिञ्जनपदे रम्ये कुरुभिर्बहुलीकृते ॥
कूपारामसभावाप्यो ब्राह्मणावसथास्तथा ।
बभूवुः सर्वर्द्धियुतास्तस्मिन्राष्ट्रे सदोत्सवाः ॥
भीष्मेण धर्मतो राजन्सर्वतः परिरक्षिते ।
बभूव रमणीयश्च चैत्ययूपशताङ्कितः ॥
स देशः परराष्ट्राणि विमृज्याभिप्रवर्धितः ।
भीष्मेण विहितं राष्ट्रे धर्मचक्रमवर्तत ॥
क्रियमाणेषु कृत्येषु कुमाराणां महात्मनाम् ।
पौरजानपदाः सर्वे बभूवुः परमोत्सुकाः ॥
गृहेषु कुरुमुख्यानां पौराणां च नराधिप ।
दीयतां भुज्यतां चेति वाचोऽश्रूयन्त सर्वशः ॥
धृतराष्ट्रश्च पाण्डुश्च विदुरश्च महामतिः ।
जन्मप्रभृति भीष्मेण पुत्रवत्परिपालिताः ॥
संस्कारैः संस्कृतास्ते तु व्रताध्ययनसंयुताः ।
श्रमव्यायामकुशलाः समपद्यन्त यौवनम् ॥
धनुर्वेदे च वेदे च गदायुद्धेऽसिचर्मणि ।
तथैव गजशिक्षायां नीतिशास्त्रेषु पारगाः ॥
इतिहासपुराणेषु नानाशिक्षासु बोधिताः ।
वेदवेदाङ्गतत्त्वज्ञाः सर्वत्र कृतनिश्चयाः ॥
`वैदिकाध्ययने युक्तो नीतिशास्त्रेषु पारगः ।
भीष्मेण राजा कौरव्यो धृतराष्ट्रोऽभिषेचितः ॥
धनुर्वेदेऽश्वपृष्ठे च गदायुद्धेऽसिचर्मणि ।
तथैव गजशिक्षायामस्त्रेषु विविधेषु च ॥
अर्थधर्मप्रधानासु विद्यासु विविधासु च । गतः पारं यदा पाण्डुस्तदा सेनापतिः कृतः ॥'
पाण्डुर्धनुषि विक्रान्तो नरेष्वभ्यदिकोऽभवत् ।
अन्येभ्यो बलवानासीद्धृतराष्ट्रो महीपतिः ॥
अमात्यो मनुजेन्द्रस्य बाल एव यशस्विनः ।
भीष्मेण सर्वधर्माणां प्रणेता विदुरः कृतः ॥
`सर्वशास्त्रार्थतत्त्वज्ञो बुद्धिमेधापटुर्युवा । भावेनागमयुक्तेन सर्वं वेदयते जगत् ॥'
त्रिषु लोकेषु न त्वासीत्कश्चिद्विदुरसंमितः ।
धर्मनित्यस्तथा राजन्धर्मं च परमं गतः ॥
प्रनष्टं शान्तनोर्वंशं समीक्ष्य पुनरुद्धृतम् ।
ततो निर्वचनं लोके सर्वराष्ट्रेष्ववर्तत ॥
वीरसूनां काशिसुते देशानां कुरुजाङ्गलम् ।
सर्वध्रमविदां भीष्मः पुराणां गजसाह्वयम् ॥
धृतराष्ट्रस्त्वचक्षुष्ट्वाद्रज्यं न प्रत्यपद्यत ।
पारसवत्वाद्विदुरो राजा पाण्डुर्बभूव ह ॥
`अथ शुश्राव विप्रेभ्यः कुन्तिभोजमहीपतेः ।
रूपयौवनसंपन्नां सुतां सागरगासुतः ॥
सुबलस्य च कल्याणीं गान्धाराधिपतेः सुताम् । सुतां च मद्रराजस्य रूपेणाप्रतिमां भुवि ॥'
कदाचिदथ गाङ्गेयः सर्वनीतिमतां वरः ।
विदुरं धर्मतत्त्वज्ञं वाक्यमाह यथोचितम् ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि अष्टादशाधिकशततमोऽध्यायः ॥ 118 ॥

1-118-2 ऊर्ध्वसस्या प्रचुरसस्या ॥ 1-118-18 श्रमः शास्त्राभ्यासः । व्यायामो बाहुयुद्धाद्यभ्यासः ॥ 1-118-28 निर्वचनं प्रशंसा ॥ 1-118-30 पारसवत्वाच्छूद्रायां ब्राह्मणाज्जातत्वात् ॥ अष्टादशाधिकशततमोऽध्यायः ॥ 118 ॥

अध्यायः 119

धृतराष्ट्रविवाहार्थं भीष्मविदुरसंवादः ॥ 1 ॥ धृतराष्ट्रस्य गान्धार्या विवाहः ॥ 2 ॥

भीष्म उवाच ।
गुणैः समुदितं सम्यगिदं नः प्रथितं कुलम् ।
अत्यन्यान्पृथिवीपालान्पृथिव्यामधिराज्यभाक् ॥
रक्षितं राजभिः पूर्वं धर्मविद्भिर्महात्मभिः ।
नोत्सादमगमच्चेदं कदाचिदिह नः कुलम् ॥
मया च सत्यवत्या च कृष्णेन च महात्मना ।
समवस्थापित भूयो युष्मासु कुलतन्तुषु ॥
तच्चैतद्वर्धते भूयः कुलं सागरवद्यथा ।
तथा मया विधातव्यं त्वया चैव न संशयः ॥
श्रूयते यादवी कन्या स्वनुरूपा कुलस्य नः ।
सुबलस्यात्मजा चैव तथा मद्रेश्वरस्य च ॥
कुलीना रूपवत्यश्च ताः कन्याः पुत्र सर्वशः ।
उचिताश्चैव संबन्धे तेऽस्माकं क्षत्रियर्षभाः ॥
मन्ये वरयितव्यास्ता इत्यहं धीमतां वर ।
सन्तानार्थं कुलस्यास्य यद्वा विदुर मन्यसे ॥
विदुर उवाच ।
भवान्पिता भावन्माता भवान्नः परमो गुरुः ।
तस्मात्स्वयं कुलस्यास्य विचार्य कुरु यद्धितम् ॥
वैशंपायन उवाच ।
अथ शुश्राव विप्रेभ्यो गान्धारीं सुबलात्मजाम् ।
आराध्य वरदं देवं भगनेत्रहरं हरम् ॥
गान्धारी किल पुत्राणां शतं लेभे वरं शुभा ।
इति शुश्राव तत्त्वेन भीष्मः कुरुपितामहः ॥
ततो गान्धारराजस्य प्रेषयामास भारत ।
अचक्षुरिति तत्रासीत्सुबलस्य विचारणा ॥
कुलं ख्यातिं च वृत्तं च बुद्ध्या तु प्रसमीक्ष्य सः ।
ददै तां धृतराष्ट्राय गान्धारीं धर्मचारिणीम् ॥
गान्धारी त्वथ शुश्राव धृतराष्ट्रमचक्षुषम् ।
आत्मानं दिप्सितं चास्मै पित्रा मात्रा च भारत ॥
ततः सा पटमादाय कृत्वा बहुगुणं तदा ।
बबन्ध नेत्रे स्वे राजन्पतिव्रतपरायणा ॥
नाभ्यसूयां पतिमहमित्येवं कृतनिश्चया ।
ततो गान्धारराजस्य पुत्रः शकुनिरभ्ययात् ॥
स्वसारं परया लक्ष्म्या युक्तामादाय कौरवान् । तां तदा धृतराष्ट्राय ददौ परमसत्कृताम् ।
भीष्मस्यानुमते चैव विवाहं समकारयत् ॥
दत्त्वा स भगिनीं वीरो यथार्हं च परिच्छदम् ।
पुनरायात्स्वनगरं भीष्मेण प्रतिपूजितः ॥
गान्धार्यपि वरारोहा शीलाचारविचिषेटितैः ।
तुष्टिं कुरूणां सर्वेषां जनयामास भारत ॥
`गान्धारी सा पतिं दृष्ट्वा प्रज्ञाचक्षुषमीश्वरम् ।
अतिचाराद्भृशं भीता भर्तुः सा समचिन्तयत् ॥
सा दृष्टिविनिवृत्त्या हि भर्तुश्च समतां ययौ ।
नहि सूक्ष्मेप्यतीचारे भर्तुः सा ववृते तदा ॥
वृत्तेनाराध्य तान्सर्वान्गुरून्पतिपरायणा ।
वाचापि पुरुषानन्यान्सुव्रता नान्वकीर्तयत् ॥
तस्याः सहोदरीः कन्याः पुनरेव ददौ दश ।
गान्धारराजः सुबलो भीष्मेण च वृतस्तदा ॥
सत्यव्रतां सत्यसेनां सुदेष्णां चापि संहिताम् ।
तेजश्श्र्वां सुश्रवां च तथैव निकृतिं शुभाम् ॥
शंभ्वठां च दशार्णां च गान्धारीर्दश विश्रुताः ।
एकाह्ना प्रतिजग्राह धृतराष्ट्रो जनेश्वरः ॥
ततः शान्तनवो भीष्मो धानुष्कस्तास्ततस्ततः । अददाद्धृतराष्ट्रस्य राजपुत्रीः परश्शतम् ॥' ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि एकोनविंशत्यधिकशततमोऽध्यायः ॥ 119 ॥

1-119-5 यादवी यादवस्य कुन्तिभोजस्य अपत्यम् ॥ 1-119-11 प्रेषयामास दूतमिति शेषः ॥ 1-119-13 दित्सितं दातुमिष्टम् ॥ 1-119-14 बहुगुणं बहुधागुणितम् ॥ 1-119-15 नाभ्यसूयां पत्युरभिभवं न कुर्याम् ॥ एकोनविंशत्यधिकशततमोऽध्यायः ॥ 119 ॥

अध्यायः 120

पृथाया बाल्यचरित्रकथनम् ॥ 1 ॥ तस्या दुर्वाससो मन्त्रप्राप्तिः ॥ 2 ॥ मन्त्रप्रभावजिज्ञासयाऽऽहूतात्सूर्यात्कुन्त्यां कर्णस्योत्पत्तिः ॥ 3 ॥ लोकभयात्कुन्त्या यमुनायां विसृष्टस्य राधाभर्त्रा स्वीकारो वसुषेणेति नामकरमं च ॥ 4 ॥ संग्रहेण कर्णचरित्रकथनम् ॥ 5 ॥

वैशंपायन उवाच ।
शूरो नाम यदुश्रेष्ठो वसुदेवपिताऽभवत् ।
तस्य कन्या पृथा नाम रूपेणाप्रतिमा भुवि ॥
पितृष्वस्रीयाय स तामनपत्याय भारत ।
अग्र्यमग्रे प्रतिज्ञाय स्वस्यापत्यं स सत्यवाक् ॥
अग्रजामथ तां कन्यां शूरोऽनुग्रहकाङ्क्षिणे ।
प्रददौ कुन्तिभोजाय सखा सख्ये महात्मने ॥
नियुक्ता सा पितुर्गेहे ब्राह्मणातिथिपूजने ।
उग्रं पर्यचरत्तत्र ब्राह्मणं संशितब्रतम् ॥
निगूढनिश्चयं धर्मे यं तं दुर्वाससं विदुः ।
तमुग्रं संशितात्मानं सर्वयत्नैरतोषयत् ॥
`दध्याज्यकादिभिर्नित्यं व्यञ्जनैः प्रत्यहं शुभा ।
सहस्रसङ्ख्यैर्योगीन्द्रमुपचारदनुत्तमा ॥
दुर्वासा वत्सरस्यान्ते ददौ मन्त्रमनुत्तमम्' । यशस्विन्यै पृथायै तदापद्धर्मान्ववेक्षया ।
अभिचाराभिसंयुक्तमब्रवीच्चैव तां मुनिः ॥
यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि ।
तस्य तस्य प्रभावेण तव पुत्रो भविष्यति ॥
तथोक्ता सा तु विप्रेण कुन्ती कौतूहलान्विता ।
कन्या सती देवमर्कमाजुहाव यशस्विनी ॥
ततो घनान्तरं कृत्वा स्वमार्गं तपनस्तदा ।
उपतस्थे स तां कन्यां पृथां पृथुललोचनाम् ॥
सा ददर्श तमायान्तं भास्करं लोकभावनम् ।
विस्मिता चानवद्याङ्गी दृष्ट्वा तन्महदद्भुतम् ॥
`साब्रवीद्भगवन्कस्त्वमाविर्भूतो ममाग्रतः ।
आदित्य उवाच ।
आहूतोपस्थितं भद्रे ऋषिमन्त्रेण चोदितम् ।
विद्धि मां पुत्रलाभाय देवमर्कं शुचिस्मिते ॥
पुत्रस्ते निर्मितः सुभ्रु शृणु महादृक्छुभानने ।
आदित्ये कुण्डले बिभ्रत्कवचं चैव मामकम् ॥
शस्त्रास्त्राणामभेद्यश्च भविष्यति शुचिस्मिते ।
नास्य किंचिददेयं च ब्राह्मणेभ्यो भविष्यति ॥
चोद्यमानो मया चापि न क्षमं चिन्तयिष्यति ।
दास्यत्येव हि विप्रेभ्यो मानी चैव भविष्यति ॥
वैशंपायन उवाच ।
एवमुक्ता ततः कुन्ती गोपतिं प्रत्युवाच ह । कन्या पितृसा चाहं पुरुषार्थो न चैव मे ॥'
कश्चिन्मे ब्राह्मणः प्रादाद्वरं विद्यां च शत्रुहन् ।
तद्विजिज्ञासयाऽऽह्वानं कृतवत्यस्मि ते विभो ॥
एतस्मिन्नपराधे त्वां शिरसाऽहं प्रसादये ।
योषितो हि सदा रक्ष्यास्त्वपराधेऽपि नित्यशः ॥
सूर्य उवाच ।
वेदाहं सर्वमेवैतद्यद्दुर्वासा वरं ददौ ।
संत्यज्य भयमेवेह क्रियतां सङ्गमो मम ॥
अमोघं दर्शनं मह्यमाहूतश्चास्मि ते शुभे ।
वृथाऽऽह्वानेऽपि ते भीरु दोषः स्यान्नात्र संशयः ॥
`यद्येवं मन्यसे भीरु किमाह्वयसि भास्करम् ।
यदि मामवजानासि ऋषिः स न भविष्यति ॥
मन्त्रदानेन यस्मात्त्वमवलेपेन दर्पिता ।
कुलं च तेऽद्य धक्ष्यामि क्रोधदीप्तेन चक्षुषा' ॥
वैशंपायन उवाच ।
एवमुक्ता बहुविधं सान्त्वपूर्वं विवस्वता ।
सा तु नैच्छद्वरारोहा कन्याहमिति भारत ॥
बन्धुपक्षभयाद्भीता लज्जया च यशस्विनी ।
तामर्कः पुनरेवेदब्रवीद्भरतर्षभ ॥
मत्प्रसादान्न ते राज्ञि भविता दोष इत्युत ॥
`कुन्त्युवाच ।
प्रसीद भगवन्मह्यमवलेपो हि नास्ति मे ।
त्वयैव परिहार्यं स्यात्कन्याभावस्य दूषणम् ॥
आदित्य उवाच ।
व्यपयातु भयं तेऽद्य कुमारं प्रसमीक्षसे ।
मया त्वं चाप्यनुज्ञाता पुनः कन्या भविष्यसि ॥
वैशंपायन उवाच ।
एवमुक्ता ततः कुन्ती संप्रहृष्टतनूरुहा ।
सङ्गताऽभूत्तदा सुभ्रूरादित्येन महात्मना ॥
प्रकाशकर्मा तपनः कन्यागर्भं ददौ पुनः ।' तत्र वीरः समभवत्सर्वशस्त्रभृतां वरः ॥
आमुक्तकवचः श्रीमान्देवगर्भः श्रियान्वितः ।
सहजं कवचं बिभ्रत्कुण्डलोद्द्योतिताननः ॥
अजायत सुतः कर्णः सर्वलोकेषु विश्रुतः ।
प्रादाच्च तस्यै कन्यात्वं पुनः स परमद्युतिः ॥
दत्त्वा च तपतां श्रेष्ठो दिवमाचक्रमे ततः ।
दृष्ट्वा कुमारं जातं सा वार्ष्णेयी दीनमानसा ॥
एकाग्रं चिन्तयामास किं कृत्वा सुकृतं भवेत् ।
गूहमानापचारं सा बन्धुपक्षभयात्तदा ॥
मञ्जूषां रत्नसंपूर्णां कृत्वा बालसमाश्रिताम् ।
उत्ससर्ज कुमारं तं जले कुन्ती महाबलम् ॥
तमुत्सृष्टं जले गर्भं राधाभर्ता महायशाः ।
पुत्रत्वे कल्पयामास सभार्यः सूतनन्दनः ॥
नामधेयं च चक्राते तस्य बालस्य तावुभौ ।
वसुना सह जातोऽयं वसुषेणो भवत्विति ॥
स वर्धमानो बलवान्सर्वास्त्रेषूद्यतोऽभवत् ।
आपृष्ठतापादादित्यमुपातिष्ठत वीर्यवान् ॥
तस्मिन्काले तु जपतस्तस्य वीरस्य धीमतः ।
नादेयं ब्राह्मणेष्वासीत्किंचिद्वसु महीतले ॥
`ततः काले तु कस्मिंश्चित्स्वप्नान्ते कर्णमब्रवीत् ।
आदित्यो ब्राह्मणो भूत्वा शृणु वीर वचो मम ॥
प्रभातायां रजन्यां त्वामागमिष्यति वासवः ।
न तस्य भिक्षा दातव्या विप्ररूपी भविष्यति ॥
निश्चयोऽस्यापहर्तुं ते कवचं कुण्डले तथा ।
अतस्त्वां बोधयाम्येष स्मर्तासि वचनं मम ॥
कर्ण उवाच ।
शक्रो मां विप्ररूपेण यदि वै याचते द्विज ।
कथं तस्मै न दास्यामि यथा चास्म्यवबोधितः ॥
विप्राः पूज्यास्तु देवानां सततं प्रियमिच्छताम् ।
तं देवदेवं जानन्वै न शक्तोऽस्म्यवमन्त्रणे ॥
सूर्य उवाच ।
यद्येवं शृणु मे वीर वरं ते सोऽपि दास्यति ।
शक्तिं त्वमपि याचेथाः सर्वशत्रुविबाधिनीम् ॥
वैशंपायन उवाच ।
एवमुक्त्वा द्विजः स्वप्ने तत्रैवान्तरधीयत ।
कर्णः प्रबुद्धस्तं स्वप्नं चिन्तयानोऽभवत्तदा ॥
तमिन्द्रो ब्राह्मणो भूत्वा पुत्रार्थं भूतभावनः ।
कुण्डले प्रार्थयामास कवचं च महाद्युतिः ॥
उत्कृत्याविमनाः स्वाङ्गात्कवचं रुधिरस्रवम् ।
कर्णौ पार्श्वे च द्वे छित्त्वा प्रायच्छत्स कृताञ्जलिः ॥
प्रतिगृह्य तु देवेशस्तुष्टस्तेनास्य कर्मणा ।
अहो साहसमित्याह मनसा वासवो हसन् ॥
देवदानवयक्षाणां गन्धर्वोरगरक्षसाम् ।
न तं पश्यामि यो ह्येतत्कर्म कर्ता भविष्यति ॥
प्रीतोऽस्मि कर्मणा तेन वरं ब्रूहि यदिच्छसि ।
कर्ण उवाच ।
इच्छामि भगवद्दत्तां शक्तिं शत्रुनिबर्हणीम् ॥
वैशंपायन उवाच ।
शक्तिं तस्मै ददौ शक्रो विस्मयाद्वाक्यमब्रवीत् ।
देवदानवयक्षाणां गन्धर्वोरगरक्षसाम् ॥
यस्मै क्षेप्स्यसि रुष्टः सन्सोऽनया न भविष्यति । हत्वैकं समरे शत्रुं ततो मामागमिष्यति ।
इत्युक्त्वान्तर्दधे शक्रो वरं दत्त्वा तु तस्य वै ॥
प्राङ्नाम तस्य कथितं वसुषेण इति क्षितौ ।
कर्णो वैकर्तनश्चैव कर्मणा तेन सोऽभवत् ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि विंशत्यधिकशततमोऽध्यायः ॥ 120 ॥

1-120-2 अग्र्यं प्रथमम् । अग्रे जन्मतः पूर्वं प्रतिज्ञाय मया प्रथममपत्यं तुभ्यं देयमिति प्रतिश्रुत्य ॥ 1-120-7 अभिचारो वश्याकर्षणादिदृष्टफलं तद्युक्तम् ॥ 1-120-36 वसुना कवचकुण्डलादिद्रव्येण बद्ध इति वसुषेणः ॥ 1-120-37 आपृष्ठतापात् मध्याह्नात्परत इत्यर्थः ॥ 1-120-53 सहजकवचकर्तनात् कर्णः विशेषतः कर्तनेन वैकर्तनः । स्वार्थे तद्धितः ॥ विंशत्यधिकशततमोऽध्यायः ॥ 120 ॥

अध्यायः 121

पाण्डोः कुन्त्या विवाहः ॥ 1 ॥

वैशंपायन उवाच ।
सत्वरूपगुणोपेता धर्मारामा महाव्रता ।
दुहिता कुन्तिभोजस्य पृथा पृथुललोचना ॥
तां तु तेजस्विनीं कन्यां रूपयौवनशालिनीम् ।
व्यावृण्वन्पार्थिवाः केचिदतीव स्त्रीगुणैर्युताम् ॥
ततः सा कुन्तिभोजेन राज्ञाहूय नराधिपान् ।
पित्रा स्वयंवरे दत्ता दुहिता राजसत्तम ॥
ततः सा रङ्गमध्यस्थं तेषां राज्ञां मनस्विनी ।
ददर्श राजशार्दूलं पाण्डुं भरतसत्तमम् ॥
सिंहदर्पं महोरस्कं वृषभाक्षं महाबलम् ।
आदित्यमिव सर्वेषां राज्ञां प्रच्छाद्य वै प्रभाः ॥
तिष्ठन्तं राजसमितौ पुरन्दरमिवापरम् ।
तं दृष्ट्वा साऽनवद्याङ्गी कुन्तिभोजसुता शुभा ॥
पाण्डुं नरवरं रङ्गे हृदयेनाकुलाऽभवत् ।
ततः कामपरीताङ्गी सकृत्प्रचलमानसा ॥
व्रीडमान स्रजं कुन्ती राज्ञः स्कन्धे समासजत् ।
तं निशम्य वृतं पाण्डुं कुन्त्या सर्वे नराधिपाः ॥
यथागतं समाजग्मुर्गजैरश्वै रथैस्तथा ।
ततस्तस्याः पिता राजन्विवाहमकरोत्प्रभुः ॥
स तया कुन्तिभोजस्य दुहित्रा कुरुनन्दनः ।
युयुजेऽमितसौभाग्यः पौलोम्या मघवानिव ॥
कुन्त्याः पाण्डोश्च राजेन्द्र कुन्तिभोजो महीपतिः । कृत्वोद्वाहं तदा तं तु नानावसुभिरर्चितम् ।
स्वपुरं प्रेषयामास स राजा कुरुसत्तम ॥
ततो बलेन महता नानाध्वजपताकिना ।
स्तूयमानः स चाशीर्भिर्ब्राह्मणैश्च महर्षिभिः ॥
संप्राप्य नगरं राजा पाण्डुः कौरवनन्दनः ।
न्यवेशत तां भार्यां कुन्तीं स्वभवने प्रभुः ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि एकविंशत्यधिकशततमोऽध्यायः ॥ 121 ॥

अध्यायः 122

पाण्डोर्माद्र्या विवाहः । दिग्विजयश्च ॥ 1 ॥

वैशंपायन उवाच ।
ततः शान्तनवो भीष्मो राज्ञः पाण्डोर्यशस्विनः ।
विवाहस्यापरस्यार्थे चकार मतिमान्मतिम् ॥
सोऽमात्यैः स्थविरैः सार्धं ब्राह्मणैश्च महर्षिभिः ।
बलेन चतुरङ्गेण ययौ मद्रपतेः पुरम् ॥
तमागतमभिश्रुत्य भीष्मं वाहीकपुङ्गवः ।
प्रत्युद्गम्यार्चयित्वा च पुरं प्रावेशयन्नृपः ॥
दत्त्वा तस्यासनं शुभ्रं पाद्यमर्घ्यं तथैव च ।
मधुपर्कं च मद्रेशः पप्रच्छागमनेऽर्थिताम् ॥
तं भीष्मः प्रत्युवाचेदं मद्रराजं कुरूद्वहः ।
आगतं मां विजानीहि कन्यार्थिनमरिन्दम ॥
श्रूयते भवतः साध्वी स्वसा माद्री यशस्विनी ।
तामहं वरयिष्यामि पाण्डोरर्थे यशस्विनीम् ॥
युक्तरूपो हि संबन्धे त्वं नो राजन्वयं तव ।
एतत्संचिन्त्य मद्रेश गृहाणास्मान्यथाविधि ॥
तमेवंवादिनं भीष्मं प्रत्यभाषत मद्रपः ।
न हि मेऽन्यो वरस्त्वत्तः श्रेयानिति मतिर्मम ॥
पूर्वैः प्रवर्तितं किंचित्कुलेऽस्मिन्नृपसत्तमैः ।
साधु वा यदि वाऽसाधु तन्नातिक्रान्तुमुत्सहे ॥
व्यक्तं तद्भवतश्चापि विदितं नात्र संशयः ।
न च युक्तं तथा वक्तुं भवान्देहीति सत्तम ॥
कुलधर्मः स नो वीर प्रमाणं परमं च तत् ।
तेन त्वां न ब्रवीम्येतदसंदिग्धं वचोऽरिहन् ॥
तं भीष्मः प्रत्युवाचेदं मद्रराजं जनाधिपः ।
धर्म एष परो राजन्स्वयमुक्तः स्वयंभुवा ॥
नात्र कश्चन दोषोऽस्ति पूर्वैर्विधिरयं कृतः ।
विदितेयं च ते शल्य मर्यादा साधुसंमता ॥
इत्युक्त्वा स महातेजाः शातकुम्भं कृताकृतम् ।
रत्नानि च विचित्राणि शल्यायादात्सहस्रशः ॥
गजानश्वान्रथांश्चैव वासांस्याभरणानि च ।
मणिमुक्ताप्रवालं च गाङ्गेयो व्यसृजच्छुभम् ॥
तत्प्रगृह्य धनं सर्वं शल्यः संप्रतीमानसः ।
ददौ तां समलङ्कृत्य स्वसारं कौरवर्षभे ॥
स तां माद्रीमुपादाय भीष्मः सागरगासुतः ।
आजगाम पुरीं धीमान्प्रविष्टो गजसाह्वयम् ॥
तत इष्टेऽहनि प्राप्ते मुहूर्ते साधुसंमते । `विवाहं कारायामास भीष्मः पाण्डोर्महात्मनः ।'
जग्राह विधिवत्पाणिं माद्र्याः पाण्डुर्नराधिपः ॥
ततो विवाहे निर्वृत्ते स राजा कुरुनन्दनः ।
स्थापयामास तां भार्यां शुभे वेश्मनि भामिनीं ॥
स ताभ्यां व्यचरत्सार्धं भार्याभ्यां राजसत्तमः ।
कुन्त्या माद्र्या च राजेन्द्रो यथाकामं यथासुखम् ॥
ततः स कौरवो राजा विहृत्य त्रिदशा निशाः ।
जिगीषया महीं पाण्डुर्निरक्रामत्पुरात्प्रभो ॥
स भीष्मप्रमुखान्वृद्धानभिवाद्य प्रणम्य च । धृतराष्ट्रं च कौरव्यं तथान्यान्कुरुसत्तमान् ।
आमन्त्र्य प्रययौ राजा तैश्चैवाप्यनुमोजितः ॥
मङ्गलाचारयुक्ताभिराशीर्भिरभिनन्दितः ।
गजवाजिरथौघेन बलेन महताऽगमत् ॥
स राजा देवगर्भाभो विजिगीषुर्वसुन्धराम् ।
हृष्टपुष्टबलैः प्रायात्पाण्डुः शत्रूननेकशः ॥
पूर्वमागस्कृतो गत्वा दशार्णाः समरे जिताः ।
पाण्डुना नरसिंहेन कौरवाणां यशोभृता ॥
ततः सेनामुपादाय पाण्डुर्नानाविधध्वजाम् ।
प्रभूतहस्त्यश्वयुतां पदातिरथसंकुलाम् ॥
आगस्कारी महीपानां बहूनां बलदर्पितः ।
गोप्ता मगधराष्ट्रस्य दीर्घो राजगृहे हतः ॥
ततः कोशं समादाय वाहनानि च भूरिशः ।
पाण्डुना मिथिलां गत्वा विदेहाः समरे जिताः ॥
तथा काशिषु सुह्मेषु पुण्ड्रेषु च नरर्षभ ।
स्वबाहुबलवीर्येण कुरूणामकरोद्यशः ॥
तं शरौघमहाज्वालं शस्त्रार्चिषमरिन्दमम् ।
पाण्डुपावकमासाद्य व्यवह्यन्त नराधिपाः ॥
ते ससेनाः ससेनेन विध्वंसितबला नृपाः ।
पाण्डुना वशगाः कृत्वा कुरुकर्मसु योजिताः ॥
तेन ते निर्जिताः सर्वे पृथिव्यां सर्वपार्थिवाः ।
तमेकं मेनिरे शूरं देवेष्विव पुरन्दरम् ॥
तं कृताञ्जलयः सर्वे प्रणता वसुधाधिपाः ।
उपाजग्मुर्धनं गृह्य रत्नानि विविधानि च ॥
मणिमुक्ताप्रवालं च सुवर्णं रजतं बहु ।
गोरत्नान्यश्वरत्नानि रथरत्नानि कुञ्जरान् ॥
खरोष्ट्रमहिषांश्चैव यच्च किंचिदजाविकम् । कम्लाजिनरत्नानि राङ्कवास्तरणानि च ।
तत्सर्वं प्रतिजग्राह राजा नागपुराधिपः ॥
तदादाय ययौ पाण्डुः पुनर्मदितवाहनः ।
हर्षयिष्यन्स्वराष्ट्राणि पुरं च गजसाह्वयम् ॥
शान्तनो राजसिंहस्य भरतस्य च धीमतः ।
प्रनष्टः कीर्तिजः शब्दः पाण्डुना पुनराहृतः ॥
ये पुरा कुरुराष्ट्राणि जह्रुः कुरुधनानि च ।
ते नागपुरसिंहेन पाण्डुना करदीकृताः ॥
इत्यभाषन्त राजानो राजामात्याश्च सङ्गताः ।
प्रतीतमनसो हृष्टाः पौरजानपदैः सह ॥
प्रत्युद्ययुश्च तं प्राप्तं सर्वे भीष्मपुरोगमाः ।
ते नदूरमिवाध्वानं गत्वा नागपुरालयाः ॥
आवृतं ददृशुर्हृष्टा लोकं बहुविधैर्धनैः ।
नानायानसमानीतै रत्नैरुच्चावचैस्तदा ॥
हस्त्यश्वरथरत्नैश्च गोभिरुष्ट्रैस्तथाऽऽविभिः ।
नान्तं ददृशुरासाद्य भीष्मेण सह कौरवाः ॥
सोऽभिवाद्य पितुः पादौ कौसल्यानन्दवर्धनः ।
यथाऽर्हं मानयामास पौरजानपदानपि ॥
प्रमृद्य परराष्ट्राणि कृतार्थं पुनरागतम् ।
पुत्रमाश्लिष्य भीष्मस्तु हर्षादश्रूण्यवर्तयत् ॥
स तूर्यशतशङ्खानां भेरीणां च महास्वनैः ।
हर्षयन्सर्वशः पौरान्विवेश गजसाह्वयम् ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि द्वाविंशत्यधिकशततमोऽध्यायः ॥ 122 ॥

1-122-8 मे वरः मम जामाता ॥ 1-122-14 शातकुम्भं काञ्चनम् । कृताकृतं घटितमघटितं च ॥ 1-122-15 व्यसृदत् प्रादात् ॥ 1-122-21 त्रिदशाः त्रिंशत् ॥ 1-122-40 नदूरमिव अदूरमिव । जयोत्साहेन मार्गश्रमाभावात् ॥ द्वाविंशत्यधिकशततमोऽध्यायः ॥ 122 ॥

अध्यायः 123

सभार्यस्य पाण्डोर्मृगयार्थं वनगमनम् ॥ 1 ॥ तत्र मृगरूपस्य मृग्या मैथुनं चरतः किन्दमस्य मुनेर्हननम् ॥ 2 ॥ मैथुनकाले त्वं मरिष्यसीति किन्दमेन पाण्डुं प्रति शापः ॥ 3 ॥

वैशंपायन उवाच ।
धृतराष्ट्राभ्यनुज्ञातः स्वबाहुविजितं धनम् ।
भीष्माय सत्यवत्यै च मात्रे चोपजहार सः ॥
विदुराय च वै पाण्डुः प्रेषयामास तद्धनम् ।
सुहृदश्चापि धर्मात्मा धनेन समतर्पयत् ॥
ततः सत्यवतीं भीष्मं कौसल्यां च यशस्विनीम् ।
शुभैः पाण्डुर्जितैरर्थैस्तोषयामास भारत ॥
ननन्द माता कौसल्या तमप्रतिमतेजसम् ।
जयन्तमिव पौलोमी परिष्वज्य नर्षभम् ॥
तस्य वीरस्य विक्रान्तैः सहस्रशतदक्षिणैः ।
अश्वमेधशतैरीजे धृतराष्ट्रो महामखैः ॥
संप्रयुक्तस्तु कुन्त्या च माद्र्या च भरतर्षभ ।
जिततन्द्रिस्तदा पाण्डुर्बभूव वनगोचरः ॥
हित्वा प्रासादनिलयं शुभानि शयनानि च ।
अरण्यनित्यः सततं बभूव मृगयापरः ॥
स चरन्दक्षिणं पार्श्वं रम्यं हिमवतो गिरः ।
उवास गिरिपृष्ठेषु महाशालवनेषु च ॥
रराज कुन्त्या माद्र्या च पाण्डुः सह वने चरन् ।
करेण्वोरिव मध्यस्थः श्रीमान्पौरन्दरो गजः ॥
भारतं सह भार्याभ्यां खङ्गबाणधनुर्धरम् । विचित्रकवचं वीरं परमास्त्रविदं नृपम् ।
देवोऽयमित्यमन्यन्त चरन्तं वनवासिनः ॥
तस्य कामांश्च भोगांश्च नरा नित्यमतन्द्रिताः ।
उपजह्रुर्वनान्तेषु धृतराष्ट्रेण चोदिताः ॥
तदासाद्य महारण्यं मृगव्यालनिषेवितम् ।
तत्र मैथुनकालस्थं ददर्श मृगयूथपम् ॥
ततस्तं च मृगीं चैव रुक्मपुङ्खैः सुपत्रिभिः ।
निर्बिभेद शरैस्तीक्ष्णैः पाण्डुः पञ्चभिराशुगैः ॥
स च राजन्महातेजा ऋषिपुत्रस्तपोधनः ।
भार्यया सह तेजस्वी मृगरूपेण सङ्गतः ॥
स संयुक्तस्तया मृग्या मानुषीं वाचमीरयन् ।
क्षणेन पतितो भूमौ विललापातुरो मृगः ॥
मृग उवाच ।
काममन्युवशं प्राप्ता बुद्ध्यन्तरगता अपि ।
वर्जयन्ति नृशंसानि पापेष्वपि रता नराः ॥
न विधिं ग्रसते प्रज्ञा प्रज्ञां तु ग्रसते विधिः ।
विधिपर्यागतानर्थान्प्रज्ञावान्प्रतिपद्यते ॥
शस्वद्धर्मात्मनां मुख्ये कुले जातस्य भारत ।
कामलोभाभिभूतस्य कथं ते चलिता मतिः ॥
पाण्डुरुवाच ।
शत्रूणां या वधे वृत्तिः सा मृगाणां वधे स्मृता ।
राज्ञां मृग न मां मोहात्त्वं गर्हयितुमर्हसि ॥
अच्छद्मनाऽमायया च मृगाणां वध इष्यते ।
स एव धर्मो राज्ञां तु तद्धि त्वं किं नु गर्हसे ॥
अगस्त्यः सत्रमासीनश्चकार मृगयामृषिः ।
आरण्यान्सर्वदैवत्यान्मृगान्प्रोक्ष्य महावने ॥
प्रमाणदृष्टधर्मेण कथमस्मान्विगर्हसे ।
अगस्त्यस्याभिचारेण युष्माकं विहितो वधः ॥
न रिपून्वै समुद्दिश्य विमुञ्चन्ति नराः शरान् ।
रन्ध्र एषां विशेषेण वधकालः प्रशस्यते ॥
प्रमत्तमप्रमत्तं वा विवृतं घ्नन्ति चौजसा ।
उपायैर्विविधैस्तीक्ष्णैः कस्मान्मृग विगर्हसे ॥
मृग उवाच ।
नाहं घ्न्तं मृगन्राजन्विगर्हे चात्मकारणात् ।
मैथुनं तु प्रतीक्ष्यं मे त्वयेहाद्यानृशंस्यतः ॥
सर्वभूतहिते काले सर्वभूतेप्सिते तथा ।
को हि विद्वान्मृगं हन्याच्चरन्तं मैथुनं वने ॥
अस्यां मृग्यां च राजेन्द्र हर्षान्मैथुनमाचरम् ।
पुरुषार्थफलं कर्तुं तत्त्वया विफलीकृतम् ॥
पौरवाणां महाराज तेषामक्लिष्टकर्मणाम् ।
वंशे जातस्य कौरव्य नानुरूपमिदं तव ॥
नृशंसं कर्म सुमहत्सर्वलोकविगर्हितम् ।
अस्वर्ग्यमयशस्यं चाप्यधर्मिष्ठं च भारत ॥
स्त्रीभोगानां विशेषज्ञः शास्त्रधर्मार्थतत्त्ववित् ।
नार्हस्त्वं सुरसङ्काश कर्तुमस्वर्ग्यमीदृशम् ॥
त्वया नृशंसकर्तारः पापाचाराश्च मानवाः ।
निग्राह्याः पार्थिवश्रेष्ठ त्रिवर्गपरिवर्जिताः ॥
किं कृतं ते नरश्रेष्ठ मामिहानागसं घ्नतः ।
मुनिं मूलफलाहारं मृगवेषधरं नृप ॥
वसमानमरण्येषु नित्यं शमपरायणम् ।
त्वयाऽहं हिंसितो यस्मात्तस्मात्त्वामप्यनागसः ॥
द्वयोर्नृशंसकर्तारमवशं काममोहितम् ।
जीवितान्तकरो भावो मैथुने समुपैष्यति ॥
अहं हि किंदमो नाम तपसा भावितो मुनिः ।
व्यपत्रपन्मनुष्याणां मृग्यां मैथुनमाचरम् ॥
मृगो भत्वा मृगैः सार्धं चरामि गहने वने ।
न तु ते ब्रह्महत्येयं भविष्यत्यविजानतः ॥
मृगरूपधरं हत्वा मामेवं काममोहितम् ।
अस्य तु त्वं फलं मूढ प्राप्स्यसीदृशमेव हि ॥
प्रियया सह संवासं प्राप्य कामविमोहितः ।
त्वमप्यस्यामवस्थायां प्रेतलोकं गमिष्यसि ॥
अन्तकाले हि संवासं यया गन्तासि कान्तया । प्रेतराजपुरं प्राप्तं सर्वभूतदुरत्ययम् ।
भक्त्या मतिमतां श्रेष्ठ सैव त्वाऽनुगमिष्यति ॥
वर्तमानः सुखे दुःखं यथाऽहं प्रापितस्त्वया ।
तथा त्वां च सुखं प्राप्तं दुःखमभ्यागमिष्यति ॥
वैशंपायन उवाच ।
एवमुक्त्वा सुदुःखार्तो जीवितात्स व्यमुच्यत ।
मृगः पाण्डुश्च दुःखार्तः क्षणेन समपद्यत ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि त्रयोविंशत्यधिकशततमोऽध्यायः ॥ 123 ॥

1-123-23 रन्ध्रे विशस्त्रत्वव्यसनाक्रान्तत्वादिसमये शरान्न विमुञ्चन्तीति संबन्धः । किंत्वेषां शत्रूणां वधकालः सर्वलोकप्रसिद्धः सङ्ग्राम आभिमुख्यादिमान्स एव प्रशश्यतेऽन्यो निन्द्यत इत्यर्थः ॥ 1-123-24 प्रमत्तमसावधानम् ॥ 1-123-32 ते त्वया ॥ 1-123-34 द्वयोः स्त्रीपुंसयोर्नृशंसं निन्द्यं मैथुनासक्तयोर्वधस्तस्य कर्तारम् ॥ 1-123-39 प्राप्तं त्वा त्वाम् ॥ त्रयोविंशत्यधिकशततमोऽध्यायः ॥ 123 ॥

अध्यायः 124

किन्दमशापात्खिन्नस्य पाण्डोः पत्नीभ्यां वने वासः ॥ 1 ॥ पाण्डोः शतशृङ्गे तपश्चरणम् ॥ 2 ॥

वैशंपायन उवाच ।
तं व्यतीतमुपक्रम्य राजा स्वमिव बान्धवम् ।
सभार्यः शोकदुःखार्तः पर्यदेवयदातुरः ॥
पाण्डुरुवाच ।
सतामपि कुले जाताः कर्मणा बत दुर्गतिम् ।
प्राप्नुवन्त्यकृतात्मानः कामजालविमोहिताः ॥
शश्वद्धर्मात्मना जातो बाल एव पिता मम ।
जीवितान्तमनुप्राप्तः कामात्मैवेति नः श्रुतम् ॥
तस्य कामात्मनः क्षेत्रे राज्ञः संयतवागृषिः ।
कृष्णद्वैपायनः साक्षाद्भगवान्मामजीजनत् ॥
तस्याद्य व्यसने बुद्धिः संजातेयं ममाधमा ।
त्यक्तस्य देवैरनयान्मृगयां परिधावतः ॥
मोक्षमेव व्यवस्यामि बन्धो हि व्यसनं महत् ।
सुवृत्तिमनुवर्तिष्ये तामहं पितुरव्ययाम् ॥
अतीव तपसात्मानं योजयिष्याम्यसंशयम् ।
तस्मादेकाहमेकाहमेकैकस्मिन्वनस्पतौ ॥
चरन्भैक्षं मुनिर्मुण्डश्चरिष्याम्याश्रमानिमान् ।
पांसुना समवच्छन्नः शून्यागारकृतालयः ॥
वृक्षमूलनिकेतो वा त्यक्तसर्वप्रियाप्रियः ।
न शोचन्न प्रहृष्यंश्च तुल्यनिन्दात्मसंस्तुतिः ॥
निराशीर्निर्नमस्कारो निर्द्वन्द्वो निष्परिग्रहः ।
न चाप्यवहसन्कंचिन्न कुर्वन्भ्रुकुटीं क्वचित् ॥
प्रसन्नवदनो नित्यं सर्वभूतहिते रतः ।
जङ्गमाजङ्गमं सर्वमविहिंसंश्चतुर्विधम् ॥
स्वासु प्रजास्विव सदा समः प्राणभृतः प्रति ।
एककालं चरन्भैक्षं कुलानि दश पञ्च च ॥
असंभवे वा भैक्षस्य चरन्ननशनान्यपि ।
अल्पमल्पं च भुञ्जानः पूर्वालाभे न जातुचित् ॥
अन्यान्यपि चरँल्लोभादलाभे सप्त पूरयन् ।
अलाभे यदि वा लाभे समदर्शी महातपाः ॥
वास्यैकं तक्षतो बाहुं चन्दनेनैकमुक्षतः ।
नाकल्याणं न कल्याणं चिन्तयन्नुभयोस्तयोः ॥
न जिजीविषुवत्किंचिन्न मुमूर्षुवदाचरन् ।
जीवितं मरणं चैव नाभिन्दन्न च द्विषन् ॥
याः काश्चिज्जीवता शक्याः कर्तुमभ्युदयक्रियाः ।
ताः सर्वाः समतिक्रम्य निमेषादिव्यवस्थितः ॥
तासु चाप्यनवस्थासु त्यक्तसर्वेन्द्रियक्रियः ।
संपरित्यक्तधर्मार्थः सुनिर्णिक्तात्मकल्मषः ॥
निर्मुक्तः सर्वपापेभ्यो व्यतीतः सर्ववागुराः ।
न वशे कस्यचित्तिष्ठन्सधर्मा मातरिश्वनः ॥
एतया सततं वृत्त्या चरन्नेवंप्रकारया ।
देहं संस्थापयिष्यामि निर्भयं मार्गमास्थितः ॥
नाहं सुकृपणे मार्गे स्ववीर्यक्षयशोचिते ।
स्वधर्मात्सततापेते चरेयं वीर्यवर्जितः ॥
सत्कृतोऽसत्कृतो वाऽपि योऽन्यां कृपणचक्षुषा ।
उपैति वृत्तिं कामात्मा स शुनां वर्तते पथि ॥
वैशंपायन उवाच ।
एवमुक्त्वा सुदुःखार्तो निःश्वासपरमो नृपः ।
अवेक्षमाणः कुन्तीं च मान्द्रीं च समभाषत ॥
कौसल्या विदुरः क्षत्ता राजा च सह बन्धुभिः ।
आर्या सत्यवती भीष्मस्ते च राजपुरोहिताः ॥
ब्राह्मणाश्च महात्मानः सोमपाः संशितव्रताः । पौरवृद्धाश्च ये तत्र निवसन्त्यस्मदाश्रयाः ।
प्रसाद्य सर्वे वक्तव्याः पाण्डुः प्रव्राजितो वने ॥
निशम्य वचनं भर्तुस्त्यागधर्मकृतात्मनः ।
तत्समं वचनं कुन्ती माद्री च समभाषताम् ॥
अन्येऽपि ह्याश्रमाः सन्ति ये शक्या भरतर्षभ । `आवाभ्यां सह वस्तुं वै धर्ममाश्रित्य चिन्त्यताम् ।'
आवाभ्यां धर्मपत्नीभ्यां सह तप्तुं तपो महत् ॥
शरीरस्यापि मोक्षाय धर्मं प्राप्य महाफलम् ।
त्वमेव भविता भर्ता स्वर्गस्यापि न संशयः ॥
प्रणिधायेन्द्रियग्रामं भर्तृलोकपरायणे ।
त्यक्त्वा कामसुखे ह्यावां तप्स्यवो विपुलं तपः ॥
यदि चावां महाप्राज्ञ त्यक्ष्यसि त्वं विशांपते ।
अद्यैवावां प्रहास्यावो जीवितं नात्र संशयः ॥
पाण्डुरुवाच ।
यदि व्यवसितं ह्येतद्युवयोर्धर्मसंहितम् ।
स्ववृत्तिमनुवर्तिष्ये तामहं पितुरव्ययाम् ॥
त्यक्त्वा ग्राम्यसुखाहारं तप्यमानो महत्तपः ।
वल्कली फलमूलाशी चरिष्यामि महावने ॥
अग्नौ जुह्वन्नुभौ कालावुभौ कालावुपस्पृशन् ।
कृशः परिमिताहारश्चीरचर्मजटाधरः ॥
शीतवातातपसहः क्षुत्पिपासानवेक्षकः ।
तपसा दुश्चरेणेदं शरीरमुपशोषयन् ॥
एकान्तशीली विमृशन्पक्वापक्वेन वर्तयन् ।
पितृन्देवांश्च वन्येन वाग्भिरद्भिश्च तर्पयन् ॥
वानप्रस्थजनस्यापि दर्शनं कुलवासिनः ।
नाप्रियाण्याचरिष्यामि किं पुनर्ग्रामवासिनाम् ॥
एवमारण्यशास्त्राणामुग्रमुग्रतरं विधिम् ।
काङ्क्षमाणोऽहमास्थास्ये देहस्यास्याऽऽसमापनात् ॥
वैशंपायन उवाच ।
इत्येवमुक्त्वा भार्ये ते राजा कौरवनन्दनः ।
ततश्चूडामणिं निष्कमङ्गदे कुण्डलानि च ॥
वासांसि च महार्हाणि स्त्रीणामाभरणानि च ।
`वाहनानि च मुख्यानि शस्त्राणि कवचानि च ॥
हेमभाण्डानि दिव्यानि पर्यङ्कास्तरणानि च । मणिमुक्ताप्रवालानि रत्नानि विविधानि च ॥'
प्रदाय सर्वं विप्रेभ्यः पाण्डुर्भृत्यानभाषत । गत्वा नागपुरं वाच्यं पाण्डुः प्रव्राजितो वने ।
अर्थं कामं सुखं चैव रतिं च परमात्मिकाम् ॥
प्रतस्थे सर्वमुत्सृज्य सभार्यः कुरुनन्दनः ।
ततस्तस्यानुयातारस्ते चैव परिचारकाः ॥
श्रुत्वा भरतसिंहस्य विधिधाः करुणा गिरः ।
भममार्तस्वरं कृत्वा हाहेति परिचुक्रुशुः ॥
उष्णमश्रु विमुञ्चन्तस्तं विहाय महीपतिम् ।
ययुर्नागपुरं तूर्णं सर्वमादाय तद्धनम् ॥
ते गत्वा नगरं राज्ञो यथावृत्तं महात्मनः ।
कथयांचक्रिरे राज्ञस्तद्धनं विविधं ददुः ॥
श्रुत्वा तेभ्यस्ततः सर्वं यथावृत्तं महावने ।
धृतराष्ट्रो नरश्रेष्ठः पाण्डुमेवान्वशोचत ॥
न शय्यासनभोगेषु रतिं विन्दति कर्हिचित् ।
भ्रातृशोकसमाविष्टस्तमेवार्थं विचिन्तयन् ॥
राजपुत्रस्तु कौरव्य पाण्डुर्मूलफलाशनः ।
जगाम सह पत्नीभ्यां ततो नागशतं गिरिम् ॥
स चैत्ररथमासाद्य कालकूटमतीत्य च ।
हिमवन्तमतिक्रम्य प्रययौ गन्धमादनम् ॥
रक्ष्यमाणो महाभूतैः सिद्धैश्च परमर्षिभिः ।
उवास स महाराज समेषु विषमेषु च ॥
इन्द्रद्युम्नसरः प्राप्य हंसकूटमतीत्य च ।
शतशृङ्गे महाराज तापसः समतप्यत ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि चतुर्विंशत्यधिकशततमोऽध्यायः ॥ 124 ॥

1-124-1 व्यतीतं मारितम् ॥ 1-124-5 देवैस्त्यक्तस्य अपुत्रतया स्वर्गमनानर्हत्वात् ॥ 1-124-6 मोक्षं मोक्षमार्गं व्यवस्यामि निश्चिनोमि श्रेयस्करत्वेन । तत्र हि पुत्राद्यनपेक्षा दृष्टा । इष्टमेवैतज्जातमित्याह बन्धो हीति । बन्धः पुत्रैषणादिः । सुवृत्तिं ब्रह्मचर्याख्यां वृत्तिम् । पितुर्व्यासस्य ॥ 1-124-10 निराशीर्निर्नमस्कारः । आशिषं नमस्कारं वा नेच्छामीत्यर्थः । निर्द्वन्द्वः सुखदुःखादिहीनः । निष्परिग्रहः कन्थापादुकादिहीनः ॥ 1-124-11 चतुर्विधं जरायुजादिकम् ॥ 1-124-12 कुलानि गृहाणि ॥ 1-124-15 वास्या वास्येन काष्ठतक्षणेन ॥ 1-124-17 अभ्युदयक्रियाः इष्टसाधनक्रियाः । निमेषादिव्यवस्थितः जीवनसाधनकर्मसु व्यवस्थितः ॥ 1-124-18 अनवस्थासु प्रवाहरूपासु तासु जीवनसाधनक्रियासु ॥ 1-124-20 संस्थापयिष्यामि नाशयिष्यामि । निर्भयं मार्गं संसारभयरहितम् ॥ 1-124-25 प्रव्राजितः संन्यासं प्राप्तः ॥ 1-124-26 त्यागधर्मः संन्यासः ॥ 1-124-35 विमृशन् हिंसादिदोषम् ॥ 1-124-38 निष्कं ग्रैवेयकम् ॥ चतुर्विंशत्यधिकशततमोऽध्यायः ॥ 124 ॥

अध्यायः 125

ब्रह्मलोकं जिगमिषोः पाण्डोः तव पुत्रा भविष्यन्तीत्युक्त्वा ऋषिभिः प्रतिनिवर्तनम् ॥ 1 ॥

वैशंपायन उवाच ।
तत्रापि तपसि श्रेष्ठे वर्तमानः स वीर्यवान् ।
सिद्धचारणसङ्घानां बभूव प्रियदर्शनः ॥
सुश्रूषुरनहंवादी संयतात्मा जितेन्द्रियः ।
स्वर्गं गन्तुं पराक्रान्तः स्वेन वीर्येण भारत ॥
केषांचिदभवद्भ्राता केषांचिदभवत्सखा ।
ऋषयस्त्वपरे चैनं पुत्रवत्पर्यपालयन् ॥
स तु कालेन महता प्राप्य निष्कल्मषं तपः ।
ब्रह्मर्षिसदृशः पाण्डुर्बभूव भरतर्षभ ॥
अमावास्यां तु सहिता ऋषयः संशितव्रताः ।
ब्रह्माणं द्रष्टुकामास्ते संप्रतस्थुर्महर्षयः ॥
संप्रयातानृषीन्दृष्ट्वा पाण्डुर्वचनमब्रवीत् ।
भवन्तः क्व गमिष्यन्ति ब्रूत मे वदतां वराः ॥
ऋषय ऊचुः ।
समावायो महानद्य ब्रह्मलोके महात्मनाम् । देवानां च ऋषीणां च पितॄणां च महात्मनाम् ।
वयं तत्र गमिष्यामो द्रष्टुकामाः स्वयंभुवम् ॥
वैशंपायन उवाच ।
पाण्डुरुत्थाय सहसा गन्तुकामो महर्षिभिः ।
स्वर्गपारं तितीर्षुः स शतशृङ्गादुदङ्मुखः ॥
प्रतस्थे सह पत्नीभ्यामब्रुवंस्तं च तापसाः ।
उपर्युपरि गच्छन्तः शैलराजमुदङ्मुखाः ॥
दृष्टवन्तो गिरौ रम्ये दुर्गान्देशान्बहून्वयम् ।
विमानशतसंबाधां गीतस्वरनिनादिताम् ॥
आक्रीडभूमिं देवानां गन्धर्वाप्सरसां तथा ।
उद्यानानि कुबेरस्य समानि विषमाणि च ॥
महानदीनितम्बांश्च गहनान्गिरिगह्वरान् ।
सन्ति नित्यहिमा देशा निर्वृक्षमृगपक्षिणः ॥
सन्ति क्वचिन्महादर्यो दुर्गाः काश्चिद्दुरासदाः ।
नातिक्रामेत पक्षी यान्कुत एवेतरे मृगाः ॥
वायुरेको हि यात्यत्र सिद्धाश्च परमर्षयः ।
गच्छन्त्यौ शैलराजेऽस्मिन्राजपुत्र्यौ कथं न्विमे ॥
न सीदेतामदुःखार्हे मा गमो भरतर्षभ ।
पाण्डुरुवाच ।
अप्रजस्य महाभागा न द्वारं परिचक्षते ॥
स्वर्गे तेनाभितप्तोऽहमप्रजस्तु ब्रवीमि वः ।
सोऽहमुग्रेण तपसा सभार्यस्त्यक्तजीवितः ॥
अनपत्योऽपि विन्देयं स्वर्गमुग्रेण कर्मणा ।
ऋषय ऊचुः ।
अस्ति वै तव धर्मात्मन्विद्म देवोपम शुभम् ॥
अपत्यमनघं राजन्वयं दिव्येन चक्षुषा ।
दैवोद्दिष्टं नरव्याघ्र कर्मणेहोपपादय ॥
अक्लिष्टं फलमव्यग्रो विन्दते बुद्धिमान्नरः ।
तस्मिन्दृष्टे फले राजन्प्रयत्नं कर्तुमर्हसि ॥
अपत्यं गुणसंपन्नं लब्धा प्रीतिकरं ह्यसि ।
वैशंपायन उवाच ।
तच्छ्रुत्वा तापसवचः पाण्डुस्चिन्तापरोऽभवत् ॥
आत्मनो मृगशापेन जानन्नुपहतां क्रियाम् ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि संभवपर्वणि पञ्चविंशत्यधिकशततमोऽध्यायः ॥ 125 ॥

1-125-5 अमावास्यां प्राप्य ॥ 1-125-10 विमानशतेन संबाधं संकटं यस्यां सा ॥ 1-125-19 अव्यग्रो विन्दतेऽतो व्यग्रो माभूरित्यर्थः ॥ 1-125-20 लभते इति लब्धा तादृशोऽसि लप्स्यसीत्यर्थः ॥ पञ्चविंशत्यधिकशततमोऽध्यायः ॥ 125 ॥

अध्यायः 126

विदुरस्य विवाहः पुत्रोत्पत्तिश्च ॥ 1 ॥ व्यासस्य वरेण गान्धार्यां धृतराष्ट्राद्गर्भोत्पत्तिः ॥ 2 ॥ पाण्डोः पुत्रोत्पत्तौ चिन्ता ॥ 3 ॥

वैशंपायन उवाच ।
अथ पारसवीं कन्यां देवकस्य महीपतेः ।
रूपयौवनसंपन्नां स सुश्रावापगासुतः ॥
ततस्तु वरयित्वा तामानीय भरतर्षभः ।
विवाहं कारयामास विदुरस्य महामतेः ॥
तस्यां चोत्पादयामास विदुरः कुरुनन्दन ।
पुत्रान्विनयसंपन्नानात्मनः सदृशान्गुणैः ॥
ततः पुत्रशतं जज्ञे गान्धार्या जनमेजय ।
धृतराष्ट्रस्य वैश्यायामेकश्चापि शतात्परः ॥
पाण्डोः कृन्त्यां च माद्र्यां च पुत्राः पञ्च महारथाः ।
देवेभ्यः समपद्यन्त सन्तानाय कुलस्य वै ॥
जनमेजय उवाच ।
कथं पुत्रशतं जज्ञे गान्धार्यां द्विजसत्तम ।
कियता चैव कालेन तेषामायुश्च किं परम् ॥
कथं चैकः स वैश्यायां धृतराष्ट्रसुतोऽभवत् ।
कथं च सदृशीं भार्यां गान्धारीं धर्मचारिणीम् ॥
आनुकूल्ये वर्तमानां धृतराष्ट्रोऽत्यवर्तत ।
कथं च शप्तस्य सतः पाण्डोस्तेन महात्मना ॥
समुत्पन्ना दैवतेभ्यः पुत्राः पञ्च महारथाः ।
एतद्विद्वन्यथान्यायं विस्तरेण तपोधन ॥
कथयस्व न मे तृप्तिः कथ्यमानेषु बन्धुषु ।
वैशंपायन उवाच ।
ऋषिं बुभुक्षितं श्रान्तं द्वैपायनमुपस्थितम् ॥
तोषयामास गान्धारी व्यासस्तस्यै वरं ददौ ।
सा वव्रे सदृशं भर्तुः पुत्राणां शतमात्मनः ॥
ततः कालेन सा गर्भमगृह्णाज्ज्ञानचक्षुषः ॥
गान्धार्यामाहिते गर्भे पाण्डुरम्बालिकासुतः ।
अगच्छत्परमं दुःखमपत्यार्थमरिन्दम ॥
गर्भिण्यामथ गान्धार्यां पाण्डुः परमदुःखितः ।
मृगाभिशापादात्मानं शोचन्नुपरतक्रियः ॥
स गत्वा तपसा सिद्धिं विश्वामित्रो यथा भुवि ।
देहान्यासे कृतमना इदं वचनमब्रवीत् ॥
पाण्डुरुवाच ।
चतुर्भिर्ऋणवानित्थं जायते मनुजो भुवि ।
पितृदेवमनुष्याणामृषीणामथ भामिनि ॥
एतेभ्यस्तु यथाकालं यो न मुच्येत धर्मवित् ।
न तस्य लोकाः सन्तीति तता लोकविदो विदुः ॥
यज्ञेन देवान्प्रीणाति स्वाध्यायात्तपसा ऋषीन् ।
पुत्रैः श्राद्धैरपि पितॄनानृशंस्येन मानवान् ॥
ऋषिदेवमनुष्याणामृणान्मुक्तोऽस्मि धर्मतः ।
पितॄणां तु न मुक्तोऽस्मि तच्च तेभ्यो विशिष्यते ॥
देहनाशे भवेन्नाशः पितॄणामेष निश्चयः ।
इतरेषां त्रयाणां तु नाशे ह्यात्मा विनश्यति ॥
इह तस्मात्प्रजालाभे प्रयतन्ते द्विजोत्तमाः ।
यथैवाहं पितुः क्षेत्रे सृष्टस्तेन महात्मना ॥
तथैवास्मिन्मम क्षेत्रे कथं सृज्येत वै प्रजा ।
वैशंपायन उवाच ।
स समानीय कुन्तीं च माद्रीं च भरतर्षभः ॥
आचष्ट पुत्रलाभस्य व्युष्टिं सर्वक्रियाधिकाम् ।
उत्तमादवराः पुंसः काङ्क्षन्तो पुत्रमापदि ॥
अपत्यं धर्मफलदं श्रेष्ठादिच्छन्ति साधवः । अनुनीय तु ते सम्यङ्महाब्राह्मणसंसदि ।
ब्राह्मणं गुणवन्तं हि चिन्तयामास धर्मवित् ॥
सोऽब्रवीद्विजने कुन्तीं धर्मपत्नीं यशस्विनीम् ।
अपत्योत्पादने यत्नमापदि त्वं समर्थय ॥
अपत्यं नाम लोकेषु प्रतिष्ठा धर्मसंहिता ।
इति कुन्ति विदुर्धीराः शाश्वतं धर्मवादिनः ॥
इष्टं दत्तं तपस्तप्तं नियमश्च स्वनुष्ठितः ।
सर्वमेवानपत्यस्य न पावनमिहोच्यते ॥
सोऽहमेवं विदित्वैतत्प्रपश्यामि शुचिस्मिते ।
अनपत्यः शुभाँल्लोकान्नप्राप्स्यामीति चिन्तयन् ॥
`अनपत्यो हि मरणं कामये नैव जीवितम् ।' मृगाभिशापं जानासि विजने मम केवलम् ।
नृशंसकर्मणा कृत्स्नं यथा ह्युपहतं तथा ॥
इमे वै बन्धुदायादाः षट् पुत्रा धर्मदर्शने ।
षडेवाबन्धुदायादाः पुत्रास्ताञ्छृणु मे पृथे ॥
स्वयंजातः प्रणीतश्च परिक्रीतश्च यः सुतः ।
पौनर्भवश्च कानीनः स्वैरिण्यां यश्च जायते ॥
दत्तः क्रीतः कृत्रिमश्च उपगच्छेत्स्वयं च यः ।
सहोढो ज्ञातिरेताश्च हीनयोनिधृतश्च यः ॥
पूर्वपूर्वतमाभावं मत्त्वा लिप्सेत वै सुतम् ।
उत्तमाद्देवरात्पुंसः काङ्क्षन्ते पुत्रमापदि ॥
अपत्यं धर्मफलदं श्रेष्ठं विन्दन्ति मानवाः ।
आत्मशुक्रादपि पृथे मनुः स्वायंभुवोऽब्रवीत् ॥
तस्मात्प्रहेष्याम्यद्य त्वां हीनः प्रजननात्स्वयम् ॥
सदृशाच्छ्रेयसो वा त्वं विद्ध्यपत्यं यशस्विनि ।
शृणु कुन्ति कथामेतां शारदण्डायिनीं प्रति ॥
`या हि ते भगिनी साध्वी श्रुतसेना यशस्विनी । अवाह तां तु कैकेयः शारदाण्डायनिर्महान् ॥'
सा वीरपत्नी गुरुणा नियुक्ता पुत्रजन्मनि ।
पुष्पेण प्रयता स्नाता निशि कुन्ति चतुष्पथे ॥
वरयित्वा द्विजं सिद्धं हुत्वा पुंसवनेऽनलम् ।
कर्मण्यवसिते तस्मिन्सा तेनैव सहावसत् ॥
तत्र त्रीञ्जनयामास दुर्जयादीन्महारथान् । तथा त्वमपि कल्याणि ब्राह्मणात्तपसाधिकात् ।
मन्नियोगाद्यत क्षिप्रमपत्योत्पादनं प्रति ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि षड्विंशत्यधिकशततमोऽध्यायः ॥ 126 ॥

1-126-26 धर्मसंहिता धर्ममयी ॥ 1-126-30 धर्मदर्शने धर्मशास्त्रे उक्ता इति शेषः । बन्धुदायादारिक्थहराः । अबन्धुदायादास्तदन्ये ॥ 1-126-35 प्रहेष्यामि गतिवृद्धिकर्मणो हिनोते रूपम् । अद्येति क्षिप्रवचनसंयोगाल्लृट् । त्वां शरणं गतोऽस्मि वर्धयामि वेति चार्थः ॥ 1-126-36 विद्धि लभस्व । शारदण्डायनेर्भार्याम् ॥ 1-126-38 गुरुणा भर्त्रा । पुष्पेण आर्तवेन निमित्तेन स्नाता ॥ 1-126-40 यत यतस्व ॥ षड्विंशत्यधिकशततमोऽध्यायः ॥ 126 ॥

अध्यायः 127

कुन्त्या पाण्डुं प्रति व्युषिताश्वकथाकथनम् ॥ 1 ॥

वैशंपायन उवाच ।
एवमुक्ता महाराज कुन्ती पाण्डुमभाषत ।
कुरूणामृषभं वीरं तदा भूमिपतिं पतिम् ॥
कुन्त्युवाच ।
न मामर्हसि धर्मज्ञ वक्तुमेवं कथंचन ।
धर्मपत्नीमभिरतां त्वयि राजीवलोचने ॥
त्वमेव तु महाबाहो मय्यपत्यानि भारत ।
वीर वीर्योपपन्नानि धर्मतो जनयिष्यसि ॥
स्वर्गं मनुजशार्दूल गच्छेयं सहिता त्वया ।
अपत्याय च मां गच्छ त्वमेव कुरुनन्दन ॥
न ह्यहं मनसाप्यन्यं गच्छेयं त्वदृते नरम् ।
त्वत्तः प्रति विशिष्टश्च कोऽन्योऽस्ति भुवि मानवः ॥
इमां च तावद्धर्मात्मन्पौराणीं शृणु मे कथाम् ।
परिश्रुतां विशालाक्ष कीर्तयिष्यामि यामहम् ॥
व्युषइताश्व इति ख्यातो बभूव किल पार्थिवः ।
पुरा परमधर्मिष्ठः पूरोर्वंशविवर्धनः ॥
तस्मिंश्च यजमाने वै धर्मात्मनि महाभुजे ।
उपागमंस्ततो देवाः सेन्द्रा देवर्षिभिः सह ॥
अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः ।
व्युषिताश्वस्य राजर्षेस्ततो यज्ञे महात्मनः ॥
देवा ब्रह्मर्षयश्चैव चक्रुः कर्म स्वयं तदा ।
व्युषिताश्वस्ततो राजन्नति मर्त्यान्व्यरोचत ॥
सर्वभूतान्प्रति यथा तपनः शिशिरात्यये ।
स विजित्य गृहीत्वा च नृपतीन्राजसत्तमः ॥
प्राच्यानुदिच्यान्पाश्चात्यान्दाक्षिणात्यानकालयत् ।
अश्वमेधे महायज्ञे व्युषिताश्वः प्रतापवान् ॥
बभूव स हि राजेन्द्रो दशनागबलान्वितः ।
अप्यत्र गाथां गायन्ति ये पुराणविदो जनाः ॥
व्युषिताश्वे यशोवृद्धे मनुष्येन्द्रे कुरूत्तम ।
व्युषिताश्वः समुद्रान्तां विजित्येमां वसुन्धराम् ॥
अपालयत्सर्ववर्णान्पिता पुत्रानिवौरसान् ।
यजमानो महायज्ञैर्ब्राह्मणेभ्यो धनं ददौ ॥
अनन्तरत्नान्यादाय स जहार महाक्रतून् ।
सुषाव च बहून्सोमान्सोमसंस्थास्ततान च ॥
आसीत्काक्षीवती चास्य भार्या परमसंमता ।
भद्रा नाम मनुष्येन्द्र रूपेणासदृशी भुवि ॥
कामयामासतुस्तौ च परस्परमिति श्रुतम् ।
स तस्यां कामसंपन्नो यक्ष्मणा समपद्यत ॥
तेनाचिरेण कालेन जगामास्तमिवांशुमान् ।
तस्मिन्प्रेते मनुष्येन्द्रे भार्याऽस्य भृशदुःखिता ॥
अपुत्रा पुरुषव्याघ्र विललापेति नः श्रुतम् ।
भद्रा परमदुःखार्ता तन्निबोध जनाधिप ॥
भद्रोवाच ।
नारी परमधर्मज्ञ सर्वा भर्तृविनाकृता ।
पतिं विना जीवति या न सा जीवति दुःखिता ॥
पतिं विना मृतं श्रेयो नार्याः क्षत्रियपुंगव ॥
त्वद्गतिं गन्तुमिच्छामि प्रसीदस्वनयस्वमाम् ॥
त्वया हीना क्षणमपि नाहं जीवितुमुत्सहे ।
प्रसादं कुरु मे राजन्नितस्तूर्णं नयस्व माम् ॥
पृष्ठतोऽनुगमिष्यामि समेषु विषमेषु च ।
त्वामहं नरशार्दूल गच्छन्तमनिवर्तितुम् ॥
छायेवानुगता राजन्सततं वशवर्तिनी ।
भविष्यामि नरव्याघ्र नित्यं प्रियहिते रता ॥
अद्यप्रभृति मां राजन्कष्टा हृदयशोषणाः ।
आधयोऽभिभविष्यन्ति त्वामृते पुष्करेक्षण ॥
अभाग्यया मया नूनं वियुक्ताः सहचारिणः ।
तेन मे विप्रयोगोऽयमुपपन्नस्त्वया सह ॥
विप्रयुक्ता तु या पत्या मुहूर्तमपि जीवति ।
दुःखं जीवति सा पापा नरकस्थेव पार्थिव ॥
संयुक्ता विप्रयुक्ताश्च पूर्वदेहे कृता मया ।
तदिदं कर्मभिः पापैः पूर्वदेहेषु संचितम् ॥
दुःखं मामनुसंप्राप्तं राजंस्त्वद्विप्रयोगजम् । अद्यप्रभृत्यहं राजन्कुशसंस्तरशायिनी ।
भविष्याम्यसुखाविष्टा त्वद्दर्शनपरायणा ॥
दर्शयस्व नरव्याघ्र शाधि मामसुखान्विताम् ।
कृपणां चाथ करुणं विलपत्नीं नरेश्वर ॥
कन्त्युवाच ।
एवं बहुविधं तस्यां विलपन्त्यां पुनःपुनः ।
तं शवं संपरिष्वज्य वाक्किलाऽन्तर्हिताऽब्रवीत् ॥
उत्तिष्ठ भद्रे गच्छ त्वं ददानीह वरं तव ।
जनयिष्याम्यपत्यानि त्वय्यहं चारुहासिनि ॥
आत्मकीये वरारोहे शयनीये चतुर्दशीम् ।
अष्टमीं वा ऋतुस्नाता संविशेथा मया सह ॥
एवमुक्ता तु सा देवी तथा चक्रे पतिव्रता ।
यथोक्तमेव तद्वाक्यं भद्रा पुत्रार्थिनी तदा ॥
सा तेन सुषुवे देवी शवेन भरतर्षभ ।
त्रीञ्शाल्वांश्चतुरो मद्रान्सुतान्भरतसत्तम ॥
तथा त्वमपि मय्येवं मनसा भरतर्षभ ।
शक्तो जनयितुं पुत्रांस्तपोयोगबलान्वितः ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि सप्तविंशत्यधिकशततमोऽध्यायः ॥ 127 ॥

1-127-12 अकालयद्वशीकृतवान् ॥ 1-127-16 जहार आहृतवान् चकारेत्यर्थः । सोमसंस्थाः अग्निष्टोमात्यग्निष्टोमादयः सप्त ॥ 1-127-22 मृतं मरा ॥ 1-127-32 शवं प्रेवशरीरं संपरिष्वज्य विलपन्त्यामित्यन्वयः ॥ सप्तविंशत्यधिकशततमोऽध्यायः ॥ 127 ॥

अध्यायः 128

उद्दालककथा ॥ 1 ॥ उद्दालकपुत्रेण श्वेतकेतुना कृता स्त्रीपुरुषमर्यादा ॥ 2 ॥ गुणाधिकात् द्विजातेः पुत्रोत्पादनार्थं प्रति पाण्डोराज्ञा ॥ 3 ॥ कुन्त्या दुर्वाससः स्वस्य मन्त्रप्राप्तिकथनम् ॥ 4 ॥

वैशंपायन उवाच ।
एवमुक्तस्तया राजा तां देवीं पुनरब्रवीत् ।
धर्मविद्धर्मसंयुक्तमिदं वचनमुत्तमम् ॥
पाण्डुरुवाच ।
एवमेतत्पुरा कुन्ति व्युषिताश्वश्चकार ह ।
यथा त्वयोक्तं कल्याणि स ह्यासीदमरोपमः ॥
अथ त्विदं प्रवक्ष्यामि धर्मतत्त्वं निबोध मे ।
पुराणमृषिभिर्दृष्टं धर्मविद्भिर्महात्मभिः ॥
अनावृताः किल पुरा स्त्रिय आसन्वरानने ।
कामचारविहारिण्यः स्वतन्त्राश्चारुहासिनि ॥
तासां व्युच्चरमाणानां कौमारात्सुभगे पतीन् ।
नाधर्मोऽभूद्वरारोहे स हि धर्मः पुराऽभवत् ॥
तं चैव धर्मं पौराणं तिर्यग्योनिगताः प्रजाः ।
अद्याप्यनुविधीयन्ते कामक्रोधविवर्जिताः ॥
प्रमाणदृष्टो धर्मोऽयं पूज्यते च महर्षिभिः । उत्तरेषु च रम्भोरु कुरुष्वद्यापि पूज्यते ।
स्त्रीणामनुग्रहकरः स हि धर्मः सनातनः ॥
`नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः ।
नान्तकः सर्वभूतानां न पुंसां वामलोचनाः ॥
एवं तृष्णा तु नारीणां पुरुषं पुरुषं प्रति ।
अगम्यागमनं स्त्रीणां नास्ति नित्यं शुचिस्मिते ॥
पुत्रं वा किल पौत्रं वा कासांचिद्धातरं तथा ।
रहसीह नरं दृष्ट्वा योनिरुत्क्लिद्यते तदा ॥
एतत्स्वाभाविकं स्त्रीणां न निमित्तकृतं शुभे ।' अस्मिंस्तु लोके नचिरान्मर्यादेयं शुचिस्मिते ॥
स्थापिता येन यस्माच्च तन्मे विस्तरतः शृणु ।
बभूवोद्दालको नाम महर्षिरिति नः श्रुतम् ॥
श्वेतकेतुरिति ख्यातः पुत्रस्तस्याभवन्मुनिः ।
मर्यादेयं कृता तेन धर्म्या वै श्वेतकेतुना ॥
कोपात्कमलपत्राक्षि यदर्थं तन्निबोध मे ॥
`श्वेतकेतोः पिता देवि तप उग्रं समास्थितः ।
ग्रीष्मे पञ्चतपा भूत्वा वर्षास्वाकाशगोऽभवत् ॥
शिशइरे सलिलस्थायी सह पत्न्या महातपाः ।
उद्दालकं तपस्यन्तं नियमेन समाहितम् ॥
तस्य पुत्रः श्वेतकेतुः परिचर्यां चकार ह ।
अभ्यागच्छद्द्विजः कश्चिद्वलीपलितसंततः ॥
तं दृष्ट्वैव मुनिः प्रीतः पूजयामास शास्त्रतः ।
स्वागतेन च पाद्येन मृदुवाक्यैश्च भारत ॥
शाकमूलफलाद्यैश्च वन्यैरन्यैरपूजयत् ।
क्षुत्पिपासाश्रमेंणार्तः पूजितश्च महर्षिणा ॥
विश्रान्तो मुनिमासाद्य पर्यपृच्छद्द्विजस्तदा ।
उद्दालक महर्षे त्वं सत्यं मे ब्रूहि माऽनृतम् ॥
ऋषिपुत्रः कुमारोऽयं दर्शनीयो विशेषतः ।
तव पुत्रमिमं मन्ये कृतकृत्योऽसि तद्वद ॥
उद्दालक उवाच ।
मम पत्नी महाप्राज्ञ कुशिकस्य सुता मता ।
मामेवानुगता पत्नी मम नित्यमनुव्रता ॥
अरुन्धतीव पत्नीनां तपसा कर्शितस्तनी ।
अस्यां जातः श्वेतकेतुर्मम पुत्रो महातपाः ॥
वेदवेदाङ्गविद्विप्र मच्छासनपरायणः ।
लोकज्ञः सर्वलोकेषु विश्रुतः सत्यवाग्घृणी ॥
ब्राह्मण उवाच ।
अपुत्री भार्यया चार्थी वृद्धोऽहं मन्दचाक्षुषः ।
पित्र्यादृणादनिर्मुक्तः पूर्वमेवाकृतस्त्रियः ॥
प्रजारणिस्तु पत्नी ते कुलशीलसमन्विता ।
सदृशी मम गोत्रेण वहाम्येनां क्षमस्व मे ॥
पाण्डुरुवाच ।
इत्युक्त्वा मृगशावाक्षीं चीरकृष्णाजिनाम्बराम् ।
यष्ट्याधारः स्रस्तगात्रो मन्दचक्षुरबुद्धिमान् ॥
स्वव्यापाराक्षमां श्रेष्ठमचित्तामात्मनि द्विजः ।' श्वेतकेतोः किल पुरा समक्षं मातरं पितुः ॥
जग्राह ब्राह्मणः पापौ गच्छाव इति चाब्रवीत् ।
ऋषिपुत्रस्तदा कोपं चकारामर्षितस्तदा ॥
मातरं तां तथा दृष्ट्वा नीयमानां बलादिव ।
`तपसा दीप्तवीर्यो हि श्वेतकेतुर्न चक्षमे ॥
संगृह्य मातरं हस्ते श्वेतकेतुरभाषत ।
दुर्ब्राह्मण विमुञ्च त्वं मातरं मे पतिव्रताम् ॥
स्वयं पिता मे ब्रह्मर्षिः क्षमावान्ब्रह्मवित्तमः ।
शापानुग्रहयोः शक्तः तूष्णींभूतो महाव्रतः ॥
तस्य पत्नी दमोपेता मम माता विशेषतः ।
पतिव्रतां तपोवृद्धां साध्वाचारैरलङ्कृताम् ॥
अप्रमादेन ते ब्रह्मन्मातृभूतां विमुञ्च वै ॥
एवमुक्त्वा तु याचन्तं विमुञ्चेति मुहुर्मुहुः ।
प्रत्यवोचद्द्विजो राजन्नप्रगल्भमिदं वचः ॥
ब्राह्मण उवाच ।
अपत्यार्थी श्वेतकेतो वृद्धोऽहं मन्दचाक्षुषः ।
पिता ते ऋणनिर्मुक्तस्त्वया पुत्रेण काश्यप ॥
ऋणादहमनिर्मुक्तो वृद्धोऽहं विगतस्पृहः ।
मम को दास्यति सुतां कन्यां संप्राप्तयौवनाम् ॥
प्रजारणिमिमां पत्नीं विमुञ्च त्वं महातपः ।
एकया प्रजया प्रीतो मातरं ते ददाम्यहम् ॥
एवमुक्तः श्वेतकेतुर्लज्जया क्रोधमेयिवान् ।' क्रुद्धं तं तु पिता दृष्ट्वा श्वेतकेतुमुवाच ह ॥
मा तात कोपं कार्षीस्त्वमेष धर्मः सनातनः ।
अनावृता हि सर्वेषां वर्णानामङ्गना भुवि ॥
यथा गावः स्थिताः पुत्र स्वेस्वे वर्णे तथा प्रजाः ।
`तथैव च कुटुम्बेषु न प्रमाद्यन्ति कर्हिचित् ॥
ऋतुकाले तु संप्राप्ते भर्तारं न जहुस्तदा ।' ऋषिपुत्रोऽथ तं धर्मं श्वेतकेतुर्न चक्षमे ॥
चकार चैव मर्यादामिमां स्त्रीपुंसयोर्भुवि ।
मानुषेषु महाभागे न त्वेवान्येषु जन्तुषु ॥
तदाप्रभृति मर्यादा स्थितेयमिति नः श्रुतम् ।
व्युच्चरन्त्याः पतिं नार्या अद्यप्रभृति पातकम् ॥
भ्रूणहत्यासमं घोरं भविष्यत्यसुखावहम् ।
`अद्याप्यनुविधीयन्ते कामक्रोधविवर्जिताः ॥
उत्तरेषु महाभागे कुरुष्वेवं यशस्विनि । पुराणदृष्टो धर्मोऽयं पूज्यते च महर्षिभिः ॥'
भार्यां तथा व्युच्चरतः कौमारब्रह्मचारिणीम् ।
पतिव्रतामेतदेव भविता पातकं भुवि ॥
नियुक्ता पतिना भार्या यद्यपत्यस्य कारणात् । न कुर्यात्तत्तथा भीरु सैनः सुमहदाप्नुयात् ।
इति तेन पुरा भीरु मर्यादा स्थापिता बलात् ॥
उद्दालकस्य पुत्रेण धर्म्या वै श्वेतकेतुना ।
सौदासेन च रम्भोरु नियुक्ता पुत्रजन्मनि ॥
मदयन्ती जगामर्षिं वसिष्ठमिति नः श्रुतम् ।
तस्माल्लेभे च सा पुत्रमश्मकं नाम भामिनी ॥
एवं कृतवती सापि भर्तुः प्रियचिकीर्षया ।
अस्माकमपि ते जन्म विदितं कमलेक्षणे ॥
कृष्णद्वैपायनाद्भीरु कुरूणां वंशवृद्धये ।
अत एतानि सर्वाणि कारणानि समीक्ष्य वै ॥
ममैतद्वचनं धर्म्यं कर्तुमर्हस्यनिन्दिते ।
ऋतावृतौ राजपुत्रि स्त्रिया भर्ता पतिव्रते ॥
नातिवर्तव्य इत्येवं धर्मं धर्मविदो विदुः ।
शेषेष्वन्येषु कालेषु स्वातन्त्र्यं स्त्री किलार्हति ॥
धर्ममेवं जनाः सन्तः पुराणं परिचक्षते ।
भर्ता भार्यां राजपुत्रि धर्म्यं वाऽधर्म्यमेव वा ॥
यद्ब्रूयात्तत्तथा कार्यमिति वेदविदो विदुः ।
विशेषतः पुत्रगृद्धी हीनः प्रजननात्स्वयम् ॥
यथाऽहमनवद्याङ्गि पुत्रदर्शनलालसः ।
अयं रक्ताङ्गुलिनखः पद्मपत्रनिभः शुभे ॥
प्रसादनार्थं सुश्रोणि शिरस्यभ्युद्यतोऽञ्जलिः ।
मन्नियोगात्सुकेशान्ते द्विजातेस्तपसाऽधिकात् ॥
पुत्रान्गुणसमायुक्तानुत्पादयितुमर्हसि ।
त्वत्कृतेऽहं पृथुश्रोणि गच्छेयं पुत्रिणां गतिम् ॥
वैशंपायन उवाच ।
एवमुक्ता ततः कुन्ती पाण्डुं परपुरञ्जयम् ।
प्रत्युवाच वरारोहा भर्तुः प्रियहिते रता ॥
`अधर्मः सुमहानेषु स्त्रीणां भरतसत्तम । यत्प्रसादयते भर्ता प्रसाद्यः क्षत्रियर्षभ ।
शृणु चेदं महाबाहो मम प्रीतिकरं चः ॥'
पितृवेश्मन्यहं बाला नियुक्ताऽतिथिपूजने ।
उग्रं पर्यचरं तत्र ब्राह्मणं संशितव्रतम् ॥
निगूढनिश्चयं धर्मे यं तं दुर्वाससं विदुः ।
तमहं संशितात्मानं सर्वयत्नैरतोषयम् ॥
स मेऽभिचारसंयुक्तमाचष्ट भगवान्वरम् ।
मन्त्रं त्विमं च मे प्रादादब्रवीच्चैव मामिदम् ॥
यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि ।
अकामो वा सकामो वा वशं ते समुपैष्यति ॥
तस्य तस्य प्रसादात्ते राज्ञि पुत्रो भविष्यति ।
इत्युक्ताऽहं तदा तेन पितृवेश्मनि भारत ॥
ब्राह्मणस्य वचस्तथ्यं तस्य कालोऽयमागतः ।
अनुज्ञाता त्वया देवमाह्वयेयमहं नृप ॥
`यां मे विद्यां महाराज अददात्स महायशाः । तयाऽऽहूतः सुरः पुत्रं प्रदास्यति सुरोपमम् ।
अनपत्यकृतं यस्ते शोकं वीर विनेष्यति ॥' ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि अष्टाविंशत्यधिकशततमोऽध्यायः ॥ 128 ॥

1-128-4 अनावृताः सर्वैर्द्रष्टुं योग्याः । कामचारो रतिसुखं तदर्थं विहारिण्यः पर्यटनशीलाः । स्वतन्त्रा भर्त्रादिभिरनिवार्याः ॥ 1-128-5 पतीन्व्युच्चरमाणानां व्यभिचरन्तीनाम् ॥ 1-128-6 अनुविधीयन्ते अनुसार्यन्ते ईश्वरेण ॥ 1-128-11 नचिरादल्पकालतः ॥ 1-128-55 पुराणं युगान्तरीयम् ॥ 1-128-59 त्वत्कृते त्वया ॥ 1-128-64 अभिचारो देवताकर्षणशक्तिः ॥ अष्टविंशत्यधिकशततमोऽध्यायः ॥ 128 ॥

अध्यायः 129

धर्मात्कुन्त्यां युधिष्ठिरोत्पत्तिः ॥ 1 ॥ कुन्त्याः पुत्रोत्पत्तिश्रवणेन दुःखितया गान्धार्यां घातितात्स्वोदरान्मांसपेशीजननम् ॥ 2 ॥ मांसपेशीं एकोत्तरशतधा विभज्य पृथक्पृथक्कुण्डेषु निधाय रक्षणम् ॥ 3 ॥ वने स्थितस्य पाण्डोः कुन्त्यां वायोर्भीमसेन्नोत्पत्तिः ॥ 4 ॥ मातुरङ्कात्पतितेन भीमेन शैलशिलासंचूर्णनम् ॥ 5 ॥ दुर्योधनोत्पत्तिः ॥ 6 ॥ ततो मासेन धृतराष्ट्रस्य पुत्रशतोत्पत्तिः । दुःशलाजननं च ॥ 7 ॥

`कुन्त्युवाच ।
अपत्यकाम एवं स्यान्ममापत्यं भवेदिति ।
विप्रं वा गुणसंपन्नं सर्वभूतहिते रतम् ॥
अनुजानीहि भद्रं ते दैवतं हि पतिः स्त्रियः ।
यं त्वं वक्ष्यसि धर्मज्ञ देवं ब्राह्मणमेव च ॥
यथोद्दिष्टं त्वया वीर तत्कर्तास्मि महाभुज ।
देवात्पुत्रफलं सद्यो विप्रात्कालान्तरे भवेत् ॥
आवाहयामि कं देवं कदा वा भरतर्षभ ।
त्वत्त आज्ञां प्रतीक्षन्तीं विद्ध्यस्मिन्कर्मणीप्सिते ॥
पाण्डुरुवाच ।
धन्योऽञस्म्यनुगृहीतोऽस्मि त्वं नो धात्री कुलस्य हि ।
नमो महर्षये तस्मै येन दत्तो वरस्तव ॥
न चाधर्मेण धर्मज्ञे शक्याः पालयितुं प्रजाः ।
तस्मात्त्वं पुत्रलाभाय सन्तानाय ममैव च ॥
प्रवरं सर्वदेवानां धर्ममावाहयाबले ।
वैशंपायन उवाच ।
पाण्डुना समनुज्ञाता भारतेन यशस्विना ।
मतिं चक्रे महाराज धर्मस्यावाहने तदा ॥'
पाण्डुरुवाच ।
अद्यैव त्वं वरारोहे प्रयतस्व यथाविधि ।
धार्मिकश्च कुरूणां हि भविष्यति न संशयः ॥
दत्तस्य तस्य धर्मेण नाधर्मे रंस्यते मनः ।
धर्मादिकं हि धर्मज्ञे धर्मान्तं धर्ममध्यमम् ॥
अपत्यमिष्टं लोकेषु यशःकीर्तिविवर्धनम् ।
तस्माद्धर्मं पुरस्कृत्य नियता त्वं शुचिस्मिते ॥
आकाराचारसंपन्ना भजस्वाराधय स्वयम् ॥
वैशंपायन उवाच ।
सा तथोक्ता तथेत्युक्त्वा तेन भर्त्रा वराङ्गना ।
अभिवाद्याभ्यनुज्ञाता प्रदक्षिणमथाकरोत् ॥
संवत्सरोषिते गर्भे गान्धार्या जनमेजय ।
आजुबहाव ततो धर्मं कुन्ती गर्भार्थमच्युतम् ॥
सा बलिं त्वरिता देवी धर्मायोपजहार ह ।
जजाप विधिवज्जप्यं दत्तं दुर्वाससा पुरा ॥
`जानन्ती धर्ममग्र्यं वै धर्मं वशमुपानयत् । आहूतो नियमात्कुन्त्या सर्वभूतनमस्कृतः ॥'
आजगाम ततो देवीं धर्मो मन्त्रबलात्ततः ।
विमाने सूर्यसङ्काशे कुन्ती यत्र जपस्थिता ॥
`ददृशे भगवान्धर्मः सन्तानार्थाय पाण्डवे ।' विहस्य तां ततो ब्रूयाः कुन्ति किं ते ददाम्यहम् ।
सा तं विहस्यमानापि पुत्रं देह्यब्रवीदिदम् ॥
`तस्मिन्बहुमृगेऽरण्ये शतशृङ्गे नगोत्तमे ।
पाण्डोरर्थे महाभागा कुन्ती धर्ममुपागमत् ॥
ऋतुकाले शुचिः स्नाता शुक्लवस्त्रा यशस्विनी । शय्यां जग्राह सुश्रोणी सह धर्मेण सुव्रता ॥'
धर्मेण सह संगम्य योगमूर्तिधरेण सा ।
लेभे पुत्रं महाबाहुं सर्वप्राणभृतां वरम् ॥
ऐन्द्रे चन्द्रमसा युक्ते मुहूर्तेऽभिजितेऽष्टमे ।
दिवा मध्यगते सूर्ये तिथौ पूर्णे हि पूजिते ॥
समृद्धयसशं कुन्ती सुषाव प्रवरं सुतम् ।
जातमात्रे सुते तस्मिन्वागुवाचाशरीरिणी ॥
एष धर्मभृतां श्रेष्ठो भविष्यति नरोत्तमः ।
विक्रान्तः सत्यवाक्चैव राजा पृथ्व्यां भविष्यति ॥
युधिष्ठिर इति ख्यातः पाण्डोः प्रथमजः सुतः । भविता प्रथितो राजा त्रिषु लोकेषु विश्रुतः ।
यशसा तेजसा चैव वृत्तेन च समन्वितः ॥
संवत्सरे द्वितीये तु गान्धार्या उदरं महत् ।
न च प्राजायत तदा ततस्तां दुःखमाविशत् ॥
श्रुत्वा कुन्तीसुतं जातं बालार्कसमतेजसम् ।
उदस्यात्मनः स्थैर्यमुपालभ्य च सौबली ॥
कौरवस्यापरिज्ञातं यत्नेन महता स्वयम् ।
उदरं घातयामास गान्धारी शोकमूर्छिता ॥
ततो जज्ञे मांसपेशी लोहाष्ठीलेव संहता ।
द्विवर्षसंभृता कुक्षौ तामुत्स्रष्टुं प्रचक्रमे ॥
अथ द्वैपायनो ज्ञात्वा त्वरितः समुपागमत् ।
तां स मांसमयीं पेशीं ददर्श जपतां वरः ॥
ततोऽवदत्सौबलेयीं किमिदं ते चिकीर्षितम् ।
सा चात्मनो मतं सर्वं शशंस परमर्षये ॥
गान्धार्युवाच ।
ज्येष्ठं कुन्तीसुतं जातं श्रुत्वा रविसमप्रभम् ।
दुःखेन परमेणेदमुदरं घातितं मया ॥
शतं च किल पुत्राणां वितीर्णं मे त्वया पुरा ।
इयं च मे मांसपेशी जाता पुत्रशताय वै ॥
व्यास उवाच ।
एवमेतत्सौबलेयि नैतज्जात्वन्यथा भवेत् ।
वितथं नोक्तपूर्वं मे स्वैरेष्वपि कुतोऽन्यथा ॥
घृतपूर्णं कुण्डशतं क्षिप्रमेव विधीयताम् ।
सुगुप्तेषु च देशेषु रक्षा चैव विधीयताम् ॥
शीताभिरद्भिरष्ठीलामिमां च परिषिञ्चय ॥
वैशंपायन उवाच ।
सा सिच्यमाना ह्यष्ठीला ह्यभवच्छतधा तदा ।
अङ्गुष्ठपर्वभात्राणां गर्भाणां तत्क्षणं तथा ॥
एकाधिकशतं पूर्णं यथायोगं विशांपते ।
ततः कुण्डशतं तत्र आनाय्य तु महानृषिः ॥
मांसपेश्यास्तदा राजन्क्रमशः कालपर्ययात् ।
ततस्तांस्तेषु कुण्डेषु गर्भान्सर्वान्समादधत् ॥
स्वनुगुप्तेषु देशेषु रक्षां चैषां व्यधापयत् ।
शशास चैव कृष्णो वै गर्भाणां रक्षणं तथा ॥
उवाच चैनां भगवान्कालेनैतावता पुनः ।
स्फुटमानेषु कुण्डेषु जाताञ्जानीहि शोभने ॥
उद्धाटनीयान्येतानि कुण्डानीति च सौबलीम् ।
इत्युक्त्वा भगवान्व्यासस्तथा प्रतिविधाय च ॥
जगाम तपसे धीमान्हिमवन्तं शिलोच्चयम् ।
अह्नोत्तराः कुमारस्ते कुण्डेभ्यस्तु समुत्थिताः ॥
तेनैवैषां क्रमेणासीज्ज्योष्ठानुज्येष्ठता तदा ।
जन्मतश्च प्रमाणेन ज्येष्ठः कुन्तीसुतोऽभवत् ॥
धार्मिकं च सुतं दृष्ट्वा पाण्डुः कुन्तीमथाऽब्रवीत् ।
प्राहुः क्षत्रं बलज्येष्ठं बलज्येष्ठं सुतं वृणु ॥
ततः कुन्तीमभिक्रम्य शशासातीव भारत ।
वायुमावाहयस्वेति स देवो बलवत्तरः ॥
अश्वमेधः क्रतुश्रेष्ठो ज्योतिःश्रेष्ठो दिवाकरः ।
ब्राह्मणो द्विपदां श्रेष्ठो देवश्रेष्ठश्च मारुतः ॥
मारुतं मरुतां श्रेष्ठं सर्वप्राणिभिरीडितम् ।
आवाहय त्वं नियमात्पुत्रार्थं वरवर्णिनि ॥
स नो यं दास्यति सुतं स प्राणबलवान्नृषु ।
भविष्यति वरारोहे बलज्येष्ठा हि भूमिपाः ॥
वैशंपायन उवाच ।
तथोक्तवति सा काले वायुमेवाजुहाव ह ।
द्वितीयेनोपहारेण तेनोक्तविधिना पुनः ॥
तैरेव नियमैः स्थित्वा मन्त्रग्राममुदैरयत् ।
आजगाम ततो वायुः किं करोमीति चाब्रवीत् ॥
लज्जान्विता ततः कुन्ती पुत्रमैच्छन्महाबलम् ।
तथास्त्विति च तां वायुः समालभ्य दिवं गतः ॥
तस्यां जज्ञे महावीर्यो भीमो भीमपराक्रमः ।
तमप्यतिबलं जातं वागुवाचाशरीरिणी ॥
सर्वेषां बलिनां श्रेष्ठो जातोऽयमिति भारत ।
जातमात्रे कुमारे तु सर्वलोकस्य पार्थिवाः ॥
मूत्रं प्रसुस्रुवुः सर्वे व्यथां चापि प्रपेदिरे ।
वाहनानि व्यशीर्यन्त व्यमुञ्चन्नश्रुबिन्दवः ॥
यथाऽनिलः समुद्भूतः समर्थः कम्पने भुवः ।
तथा ह्युपचिताङ्गो वै भीमो भीमपराक्रमः ॥
इदं चाद्भुतमत्रासीज्जातमात्रे वृकोदरे ।
यदऱ्कात्पतितो मातुः शिलां गात्रैरचूर्णयत् ॥
कुन्ती तु सह पुत्रेण याता सुरुचिरं सरः ।
स्नात्वा च सुतमादाय दशमेऽहनि यादवी ॥
दैवतान्यर्चयिष्यन्ती निर्जगामाश्रमात्पृथा ।
शैलाभ्याशेन गच्छन्त्यास्तदा भरतसत्तम ॥
निश्चक्राम महाव्याघ्रो जिघांसुर्गिरिगह्वरात् ।
तमापतन्तं शार्दूलं विकृष्य धनुरुत्तमम् ॥
निर्बिभेद शरैः पाण्डुस्त्रिभिस्तिरदशविक्रमः ।
नादेन महता तां तु पूरयन्तं गिरेर्गुहाम् ॥
दृष्ट्वा शैलमुपारोढुमैच्छत्कुन्ती भयात्तदा ।
त्रासात्तस्याः सुतस्त्वङ्कात्पपात भरतर्षभ ॥
पर्वतस्योपरिस्थायामधस्तादपतच्छिशुः ।
स शिलां चूर्णयामास वज्रवद्वज्रिचोदितः ॥
पुत्रस्नेहात्ततः पाण्डुरभ्यधावद्गिरेस्तटम् ।
पतता तेन शतधा शिला गात्रैर्विचूर्णिता ॥
शिलां च चूर्णितां दृष्ट्वा परं विस्मयमागमत् ।
स तु जन्मनि भीमस्य विनदन्तं विनादितम् ॥
ददर्श गिरिशृङ्गस्थं व्याघ्रं व्याघ्रपराक्रमः ।
दारसंरक्षणार्थाय पुत्रसंरक्षणाय च ॥
सदा बाणधनुष्पाणिरभवत्कुरुनन्दनः ।
मघे चन्द्रमसा युक्ते सिंहे चाभ्युदिते गुरौ ॥
दिवा मध्यगते सूर्ये तिथौ पुण्ये त्रयोदशे ।
पित्र्ये मुहूर्ते सा कुन्ती सुषुवे भीममच्युतम् ॥
यस्मिन्नहनि भमस्तु जज्ञे भीमपराक्रमः ।
तामेव रात्रिं पूर्वां तु जज्ञे दुर्योधनो नृपः ॥
स जातमात्र एवाथ धृतराष्ट्रसुतो नृप ।
रासभारावसदृशं रुराव च ननाद च ॥
तं खराः प्रत्यभाषन्त गृध्रगोमायुवायसाः ।
क्रव्यादाः प्राणदन्घोराः शिवाश्चाशिवनिस्वनाः ॥
वाताश्च प्रववुश्चापि दिग्दाहश्चाभवत्तदा ।
ततस्तु भीतवद्राजा धृतराष्ट्रोऽब्रवीदिदम् ॥
समानीय बहून्विप्रान्भीष्मं विदुरमेव च ।
अन्यांश्च सुहृदो राजन्कुरून्सर्वांस्तथैव च ॥
युधिष्ठिरो राजपुत्रो ज्येष्ठो नः कुलवर्धनः ।
प्राप्तः स्वगुणतो राज्यं न तस्मिन्वाच्यमस्तिनः ॥
अयं त्वनन्तरस्तस्मादपि राजा भविष्यति ।
एतद्विब्रूत मे तथ्यं यदत्र भविता ध्रुवम् ॥
`अस्मिञ्जाते निमित्तानि शंसन्ती हाशिवं महत् । अतो ब्रवीमि विदुर द्रुतं मां भयमाविशत् ॥'
वाक्यस्यैतस्य निधेन दिक्षु सर्वासु भारत ।
क्रव्यादाः प्राणदन्घोराः शिवाश्चाशिवनिस्वनाः ॥
लक्षयित्वा निमित्तानि तानि घोराणि सर्वशः ।
तेऽब्रुवन्ब्राह्मणा राजन्विदुरश्च महामतिः ॥
यथेमानि निमित्तानि घोराणि मनुजाधिप ।
उत्थितानि सुते जाते ज्येष्ठे ते पुरुषर्षभ ॥
व्यक्तं कुलान्तकरणो भवितैष सुतस्तव ।
तस्य शान्तिः परित्यागे गुप्तावपनयो महान् ॥
`एष दुर्योधनो राजा मधुपिङ्गललोचनः । न केवलं कुलस्यान्तं क्षत्रियान्तं करिष्यति ॥'
शतमेकोनमप्यस्तु पुत्राणां ते महीपते ।
त्यजैनमेकं शान्तिं चेत्कुलस्येच्छसि भारत ॥
एकेन कुरु वै क्षेमं कुलस्य जगतस्तथा ।
त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् ॥
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ।
स तथा विदुरेणोक्तस्तैश्च सर्वैर्द्विजोत्तमैः ॥
न चकार तथा राजा पुत्रस्नेहसमन्वितः ।
ततः पुत्रशतं पूर्ण धृतराष्ट्रस्य पार्थिव ॥
अह्नांशतेन संजज्ञे कन्या चैका शताधिका ।
गान्धार्यां क्लिश्यमानायामुदरेण विवर्धता ॥
`वैश्या सा त्वम्बिकापुत्रं कन्या परिचचार ह । तया समभवद्राजा धृतराष्ट्रो यदृच्छया ॥'
तस्मिन्संवत्सरे राजन्धृतराष्ट्रान्महायशाः । जज्ञे धीमांस्ततस्तस्यां युयुत्सुः करमो नृप ।
एवं पुत्रशतं जज्ञे धृतराष्ट्रस्य धीमतः ॥
महारथानां वीराणां कन्या चैका शताधिका ।
युयुत्सुश्च महातेजा वैश्यापुत्रः प्रतापवान् ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि एकोनत्रिंशदधिकशततमोऽध्यायः ॥ 129 ॥

1-129-21 ऐन्द्रे ज्येष्ठानक्षत्रे । अष्टमे अभिजितेऽभिजिति त्रिंशन्मुहूर्तस्याह्नोऽष्टमे मुहूर्ते । दिवा शुक्लपक्षे । मध्यगते तुलायनगते । तिथौ पूर्णे पूर्णायां पञ्चम्याम् । अयं योगः प्रायेणास्विनशुक्लपञ्चम्याम् ॥ 1-129-28 लोहाष्ठीला लोहपिण्डिका ॥ 1-129-62 वज्रवद्वज्रिचोदितः वज्रिचोदितवज्रवदित्यर्थः ॥ 1-129-64 विनादितं नादं । विनन्दं कुर्वाणम् ॥ 1-129-69 रुराव च ननाद च व्यक्तमव्यक्तं च शब्दं खरसदृशमेवाकरोत् ॥ 1-129-87 करण इव करणः क्षत्रियाद्वैश्यायां जातत्वान्न तु वैश्याच्छूद्रायाम् ॥ एकोनत्रिंशदधिकशततमोऽध्यायः ॥ 129 ॥

अध्यायः 130

दुःशलाजननप्रकारकथनम् ॥ 1 ॥

जनमेजय उवाच ।
धृतराष्ट्रस्य पुत्राणामादितः कथितं त्वया ।
ऋषेः प्रसादात्तु शतं न च कन्या प्रकीर्तिता ॥
वैश्यापुत्रो युयुत्सुश्च कन्या चैका शताधिका ।
गान्धारराजदुहिता शतपुत्रेति चानघ ॥
उक्ता महर्षिणा तेन व्यासेनामिततेजसा ।
कथं त्विदानीं भगवन्कन्यां त्वं तु ब्रवीषि मे ॥
यदि भागशतं पेशी कृता तेन महर्षिणा ।
न प्रजास्यति चेद्भूयः सौबलेयी कथंचन ॥
कथं तु संभवस्तस्या दुःशलाया वदस्व मे ।
यथावदिह विप्रर्षे परं मेऽत्र कुतूहलम् ॥
वैशंपायन उवाच ।
साध्वयं प्रश्न उद्दिष्टः पाण्डवेय ब्रवीमि ते ।
तां मांसपेशीं भगवान्स्वयमेव महातपाः ॥
शीताभिरद्भिरासिच्य भागं भागमकल्पयत् ।
यो यथा कल्पितो भागस्तंत धात्र्या तथा नृप ॥
घृतपूर्णेषु कुण्डेषु एकैकं प्राक्षिपत्तदा ।
एतस्मिन्नन्तरे साध्वी गान्धारी सुदृढव्रता ॥
दुहितुः स्नेहसंयोगमनुध्याय वराङ्गना । `नाब्रवीत्तमृषिं किंचिद्गौरवाच्च यशस्विनी ।'
मनसा चिन्तयद्देवी एतत्पुत्रशतं मम ॥
भविष्यति न संदेहो न ब्रवीत्यन्यथा मुनिः ।
ममेयं परमा तुष्टिर्दुहिता मे भवेद्यदि ॥
एका शताधिका बाला भविष्यति कनीयसी ।
ततो दौहित्रजाल्लोकादबाह्योऽसौ पतिर्मम ॥
अधिका किल नारीणां प्रीतिर्जामातृजा भवेत् ।
यदि नाम ममापि स्याद्दुहितैका शताधिका ॥
कृतकृत्या भवेयं वै पुत्रदौहित्रसंवृता ।
यदि सत्यं तपस्तप्तं दत्तं वाऽप्यथवा हुतम् ॥
गुरवस्तोषिता वापि तथाऽस्तु दुहिता मम ।
एतस्मिन्नेव काले तु कृष्णद्वैपायनः स्वयम् ॥
व्यभजत्स तदा पेशीं भगवानृषिसत्तमः ।
`गण्यमानेषु कुण्डेषु शते पूर्णे महात्मना ॥
अभवच्चापरं खण्डं वामहस्ते तदा किल ।' गणयित्वा शतं पूर्णमंशानामाह सौबलीम् ॥
व्यास उवाच ।
पूर्णं पुत्रशतं त्वेतन्न मिथ्या वागुदाहृता ।
दैवयोगाच्च भागैकः परिशिष्टः शतात्परः ॥
एषा ते सुभगा कन्या भविष्यति यतेप्सिता ।
वैशंपायन उवाच ।
ततोऽन्यं घृतकुम्भं च समानाय्य महातपाः ॥
तं चापि प्राक्षिपत्तत्र कन्याभागं तपोधनः ।
`संभूता चैव कालेन सर्वेषां च यवीयसी ॥
ऐतत्ते कथितं राजन्दुःशलाजन्म भारत ।
ब्रूहि राजेन्द्र किं भूयो वर्तयिष्यामि तेऽनघ ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि त्रिंशदधिकशततमोऽध्यायः ॥ 130 ॥

1-130-4 न प्रजास्यति प्रजामात्मनो नेच्छति ॥ त्रिंशदधिकशततमोऽध्यायः ॥ 130 ॥

अध्यायः 131

दुर्योधनादीनां नामकथनम् ॥ 1 ॥ दुःशलाविवाहः ॥ 2 ॥

जनमेजय उवाच ।
ज्येष्ठाऽनुज्येष्ठतां तेषां नामानि च पृथक्पृथक् ।
धृतराष्ट्रस्य पुत्राणामानुपूर्व्यात्प्रकीर्तय ॥
वैशंपायन उवाच ।
दुर्योधनो युयुत्सुश्च राजन्दुःशासनस्तथा ।
दुःसहो दुःशलश्चैव जलसन्धः समः सहः ॥
विन्दानुविन्दौ दुर्धर्षः सुबाहुर्दुष्प्रधर्षणः ।
दुर्मर्षणो दुर्मुखश्च दुष्कर्णः कर्ण एव च ॥
विविंशतिर्विकर्णश्च शलः सत्वः सुलोचनः ।
चित्रोपचित्रौ चित्राक्षश्चारुचित्रः शरासनः ॥
दुर्मदो दुर्विगाहश्च विवित्सुर्विकटाननः ।
ऊर्णनाभः सुनाभश्च तथा नन्दोपनन्दकौ ॥
चित्रबाणश्चित्रवर्मा सुवर्मा दुर्विमोचनः ।
अयोबाहुर्महाबाहुश्चित्राङ्गश्चित्रकुण्डलः ॥
भीमवेगो भीमबलो बलाकी बलवर्धनः ।
उग्रायुधः सुषेणश्च कुण्डधारो महोदरः ॥
चित्रायुधो निषङ्गी च पाशी वृन्दारकस्तथा ।
दृढवर्मा दृढक्षत्रः सोमकीर्तिरनूदरः ॥
दृढसन्धो जरासन्धः सत्यसन्धः सदः सुवाक् ।
उग्रश्रवा उग्रसेनः सेनानीर्दुष्पराजयः ॥
अपराजितः कुण्डशायी विशालाक्षो दुराधरः ।
दृढहस्तः सुहस्तश्च वातवेगसुवर्चसौ ॥
आदित्यकेतुर्बह्वाशी नागदत्तोऽग्रयाय्यपि ।
कवची क्रथनः कुण्डी कुण्डधारो धनुर्धरः ॥
उग्रभीमरथौ वीरौ वीरबाहुरलोलुपः ।
अभयो रौद्रकर्मा च तथा दृढरथाश्रयः ॥
अनाधृष्यः कुण्डभेदी विरावी चित्रकुण्डलः ।
प्रमथश्च प्रमाथी च दीर्घरोमश्च वीर्यवान् ॥
दीर्घबाहुर्महाबाहुर्व्यूढोराः कनकध्वजः ।
कुण्डाशी विराजाश्चैव दुःशला च शताधिका ॥
इति पुत्रशतं राजन्कन्या चैव शताधिका ।
नामधेयानुपूर्व्येण विद्धि जन्मक्रमं नृप ॥
सर्वे त्वतिरथाः शूराः सर्वे युद्धविशारदाः ।
सर्वे वेदविदश्चैव सर्वे सर्वास्त्रकोविदाः ॥
सर्वेषामनुरूपाश्च कृता दारा महीपते ।
धृतराष्ट्रेण समये परीक्ष्य विविवन्नृप ॥
दुःशलां चापि समये धृतराष्ट्रो नराधिपः ।
जयद्रथाय प्रददौ विधिना भरतर्षभ ॥
`इति पुत्रशतं राजन्युयुत्सुश्च शताधिकः ।
कन्यका दुःशला चैव यथावत्कीर्तितं मया' ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि एकत्रिंशदधिकशततमोऽध्यायः ॥ 131 ॥

अध्यायः 132

कुन्त्यां इन्द्रादर्जुनोत्पत्तिः ॥ 1 ॥ तद्वेलायां आकाशवाण्यादि ॥ 2 ॥

वैशंपायन उवाच ।
जाते बलवतां श्रेष्ठे पाण्डुश्चिन्तापरोऽभवत् ।
कथमन्यो मम सुतो लोके श्रेष्ठो भवेदिति ॥
दैवे पुरुषकारे च लोकोऽयं संप्रतिष्ठितः ।
तत्र दैवं तु विधिना कालयुक्तेन लभ्यते ॥
इन्द्रो हि राजा देवानां प्रधान इति नः श्रुतम् ।
अप्रमेयबलोत्साहो वीर्यवानमितद्युतिः ॥
तं तोषयित्वा तपसा पुत्रं लप्स्ये महाबलम् ।
यं दास्यति स मे पुत्रं स वीरयान्भविष्यति ॥
अमानुषान्मानुषांश्च संग्रामे स हनिष्यति ।
कर्मणा मनसा वाचा तस्मात्तप्स्ये महत्तपः ॥
ततः पाण्डुर्महाराजो मन्त्रयित्वा महर्षिभिः ।
दिदेश कुन्त्याः कौरव्यो व्रतं सांवत्सरं शुभम् ॥
आत्मना च महाबाहुरेकपादस्थितोऽभवत् ।
उग्रं स तप आस्थाय परमेण समाधिना ॥
आरिराधयिषुर्देवं त्रिदशानां तमीश्वरम् ।
सूर्येण सह धर्मात्मा पर्यतप्यत भारत ॥
तं तु कालेन महता वासवः प्रत्यपद्यत ।
शक्र उवाच ।
पुत्रं तव प्रदास्यामि त्रिषु लोकेषु विश्रुतम् ॥
ब्राह्मणानां गवां चैव सुहृदां चार्थसाधकम् ।
दुर्हृदां शोकजननं सर्वबान्धवनन्दनम् ॥
सुतं तेऽग्र्यं प्रदास्यामि सर्वामित्रविनाशनम् ।
इत्युक्तः कारैवो राजा वासवेन महात्मना ॥
उवाच कुन्तीं धर्मात्मा देवराजवचः स्मरन् ।
उदर्कस्तव कल्याणि तुष्टो देवगणेश्वरः ॥
दातुमिच्छति ते पुत्रं यथा संकल्पितं त्वया ।
अतिमानुषकर्माणं यशस्विनमरिन्दमम् ॥
नीतिमन्तं महात्मानमादित्यसमतेजसम् ।
दुराधर्षं क्रियावन्तमतीवाद्भुतदर्शनम् ॥
पुत्रं जनय सुश्रोणि धाम क्षत्रियतेजसाम् ।
लब्धः प्रसादो देवेन्द्रात्तमाह्वय शुचिस्मिते ॥
वैशंपायन उवाच ।
एवमुक्ता ततः शक्रमाजुहाव यशस्विनी ।
अथाजगाम देवेन्द्रो जनयामास चार्जुनम् ॥
`उत्तराभ्यां तु पूर्वाभ्यां फल्गुनीभ्यां ततो दिवा ।
जातस्तु फाल्गुने मासि तेनासौ फल्गुनःस्मृतः' ॥
जातमात्रे कुमारे तु `सर्वभूतप्रहर्षिणी । सूतके वर्तमानां तां' वागुवाचाशरीरिणी ।
महागम्भीरनिर्घोषा नभो नादयती तदा ॥
शृण्वतां सर्वभूतानां तेषां चाश्रमवासिनाम् ।
कुन्तीमाभाष्य विस्पष्टमुवाचेदं शुचिस्मिताम् ॥
कार्तवीर्यसमः कुन्ति शिवतुल्यपराक्रमः ।
एष शक्र इवाजय्यो यशस्ते प्रथयिष्यति ॥
अदित्या विष्णुना प्रीतिर्यथाऽभूदभिवर्धिता ।
तथा विष्णुसमः प्रीतिं वर्धयिष्यति तेऽर्जुनः ॥
एष मद्रान्वशे कृत्वा कुरूंश्च सह सोमकैः ।
चेदिकाशिकरूषांश्च कुरुलक्ष्मीं वहिष्यति ॥
एतस्य भुजवीर्येण खाण्डवे हव्यवाहनः ।
मेदसा सर्वभूतानां तृप्तिं यास्यति वै पराम् ॥
ग्रामणीश्च महीपालानेष जित्वा महाबलः ।
भ्रातृभिः सहितो वीरस्त्रीन्मेधानाहरिष्यति ॥
जामदग्न्यसमः कुन्ति विष्णुतुल्यपराक्रमः ।
एष वीर्यवतां श्रेष्ठो भविष्यति महायशाः ॥
एष युद्धे महादेवं तोषयिष्यति शङ्करम् ।
अस्त्रं पाशुपतं नाम तस्मात्तुष्टादवाप्स्यति ॥
निवातकवचा नाम दैत्या विबुधविद्विषः ।
शक्राज्ञया महाबाहुस्तान्वधिष्यति ते सुतः ॥
तथा दिव्यानि चास्त्राणि निखिलेनाहरिष्यति ।
विप्रनष्टां श्रियं चायमाहर्ता पुरुषर्षभः ॥
एतामत्यद्भुतां वाचं कुन्ती शुश्राव सूतके ।
वाचमुच्चरितामुच्चैस्तां निशम्य तपस्विनाम् ॥
बभूव पमो हर्षः शतशृङ्गनिवासिनाम् ।
तथा देवमहर्षीणां सेन्द्राणां च दिवौकसाम् ॥
आकाशे दुन्दुभीनां च बभूव तुमुलः स्वनः ।
उदतिष्ठन्महाघोरः पुष्पवृष्टिभिरावृतः ॥
समवेत्य च देवानां गणाः पार्थमपूजयन् । काद्रवेया वैनतेया गन्धर्वाप्सरसस्तथा ।
प्रजानां पतयः सर्वे सप्त चैव महर्षयः ॥
भरद्वाजः खस्यपो गौतमश्च विश्वामित्रो जमदग्निर्वसिष्ठः ।
यश्चोदितो भास्करेऽभूत्प्रनष्टे सोऽप्यत्रात्रिर्भगवानाजगाम ॥
मरीचिरङ्गिराश्चैव पुलस्त्यः पुलहः क्रतुः ।
दक्षः प्रजापतिश्चैव गन्धर्वाप्सरसस्तथा ॥
दिव्यमाल्याम्बरधराः सर्वालङ्कारभूषिताः ।
उपगायन्ति बीभत्सुं नृत्यन्तेऽप्सरसां गणाः ॥
तथा महर्षयश्चापि जेपुस्तत्र समन्ततः ।
गन्धर्वैः सहितः श्रीमान्प्रागायत च तुम्बुरुः ॥
भीमसेनोग्रसेनौ च ऊर्णायुरनघस्तथा ।
गोपतिर्धृतराष्ट्रश्च सूर्यवर्चास्तथाष्टमः ॥
युगपस्तृणपः कार्ष्णिर्नन्दिश्चित्ररथस्तथा ।
त्रयोदशः शालिशिराः पर्जन्यश्च चतुर्दशः ॥
कलिः पञ्चदशश्चैव नारदश्चात्र षोडशः ।
ऋत्वा बृहत्त्वा बृहकः करालश्च महामनाः ॥
ब्रह्मचारी बहुगुणः सुवर्णश्चेति विश्रुतः ।
विश्वावसुर्भुमन्युश्च सुचन्द्रश्च शरुस्तथा ॥
गीतमाधुर्यसंपन्नौ विख्यातौ च हहाहुहू ।
इत्येते देवगन्धर्वा जग्मुस्तत्र नराधिप ॥
तथैवाप्सरसो हृष्टाः सर्वालङ्कारभूषिताः ।
ननृतुर्वै महाभागा जगुश्चायतलोचनाः ॥
अनूचानाऽनवद्या च गुणमुख्या गुणावरा ।
अद्रिका च तथा सोमा मिश्रकेशी त्वलम्बुषा ॥
मरीचिः शुचिका चैव विद्युत्पर्णा तिलोत्तमा ।
अम्बिका लक्षणा क्षेमा देवी रम्भा मनोरमा ॥
असिता च सुबाहुश्च सुप्रिया च वपुस्तथा ।
पुण्डरीका सुगन्धा च सुरसा च प्रमाथिनी ॥
काम्या शारद्वती चैव ननृतुस्तत्र संघशः ।
मेनका सहजन्या च कर्णिका पुञ्जिकस्थला ॥
ऋतुस्थला घृताची च विश्वाची पूर्वचित्त्यपि ।
उम्लोचेति च विख्याता प्रम्लोचेति च ता दश ॥
उर्वश्येकादशी तासां जगुश्चायतलोचनाः ।
धाताऽर्यमा च मित्रश्च वरुणोंऽशो भगस्तथा ॥
इन्द्रो विवस्वान्पूषा च पर्जन्यो दशमः स्मृतः ।
ततस्त्वष्टा ततो विष्णुरजघन्यो जघन्यजः ॥
इत्येते द्वादशादित्या ज्वलन्तः सूर्यवर्चसः ॥
मृगव्याधश्च सर्पश्च निर्ऋतिश्च महायशाः ।
अजैकपादहिर्बुध्न्यः पिनाकी च परंतप ॥
दहनोऽथेश्वरश्चैव कपाली च विशांपते ।
स्थाणुर्भगश्च भगवान्रुद्रास्तत्रावतस्थिरे ॥
अश्विनौ वसवश्चाष्टौ मरुतश्च महाबलाः ।
विश्वेदेवास्तथा साध्यास्तत्रासन्परितः स्थिताः ॥
कर्कोटकोऽथ सर्पश्च वासुकिश्च भुजङ्गमः ।
कच्छपश्चाथ कुण्डश्च तक्षकश्च महोरगः ॥
आययुस्तपसा युक्ता महाक्रोधा महाबलाः ।
एते चान्ये च बहवस्तत्र नागा व्यवस्थिताः ॥
तार्क्ष्यश्चारिष्टनेमिश्च गरुडश्चासितध्वजः ।
अरुणश्चारुणिश्चैव वैनतेया व्यवस्थिताः ॥
तांश्च देवगणान्सर्वांस्तपःसिद्धा महर्षयः ।
विमानगिर्यग्रगतान्ददृशुर्नेतरे जनाः ॥
तद्दृष्ट्वा महदाश्चर्यं विस्मिता मुनिसत्तमाः ।
अधिकां स्म ततो वृत्तिमवर्तन्पाण्डवं प्रति ॥
पाण्डुः प्रीतेन मनसा देवतादीनपूजयत् ।
पाण्डुना पूजिता देवाः प्रत्यूचुर्नरसत्तमम् ॥
प्रादुर्बूतो ह्ययं धर्मो देवतानां प्रसादतः ।
मातरिश्वा ह्ययं भीमो बलवानरिमर्दनः ॥
साक्षादिन्द्रः स्वयं जातः प्रसादाच्च शतक्रतोः ।
पितृत्वाद्देवतानां हि नास्ति पुण्यतरस्त्वया ॥
पितॄणामृणनिर्मुक्तः स्वर्गं प्राप्स्यसि पुण्यभाक् ।
इत्युक्त्वा देवताः सर्वा विप्रजग्मुर्यथागतम् ॥
पाण्डुस्तु पुनरेवैनां पुत्रलोभान्महायशाः ।
प्रादिशद्दर्शनीयार्थी कुन्ती त्वेनमथाब्रवीत् ॥
नातश्चतुर्थं प्रसवमापस्त्वपि वदन्त्युत ।
अतःपरं स्वैरिणी स्याद्बन्धकी पञ्चमे भवेत् ॥
स त्वं विद्वन्धर्ममिममधिगम्य कथं नु माम् ।
अपत्यार्थं समुत्क्रम्य प्रमादादिव भाषसे ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि द्वात्रिंशदधिकशततमोऽध्यायः ॥ 132 ॥

1-132-8 सूर्येण सह उदयादस्तमयावधि ॥ द्वात्रिंशदधिकशततमोऽध्यायः ॥ 132 ॥

अध्यायः 133

अश्विभ्यां माद्र्यां नकुलसहदेवयोरुत्पत्तिः ॥ 1 ॥ युधिष्ठिरादीनां नामकरणम् ॥ 2 ॥ वसुदेवप्रेषितेन पुरोहितेन पाण्डवानामुपनयनादिसंस्कारकरणम् ॥ 3 ॥ पाण्डवानां शुक्राद्धनुर्वेदशिक्षणम् ॥ 4 ॥

वैशंपायन उवाच ।
कुन्तीपुत्रेषु जातेषु धृतराष्ट्रात्मजेषु च ।
मद्रराजसुता पाण्डुं रहो वचनमब्रवीत् ॥
न मेऽस्ति त्वयि सन्तापो विगुणेऽपि परन्तप ।
नावरत्वे वरार्हायाः स्थित्वा चानघ नित्यदा ॥
गान्धार्याश्चैव नृपते जातं पुत्रशतं तथा ।
श्रुत्वा न मे तथा दुःखमभवत्कुरुनन्दन ॥
इदं तु मे महद्दुःखं तुल्यतायामपुत्रता ।
दिष्ट्या त्विदानीं भर्तुर्मे कुन्त्यामप्यस्ति सन्ततिः ॥
यदि त्वपत्यसन्तानं कुन्तिराजसुता मयि ।
कुर्यादनुग्रहो मे स्यात्तव चापि हितं भवेत् ॥
संरम्भो हि सपत्नीत्वाद्वक्तुं कुन्तिसुतां प्रति ।
यदि तु त्वं प्रसन्नो मे स्वयमेनां प्रचोदय ॥
पाण्डुरुवाच ।
ममाप्येष सदा माद्रि हृद्यर्थः परिवर्तते ।
न तु त्वां प्रसहे वक्तुमिष्टानिष्टविवक्षया ॥
तव त्विदं मतं मत्वा प्रयतिष्याम्यतः परम् ।
मन्ये ध्रुवं मयोक्ता सा वचनं प्रतिपत्स्यते ॥
वैशंपायन उवाच ।
ततः कुन्तीं पुनः पाण्डुर्विविक्त इदमब्रवीत् । `अनुगृह्णीष्व कल्याणि मद्रराजसुतामपि ।'
कुलस्य मम सन्तानं लोकस्य च कुरु प्रियम् ॥
मम चापिण्डनाशाय पूर्वेषां च महात्मनाम् ।
मत्प्रियार्थं च कल्याणि कुरु कल्याणमुत्तमम् ॥
यशसोऽर्थाय चैव त्वं कुरु कर्म सुदुष्करम् ।
प्राप्याधिपत्यमिन्द्रेण यज्ञैरिष्टं यशोऽर्थिना ॥
तथा मन्त्रविदो विप्रास्तपस्तप्त्वा सुदुष्करम् ।
गुरूनभ्युपगच्छन्ति यशसोऽर्थाय भामिनि ॥
तथा राजर्षयः सर्वे ब्राह्मणाश्च तपोधनाः ।
चक्रुरुच्चावचं कर्म यशसोऽर्थाय दुष्करम् ॥
सा त्वं माद्रीं प्लवेनैव तारयैनामनिन्दिते ।
अपत्यसंविधानेन परां कीर्तिमवाप्नुहि ॥
`कुन्त्युवाच ।
धर्मं वै धर्मशास्त्रोक्तं यथा वदसि तत्तथा । तस्मादनुग्रहं तस्याः करोमि कुरुनन्दन ॥'
वैशंपायन उवाच ।
एवमुक्ताऽब्रवीन्मार्द्रीं सकृच्चिन्तय दैवतम् ।
तस्मात्ते भविताऽपत्यमनुरूपमसंशयम् ॥
`ततो मन्त्रे कृते तस्मिन्विधिदृष्टेन कर्मणा । ततो राजसुता स्नाता शयने संविवेश ह ॥'
ततो माद्री विचार्यैका जगाम मनसाऽश्विनौ । तावागम्य सुतौ तस्यां जनयामासतुर्यमौ ।
नकुलं सहदेवं च रूपेणाप्रतिमौ भुवि ॥
तथैव तावपि यमौ वागुवाचाशरीरिणी ।
`धर्मतो भक्तितश्चैव शीलतो विनयैस्तथा ॥
सत्वरूपगुणोपेतौ भवतोऽत्यश्विनाविति ।
मासते तेजसाऽत्यर्थं रूपद्रविणसंपदा ॥
नामानि चक्रिरे तेषां शतशृङ्गनिवासिनः ।
भक्त्या च कर्मणा चैव तथाऽऽशीर्भिर्विशांपते ॥
ज्येष्ठं युधिष्ठिरेत्येवं भीमसेनेति मध्यमम् ।
अर्जुनेति तृतीयं च कुन्तीपुत्रानकल्पयन् ॥
पूर्वजं नकुलेत्येवं सहदेवेति चापरम् ।
माद्रीपुत्रावकथयंस्ते विप्राः प्रीतमानसाः ॥
अनुसंवत्सरं जाता अपि ते कुरुसत्तमाः ।
पाण्डुपुत्रा व्यराजन्त पञ्चसंवत्सरा इव ॥
महासत्त्वा महावीर्या महाबलपराक्रमाः ।
पाण्डुर्दृष्ट्वा सुतांस्तांस्तु देवरूपान्महौजसः ॥
मुदं परमिकां लेभे ननन्द च नराधिपः ।
ऋषीणामपि सर्वेषां शतशृङ्गनिवासिनाम् ॥
प्रिया बभूवुस्तासां च तथैव मुनियोषिताम् ।
कुन्तीमथ पुनः पाण्डुर्माद्र्यर्थे समचोदयत् ॥
तमुवाच पृथा राजन् रहस्युक्ता तदा सती ।
उक्ता सक्वद्द्वन्द्वमेषा लेभे तेनास्मि वञ्चिता ॥
बिभेम्यस्याः परिभवात्कुस्त्रीणां गतिरिदृशी ।
नाज्ञासिषमहं मूढा द्वन्द्वाह्वाने फलद्वयम् ॥
तस्मान्नाहं नियोक्तव्या त्वयैषोऽस्तु वरो मम ।
एवं पाण्डोः सुताः पञ्च देवदत्ता महाबलाः ॥
संभूताः कीर्तिमन्तश्च कुरुवंशविवर्धनाः ।
शुभलक्षणसंपन्नाः सोमवत्प्रियदर्शनाः ॥
सिंहदर्पा महेष्वासाः सिंहविक्रान्तगामिनः ।
सिंहग्रीवा मनुष्येन्द्रा ववृधुर्देवविक्रमाः ॥
विवर्धमानास्ते तत्र पुण्ये हैमवते गिरौ ।
विस्मयं जनयामासुर्महर्षीणां समेयुषाम् ॥
`जातमात्रानुपादाय शतशृङ्गनिवासिनः ।
पाण्डोः पुत्रानमन्यन्त तापसाः स्वानिवात्मजान् ॥
वैशंपायन उवाच ।
ततस्तु वृष्णयः सर्वे वसुदेवपुरोगमाः ॥
पाण्डुः शापभयाद्भीतः शतशृङ्गमुपेयिवान् ।
तत्रैव मुनिभिः सार्धं तापसोऽभूत्तपस्विभिः ॥
शाकमूलफलाहारस्तपस्वी नियतेन्द्रियः ।
योगध्यानपरो राजा बभूवेति च वादकाः ॥
प्रबुवन्ति स्म बहवस्तच्छ्रुत्वा शोककर्शिताः ।
पाण्डोः प्रीतिसमायुक्ताः कदा श्रोष्याम संकथाः ॥
इत्येवं कथयन्तस्ते वृष्णयः सह बान्धवैः ।
पाण्डोः पुत्रागमं श्रुत्वा सर्वे हर्षसमन्विताः ॥
सभाजयन्तस्तेऽन्योन्यं वसुदेवं वचोऽब्रुवन् ।
न भवेरन्क्रियाहीनाः पाण्डुपुत्रा महाबलाः ॥
पाण्डोः प्रियहितान्वेषी प्रेषय त्वं पुरोहितम् ।
वसुदेवस्तथेत्युक्त्वा विससर्ज पुरोहितम् ॥
युक्तानि च कुमाराणां पारबर्हाण्यनेकशः ।
कुन्तीं माद्रीं च संदिश्य दासीदासपरिच्छदम् ॥
गावो हिरण्यं रौप्यं च प्रेषयामास भारत ।
तानि सर्वाणि संगृह्य प्रययौ स पुरोहितः ॥
तमागतं द्विजश्रेष्ठं काश्यपं वै पुरोहितम् ।
पूजयामास विधिवत्पाण्डुः परपुरञ्जयः ॥
पृथा माद्री च संहृष्टे वसुदेवं प्रशंसताम् ।
ततः पाण्डुः क्रियाः सर्वाः पाण्डवानामकारयत् ॥
गर्भाधानादिकृत्यानि चौलोपनयनानि च ।
काश्यपः कृतवान्सर्वमुपाकर्म च भारत ॥
चौलोपनयनादूर्ध्वमृषभाक्षा यशस्विनः ।
वैदिकाध्ययने सर्वे समपद्यन्त पारगाः ॥
शर्यातेः प्रथमः पुत्रः शुक्रो नाम परन्तपः ।
येन सागरपर्यन्ता धुषा निर्जिता मही ॥
अश्वमेधशतैरिष्ट्वा स महात्मा महामखैः ।
आराध्य देवताः सर्वाः पितॄनपि महामतिः ॥
शतशृह्गे तपस्तेपे शाकमूलफलाशनः ।
तेनोपकरणश्रेष्ठैः शिक्षया चोपबृंहिताः ॥
तत्प्रसादाद्धनुर्वेदे समपद्यन्त पारगाः ।
गदायां पारगो भीमस्तोमरेषु युधिष्ठिरः ॥
असिचर्मणि निष्णातौ यमौ सत्त्ववतां वरौ ।
धनुर्वेदे गतः पारं सव्यसाची परन्तपः ॥
शुक्रेण समनुज्ञातो मत्समोऽयमिति प्रभो ।
अनुज्ञाय ततो राजा शक्तिं खङ्गं ततः शरान् ॥
धनुश्च दमतां श्रेष्ठस्तालमात्रं महाप्रभम् ।
विपाठक्षुरनाराचान्गृध्रपक्षैरलङ्कृतान् ॥
ददौ पार्थाय संहृष्टो महोरगसमप्रभान् ।
अवाप्य सर्वशस्त्राणि मुदितो वासवात्मजः ॥
मेने सर्वान्महीपालानपर्याप्तान्स्वतेजसः ॥
एकवर्षान्तरास्त्वेवं परस्परमरिन्दमाः । अन्ववर्तन्त पार्थाश्च माद्रीपुत्रौ तथैव च ॥'
ते च पञ्च शतं चैव कुरुवंशविवर्धनाः ।
सर्वे ववृधिरेऽल्पेन कालेनाप्स्विव पङ्कजाः ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि त्रयस्त्रिंशदधिकशततमोऽध्यायः ॥ 133 ॥

1-133-2 विगुणे प्रजोत्पादनानधिकृते । अवरत्वे कनिष्ठात्वे । वरार्हायाः कृन्त्या अपेक्षया ॥ 1-133-6 संरम्भोऽभिमानः ॥ 1-133-7 इष्टमनिष्टं वा वक्ष्यसीति संदेहेन ॥ 1-133-8 प्रतिपत्स्यते अङ्गीकरिष्यति ॥ 1-133-9 सतानमविच्छेदम् ॥ 1-133-10 मम पूर्वेषां चापिण्डनाशाय पिण्डविनाशाभावाय । बहुषु पुत्रेषु कस्यचिदपि पुत्रस्य संततेरविच्छेदसंभवादित्यर्थः ॥ 1-133-11 यशस इति कृतकृत्या अपि यशोर्थं देवगुर्वाद्याराधनं कुर्वन्तीत्यर्थः ॥ 1-133-20 अत्यश्विनौ अश्विभ्यामधिकौ ॥ 1-133-24 अनुसंवत्सरं संवत्सरमनु पश्चाज्जाता अपि देवताभावात्सर्वे पञ्चसंवत्सरा इवादृश्यन्तेत्यर्थः ॥ त्रयस्त्रिंशदधिकशततमोऽध्यायः ॥ 133 ॥

अध्यायः 134

पाण्डवानामायुष्यकथनम् ॥ 1 ॥ माद्र्या मैथुनप्रवृत्तस्य पाण्डोर्मरणम् ॥ 2 ॥ पाण्डवप्रलापः ॥ 3 ॥ माद्र्याः सहगमनम् ॥ 4 ॥ मृतस्य पाण्डोर्दहनादिसंस्कारः ॥ 5 ॥

`जनमेजय उवाच ।
कस्मिन्वयसि संप्राप्ताः पाण्डवा गजसाह्वयम् ।
समपद्यन्त देवेभ्यस्तेषामायुश्च किं परम् ॥
वैशंपायन उवाच ।
पाण्डवानामिहायुष्यं शृणु कौरवनन्दन ।
जगाम हास्तिनपुरं षोडशाब्दो युधिष्ठिरः ॥
भीमसेनः पञ्चदशो बीभत्सुर्वै चतुर्दशः ।
त्रयोदशाब्दौ च यमौ जग्मतुर्नागसाह्वयम् ॥
तत्र त्रयोदशाब्दानि धार्तराष्ट्रैः सहोषिताः ।
षण्मासाञ्जातुषगृहान्मुक्ता जातो घटोत्कचः ॥
षण्मासानेकचक्रायां वर्षं पाञ्चालके गृहे ।
धार्तराष्ट्रैः सहोषित्वा पञ्च वर्षाणि भारत ॥
इन्द्रप्रस्थे वसन्तस्ते त्रीणि वर्षाणि विंशतिम् ।
द्वादशाब्दानथैकं च बभूवुर्द्यूतनिर्जिताः ॥
भुक्त्वा षट्त्रिंशतं राजन्सागरान्तां वसुन्धराम् ।
मासैः षड्भिर्महात्मानः सर्वे कृष्णपरायणाः ॥
राज्ये परीक्षितं स्थाप्य दिष्टां गतिमवाप्नुवन् ।
एवं युधिष्ठिरस्यासीदायुरष्टोत्तरं शतम् ॥
अर्जुनात्केशवो ज्येष्ठस्त्रिभिर्मासैर्महाद्युतिः ।
कृष्णात्संकर्षणो ज्येष्ठस्त्रिभिर्मासैर्महाबलः ॥
पाण्डुः पञ्चमहातेजास्तान्पश्यन्पर्वते सुतान् ।
रेमे स काश्यपयुतः पत्नीभ्यां सुभृशं तदा ॥
सुपुष्पितवने काले प्रवृत्ते मधुमाधवे ।
पूर्णे चतुर्दशे वर्षे फल्गुनस्य च धीमतः ॥
यस्मिन्नृक्षे समुत्पन्नः पार्थस्तस्य च धीमतः ।
तस्मिन्नुत्तरफल्गुन्यां प्रवृत्ते स्वस्तिवाचने ॥
रक्षणे विस्मृता कुन्ती व्यग्रा ब्राह्मणभोजने । पुरोहितेन सहितान्ब्राह्मणान्पर्यवेषयत् ॥'
वैशंपायन उवाच ।
दर्शनीयांस्ततः पुत्रान्पाण्डुः पञ्च महावने ।
तान्पश्यन्पर्वते रम्ये स्वबाहुबलमाश्रितः ॥
सुपुष्पितवने काले कदाचिन्मधुमाधवे ।
भूतसंमोहने राजा सभार्यो व्यचरद्वनम् ॥
पलाशैस्तिलकैश्चूतैश्चम्पकैः पारिभद्रकैः ।
अन्यैश्च बहुभिर्वृक्षैः फलपुष्पसमृद्धिभिः ॥
जलस्थानैश्च विविधैः पद्मिनीभिश्च शोभितम् ।
पाण्डोर्वनं तत्संप्रेक्ष्य प्रजज्ञे हृदि मन्मथः ॥
प्रहृष्टमनसं तत्र विचरन्तं यथाऽमरम् ।
तं माद्र्यनुजगामैका वसनं बिभ्रती शुभम् ॥
समीक्षमाणः स तु तां वयःस्थां तनुवाससम् ।
तस्य कामः प्रवृते गहनेऽग्निरिवोद्गतः ॥
रहस्येकां तु तां दृष्ट्वा राजा राजीवलोचनाम् ।
न शशाक नियन्तुं तं कामं कामवशीकृतः ॥
`अथ सोऽष्टादशे वर्षे ऋतौ माद्रमलङ्कृताम् । आजुहाव ततः पाण्डुः परीतात्मा यशस्विनीम् ॥'
तत एनां बलाद्राजा निजग्राह रहोगताम् ।
वार्यमाणस्तया देव्या विस्फुरन्त्या यथाबलम् ॥
स तु कामपरीतात्मा तं शापं नान्वबुध्यत ।
माद्रीं मैथुनधर्मेण सोऽन्वगच्छद्बलादिव ॥
जीवितान्ताय कौरव्य मन्मथस्य वशं गतः ।
शापजं भयमुत्सृज्य विधिना संप्रचोदितः ॥
तस्य कामात्मनो बुद्धिः साक्षात्कालेन मोहिता ।
संप्रमथ्येन्द्रियग्रामं प्रनष्टा सह चेतसा ॥
स तया सह संगम्य भार्यया कुरुनन्दनः ।
पाण्डुः परमधर्मात्मा युयुजे कालधर्मणा ॥
ततो माद्री समालिङ्ग्य राजानं गतचेतसम् ।
मुमोच दुःखजं शब्दं पुनः पुनरतीव हि ॥
सह पुत्रैस्ततः कुन्ती माद्रीपुत्रौ च पाण्डवौ ।
आजग्मुः सहितास्तत्र यत्र राजा तथागतः ॥
ततो माद्र्यब्रवीद्राजन्नार्ता कुन्तीमिदं वचः ।
एकैव त्वमिहागच्छ तिष्ठन्त्वत्रैव दारकाः ॥
तच्छ्रुत्वा वचनं तस्यास्तत्रैवाधाय दरकान् ।
हता ।हमिति विक्रुश्च सहसैवाजगाम सा ॥
दृष्ट्वा पाण्डुं च माद्रीं च शयानौ धरणीतले ।
कुन्ती शोकपरीताङ्गी विललाप सुदुःखिता ॥
रक्ष्यमाणो मया नित्यं वीरः सततमात्मवान् ।
कथं त्वामत्यतिक्रान्तः शापं जानन्वनौकसः ॥
ननु नाम त्वया माद्रि रक्षितव्यो नराधिपः ।
सा कथं लोभितवती विजने त्वं नराधिपम् ॥
कथं दीनस्य सततं त्वामासाद्य रहोगताम् ।
तं विचिन्तयतः शापं प्रहर्षः समजायत ॥
धन्या त्वमसि बाह्लीकि मत्तो भाग्यतरा तथा ।
दृष्टवत्यसि यद्वक्त्रं प्रहृष्टस्य महीपतेः ॥
माद्र्युवाच ।
विलपन्त्या मया देवि वार्यमाणेन चासकृत् ।
आत्मा न वारितोऽनेन सत्यं दिष्टं चिकीर्षुणा ॥
`वैशंपायान उवाच ।
तस्यास्तद्वचनं श्रुत्वा कुन्ती शोकाग्निदीपिता ।
पपात सहसा भूमौ छिन्नमूल इव द्रुमः ॥
निश्चेष्टा पतिता भूमौ मोहेन न चचाल सा ।
तस्मिन्क्षणे कृतस्नानमहताम्बरसंवृतम् ॥
अलङ्कारकृतं पाण्डुं शयानं शयने शुभे ।
कुन्तीमुत्थाप्य माद्री तु मोहेनाविष्टचेतनाम् ॥
आर्ये एहीति तां कुन्तीं दर्शयामास कौरव ।
पादयोः पतिता कुन्ती पुनरुत्थाय भूमिपम् ॥
रक्तचन्दनदिग्धांङ्गं महारजनवाससम् ।
सस्मितेन च वक्त्रेण वदन्तमिव भारतम् ॥
परिरभ्य ततो मोहाद्विललापाकुलेन्द्रिया ।
माद्री चापि समालिङ्ग्य राजानं विललाप सा ॥
तं तथा शायिनं पुत्रा ऋषयः सह चारणैः ।
अभ्येत्य सहिताः सर्वे शोकादश्रूण्यवर्तयन् ॥
अस्तं गतमिवादित्यं संशुष्कमिव सागरम् ।
दृष्ट्वा पाण्डुं नरव्याघ्रं शोचन्ति स्म महर्षयः ॥
समानशोका ऋषयः पाण्डवाश्च बभूविरे ।
ते समाश्वासिते विप्रैर्विलेपतुरनिन्दिते ॥
कुन्त्युवाच ।
हा राजन्कस्य नो हित्वा गच्छसि त्रिदशालयम् ।
हा राजन्मम मन्दायाः कथं माद्रीं समेत्य वै ॥
निधनं प्राप्तवान्राजन्मद्भाग्यपरिसंक्षयात् ।
युधिष्ठिरं भीमसेनमर्जुनं च यमावुभौ ॥
कस्य हित्वा प्रियान्पुत्रान्प्रयातोऽसि विशांपते ।
नूनं त्वां त्रिदशा देवाः प्रतिनन्दन्ति भारत ॥
यतो हि तप उग्रं वै चरितं ब्रह्मसंसदि ।
आवाभ्यां सहितो राजन्गमिष्यसि दिवं शुभम् ॥
आजमीढाजमीढानां कर्मणा चरतां गतिम् ।
ननु नाम सहावाभ्यां गमिष्यामीति यत्त्वया ॥
प्रतिज्ञाता कुरुश्रेष्ठ यदाऽस्मि वनमागता । आवाभ्यां चैव सहितो गमिष्यसि विशांपते ।
मुहूर्तं क्षम्यतां राजन्द्रक्ष्येऽहं च मुखं तव ॥
वैशंपायन उवाच ।
विलपित्वा भृशं चैव निःसंज्ञे पतिते भुवि ।
यथा हते मृगे मृग्यौ लुब्धैर्वनगते तथा ॥
युधिष्ठिरमुखाः सर्वे पाण्डवा वेदपरागाः ।
तेऽभ्यागत्य पितुर्मूले निःसंज्ञाः पतिता भुवि ॥
पाण्डोः पादौ परिष्वज्य विलपन्ति स्म पाण्डवाः ।
हा विनष्टाः स्म तातेति हा अनाथा भवामहे ॥
त्वद्विहीना महाप्राज्ञ कथं जीवाम बालकाः ।
लोकनाथस्य पुत्राः स्मो न सनाथा भवामहे ॥
क्षणेनैव महाराज अहो लोकस्य चित्रता ।
नास्मद्विधा राजपुत्रा अधन्याः सन्ति भारत ॥
त्वद्विनाशाच्च राजेन्द्र राज्यप्रस्खलनात्तदा ।
पाण्डवाश्च वयं सर्वे प्राप्ताः स्म व्यसनं महत् ॥
किं करिष्यामहे राजन्कर्तव्यं च प्रसीदताम् ।
भीमसेन उवाच ।
हित्वा राज्यं च भोगांश्च शतशृङ्गनिवासिना ॥
त्वया लब्धाः स्म राजेन्द्र महता तपसा वयम् ।
हित्वा मानं वनं गत्वा स्वयमाहृत्य भक्षणम् ॥
शाकमूलफलैर्वन्यैर्भरणं वै त्वया कृतम् ।
पुत्रानुत्पाद्य पितरो यमिच्छ्ति महातम्नः ॥
त्रिवर्गफलमिच्छन्तस्तस्य कालोऽयमागतः ।
अभुक्त्वैव फलं राजन्गन्तुं नार्हसि भारत ॥
इत्येवमुक्त्वा पितरं भीमोऽपि विललाप ॥
अर्जुन उवाच ।
प्रनष्टं भारतं वंशं पाण्डुना पुनरुद्धृतम् ।
तस्मिंस्तदा वनगते नष्टं राज्यमराजकम् ॥
पुनर्निःसारितं क्षत्रं पाण्डुपुत्रैश्च पञ्चभिः ।
एतच्छ्रुत्वाऽनुमोदित्वा गन्तुमर्हसि शङ्कर ॥
इत्येवमुक्त्वा पितरं विललाप धनञ्जयः ।
यमावूचतुः ।
दुःसहं च तपः कृत्वा लब्ध्वा नो भरतर्षभ ॥
पुत्रलाभस्य महतः शुश्रूषादिफलं त्वया ।
न चावाप्तं किंचिदेव पुरा दशरथो यथा ॥
एवमुक्त्वा यमौ चापि विलेपतुरथातुरौ ॥'
कुन्त्युवाच ।
अहं ज्येष्ठा धर्मपत्नी ज्येष्ठं धर्मफलं मम ।
अवश्यं भाविनो भावान्मा मां माद्रि निवर्तय ॥
अन्विष्यामीह भर्तारमहं प्रेतवशं गतम् ।
उत्तिष्ठ त्वं विसृज्यैनमिमान्रक्षस्व दारकान् ॥
`अवाप्य पुत्रांल्लब्धार्थान्वीरपत्नीत्वमर्थये ।
वैशंपायन उवाच ।
मद्रराजसुता कुन्तीमिदं वचनमब्रवीत् ॥'
अहमेवानुयास्यामि भर्तारमपलापिनम् ।
न हि तृप्ताऽस्मि कामानां ज्येष्ठा मामनुमन्यताम् ॥
मां चाभिगम्य क्षीणोऽयं कामाद्भरतसत्तमः ।
समुच्छिद्यामि तत्कामं कथं नु यमसादने ॥
`मम हतोर्हि राजाऽयं दिवं राजर्पिसत्तमः ।
न चैव तादृशी बुद्धिर्बान्धवाश्च न तादृशाः ॥
न चोत्सहे धारयितुं प्राणान्भर्त्रा विना कृता ।
तस्मात्तमनुयास्यामि यान्तं वैवस्वतक्षयम् ॥
वर्तेयं न समां वृत्तिं जात्वहं न सुतेषु ते ।
तथाहि वर्तमानां मामधर्मः संस्पृशेन्महान् ॥
तस्मान्मे सुतयोर्देवि वर्तितव्यं स्वपुत्रवत् । अन्वेष्यामि च भर्तारं व्रजन्तं यमसादनम् ॥'
मां हि कामयमानोऽयं राजा प्रेतवशं गतः ।
राज्ञः शरीरेण सह मामपीदं कलेवरम् ॥
दग्धव्यं सुप्रतिच्छन्नं त्वेतदार्ये प्रियं कुरु । दारकेष्वप्रमत्ता त्वं भवेश्चाभिहिता मया ।
अतोऽहं न प्रपश्यामि संदेष्टव्यं हितं तव ॥
`वैशंपायन उवाच ।
ऋषयस्तान्समाश्वास्य पाण्डवान्सत्यविक्रमान् ।
ऊचुः कुन्तीं च माद्रीं च समाश्वास्य तपस्विनः ॥
सुभगे बालपुत्रा तु न मर्तव्यं तथंचन ।
पाण्डवांश्चापि नेष्यामः कुरुराष्ट्रं परन्तपान् ॥
अधर्मेष्वर्थजातेषु धृतराष्ट्रश्च लोभवान् ।
स कदाचिन्न वर्तेत पाण्डवेषु यथाविधि ॥
कुन्त्याश्च वृष्णयो नाथाः कुन्तिभोजस्तथैव च ।
माद्र्याश्च बलिनांश्रेष्ठः शल्यो भ्राता महारथः ॥
भर्त्रा तु मरणं सार्धं फलवन्नात्र संशयः ।
युवाभ्यां दुष्करं चैतद्वदन्ति द्विजपुङ्गवाः ॥
मृते भर्तरि साध्वी स्त्री ब्रह्मचर्यव्रते स्थिता ।
यमैश्च नियमैः पूता मनोवाक्कायजैः शुभा ॥
भर्तारं चिन्तयन्ती सा भर्तारं निस्तरेच्छुभा ।
तारितश्चापि भर्ता स्यादात्मा पुत्रस्तथैव च ॥
तस्माञ्जीवितमेवैतद्युवयोर्विद्म शोभनम् ॥
कुन्त्युवाच ।
यथा पाण्डोस्तु निर्देशस्तथा विप्रगणस्य च ।
आज्ञा शिरसि निक्षिप्ता करिष्यामि च तत्तथा ॥
यदाद्दुर्भगवन्तोऽपि तन्मन्ये शोभनं परम् ।
भर्तुश्च मम पुत्राणामात्मनश्च न संशयः ॥
माद्र्युवाच ।
कुन्ती समर्था पुत्राणां योगक्षेमस्य धारणे ।
अस्या हि न समा बुद्ध्या यद्यपि स्यादरुन्धती ॥
कुन्त्याश्च वृष्णयो नाथाः कुन्तिभोजस्तथैव च ।
नाहं त्वमिव पुत्राणां समर्था धारणे तथा ॥
साऽहं भर्तारमन्विष्ये संतृप्ता नापि भोगतः ।
भर्तृलोकस्य तु ज्येष्ठा देवी मामनुमन्यताम् ॥
धर्मज्ञस्य कृतज्ञस्य सत्यसन्धस्य धीमतः ।
पादौ परिचरिष्यामि तथार्याऽद्यानुमन्यताम् ॥
वैशंपायन उवाच ।
एवमुक्त्वा तदा राजन्मद्रराजसुता शुभा ।
ददौ कुन्त्यै यमौ माद्री शिरसाऽभिप्रणम्य च ॥
अभिवाद्य महर्षीन्सा परिष्वज्य च पाण्डवान् ।
मूर्ध्न्युपाघ्राय बहुशः पार्थानात्मसुतौ तदा ॥
हस्ते युधिष्ठिरं गृह्य माद्री वाक्यमभाषत ।
कुन्ती माता अहं धात्री युष्माकं तु पिता मृतः ॥
युधिष्ठिरः पिता ज्येष्ठश्चतुर्णां धर्मतः सदा ।
वृद्धाद्युपासनासक्ताः सत्यधर्मपरायणाः ॥
तादृशा न विनश्यन्ति नैव यान्ति पराभवम् ।
तस्मात्सर्वे कुरुध्वं वै गुरुवृत्तिमतन्द्रिताः ॥
वैशंपायन उवाच ।
ऋषीणां च पृथायाश्च नमस्कृत्य पुनःपुनः ।
आयासकृपणा माद्री प्रत्युवाच पृथां तदा ॥
माद्र्युवाच ।
ऋषीणां संनिधावेषां यथा वागभ्युदीरिता ।
दिदृक्षमाणायाः स्वर्गं न ममैषा वृथा भवेत् ॥
धन्या त्वमसि वार्ष्णेयि नास्ति स्त्री सदृशी त्वया ।
वीर्यं तेजश्च योगं च माहात्म्यं च यशस्विनाम् ॥
कुन्ति द्रक्ष्यसि पुत्राणां पञ्चानाममितौजसाम् ।
आर्या चाप्यभिवाद्या च मम पूज्या च सर्वतः ॥
ज्येष्ठा वरिष्ठा त्वं देवि भूषिता स्वगुणैः शुभैः ।
अभ्यनुज्ञातुमिच्छामि त्वया यावनन्दिनि ॥
धर्मं स्वर्गं च कीर्तिं च त्वत्कृतेऽहमवाप्नुयाम् ।
यथा तथा विधत्स्वेह मा च कार्षीर्विचारणां ॥
वैशंपायन उवाच ।
बाष्पसंदिग्धया वाचा कुन्त्युवाच यशस्विनी ।
अनुज्ञाताऽसि कल्याणि त्रिदिवे सङ्गमोऽस्तु ते ॥
भर्त्रा सह विशालिक्षि क्षिप्रमद्यैव भामिनि ।
संगतास्वर्गलोके त्वं रमेथाः शाश्वतीः समाः ॥
वैशंपायन उवाच ।
ततः पुरोहितः स्नात्वा प्रेतकर्मणि पारगः ।
हिरण्यशकलानाज्यं तिलं दधि च तण्डुलान् ॥
उदकुम्भांश्च परशुं समानीय तपस्विभिः ।
अश्वमेधाग्निमाहृत्य यथान्यायं समन्ततः ॥
काश्यपः कारयामास पाण्डोः प्रेतस्य तां क्रियाम् ।
पुरोहितोक्तविधिना पाण्डोः पुत्रो युधिष्ठिरः ॥
तेनाग्निनाऽदहत्पाण्डुं कृत्वा चापि क्रियास्तदा ।
रुदञ्छोकाभिसंतप्तः पपात भुवि पाण्डवः ॥
ऋषीन्पुत्रान्पृथां चैव विसृज्य च नृपात्मज ।' नमस्कृत्य चिताग्निस्थं धर्मपत्नी नरर्षभम् ॥
मद्रराजसुता तूर्णमन्वारोहद्यशस्विनी ॥
`अहताम्बरसंवीतो भ्रातृभिः सहितोऽनघः ।
उदकं कृतवांस्तत्र पुरोहितमते स्थितः ॥
अर्हतस्तस्य कृत्यानि शतशृङ्गनिवासिनः ।
तापसा विधिवच्चक्रुश्चारणा ऋषिभिः सह ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि चतुस्त्रिंशदधिकशततमोऽध्यायः ॥ 134 ॥

1-134-15 मधुभाधवे चैत्रवैशाखयोः संधौ तदात्मके वसन्ते ॥ 1-134-19 वयः स्थां युवतीम् । तनुवाससं सूक्ष्मवस्त्रां किंचिद्विवृताङ्गामित्यर्थः ॥ 1-134-23 कामपरीतात्मा कामेन व्याप्तचित्तः ॥ 1-134-25 बुद्दिर्भयनिश्चयः । चेतसा विचारेण ॥ 1-134-26 कालधर्मणा मृत्युना ॥ 1-134-28 तथागतः मृतः ॥ 1-134-32 त्वामत्यतिक्रान्तो बलादाक्रान्तवान् । शोकाकुलत्वादतिशब्दस्याभ्यासः ॥ 1-134-34 प्रहर्षः कामः ॥ 1-134-36 आत्मा चित्तम् । दिष्टं शापजं दुरदृष्टम् ॥ 1-134-69 प्रेतवशं प्रेतराजवशम् । अन्विष्याम्यनुगमिष्यामि ॥ चतुस्त्रिंशदधिकशततमोऽध्यायः ॥ 134 ॥

अध्यायः 135

पाण्डवैः सह ऋषीणां हस्तिनापुरगमनम् ॥ 1 ॥ पाण्डुवृत्तान्तकथनपूर्वकं पाण्डवान्भीष्माय समर्प्य ऋषीणां प्रतिनिवर्तनम् ॥ 2 ॥

वैशंपायन उवाच ।
पाण्डोरुपरमं दृष्ट्वा देवकल्पा महर्षयः ।
ततो मन्त्रविदः सर्वे मन्त्रयांचक्रिरे मिथः ॥
तापसा ऊचुः ।
हित्वा राज्यं च राष्ट्रं च स महात्मा महायशाः ।
अस्मिंस्थाने तपस्तप्त्वा तापसाञ्शरणं गतः ॥
स जातमात्रान्पुत्रांश्च दारांश्च भवतामिह ।
प्रादायोपनिधिं राजा पाण्डुः स्वर्गमितो गतः ॥
तस्येमानात्मजान्देहं भार्यां च सुमहात्मनः ।
स्वराष्ट्रं गृह्य गच्छामो धर्म एष हि नः स्मृतः ॥
वैशंपायन उवाच ।
ते परस्परमामन्त्र्य देवकल्पा महर्षयः ।
पाण्डोः पुत्रान्पुरस्कृत्य नगरं नागसाह्वयम् ॥
उदारमनसः सिद्धा गमने चक्रिरे मनः ।
भीष्माय पण्डवान्दातुं धृतराष्ट्राय चैव हि ॥
तस्मिन्नेव क्षणे सर्वे तानादाय प्रतस्थिरे ।
पाण्डोर्दारांश्च पुत्रांश्च शरीरे ते च तापसाः ॥
सुखिनी सा पुरा भूत्वा सततं पुत्रवत्सला ।
प्रपन्ना दीर्घमध्वानं संक्षिप्तं तदमन्यत ॥
सा त्वदीर्घेण कालेन संप्राप्ता कुरुजाङ्गलम् ।
वर्धमानपुरद्वारमाससाद यशस्विनी ॥
द्वारिणं तापसा ऊचू राजानं च प्रकाशय ।
ते तु गत्वा क्षणेनैव सभायां विनिवेदिताः ॥
तं चारणसहस्राणां मुनीनामागमं तदा ।
श्रुत्वा नागपुरे नॄणां विस्मयः समपद्यत ॥
मुहूर्तोदित आदित्ये सर्वे बालपुरस्कृताः ।
सदारास्तापसान्द्रष्टुं निर्ययुः पुरवासिनः ॥
स्त्रीसङ्घाः क्षत्रसङ्घाश्च यानसङ्घसमास्थिताः ।
ब्राह्मणैः सह निर्जग्मुर्ब्राह्मणानां च योषितः ॥
तथा विट्शूद्रसङ्घानां महान्यतिकरोऽभवत् ।
न कश्चिदकरोदीर्ष्यामभवन्धर्मबुद्धयः ॥
तथा भीष्मः शान्तनवः सोमदत्तो ।ञथ बाह्लिकः ।
प्रज्ञाचक्षुश्च राजर्षिः क्षत्ता च विदुरः स्वयम् ॥
सा च सत्यवती देवी कौसल्या च यशस्विनी ।
राजदारैः परिवृता गान्धारी चापि निर्ययौ ॥
धृतराष्ट्रस्य दायादा दुर्योधनपुरोगमाः ।
भूषिता भूषणैश्चित्रैः शतसङ्ख्या विनिर्ययुः ॥
तान्महर्षिगणान्दृष्ट्वा शिरोभिरभिवाद्य च ।
उपोपविविशुः सर्वे कौरव्याः सपुरोहिताः ॥
तथैव शिरसा भूमावभिवाद्य प्रणम्य च ।
उपोपविविशुः सर्वे पौरजानपदा अपि ॥
तमकूजमभिज्ञाय जनौघं सर्वशस्तदा ।
पूजयित्वा यथान्यायं पाद्येनार्घ्येण च प्रभो ॥
भीष्मो राज्यं च राष्ट्रं च महर्षिभ्यो न्यवेदयत् । तेषामथो वृद्धतमः प्रत्युत्थाय जटाजिनी ।
ऋषीणां मतमाज्ञाय महर्षिरिदमब्रवीत् ॥
यः स कौरव्यदायादः पाण्डुर्नाम नराधिपः ।
कामभोगान्परित्यज्य शतशृङ्गमितो गतः ॥
`राजा भोगान्परित्यज्य तपस्वी संबभूव ह ।
स यथोक्तं तपस्तेपे पत्रमूलफलाशनः ॥
पत्नीभ्यां सह धर्मात्मा संचित्कालमतन्द्रितः ।
तेन वृत्तसमाचारैस्तपसा च तपस्विनः ॥
तोषितास्तापसास्तत्र शतशृङ्गनिवासिनः ।
स्वर्गलोकं गन्तुकामं तापसाः संनिवार्य तम् ॥
उद्यन्तं सह पत्नीभ्यां विप्रा वचनमब्रुवन् ।
अनपत्यस्य राजेन्द्र पुण्या लोका न सन्ति ते ॥
तस्माद्धर्मं च वायुं च महेन्द्रं च तथाऽश्विनौ ।
आराधयस्व राजेन्द्र पत्नीभ्यां सह देवताः ॥
प्रीताः पुत्रान्प्रदास्यन्ति ऋणमुक्तो भविष्यसि ।
तपसा दिव्यचक्षुष्ट्वात्पश्यामस्ते तथा सुतान् ॥
अस्माकं वचनं श्रुत्वा देवानाराधयत्तदा ।' ब्रह्मचर्यव्रतस्थस्य तस्य दिव्येन हेतुना ॥
साक्षाद्धर्मादयं पुत्रस्तत्र जातो युधिष्ठिरः ।
तथैनं बलिनां श्रेष्ठं तस्य राज्ञो महात्मनः ॥
मातरिश्वा ददौ पुत्रं भीमं नाम महाबलम् ।
पुरन्दरादयं जज्ञे कुन्त्यां सत्यपराक्रमः ॥
`अस्मिञ्जाते महेष्वासे पृथामिन्द्रस्तदाऽब्रवीत् ।
मत्प्रसादादयं जातः कुन्ति सत्यपराक्रमः ॥
अजेयानपि जेताऽरीन्देवतादीन्न संशयः ।' यस्य कीर्तिर्महेष्वासान्सर्वानभिभविष्यति ॥
`युधिष्ठिरो राजसूयं भ्रातृवीर्यादवाप्स्यति ।
एष जेता मनुष्यांश्च सर्वान्गन्धर्वराक्षसान् ॥
एष दुर्योधनादीनां कौरवाणां च जेष्यति ।
वीरस्यैतस्य विक्रान्तैर्धर्मपुत्रो युधिष्ठिरः ॥
यक्ष्यते राजसूयाद्यैर्धर्म एव परः सदा ।' यौ तु माद्री महेष्वासावसूत पुरुषोत्तमौ ॥
अश्विभ्यां पुरुषव्याघ्राविमौ तावपि तिष्ठतः । `नकुलः सहदेवश्च तावप्यमिततेजसौ ॥'
चरता धर्मनित्येन वनवासं यशस्विना ।
एष पैतामहो वंशः पाण्डुना पुनरुद्धृतः ॥
पुत्राणां जन्म वृद्धिं च वैदिकाध्ययनानि च ।
पश्यन्तः सततं पाण्डोः परां प्रीतिमवाप्स्यथ ॥
वर्तमानः सतां वृत्ते पुत्रलाभमवाप च ।
पितृलोकं गतः पाण्डुरितः सप्तदशेऽहनि ॥
तं चितागतमाज्ञाय वैश्वानरमुखे हुतम् ।
प्रविष्टा पावकं माद्री हित्वा जीवितमात्मनः ॥
सा गता सह तेनैव पतिलोकमनुव्रता । तस्यास्तस्य च यत्कार्यं क्रियतां तदनन्तरम् ॥'
पृथां च शरणं प्राप्तां पाण्डवांश्च यशस्विनः ।
यथावदनुमन्यन्तां धर्मो ह्येष सनातनः ॥
इमे तयोः शरीरे द्वे पुत्राश्चेमे तयोर्वराः ।
क्रियाभिरनुगृह्यन्तां सह मात्रा परंतपाः ॥
प्रेतकार्ये निवृत्ते तु पितृमेधं महायशाः ।
लभतां सर्वधर्मज्ञः पाण्डुः कुरुकुलोद्वहः ॥
वैशंपायन उवाच ।
एवमुक्त्वा कुरून्सर्वान्कुरूणामेव पश्यताम् ।
क्षणेनान्तर्हिताः सर्वे तापसा गुह्यकैः सह ॥
गन्धर्वनगराकारं तथैवान्तर्हितं पुनः ।
ऋषिसिद्धगणं दृष्ट्वा विस्मयं ते परं ययुः ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि पञ्चत्रिंशदधिकशततमोऽध्यायः ॥ 135 ॥

1-135-4 देहं देहयोरस्थीनि ॥ 1-135-8 तद्गमनं संक्षिप्तममन्यत मुनीनां योगप्रभावात् स्वदेशगमनौत्कण्ठ्याद्वा ॥ 1-135-9 वर्धमानपुरद्वारं मुख्यद्वारम् ॥ 1-135-11 आरण्यानां सहस्रसंख्यानां मुनीनां चेति योज्यम् ॥ 1-135-14 व्यतिकरः संघर्षः ॥ 1-135-20 अकूजं निःशब्दम् ॥ 1-135-45 प्रेतकार्ये सपण्डीकरणान्ते । पितृमेधं यज्ञविशेषम् । वृषोत्सर्गादिकं वा ॥ 1-135-47 गन्धर्वनगरं खपुरम् ॥ पञ्चत्रिंशदधिकशततमोऽध्यायः ॥ 135 ॥

अध्यायः 136

पाण्डोरस्थिसंस्काराद्यन्त्येष्टिविधिः ॥ 1 ॥

धृतराष्ट्र उवाच ।
पाण्डोर्विदुर सर्वाणि प्रेतकार्याणि कारय ।
राजवद्राजसिंहस्य माद्र्याश्चैव विशेषतः ॥
पशून्वासांसि रत्नानि धनानि विविधानि च ।
पाण्डोः प्रयच्छ माद्र्याश्च येभ्यो यावच्च वाञ्छितम् ॥
यथा च कुन्ती सत्कारं कुर्यान्माद्र्यास्तथा कुरु ।
यथा न वायुर्नादित्यः पश्येतां तां सुसंवृताम् ॥
न शोच्यः पाण्डुरनघः प्रशस्यः स नराधिपः ।
यस्य पञ्च सुता वीरा जाताः सुरसुतोपमाः ॥
वैशंपायन उवाच ।
विदुरस्तं तथेत्युक्त्वा भीष्मेण सह भारत ।
पाण्डुं संस्कारयामास देशे परमपूजिते ॥
ततस्तु नगरात्तूर्णमाज्यगन्धपुरस्कृताः ।
निर्हृताः पावका दीप्ताः पाण्डो राजन्पुरोहितैः ॥
अथैनामार्तवैः पुष्पैर्गन्धैश्च विविधैर्वरैः ।
शिबिकां तामलङ्कृत्य वाससाऽऽच्छाद्य सर्वशः ॥
तां तथा शोभितां माल्यैर्वासोभिश्च महाधनैः ।
अमात्या ज्ञातयश्चैनं सुहृदश्चोपतस्थिरे ॥
नृसिंहं नरयुक्तेन परमालङ्कृतेन तम् ।
अवहन् यानमुख्येन सह माद्र्या सुसंवृतम् ॥
पाण्डुरेणातपत्रेण चामरव्यजनेन च ।
सर्ववादित्रनादैश्च समलञ्चक्रिरे ततः ॥
रत्नानि चाप्युपादाय बहूनि शतशो नराः ।
प्रददुः काङ्क्षमाणेभ्यः पाण्डोस्तस्यौर्ध्वदेहिके ॥
अथ च्छत्राणि शुभ्राणि चामराणि बृहन्ति च ।
आजह्रुः कौरवस्यार्थे वासांसि रुचिराणि च ॥
याजकैः शुक्लवासोभिर्हूयमाना हुताशनाः ।
अगच्छन्नग्रतस्तस्य दीप्यमानाः स्वलङ्कृताः ॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव सहस्रशः ।
रुदन्तः शोकसंतप्ता अनुजग्मुर्नराधिपम् ॥
अयमस्मानपाहाय दुःखे चाधाय शाश्वते ।
कृत्वा चास्माननाथांश्च क्व यास्यति नराधिपः ॥
क्रोशन्तः पाण्डवाः सर्वे भीष्मो विदुर एव च ।
`बाह्लीकः सोमदत्तश्च तथा भूरिश्रवा नृपः ॥
अन्योन्यं वै समाश्लिष्य अनुजग्मुः सहस्रशः ।' रमणीये वनोद्देशे गङ्गातीरे समे शुभे ॥
न्यासयामासुरथं तां शिबिकां सत्यवादिनः ।
सभार्यस्य नृसिंहस्य पाण्डोरक्लिष्टकर्मणः ॥
ततस्तस्य शरीरं तु सर्वगन्धाधिवासितम् ।
शुचिकालीयकादिग्धं दिव्यचन्दनरूषितम् ॥
पर्यषिञ्चञ्जलेनाशु शातकुम्भमयैर्घटैः ।
चन्दनेन च शुक्लेन सर्वतः समलेपयन् ॥
कालागुरुविमिश्रेण तथा तुङ्गरसेन च ।
अथैनं देशजैः शुक्लैर्वासोभिः समयोजयन् ॥
संछन्नः स तु वासोभिर्जीवन्निव नराधिपः ।
शुशुभे स नव्याघ्रो महार्हशयनोचितः ॥
`हयमेधाग्निना सर्वे याजकाः सपुरोहिताः । वेदोक्तेन विधानेन क्रियांचक्रुः समन्त्रकम् ॥'
याजकैरभ्यनुज्ञाते प्रेतकर्मण्यनिष्ठिते ।
घृतावसिक्तं राजानं सह माद्र्या स्वलङ्कृतम् ॥
तुङ्गपद्मकमिश्रेण चन्दनेन सुगन्धिना ।
`सरलं देवदारुं च गुग्गुलं लाक्षया सह ॥
हरिचन्दनकाष्ठैश्च हरिबेरैरुशीरकैः ।' अन्यैश्च विविधैर्गन्धैर्विधिना समदाहयन् ॥
ततस्तयोः शरीरे द्वे दृष्ट्वा मोहवशं गता ।
हाहा पुत्रेति कौसल्या पपात सहसा भुवि ॥
तां प्रेक्ष्य पतितामार्तां पौरजानपदो जनः ।
रुरोद दुःखसंतप्तो राजभक्त्या कृपाऽन्वितः ॥
कुन्त्याश्चैवार्तनादेन सर्वाणि च विचुक्रुशुः ।
मानुषैः सह भूतानि तिर्यग्योनिगतान्यपि ॥
तथा भीष्मः शान्तनवो विदुरश्च महामतिः ।
सर्वशः कौरवाश्चैव प्राणदन्भृशदुःखिताः ॥
ततो भीष्मोऽथ विदुरो राजा च सह पाण्डवैः ।
उदकं चक्रिरे तस्य सर्वाश्च कुरुयोषितः ॥
चुक्रुशुः पाण्डवाः सर्वे भीष्मः शान्तनवस्तथा ।
विदुरो ज्ञातयश्चैव चक्रुश्चाप्युदकक्रियाः ॥
कृतोदकांस्तानादाय पाण्डवाञ्छोककर्शितान् ।
सर्वाः प्रकृतयो राजञ्शोचमाना न्यवारयन् ॥
यथैव पाण्डवा भूमौ सुषुपुः सह बान्धवैः ।
तथैव नागरा राजञ्शिश्यिरे ब्राह्मणादयः ॥
तद्गतानन्दमस्वस्थमाकुमारमहृष्टवत् ।
बभूव पाण्डवैः सार्धं नगरं द्वादश क्षपाः ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि षट््त्रिंशदधिकशततमोऽध्यायः ॥ 136 ॥

1-136-19 कालीयकादिग्धं कृष्णागुरुलिप्तम् ॥ 1-136-25 तुङ्गपद्मकौ गन्धद्रव्यविशेषौ ॥ षट््त्रिंशदधिकशततमोऽध्यायः ॥ 136 ॥

अध्यायः 137

पाण्डोः श्राद्धदानम् ॥ 1 ॥ कुमाराणां क्रीडावर्णनम् ॥ 2 ॥ क्रीडायां भीमेन दुर्योधनादीनां पराभवः ॥ 3 ॥ दुर्योधनेन प्रमाणकोट्यां पातनं, सर्पैर्दंशनं, विषमिश्रभक्ष्यदानम् ॥ 4 ॥

वैशंपायन उवाच ।
ततः क्षत्ता च भीष्मश्च व्यासो राजा च बन्धुभिः ।
ददुः श्राद्धं तदा पाण्डोः स्वधामृतमयं तदा ॥
`पुरोहितसहायास्ते यथान्यायमकुर्वत ।' कुरूंश्च विप्रमुख्यांश्च भोजयित्वा सहस्रशः ।
रत्नौघान्द्विजमुख्येभ्यो दत्त्वा ग्रामवरांस्तथा ॥
कृतशौचांस्ततस्तांस्तु पाण्डवान्भरतर्षभान् ।
आदाय विविशुः सर्वे पुरं वारणसाह्वयम् ॥
सततं स्मानुशोचन्तस्तमेव भरतर्षभम् ।
पौरजानपदाः सर्वे मृतं स्वमिव बान्धवम् ॥
श्राद्धावसाने तु तदा दृष्ट्वा तं दुःखितं जनम् ।
संमूढां दुःखशोकार्तां व्यासो मातरमब्रवीत् ॥
अतिक्रान्तसुखाः कालाः पर्युपस्थितदारुणाः ।
श्वःश्वः पापिष्ठदिवसाः पृथिवी गतयौवना ॥
बहुमायासमाकीर्णो नानादोषसमाकुलः ।
लुप्तधर्मक्रियाचारो घोरः कालो भविष्यति ॥
कुरूणामनयाच्चापि पृथिवी न भविष्यति ।
गच्छ त्वं योगमास्थाय युक्ता वस तपोवने ॥
माद्राक्षीस्त्वं कुलस्यास्य घोरं संक्षयमात्मनः ।
तथेति समनुज्ञाय सा प्रविश्याब्रवीत्स्नुषाम् ॥
अम्बिक तव पौत्रस्य दुर्नयात्किल भारताः ।
सानुबन्धा विनङ्क्ष्यन्ति पौराश्चैवेति नः श्रुतम् ॥
तत्कौसल्यामिमामार्तां पुत्रशोकाभिपीडिताम् ।
वनमादाय भद्रं ते गच्छावो यदि मन्यसे ॥
तथेत्युक्ता त्वम्बिकया भीष्ममामन्त्र्य सुव्रता ।
वनं ययौ सत्यवती स्नुषाभ्यां सह भारत ॥
ताः सुघोरं तपस्तप्त्वा देव्यो भरतसत्तम ॥
देहं त्यक्त्वा महाराज गतिमिष्टां ययुस्तदा ॥
वैशंपायन उवाच ।
अथाप्तवन्तो वेदोक्तान्संस्कारान्पाण्डवास्तदा ।
संव्यवर्धन्त भोगांस्ते भुञ्जानाः पितृवेश्मनि ॥
धार्तराष्ट्रैश्च सहिताः क्रीडन्तो मुदिताः सुखम् ।
बालक्रीडासु सर्वासु विशिष्टास्तेजसाऽभवन् ॥
जवे लक्ष्याभिहरणे भोज्ये पांसुविकर्षणे ।
धार्तराष्ट्रान्भीमसेनः सर्वान्स परिमर्दति ॥
हर्षात्प्रक्रीडमानांस्तान् गृह्य राजन्निलीयते ।
शिरःसु विनिगृह्यैतान्योजयामास पाण्डवैः ॥
शतमेकोत्तरं तेषां कुमाराणां महौजसाम् ।
एक एव निगृह्णाति नातिकृच्छ्राद्वृकोदरः ॥
कचेषु च निगृह्यैनान्विनिहत्य बलाद्बली ।
चकर्ष क्रोशतो भूमौ घृष्टजानुशिरोंसकान् ॥
दश बालाञ्जले क्रीडन्भुजाभ्यां परिगृह्य सः ।
आस्ते स्म सलिले मग्नो मृतकल्पान्विमुञ्चति ॥
फलानि वृक्षमारुह्य विचिन्वन्ति च ये तदा ।
तदा पादप्रहारेण भीमः कम्पयते द्रुमान् ॥
प्रहारवेगाभिहता द्रुमा व्याघूर्णितास्ततः ।
सफलाः प्रपतन्ति स्म द्रुमात्स्रस्ताः कुमारकाः ॥
`केचिद्भग्नशिरोरस्काः केचिद्भग्नकटीमुखाः । निपेतुर्भ्रातरः सर्वे भीमसेनभुजार्दिताः ॥'
न ते नियुद्धे न जवे न योग्यासु कदाचन ।
कुमारा उत्तरं चक्रुः स्पर्धमाना वृकोदरम् ॥
एवं स धार्तराष्ट्रांश्च स्पर्धमानो वृकोदरः ।
अप्रियेऽतिष्ठदत्यन्तं बाल्यान्न द्रोहचेतसा ॥
ततो बलमतिख्यातं धार्तराष्ट्रः प्रतापवान् ।
भीमसेनस्य तज्ज्ञात्वा दुष्टभावमदर्शयत् ॥
तस्य धर्मादपेतस्य पापानि परिपश्यतः ।
मोहादैश्वर्यलोभाच्च पापा मतिरजायत ॥
अयं बलवतां श्रेष्ठः कुन्तीपुत्रो वृकोदरः ।
मध्यमः कुन्तिपुत्राणां निकृत्या सन्निगृह्यतां ॥
प्राणवान्विक्रमी चैव शौर्येण महताऽन्वितः ।
स्पर्धते चापि सहितानस्मानेको वृकोदरः ॥
तं तु सुप्तं पुरोद्याने गङ्गायां प्रक्षिपामहे ।
अथ तस्मादवरजं श्रेष्ठं चैव युधिष्ठिरम् ॥
प्रसह्य बन्धने बद्ध्वा प्रशासिष्ये वसुन्धराम् । एवं स निश्चयं पापः कृत्वा दुर्योधनस्तदा ।
नित्यमेवान्तरप्रेक्षी भीमस्यासीन्महात्मनः ॥
ततो जलविहारार्थं कारयामास भारत ।
चैलकम्बलवेश्मानि विचित्राणि महान्ति च ॥
सर्वकामैः सुपूर्णानि पताकोच्छ्रायवन्ति च ।
तत्र संजनयामास नानागाराण्यनेकशः ॥
उदकक्रीडनं नाम कारयामास भारत ।
प्रमाणकोट्यां तं देशं स्थलं किंचिदुपेत्यह ॥
`क्रीडावसाने ते सर्वे शुचिवस्त्राः स्वलङ्कृताः ।
सर्वकामसमृद्धं तदन्नं बुभुजिरे शनैः ॥
दिवसान्ते परिश्रान्ता विहृत्य च कुरूद्वहाः ।
विहारावसथेष्वेव वीरा वासमरोचयन् ॥
खिन्नस्तु बलवान्भीमो व्यायामाभ्यधिकस्तदा ।
वाहयित्वा कुमारांस्ताञ्जलक्रीडागतान्विभुः ॥
प्रमाणकोट्यां वासार्थं सुष्वापारुह्य तत्स्थलम् ।
शीतं वासं समासाद्य शान्तो मदविमोहितः ॥
निश्चेष्टः पाण्डवो राजन्सुष्वाप मृतवत्क्षितौ ।
ततो बद्ध्वा लतापाशैर्भीमं दुर्योधनः शनैः ॥
प्रमाणकोट्यां संसुप्तं गङ्गायां प्राक्षिपज्जले ।
ततः प्रबुद्धः कौन्तेयः सर्वान्संछिद्य बन्धनान् ॥
उदतिष्ठद्बलाद्भूयो भीमः प्रहरतां वरः ।
स विमुक्तो महातेजा नाज्ञासीत्तेन तत्कृतम् ॥
पुनर्निद्रावशं प्राप्तस्तत्रैव प्रास्वपद्बली । अर्धरात्र्यां व्यतीतायामुत्तस्थुः कुरुपाण्जवाः ।
दुर्योधनस्तु कौन्तेयं दृष्ट्वा निर्वेदमभ्यगात् ॥
सुप्तं चापि पुनः सर्पैस्तीक्ष्णदंष्ट्रैर्महाविषैः ।
कुपितैर्दंशयामास सर्वेष्वेवाङ्गसन्धिषु ॥
दंष्ट्राश्च दंष्ट्रिणां मर्मस्वपि तेन निपातिताः ।
त्वचं न चास्य बिभिदुः सारत्वात्पृथुपक्षसः ॥
प्रबुद्धो भीसेनस्तान्सर्वान्सर्पानपोथयत् ।
सारथिं चास्य दयितमपहस्तेन जघ्निवान् ॥
तथान्यदिवसे राजन्हन्तुकामोऽत्यमर्षणः ।
वलनेन सहामन्त्र्य सौबलस्य मते स्थितः ॥
भोजने भीमसेनस्य ततः प्राक्षेपयद्विषम् ।
कालकूटं विषं तीक्ष्णं संभृतं रोमहर्षणम् ॥
तच्चापि भुक्त्वाऽजरदॉयदविकारो वृकोदरः ।
विकारं नाभ्यजनयत्सुतीक्ष्णमपि तद्विषम् ॥
भीमसंहननो भीमस्त्समादजरयद्विषम् ।
ततोऽन्यदिवसे राजन्हन्तुकामो वृकोदरम् ॥
सौबलेन सहायेन धार्तराष्ट्रोऽभ्यचिन्तयत् ।
चिन्तयन्नालभन्निद्रां दिवारात्रमतन्द्रितः ॥
एवं दुर्योधनः कर्णः शकुनिश्चापि सौबलः ।
अनेकैरप्युपायैस्ताञ्जिघांसन्ति स्म पाण्डवान् ॥
वैश्या पुत्रस्तदाचष्ट पार्थानां हितकाम्यया । पाण्डवा ह्यपि तत्सर्वं प्रत्यजानन्नरिन्दमाः ।
उद्भावनमकुर्वन्तो विदुरस्य मते स्थिताः ॥' ॥

इति श्रीमन्महाभाऱते आदिपर्वणि संभवपर्वणि सप्तत्रिंशदधिकशततमोऽध्यायः ॥ 137 ॥

1-137-6 श्वःश्वः पूर्वपूर्वदिनापेक्षया उत्तरमुत्तरं पापिष्ठण् । गतयौवना सम्यक्फलसून्या ॥ 1-137-8 योगं चित्तवृत्तिनिरोधं प्रयाणोद्योगंवा । युक्ता समाहिता ॥ 1-137-24 योग्यासु क्रियास्विति शेषः । उत्तरमुत्कर्षम् ॥ 1-137-28 निकृत्या कपटेन ॥ 1-137-29 प्राणवान् बलवान् ॥ 1-137-31 प्रसह्य बलात्कारेण ॥ 1-137-34 प्रमाणकोट्यां गङ्गायां प्रदेशविशेषे । स्थलं किंचिदर्धं जलेऽर्धं स्थले च क्रीडागारम् ॥ 1-137-46 वलनेन तन्नामकेन सहचरेण ॥ सप्तत्रिंशदधिकशततमोऽध्यायः ॥ 137 ॥

अध्यायः 138

पुनर्भीमाय विषमिश्रभक्ष्यदानम् ॥ 1 ॥ शूलकीलितायां शमाणकोट्यां पुनर्भीमसेनस्य पातनम् ॥ 2 ॥ पाताललोकं प्राप्तस्य भीमस्य वासुकिदत्तरसपानम् ॥ 3 ॥

`वैशंपायन उवाच ।
ततस्ते मन्त्रयामासुर्दुर्योधनपुरोगमाः ।
प्राणवान्विक्रमी चापि शौर्ये च महति स्थितः ॥
स्पर्धते चापि सततमस्मानेव वृकोदरः ।
तं तु सुप्तं पुरोद्याने जले शूले क्षिपामहे ॥
ततो जलविहारार्थं कारयामास भारत । प्रमाणकोट्यामुद्देशे स्थलं किंचिदुपेत्य ह ॥'
भक्ष्यं भोज्यं च पेयं च चोष्यं लेह्यमथापि च ।
उपपादितं नरैस्तत्र कुशलैः सूदकर्मणि ॥
न्यवेदयंस्तत्पुरुषा धार्तराष्ट्राय वै तदा ।
ततो दुर्योधनस्तत्र पाण्डवानाह दुर्मतिः ॥
गङ्गां चैवानुयास्याम उद्यानवनशोभिताम् ।
सहिता भ्रातरः सर्वे जलक्रीडामवाप्नुमः ॥
एवमस्त्विति तं चापि प्रत्युवाच युधिष्ठिरः ।
ते रथैर्नगराकारैर्देशजैश्च गजोत्तमैः ॥
निर्ययुर्नगराच्छूराः कौरवाः पाण्डवैः सह ।
उद्यानवनमासाद्य विसृज्य च महाजनम् ॥
विशन्ति स्म तदा वीराः सिंहा इव गिरेर्गुहाम् ।
उद्यानमभिपश्यन्तो भ्रातरः सर्व एव ते ॥
उपस्थानगृहैः शुभ्रैर्वलभीभिश्च शोभितम् ।
गवाक्षकैस्तथा जालैर्यन्त्रैः सांचारिकैरपि ॥
संमार्जितं सौधकारैश्चित्रकारैश्च चित्रितम् ।
दीर्घिकाभिश्च पूर्णाभिस्तथा पुष्करिणीषु च ॥
जलं तच्छुशुभे च्छन्नं फुल्लैर्जलरुहैस्तथा ।
उपच्छन्ना वसुमती तथा पुष्पैर्यथर्तुकैः ॥
तत्रोपविष्टास्ते सर्वे पाण्डवाः कौरवाश्च ह ।
उपच्छन्नान्बहून्कामांस्ते भुञ्जन्ति ततस्ततः ॥
अथोद्यानवरे तस्मिंस्तथा क्रीडागताश्चते ।
परस्परस्य वक्त्रेषु ददुर्भक्ष्यांस्ततस्ततः ॥
ततो दुर्योधनः पापस्तद्भक्ष्ये कालकूटकम् ।
विषं प्रक्षेपयामास भीमसेनजिघांसया ॥
स्वयमुत्थाय चैवाथ हृदयेन क्षुरोपमः ।
स वाचाऽमृतकल्पश्च भ्रातृवच्च सुहृद्यथा ॥
स्वयं प्रक्षिपते भक्ष्यं बहु भीमस्य पाकृत् ।
प्रभक्षितं च भीमेन तं वै दोषमजानता ॥
ततो दुर्योधनस्तत्र हृदयेन हसन्निव ।
कृतकृत्यमीवात्मानं मन्यते पुरुषाधमः ॥
ततस्ते सहिताः सर्वे जलक्रीडामकुर्वत ।
पाण्डवा धार्तराष्ट्राश्च तदा मुदितमानसाः ॥
विहारावसथेष्वेव वीरा वासमरोचयन् ।
भीमस्तु बलवान्भुक्त्वा व्यायामाभ्यधिकं जले ॥
वाहयित्वा कुमारांस्ताञ्जलक्रीडागतांस्तदा ।
प्रमाणकोट्यां वासार्थी सुष्वापावाप्य तत्स्थलम् ॥
शीतं वातं समासाद्य श्रान्तो मदविमोहितः ।
विषेण च परीताङ्गो निश्चेष्टः पाण्डुनन्दनः ॥
ततो बद्ध्वा लतापाशैर्भीमं दुर्योधनः स्वयम् ।
`शूलान्यप्सु निखायाशु प्रादेशाभ्यन्तराणि च ॥
लतापाशैर्दृढं बद्धं स्थलाज्जलमपातयत् ।
सशेषत्वान्न संप्राप्तो जले शूलिनि पाण्डवः ॥
पपात यत्र तत्रास्य शूलं नासीद्यदृच्छया ।' स निःसंज्ञो जलस्यान्तमवाग्वै पाण्डवोऽविशत् ।
आक्रामन्नागभवने तदा नागकुमारकान् ॥
ततः समेत्य बहुभिस्तदा नागैर्महाविषैः ।
अदश्यत भृशं भीमो महादंष्ट्रैर्विपोल्बणैः ॥
ततोऽस्य दश्यमानस्य तद्विषं कालकूटकम् ।
हतं सर्पविषेणैव स्थावरं जङ्गमेन तु ॥
दंष्ट्राश्च दंष्ट्रिणां तेषां मर्मस्वपि निपातिताः ।
त्वचं नैवास्य बिभिदुः सारत्वात्पृथुवक्षसः ॥
ततः प्रबुद्धः कौन्तेयः सर्वं संछिद्य बन्धनम् ।
पोथयामास तान्सर्पान्केचिद्भीताः प्रदुद्रुवुः ॥
हतावशेषा भीमेन सर्वे वासुकिमभ्ययुः ।
ऊचुश्च सर्पराजानं वासुकिं वासवोपमम् ॥
अयं नरो वै नागरेन्द्र ह्यप्सु बद्ध्वा प्रवेशितः ।
यथा च नो मतिर्व्रीर विषपीतो भविष्यति ॥
निश्चेष्टोऽस्माननुप्राप्तः स च दष्टोऽन्वबुध्यत ।
ससंज्ञश्चापि संवृत्तश्छित्त्वा बन्धनमाशु नः ॥
पोथयन्तं महाबाहुं त्वं वै तं ज्ञातुमर्हसि ।
ततो वासुकिरभ्येत्य नागैरनुगतस्तदा ॥
पश्यति स्म महाबाहुं भीमं भीमपराक्रमम् ।
आर्यकेण च दृष्टः स पृथाया आर्यकेम च ॥
तदा दौहित्रदौहित्रः परिष्वक्तः सुपीडितम् ।
सुप्रीतश्चाभवत्तस्य वासुकिः स महायशाः ॥
अब्रवीत्तं च नागेन्द्रः किमस्य क्रियतां प्रियम् ।
धनौघो रत्ननिचयो वसु चास्य प्रदीयताम् ॥
एवमुक्तस्तदा नागो वासुकिं प्रत्यभाषत ।
यदि नागेन्द्र तुष्टोऽसि किमस्य धनसंचयैः ॥
रसं पिबेत्कुमारोऽयं त्वयि प्रीते महाबलः ।
बलं नागसहस्रस्य यस्मिन्कुण्डे प्रतिष्ठितम् ॥
यावत्पिबति बालोऽयं तावदस्मै प्रदीयताम् ।
एवमस्त्विति तं नागं वासुकिः प्रत्यभाषत ॥
ततो भीमस्तदा नागैः कृतस्वस्त्ययनः शुचिः ।
प्राङ्मुखश्चोपविष्टश्च रसं पिबति पाण्डवः ॥
एकोच्छ्वासात्ततः कुण्डं पिबति स्म महाबलः ।
एवमष्टौ स कुण्डानि ह्यपिबत्पाण्डुनन्दनः ॥
ततस्तु शयने दिव्ये नागदत्ते महाभुजः ।
अशेत भीमसेनस्तु यथासुखमरिंदमः ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि अष्टत्रिंशदधिकशततमोऽध्यायः ॥ 138 ॥

1-138-10 उपस्थानगृहैः यत्र राजानं कार्यिणः शूराश्चोपतिष्ठन्ति तैर्गृहैः । वलभीभिरुभयतो नमत्पक्षाभिः स्तम्भशालाभिः । यन्त्रैर्जलयन्त्रैः शतधारादिभिः । यतो युगपच्छतं धारा उच्छलन्त्यो नीहारीभूय भवनोदरं व्याप्नुवन्ति । सांचारिकैः संचारयोग्यैः ॥ 1-138-11 दीर्घिकाभिः कुल्याभिः ॥ 1-138-13 उपच्छन्नानुपागतान् ॥ 1-138-31 विषपीतः पीतविषः ॥ 1-138-34 आर्यकेण नागराजेन । पृथाया आयकेण मातामहेन । कुन्तिभोजद्वारायं संबन्ध इति गम्यते ॥ 1-138-35 दौहित्रदौहित्र इति त्वार्यकनागस्य दौहित्रः शूरस्तद्दौहित्रो भीम इत्यविरुद्धमेतत् । अन्ये तु शूरमातामह एवोपचारात कुन्तीमातामहोऽपीत्याहुः ॥ 1-138-38 रसं साधितपारदम् ॥ अष्टत्रिंशदधिकशततमोऽध्यायः ॥ 138 ॥

अध्यायः 139

भीममनागतं दृष्ट्वा खिन्नायाः कुन्त्या विदुरेण संवादः ॥ 1 ॥ रसपानेन नागायुतबलवता भीमेन हस्तिनापुरप्रत्यागमनम् ॥ 2 ॥ भीष्मेण धनुर्वेदशिक्षणार्थं कुमाराणां कृपाय निवेदनम् ॥ 3 ॥

वैशंपायन उवाच ।
`दुर्योधनस्तु पापात्मा भीममाशीविषहदे ।
प्रक्षिप्य कृतकृत्यं स्वमात्मानं मन्यते तदा ॥
प्रभातायां रजन्यां च प्रविवेश पुरं ततः । ब्रुवाणो भीमसेनस्तु यातो ह्यग्रत एव नः ॥'
युधिष्ठिरस्तु धर्मात्मा ह्यविदन्पापमात्मनि ।
स्वेनानुमानेन परं साधुं समनुपश्यति ॥
सोऽभ्युपेत्य तदा पार्थो मातरं भ्रातृवत्सलः ।
अभिवाद्याब्रवीत्कुन्तीमम्ब भीम इहागतः ॥
क्व गतो भविता मातर्नेह पश्यामि तं शुभे ।
उद्यानानि वनं चैव विचितानि समन्ततः ॥
तदर्थं न च तं वीरं दृष्टवन्तो वृकोदरम् ।
मन्यमानास्ततः सर्वे यातो नः पूर्वमेव सः ॥
आगताः स्म महाभागे व्याकुलेनान्तरात्मना ।
इहागम्य क्व नु गतस्त्वया वा प्रेषितः क्व नु ॥
कथयस्व महाबाहुं भीमसेनं यशस्विनि ।
नहि मे शुध्यते भावस्तं वीरं प्रति शोभने ॥
यतः प्रसुप्तं मन्येऽहं भीम् नेति हतस्तु सः ।
इत्युक्ता च ततः कुन्ती धर्मराजेन धीमता ॥
हाहेति कृत्वा संभ्रान्ता प्रत्युवाच युधिष्ठिरम् ।
न पुत्र भीमं पश्यामि न मामभ्येत्यसाविति ॥
शीघ्रमन्वेषणे यत्नं कुरु तस्यानुजैः सह ।
द्रुतं गत्वा पुरोद्यानं विचिन्वन्तिस्म पाण्डवाः ॥
भीमभीमेति ते वाचा पाण्डवाः समुदैरयन् ।
विचिन्वन्तोऽथ ते सर्वे न स्म पश्यन्ति भ्रातरम् ॥
आगताः स्वगृहं भूय इदमूचुः पृथां तदा ।
न दृश्यते महाबाहुरम्ब भीमो वने चितः ॥
विचितानि च सर्वाणि ह्युद्यानानि नदीस्तथा ।
वैशंपायन उवाच ।
ततो विदुरमानाय्य कुन्ती सा स्वं निवेशनम् ॥
उवाच बलवान्क्षत्तर्भीमसेनो न दृश्यते ॥
उद्यानान्निर्गताः सर्वे भ्रातरो भ्रातृभिः सह ।
तत्रैकस्तु महाबाहुर्भीमो नाभ्येति मामिह ॥
न च प्रीणयते चक्षुः सदा दुर्योधनस्य सः ।
क्रूरोऽसौ दुर्मतिः क्षुद्रो राज्यलुब्धोऽनपत्रपः ॥
निहन्यादपि तं वीरं जातमन्युः सुयोधनः ।
तेन मे व्याकुलं चित्तं हृदयं दह्यतीव च ॥
विदुर उवाच ।
मैवं वदस्व कल्याणि शेषसंरक्षणं कुरु ।
प्रत्यादिष्टो हि दुष्टात्मा शेषेऽपि प्रहरेत्तव ॥
दीर्घायुषस्तव सुता यथोवाच महामुनिः ।
आगमिष्यति ते पुत्रः प्रीतिं चोत्पादयिष्यति ॥
वैशंपायन उवाच ।
एवमुक्त्वा ययौ विद्वान्विदुरः स्वं निवेशनम् ।
कुन्ती चिन्तापरा भूत्वा सहासीना सुतैर्गृहे ॥
ततोऽष्टमे तु दिवसे प्रत्यबुध्यत पाण्डवः ।
तस्मिंस्तदा रसे जीर्णे सोऽप्रमेयबलो बली ॥
तं दृष्ट्वा प्रतिबुध्यन्तं पाण्डवं ते भुजङ्गमाः ।
सान्त्वयामासुरव्यग्रा वचनं चेदमब्रुवन् ॥
यत्ते पीतो महाबाहो रसोऽयं वीर्यसंभृतः ।
तस्मान्नागायुतबलो रणेऽधृष्यो भविष्यसि ॥
गच्छाद्य त्वं च स्वगृहं स्नातो दिव्यैरिमैर्जलैः ।
भ्रातरस्तेऽनुतप्यन्ति त्वां विना कुरुपुङ्गव ॥
ततः स्नातो महाबाहुः शुचिशुक्लाम्बरस्रजः ।
ततो नागस्य भवने कृतकौतुकमङ्गलः ॥
ओषधीभिर्विषघ्नीभिः सुरभीभिर्विशेषतः ।
भुक्तवान्परमान्नं च नागैर्दत्तं महाबलः ॥
पूजितो भुजगैर्वीर आशीर्भिश्चाभिनन्दितः ।
दिव्याभरणसंछन्नो नागानामन्त्र्य पाण्डवाः ॥
उदतिष्ठत्प्रहृष्टात्मा नागलोकादरिन्दमः ।
उत्क्षिप्य च तदा नागैर्जलाज्जलरुहेक्षणः ॥
तस्मिन्नेव वनोद्देशे स्थापितः कुरुनन्दनः ।
ते चान्तर्दधिरे नागाः पाण्डवस्यैव पश्यतः ॥
तत उत्थाय कौन्तेयो भीमसेनो महाबलः ।
आजगाम महाबाहुर्मातुरन्तिकमञ्जसा ॥
ततोऽभिवाद्य जननीं ज्येष्ठं भ्रातरमेव च ।
कनीयसः समाघ्राय शिरस्स्वरिविमर्दनः ॥
तैश्चापि संपरिष्वक्तः सह मात्रा नरर्षभैः ।
अन्योन्यगतसौहार्दाद्दिष्ट्या दिष्ट्येति चाब्रुवन् ॥
ततस्तत्सर्वमाचष्ट दुर्योधनविचेष्टितम् ।
भ्रातॄणां भीमसेनश्च महाबलपराक्रमः ॥
नागलोके च यद्वृत्तं गुणदोषमशेषतः ।
तच्च सर्वमशेषेण कथयामास पाण्डवः ॥
ततो युधिष्ठिरो राजा भीममाह वचोऽर्थवत् ।
तूष्णीं भव न ते जल्प्यमिदं कार्यं कथंचन ॥
इतःप्रभृति कौन्तेयं रक्षतान्योन्यमादृताः ।
एवमुक्त्वा महाबाहुर्धर्मराजो युधिष्ठिरः ॥
भ्रातृभिः सहितः सर्वैरप्रमत्तोऽभवत्तदा ।
यदा त्ववगतास्ते वै पाण्डवास्तस्य कर्म तत् ॥
नत्वेव बहुलं चक्रुः प्रयता मन्त्ररक्षणे ।
धर्मात्मा विदुरस्तेषां प्रददौ मतिमान्मतिम् ॥
दुर्योधनोऽपि तं दृष्ट्वा पाण्डवं पुनरागतम् ।
निश्वसंश्चिन्तयंश्चैवमहन्यहनि तप्यते ॥
कुमारान्क्रीडमानांस्तान्दृष्ट्वा राजातिदुर्मदान् ।
गुरुं शिक्षार्थमन्विष्य गौतमं तान्न्यवेदयत् ॥
शरस्तम्बे समुद्भूतं वेदशास्त्रार्थपारगम् । `राज्ञा निवेदितास्तस्मै ते च सर्वे च निष्ठिताः ।'
अधिजग्मुश्च कुरवो धनुर्वेदं कृपात्तु ते ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि ऊनचत्वारिंशदधिकशततमोऽध्यायः ॥ 139 ॥

1-139-8 भावश्चित्तं न शुध्यते जीवतीति न मनुते ॥ 1-139-19 प्रत्यादिष्टः कुतो भीमं हतवानसीत्युपालब्धः ॥ 1-139-41 तान्कुरुबालकान् न्यवेदयत् ॥ ऊनचत्वारिंशदधिकशततमोऽध्यायः ॥ 139 ॥

अध्यायः 140

कृपद्रोणाश्वत्थामाचार्याणामुत्पत्तिः ॥ 1 ॥ द्रोणाचार्यस्य परशुरामादस्त्रलाभः ॥ 2 ॥

जनमेजय उवाच ।
कृपस्यापि मम ब्रह्मन्संभवं वक्तुमर्हसि ।
शरस्तम्बात्कथं जज्ञे कथं वाऽस्त्राण्यवाप्तवान् ॥
वैशंपायन उवाच ।
महर्षेर्गौतमस्यासीच्छरद्वान्नाम गौतमः ।
पुत्रः किल महाराज जातः सहशरैर्विभो ॥
न तस्य वेदाध्ययने तथा बुद्धिरजायत ।
यथास्य बुद्धिरभवद्धनुर्वेदे परन्तप ॥
अधिजग्मुर्यथा वेदास्तपसा ब्रह्मचारिणः ।
तथा स तपसोपेतः सर्वाण्यस्त्राण्यवाप ह ॥
धनुर्वेदपरत्वाच्च तपसा विपुलेन च ।
भृशं सन्तापयामास देवराजं स गौतमः ॥
ततो जालवतीं नाम देवकन्यां सुरेश्वरः ।
प्राहिणोत्तपसो विघ्नं कुरु तस्येति कौरव ॥
सा हि गत्वाऽऽश्रमं तस्य रमणीयं शरद्वतः ।
धनुर्बाणधरं बाला लोभयामास गौतमम् ॥
तामेकवसनां दृष्ट्वा गौतमोऽप्सरसं वने ।
लोकेऽप्रतिमसंस्थानां प्रोत्फुल्लनयनोऽभवत् ॥
धनुश्च हि शरास्तस्य कराभ्यामपतन्भुवि ।
वेपथुश्चास्य सहसा शरीरे समजायत ॥
स तु ज्ञानगरीयस्त्वात्तपसश्च समर्थनात् ।
अवतस्थे महाप्राज्ञो धैर्येण परमेण ह ॥
यस्तस्य सहसा राजन्विकारः समदृश्यत ।
तेन सुस्राव रेतोऽस्य स च तन्नान्वबुध्यत ॥
धनुश्च सशरं त्यक्त्वा तथा कृष्णाजिनानि च ।
स विहायाश्रमं तं च तां चैवाप्सरसं मुनिः ॥
जगाम रेतस्तत्तस्य शरस्तम्बे पपात च ।
शरस्तम्बे च पतितं द्विधा तदभवन्नृप ॥
तस्याथ मिथुं जज्ञे गौतमस्य शरद्वतः । `महर्षेर्गौतमस्यास्य ह्याश्रमस्य समीपतः ॥'
मृगयां चरतो राज्ञः शान्तनोस्तु यदृच्छया ॥
कश्चित्सेनाचरोऽरण्ये मिथुनं तदपश्यत ।
धनुश्च सशरं दृष्ट्वा तथा कृष्णाजिनानि च ॥
ज्ञात्वा द्विजस्य चापत्ये धनुर्वेदान्तगस्य ह ।
स राज्ञे दर्शयामास मिथुनं सशरं धनुः ॥
स तदादाय मिथुनं राजा च कृपयान्वितः ।
आजगाम गृहानेव मम पुत्राविति ब्रुवन् ॥
ततः संवर्धयामास संस्कारैश्चाप्ययोजयत् ।
प्रातिपेयो नरश्रेष्ठो मिथुनं गौतमस्य तत् ॥
कृपया यन्मया बालाविमौ संवर्धिताविति । तस्मात्तयोर्नाम चक्रे तदेव स महीपतिः ।
`तस्मात्कृप इति ख्यातः कृपी कन्या च साऽभवत् ॥'
पितापि गौतमस्तत्र तपसा ताववन्दित ।
आगत्य तस्मै गोत्रादि सर्वमाख्यातवांस्तदा ॥
`कृपोऽपि च तदा राजन्धनुर्वेदपरोऽभवत् ।' चतुर्विधं धनुर्वेदं शास्त्राणि विविधानि च ॥
निशिलेनास्य तत्सर्वं गुह्यमाख्यातवान्पिता ।
सोऽचिरेणैव कालेन परमाचार्यतां गतः ॥
कृपमाहूय गाङ्गेयस्तव शिष्या इति ब्रुवन् ।
पौत्रान्परिसमाधाय कृपमाराधयत्तदा ॥
ततोऽधिजग्मुः सर्वे ते धनुर्वेदं महारथाः ।
धृतराष्ट्रात्मजाश्चैव पाण्डवाः सह यादवैः ॥
वृष्णयश्च नृपाश्चान्ये नानादेशसमागताः । `कृपमाचार्यमासाद्य परमास्त्रज्ञतां गतः ।'
वैशंपायन उवाच ।
विशेषार्थी ततो भीष्मः पौत्राणां विनयेप्सया ॥
इष्वस्त्रज्ञान्पर्यपृच्छदाचार्यान्वीर्यसंमतान् ।
नाल्पधीर्नामहाभागस्तथा नानस्त्रकोविदः ॥
नादेवसत्वो विनयेत्कुरूनस्त्रे महावलान् ।
इति संचिन्त्य गाङ्गेयस्तदा भरतसत्तमः ॥
द्रोणाय वेदविदुषे भारद्वाजाय धमते ।
पाण्डवान्कौरवांश्चैव ददौ शिष्यान्नरर्षभ ॥
शास्त्रतः पूजितश्चैव सम्यक्तेन महात्मना ।
स भीष्मेण महाभागस्तुष्टोऽस्त्रविदुषां वरः ॥
प्रतिजग्राह तान्सर्वाञ्शिष्यत्वेन महायशाः ।
शिक्षयामास च द्रोणो धनुर्वेदमशेषतः ॥
तेऽचिरेणैव कालेन सर्वशस्त्रविशारदाः ।
बभूवुः कौरवा राजन्पाण्डवाश्चामितौजसः ॥
जनमेजय उवाच ।
कथं समभवद्द्रोणः कथं चास्त्राण्यवाप्तवान् ।
कथं चागात्कुरून्ब्रह्मन्कस्य पुत्रः स वीर्यवान् ॥
कथं चास्य सुतो जातः सोश्वत्थामाऽस्त्रवित्तमः ।
एतदिच्छाम्यहं श्रोतुं विस्तरेण प्रकीर्तय ॥
वैशंपायन उवाच ।
गङ्गाद्वारं प्रति महान्बभूव भगवानृषिः ।
भरद्वाज इति ख्यातः सततं संशितव्रतः ॥
सोऽभिषेक्तुं गतो गङ्गां पूर्वमेवागतां सतीम् ।
महर्षिभिर्भरद्वाजो हविर्धाने चरन्पुरा ॥
ददर्शाप्सरसं साक्षाद्धृताचीमाप्लुतामृषिः ।
रूपयौवनसंपन्नां मददृप्तां मदालसाम् ॥
तस्या वायुर्नदीतीर वसनं पर्यवर्तत ।
व्यपकृष्टाम्बरां दृष्ट्वा तामृषिश्चकमे ततः ॥
तत्र संसक्तमनसो भरद्वाजस्य धीमतः ।
हृष्टस्य रेतश्चस्कन्द तदृषिर्द्रोण आदधे ॥
ततः समभवद्द्रोणः कलशे तस्य धीमतः ।
अध्यगीष्ट स वेदांश्च वेदाङ्गानि च सर्वशः ॥
अग्नेरस्त्रमुपादाय यदृषिर्वेद काश्यपः ।
अध्यगच्छद्भरद्वाजस्तदस्त्रं देवकार्यतः ॥
अग्निवेश्यं महाभागं भरद्वाजः प्रतापवान् ।
प्रत्यपादयदाग्नेयमस्त्रमस्त्रविदां वरः ॥
`कनिष्ठजातं स मुनिर्भ्राता भ्रातरमन्तिके । अग्निवेश्यस्तथा द्रोणं तदा भरतसत्तम ।'
भारद्वाजं तदाग्नेयं महास्त्रं प्रत्यपादयत् ॥
भरद्वाजसखा चासीत्पृषतो नाम पार्थिवः ।
तस्यापि द्रुपदो नाम तथा समभवत्सुतः ॥
स नित्यमाश्रमं गत्वा द्रोणेन सह पार्थिवः ।
चिक्रीडाध्ययनं चैव चकार क्षत्रियर्षभः ॥
ततो व्यतीते पृषते स राजा द्रुपदोऽभवत् ।
पञ्चालेषु महाबाहुरुत्तरेषु नरेश्वरः ॥
भरद्वाजोऽपि भगवानारुरोह दिवं तदा ।
तत्रैव च वसन्द्रोणस्तपस्तेपे महातपाः ॥
वेदवेदाङ्गविद्वान्स तपसा दग्धकिल्बिषः ।
ततः पितृनियुक्तात्मा पुत्रलोभान्महायशाः ॥
शारद्वतीं ततो भार्यां कृपीं द्रोणोऽन्वविन्दत ।
अग्निहोत्रे च धर्मे च दमे च सतत रताम् ॥
अलभद्गौतमी पुत्रमश्वत्थामानमेव च ।
स जातमात्रो व्यनदद्यथैवोच्चैःश्रवा हयः ॥
तच्छ्रुत्वान्तर्हितं भूतमन्तरिक्षस्थमब्रवीत् ।
अश्वस्येवास्य यत्स्थाम नदतः प्रदिशो गतम् ॥
अश्वत्थामैव बालोऽयं तस्मान्नाम्ना भविष्यति ।
सुतेन तेन सुप्रीतो भारद्वाजस्ततोऽभवत् ॥
तत्रैव च वसन्धीमान्धनुर्वेदपरोऽभवत् ।
स शुश्राव महात्मानं जामदग्न्यं परंतपम् ॥
सर्वज्ञानविदं विप्रं सर्वशस्त्रभृतां वरम् ।
ब्राह्मणेभ्यस्तदा राजन्दित्सन्तं वसु सर्वशः ॥
स रामस्य धनुर्वेदं दिव्यान्यस्त्राणि चैव ह ।
श्रउत्वा तेषु मनश्चक्रे नीतिशास्त्रे तथैव च ॥
ततः स व्रतिभिः शिष्यैस्तपोयुक्तैर्महातपाः ।
वृतः प्रायान्महावाहुर्महेन्द्रं पर्वतोत्तमम् ॥
ततो महेन्द्रमासाद्य भारद्वाजो महातपाः ।
क्षत्रघ्नं तममित्रघ्नमपश्यद्भृगुनन्दनम् ॥
ततो द्रोणो वृतः शिष्यैरुपगम्य भृगूद्वहम् ।
आचख्यावात्मनो नाम जन्म चाङ्गिरसः कुले ॥
निवेद्य शिरसा भूमौ पादौ चैवाभ्यवादयत् ।
ततस्तं सर्वमुत्सृज्य वनं जिगमिषुं तदा ॥
जामदग्न्यं महात्मानं भारद्वाजोऽब्रवीदिदम् ।
भरद्वाजात्समुत्पन्नं तथा त्वं मामयोनिजम् ॥
आगतं वित्तकामं मां विद्धि द्रोणं द्विजोत्तम ।
तमब्रवीन्महात्मा स सर्वक्षत्रियमर्दनः ॥
स्वागतं ते द्विजश्रेष्ठ यदिच्छसि वदस्व मे ।
एवमुक्तस्तु रामेण भारद्वाजोऽब्रवीद्वचः ॥
रामं प्रहरतां श्रेष्ठं दित्सन्तं विविधं वसु ।
अहं धनमनन्तं हि प्रार्थये विपुलव्रत ॥
राम उवाच ।
हिरण्यं मम यच्चान्यद्वसु किंचिदिह स्थितम् ।
ब्राह्मणेभ्यो मया दत्तं सर्वमेतत्तपोधन ॥
तथैवेयं धरा देवी सागरान्ता सपत्तना ।
कश्यपाय मया दत्ता कृत्स्ना नगरमालिनी ॥
शरीरमात्रमेवाद्य ममेदमवशेषितम् ।
अस्त्राणि च महार्हाणि शस्त्राणि विविधानि च ॥
अस्त्राणि वा शरीरं वा ब्रह्मञ्शस्त्राणि वा पुनः ।
वृणीष्व किं प्रयच्छामि तुभ्यं द्रोण वदाशु तत् ॥
द्रोण उवाच ।
अस्त्राणि मे समग्राणि ससंहाराणि भार्गव ।
स प्रयोगरहस्यानि दातुमर्हस्यशेषतः ॥
`एतद्वसु वसूनां हि सर्वेषां विप्रसत्तम ।' तथेत्युक्त्वा ततस्तस्मै प्रादादस्त्राणि भार्गवः ।
सरहस्यव्रतं चैव धनुर्वेदमशेषतः ॥
प्रतिगृह्य तु तत्सर्वं कृतास्त्रे द्विजसत्तमः ।
प्रियं सखायं सुप्रीतो जगाम द्रुपदं प्रति ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि चत्वारिंशदधिकशततमोऽध्यायः ॥ 140 ॥

1-140-2 गौतमो गौत्रतः ॥ 1-140-10 समर्थनात्सामर्थ्यात् ॥ 1-140-18 प्रातिपेयः प्रतीपपुत्रः ॥ 1-140-19 संवर्धिताविति आलोच्येति शेषः ॥ 1-140-25 विनयेप्सया शिक्षेच्छया ॥ 1-140-27 अदेवसत्वः नास्ति देवस्येव सत्वं सामर्थ्यं यस्य सः ॥ 1-140-38 द्रोणे द्रोण कलशाख्ये यज्ञियपात्रविशेषे ॥ 1-140-50 स्थामशब्दः सकारस्य तत्कारादेशेऽश्वत्थामेति ॥ चत्वारिंशदधिकशततमोऽध्यायः ॥ 140 ॥

अध्यायः 141

द्रुपदसमीपं गत्वा तेन सह स्वस्य सखित्वं कथयतो द्रोणस्य द्रुपदकृतं भर्त्सनम् ॥ 1 ॥ तेन कुपितस्य द्रोणस्य हास्तिन पुरगमनम् ॥ 2 ॥ क्रीडाकाले कूपपतितयोर्विदाकन्दुकयोरुद्धरणे अशक्नुवतां कुमाराणां द्रोणकृतोऽधिक्षेपः ॥ 3 ॥ द्रोणेन वीटामुद्रिकयोः कूपादुद्धारः ॥ 4 ॥ द्रोणवृत्तान्तश्रवणेन भीष्मेण स्वगृहनिवासार्थं द्रोणं प्रति प्रार्थनम् ॥ 5 ॥

वैशंपायन उवाच ।
ततो द्रुपदमासाद्य भारद्वाजः प्रतापवान् ।
अब्रवीत्पार्थिवं राजन्सखायं विद्धि मामिह ॥
इत्येवमुक्तः सख्या स प्रीतिर्पूर्वं जनेश्वरः ।
भारद्वाजेन पाञ्चाल्यो नामृष्यत वचोऽस्य तत् ॥
स क्रोधामर्षजिह्मभ्रूः कषायीकृतलोचनः ।
ऐश्वर्यमदसंपन्नो द्रोणं राजाऽब्रवीदिदम् ॥
द्रुपद उवाच ।
अकृतेयं तव प्रज्ञा ब्रह्मन्नातिसमञ्जसा ।
यन्मां व्रवीषि प्रसभं सखा तेऽहमिति द्विज ॥
न हि राज्ञामुदीर्णानामेवंभूतैर्नरैः क्वचित् ।
सख्यं भवति मन्दात्मञ्श्रिया हीनैर्धनच्युतैः ॥
सौहृदान्यपि जीर्यन्ते कालेन परिजीर्यतः ।
सौहृदं मे त्वया ह्यासीत्पूर्वं सामर्थ्यबन्धनम् ॥
न सख्यमजरं लोके हृदि तिष्ठति कस्यचित् ।
कामश्चैतन्नाशयति क्रोधो वैनं रहत्युत ॥
मैवं जीर्णमुपास्स्व त्वं सख्यं भवदुपाधिकृत् ।
आसीत्सख्यं द्विजश्रेष्ठ त्वया मेऽर्थनिबन्धनम् ॥
न दरिद्रो वसुमतो नाविद्वान्विदुषः सखा ।
न शूरस्य सखा क्लीबः सखिपूर्वं किमिष्यते ॥
ययोरेव समं वित्तं ययोरेव समं श्रुतम् ।
तयोर्विवाहः सख्यं च न तु पुष्टविपुष्टयोः ॥
नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा ।
नाराजा पार्थिवस्यापि सखिपूर्वं किमिष्यते ॥
वैशंपायन उवाच ।
द्रुपदेनैवमुक्तस्तु भारद्वाजः प्रतापवान् ।
मुहूर्तं चिन्तयित्वा तु मन्युनाऽभिपरिप्लुतः ॥
स विनिश्चित्य मनसा पाञ्चाल्यं प्रतिबुद्धिमान् । `शिष्यैः परिवृतः श्रीमान्पुत्रेण सहितस्तथा ॥'
जगाम कुरुमुख्यानां नागरं नागसाह्वयम् ।
तां प्रतिज्ञां प्रतिज्ञाय यां कर्ता नचिरादिव ॥
स नागपुरमागम्य गौतमस्य निवेशने ।
भारद्वाजोऽवसत्तत्र प्रच्छन्नं द्विजसत्तमः ॥
ततोऽस्य तनुजः पार्थान्कृपस्यानन्तरं प्रभुः ।
अस्त्राणि शिक्षयामास नाबुध्यन्त च तं जनाः ॥
एवं स तत्र गूढात्मा कंचित्कालमुवास ह ।
कुमारास्त्वथ निष्क्रम्य समेता गजसाह्वयात् ॥
क्रीडन्तो वीटया तत्र वीराः पर्यचरन्मुदा ।
`तेषां संक्रीडमानानामुदपानेऽङ्गुलीयकम् ॥
पपात धर्मपुत्रस्य वीटा तत्रैव चापतत् ।
गर्तान्बुना प्रतिच्छन्नं तारारूपमिवाम्बरे ॥
दृष्ट्वा चैते कुमाराश्च तं यत्नात्पर्यवारयन् ।' ततस्ते यत्नमातिष्ठन्वीटामुद्धर्तुमादृताः ।
न च ते प्रत्ययद्यन्त कर्म वीटोपलब्धये ॥
ततोऽन्योन्यमवैक्षन्त व्रीडयावनताननाः ।
तस्या योगमविदन्तो भृशं चोत्कण्ठिताभवन् ॥
तेऽपश्यन्ब्राह्मणं श्याममापन्नं पलितं कृशम् ।
कृत्यवन्तमदूरस्थमग्निहोत्रपुरस्कृतम् ॥
ते तं दृष्ट्वा महातमानमुपगम्य कुमारकाः ।
भग्नोत्साहक्रियात्मानो ब्राह्मणं पर्यवारयन् ॥
अथ द्रोणः कुमारांस्तान्दृष्ट्वा कत्यवशस्तदा ।
प्रहस्य मन्दं पैशल्यादभ्यभाषत वीर्यवान् ॥
अहो वो धिग्बलं क्षात्रं धिगेतां वः कृतास्त्रताम् ।
भरतस्यान्वये जाता ये वीटां नाधिगच्छत ॥
वीटां च मुद्रिकां चैव ह्यहमेतदपि द्वयम् ।
उद्धरेयमिषीकाभिर्भोजनं मे प्रदीयताम् ॥
ततोऽब्रवीत्तदा द्रोणं कुन्तीपुत्रो युधिष्ठिरः ।
कृपस्यानुमते ब्रह्मन्भिक्षामाप्नुहि शाश्वतीम् ॥
एवमुक्तः प्रत्युवाच प्रहस्य भरतानिदम् ।
द्रोण उवाच ।
एषा मुष्टिरिषीकाणां मयाऽस्त्रेणाभिमन्त्रिता ॥
अस्या वीर्यं निरीक्षध्वं यदन्येषु न विद्यते ।
वेत्स्यामीषिकया वीटां तामिषीकां तथाऽन्यया ॥
तामन्यया समायोगे वीटाया ग्रहणं मम ।
वैशंपायन उवाच ।
ततो यथोक्तं द्रोणेन तत्सर्वं कृतमञ्जसा ॥
तदवेक्ष्य कुमारास्ते विस्मयोत्फुल्ललोचनाः ।
आश्चर्यमिदमत्यन्तमिति मत्वा वचोऽब्रुवन् ॥
मुद्रिकामणि विप्रर्षे शीध्रमेतां समुद्धरथ
वैशंपायन उवाच ।
ततः शरं समादाय धनुश्चापि महायशाः ॥
शरेण विद्ध्वा मुद्रां तामूर्ध्वमावाहयत्प्रभुः ।
स शरं समुपादाय कूपादङ्गुलिवेष्टनम् ॥
ददौ ततः कुमाराणां विस्मितानामविस्मितः ।
मुद्रिकामुद्धृतां दृष्ट्वा तमाहुस्ते कुमारकाः ॥
अभिवन्दामहे ब्रह्मन्नैतदन्येषु विद्यते ।
कोऽसि कस्यासि जानीमो वयं किं करवामहे ॥
वैशंपायन उवाच ।
एवमुक्तस्ततो द्रोणः प्रत्युवाच कुमारकान् ।
आचक्षध्वं च भीष्माय रूपेण च गुणैश्च माम् ॥
स एव सुमहातेजाः सांप्रतं प्रतिपत्स्यते ।
वैशंपायन उवाच ।
तथेत्युक्त्वा च गत्वा च भीष्ममूचुः कुमारकाः ॥
ब्राह्मणस्य वचः कृत्स्नं तच्च कर्म तथाविधम् ।
भीष्मः श्रुत्वा कुमाराणां द्रोणं तं प्रत्यजानत ॥
युक्तरूपः स हि गुरुरित्येवमनुचिन्त्य च ।
अथैनमानीय तदा स्वयमेव सुसत्कृतम् ॥
परिपप्रच्छ निपुणं भीष्मः शस्त्रभृतां वरः ।
हेतुमागमने तच्च द्रोणः सर्वं न्यवेदयत् ॥
द्रोण उवाच ।
महर्षेरग्निवेश्यस्य सकाशमहमच्युत ।
अस्त्रार्थमगमं पूर्वं धनुर्वेदजिघृक्षया ॥
ब्रह्मचारी विनीतात्मा जटिलो बहुलाः समाः ।
अवसं सुचिरं तत्र गुरुशुश्रूषणे रतः ॥
पाञ्चाल्यो राजपुत्रश्च यज्ञसेनो महाबलः ।
इष्वस्त्रहेतोर्न्यवसत्तस्मिन्नेव गुरौ प्रभुः ॥
स मे तत्र सखा चासीदुपकारी प्रियश्च मे ।
तेनाहं सह संगम्य वर्तयन्सुचिरं प्रभो ॥
बाल्यात्प्रभृति कौरव्य सहाध्ययनमेव च ।
स मे सखा सदा तत्र प्रियवादी प्रियंकरः ॥
अब्रवीदिति मां भीष्म वचनं प्रीतिवर्धनम् ।
अहं प्रियतमः पुत्रः पितुर्द्रोण महात्मनः ॥
अभिषेक्ष्यति मां राज्ये स पाञ्चाल्यो यदा तदा ।
तद्भोज्यं भवता राज्यमर्धं सत्येन ते शपे ॥
मम भोगाश्च वित्तं च त्वदधीनं सुखानि च ।
एवमुक्त्वाऽथ वव्राज कृतास्त्रः पूजितो मया ॥
तच्च वाक्यमहं नित्यं मनसा धारयंस्तदा ।
सोऽहं पितृनियोगेन पुत्रलोभाद्यशस्विनीम् ॥
शारद्वतीं महाप्रज्ञामुपयेमे महाव्रताम् ।
अग्निहोत्रे च सत्रे च दमे च सततं रताम् ॥
लेभे च गौतमी पुत्रमश्वत्थामानमौरसम् ।
भीमविक्रमकर्माणमादित्यसमतेजसम् ॥
पुत्रेण तेन प्रीतोऽहं भरद्वाजो मया यथा । गोक्षीरं पिबतो दृष्ट्वा धनिनस्तत्र पुत्रकान् ।
अश्वत्थामारुदद्बालस्तन्मे संदेहयद्दिशः ॥
न स्नातकोऽवसीदेत वर्तमानः स्वकर्मसु ।
इति संचिन्त्य मनसा तं देशं बहुशो भ्रमन् ॥
विशुद्धणिच्छन्गाङ्गेय धर्मोपेतं प्रतिग्रहम् ।
अन्तादन्तं परिक्रम्य नाध्यगच्छं पयस्विनीम् ॥
यवपिष्टोदकेनैनं लोभयेयं कुमारकम् ।
पीत्वा पिष्टरसं बालः क्षीरं पीतं मयाऽपि च ॥
ननर्तोत्थाय कौरव्य हृष्टो बाल्याद्विमोहितः ।
तं दृष्ट्वा नृत्यमानं तु बालैः परिवृतं सुतम् ॥
हास्यतामुपसंप्राप्तं कश्मलं तत्र मेऽभवत् ।
द्रोणं धिगस्त्वधनिनं यो धनं नाधिगच्छति ॥
पिष्टोदकं सुतो यस्य पीत्वा क्षीरस्य तृष्णया ।
नृत्यतिस्म मुदाविष्टः क्षीरं पीतं मयाऽप्युत ॥
इति संभाषतां वाचं श्रुत्वा मे बुद्धिरच्यवत् ।
आत्मानं चात्मना गर्हन्मनसेदं व्यचिन्तयम् ॥
अपि चाहं पुरा विप्रैर्वर्जितो गर्हितो वसे ।
परोपसेवां पापिष्ठां न च कुर्यां धनेप्सया ॥
इति मत्वा प्रियं पुत्रं भीष्मादाय ततो ह्यहम् ।
पूर्वस्नेहानुरागित्वात्सदारः सौमकिं गतः ॥
अभिषिक्तं तु श्रुत्वैव कृतार्थोऽस्मीति चिन्तयन् ।
प्रियं सखायं सुप्रीतो राज्यस्थं समुपागमम् ॥
संस्मरन्सङ्गमं चैव वचनं चैव तस्य तत् ।
ततो द्रुपदमागम्य सखइपूर्वमहं प्रभो ॥
अब्रुवं पुरुषव्याघ्र सखायं विद्धि मामिति ।
उपस्थितस्तु द्रुपदं सखिवच्चास्मि सङ्गतः ॥
स मां निराकारमिव प्रहसन्निदमब्रवीत् ।
अकृतेयं तव प्रज्ञा ब्रह्मन्नातिसमञ्जसा ॥
यदात्थ मां त्वं प्रसभं सखा तेऽहमिति द्विज ।
संगतनीह जीर्यन्ति कालेन परिजीर्यतः ॥
सौहृदं मे त्वया ह्यासीत्पूर्वं सामर्थ्यबन्धनम् ।
नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा ॥
साम्याद्धि सख्यं भवति वैषम्यान्नोपपद्यते ।
न सख्यमजरं लोके विद्यते जातु कस्यचित् ॥
कामो वैनं विहरति क्रोधो वैनं रहत्युत ।
मैवं जीर्णमुपास्स्व त्वं सख्यं भवदुपाधिकृत् ॥
आसीत्सख्यं द्विजश्रेष्ठ त्वया मेऽर्थनिबन्धनम् ।
नह्यनाढ्यः सखाऽऽढ्यस्य नाविद्वान्विदुषः सखा ॥
न शूरस्य सखा क्लीबः सखिपूर्वं किमिष्यते ।
न हि राज्ञामुदीर्णानामेवं भूतैर्नरैः क्वचित् ॥
सख्यं भवति मन्दात्मञ्छ्रिया हीनैर्धनच्युतैः ।
नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा ॥
नाराजा पार्थिवस्यापि सखिपूर्वं किमिष्यते ।
अहं त्वया न जानामि राज्यार्थे संविदं कृताम् ॥
एकरात्रं तु ते ब्रह्मन्कामं दास्यामि भोजनम् ।
एवमुक्तस्त्वहं तेन सदारः प्रस्थितस्तदा ॥
तां प्रतिज्ञां प्रतिज्ञाय यां कर्ताऽस्म्यचिरादिव ।
द्रुपदेनैवमुक्तोऽहं मन्युनाऽभिपरिप्लुतः ॥
अभ्यागच्छं कुरून्भीष्म शिष्यैरर्थी गुणान्वितैः ।
ततोऽहं भवतः कामं संवर्धयितुमागतः ॥
इदं नागपुरं रम्यं ब्रूहि किं करवाणि ते ।
वैशंपायन उवाच ।
एवमुक्तस्तदा भीष्मो भारद्वाजमभाषत ॥
भीष्म उवाच ।
अपज्यं क्रियतां चापं साध्वस्त्रं प्रतिपादय ।
भुङ्क्ष भोगान्भृशं प्रीतः पूज्यमानः कुरुक्षये ॥
कुरूणामस्ति यद्वित्तं राज्यं चेदं सराष्ट्रकम् ।
त्वमेव परमो राजा सर्वे वाक्यकरास्तव ॥
यच्च ते प्रार्थितं ब्रह्मन्कृतं तदिति चिन्त्यताम् ।
दिष्ट्या प्राप्तोऽसि विप्रर्षे महान्मेऽनुग्रहः कृतः ॥

1-141-4 अकृता असंस्कृता ॥ 1-141-7 रहति सख्याच्च्यावयति ॥ 1-141-13 प्रतिबुद्धिमान् प्रतीवपुद्धिमान् ॥ 1-141-18 वीटया कन्दुकेन ॥ 1-141-24 पैशल्यात् कौशल्यात् ॥ 1-141-27 गौतमीं च महातेजा भिक्षामश्नीत माचिरम् इति पाठान्तरम् ॥ 1-141-52 दिशः संदेहयत् दिङ्मोहमनयत् । अडभाव आर्षः ॥ 1-141-53 स्नातको यः कश्चिदल्पगोधनः स्वधर्मलोपान्नावसीदेतातो बहुगोधनवतो ब्राह्मणस्य प्रतिग्रहमिच्छन् ॥ 1-141-54 अन्तादन्तं देशाद्देशम् ॥ 1-141-60 वसे उपवसे ॥ 1-141-78 अधिज्यं कुरुवीराणां इति पाठान्तरम् । कुरुक्षये कुरुगृहे ॥ एकचत्वारिंशदधिकशततमोऽध्यायः ॥ 141 ॥

अध्यायः 142

द्रोणेनास्त्रशिक्षायां कुरुपाण्डवानां शिष्यत्वेनाङ्गीकारः ॥ 1 ॥ विद्याभ्याससमाप्त्यनन्तरं बहुशः परीक्षितस्यार्जुनस्य द्रोणाचार्याद्विशेषशिक्षाप्राप्तिः ॥ 2 ॥ मृण्मयद्रोणप्रतिमाराधनेन एकलव्यस्य धनुर्वेदप्रतिभानं ॥ 3 ॥ मृगयार्थं गतेषु कुरुपाण्डवेषु एकलव्येन बाणैः शुनो मुखपूरणम् ॥ 4 ॥ अर्जुनप्रार्थनया द्रोणेनैकलव्यं प्रतिगम्य गुरुदक्षिणात्वेन दक्षिणाङ्गुष्ठ याचनम् ॥ 5 ॥ एकलव्येन दक्षिणाङ्गुष्ठस्य छित्वा दानम् ॥ 6 ॥ द्रोणेन शिष्यपरीक्षा ॥ 7 ॥ शिष्यपरीक्षायां युधिष्ठिरा दीनां निराकरणम् ॥ 8 ॥

`वैशंपायन उवाच ।
प्रतिजग्राह तं भीष्मो गुरुं पाण्डुसुतैः सह ।
पौत्रानादाय तान्सर्वान्वसूनि विविधानि च ॥
शिष्य इति ददौ राजन्द्रोणाय विधिपूर्वकम् ।
तदा द्रोणोऽब्रवीद्वाक्यं भीष्मं बुद्धिमतां वरम् ॥
कृपस्तिष्ठति चाचार्यः शस्त्रज्ञः प्राज्ञसंमतः ।
मयि तिष्ठति चेद्विप्रो वैमनस्यं गमिष्यति ॥
युष्मान्किंचिच्च याचित्वा धनं संगृह्य हर्षितः ।
स्वमाश्रमपदं राजन्गमिष्यामि यथागतम् ॥
एवमुक्ते तु विप्रेन्द्रं भीष्मः प्रहरतां वरः ।
अब्रवीद्द्रोणमाचार्यमुख्यं शस्त्रविदां वरम् ॥
कृपस्तिष्ठतु पूज्यश्च भर्तव्यश्च मया सदा । त्वं गुरुर्भव पौत्राणामाचार्यस्त्वं मतो मम ।
प्रतिगृह्णीष्व पुत्रांस्त्वमस्त्रज्ञान्कुरु वै सदा ॥'
वैशंपायन उवाच ।
ततः संपूजितो द्रोणो भीष्मेण द्विपदां वरः ।
विशश्राम महातेजाः पूजितः कुरुवेश्मनि ॥
विश्रान्तेऽथ गुरौ तस्मिन्पौत्रानादाय कौरवान् ।
शिष्यत्वेन ददौ भीष्मो वसूनि विविधानि च ॥
गृहं च सुपरिच्छन्नं धनधान्यसमाकुलम् ।
भारद्वाजाय सुप्रीतः प्रत्यपादयत प्रभुः ॥
स ताञ्शिष्यान्महेष्वासः प्रतिजग्राह कौरवान् ।
पाण्डवान्धार्तराष्ट्रांश्च द्रोणो मुदितमानसः ॥
प्रतिगृह्य च तान्सर्वान्द्रोणो वचनमब्रवीत् ।
रहस्येकः प्रतीतात्मा कृतोपसदनांस्तथा ॥
द्रोण उवाच ।
कार्यं मे काङ्क्षितं किंचिद्धृदि संपरिवर्तते ।
कृतास्त्रैस्तत्प्रदेयं मे तदेतद्वदतानघाः ॥
वैशंपायन उवाच ।
तच्छ्रुत्वा कौरवेयास्ते तूष्णीमासन्विशांपते ।
अर्जुनस्तु ततः सर्वं प्रतिजज्ञे परन्तप ॥
ततोऽर्जुनं तदा मूर्ध्नि समाघ्राय पुनः पुनः ।
प्रीतिपूर्वं परिष्वज्य प्ररुरोद मुदा तदा ॥
`अश्वत्थामानमाहूय द्रोणो वचनमब्रवीत् ।
सखायं विद्धि ते पार्थं मया दत्तः प्रगृह्यताम् ॥
साधुसाध्विति तं पार्थः परिष्वज्येदमब्रवीत् ।
अद्यप्रभृति विप्रेन्द्र परवानस्मि धर्मतः ॥
शिष्योऽहं त्वत्प्रसादेन जीवामि द्विजसत्तम ।
इत्युक्त्वा तु तदा पार्थः पादौ जग्राह पाण्डवः' ॥
ततो द्रोणः पाण्डुपुत्रानस्त्राणि विविधानि च ।
ग्राहयामास दिव्यानि मानुषाणि च वीर्यवान् ॥
राजपुत्रास्तथा चान्ये समेत्य भरतर्षभ ।
अभिजग्मुस्ततो द्रोणमस्त्रार्थे द्विजसत्तमम् ॥
वृष्णयश्चान्धकाश्चैव नानादेश्याश्च पार्थिवाः ।
सूतपुत्रश्च राधेयो गुरुं द्रोणमियात्तदा ॥
स्पर्धमानस्तु पार्थेन सूतपुत्रोऽत्यमर्षणः ।
दुर्योधनं समाश्रित्य सोऽवमन्यत पाण्डवान् ॥
अभ्ययात्स ततो द्रोणं धनुर्वेदचिकीर्षया ।
शिक्षाभुजवलोद्योगैस्तेषु सर्वेषु पाण्डवः ॥
अस्त्रविद्यानुरागाच्च विशिष्टोऽभवदर्जुनः ।
तुल्येष्वस्त्रप्रयोगेषु लाघवे सौष्टवेषु च ॥
सर्वेषामेव शिष्याणां बभूवाभ्यधिकोऽर्जुनः ।
ऐन्द्रिमप्रतिमं द्रोण उपदेशेष्वमन्यत ॥
एवं सर्वकुमाराणामिष्वस्त्रं प्रत्यपादयत् ।
कमण्डलुं च सर्वेषां प्रायच्छच्चिरकारणात् ॥
पुत्राय च ददौ कुम्भमविलम्बनकारणात् ।
यावत्ते नोपगच्छ्ति तावदस्मै परां क्रियाम् ॥
द्रोण आचष्ट पुत्राय कर्म तज्जिष्णुरौहत ।
ततः स वारुणास्त्रेण पूरयित्वा कमण्डलुम् ॥
सममाचार्यपुत्रेण गुरुमभ्येति फाल्गुनः ।
आचार्यपुत्रात्तस्मात्तु विशेषोपचयेऽपृथक् ॥
न व्यहीयत मेधावी पार्थोऽप्यस्त्रविदां वरः ।
अर्जुनः परमं यत्नमातिष्ठद्गुरुपूजने ॥
अस्त्रे च परमं योगं प्रियो द्रोणस्य चाभवत् ।
तं दृष्ट्वा नित्यमुद्युक्तमिष्वस्त्रं प्रति फाल्गुनम् ॥
आहूय वचनं द्रोणो रहः सूदमभाषत । अन्धकारेऽर्जुनायान्नं न देयं ते कदाचन ।
न चाख्येयमिदं चापि मद्वाक्यं विजयेत्वया ॥
ततः कदाचिद्भुञ्जाने प्रववौ वायुरर्जुने ।
तेन तत्र प्रदीपः स दीप्यमानो विलोपितः ॥
भुक्त एव तु कौन्तेयो नास्यादन्यत्र वर्तते ।
हस्तस्तेजस्विनस्तस्य अनुग्रहणकारणात् ॥
तदभ्यासकृतं मत्वा रात्रावपि स पाण्डवः ।
योग्यां चक्रे महाबाहुर्धनुषा पाण्डुनन्दनः ॥
तस्य ज्यातलनिर्घोषं द्रोणः शुश्राव भारत ।
उपेत्य चैनमुत्थाय परिष्वज्येदमब्रवीत् ॥
द्रोण उवाच ।
प्रयतिष्ये तथा कर्तुं यथा नान्यो धनुर्धरः ।
त्वत्समो भविता लोके सत्यमेतद्ब्रवीमि ते ॥
वैशंपायन उवाच ।
ततो द्रोणोऽर्जुनं भूयो हयेषु च गजेषु च ।
रथेषु भूमावपि च रणशिक्षामशिक्षयत् ॥
गदायुद्धेऽसिचर्यायां तोमरप्रासशक्तिषु ।
द्रोणः संकीर्णयुद्धे च शिक्षयामास कौरवान् ॥
तस्य तत्कौशलं श्रुत्वा धनुर्वेदजिघृक्षवः ।
सजानो राजपुत्राश्च समाजग्मुः सहस्रशः ॥
`तान्सर्वाञ्शिक्षयामास द्रोणः शस्त्रभृतां वरः ।' ततो निषादराजस्य हिरण्यधनुषः सुतः ।
एकलव्यो महाराज द्रोणमभ्याजगाम ह ॥
न स तं प्रतिजग्राह नैषादिरिति चिन्तयन् ।
शिष्यं धनुषि धर्मज्ञस्तेषामेवान्ववेक्षया ॥
`द्रोण उवाच ।
शिष्योऽसि मम नैषादे प्रयोगे बलत्तरः ।
निवर्तस्व गृहानेव अनुज्ञातोऽसि नित्यशः ॥
वैशंपायन उवाच ।'
स तु द्रोणस्य शिरसा पादौ गृह्य परन्तपः ।
अरण्यमनुसंप्राप्य कृत्वा द्रोणं महीमयम् ॥
तस्मिन्नाचार्यवृत्तिं च परमामास्थितस्तदा ।
इष्वस्त्रे योगमातस्थे परं नियममास्थितः ॥
परया श्रद्धयोपेतो योगेन परमेण च ।
विमोक्षादानसन्धाने लघुत्वं परमाप सः ॥
`लाघवं चास्त्रयोगं च नचिरात्प्रत्यपद्यत ।' अथ द्रोणाभ्यनुज्ञाताः कदाचित्कुरुपाण्डवाः ।
रथैर्विनिर्ययुः सर्वे मृगयामरिमर्दनाः ॥
तत्रोपकरणं गृह्य नरः कश्चिद्यदृच्छया ।
राजन्ननुजगामैकः श्वानमादाय पाण्डवान् ॥
तेषां विचरतां तत्र तत्तत्कर्मचिकीर्षया ।
श्वाचरन्स पथा क्रीडन्नैषादिं प्रति जग्मिवान् ॥
स कृष्णमलदिग्धाङ्गं कृष्णाजिनजटाघरम् ।
नैषादिं श्वा समालक्ष्य भषंस्तस्थौ तदन्तिके ॥
तदा तस्याथ भषतः शुनः सप्त शरान्मुखे ।
लाघवं दर्शन्नस्त्रे मुमोच युगपद्यथा ॥
स तु श्वा शरपूर्णास्यः पाण्डवानाजगाम ह ।
तं दृष्ट्वा पाण्डवा वीराः परं विस्मयमागताः ॥
लाघवं शब्धवेधित्वं दृष्ट्वा तत्परमं तदा ।
प्रेक्ष्य तं व्रीडिताश्चासन्प्रशशंसुश्च सर्वशः ॥
तं ततोऽन्वेषमाणास्ते वने वननिवासिनम् ।
ददृशुः पाण्डवा राजन्नस्यन्तमनिशं शरान् ॥
न चैनमभ्यजानंस्ते तदा विकृतदर्शनम् ।
तथैनं परिपप्रच्छ्रुः को भवान्कस्य वेत्युत ॥
एकलव्य उवाच ।
निषादाधिपतेर्वीरा हिरण्यधनुषः सुतम् ।
द्रोणशिष्यं च मां वित्त धुर्वेदकृतश्रमम् ॥
वैशंपायन उवाच ।
ते तमाज्ञाय तत्त्वेन पुनरागम्य पाण्डवाः ।
यथा वृत्तं वने सर्वं द्रोणायाचख्युरद्भुतम् ॥
कौन्तेयस्त्वर्जुनो राजन्नेकलव्यमनुस्मरन् ।
रहो द्रोणं समासाद्य प्रणयादिदमब्रवीत् ॥
नन्वहं परिरभ्यैकः प्रीतिपूर्वमिदं वचः ।
भवतोक्तो न मे शिष्यस्त्वद्विशिष्टो भविष्यति ॥
अथ कस्मान्मद्विशिष्टो लोकादपि च वीर्यवान् । अन्योऽस्ति भवतः शिष्यो निषादाधिपतेः सुतः ।
वैशंपायन उवाच ।
मुहूर्तमिव तं द्रोणश्चिन्तयित्वा विनिश्चयम् ।
सव्यसाचिनमादाय नैषादिं प्रति जग्मिवान् ॥
ददर्श मलदिग्धाङ्गं जटिलं चीरवाससम् ।
एकलव्यं धनुष्पाणिमस्यन्तमनिशं शरान् ॥
एकलव्यस्तु तं दृष्ट्वा द्रोणमायान्तमन्तिकात् ।
अभिगम्योपसंगृह्य जगाम शिरसा महीम् ॥
पूजयित्वा ततो द्रोणं विधिवत्स निषादजः ।
निवेद्य शिष्यमात्मानं तस्थौ प्राञ्जलिरग्रतः ॥
ततो द्रोणोऽब्रवीद्राजन्नेकलव्यमिदं वचः ।
यदि शिष्योऽसि मे वीर वेतनं दीयतां मम ॥
एकलव्यस्तु तच्छ्रुत्वा प्रीयमाणोऽब्रवीदिदम् ।
किं प्रयच्छामि भगवन्नाज्ञापयतु मां गुरुः ॥
न हि किंचिददेयं मे गुरवे ब्रह्मवित्तम ।
वैशंपायन उवाच ।
तमब्रवीत्त्वयाङ्गुष्ठो दक्षिणो दीयतामिति ॥
एकलव्यस्तु तच्छ्रुत्वा वचो द्रोणस्य दारुणम् ।
प्रतिज्ञामात्मनो रक्षन्सत्ये च नियतः सदा ॥
तथैव हृष्टवदनस्तथैवादीनमानसः ।
छित्त्वाऽविचार्य तं प्रादाद्द्रोणायाङ्गुष्ठमात्मनः ॥
ततः शरं तु नैषादिरङ्गुलीभिर्व्यकर्षत ।
न तथा च स शीघ्रोऽभूद्यथा पूर्वं नराधिप ॥
ततोऽर्जुनः प्रीतमना बभूव विगतज्वरः ।
द्रोणश्च सत्यवागासीन्नान्योऽभिभविताऽर्जुनं ॥
द्रोणस्य तु तदा शिष्यौ गदायोग्यौ बभूवतुः ।
दुर्योधनश्च भीमश्च सदा संरब्धणानसौ ॥
अश्वत्थामा रहस्येषु सर्वेष्वभ्यधिकोऽभवत् ।
तथाऽतिपुरुषानन्यान्त्सारुकौ यमजावुभौ ॥
युधिष्ठिरो रथश्रेष्ठः सर्वत्र तु धनञ्जयः ।
प्रथितः सागरान्तायां रथयूथपयूथपः ॥
बुद्धियोगबलोत्साहः सर्वास्त्रेषु च निष्ठितः ।
अस्त्रे गुर्वनुरागे च विशिष्टोऽभवदर्जुनः ॥
तुल्येष्वस्त्रोपदेशेषु सौष्ठवेन च वीर्यवान् ।
एकः सर्वकुमाराणां बभूवातिरथोऽर्जुनः ॥
प्राणाधिकं भीमसेनं कृतविद्यं धनञ्जयम् ।
धार्तराष्ट्रा दुरात्मानो नामृष्यन्त परस्परम् ॥
तांस्तु सर्वान्समानीय सर्वविद्यास्त्रशिक्षितान् ।
द्रोणः प्रहरणज्ञाने जिज्ञासुः पुरुषर्षभः ॥
कृत्रिमं भासमारोप्य वृक्षाग्रे शिल्पिभिः कृतम् ।
अविज्ञातं कुमाराणां लक्ष्यभूतमुपादिशत् ॥
द्रोण उवाच ।
शीघ्रं भन्तः सर्वेऽपि धनूंष्यादाय सर्वशः ।
भासमेतं समुद्दिश्य तिष्ठध्वं सन्धितेषतः ॥
मद्वाक्यसमकालं तु शिरोऽस्य विनिपात्यताम् ।
एकैकशो नियोक्ष्यामि तथा कुरुत पुत्रकाः ॥
वैशंपायन उवाच ।
ततो युधिष्ठिरं पूर्वमुवाचाङ्गिरसां वरः ।
संधत्स्व बामं दुर्धर्ष मद्वाक्यान्ते विमुञ्चतम् ॥
ततो युधिष्ठिरः पूर्वं धनुर्गृह्य परन्तपः ।
तस्थौ भासं समुद्दिश्य गुरुवाक्यप्रचोदितः ॥
ततो विततधन्वानं द्रोणस्तं कुरुनन्दनम् ।
स मुहूर्तादुवाचेदं वचनं भरतर्षभ ॥
पश्यसि त्वं द्रुमाग्रस्थं भासं नरवरात्मज ।
पश्यामीत्येवमाचार्यं प्रत्युवाच युधिष्ठिरः ॥
स मुहूर्तादिव पुनर्द्रोणस्तं प्रत्यभाषत ।
अथ वृक्षमिमं मां वा भ्रातॄन्वाऽपि प्रपश्यसि ॥
तमुवाच स कौन्तेयः पश्याम्येनं नवस्पतिम् ।
भन्तं च तथा भ्रातॄन्भासं चेति पुनःपुनः ॥
तमुवाचापसर्पेति द्रोणोऽप्रीतमना इव ।
नैतच्छक्यं त्वया वेद्धुं लक्ष्यमित्येव कुत्सयन् ॥
ततो दुर्योधनादींस्तान्धार्तराष्ट्रान्महायशाः ।
तेनैव क्रमयोगेन जिज्ञासुः पर्यपृच्छत ॥
अन्यांश्च शिष्यान्भीमादीन्राज्ञश्चैवान्यदेशजान् ।
यदा च सर्वे तत्सर्वं पश्याम इति कुत्सिताः ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि द्विचत्वारिंशदधिकशततमोऽध्यायः ॥ 142 ॥

1-142-12 यत्प्रदेयं मे इति पाठान्तरम् ॥ 1-142-22 द्रोणमभ्ययात् द्रोणतुल्योऽभवत् ॥ 1-142-27 औहत तर्कितवान् ॥ 1-142-28 अपृथक् सहैवास्ते ॥ 1-142-29 अतो न व्यहीयत न विहीनोऽभूत् ॥ 1-142-30 योगमैकाग्र्यम् ॥ 1-142-33 अनुग्रहणमभ्यासः ॥ 1-142-34 योग्यामभ्यासम् ॥ 1-142-35 उत्थायोपेत्येति क्रमः ॥ 1-142-41 तेषामन्ववेक्षया तेभ्योऽधिको माभूदिति बुद्ध्या ॥ 1-142-43 महीमयं मृण्मयम् ॥ 1-142-44 इष्वस्त्रे इषुप्रयोगे योगमैकाग्र्यम् ॥ 1-142-45 लघुत्वं शीघ्रप्रयोक्तृत्वम् ॥ 1-142-64 वेतनं गुरुदक्षिणारूपम् ॥ 1-142-70 नाधिकोऽन्योऽर्जुनादभूत इति पाठान्तरम् ॥ 1-142-71 गदायोग्यौ गदायुद्धेऽभ्यासवन्तौ ॥ 1-142-72 त्सारुकौ खङ्गयुद्धे कुशलौ ॥ 1-142-79 भासं पक्षिविशेषम् ॥ द्विचत्वारिंशदधिकशततमोऽध्यायः ॥ 142 ॥

अध्यायः 143

अर्जुनेन लक्ष्यभूतभासच्छेदः ॥ 1 ॥ स्नानार्थं गङ्गामवतीर्णस्य द्रोणस्य ग्राहेण जङ्घायां ग्रहणम् ॥ 2 ॥ अर्जुनेन ग्राहहननम् ॥ 3 ॥ अर्जुनस्य ब्रह्मशिरोस्त्रलाभः ॥ 4 ॥

वैशंपायन उवाच ।
ततो धनञ्जयं द्रोणः स्मयमानोऽभ्यभाषत ।
त्वयेदानीं प्रहर्तव्यमेतल्लक्ष्यं विलोक्यताम् ॥
मद्वाक्यसमकालं ते मोक्तव्योऽत्र भवेच्छरः ।
वितत्य कार्मुकं पुत्र तिष्ठ तावन्मुहूर्तकम् ॥
एवमुक्तः सव्यसाची मण्डलीकृतकार्मुकः ।
तस्थौ भासं समुद्दिश्य गुरुवाक्यप्रचोदितः ॥
मुहूर्तादिव तं द्रोणस्तथैव समभाषत ।
पश्यस्येनं स्थितं भासं द्रुमं मामपि चार्जुन ॥
पश्याम्येकं भासमिति द्रोणं पार्थोऽभ्यभाषत ।
न तु वृक्षं भवन्तं वा पश्यामीति च भारत ॥
ततः प्रीतमना द्रोणो मुहूर्तादिव तं पुनः ।
प्रत्यभाषत दुर्धर्षः पाण्डवानां महारथम् ॥
भासं पश्यसि यद्येनं तथा ब्रूहि पुनर्वचः ।
शिरः पश्यामि भासस्य न गात्रमिति सोऽब्रवीत् ॥
अर्जुनेनैवमुक्तस्तु द्रोणो हृष्टतनूरुहः ।
मुञ्चस्वेत्यब्रवीत्पार्थं स मुमोचाविचारयन् ॥
ततस्तस्य गस्थस्य क्षुरेण निशितेन च ।
शिर उत्कृत्य तरसा पातयामास पाण्डवः ॥
तस्मिन्कर्मणि संसिद्धे पर्यष्वजत पाण्डवम् ।
मेने च द्रुपदं सङ्ख्ये सानुबन्धं पराजितम् ॥
कस्य चित्त्वथ कालस्य सशिष्योऽङ्गिरसां वरः ।
जगाम गङ्गामभितो मज्जितुं भरतर्षभ ॥
अवगाढमथो द्रोणं सलिले सलिलेचरः ।
ग्राहो जग्राह बलवाञ्जङ्घान्ते कालचोदितः ॥
स समर्थोऽपि मोक्षाय शिष्यान्सर्वानचोदयत् ।
ग्राहं हत्वा तु मोक्ष्यध्वं मामिति त्वरयन्निव ॥
तद्वाक्यसमकालं तु बीभत्सुर्निशितैः शरैः ।
अवार्यैः पञ्चभिर्ग्राहं मग्नमम्भस्यताडयत् ॥
इतरे त्वथ संमूढास्तत्रपत्र प्रपेदिरे ।
तं तु दृष्ट्वा क्रियोपेतं द्रोणोऽमन्यत पाण्डवम् ॥
विशिष्टं सर्वशिष्येभ्यः प्रीतिमांश्चाभवत्तदा ।
स पार्थबाणैर्बहुधा खण्डशः परिकल्पितः ॥
ग्राहः पञ्चत्वमापेदे जङ्घां त्यक्त्वा महात्मनः ।
`सर्वक्रियाभ्यनुज्ञानात्तथा शिष्यान्समानयत् ॥
दुर्योधनं चित्रसेनं दुःशासनविविंशती ।
अर्जुनं च समानीय ह्यश्वत्थामानमेव च ॥
शिशुकं मृण्मयं कृत्वा द्रोणो गङ्गाजले ततः ।
शिष्याणां पश्यतां चैव क्षिपति स्म महाभुजः ॥
चक्षुषी वाससा चैव बद्ध्वा प्रादाच्छरासनम् ।
शिशुकं विद्ध्यतेमं वै जलस्थं बद्धचक्षुषः ॥
तत्क्षणेनैव बीभत्सुरावापैर्दशभिर्वशी ।
पञ्चकैरनुविव्याध मग्नं शिशुकमम्भसि ॥
ताः स दृष्ट्वा क्रियाः सर्वा द्रोणोऽमन्यत पाण्डवम् । विशिष्टं सर्वशिष्येभ्यः प्रीतिमांश्चाभवत्तदा ।'
तथाब्रवीन्महात्मानं भारद्वाजो महारथम् ॥
गृहाणेदं महाबाहो विशिष्टमतिदुर्धरम् ।
अस्त्रं ब्रह्मशिरो नाम सप्रयोगनिवर्तनम् ॥
न च ते मानुषेष्वेतत्प्रयोक्तव्यं कथंचन ।
जगद्विनिर्दहेदेतदल्पतेजसि पातितम् ॥
असामान्यमिदं तात लोकेष्वस्त्रं निगद्यते ।
तद्धारयेथाः प्रयतः शृणु चेदं वचो मम ॥
बाधेतामानुषः शत्रुर्यदि त्वां वीर कश्चन ।
तद्वधाय प्रयुञ्जीथास्तदस्त्रमिदमाहवे ॥
तथेति संप्रतिश्रुत्य बीभत्सुः स कृताञ्जलिः । जग्राह परमास्त्रं तदाह चैनं पुनर्गुरुः ।
भविता त्वत्समो नान्यः पुमाँल्लोके धनुर्धरः ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि त्रिचत्वारिंशदधिकशततमोऽध्यायः ॥ 143 ॥

1-143-12 अवगाढं जलावगाहिनम् ॥ 1-143-13 मोक्ष्यध्वं मोचयध्वम् ॥ त्रिचत्वारिंशदधिकशततमोऽध्यायः ॥ 143 ॥

अध्यायः 144

कुमाराणां अस्त्रशिक्षापरीक्षार्थं रङ्गनिर्माणम् ॥ 1 ॥ शिक्षादर्शनार्थं भीष्मादीनां प्रेक्षागारप्रवेशः ॥ 2 ॥ युधिष्ठिरादीनां परीक्षा ॥ 3 ॥ भीमदुर्योधनयोः गदायुद्धपरीक्षा ॥ 4 ॥

वैशंपायन उवाच ।
कृतास्त्रान्धार्तराष्ट्रांश्च पाण्डुपुत्रांश्च भारत ।
दृष्ट्वा द्रोणोऽब्रवीद्राजन्धृतराष्ट्रं जनेश्वरम् ॥
कृपस्य सोमदत्तस्य वाह्लीकस्य च धीमतः ।
गाङ्गेयस्य च सान्निध्ये व्यासस्य विदुरस्य च ॥
राजन्संप्राप्तविद्यास्ते कुमाराः कुरुसत्तम ।
ते दर्शयेयुः स्वां शिक्षां राजन्ननुमते तव ॥
ततोऽब्रवीन्महाराजः प्रहृष्टेनान्तरात्मना ।
धृतराष्ट्र उवाच ।
भारद्वाज महत्कर्म कृतं ते द्विजसत्तम ॥
यदानुमन्यसे कालं यस्मिन्देशे यथायथा ।
तथातथा विधानाय स्वयमाज्ञापयस्व माम् ॥
स्पृहयाम्यद्य निर्वेदान्पुरुषाणां सचक्षुषाम् ।
अस्त्रहेतोः पराक्रान्तान्ये मे द्रक्ष्यन्ति पुत्रकान् ॥
क्षत्तर्यद्गुरुराचार्यो ब्रवीति कुरु तत्तथा ।
न हीदृशं प्रियं मन्ये भविता धर्मवत्सल ॥
ततो राजानमामन्त्र्य विदुरानुमतोपि हि ।
भारद्वाजो महाप्राज्ञो मापयामास मेदिनीम् ॥
समामवृक्षां निर्गुलमामुदक्प्रवणसंस्थिताम् ।
तस्यां भूमौ बलिं चक्रे तिथौ नक्षत्रपूजिते ॥
अवघुष्टं पुरं चापि तदर्थं भरतर्षभ ।
रङ्गभूमौ सुविपुलं शास्त्रदृष्टं यथाविधि ॥
प्रेक्षागारं सुविहितं चक्रस्ते तस्य शिल्पिनः ।
रक्षां सर्वायुधोपेतां स्त्रीणां चैव नरर्षभ ॥
मञ्चांश्च कारयामासुर्यत्र जानपदा जनाः ।
विपुलानुच्छ्रयोपेताञ्शिबिकाश्च महाधनाः ॥
तस्मिंस्ततोऽहनि प्राप्ते राजा ससचिवस्तदा । `सान्तःपुरः सहामात्यो व्यासस्यानुमते तदा ।'
भीष्मं प्रमुखतः कृत्वा कृपं चाचार्यसत्तमम् ॥
`बाह्लीकं सोमदत्तं च भूरिश्रवसमेव च ।
कुरूनन्यांश्च सचिवानादाय नगराद्बहिः ॥
रङ्गभूमिं समासाद्य ब्राह्मणैः सहितो नृपः ॥'
मुक्ताजालपरिक्षिप्तं वैदूर्यममिशोभितम् ।
शातकुम्भमयं दिव्यं प्रेक्षागारमुपागमत् ॥
गान्धारी च महाभागा कुन्ती च जयतां वर ।
स्त्रियश्च राज्ञः सर्वास्ताः सप्रेष्याः सपरिच्छदाः ॥
हर्षादारुरुहुर्मञ्चान्मेरुं देवस्त्रियो यथा ।
ब्राह्मणक्षत्रियाद्यं च चातुर्वर्ण्यं पुराद्द्रुतम् ॥
दर्शनेप्सुः समभ्यागात्कुमाराणां कृतास्त्रताम् ।
क्षणेनैकस्थतां तत्र दर्शनेप्सुर्जगाम ह ॥
प्रवादितैश्च वादित्रैर्जनकौतूहलेन च ।
महार्णव इव क्षुब्धः समाजः सोऽभवत्तदा ॥
ततः शुक्लाम्बरधरः शुक्लयज्ञोपवीतवान् ।
शुक्लकेशः सितश्मश्रुः शुक्लाल्यानुलेपनः ॥
रङ्गमध्यं तदाचार्यः सपुत्रः प्रविवेश ह ।
नभो जलधरैर्हीनं साङ्गारक इवांशुमान् ॥
व्यासस्यानुमते चक्रे बलिं बलवतां वरः ।
ब्राह्मणांस्तु सुमन्त्रज्ञान्कारयामास मङ्गलम् ॥
`सुवर्णमणिरत्नानि वस्त्राणि विविधानि च । प्रददौ दक्षिणां राजा द्रोणाय च कृपाय च ॥'
सुखपुण्याहघोषस्य पुण्यस्य समनन्तरम् ।
विविशुर्विविधं गृह्य शस्त्रोपकरणं नराः ॥
ततो बद्धाङ्गुलित्राणा बद्धकक्ष्या महारथाः ।
बद्धथूणाः सधनुषो विविशुर्भरतर्षभाः ॥
`रङ्गमध्ये स्थितं द्रोणमभिवाद्य नरर्षभाः ।
चक्रुः पूजां यथान्यायं द्रोणस्य च कृपस्य च ॥
आशीर्भिश्च प्रयुक्ताभिः सर्वे संहृष्टमानसाः ।
अभिवाद्य पुनः शस्त्रान्बलिपुष्पैः समर्चितान् ॥
रक्तचन्दनसंमिश्रैः स्वयमर्चन्ति कौरवाः ।
रक्तचन्दनदिग्धाश्च रक्तमाल्यानुधारिणः ॥
सर्वे रक्तपताकाश्च सर्वे रक्तान्तलोचनाः ।
द्रोणेन समनुज्ञाता गृह्य शस्त्रं परन्तपाः ॥
धनूंषि पूर्व संगृह्य तप्तकाञ्चनभूषिताः ।
सज्यानि विविधाकाराः शरैः सन्धाय कौरवा ॥
ज्याघोषं तलघोषं च कृत्वा भूतान्यमोहयन् ॥'
अनुज्येष्ठं च ते तत्र युधिष्ठिरपुनरोगमाः ।
चक्रुरस्त्रं महावीर्याः कुमाराः परमाद्भुतम् ॥
`केषांचित्तत्र माल्येषु शरा निपतिता नृप ।
केषांचित्पुष्पमुकुटे निपतन्ति स्म सायकाः ॥
केचिल्लक्ष्याणि विविधैर्बाणैराहितलक्षणैः । बिभिदुर्लाघवोत्सृष्टैर्गुरूणि च लघूनि च ॥'
केचिच्छराक्षेपभयाच्छिरांस्यवननामिरे ।
मनुजा धृष्टमपरे वीक्षाञ्चक्रुः सुविस्मिताः ॥
ते स्म लक्ष्याणि बिभिदुर्बाणैर्नामाङ्कशोभितैः ।
विविधैर्लाघवोत्सृष्टैरुह्यन्तो वाजिभिर्द्रुतम् ॥
तत्कुमारबलं तत्र गृहीतशरकार्मुकम् ।
गन्धर्वनगराकारं प्रेक्ष्य ते विस्मिताभवन् ॥
सहसा चुक्रुशुश्चान्ये नराः शतसहस्रशः ।
विस्मयोत्फुल्लनयनाः साधुसाध्विति भारत ॥
कृत्वा धनुषि ते मार्गान्रथचर्यासु चासकृत् ।
गजपृष्ठेऽश्वपृष्ठे च नियुद्धे च महाबलाः ॥
गृहीतखड्गचर्माणस्ततो भूयः प्रहारिणः ।
त्सरुमार्गान्यथोद्दिष्टांश्चेरुः सर्वासु भूमिषु ॥
लाघवं सौष्ठवं शोभां स्थिरत्वं दृढमुष्टिताम् ।
ददृशुस्तत्र सर्वेषां प्रयोगं खड्गचर्मणोः ॥
अथ तौ नित्यसंहृष्टौ सुयोधनवृकोदरौ ।
अवतीर्णौ गदाहस्तावेकशृङ्गाविवाचलौ ॥
बद्धकक्ष्यौ महाबाहू पौरुषे पर्यवस्थितौ ।
बृंहन्तौ वासिताहेतोः समदाविव कुञ्जरौ ॥
तौ प्रदक्षिणसव्यानि मण्डलानि महाबलौ ।
चेरतुर्मण्डलगतौ समदाविव कुञ्जरौ ॥
विदुरो धृतराष्ट्राय गान्धार्याः पाण्डवारणिः ।
न्यवेदयेतां तत्सर्वं कुमाराणां विचेष्टितम् ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि चतुश्चत्वारिंशदधिकशततमोऽध्यायः ॥ 144 ॥

1-144-19 दर्शनेप्सुः जन इति शेषः ॥ 1-144-22 अंशुमान् चन्द्रः ॥ 1-144-38 गन्धर्वनगराकारमद्भुतरूपम् ॥ 1-144-43 संहृष्टौ परस्परं जेतुं सकामौ ॥ 1-144-44 बृंहन्तौ शब्दं कुर्वाणौ । वासिता हस्तिनी ॥ 1-144-45 मण्डलगताबलातचक्रवद्भ्राम्यमाणगदापरिवेषान्तर्गतौ ॥ 1-144-46 पाण्डवारणिः कुन्ती ॥ चतुश्चत्वारिंशदधिकशततमोऽध्यायः ॥ 144 ॥

अध्यायः 145

अर्जुनस्य परीक्षा ॥ 1 ॥ कर्णस्य रङ्गप्रवेशः ॥ 2 ॥

वैशंपायन उवाच ।
कुरुराजे हि रङ्गस्थे भीमे च बलिनां वरे ।
पक्षपातकृतस्नेहः स द्विधेवाभवज्जनः ॥
जय हे कुरुराजेति जय हे भीम इत्युत ।
पुरुषाणां सुविपुलाः प्रणादाः सहसोत्थिताः ॥
ततः क्षुब्धार्णवनिभं रङ्गमालोक्य बुद्धिमान् ।
भारद्वाजः प्रियं पुत्रमश्वत्थामानमब्रवीत् ॥
वारयैतौ महावीर्यौ कृतयोग्यावुभावपि ।
मा भूद्रङ्गप्रकोपोऽयं भीमदुर्योधनोद्भवः ॥
वैशंपायन उवाच ।
`तत उत्थाय वेगेन अश्वत्थामा न्यवारयत् । गुरोराज्ञा भीम इति गान्धारे गुरुशासनम् ।
अलं शिक्षाकृतं वेगमलं साहसमित्युत ॥'
ततस्तावुद्यतगतौ गुरुपुत्रेण वारितौ ।
युगान्तानिलसंक्षुब्धौ महावेलाविवार्णवौ ॥
ततो रङ्गाङ्गणगतो द्रोणो वचनमब्रवीत् ।
निवार्य वादित्रगणं महामेघनिभस्वनम् ॥
यो मे पुत्रात्प्रियतरः सर्वशस्त्रविशारदः ।
ऐन्द्रिरिन्द्रानुजसमः स पार्थो दृश्यतामिति ॥
आचार्यवचनेनाथ कृतस्वस्त्ययनो युवा ।
बद्धगोधाङ्गुलित्राणः पूर्णतूणः सकार्मुकः ॥
काञ्चनं कवचं बिभ्रत्प्रत्यदृश्य फाल्गुनः ।
सार्कः सेन्द्रायुधतडित्ससन्ध्य इव तोयदः ॥
ततः सर्वस्य रङ्गस्य समुत्पिञ्जलकोऽभवत् ।
प्रावाद्यन्त च वाद्यानि सशङ्खानि समन्ततः ॥
प्रेक्षका ऊचुः ।
एष कुन्तीसुतः श्रीमानेष मध्यमपाण्डवः ।
एष पुत्रो महेन्द्रस्य कुरूणामेष रक्षिता ॥
एषोऽस्त्रविदुषां श्रेष्ठ एष धर्मभृतां वरः ।
एष शीलवतां चापि शीलज्ञाननिधिः परः ॥
वैशंपायन उवाच ।
इत्येवं तुमुला वाचः शुश्रुवुः प्रेक्षकेरिताः ।
कुन्त्याः प्रस्रवसंयुक्तैरस्रैः क्लिन्नमुरोऽभवत् ॥
तेन शब्देन महता पूर्णश्रुतिरथाब्रवीत् ।
धृतराष्ट्रो नरश्रेष्ठो विदुरं हृष्टमानसः ॥
क्षत्तः क्षुब्धार्णवनिभः किमेष सुमहास्वनः ।
सहसैवोत्थितो रङ्गे भिन्दन्निव नभस्तलम् ॥
विदुर उवाच ।
एष पार्थो महाराज फाल्गुनः पाण्डुनन्दनः ।
अवतीर्णः सकवचस्तत्रैव सुमिहास्वनः ॥
धृतराष्ट्र उवाच ।
धन्योऽस्म्यनुगृहीतोऽस्मि रक्षितोऽस्मि महामते ।
पृथारणिसमुद्भूतैस्त्रिभिः पाण्डववह्निभिः ॥
वैशंपायन उवाच ।
तस्मिन्प्रमुदिते रङ्गे कथंचित्प्रत्युपस्थिते ।
दर्शयामास बीभत्सुराचार्यायास्त्रलाघवम् ॥
आग्नेयेनासृजद्वह्निं वारुणेनासृजत्पयः ।
वायव्येनासृजद्वह्निं पार्जन्येनासृजद्धनान् ॥
भौमेन प्रासृजद्भूमिं पार्वतेनासृजद्गिरीन् ।
अन्तर्धानेन चास्त्रेण पुनरन्तर्हितोऽभवत् ॥
क्षणात्प्रांशुः क्षणाद्ध्रस्वः क्षणाच्च रथधूर्गतः ।
क्षणेन रथमध्यस्थः क्षणेनावतरन्महीम् ॥
सुकुमारं च सूक्ष्मं च गुरु चापि गुरुप्रियः ।
सौष्ठवेनाभिसंयुक्तः सोऽविध्यद्विविधैः शरैः ॥
भ्रमतश्च वराहस्य लोहस्य प्रमुखे समम् ।
पञ्चबाणानसंक्तान्संमुमोचैकबाणवत् ॥
गव्ये विषाणकोशे च चले रज्ज्ववलम्बिनि ।
निचखान महावीर्यः सायकानेकविंशतिम् ॥
इत्येवमादि सुमहत्खड्गे धनुषि चानघ ।
गदायां शस्त्रकुशलो मण्डलानि ह्यदर्शयत् ॥
ततः समाप्तभूयिष्ठे तस्मिन्कर्मणि भारत ।
मन्दीभूते समाजे च वादित्रस्य च निःस्वने ॥
द्वारदेशात्समुद्भूतो माहात्म्यबलसूचकः ।
वज्रनिष्पेषसदृशः शुश्रुवे भुजनिःस्वनः ॥
दीर्यन्ते किं नु गिरयः किंस्विद्भूमिर्विदीर्यते ।
किंस्विदापूर्यते व्योम जलधाराघनैर्घनैः ॥
रङ्गस्यैवं मतिरभूत्क्षणेन वसुधाधिप ।
द्वारं चाभिमुखाः सर्वे बभूवुः प्रेक्षकास्तदा ॥
पञ्चभिर्भ्रातृभिः पार्थैर्द्रोणः परिवृतो वभौ ।
पञ्चतारेण संयुक्तः सावित्रेणेव चन्द्रमाः ॥
अश्वत्थाम्ना च सहितं भ्रातॄणां शतमूर्जितम् ।
दुर्योधनममित्रघ्नमुत्थितं पर्यवारयत् ॥
स तैस्तदा भ्रातृभिरुद्यतायुधै- र्गदाग्रपाणिः समवस्थितैर्वृतः ।
बभौ यथा दानवसंक्षये पुरा पुनन्दरो देवगणैः समावृतः ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि पञ्चचत्वारिंशदधिकशततमोऽध्यायः ॥ 145 ॥

1-145-4 कृतयोग्यौ सुशिक्षितौ ॥ 1-145-10 तूणकार्मुककवचानां तत्प्रभाजालस्यार्जुनस्य च क्रमादर्केन्द्रायुधतडित्संध्यातोयदैरुपमा ॥ 1-145-11 समुत्पिञ्जलक उत्फुल्लता ॥ 1-145-14 अस्रैः प्रेमाश्रुभिः ॥ 1-145-23 सुकुमारं पूर्णघटकुक्कुटाण्डादीनि लक्ष्याण्यविचाल्याविध्यत् । सूक्ष्मं गुञ्जादि लक्ष्यं, गुरु घनावयवं च सोऽविध्यत् ॥ 1-145-25 भूताश्वेभवराहाणां सिंहर्क्षकपिसंमुखान् । बाणान्सप्तासमायुक्तान्स मुमोचैकबाणवत् । इति घपाठः । गव्ये गोसंबन्धिनि ॥ 1-145-31 सावित्रेण हस्तनक्षत्रेण ॥ 1-145-33 गदा अग्रं आलम्बनं यस्य तादृशः पाणिर्यस्य स गादाग्रपाणिः ॥ पञ्चचत्वारिंशदधिकशततमोऽध्यायः ॥ 145 ॥

अध्यायः 146

कर्णस्य परीक्षा ॥ 1 ॥ कर्णार्जुनयोर्युद्धप्रसङ्गः ॥ 2 ॥ कृपेण कर्णस्याधिक्षेपः, कर्णस्य दुर्योधनेन राज्याभिषेचनं च ॥ 3 ॥

वैशंपायन उवाच ।
`एतस्मिन्नेव काले तु तस्मिञ्जनसमागमे ।' दत्तेऽवकाशे पुरुषैर्विस्मयोत्फुल्ललोचनः ।
विवेश रङ्गं विस्तीर्णं कर्णः परपुरञ्जयः ॥
सहजं कवचं बिभ्रत्कुण्डलोद्द्योतिताननः ।
स धनुर्बद्धनिस्त्रिंशः पादचारीव पर्वतः ॥
कन्यागर्भः पृथुयशाः पृथायाः पृथुलोचनः ।
तीक्ष्णांशोर्भास्करस्यांशः कर्णोऽरिगणसूदनः ॥
सिंहर्षभगजेन्द्राणां बलवीर्यपराक्रमः ।
दीप्तिकान्तिद्युतिगुणैः सूर्येन्दुज्वलनोपमः ॥
प्रांशुः कनकतालाभः सिंहसंहननो युवा ।
असङ्ख्येयगुणः श्रीमान्भास्करस्यात्मसंभवः ॥
स निरीक्ष्य महाबाहुः सर्वतो रङ्गमण्डलम् ।
प्रणामं द्रोणकृपयोर्नात्यादृतमिवाकरोत् ॥
स समाजजनः सर्वो निश्चलः स्थिरलोचनः ।
कोऽयमित्यागतक्षोभः कौतूहलपरोऽभवत् ॥
सोऽब्रवीन्मेघगम्भीरस्वरेण वदतां वरः ।
भ्राता भ्रातरमज्ञातं सावित्रः पाकशासनिम् ॥
पार्थ यत्ते कृतं कर्म विशेषवदहं ततः ।
करिष्ये पश्यतां नॄणां माऽऽत्मना विस्मयं गमः ॥
असमाप्ते ततस्तस्य वचने वदतां वर ।
यन्त्रोत्क्षिप्त इवोत्तस्थौ क्षिप्रं वै सर्वतो जनः ॥
प्रीतिश्च मनुजव्याघ्र दुर्योधनमुपाविशत् ।
ह्रीश्च क्रोधश्च बीभत्सुं क्षणेनान्वाविवेश ह ॥
ततो द्रोणाभ्यनुज्ञातः कर्णः प्रियरणः सदा ।
यत्कृतं तत्र पार्थेन तच्चकार महाबलः ॥
अथ दुर्योधनस्तत्र भ्रातृभिः सह भारत ।
कर्णं परिष्वज्य मुदा ततो वचनमब्रवीत् ॥
स्वागतं ते महाबाहो दिष्ट्या प्राप्तोऽसि मानद ।
अहं च कुरुराज्यं च यथेष्टमुपभुज्यताम् ॥
कर्ण उवाच ।
कृतं सर्वमहं मन्ये सखित्वं च त्वया वृणे ।
द्वन्द्वयुद्धं च पार्थेन कर्तुमिच्छाम्यहं प्रभो ॥
`वैशंपायन उवाच ।
एवमुक्तस्तु कर्णेन राजन्दुर्योधनस्तदा । कर्णं दीर्घाञ्चितभुजं परिष्वज्येदमब्रवीत् ॥'
भुङ्क्ष्व भोगान्मया सार्धं बन्धूनां प्रियकृद्भव ।
दुर्हृदां कुरु सर्वेषां मूर्ध्नि पादमरिन्दम ॥
वैशंपायन उवाच ।
ततः क्षिप्तमिवात्मानं मत्वा पार्थोऽभ्यभाषत ।
कर्णं भ्रातृसमूहस्य मध्येऽचलमिव स्थितम् ॥
अर्जुन उवाच ।
अनाहूतोपसृष्टानामनाहूतोपजल्पिनाम् ।
ये लोकास्तान्हतः कर्ण मया त्वं प्रतिपत्स्यसे ॥
कर्ण उवाच ।
रङ्गोऽयं सर्वसामान्यः किमत्र तव फाल्गुन ।
वीर्यश्रेष्ठाश्च राजानो बलं धर्मोऽनुवर्तते ॥
किं क्षेपैर्दुर्बलायासैः शरैः कथय भारत ।
गुरोः समक्षं यावत्ते हराम्यद्य शिरः शरैः ॥
वैशंपायन उवाच ।
ततो द्रोणाभ्यनुज्ञातः पार्तः परपुरञ्जयः ।
भ्रातृभिस्त्वरयाश्लिष्टो रणायोपजगाम तम् ॥
ततो दुर्योधनेनापि स भ्रात्रा समरोद्यतः ।
परिष्वक्तः स्थितः कर्णः प्रगृह्य सशरं धनुः ॥
ततः सविद्युत्स्तनितैः सेन्द्रायुधपुरोगमैः ।
आवृतं गगनं मेघैर्बलाकापङ्क्तिहासिभिः ॥
ततः स्नेहाद्धरिहयं दृष्ट्वा रङ्गावलोकिनम् ।
भास्करोऽप्यनयन्नाशं समीपोपगतान्घनान् ॥
मेघच्छायोपगूढस्तु ततोऽदृश्यत फाल्गुनः ।
सूर्यातपपरिक्षिप्तः कर्णोऽपि समदृश्यत ॥
धार्तराष्ट्रा यतः कर्णस्तस्मिन्देशे व्यवस्थिताः ।
भारद्वाजः कृपो भीष्मो यतः पार्थस्ततोऽभवन् ॥
द्विधा रङ्गः समभवत्स्त्रीणां द्वैधमजायत ।
कुन्तिभोजसुता मोहं विज्ञातार्था जगाम ह ॥
तां तथा मोहमापन्नां विदुरः सर्वधर्मवित् ।
कुन्तीमाश्वासयामास प्रेष्याभिश्चन्दनोदकैः ॥
ततः प्रत्यागतप्राणा तावुभौ परिदंशितौ ।
पुत्रौ दृष्ट्वा सुसंभ्रान्ता नान्वपद्यत किंचन ॥
तावुद्यतमहाचापौ कृपः शारद्वतोऽब्रवीत् ।
द्वन्द्वयुद्धसमाचारे कुशलः सर्वधर्मवित् ॥
अयं पृथायास्तनयः कनीयान्पाण्डुनन्दनः ।
कौरवो भवता सार्धं द्वन्द्वयुद्धं करिष्यति ॥
त्वमप्येवं महाबाहो मातरं पितरं कुलम् ।
कथयस्व नरेन्द्राणां येषां त्वं कुलभूषणम् ॥
ततो विदित्वा पार्थस्त्वां प्रतियोत्स्यति वा न वा ।
वृथाकुलसमाचारैर्न युध्यन्ते नृपात्मजाः ॥
वैशंपायन उवाच ।
एवमुक्तस्य कर्णस्य व्रीडावनतमाननम् ।
बभौ वर्षाम्बुविक्लिन्नं पद्ममागलितं यथा ॥
दुर्योधन उवाच ।
आचार्य त्रिविधा योनी राज्ञां शास्त्रविनिश्चये ।
सत्कुलीनश्च शूरश्च यश्च सेनां प्रकर्षति ॥
`अद्भ्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम् । तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति ॥'
यद्ययं फाल्गुनो युद्धे नाराज्ञा योद्धुमिच्छति ।
तस्मादेषोऽङ्गविषये मया राज्येऽभिषिच्यते ॥
वैशंपायन उवाच ।
`ततो राजानमामन्त्र्य गाङ्गेयं च पितामहम् ।
अभिषेकस्य संभारान्समानीय द्विजातिभिः ॥
गोसहस्रायुतं दत्त्वा युक्तानां पुण्यकर्मणाम् ।
अर्होऽयमङ्गराज्यस्य इति वाच्य द्विजातिभिः' ॥
ततस्तस्मिन्क्षणे कर्णः सलाजकुसुमैर्घटैः ।
काञ्चनैः काञ्चने पीठे मन्त्रविद्भिर्महारथः ॥
अभिषिक्तोऽङ्गराजे स श्रिया युक्तो महाबलः ।
`स मौलिहारकेयूरः सहस्ताभरणाङ्गदः ॥
राजलिङ्गैस्तथाऽन्यैश्च भूषितो भूषणैः शुभैः ।' सच्छत्रवालव्यजनो जयशब्दोत्तरेण च ॥
उवाच कौरवं राजन्वचनं स वृषस्तदा ।
अस्य राज्यप्रदानस्य सदृशं किं ददानि ते ॥
प्रब्रूहि राजशार्दूल कर्ता ह्यस्मि तथा नृप ।
अत्यन्तं सख्यमिच्छामीत्याह तं स सुयोधनः ॥
एवमुक्तस्ततः कर्णस्तथेति प्रत्युवाच तम् ।
हर्षाच्चोभौ समाश्लिष्य परां मुदमवापतुः ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि षट्चत्वारिंशदधिकशततमोऽध्यायः ॥ 146 ॥

1-146-1 दत्तावकाश इति चपाठः ॥ 1-146-6 नामपूर्वमथाकरोत् इति पाठान्तरम् ॥ 1-146-26 सूर्यातपपरिवक्त इति डपाठः ॥ 1-146-28 विज्ञातार्था कर्णस्य स्वपुत्रत्वज्ञानवती । हेतुगर्भमेतत् ॥ 1-146-34 वृथाकुलसमाचारैः अज्ञातकुलाचारैः ॥ 1-146-40 वाच्य वाचयित्वा ॥ षट्चत्वारिंशदधिकशततमोऽध्यायझ ॥ 146 ॥

अध्यायः 147

कर्णपितुरधिरथस्य रङ्गप्रवेशः ॥ 1 ॥ भीमेन कर्णस्याधिक्षेपः ॥ 2 ॥ सर्वेषां रङ्गान्निष्क्रमणम् ॥ 3 ॥

वैशंपायन उवाच ।
ततः स्रस्तोत्तरपटः सप्रस्वेदः सवेपथुः ।
विवेशाधिरथो रङ्गं यष्टिप्राणो ह्वयन्निव ॥
तमालोक्य धनुस्त्यक्त्वा पितृगौरवयन्त्रितः ।
कर्णोऽभिषेकार्द्रशिराः शिरसा समवन्दत ॥
ततः पादाववच्छाद्य पटान्तेन ससंभ्रमः ।
पुत्रेति परिपूर्णार्थमब्रवीद्रथसारथिम् ॥
परिष्वज्य च तस्याथ मूर्धानं स्नेहविक्लवः ।
अङ्गराज्याभिषेकार्द्रमश्रुभिः सिषिचे पुनः ॥
तं दृष्ट्वा सूतपुत्रोऽयमिति संचिन्त्य पाण्डवः ।
भीमसेनस्तदा वाक्यमब्रवीत्प्रहसन्निव ॥
न त्वमर्हसि पार्थेन सूतपुत्र रणे वधम् ।
कुलस्य सदृशस्तूर्णं प्रतोदो गृह्यतां त्वया ॥
अङ्गराज्यं च नार्हस्त्वमुपभोक्तुं नराधम ।
श्वा हुताशसमीपस्थं पुरोडाशमिवाध्वरे ॥
वैशंपायन उवाच ।
एवमुक्तस्ततः कर्णः किंचित्प्रस्फुरिताधरः ।
गगनस्थं विनिःश्वस्य दिवाकरमुदैक्षत ॥
ततो दुर्योधनः कोपादुत्पपात महाबलः ।
भ्रातृपद्मवनात्तस्मान्मदोत्कट इव द्विपः ॥
सोऽब्रवीद्भीमकर्माणं भीमसेनमवस्थितम् ।
वृकोदर न युक्तं ते वचनं वक्तुमीदृशम् ॥
क्षत्रियाणां बलं ज्यष्ठं योक्तव्यं क्षत्रबन्धुना ।
शूराणां च नदीनां च प्रभवो दुर्विभावनः ॥
सलिलादुत्थितो वह्निर्येन व्याप्तं चराचरम् ।
दधीचस्यास्थितो वज्रं कृतं दानवसूदनम् ॥
आग्नेयः कृत्तिकापुत्रो रौद्रो गाङ्गेय इत्यपि ।
श्रूयते भगवान्देवः सर्वगुह्यमयो गुहः ॥
क्षत्रियेभ्यश्च ये जाता ब्राह्मणास्ते च ते श्रुताः ।
विश्वामित्रप्रभृतयः प्राप्ता ब्रह्मत्वमव्ययम् ॥
आचार्यः कलशाज्जातो द्रोणः शस्त्रभृतां वरः ।
गौतमस्यान्ववाये च शरस्तम्बाच्च गौतमः ॥
भवतां च यथा जन्म तदप्यागमितं मया । सकुण्डलं सकवचं सर्वलक्षणलक्षितम् ।
कथमादित्यसदृशं मृगी व्याघ्रं जनिष्यति ॥
पृथिवीराज्यमर्होऽयं नाङ्गराज्यं नरेश्वरः ।
अनेन बाहुवीर्येण मया चाज्ञानुवर्तिना ॥
यस्य वा मनुजस्येदं न क्षान्तं मद्विचेष्टितम् ।
रथमारुह्य पद्भ्यां स विनामयतु कार्मुकम् ॥
ततः सर्वस्य रङ्गस्य हाहाकारो महानभूत् ।
साधुवादानुसंबद्धः सूर्यश्चास्तमुपागमत् ॥
ततो दुर्योधनः कर्णमालम्ब्याग्रकरे नृपः ।
दीपिकाभिः कृतालोकस्तस्माद्रङ्गाद्विनिर्ययौ ॥
पाण्डवाश्च सहद्रोणाः सकृपाश्च विशांपते ।
भीष्मेण सहिताः सर्वे ययुः स्वं स्वं निवेशनम् ॥
अर्जुनेति जनः कश्चित्कश्चित्कर्णेति भारत ।
कश्चिद्दुर्योधनेत्येवं ब्रुवन्तः प्रस्थितास्तदा ॥
कुन्त्याश्च प्रत्यभिज्ञाय दिव्यलक्षणसूचितम् ।
पुत्रमङ्गेश्वरं स्नेहाच्छन्ना प्रीतिरजायत ॥
दुर्योधनस्यापि तदा कर्णमासाद्य पार्थिव ।
भयमर्जुनसंजातं क्षिप्रमन्तरधीयत ॥
स चापि वीरः कृतशस्त्रनिश्रमः परेण साम्नाऽभ्यवदत्सुयोधनम् ।
युधिष्ठिरस्याप्यभवत्तदा मति- र्न कर्णतुल्योऽस्ति धनुर्धरः क्षितौ ॥ ॥

इति श्रीमन्महाभारते आदिप्रवणि संभवपर्वणि सप्तचत्वारिंशदधिकशततमोऽध्यायः ॥ 147 ॥

1-147-18 यस्य येन न क्षान्तं न सोढम् ॥ 1-147-25 निश्रमो नितरां श्रमः ॥ सप्तचत्वारिंशदधिकशततमोऽध्यायः ॥ 147 ॥

अध्यायः 148

गुरुदक्षिणात्वेन जीवतो द्रुपदस्य ग्रहणे द्रोणेनाज्ञापिते तदर्थं तेन सह सर्वशिष्याणां पाञ्चालपुरगमनम् ॥ 1 ॥ द्रुपदग्रहणाय पाण्डववर्जं गतानां कौरवाणां तेन पराजयः ॥ 2 ॥ तदनन्तरं गतेषु पाण्डवेषु अर्जुनेन द्रुपदग्रहणम् ॥ 3 ॥ जीवग्राहं गृहीत्वा भीमार्जुनाभ्यां समर्पितेन द्रुपदेन द्रोणस्य संवादः ॥ 4 ॥ द्रोणेनार्धराज्यापहारेण मुक्तस्य द्रुपदस्य पुत्रोत्पादनार्थं प्रयत्नः ॥ 5 ॥

वैशंपायन उवाच ।
पाण्डवान्धार्तराष्ट्रांश्च कृतास्त्रान्प्रसमीक्ष्य सः ।
गुर्वर्थं दक्षिणां काले प्राप्तेऽमन्यत वै गुरुः ॥
`अस्त्रशिक्षामनुज्ञातान्रङ्गद्वारमुपागतान् ।
भारद्वाजस्ततस्तांस्तु सर्वानेवाभ्यभाषत ॥
इच्छामि दत्तां सहितां मह्यं परमदक्षिणाम् । एवमुक्तास्ततः सर्वे शिष्या द्रोणमथाब्रुवन् ।
भगवन्किं प्रयच्छाम आज्ञापयतु नो गुरुः ॥'
ततः शिष्यान्समाहूय आचार्योऽर्थमचोदयत् ।
द्रोणः सर्वानशेषेण दक्षिणार्थं महीपते ॥
पञ्चालराजं द्रुपदं गृहित्वा रणमूर्धनि ।
पर्यानयत भद्रं वः सा स्यात्परमदक्षिणा ॥
तथेत्युक्त्वा तु ते सर्वे रथैस्तूर्णं प्रहारिणः ।
आचार्यधनदानार्थं द्रोणेन सहिता ययुः ॥
ततोऽभिजग्मुः पञ्चालान्निघ्नन्तस्ते नरर्षभाः ।
ममृदुस्तस्य नगरं द्रुपदस्य महौजसः ॥
दुर्योधनश्च कर्णश्च युयुत्सुश्च महाबलः ।
दुःशासनो विकर्णश्च जलसन्धः सुलोचनः ॥
एते चान्ये च बहवः कुमारा बहुविक्रमाः ।
अहं पूर्वमहं पूर्वमित्येवं क्षत्रियर्षभाः ॥
ततो वरराथारूढाः कुमाराः सादिभिः सह ।
प्रविश्य नगरं सर्वे राजमार्गमुपाययुः ॥
तस्मिन्काले तु पाञ्चालः श्रुत्वा दृष्ट्वा महद्बलम् ।
भ्रातृभिः सहितो राजंस्त्वरया निर्ययौ गृहात् ॥
ततस्तु कृतसन्नाहा यज्ञसेनसहोदराः ।
शरवर्षाणि मुञ्चन्तः प्रणेदुः सर्व एव ते ॥
ततो रथेन शुभ्रेण समासाद्य तु कौरवान् ।
यज्ञसेनः शरान्घोरान्ववर्ष युधि दुर्जयः ॥
पूर्वमेव तु संमन्त्र्य पार्थो द्रोणमथाऽब्रवीत् ।
दर्पोद्रेकात्कुमाराणामाचार्यं द्विजसत्तमम् ॥
एषां पराक्रमस्यान्ते वयं कुर्याम साहसम् ।
एतैरशक्यः पाञ्चालो ग्रहीतुं रणमूर्धनि ॥
एवमुक्त्वा तु कौन्तेयो भ्रातृभिः सहितोऽनघः ।
अर्धक्रोशे तु नगरादतिष्ठद्बहिरेव सः ॥
द्रुपदः कौरवान्दृष्ट्वा प्राधावत समन्ततः ।
शरजालेन महता मोहयन्कौरवीं चमूम् ॥
तमुद्यतं रथेनैकमाशुकारिणमाहवे ।
अनेकमिव सन्त्रासान्मेनिरे तत्र कौरवाः ॥
द्रुपदस्य शरा घोरा विचेरुः सर्वतोदिशम् ।
ततः शङ्खाश्च भेर्यश्च मृदङ्गाश्च सहस्रशः ॥
प्रावाद्यन्त महाराज पञ्चालानां निवेशने ।
सिंहनादश्च संजज्ञे पञ्चालानां महात्मनाम् ॥
धनुर्ज्यातलशब्दश्च संस्पृश्य गगनं महान् ।
दुर्योधनो विकर्णश्च सुबाहुर्दीर्घलोचनः ॥
दुःशाशनश्च संक्रुद्धः शरवर्षैरवाकिरन् ।
सोऽतिविद्धो महेष्वासः पार्षतो युधि दुर्जयः ॥
व्यधमत्तान्यनीकानि तत्क्षणादेव भारत ।
दुर्योधनं विकर्णं च कर्णं चापि महाबलम् ॥
नानानृपसुतान्वीरान्सैन्यानि विविधानि च ।
अलातचक्रवत्सर्वं चरन्बाणैरतर्पयत् ॥
ततस्तु नागराः सर्वे मुसलैर्यष्टिभिस्तदा ।
अभ्यवर्षन्त कौरव्यान्वर्षमाणा घा इव ॥
सबालवृद्धाः काम्पिल्याः कौरवानभ्ययुस्तदा ।
श्रुत्वा सुतुमुलं युद्धं कौरवानेव भारत ॥
द्रवन्तिस्म नदन्तिस्म क्रोशन्तः पाण्डवान्प्रति ।
पाडवास्तु स्वनं श्रुत्वा आर्तानां रोमहर्षणम् ॥
अभिवाद्य ततो द्रोणं रथानारुरुहुस्तदा ।
युधिष्ठिरं निवार्याशु मा युध्यस्वेति पाण्डवम् ॥
माद्रेयौ चक्ररक्षौ तु फाल्गुनश्च तदाऽकरोत् ।
सेनाग्रगो भीमसेनस्तदाभूद्गदया सह ॥
तदा शत्रुस्वनं श्रुत्वा भ्रातृभिः सहितोऽनघः ।
आयाज्जवेन कौन्तेयो रथेनानादयन्दिशः ॥
पञ्चालानां ततः सेनामुद्धूतार्णवनिःस्वनाम् ।
भीमसेनो महाबाहुर्दण्डपाणिरिवान्तकः ॥
प्रविवेश महासेनां मकरः सागरं यथा । `चतुरङ्गबलाकीर्णे ततस्तस्मिन्रणोत्सवे ॥'
स्वयमभ्यद्रवद्भीमो नागानीकं गदाधरः ॥
स युद्धकुशलः पार्थो बाहुवीर्येण चातुलः ।
अहनत्कुञ्जरानीकं गदया कालरूपधृक् ॥
ते गजा गिरिसङ्काशाः क्षरन्तो रुधिरं बहु ।
भीमसेनस्य गदया भिन्नमस्तकपिण्डकाः ॥
पतन्ति द्विरदा भूमौ वज्रघातादिवाचलाः ।
गजानश्वान्रथांश्चैव पातयामास पाण्डवः ॥
पदातींश्च रथांश्चैव न्यवधीदर्जुनाग्रजः ।
गोपाल इव दण्डेन यथा पशुगणान्वने ॥
चालयन्रथनागांश्च संचचाल वृकोदरः ।
भारद्वाजप्रियं कर्तुमुद्यतः फाल्गुनस्तदा ॥
पार्षतं शरजालेन क्षिपन्नागात्स पाण्डवः ।
हयौघांश्च रथौघांश्च गजौघांश्च समन्ततः ॥
पातयन्समरे राजन्युगान्ताग्रिरिव ज्वलन् ।
ततस्ते हन्यमाना वै पञ्चालाः सृञ्जयास्तथा ॥
शरैर्नानाविधैस्तूर्णं पार्थं संछाद्य सर्वशः ।
सिंहनादं मुखैः कृत्वा समयुध्वन्त पाण्डवम् ॥
तद्युद्धमभवद्धोरं समुहाद्भुतदर्शनम् ।
सिंहनादस्वनं श्रुत्वा नामृष्यत्पाकशासनिः ॥
ततः किरीटी सहसा पञ्चालान्समरेऽद्रवत् ।
छादयन्निषुजालेन महता मोहयन्निव ॥
शीघ्रमभ्यस्यतो बाणान्संदधानस्य चानिशम् ।
नान्तरं ददृशे किंचित्कौन्तेयस्य यशस्विनः ॥
`न दिशो नान्तरिक्षं च तदा नैव च मेदिनी ।
अदृश्यत महाराज तत्र किंचिन्न सङ्गरे ॥
पाञ्चालानां कुरूणां च साधुसाध्विति निस्वनः । तत्र तूर्यनिनादश्च शङ्खानां च महास्वनः ॥'
सिंहनादश्च संजज्ञे साधुशब्देन मिश्रितः ।
ततः पाञ्चालराजस्तु तथा सत्यजिता सह ॥
त्वरमाणोऽभिदुद्राव महेन्द्रं शम्बरो यथा ।
महता शरवर्षेण पार्थः पाञ्चालमावृणोत् ॥
ततो हलहलाशब्द आसीत्पाञ्चालके बले ।
जिवृक्षति महासिंहे गजानामिव यूथपम् ॥
दृष्ट्वा पार्थं तदायान्तं सत्यजित्सत्यविक्रमः ।
पाञ्चालं वै परिप्रेप्सुर्धनञ्जयमदुद्रुवत् ॥
ततस्त्वर्जुनपाञ्चालौ युद्धाय समुपागतौ ।
व्यक्षोभयेतां तौ सैन्यमिन्द्रवैरोचनाविव ॥
ततः सत्यजितं पार्थो दशभिर्मर्मभेदिभिः ।
विव्याध बवलद्गाढं तदद्भुतमिवाभवत् ॥
ततः शरशतैः पार्थं पाञ्चालः शीघ्रमार्दयत् ।
पार्थस्तु शरवर्षेण च्छाद्यमानो महारथः ॥
वेगं चक्रे महावेगो धनुर्ज्यामवमृज्य च ।
ततः सत्यजितश्चापं छित्वा राजानमभ्ययात् ॥
अथान्यद्धनुरादाय सत्यजिद्वेगवत्तरम् ।
साश्वं ससूतं सरथं पार्थं विव्याध सत्वरः ॥
स तं न ममृषे पार्थः पाञ्चालेनार्दितो युधि ।
ततस्तस्य विनाशार्थं सत्वरं व्यसृजच्छरान् ॥
हयान्ध्वजं धनुर्मुष्टिमुभौ तौ पार्ष्णिसारथी ।
स तथा भिद्यमानेषु कार्मुकेषु पुनः पुनः ॥
हयेषु विनिकृत्तेषु विमुखोऽभवदाहवे ।
स सत्यजितमालेक्य तथा विमुखमाहवे ॥
वेगेन महता राजन्नभ्यधावत पार्षतम् ।
तदा चक्रे महद्युद्धमर्जुनो जयतां वरः ॥
तस्य पार्थो धनुश्छित्त्वा ध्वजं चोर्व्यामपातयत् ।
पञ्चभिस्तस्य विव्याध हयान्सूतं च सायकैः ॥
तत उत्सृज्य तच्चापमाददानः शरावरम् ।
खड्गमुद्धृत्य कौन्तेयः सिंहनादमथाकरोत् ॥
पाञ्चालस्य रथस्येषामाप्लुत्य सहसाऽपतत् ।
पाञ्चालरथमास्थाय अवित्रस्तो धनञ्जयः ॥
विक्षोभ्याम्भोनिधिंतार्क्ष्यस्तंनागमिव सोऽग्रहीत् ।
ततस्तु सर्वपाञ्चाला विद्रवन्ति दिशो दश ॥
दर्शयन्सर्वसैन्यानां स बाह्वोर्बलमात्मनः ।
सिंहनादस्वनं कृत्वा निर्जगाम धनञ्जयः ॥
आयान्तमर्जुनं दृष्ट्वा कुमाराः सहितास्तदा ।
ममृदुस्तस्य नगरं द्रुपदस्य महात्मनः ॥
अर्जुन उवाच ।
संबन्धी कुरुवीराणां द्रुपदो राजसत्तमः ।
मा वधीस्तद्बलं भीम गुरुदानं प्रदीयताम् ॥
वैशंपायन उवाच ।
भीमसेनस्तदा राजन्नर्जुनेन निवारितः ।
अतृप्तो युद्धधर्मेषु न्यवर्तत महाबलः ॥
ते यज्ञसेनं द्रुपदं गृहीत्वा रणमूर्धनि ।
उपाजग्मुः सहामात्यं द्रोणाय भरतर्षभ ॥
भग्नदर्पं हृतधनं तं तथा वशमागतम् ।
स वैरं मनसा ध्यात्वा द्रोणो द्रुपदमब्रवीत् ॥
विमृज्य तरसा राष्ट्रं पुरं ते मृदितं मया ।
प्राप्य जीवन्रिपुवशं सखिपूर्वं किमिष्यते ॥
एवमुक्त्वा प्रहस्यैनं किंचित्स पुनरब्रवीत् ।
मा भैः प्राणभयाद्वीर क्षमिणो ब्राह्मणा वयम् ॥
आश्रमे क्रीडितं यत्तु त्वया बाल्ये मया सह ।
तेन संवर्धितः स्नेहः प्रीतिश्च क्षत्रियर्षभ ॥
प्रार्थयेयं त्वया सख्यं पुनरेव जनाधिप ।
वरं ददामि ते राजन्राज्यस्यार्धमवाप्नुहि ॥
अराजा किल नो राज्ञः सखा भवितुमर्हति ।
अतः प्रयतितं राज्ये यज्ञसेन मया तव ॥
राजासि दक्षिणे कूले भागीरथ्याहमुत्तरे ।
सखायं मां विजानीहि पाञ्चाल यदि मन्यसे ॥
द्रुपद उवाच ।
अनाश्चर्यमिदं ब्रह्मन्विक्रान्तेषु महात्मसु ।
प्रीये त्वयाऽहं त्वत्तश्च प्रीतिमिच्छामि शाश्वतीम् ॥
वैशंपायन उवाच ।
एवमुक्तः स तं द्रोणो मोक्षयामास भारत ।
सत्कृत्य चैनं प्रीतात्मा राज्यार्धं प्रत्यपादयत् ॥
माकन्दीमथ गङ्गायास्तीरे जनपदायुताम् ।
सोऽध्यावसद्दीनमनाः काम्पिल्यं च पुरोत्तमम् ॥
दक्षिणांश्चापि पञ्चालान्यावच्चर्मण्वती नदी ।
द्रोणेन चैवं द्रुपदः परिभूयाथ पालितः ॥
क्षात्रेण च बलेनास्य नापश्यत्स पराजयम् ।
हीनं विदित्वा चात्मानं ब्राह्मेण स बलेनतु ॥
पुत्रजन्म परीप्सन्वै पृथिवीमन्वसंचरत् ।
अहिच्छत्रं च विषयं द्रोणः समभिपद्यत ॥
एवं राजन्नहिच्छत्रा पुरीजनपदायुता ।
युधि निर्जित्य पार्थेन द्रोणाय प्रतिपादिता ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि अष्टचत्वारिंशदधिकशततमोऽध्यायः ॥ 148 ॥

1-148-61 शरावरं चर्म ॥ 1-148-62 ईषा रथस्य युगचक्रसंलग्नं महादारु ॥ 1-148-70 प्राप्य जीवन्नृप वशामिति ङपाठः ॥ अष्टचत्वारिंशदधिकशततमोऽध्यायः ॥ 148 ॥

अध्यायः 149

द्रुपदस्य याजोपयाजसमीपगमनम् ॥ 1 ॥ उपयाजेन द्रोणविनाशकपुत्रोत्पादनार्थं याजनाय प्रार्थिते याजनस्य प्रत्याख्यानम् ॥ 2 ॥ याजेनाङ्गीकारे यजनारम्भः ॥ 3 ॥ अपत्यप्रदहविःप्राशनार्थं द्रुपदपत्न्या आह्वाने गर्वात्तया विलम्बनम् ॥ 4 ॥ क्रुद्धाभ्यां याजोपयाजाभ्यां अग्नौ हृविषो होमेनाग्निकुण्डाद्धृष्टद्युम्नस्योत्पत्तिः ॥ 5 ॥ द्वितीयहविषो होमेन पाञ्चाल्या उत्पत्तिः ॥ 6 ॥ तयोर्नामकरणम् ॥ 7 ॥ द्रोणाद्धृष्टद्युम्नस्यास्त्रशिक्षणम् ॥ 8 ॥

`वैशंपायन उवाच ।
द्रोणेन वैरं द्रुपदो न सुष्वाप स्मरंस्तदा ।
क्षात्रेण वै बलेनास्य नाऽशशंसे पराजयम् ॥
हीनं विदित्वा चात्मानं ब्राह्मेणापि बलेन च ।
द्रुपदोऽमर्षणाद्राजा कर्मसिद्धान्द्विजोत्तमान् ॥
अन्विच्छन्परिचक्राम ब्राह्मणावसथान्बहून् ।
नास्ति श्रेष्ठं ममापत्यं धिग्बन्धूनिति च ब्रुवन् ॥
निश्वासपरमो ह्यासीद्द्रोणं प्रतिचिकीर्षया ।
न सन्ति मम मित्राणि लोकेऽस्मिन्नास्ति वीर्यवान् ॥
पुत्रजन्म परीप्सन्वै पृथिवीमन्वयादिमाम् ।
प्रभावशिक्षाविनयाद्द्रोणस्यास्त्रबलेन च ॥
कर्तुं प्रयतमानो वै न शशाक पराजयम् ।
अभितः सोऽथ कल्माषीं गङ्गातीरे परिभ्रमन् ॥
ब्राह्मणावसथं पुण्यमाससाद महीपतिः ।
तत्र नास्नातकः कश्चिन्न चासीदव्रतो द्विजः ॥
तथैव तौ महाभागौ सोऽपश्यच्छंसितव्रतौ ।
याजोपयाजौ ब्रह्मर्षी भ्रातरौ पृषतात्मजः ॥
संहिताध्ययने युक्तौ गोत्रतश्चापि काश्यपौ ।
अरण्ये युक्तरूपौ तौ ब्राह्मणावृषिसत्तमौ ॥
स उपामन्त्रयामास सर्वकामैरतन्द्रितः ।
बुद्ध्वा तयोर्बलं बुद्धिं कनीयांसमुपह्वरे ॥
प्रपेदे छन्दयन्कामैरुपयाजं धृतव्रतम् ।
गुरुशुश्रूषणे युक्तः प्रियकृत्सर्वकामदम् ॥
पाद्येनासनदानेन तथाऽर्घ्येण फलैश्च तम् ।
अर्हयित्वा यथान्यायमुपयाजोऽब्रवीत्ततः ॥
येन कार्यविशेषेण त्वमस्मानभिकाङ्क्षसे ।
कृतश्चायं समुद्योगस्तद्ब्रवीतु भवानिति ॥
वैशंपायन उवाच ।
स बुद्ध्वा प्रीतिसंयुक्तमृषीणामुत्तमं तदा ।
उवाच छन्दयन्कामैर्द्रुपदः स तपस्विनम् ॥
येन मे कर्मणा ब्रह्मन्पुत्रः स्याद्द्रोणमृत्येव ।
उपयाज चरस्वैतत्प्रदास्यामि धनं तव ॥
उपयाज उवाच ।
नाहं फलार्थी द्रुपद योऽर्थी स्यात्तत्र गम्यताम् ।
वैशंपायन उवाच ।
प्रत्याख्यातस्तु तेनैवं स वै सज्जनसंनिधौ ॥
आराधयिष्यन्द्रुपदः स तं पर्यचरत्तदा ।
ततः संवत्सरस्यान्ते द्रुपदं द्विजसत्तमः ॥
उपयाजोऽब्रवीद्वाक्यं काले मधुरया गिरा ।
ज्येष्ठो भ्राता न मेऽत्याक्षीद्विचरन्विजने वने ॥
अपरिज्ञातशौचायां भूमौ निपतितं फलम् ।
तदपश्यमहं भ्रातुरसांप्रतमनुव्रजन् ॥
विमर्शं हि फलादाने नायं कुर्यात्कथंचन ।
नापश्यत्फलं दृष्ट्वा दोषांस्तस्याऽऽनुबन्धिकान् ॥
विविनक्ति न शौचार्थी सोऽन्यत्रापि कथं भवेत् ।
संहिताध्ययनस्यान्ते पञ्चयज्ञान्निरूप्य च ॥
भैक्षमुञ्छेन सहितं भुञ्जानस्तु तदा तदा ।
कीर्तयत्येव राजर्षे भोजनस्य रसं पुनः ॥
संहिताध्ययनं कुर्वन्वने गुरुकुले वसन् ।
भैक्षमुच्छिष्टमन्येषां भुङ्क्ते स्म सततं तथा ॥
कीर्तयन्गुणमन्नानामथ प्रीतो मुहुर्मुहुः ।
एवं फलार्थिनस्त्समान्मन्येऽहं तर्कचक्षुषा ॥
तं वै गच्छेह नृपते त्वां स संयाजयिष्यति ॥
वैशंपायन उवाच ।
उपयाजवचः श्रुत्वा याजस्याश्रममभ्यगात् ।
जुगुप्समानो नृपतिर्मनसेदं विचिन्तयन् ॥
भृशं संपूज्य पूजार्हमृषिं याजमुवाच ह ।
गोशतानि ददान्यष्टौ याज याजय मां विभो ॥
द्रोणवैरान्तरे तप्तं विषण्णं शरणागतम् ।
ब्रह्मबन्धुप्रणिहितं न क्षत्रं क्षत्रियो जयेत् ॥
तस्माद्द्रोणभयार्तं मां भवांस्त्रातुमिहार्हति ।
येन मे कर्मणा ब्रह्मन्पुत्रः स्याद्द्रोणमृत्यवे ॥
अर्जुनस्यापि वै भार्या भवेद्या वरवर्णिनी ।
स हि ब्रह्मविदां श्रेष्ठो ब्राह्मे क्षात्रेऽप्यनुत्तमः ॥
ततो द्रोणस्तु माऽजैषीत्सखिविग्रहकारणात् ।
क्षत्रियो नास्ति तुल्योऽस्य पृथिव्यां कश्चिदग्रणीः ॥
भारताचार्यमुख्यस्य भारद्वाजस्य धीमतः ।
द्रोणस्य शरजालानि रिपुदेहहराणि च ॥
षडरत्नि धनुश्चास्य खड्गमप्रतिम तथा ।
स हि ब्राह्मणवेषेण क्षात्रं वेगमसंशयम् ॥
प्रतिहन्ति महेष्वासो भारद्वाजो महामनाः ।
कार्तवीर्यसमो ह्येष खट्वाङ्गप्रतिमो रणे ॥
क्षत्रोच्छेदाय विहितो जामदग्न्य इवास्थितः ॥
सहितं क्षत्रवेगेन ब्रह्मवेगेन सांप्रतम् ।
उपपन्नं हि मन्येऽहं भारद्वाजं यशस्विनम् ॥
नेषवस्तमपाकुर्युर्न च प्रासा न चासयः ।
ब्राह्मं तस्य महातेजो मन्त्राहुतिहुतं यथा ॥
तस्य ह्यस्त्रबलं घोरमप्रसह्यं परैर्भुवि ।
शत्रून्समेत्य जयति क्षत्रं ब्रह्मपुरस्कृतम् ॥
ब्रह्मक्षत्रे च सहिते ब्रह्मतेजो विशिष्यते ।
सोऽहं क्षत्रबलाद्दीनो ब्रह्मतेजः प्रपेदिवान् ॥
द्रोणाद्विशिष्टमासाद्य भवन्तं ब्रह्मवित्तमम् ।
द्रोणान्तकमहं पुत्रं लभेयं युधि दुर्जयम् ॥
द्रोणमृत्युर्यथा मेऽद्य पुत्रो जायेत वीर्यवान् ।
तत्कर्म कुरु मे याज निर्वपाम्यर्बुद्धं गवाम् ॥
वैशंपायन उवाच ।
तथेत्युक्त्वा तुं तं याजो यज्ञार्थमुपकल्पयन् ।
गुर्वर्थ इति चाकाममुपयाजमचोदयत् ॥
द्रुपदं च महाराजमिदं वचनमब्रवीत् ।
मा भैस्त्वं संप्रदास्यामि कर्मणा भवतः सुतम् ॥
क्षिप्रमुत्तिष्ठ चाव्यग्रः संभारानुपकल्पय ।
वैशंपायन उवाच ।
एवमुक्त्वा प्रतिज्ञाय कर्म चास्याददे मुनिः ॥
ब्राह्मणो द्विपदां श्रेष्ठो यथाविधि कथाक्रमम् ।
याजो द्रोणविनाशाय याजयामास तं नृपम् ॥
गुर्वर्थेऽयोजयत्कर्म याजस्यापि समीपतः ।
ततस्तस्य नरेन्द्रस्य उपयाजो महातपाः ॥
आचव्यौ कर्म वैतानं तथा पुत्रफलाय वै । इह पुत्रो महावीर्यो महातेजा महाबलः ।
इष्यते यद्विधो राजन्भविता स तथाविधः ॥
वैशंपायन उवाच ।
भारद्वाजस्य हन्तारं सोऽभिसन्धाय पार्थिवः ।
आजहेऽथ तदा राजन्द्रुपदः कर्म सिद्धये ॥
ब्राह्मणो द्विपदां श्रेष्ठो जुहाव च यथाविधि ।
कौसवी नाम तस्यासीद्या वै तां पुत्रगृद्धिनः ॥
सौत्रामणिं तथा पत्नीं ततः कालेऽभ्ययात्तदा ।
याजस्तु सवनस्यान्ते देवीमाह्वापयत्तदा ॥
प्रेहि मां राज्ञि पृषति मिथुनं त्वामुपस्थितम् ।
कुमारश्च कुमारी च पितृवंशविवृद्धये ॥
पृषत्युवाच ।
नालिप्तं वै मम मुखं पुण्यान्गन्धान्बिभर्मि च ।
न पत्नी तेऽस्मि सूत्यर्थे तिष्ठ याज मम प्रिये ॥
याज उवाच ।
याजेन श्रपितं हव्यमुपयाजेन मन्त्रितम् ।
कथं कामं न संदध्यात्पृषति प्रेहि तिष्ठ वा ॥
वैशंपायन उवाच ।
एवमुक्त्वा तु याजेन हुते हविषि संस्कृते ।
उत्तस्थौ पावकात्तस्मात्कुमारो देवसंनिभः ॥
ज्वालावर्णो घोररूपः किरीटी वर्म धारयन् ।
वीरः सखङ्गः सशरो धनुष्मान्स नदन्मुहुः ॥
सोऽभ्यरोहद्रथवरं तेन च प्रययौ तदा ।
जातमात्रे कुमारे च वाक्किलान्तर्हिताब्रवीत् ॥
एष शिष्यश्च मृत्युश्च भारद्वाजस्य जायते ।
भयापहो राजपुत्रः पाञ्चालानां यशस्करः ॥
राज्ञः शोकापहो जात एष द्रोणवधाय हि ।
इत्यवोचन्महद्भूतमदृश्यं खेचरं तदा ॥
ततः प्रणेदुः पाञ्चालाः प्रहृष्टाः साधुसाध्विति ।
द्वितीयायां च होत्रायां हुते हविषि मन्त्रिते ॥
कुमारी चापि पाञ्चाली वेदिमध्यात्समुत्थिता ।
प्रत्याख्याते पृषत्या च याजके भरतर्षभ ॥
पुनः कुमारी पाञ्चाली सुभगा वेदिमध्यगा ।
अन्तर्वेद्यां समुद्भूता कन्या सा सुमनोहरा ॥
श्यामा पद्मपलाशाक्षी नीलकुञ्चितमूर्धजा ।
मानुषं विग्रहं कृत्वा साक्षाच्छ्रीरिव वर्णिनी ॥
ताम्रतुङ्गनखी सुभ्रूश्चारुपीनपयोधरा ।
नीलोत्पलसमो गन्धो यस्याः क्रोशात्प्रधावति ॥
या बिभर्ति परं रूपं यस्या नास्त्युपमा भुवि ।
देवदानवयक्षाणामीप्सिता वरवर्णिनी ॥
तां चापि जातां सुश्रोणीं वागुवाचाशरीरिणी ।
सर्वयोषिद्वरा कृष्णा क्षयं क्षत्रस्य नेष्यति ॥
सुरकार्यमियं काले करिष्यति सुमध्यमा ।
अस्या हेतोः क्षत्रियाणां महदुत्पत्स्यते भयम् ॥
तच्छ्रुत्वा सर्वपाञ्चालाः प्रणेदुः सिंहसङ्घवत् ।
न चैनान्हर्षसंपन्नानियं सेहे वसुन्धरा ॥
तथा तु मिथुनं जज्ञे द्रुपदस्य महात्मनः ।
कुमारश्च कुमारी च मनोज्ञौ तौ नरर्षभौ ॥
श्रिया परमया युक्तौ क्षात्रेण वपुषा तथा ।
तौ दृष्ट्वा पृषती याजं प्रपेदे सा सुतार्थिनी ॥
न वै मदन्यां जननीं जानीयातामिमाविति ।
तथेत्युवाच तां याजो राज्ञः प्रियचिकीर्षया ॥
तयोस्तु नामनी चक्रुर्द्विजाः संपूर्णमानसाः ।
धृष्टत्वादप्रधृष्यत्वात् द्युम्नाद्युत्संभवादपि ॥
धृष्टद्युम्नः कुमारोऽयं द्रुपद्सय भवत्विति ।
कृष्णेत्येवाभवत्कन्या कृष्णा भूत्सा हि वर्णतः ॥
तथा तन्मिथुनं जज्ञे द्रुपदस्य महामखे ।
वैदिकाध्ययने पारं धृष्टद्युम्नो गतस्तदा ॥
धृष्टद्युम्नं तु पाञ्चाल्यमानीय स्वं निवेशनम् ।
उपाकरोदस्त्रहेतोर्भारद्वाजः प्रतापवान् ॥
अमोक्षणीयं दैवं हि भावि मत्वा महामतिः ।
तथा तत्कृतवान्द्रोण आत्मकीर्त्यनुरक्षणात् ॥
सर्वास्त्राणि स तु क्षिप्रमाप्तवान्परया धिया ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि ऊनपञ्चाशदधिकशततमोऽध्यायः ॥ 149 ॥

1-149-63 क्रोशात् क्रोशमभिव्याप्य ॥ 1-149-71 द्युम्नाद्युत्संभवात् हिरण्यादिभिः सह जातत्वात् ॥ ऊनपञ्चाशदधिकशततमोऽध्यायः ॥ 149 ॥

अध्यायः 150

द्रुपदोत्पत्तिः ॥ 1 ॥

जनमेजय उवाच ।
द्रुपदस्यापि विप्रर्षे श्रोतुमिच्छामि संभवम् । कथं चापि समुत्पन्नः कथमस्त्राण्यवाप्तवान् ॥'
एतदिच्छामि भगवंस्त्वत्तः श्रोतुं द्विजोत्तम ।
कौतूहलं जन्मसु मे कीर्त्यमानेष्वनेकशः ॥
वैशंपायन उवाच ।
राजा बभूव पाञ्चालः पुत्रार्थी पुत्रकारणात् ।
वनं गतो महाराजस्तपस्तेपे सुदारुणम् ॥
आराधयन्प्रयत्नेन महर्षीन्संशितव्रतान् ।
तस्य संतप्यमानस्य वने मृगगणायुते ॥
कालस्तु सुमहान्राजन्नत्ययात्सुतकारणात् ।
स तु राजा महातेजास्तपस्तीव्रं समाददे ॥
कंचित्कालं वायुभक्षो निराहारस्तथैव च ।
तथैव तु महाबाहोर्वर्तमानस्य भारत ॥
कालस्तस्य महाराज यातो वै नृपसत्तम ।
ततो नातिचिरात्काले वसन्ते कामदीपने ॥
फुल्लाशोकवने चैव प्राणिनां सुमनोहरे ।
नद्यास्तीरं ततो गत्वा गङ्गायाः पद्मलोचनः ॥
नियमस्थश्च राजासीत्तदा भरतसत्तम ।
ततो नातिचिरात्काले वनं तन्मनुजेश्वर ॥
संप्राप्ता ह्यप्सरा राजन्मेनकेत्यभिविश्रुता ।
पुष्पद्रुमान्सज्जमाना राज्ञो दर्शनमागमत् ॥
न ददर्श तु सा राजंस्तत्र स्थानगतं नृपम् ।
दृष्ट्वा चाप्सरसं तां तु शुक्रं राज्ञोऽपतद्भुवि ॥
ततः स राजा राजेन्द्र लज्जया नृपतिः स्वयम् ।
पद्भ्यामाक्रमतायुष्मंस्ततस्तु द्रुपदोऽभवत् ॥
ततस्तु तपसा तस्य राजर्षेर्भावितात्मनः ।
पुत्रः समभवच्छीघ्रं पदोस्तस्य क्रमेण तु ॥
तेनास्य ऋषयः सर्वे समागम्य तपोधनाः ।
नाम चुक्रुर्हि विद्वांसो द्रुपदोऽस्त्विति भारत ॥
स तस्यैवाश्रमे राजन्भरद्वाजस्य भारत ।
ववृधे सुमुखं तत्र कामैः सर्वैर्नृपोत्तम ॥
पाञ्चालोऽपि हि राजेन्द्र स्वराज्यं गतवान्प्रभुः ।
भरद्वाजस्य विद्यार्थं सुतं दत्वा महात्मनः ॥
स कुमारस्ततो राजन्द्रोणेन सहितो वने ।
वेदांश्चाधिजगे साङ्गान्धनुर्वेदांश्च भारत ॥
परया स मुदा युक्तो विचचार वने सुखम् ।
तस्यैवं वर्तमानस्य वने वनचरैः सह ॥
कालेनातिचिराद्राजन्पिता स्वर्गमुपेयिवान् ।
स समागम्य पाञ्चालैः पाञ्चालेष्वभिषेचितः ॥
प्राप्तश्च राज्यं राजेन्द्र सुहृदां प्रीतिवर्धनः ।
राज्यं ररक्ष धर्मेण यथा चेन्द्रस्त्रिविष्टपम् ॥
एतन्मया ते राजेन्द्र यथावत्परिकीर्तितम् ।
द्रुपदस्य च राजर्षेर्धृष्टद्युम्नस्य जन्म च ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि पञ्चाशदधिकशततमोऽध्यायः ॥ 150 ॥

अध्यायः 151

यौवराज्ये युधिष्ठिरस्याभिषेकः ॥ 1 ॥ भीमसेनस्य बलरामाद्गदायुद्धशिक्षणम् ॥ 2 ॥ द्रोणेनार्जुनस्य ब्रह्मशिरोस्त्रविषये नियमकथनम् ॥ 3 ॥ भीमार्जुनदिग्विजयेन धृतराष्ट्रचिन्ता ॥ 4 ॥

वैशंपायन उवाच ।
`धृतराष्ट्रस्तु राजन्द्रे यदा कौरवनन्दनम् ।
युधिष्ठिरं विजानन्वै समर्थं राज्यरक्षणे ॥
यौवराज्याभिषेकार्थममन्त्रयत मन्त्रिभिः ।
ते तु बुद्ध्वान्वतप्यन्त धृतराष्ट्रात्मजास्तदा ॥
ततः संवत्सरस्यान्ते यौवराज्याय पार्थिव ।
स्थापितो धृतराष्ट्रेण पाण्डुपुत्रो युधिष्ठिरः ॥
ततोऽदीर्घेण कालेन कुन्तीपुत्रो युधिष्ठिरः ।
पितुरन्तर्दधे कीर्तिं शीलवृत्तसमाधिभिः ॥
असियुद्धे गदायुद्धे रथयुद्धे च पाण्डवः ।
संकर्षणादशिक्षद्वै शश्वच्छिक्षां वृकोदरः ॥
समाप्तशिक्षो भीमस्तु द्युमत्सेनसमो बले ।
पराक्रमेण संपन्नो भ्रातॄणामचरद्वशे ॥
प्रगाढदृढमुष्टित्वे लाघवे वेधने तथा ।
क्षुरनाराचभल्लानां विपाठानां च तत्त्ववित् ॥
ऋजुवक्रविशालानां प्रयोक्ता फाल्गुनोऽभवत् ।
लाघवे सौष्ठवे चैव नान्यः कश्चन विद्यते ॥
बीभत्सुसदृशो लोक इति द्रोणो व्यवस्थितः ।
ततोऽब्रवीद्गुडाकेशं द्रोणः कौरवसंसदि ॥
अगस्त्यस्य धनुर्वेदे शिष्यो मम गुरुः पुरा ।
अग्निवेश्य इति ख्यातस्तस्य शिष्योऽस्मि भारत ॥
तीर्थात्तीर्थं गमयितुमहमेतत्समुद्यतः ।
तपसा यन्मया प्राप्तममोघमशनिप्रभम् ॥
अस्त्रं ब्रह्मशिरो नाम यद्दहेत्पृथिवीमपि ।
ददता गुरुणा चोक्तं न मनुष्येष्विदंत्वया ॥
भारद्वाज विमोक्तव्यमल्पवीर्येषु संयुगे ।
यद्यदन्तर्हितं भूतं किंचिद्युद्ध्येत्त्वया सह ॥
महातेजस्त्वमेतेन हन्याः शस्त्रेण संयुगे ।
त्वया प्राप्तमिदं वीर दिव्यं नान्योऽर्हति त्विदम् ॥
समयस्तु त्वया रक्ष्यो मुनिसृष्टो विशांपते ।
आचार्यदक्षिणां देहि ज्ञातिग्रामस्य पश्यतः ॥
ददानीति प्रतिज्ञाते फाल्गुनेनाब्रवीद्गुरुः ।
युद्धेऽहं प्रतियोद्धव्यो युध्यमानस्त्वयाऽनघ ॥
तथेति च प्रतिज्ञाय द्रोणाय कुरुपुङ्गवः ।
उपसंगृह्य चरणावुपतस्थे विनीतवत् ॥
द्रोणो जगाद वचनं समालिङ्ग्य तु फाल्गुनम् ।
यन्मयोक्तं पुरा पार्थ तव लोके नरं क्वचित् ॥
सदृशं कारये नैव सर्वप्रहरणे युधि ।
तत्कृतं च मया सम्यक्तव तुल्यो न वर्तते ॥
देवा युधि न शक्तास्त्वां योद्धुं दैत्या न दानवाः ।
नाहं त्वत्तो विशिष्टोऽस्मि किं पुनर्मानवा रणे ॥
एकस्तवाधिको लोके यो हि वृष्णिकुलोद्भवः ।
कृष्णः कमलपत्राक्षः कंसकालियसूदनः ॥
स जेता सर्वलोकानां सर्वप्रहरणायुधः ।
नैतावता ते पार्थाहं भवाम्यनृतवागिह ॥
तदधीनं जगत्सर्वं तत्प्रलीनं तदुद्भवम् ।
तत्पदं न विजानन्ति ब्रह्मेशानादयोऽपि वा ॥
तन्नाभिप्रभवो ब्रह्मा सर्वभूतानि निर्ममे ।
स एव कर्ता भोक्ता च संहर्ता च जगन्मयम् ॥
स एव भूतं भव्यं च भवच्च पुरुषः परः ।
नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ॥
प्रादुर्भवति योगात्मा पालनार्थं स लीलया ।
तत्तुल्यो हि न जायेत न जातो न जनिष्यते ॥
स हि मातुलजोऽभूत्ते चराचरगुरुः पिता ।
को हि तं जेतुमीहेत जानन्नात्महितं नरः ॥
श्यालश्च ते सखा चासौ तस्य त्वं प्राणवल्लभः ।
स्नेहमभ्यधिकं तस्य तव सख्यमवस्थितम् ॥
न तेन भवतो युद्धं भविता नर्मतोऽपि वा ।
अपिचार्थे तव पुरा शक्रेण किल चोदितः ॥
गोकुले वर्धमानस्तु नन्दगोपस्य कारणात् ।
ममांशः पाण्डवो लोके पृथिव्यां पुरुषोत्तमः ॥
कौन्तेयावरजः श्रीमानर्जुनो नाम वीर्यवान् ।
भुवो भारापहरणे साहाय्यं ते करिष्यति ॥
तदर्थमभयं देहि पाहि चास्मत्कृते प्रभो ।
इत्युक्तः पुण्डरीकाक्षस्तदा शक्रेण फल्गुन ॥
तमुवाच ततः श्रीमाञ्शङ्खचक्रगदाधरः ।
जानामि पाण्डवे वंशे जातं पार्थं पितृष्वसुः ॥
पुत्रं परमधर्मिष्ठं सर्वशस्त्रभृतां वरम् ।
पालयामि त्वदंशं तं सर्वलोकमहाभुजम् ॥
आवयोः सख्यसदृशं न च लोके भविष्यति ।
यस्तद्भक्तः समद्भक्तो यस्तं द्वेष्टि स मामपि ॥
यन्मे वित्तं तु तत्तस्य तं विनाहं न जीवये ।
इति पार्थ पुरा शक्रमाह सर्वेश्वरो हरिः ॥
तस्मात्तवापि सदृशस्तं विनाभ्यधिकः पुमान् ।
न चेह भविता लोके तमेव शरणं व्रज ॥
शरण्यः सर्वभूतानां देवदेवो जनार्दनः ॥'
वैशंपायन उवाच ।
तथेति च प्रतिज्ञाय द्रोणाय कुरुपुङ्गवः ।
उपसंगृह्य चरणौ युधिष्ठिरवशोऽभवत् ॥
स्वभावादगमच्छब्दो महीं सागरमेखलाम् ।
अर्जुनस्य समो लोके नास्ति कश्चिद्धनुर्धरः ॥
गदायुद्धेऽसियुद्धे च रथयुद्धे च पाण्डवः ।
पारगश्च धनुर्युद्धे बभूवाथ धनञ्जयः ॥
नीतिमान्सकलां नीतिं विबुधाधिपतेस्तदा । `अस्त्रे शस्त्रे च शास्त्रे च रथनागाश्वकर्मणि ।'
अवाप्य सहदेवोऽपि भ्रातॄणां ववृते वशे ॥
द्रोणेनैवं विनीतश्च भ्रातॄणां नकुलः प्रियः ।
चित्रयोधी समाख्यातो बभूवातिरथोदितः ॥
त्रिवर्षकृतयज्ञस्तु गन्धर्वाणामुपप्लवे ।
अर्जुनप्रमुखैः पार्थैः सौवीरः समरे हतः ॥
न शशाक वशे कर्तुं यं पाण्डुरपि वीर्यवान् ।
सोऽर्जुनेन वशं नीतो राजासीद्यवनाधिपः ॥
अतीव बलसंपन्नः सदा मानि कुरून्प्रति ।
विपुलो नाम सौवीरः शस्तः पार्थेन धीमता ॥
दत्तामित्र इति ख्यातं सङ्ग्रामे कृतनिश्चयम् ।
सुमित्रं नाम सौवीरमर्जुनोऽदमयच्छरैः ॥
भीमसेनसहायश्च रथानामयुतं च सः ।
अर्जुनः समरे प्राच्यान्सर्वानेकरथोऽजयत् ॥
तथैवैकरथो गत्वा दक्षिणामजयद्दिशम् ।
धनौघं प्रापयामास कुरुराष्ट्रं धनञ्जयः ॥
`यतः पञ्चदशे वर्षे सर्वमेतच्चकार सः ।
तं दृष्ट्वा धार्तराष्ट्राणां ततो भयमजायत ॥
यः सर्वान्धृतराष्ट्रस्य पुत्रान्विप्रचकार ह ।
भीमसेनो महाबाहुर्बलाद्बलवतां वरः ॥
अदुष्टभावं तं दोषैर्जगृहुर्दोषबुद्धयः ।
धार्तराष्ट्रास्तथा सर्वे भयाद्भीमस्य कर्मणा ॥
तं दृष्ट्वा कर्मभिः पार्थान्सर्वानागतलक्षणान् । बलाद्बहुगुणांस्तेभ्यो बिभियुर्दोषबुद्धयः ॥'
एवं सर्वे महात्मानः पाण्डवा मनुजोत्तमाः ।
परराष्ट्राणि निर्जित्य स्वराष्ट्रं ववृधुः पुरा ॥
ततो बलमतिख्यातं विज्ञाय दृढधन्विनाम् । दूषितः सहसा भावो धृतराष्ट्रस्य पाण्डुषु ।
स चिन्तापरमो राजा न निद्रामलभन्निशि ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि एकपञ्चाशदधिकशततमोऽध्यायः ॥ 151 ॥

1-151-9 गुडाका निद्रा तस्या ईशमर्जुनं जितनिद्रं, गुडा स्नुही तद्वत्केशा यस्य ॥ 1-151-11 तीर्थात्पात्रान्तरं गमयितुं संप्रदायाविच्छेदार्थमित्यर्थः ॥ 1-151-14 त्वया ग्राहान्मां मोचयता प्राप्तं प्रागेव ॥ 1-151-28 तस्य त्वयीति शेषः । तव तस्मिन्निति शेषः ॥ 1-151-35 तस्य मम च ॥ 1-151-42 विबुधाधिपतेरुद्धवात् ॥ 1-151-43 विनीतः शिक्षितः । अतिरथेषूदितः ख्यातः ॥ 1-151-44 गन्धर्वोपप्लवेऽपि यस्य सौवीरस्य यज्ञो न विप्लुत इत्ययोध्यत्वमुक्तम् ॥ 1-151-46 शस्तो हिंसितः ॥ 1-151-53 बिभियुः बिभ्युः ॥ 1-151-54 ववृधुर्वर्धितवन्तः ॥ एकपञ्चाशदधिकशततमोऽध्यायः ॥ 151 ॥

अध्यायः 152

युधिष्ठिरः साम्राज्येऽभिषेक्तव्य इति पौरवार्तां श्रुत्वा व्यथितस्य दुर्योधनस्य पित्रा संवादः ॥ 1 ॥

वैशंपायन उवाच ।
प्राणाधिकं भीमसेनं कृतविद्यं धनञ्जयम् ।
दुर्योधनो लक्षयित्वा पर्यतप्यत दुर्मनाः ॥
ततो वैकर्तनः कर्णः शकुनिश्चापि सौबलः ।
अनेकारभ्युपायैस्ते जिघांसन्ति स्म पाण्डवान् ॥
पाण्डवा अपि तत्सर्वं प्रतिचक्रुर्यथाबलम् ।
उद्भावनमकुर्वन्तो विदुरस्य मते स्थिताः ॥
गुणैः समुदितान्दृष्ट्वा पौराः पाण्डुसुतांस्तदा ।
कथयाञ्चक्रिरे तेषां गुणान्संसत्सु भारत ॥
राज्यप्राप्तिं च संप्राप्तं ज्येष्ठं पाण्डुसुतं तदा ।
कथयन्ति स्म संभूय चत्वरेषु सभासु च ॥
प्रज्ञाश्चक्षुरचक्षुष्ट्वाद्धृतराष्ट्रो जनेश्वरः ।
राज्यं न प्राप्तवान्पूर्वं स कथं नृपतिर्भवेत् ॥
तथा शान्तनवो भीष्मः सत्यसन्धो महाव्रतः ।
प्रत्याख्याय पुरा राज्यं न स जातु ग्रहीष्यति ॥
ते वयं पाण्डवज्येष्ठं तरुणं वृद्धशीलिनम् ।
अभिषिञ्चाम साध्वद्य सत्यकारुण्यवेदिनम् ॥
स हि भीष्मं शान्तनवं धृतराष्ट्रं च धर्मवित् ।
सपुत्रं विविधैर्भोगैर्योजयिष्यति पूजयन् ॥
वैशंपायन उवाच ।
तेषां दुर्योधनः श्रुत्वा तानि वाक्यानि जल्पताम् ।
युधिष्ठिरानुरक्तानां पर्यतप्यत दुर्मतिः ॥
स तप्यमानो दुष्टात्मा तेषां वाचो न चक्षमे ।
ईर्ष्यया चापि संतप्तो धृतराष्ट्रमुपागमत् ॥
ततो विरहितं दृष्ट्वा पितरं प्रतिपूज्य सः ।
पौरानुरागसंतप्तः पश्चादिदमभाषत ॥
श्रुता मे जल्पतां तात पौराणामशिवा गिरः ।
त्वामनादृत्य भीष्मं च पतिमिच्छन्ति पाण्डवम् ॥
मतमेतच्च भीष्मस्य न स राज्यं बुभुक्षति ।
अस्माकं तु परां पीडां चिकीर्षन्ति पुरे जनाः ॥
पितृतः प्राप्तवान्राज्यं पाण्डुरात्मगुणैः पुरा ।
त्वमन्धगुणसंयोगात्प्राप्तं राज्यं न लब्धवान् ॥
स एष पाण्डोर्दायाद्यं यदि प्राप्नोति पाण्डवः ।
तस्य पुत्रो ध्रुवं प्राप्तस्तस्य तस्यापि चापरः ॥
ते वयं राजवंशेन हीनाः सह सुतैरपि ।
अवज्ञाता भविष्यामो लोकस्य जगतीपते ॥
सततं निरयं प्राप्ताः परपिण्डोपजीविनः ।
न भवेम यथा राजंस्तथा नीतिर्विधीयताम् ॥
यदि त्वं हि पुरा राजन्निदं राज्यमवाप्तवान् ।
ध्रुवं प्राप्स्याम च वयं राज्यमप्यवशे जने ॥
`वैशंपायन उवाच ।
धृतराष्ट्रस्तु पुत्रस्य श्रुत्वा वचनमीदृशम् ।
मुहूर्तमिव संचिन्त्य दुर्योधनमथाब्रवीत् ॥
धर्मनित्यस्तथा पाण्डुः सुप्रीतो मयि कौरवः ।
सर्वेषु ज्ञातिषु तथा मदीयेषु विशेषतः ॥
नात्र किंचन जानाति भोजनादि चिकीर्षितम् ।
निवेदयति तत्सर्वं मयि धर्मभृतां वरः ॥
तस्य पुत्रो यथा पाण्डुस्तथा धर्मपरः सदा ।
गुणावाँल्लोकविख्यातो नगरे च प्रतिष्ठितः ॥
स कथं शक्यतेऽस्माभिरपाक्रष्टुं नरर्षभः ।
राज्यमेष हि नः प्राप्तः ससहयो विशेषतः ॥
भृता हि पाण्डुनाऽमात्या बलं च सततं मतम् ।
धृताः पुत्राश्च पौत्राश्च तेषामपि विशेषतः ॥
ते तथा संस्तुतास्तात विषये पाण्डुना नराः ।
कथं युधिष्ठिरस्यार्थे न नो हन्युः सबान्धवान् ॥
नैते विषयमिच्छेयुर्धर्मत्यागे विशेषतः ।
ते वयं कौरवेन्द्राणामेतेषां च महात्मनाम् ॥
कथं न वाच्यतां तात गच्छेम जगतस्तथा ॥
दुर्योधन उवाच ।
मध्यस्थः सततं भीष्मो द्रोणपुत्रो मयि स्थितः ।
यतः पुतस्ततो द्रोणो भविता नात्र संशयः ॥
कृपः शारद्वतश्चैव यत एव वयं ततः ।
बागिनेयं ततो द्रौणिं न त्यक्ष्यति कथंचन ॥
क्षत्ता तु बन्धुरस्माकं प्रच्छन्नस्तु ततः परैः ।
न चैकः स समर्थोऽस्मान्पाण्डवार्थे प्रबाधितुम् ॥
सुविस्रब्धान्पाण्डुसुतान्सह मात्रा विवासय ।
वारणावतमद्यैव नात्र दोषो भविष्यति ॥
विनिद्राकरणं घोरं हृदि शल्यमिवार्पितम् । शोपकपावकमुद्धूतं कर्मणानेन नाशय ॥' ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि द्विपञ्चाशदधिकशततमोऽध्यायः ॥ 152 ॥

अध्यायः 153

धृतराष्ट्रादीनां कणिकेन दुर्नीत्युपदेशः ॥ 1 ॥ जम्बुकोपाख्यानम् ॥ 2 ॥

वैशंपायन उवाच ।
श्रुत्वा पाण्डुसुतान्वीरान्बलोद्रिक्तान्महौजसः ।
धृतराष्ट्रो महीपालश्चिन्तामगमदातुरः ॥
तत आहूय मन्त्रज्ञं राजशास्त्रार्थवित्तमम् ।
कणिकं मन्त्रिणां श्रेष्ठं धृतराष्ट्रऽब्रवीद्वचः ॥
उत्सक्ताः पाण्डवा नित्यं तेभ्योऽसूये द्विजोत्तम । तत्र मे निश्चिततमं सन्धिविग्रहकारणम् ।
कणिक त्वं ममाचक्ष्व करिष्ये वचनं तव ॥
वैशंपायन उवाच ।
`दुर्योधनोऽथ शकुनिः कर्णदुःशासनावपि ।
कणिकं ह्युपसंगृह्य मन्त्रिणं सौबलस्य च ॥
पप्रच्छुर्भरतश्रेष्ठ पाण्डवान्प्रति नैकधा ।
प्रबुद्धाः पाण्डवा नित्यं सर्वे तेभ्यस्त्रसामहे ॥
अनूनं सर्वपक्षाणां यद्भवेत्क्षेमकारकम् ।
भारद्वाज तदाचक्ष्व करिष्यामः कथं वयम् ॥
वैशंपायन उवाच ।'
स प्रसन्नमनास्तेन परिपृष्टो द्विजोत्तमः ।
उवाच वचनं तीक्ष्णं राजशास्त्रार्थदर्शनम् ॥
कणिक उवाच ।
शृणु राजन्निदं तत्र प्रोच्यमानं मयानघ ।
न मेऽभ्यसूया कर्तव्या श्रुत्वैतत्कुरुसत्तम ॥
नित्यमुद्यतदण्डः स्यान्नित्यं विवृतपौरुषः ।
अच्छिद्रश्छिद्रदर्शी स्यात्परेषां विवरानुगः ॥
नित्यमुद्यतदण्डाद्धि भऋशमुद्विजते जनः ।
तस्मात्सर्वाणि कार्याणि दण्डेनैव विधारयेत् ॥
नास्य च्छिद्रं परः पश्येच्छिद्रेण परमन्वियात् ।
गूहेत्कूर्म इवाङ्गानि रक्षेद्विवरमात्मनः ॥
`नित्यं च ब्राह्मणाः पूज्या नृपेण हितमिच्छता ।
सृष्टो नृपो हि विप्रामां पालने दुष्टनिग्रहे ॥
उभाब्यां वर्धते धर्मो धर्मवृद्ध्या जितावुभौ ।
लोकश्चायं परश्चैव ततो धर्मं समाचरेत् ॥
कृतापराधं पुरुषं दृष्ट्वा यः क्षमते नृपः ।
तेनावमानमाप्नोति पापं चेह परत्र च ॥
यो विभूतिमवाप्योच्चै राज्ञो विकुरुतेऽधमः ।
तमानयित्वा हत्वा च दद्याद्धीनाय तद्धनम् ॥
नो चेद्धुरि नियुक्ता ये स्थास्यन्ति वशमात्मनः ।
राजा नियुञ्ज्यात्पुरुषानाप्तान्धर्मार्थकोविदान् ॥
ये नियुक्तास्तथा केचिद्राष्ट्रं वा यदि वा पुरम् ।
ग्रामं जनपदं वापि बाधेयुर्यदि वा न वा ॥
परीक्षणार्थं विसृजेदानतांश्छन्नरूपिणः । परीक्ष्य पापकं जह्याद्धनमादाय सर्वशः ॥'
नासम्यक्कृत्यकारी स्यादुपक्रम्य कदाचन ।
कण्टको ह्यपि दुश्छिन्न आस्रावं जनयेच्चिरम् ॥
वधमेव प्रशंसन्ति शत्रूणामपकारिणाम् ।
सुविदीर्णं सुविक्रान्तं सुयुद्धं सुपलायितम् ॥
आपद्यापदि काले कुर्वीत न विचारयेत् ।
नावज्ञेयो रिपुस्तात दुर्बलोऽपि कथं चन ॥
अल्पोऽप्यग्निर्वनं कृत्स्नं दहत्याश्रयसंश्रयात् ।
अन्धः स्यादन्धवेलायां बाधिर्यमपि चाश्रयेत् ॥
कुर्यात्तृणमयं चापं शयीत मृगशायिकाम् ।
सान्त्वादिभिरुपायैस्तु हन्याच्छत्रुं वशे स्थितं ॥
दया न तस्मिन्कर्तव्या शरणागत इत्युत ।
निरुद्विग्नो हि भवति न हताज्जायते भयम् ॥
हन्यादमित्रं दानेन तथा पूर्वापकारिणम् ।
हन्यात्त्रीन्पञ्च सप्तेति परपक्षस्य सर्वशः ॥
मूलमेवादितश्छिन्द्यात्परपक्षस्य नित्यशः ।
ततः सहायांस्तत्पक्षान्सर्वांश्च तदनन्तरम् ॥
छिन्नमूले ह्यधिष्ठाने सर्वे तज्जीविनो हताः ।
कथं नु शाखास्तिष्ठेरंश्छिन्नमूले वनस्पतौ ॥
एकाग्रः स्यादविवृतो नित्यं विवरदर्शकः ।
राजन्नित्यं सपत्नेषु नित्योद्विग्नः समाचरेत् ॥
अग्न्याधानेन यज्ञेन काषायेण जटाजिनैः ।
लोकान्विश्वासयित्वैव ततो लुम्पेद्यथा वृकः ॥
अङ्कुशं शोचमित्याहुरर्थानामुपधारणे ।
आनाम्य फलितां शाखां पक्वं पक्वं प्रशातयेत् ॥
फलार्थोऽयं समारम्भो लोके पुंसां विपश्चिताम् ।
वहेदमित्रं स्कन्धेन यावत्कालस्य पर्ययः ॥
ततः प्रत्यागते काले भिन्द्याद्धृटमिवाश्मनि ।
अमित्रो न विमोक्तव्यः कृपणं बह्वपि ब्रुवन् ॥
कृपा न तस्मिन्कर्तव्या हन्यादेवापकारिणम् ।
हन्यादमित्रं सान्त्वेन तथा दानेन वा पुनः ॥
तथैव भेददण्डाभ्यां सर्वोपायैः प्रशातयेत् ।
धृतराष्ट्र उवाच ।
कथं सान्त्वेन दानेन भेदैर्दण्डेन वा पुनः ॥
अमित्रः शक्यते हन्तुं तन्मे ब्रूहि यथातथम् ।
कणिक उवाच ।
शृणु राजन्यथा वृत्तं वने निवसतः पुरा ॥
जम्बुकस्य महाराज नीतिशास्त्रार्थदर्शिनः ।
अथ कश्चित्कृतप्रज्ञः शृगालः स्वार्थपण्डितः ॥
सखिभिर्न्यवसत्सार्धं व्याघ्राखुवृकबभ्रुभिः ।
तेऽपश्यन्विपिने तस्मिन्बलिनं मृगयूथपम् ॥
अशक्ता ग्रहणे तस्य ततो मन्त्रममन्त्रयन् ।
जम्बुक उवाच ।
असकृद्यतितो ह्येष हन्तुं व्याघ्र वने त्वया ॥
युवा वै जवसंपन्नो बुद्धिशाली न शक्यते ।
मूषिकोऽस्य शयानस्य चरणौ भक्षयत्वयम् ॥
अथैनं भक्षितैः पादैर्व्याघ्रो गृह्णातु वै ततः ।
ततो वै भक्षयिष्यामः सर्वे मुदितमानसाः ॥
जम्बुकस्य तु तद्वाक्यं तथा चक्रः समाहिताः ।
मूषिकाभक्षितैः पादैर्मृगं व्याघ्रोऽवधीत्तदा ॥
दृष्ट्वैवाचेष्टमानं तु भूमौ मृगकलेवरम् ।
स्नात्वाऽऽगच्छत भद्रं वोरक्षामीत्याह जम्बुकः ॥
शृगालवचनात्तेऽपि गताः सर्वे नदीं ततः ।
स चिन्तापरमो भूत्वा तस्थौ तत्रैव जम्बुकः ॥
अथाजगाम पूर्वं तु स्नात्वा व्याघ्रो महाबलः ।
ददर्श जम्बुकं चैव चिन्ताकुलितमानसम् ॥
व्याघ्र उवाच ।
किं शोचसि महाप्राज्ञ त्वं नो बुद्धिमतां वरः ।
अशित्वा पिशितान्यद्य विहरिष्यामहे वयम् ॥
जम्बुक उवाच ।
शृणु मे त्वं महाबाहो यद्वाक्यं मूषिकोऽब्रवीत् ।
धिग्बलं मृगराजस्य मयाद्यायं मृगो हतः ॥
मद्बाहुबलमाश्रित्य तृप्तिमद्य गमिष्यति ।
तस्यैवं गर्जितं श्रुत्वा ततो भक्ष्यं न रोचये ॥
व्याघ्र उवाच ।
ब्रवीति यदि स ह्येवं काले ह्यस्मि प्रबोधितः ।
स्वबाहुबलमाश्रित्य हनिष्येऽहं वनेचरान् ॥
खादिष्ये तत्र मांसानि इत्युक्त्वा प्रस्थितोवनम् ।
एतस्मिन्नेव काले तु मूषिकोऽप्याजगाम ह ॥
तमागतमभिप्रेक्ष्य शृगालोऽप्यब्रवीद्वचः ।
शृणु मीषिक भद्रं ते नकुलो यदिहाब्रवीत् ॥
मृगमांसं न खादेयं गरमेतन्न रोचते ।
मूषिकं भक्षयिष्यामि तद्भवाननुमन्यताम् ॥
तच्छ्रुत्वा मूषिको वाक्यं संत्रस्तः प्रगतो बिलम् ।
ततः स्नात्वा स वै तत्र आजगाम वृको नपृ ॥
तमागतमिदं वाक्यमब्रवीज्जम्बुकस्तदा ।
मृगराजो हि संक्रुद्धो न ते साधु भविष्यति ॥
सकलत्रस्त्विहायाति कुरुष्व यदनन्तरम् ।
एवं संचोदितस्तेन जम्बुकेन तदा वृकः ॥
ततोऽवलुम्पनं कृत्वा प्रयातः पिशिताशनः ।
एतस्मिन्नेव काले तु नकुलोऽप्याजगाम ह ॥
तमुवाच महाराज नकुलं जम्बुको वने ।
स्वबाहुबलमाश्रित्य निर्जितास्तेऽन्यतो गताः ॥
मम दत्वा नियुद्धं त्वं भुङ्क्ष्व मांसं यथेप्सितम् ।
नकुल उवाच ।
मृगराजो वृकश्चैव बुद्धिमानपि मूषिकः ॥
निर्जिता यत्त्वया वीरास्तस्माद्वीरतरो भवान् ।
न त्वयाप्युत्सहे योद्धुमित्युक्त्वा सोऽप्युपागमत् ॥
कणिक उवाच ।
एवं तेषु प्रयातेषु जम्बुको हृष्टमानसः । खादति स्म तदा मांसमेकः सन्मन्त्रनिश्चयात् ।
एवं समाचरन्नित्यं सुखमेधेत भूपतिः ॥
भयेन भेदयेद्भीरुं शूरमञ्जलिकर्मणा ।
लुब्धमर्थप्रदानेन समं न्यूनं तथौजसा ॥
एवं ते कथितं राजन् शृणु चाप्यपरं तथा ॥
पुत्रः सखा वा भ्राता वा पिता वा यदि वा गुरुः ।
रिपुस्यानेषु वर्तन्तो हन्तव्या भूतिमिच्छता ॥
शपथेनाप्यरिं हन्यादर्थदानेन वा पुनः । विषेण मायया वापि नोपेक्षेते कथंचन ।
उभौ चेत्संशयोपेतौ श्रद्धवांस्तत्र वर्धते ॥
गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः ।
उत्पथं प्रतिपन्नस्य न्याय्यं भवति शासनम् ॥
क्रुद्धोऽप्यक्रुद्धरूपः स्यात्स्मितपूर्वाभिभाषिता । `न चैनं क्रोधसंदीप्तं विद्यात्कश्चित्कथंचन ।'
न चाप्यन्यमपध्वंसेत्कदाचित्कोपसंयुतः ॥
प्रहरिष्यन्प्रियं ब्रूयात्प्रहरन्नपि भारत ।
प्रहृत्य च प्रियं ब्रूयाच्छोचन्निव रुदन्निव ॥
आश्वासयेच्चापि परं सान्त्वधर्मार्थवृत्तिभिः ।
अथ तं प्रहरेत्काले तथा विचलितं पथि ॥
अपि घोरापराधस्य धर्ममाश्रित्य तिष्ठतः ।
स हि प्रच्छाद्यते दोषः शैलो मेघैरिवासितैः ॥
यः स्यादनुप्राप्तवधस्तस्यागारं प्रदीपयेत् ।
अधनान्नास्तिकांश्चोरान्विषकर्मसु योजयेत् ॥
प्रत्युत्थानासनाद्येन संप्रदानेन केनचित् ।
अतिविश्रब्धघाती स्यात्तीक्ष्णंदष्ट्रो निमग्नकः ॥
अशङ्कितेभ्यः शङ्केत शङ्कितेभ्यश्च सर्वशः ।
अशङ्क्याद्भयमुत्पन्नमपि मूलं निकृन्तति ॥
न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत् ।
विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृन्तति ॥
चारः सुविहितः कार्य आत्मनश्च परस्य वा ।
पाषण्डांस्तापसादींश्च परराष्ट्रेषु योजयेत् ॥
उद्यानेषु विहारेषु देवतायतनेषु च ।
पानागारेषु रथ्यासु सर्वतीर्थेषु चाप्यथ ॥
चत्वरेषु च कूपेषु पर्वतेषु वनेषु च ।
समवायेषु सर्वेषु सरित्सु च विचारयेत् ॥
वाचा भृशं विनीतः स्याद्धृदयेन तथा क्षुरः ।
स्मितपूर्वाभिभाषी स्यात्सृष्टो रौद्रस्य कर्मणः ॥
अञ्जलिः शपथः सान्त्वं शिरसा पादवन्दनम् ।
आशाकरणमित्येवं कर्तव्यं भूतिमिच्छता ॥
सुपुष्पितः स्यादफलः फलवान्स्याद्दुरारुहः ।
आमः स्यात्पक्वसङ्काशो नच जीर्येत कर्हिचित् ॥
त्रिवर्गे त्रिविधा पीडा ह्यनुबन्धास्तथैव च ।
अनुबन्धाः शुभा ज्ञेयाः पीडास्तु परिवर्जयेत् ॥
धर्मं विचरतः पीडा सापि द्वाभ्यां नियच्छति ।
अर्थं चाप्यर्थलुब्धस्य कामं चातिप्रवर्तिनः ॥
अगर्वितात्मा युक्तश्च सान्त्वयुक्तोऽनसूयिता ।
अवेक्षितार्थः शुद्धात्मा मन्त्रयीत द्विजैः सहा ॥
कर्मणा येन केनैव मृदुना दारुणेन च ।
उद्धरेद्दीनमात्मानं समर्थो धर्ममाचरेत् ॥
न संशयमनारुह्य नरो भद्राणि पश्यति ।
संशयं पुनरारुह्य यदि जीवति पश्यति ॥
यस्य बुद्धिः परिभवेत्तमतीतेन सान्त्वयेत् ।
अनागतेन दुर्बुद्धिं प्रत्युत्पन्नेन पण्डितम् ॥
योऽरिणा सह सन्धाय शयीत कृतकृत्यवत् ।
स वृक्षाग्रे यथा सुप्तः पतितः प्रतिबुध्यते ॥
मन्त्रसंवरणे यत्नः सदा कार्योऽनसूयता ।
आकारमभिरक्षेत चारेणाप्यनुपालितः ॥
`न रात्रौ मन्त्रयेद्विद्वान्न च कैश्चिदुपासितः ।
प्रासादाग्रे शिलाग्रे वा विशाले विजनेपि वा ॥
समन्तात्तत्र पश्यद्भिः सहाप्तैरेव मन्त्रयेत् ।
नैव संवेशयेत्तत्र मन्त्रवेश्मनि शारिकाम् ॥
शुकान्वा शारिका वापि बालमूर्खजडानपि ।
प्रविष्टानपि निर्वास्य मन्त्रयेद्धार्मिकैर्द्विजैः ॥
नीतिज्ञैर्न्यायशास्त्रज्ञैरितिहासे सुनिष्ठितैः ।
रक्षां मन्त्रस्य निश्छिद्रां मन्त्रान्ते निश्चयेत्स्वयम् ॥
वीरोपवर्णितात्तस्माद्धर्मार्थाभ्यामथात्मना ।
एकेन वाथ विप्रेण ज्ञातबुद्धिर्विनिश्चयेत् ॥
तृतीयेन न चान्येन व्रजेन्निश्चयमात्मवान् ।
षट्कर्णश्छिद्यते मन्त्र इति नीतिषु पठ्यते ॥
निःसृतो नाशयेन्मन्त्रो हस्तप्राप्तामपि श्रियम् । स्वमतं च परेषां च विचार्य च पुनःपुनः ।
गुणवद्वाक्यमादद्यान्नैव तृप्येद्विचक्षणः ॥'
नाच्छित्वा परमर्माणि नाकृत्वा कर्म दारुणम् ।
नाहत्वा मत्स्यघातीव प्राप्नोति महतीं श्रियम् ॥
कर्शितं व्याधितं क्लिन्नमपानीयमघासकम् ।
परिविश्वस्तमन्दं च प्रहर्तव्यमरेर्बलम् ॥
नार्थिकोऽर्थिनमभ्येति कृतार्थे नास्ति सङ्गतम् ।
तस्मात्सर्वाणि साध्यानि सावशेषाणि कारयेत् ॥
संग्रहे विग्रहे चैव यत्नः कार्योऽनसूयता ।
उत्साहश्चापि यत्नेन कर्तव्यो भूतिमिच्छता ॥
नास्य कृत्यानि बुध्येरन्मित्राणि रिपवस्तथा ।
आरब्धान्येव पश्येरन्सुपर्यवसितान्यपि ॥
भीतवत्संविधातव्यं यावद्भयमनागतम् ।
आगतं तु भयं दृष्ट्वा प्रहर्तव्यमभीतवत् ॥
दैवेनोपहतं शत्रुमनुगृह्णाति यो नरः ।
स मृत्युमुपगृह्णाति गर्भमश्वतरी यथा ॥
अनागतं हि बुध्येत यच्च कार्यं पुरः स्थितम् ।
न तु बुद्धिक्षयात्किंचिदतिक्रामेत्प्रयोजनम् ॥
उत्साहश्चापि यत्नेन कर्तव्यो भूतिमिच्छता । विभज्य देशकालौ च दैवं धर्मादयस्त्रयः ।
नैःश्रेयसौ तु तौ ज्ञेयौ देशकालाविति स्थितिः ॥
तालवत्कुरुते मूलं बालः शत्रुरुपेक्षितः ।
गहनेऽग्निरिवोत्सृष्टः क्षिप्रं संजायते महान् ॥
अग्निस्तोकमिवात्मानं सन्धुक्षयति यो नरः ।
स वर्धमानो ग्रसते महान्तमपि संचयम् ॥
`आदावेव ददानीति प्रियं ब्रूयान्निरर्थकम् ॥'
आशां कालवतीं कुर्यात्कालं विघ्नेन योजयेत् ।
विघ्नं निमित्ततो ब्रूयान्निमित्तं वाऽपि हेतुतः ॥
क्षुरो भूत्वा हरेत्प्राणान्निशितः कालसाधनः ।
प्रतिच्छन्नो लोमहारी द्विषतां परिकर्तनः ॥
पाण्डवेषु यथान्यायमन्येषु च कुरूद्वह ।
वर्तमानो न मज्जेस्त्वं तथा कृत्यं समाचर ॥
सर्वकल्याणसंपन्नो विशिष्ट इति निश्चयः ।
तस्मात्त्वं पाण्डुपुत्रेभ्यो रक्षात्मानं नराधिप ॥
भ्रातृव्या बलवन्तस्ते पाण्डुपुत्रा नराधिप ।
पश्चात्तापो यथा न स्यात्तथा नीतिर्विधीयताम् ॥
वैशंपायन उवाच ।
एवमुक्त्वा संप्रतस्थे कणिकः स्वगृहं ततः ।
धृतराष्ट्रोऽपि कौरव्यः शोकार्तः समपद्यत ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि त्रिपञ्चाशदधिकशततमोऽध्यायः ॥ 153 ॥ ॥ समाप्तं च संभवपर्व ॥

1-153-13 उभाभ्यां ब्राह्मणरक्षणदुष्टनिग्रहाभ्याम् । जितौ संपादितौ भवेतामिति शेषः ॥ 1-153-15 हीनाय दरिद्राय ॥ 1-153-20 उपसंहरति वधमिति । कथं वधः कर्तव्यं इत्याह सुविदीर्णमिति । सुविक्रान्तमपि शत्रुं । काले आपद्यापन्नमालभ्य सुविदीर्णं विनष्टं कुर्वीत । तथा सुयुद्धमपि शत्रुमापदि काले सुपलायितं कुर्वीति ॥ 1-153-22 आश्रयसंश्रयात् आश्रयबलात् ॥ 1-153-23 तृणमयं तृणवन्निष्प्रयोजनम् । क्षात्रं धर्मं त्यक्त्वा शत्रुगृहे भिक्षाभुगपि स्यादित्यर्थः । मृगशायिकां मृगहन्तुः शय्याम् । यथा व्याधो मृगान्विश्वासयितुं मृषा निद्राति विश्वस्तेषु च तेषु प्रहरत्येवं स हन्तुमेवाकारं गोपयतीत्यर्थः । उपायैः वशे स्थितं शत्रुमिति संबन्धः ॥ 1-153-25 त्रीन् ऐश्वर्यमन्त्रोत्साहान् । तथा पञ्च अमात्यराष्ट्रदुर्गाणि कोशो दण्डश्च पञ्चम इत्युक्तान् । दण्डोत्र सैन्यं । सप्त स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्बलानि येत्युक्तानि ॥ 1-153-30 शौचमग्न्याधानादि । अत्र दृष्टान्तः आनाम्येति आनामयित्वा ॥ 1-153-37 बभ्रुर्नकुलः । मृगयूथपं महान्तं हरिणम् ॥ 1-153-41 मूषिकेण आईषद्भक्षितैः ॥ 1-153-46 मृगराजस्य व्याघ्रस्य ॥ 1-153-51 गरं मूषिकदष्टत्वाद्विषभूतम् ॥ 1-153-55 अवलुम्पनं गात्रसंकोचनम् ॥ 1-153-63 संशयोपेतौ संशयविषयौ । श्रद्धावान् मदुक्तादरवान् । श्रद्दधानस्तु बध्यत इति ङ पाठः ॥ 1-153-65 अपध्वंसेत् कुत्सयेत् ॥ 1-153-69 अनुप्राप्तबधः शीघ्रं हन्तुमिष्टः अधना दरिद्राः नास्तिकाः परलोकश्रद्धारहिताः ॥ 1-153-70 निमग्नकः नम्रशिराः तीक्ष्णदंष्ट्रः व्याघ्र इव । तीक्ष्णदंष्ट्र इवोरत इति क.ङ.पाठः ॥ 1-153-73 सुविहितः सम्यक् परीक्षितः ॥ 1-153-76 सृष्टो रौद्राय कर्मण इति क.घ.पाठः ॥ 1-153-79 अनुबन्धः फलम् ॥ 1-153-80 धर्ममत्यन्तं विचरतः पुंसो द्वाभ्यामर्थकामाभ्यां धनव्ययब्रह्मचर्योपक्षिप्ताभ्यां पीडा चित्तवैकल्यं भवति । सापि पुंसः पीडा धर्मं नियच्छति निगृह्णाति । एवमर्थं चाप्यर्थलुब्धस्य कामं चातिप्रवर्तिन इति व्याख्येयं ॥ 1-153-83 उद्देश्यसन्देहेपि नीतिरवश्यमनुसरणीयेत्याह । न संशयमिति । असंशयमथारुह्येति क.घ.ट.पाठः ॥ 1-153-84 परिभवेत् शोकेन । तमतीतेन नलरामाद्याख्यानेन । दुर्बुद्धिं । लोभाद्युपहतबुद्धिम् । अनागतेन कालान्तरे तव श्रेयो भविष्यतीत्याशाप्रदर्शनेन । पण्डितं प्रत्युत्पन्नेन वर्तमानेन धनादिना सान्त्वयेत् ॥ 1-153-86 मन्त्रसंवरणं मन्त्रगूहनम् ॥ 1-153-95 अघासकं अनाहारम् ॥ 1-153-96 संगतं सख्यम् ॥ 1-153-98 आरब्धान्यपि सुपर्यवसितानि संपन्नान्येव पश्येरन् ॥ 1-153-99 संविधातव्यं प्रतिकर्तव्यम् ॥ 1-153-102 देशाद्यनुगुण उत्साहोऽपि कर्तव्यो नत्वलसो भवेत् । दैवं प्राक्तनं कर्म । ये धर्मादयस्त्रयस्तांश्च विभज्य तेषां मध्ये नैःश्रेयसौ श्रेयोहेतू इति स्थितिर्निश्चयः ॥ 1-153-103 बालः अल्पोपि । बलवत्कुरुते रूपं बाल्यादिति क.ङ.ट.पाठः ॥ 1-153-104 आत्मानं सधुक्षयति सहायादिना वर्धयति । संचयमिन्धनानां पक्षे शत्रूणाम् ॥ 1-153-106 हेतुतः हेत्वन्तरेण ॥ 1-153-111 तदा सपुत्रो राजा च शोकार्त इति ङ पुस्तकपाठः ॥ त्रिपञ्चाशदधिकशततमोऽध्यायः ॥ 153 ॥

अध्यायः 154

(अथ जतुगृहपर्व ॥ 8 ॥)

संग्रहेण जतुगृहदाहकथनम् ॥ 1 ॥ पुनर्विस्तरेण जतुगृहदाहकथनारम्भः ॥ 2 ॥ दुर्योधनधृतराष्ट्रसंवादः ॥ 3 ॥

वैशंपायन उवाच ।
कणिकस्य मतं श्रुत्वा कार्त्स्न्येन भरतर्षभ । दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः ।
दुशासनचतुर्थास्ते मन्त्रयामासुरेकदा ॥
ते कौरव्यमनुज्ञाप्य धृतराष्ट्रं नराधिपम् ।
दहने तु सपुत्रायाः कुन्त्या बुद्धिमकारयन् ॥
तेषामिङ्गितभावज्ञो विदुरस्तत्त्वदर्शिवान् ।
आकारेण च तं मन्त्रं बुबुधे दुष्टचेतसाम् ॥
ततो विदितवेद्यात्मा पाण्डवानां हिते रतः ।
पलायने मतिं चक्रे कुन्त्याः पुत्रैः सहानघः ॥
ततो वातसहां नावं यन्त्रयुक्तां पताकिनीम् ।
ऊर्मिक्षमां दृढां कृत्वा कुन्तीमिदमुवाच ह ॥
एष जातः कुलस्यास्य कीर्तिवंशप्रणाशनः ।
धृतराष्ट्रः परीतात्मा धर्मं त्यजति शाश्वतम् ॥
इयं वारिपथे युक्ता तरङ्गपवनक्षमा ।
नौर्यया मृत्युपाशात्त्वं सपुत्रा मोक्ष्यसे शुभे ॥
तच्छ्रुत्वा व्यथिता कुन्ती पुत्रैः सह यशस्विनी ।
नावमारुह्य गङ्गायां प्रययौ भरतर्षभ ॥
ततो विदुरवाक्येन नावं विक्षिप्य पाण्डवाः ।
धनं चादाय तैर्दत्तमरिष्टं प्राविशन्वनम् ॥
निषादी पञ्चपुत्रा तु जातेषु तत्र वेश्मनि ।
कारणाभ्यागता दग्धा सह पुत्रैरनागसा ॥
स च म्लेच्छाधमः पापो दग्धस्तत्र पुरोचनः ।
वञ्चिताश्च दुरात्मानो धार्तराष्ट्राः सहानुगाः ॥
अविज्ञाता महात्मनो जनानामक्षतास्तथा ।
जनन्या सह कौन्तेया मुक्ता विदुरमन्त्रिताः ॥
ततस्तस्मिन्पुरे लोका नगरे वारणावते ।
दृष्ट्वा जतुगृहं दग्धमन्वशोचन्त दुःखिताः ॥
प्रेषयामासू राजानं यथावृत्तं निवेदितुम् ।
संवृतस्ते महान्कामः पाण्डवान्दग्धवानसि ॥
सकामो भव कौरव्य भुङ्क्ष्व राज्यं सपुत्रकः ।
तच्छ्रुत्वा धृतराष्ट्रस्तु सहपुत्रेण शोचयन् ॥
प्रेतकार्याणि च तथा चकार सह बान्धवैः ।
पाण्डवानां तथा क्षत्ता भीष्मश्च कुरुसत्तमः ॥
जनमेजय उवाच ।
पुनर्विस्तरशः श्रोतुमिच्छामि द्विजसत्तम ।
दाहं जतुगृहस्यैव पाण्डवानां च मोक्षणम् ॥
सुनृशंसमिदं कर्म तेषां क्रूरोपसंहितम् ।
कीर्तयस्व यथावृत्तं परं कौतूहलं मम ॥
वैशंपायन उवाच ।
शृणु विस्तरशो राजन्वदतो मे परन्तप ।
दाहं जतुगृहस्यैतत्पाण्डवानां च मोक्षणम् ॥
वैशंपायन उवाच ।
ततो दुर्योधनो राजा धृतराष्ट्रमभाषत । पाण्डवेभ्यो भयं नः स्यात्तान्विवासयतां भवान् ।
निपुणेनाभ्युपायेन नगरं वारणावतम् ॥
धृतराष्ट्रस्तु पुत्रेण श्रुत्वा वचनमीरितम् ।
मुहूर्तमिव संचिन्त्य दुर्योधनमथाब्रवीत् ॥
धर्मनित्यः सदा पाण्डुस्तथा धर्मपरायणः ।
सर्वेषु ज्ञातिषु तथा मयि त्वासीद्विशेषतः ॥
नासौ किंचिद्विजानाति भोजनादिचिकीर्षितम् ।
निवेदयति नित्यं हि मम राज्यं धृतव्रतः ॥
तस्य पुत्रो यथा पाण्डुस्तथा धर्मपरायणः ।
गुणवान्लोकविख्यातः पौरवाणां सुसंमतः ॥
स कथं शक्यतेऽस्माभिरपाकर्तुं बलादितः ।
पितृपैतामाहाद्राज्यात्ससहायो विशेषतः ॥
भृता हि पाण्डुनाऽमात्या बलं च सततं भृतम् ।
भृताः पुत्राश्च पौत्राश्च तेषामपि विशेषतः ॥
ते पुरा सत्कृतास्तात पाण्डुना नागरा जनाः ।
कथं युधिष्ठिरस्यार्थे न नो हन्युः सबान्धवान् ॥
दुर्योधन उवाच ।
एवमेतन्मया तात भावितं दोषमात्मनि ।
दृष्ट्वा प्रकृतयः सर्वा अर्थमानेन पूजिताः ॥
ध्रुवमस्मत्सहायास्ते भविष्यन्ति प्रधानतः ।
अर्थवर्गः सहामात्यो मत्संस्थोऽद्य महीपते ॥
स भवान्पाण्डवानाशु विवासयितुमर्हति ।
मृदुनैवाभ्युपायेन नगरं वारणावतम् ॥
यदा प्रतिष्ठितं राज्यं मयि राजन्भविष्यति ।
तदा कुन्ती सहापत्या पुनरेष्यति भारत ॥
धृतराष्ट्र उवाच ।
दुर्योधन ममाप्येतद्धृदि संपरिवर्तते ।
अभिप्रायस्य पापत्वान्नैवं तु विवृणोम्यहम् ॥
न च भीष्मो न च द्रोणो न च क्षत्ता न गौतमः ।
विवास्यमानान्कौन्तेयाननुमंस्यन्ति कर्हिचित् ॥
समा हि कौरवेयाणां वयं ते चैव पुत्रक ।
नैते विषममिच्छेयुर्धर्मयुक्ता मनस्विनः ॥
ते वयं कौरवेयाणामेतेषां च महात्मनाम् ।
कथं न वध्यतां तात गच्छाम जगतस्तथा ॥
दुर्योधन उवाच ।
मध्यस्थः सततं भीष्मो द्रोणपुत्रो मयि स्थितः ।
यतः पुत्रस्ततो द्रोणो भविता नात्र संशयः ॥
कृपः शारद्वतश्चैव यत एतौ ततो भवेत् ।
द्रोणं च भागिनेयं च न स त्यक्ष्यति कर्हिचित् ॥
क्षत्ताऽर्थबद्धस्त्वस्माकं प्रच्छन्नं संयतः परैः ।
न चैकः स समर्थोऽस्मान्पाम्डवार्थेऽधिबाधितुम् ॥
सुविस्रब्धः पाण्डुपुत्रान्सह मात्रा प्रवासय ।
वारणावतमद्यैव यथा यान्ति यथा कुरु ॥
विनिद्रकरणं घोरं हृदि शल्यमिवार्पितम् ।
शोकपावकमुद्भूतं कर्मणैतेन नाशय ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि जतुगृहपर्वणि चतुःपञ्चाशदधिकशततमोऽध्यायः ॥ 154 ॥

1-154-2 अनुज्ञाप्य पृष्ट्वा ॥ 1-154-3 इङ्गितं चेष्टितं तेन भावं चित्ताभिप्रायं जानातीति इङ्गितभावज्ञः ॥ 1-154-4 विदितवेद्यो ज्ञाततत्त्व आत्मा चित्तं यस्य ॥ 1-154-5 यन्त्रयुक्तां यन्त्रं महत्यपि वाते जलाशये नौकास्तम्भकं लोहलङ्गलमयम् ॥ 1-154-9 अरिष्टं निर्विघ्नम् ॥ 1-154-18 क्रूरेण कणिकेनोपसंहितमुपदिष्टम् ॥ चतुःपञ्चाशदधिकशततमोऽध्यायः ॥ 154 ॥

अध्यायः 155

दुर्योधनेन दानादिना प्रकृतिवशीकरणम् ॥ 1 ॥ पाण्डवानां वारणावतयात्रार्थं धृतराष्ट्रानुज्ञा ॥ 2 ॥

वैशंपायन उवाच ।
ततो दुर्योधनो राजा सर्वास्तु प्रकृतीः शनैः । अर्थमानप्रदानाभ्यां संजहार सहानुजः ।
`युयुत्सुमपनीयैकं धार्तराष्ट्रं सहोदरम् ॥'
धृतराष्ट्रप्रयुक्तास्तु केचित्कुशलमन्त्रिणः ।
कथयाञ्चक्रिरे रम्यं नगरं वारणावतम् ॥
अयं समाजः सुमहान्रमणीयतमो भुवि ।
उपस्थितः पशुपतेर्नगरे वारणावते ॥
सर्वरत्नसमाकीर्णे पुण्यदेशे मनोरमे ।
इत्येवं धृतराष्ट्रस्य वचनाच्चक्रिरे कथाः ॥
कथ्यमाने तथा रम्ये नगरे वारणावते ।
गमने पाण्डुपुत्राणां जज्ञे तत्र मतिर्नृप ॥
यदा त्वमन्यत नृपो जातकौतूहला इति ।
उवाचैतानेत्य तदा पाण्डवानम्बिकासुतः ॥
`अधीतानि च शास्त्राणि युष्माभिरिह कृत्स्नशः ।
अस्त्राणि च तथा द्रोणाद्गौतमाच्च शरद्वतः ॥
कृतकृत्या भवन्तस्तु सर्वविद्याविशारदाः । सोऽहमेवं गते ताताश्चिन्तयामि समन्ततः ।
रक्षणे व्यवहारे च राज्यस्य सततं हिते ॥'
ममैते पुरुषा नित्यं कथयन्ति पुनःपुनः ।
रमणीयतमं लोके नगरं वारणावतम् ॥
ते ताता यदि मन्यध्वमुत्सवं वारणावते ।
सगणाः सान्वयाश्चैव विहरध्वं यथाऽमराः ॥
ब्राह्मणेभ्यश्च रत्नानि गायनेभ्यश्च सर्वशः ।
प्रयच्छध्वं यथाकामं देवा इव सुवर्चसः ॥
कंचित्कालं विहृत्यैवमनुभूय परां मुदम् ।
इदं वै हास्तिनपुरं सुखिनः पुनरेष्यथ ॥
`निवसध्वं च तत्रैव संरक्षणपरायणाः । वैलक्षण्यं न वै तत्र भविष्यति परंतपाः ॥'
वैशंपायन उवाच ।
धृतराष्ट्रस्य तं काममनुबुध्य युधिष्ठिरः ।
आत्मनश्चासहायत्वं तथेति प्रत्युवाच तम् ॥
ततो भीष्मं शान्तनवं विदुरं च महामतिम् ।
द्रोणं च बाह्लिकं चैव सोमदत्तं च कौरवम् ॥
कृपमाचार्यपुत्रं च भूरिश्रवसमेव च ।
मान्यानन्यानमात्यांश्च ब्राह्मणांश्च तपोधनान् ॥
पुरोहितांश्च पौत्रांश्च गान्धारीं च यशस्विनीम् । `सर्वा मातॄरुपस्पृष्ट्वा विदुरस्य च योषितः ।'
युधिष्ठिरः शनैर्दीन उवाचेदं वचस्तदा ॥
रमणीये जनाकीर्णे नगरे वारणावते ।
सगणास्तत्र यास्यामो धृतराष्ट्रस्य शासनात् ॥
प्रसन्नमनसः सर्वे पुण्या वाचो विमुञ्चत ।
आशीर्भिर्बृहितानस्मान्न पापं प्रसहिष्यते ॥
वैशंपायन उवाच ।
एवमुक्तास्तु ते सर्वे पाण्डुपुत्रेण कौरवाः ।
प्रसन्नवदना भूत्वा तेऽन्ववर्तन्त पाण्डवान् ॥
स्वस्त्यस्तु वः पथि सदा भूतेभ्यश्चैव सर्वशः ।
मा च वोस्त्वशुभं किंचित्सर्वशः पाण्डुनन्दनाः ॥
ततः कृतस्वस्त्ययना राज्यलाभाय पार्थिवाः ।
कृत्वा सर्वाणि कार्याणि प्रययुर्वारणावतम् ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि जतुगृहपर्वणि पञ्चपञ्चाशदधिकशततमोऽध्यायः ॥ 155 ॥

अध्यायः 156

दुर्योधनादेशात् पुरोचनेन वारणावते जतुगृहनिर्माणम् ॥ 1 ॥

वैशंपायन उवाच ।
धृतराष्ट्रप्रयुक्तेषु पाण्डुपुत्रेषु भारत ।
दुर्योधनः परं हर्षमगच्छत्स दुरात्मवान् ॥
`ततः सुबलपुत्रश्च कर्णदुर्योधनावपि । दहने सह पुत्रायाः कुन्त्या मतिमकुर्वत ।
मन्त्रयित्वा स तैः सार्धं दुरात्मा धृतराष्ट्रजः ॥'
स पुरोचनमेकान्तमानीय भरतर्षभ ।
गृहीत्वा दक्षिणे पाणौ सचिवं वाक्यमब्रवीत् ॥
ममेयं वसुसंपूर्णा पुरोचन वसुन्धरा ।
यथैव भविता तात तथा त्वं द्रष्टुमर्हसि ॥
न हि मे कश्चिदन्योऽस्ति विश्वासिकतरस्त्वया ।
सहायो येन सन्धाय मन्त्रयेयं यथा त्वया ॥
संरक्ष तात मन्त्रं च सपत्नांश्च ममोद्धर ।
निपुणेनाभ्युपायेन यद्ब्रवीमि तथा कुरु ॥
पाण्डवा धृतराष्ट्रेण प्रेषिता वारणावतम् ।
उत्सवे विहरिष्यन्ति धृतराष्ट्रस्य शासनात् ॥
स त्वं रासभयुक्तेन स्यन्दनेनाशुगामिना ।
वारणावतमद्यैव यथा यासि तया कुरु ॥
तत्र गत्वा चतुःशालं गृहं परमसंवृतम् ।
नगरोपान्तमाश्रित्य कारयेथा महाधनम् ॥
शणसर्जरसादीनि यानि द्रव्याणि कानिचित् ।
आग्नेयान्युत सन्तीह तानि तत्र प्रदापय ॥
`बल्वजेन च संमिश्रं मधूच्छिष्टेन चैव हि ।' सर्पिस्तैलवसाभिश्च लाक्षया चाप्यनल्पया ।
मृत्तिकां मिश्रयित्वा त्वं लेपं कुड्येषु दापय ॥
शणं तैलं घृतं चैव जतु दारूणि चैव हि ।
तस्मिन्वेश्मनि सर्वाणि निक्षिपेथाः समन्ततः ॥
`लाक्षाशममधूच्छिष्टवेष्टितानि मृदापि च । लेपयित्वा गुरूण्याशु दारुयन्त्राणि दापय ॥'
यथा च तन्न पश्येरन्परीक्षन्तोऽपि पाण्डवाः ।
आग्नेयमिति तत्कार्यमपि चान्येऽपि मानवाः ॥
वेश्मन्येवं कृते तत्र कृत्वा तान्परमार्चितान् ।
वासयेथाः पाण्डवेयान्कुन्तीं च ससुहृज्जनाम् ॥
आसनानि च दिव्यानि यानानि शयनानि न ।
निघातव्यानि पाण्डूनां यथा तुष्येच्च मे पिता ॥
यथा च तन्न जानन्ति नगरे वारणावते । `यथा रमेरन्विस्रब्धा नगरे वारणावते ।'
तथा सर्वं विधातव्यं यावत्कालस्य पर्ययः ॥
ज्ञात्वा च तान्सुविश्वस्ताञ्शयानानकुतोभयान् ।
अग्निस्त्वया ततो देयो द्वारतस्तस्य वेश्मनः ॥
दग्धानेवं स्वके गेहे दाहिताः पाण्डवा इति ।
न गर्हयेयुरस्मान्वै पाण्डवार्थाय कर्हिचित् ॥
स तथेति प्रतिज्ञाय कौरवाय पुरोचनः ।
प्रायाद्रासभयुक्तेन स्यन्दनेनाशुगामिना ॥
स गत्वा त्वरितं राजन्दुर्योधनमते स्थितः ।
यथोक्तं राजपुत्रेण सर्वं चक्रे पुरोचनः ॥
`तेषां तु पाण्डवेयानां गृहं रौद्रमकल्पयत् ॥' ॥

इति श्रीमन्महाभारते आदिपर्वणि जतुगृहपर्वणि षट्पञ्चाशदधिकशततमोऽध्यायः ॥ 156 ॥

1-156-6 उद्धर उन्मूलय ॥ 1-156-10 आग्नेयान्यग्निसंदीपकानि ॥ षट्पञ्चाशदधिकशततमोऽध्यायः ॥ 156 ॥

अध्यायः 157

हास्तिनपुरं त्यक्त्वा वारणावतं गच्छता युधिष्ठिरेण अनुगच्छथां पौराणां निवर्तनम् ॥ 1 ॥ म्लेच्छभाषया युधिष्ठिरं प्रति विदुरस्योपदेशः ॥ 2 ॥

वैशंपायन उवाच ।
पाण्डवास्तु रथान्युक्तान्सदश्वैरनिलोपमैः ।
आरोहमाणा भीष्मस्य पादौ जगृहुरार्तवत् ॥
राज्ञश्च धृतराष्ट्रस्य द्रोणस्य च महात्मनः ।
अन्येषां चैव वृद्धानां कृपस्य विदुरस्य च ॥
एवं सर्वान्कुरून्वृद्धानभिवाद्य यतव्रताः ।
समालिङ्ग्य समानान्वै बालैश्चाप्यभिवादिताः ॥
सर्वा मातॄस्तथाऽऽपृच्छ्य कृत्वा चैव प्रदक्षिणम् ।
प्रकृतीरपि सर्वाश्च प्रययुर्वारणावतम् ॥
विदुरश्च महाप्राज्ञस्तथाऽन्ये कुरुपुङ्गवाः ।
पौराश्च पुरुषव्याघ्रानन्वीयुः शोककर्शिताः ॥
तत्र केचिद्ब्रुवन्ति स्म ब्राह्मणा निर्भयास्तदा ।
दीनान्दृष्ट्वा पाण्डुसुतानतीव भृशदुःखिताः ॥
विषमं पश्यते राजा सर्वथा स सुमन्दधीः ।
कौरव्यो धृतराष्ट्रस्तु न च धर्मं प्रपश्यति ॥
न हि पापमपापात्मा रोचयिष्यति पाण्डवः ।
भीमो वा बलिनां श्रेष्ठः कौन्तेयो वा धनञ्जयः ॥
कुत एव महात्मानौ माद्रीपुत्रौ करिष्यतः ।
तान्राज्यं पितृतः प्राप्तान्धृतराष्ट्रो न मृष्यति ॥
अधर्म्यमिदमत्यन्तं कथं भीष्मोऽनुमन्यते ।
विवास्यमानानस्थाने नगरे योऽभिमन्यते ॥
पितेव हि नृपोऽस्माकमभूच्छान्तनवः पुरा ।
विचित्रवीर्यो राजर्षिः पाण्डुश्च कुरुनन्दनः ॥
स तस्मिन्पुरुषव्याघ्रे देवभावं गते सति ।
राजपुत्रानिमान्बालान्धृतराष्ट्रो न मृष्यति ॥
वयमेतदनिच्छन्तः सर्व एव पुरोत्तमात् ।
गृहान्विहाय गच्छामो यत्र गन्ता युधिष्ठिरः ॥
वैशंपायन उवाच ।
तांस्तथा वादिनः पौरान्दुःकितान्दुःखकर्शितः ।
उवाच मनसा ध्यात्वा धर्मराजो युधिष्ठिरः ॥
पिता मान्यो गुरुः श्रेष्ठो यदाह पृथिवीपतिः ।
अशङ्कमानैस्तत्कार्यमस्माभिरिति नो व्रतम् ॥
भवन्तः सुहृदोऽस्माकं यात कृत्वा प्रदक्षिणम् ।
प्रतिनन्द्य तथाऽऽशीर्भिर्निवर्तध्वं यथागृहम् ॥
यदा तु कार्यमस्माकं भवद्भिरुपपत्स्यते ।
तदा करिष्यथास्माकं प्रियाणि च हितानि च ॥
एवमुक्तास्तदा पौराः कृत्वा चापि प्रदक्षिणम् ।
आशीर्भिश्चाभिनन्द्यैताञ्जग्मुर्नगरमेव हि ॥
पौरेषु विनिवृत्तेषु विदुरः सर्वधर्मवित् ।
बोधयन्पाण्डवश्रेष्ठमिदंवचनमब्रवीत् ॥
प्राज्ञः प्राज्ञं प्रलापज्ञः प्रलापज्ञमिदं वचः । यो जानाति परप्रज्ञां नीतिशास्त्रानुसारिणीम् ।
विज्ञायेह तथा कुर्यादापदं निस्तरेद्यथा ॥
अलोहं निशितं शस्त्रं शरीपरिकर्तनम् ।
यो वेत्ति न तु तं घ्नन्ति प्रतिघातविदं द्विषः ॥
कक्षघ्नः शिशिरघ्नश्च महाकक्षे बिलौकसः ।
न दहेदिति चात्मानं यो रक्षति स जीवति ॥
नाचक्षुर्वेत्ति पन्थानं नाचक्षुर्विन्दते दिशः ।
नाधृतिर्भूतिमाप्नोति बुध्यस्वैवं प्रबोधितः ॥
अनाप्तैर्दत्तमादत्ते नरः शस्त्रमलोहजम् ।
श्वाविच्छरणमासाद्य प्रमुच्येत हुताशनात् ॥
चरन्मार्गान्विजानाति नक्षत्रैर्विन्दते दिशः ।
आत्मना चात्मनः पञ्च पीडयन्नानुपीड्यते ॥
एवमुक्तः प्रत्युवाच धर्मराजो युधिष्ठिरः ।
विदुरं विदुषां श्रेष्ठं ज्ञातमित्येव पाण्डवः ॥
अनुशिक्ष्यानुगम्यैतान्कृत्वा चैव प्रदक्षिणम् ।
पाण्डवानभ्यनुज्ञाय विदुरः प्रययौ गृहान् ॥
निवृत्ते विदुरे चापि भीष्मे पौरजने तथा ।
अजातशत्रुमासाद्य कुन्ती वचनमब्रवीत् ॥
क्षत्ता यदब्रवीद्वाक्यं जनमध्येऽब्रुवन्निव ।
त्वया च स तथेत्युक्तो जानीमो न च तद्वयम् ॥
यदीदं शक्यमस्माभिर्ज्ञातुं नैव च दोषवत् ।
श्रोतुमिच्छामि तत्सर्वं संवादं तव तस्य च ॥
युधिष्ठिर उवाच ।
विषादग्नेश्च बोद्धव्यमिति मां विदुरोऽब्रवीत् । पन्थानो वेदितव्याश्च नक्षत्रैश्च तथा दिशः ।
`कुड्याश्चविदिताःकार्याःस्याच्छुद्धिरितिचाब्रवीत् ॥
जितेन्द्रियश्च वसुधां प्राप्स्यतीति च मेऽब्रवीत् ।
विज्ञातमिति तत्सर्वं प्रत्युक्तो विदुरो मया ॥
वैशंपायन उवाच ।
अष्टमेऽहनि रोहिण्यां प्रयाताः फाल्गुनस्य ते ।
वारणावतमासाद्य ददृशुर्नागरं जनम् ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि जतुगृहपर्वणि सप्तपञ्चादशदधिकशततमोऽध्यायः ॥ 157 ॥

1-157-10 अस्थाने अयुक्तम् योऽभिमन्यते स भीष्मः कथमनुमन्यत इत्यर्थः ॥ 1-157-20 प्राज्ञः ऊहापोहसमर्थः । प्रलापज्ञः अनर्थवचनाभासाभिज्ञः । युधिष्ठिरमप्येतादृशम् । वचनमेवाह । इदमिति । इदं प्रलापात्मकं मम वचो यो जानाति सः परस्य शत्रोः प्रज्ञां स्वबाधार्थं नीत्या प्रयुक्तां विज्ञाय तथा कुर्यात् । यथा स्वयमापदं निस्तरेदित्यन्वयः ॥ 1-157-21 प्रलापाकारवचनमेवाह । अलोहमिति । अलोहमग्निमयं शस्त्रमिव शस्त्रं घातकं तस्य प्रतिघातविदं द्विषो न घ्नन्ति । प्रतिघातकृतमिति पाठे प्रतिघाताय कृतमित्यर्थः ॥ 1-157-22 अग्निकृते भये ज्ञातेऽपि कथं प्रतीकारस्तत्राह । कक्षघ्न इति । कक्षस्तृणेन्धनं हन्तीति तथा । शिशिरं शीतं हन्तीति तथाविधोऽपि अग्निः महाकक्षे अरण्ये दह्यमानेऽपि बिलौकसो मूषिकादीन्न दहति इत्थमात्मानं यो रक्षति स जीवति । तथा बिलेष्वाविश्यागाराद्रक्षणीय इत्यर्थः ॥ 1-157-23 ततश्च बिलनिर्गमानन्तरमरण्यगमन्प्रकारमुपदिशति । नाचक्षुरिति । अचक्षुः पूर्वं वर्त्मदर्शनविहीनः पन्थानं रात्रौ न वेत्ति । तथा अचक्षुः विज्ञानविहीनः दिशो न विन्दते न प्रत्यभिजानाति । अतः पूर्वमेव वर्त्मदिशौ द्रष्टव्ये इति भावः । कथमस्माकं बिलप्रवेशनिर्गमाविति चेत्तत्राह । नाधृतिरिति । दुःखे धैर्यरहितो भूतिमैश्वर्यं जीवनं वा न विन्दति । विपदि धैर्यमेव कार्यमित्यर्थः ॥ 1-157-24 किंच यत्पुरोचनादिभिः कर्तव्यं तत्स्वयमेव कार्यमित्याह । अनाप्तैरिति । अनाप्तैः पुरोचनादिभिर्दत्तं दातुमारब्धं यदलोहजं शस्त्रं तत्स्वयमादत्ते स्वीकरोति तान्हत्वा आत्मानं रक्षति । पुरोचनादिषु जीवत्सु अनु सारादिशङ्का स्यादिति भावः । शरणं सुरङ्गाम् ॥ 1-157-25 आत्मना सह पञ्च इन्द्रियाणि । आहाराद्यभावेन पीडयम् अनु पश्चात् न पीड्यते भवानिति शेषः । यद्वा । नाचक्षुरित्युक्तस्यैव विवरणं । चरन्मार्गानिति । विश्वासार्थं षड्दग्धव्या इत्याह । आत्मनेति । लुप्तोपममेतत् । त्वत्सदृशेन सह आत्मनः तव सदृशान्पञ्च नानुपीड्यते भवानिति शेषः ॥ 1-157-29 अब्रुवन्निव व्यक्तां वाचमकुर्वन्निव ॥ सप्तपञ्चाशदधिकशततमोऽध्यायः ॥ 157 ॥

अध्यायः 158

पाण्डवानां वारणावतप्रवेशः ॥ 1 ॥

वैशंपायन उवाच ।
ततः सर्वाः प्रकृतयो नगराद्वारणावतात् ।
सर्वमङ्गलसंयुक्ता यथाशास्त्रमतन्द्रिताः ॥
श्रुत्वाऽगतान्पाण्डुपुत्रान्नानायानैः सहस्रशः ।
अभिजग्मुर्नरश्रेष्ठाञ्श्रुत्वैव परया मुदा ॥
ते समासाद्य कौन्तेयान्वारणावतका जनाः ।
कृत्वा जयाशिषः सर्वे परिवार्योपतस्थिरे ॥
तैर्वृतः पुरुषव्याघ्रो धर्मराजो युधिष्ठिरः ।
विबभौ देवसङ्काशो वज्रपाणिरिवामरैः ॥
सत्कृताश्चैव पौरैस्ते पौरान्सत्कृत्य चानघ ।
अलङ्कृतं जनाकीर्णं विविशुर्वारणावतम् ॥
ते प्रविश्य पुरीं वीरास्तूर्णं जग्मुरथो गृहान् ।
ब्राह्मणानां महीपाल रतानां स्वेषु कर्मसु ॥
नगराधिकृतानां च गृहाणि रथिनां वराः ।
उपतस्थुर्नरश्रेष्ठा वैश्यशूद्रगृहाण्यपि ॥
अर्चिताश्च नरैः पौरैः पाण्डवा भरतर्षभ ।
जग्मुरावसथं पश्चात्पुरोचनपुरःसराः ॥
तेभ्यो भक्ष्याणि पानानि शयनानि शुभानि च ।
आसनानि च मुख्यानि प्रददौ स पुरोचनः ॥
तत्र ते सत्कृतास्तेन सुमहार्हपरिच्छदाः ।
उपास्यमानाः पुरुषैरूषुः पुरनिवासिभिः ॥
दशरात्रोषितानां तु तत्र तेषां पुरोचनः ।
निवेदयामास गृहं शिवाख्यमशिवं तदा ॥
तत्र ते पुरुषव्याघ्रा विविशुः सपरिच्छदाः ।
पुरोचनस्य वचनात्कैलासमिव गुह्यकाः ॥
तच्चागारमभिप्रेक्ष्य सर्वधर्मभृतां वरः ।
उवाचाग्नेयमित्येवं भीमसेनं युधिष्ठिरः ॥
जिघ्राणोऽस्य वसागन्धं सर्पिर्जतुविमिश्रितम् ।
कृतं हि व्यक्तमाग्नेयमिदं वेश्म परन्तप ॥
शणसर्जरसं व्यक्तमानीय गृहकर्मणि ।
मुञ्जबल्वजवंशादिद्रव्यं सर्वं घृतोक्षितम् ॥
`तृणबल्वजकार्पासवंशदारुकटान्यपि । आग्नेयान्यत्र क्षिप्तानि परितो वेश्मनस्तथा ॥'
शिल्पिभिः सुकृतं ह्याप्तैर्विनीतैर्वेश्मकर्मणि ।
विश्वस्तं मामयं पापो दग्धुकामः पुरोचनः ॥
तथा हि वर्तते मन्दः सुयोधनवशे स्थितः ।
इमां तु तां महाबुद्धिर्विदुरो दृष्टवांस्तथा ॥
आपदं तेन मां पार्थ स संबोधितवान्पुरा ।
ते वयं बोधितास्तेन नित्यमस्मद्धितैषिणा ॥
पित्रा कनीयसा स्नेहाद्बुद्धिमन्तो शिवं गृहम् ।
अनार्यैः सुकृतं गूढैर्दुर्योधनवशानुगैः ॥
भीमसेन उवाच ।
यदीदं गृहामाग्नेयं विहितं मन्यते भवान् ।
तत्रैव साधु गच्छामो यत्र पूर्वोषिता वयम् ॥
`दर्शयित्वा पृथग्गन्तुं न कार्यं प्रतिभाति मे ।
अशुभं वा शुभं वा स्यात्तैर्वसाम सहैव तु ॥
अद्यप्रभृति चास्मासु गतेषु भयविह्वलः ।
रूढमूलो भवेद्राज्ये धार्तराष्ट्रो जनेश्वरः ॥
तदीयं तु भवेद्राज्यं तदीयाश्च जना इमे ।
तस्मात्सहैव वत्स्यामो गलन्यस्तपदा वयम् ॥
अस्माकं कालमासाद्य राज्यमाच्छिद्य शत्रुतः ।
अर्थं पैतृकमस्माकं सुखं भोक्ष्याम शाश्वतम् ॥
धृतराष्ट्रवचोऽस्माभिः किमर्थमनुपाल्यते ।
तेभ्यो भित्त्वाऽन्यथागन्तुं दौर्बल्यं ते कुतो नृप ॥
आपत्सु रक्षिताऽस्माकं विदुरोऽस्ति महामतिः ।
मध्यस्थ एव गाङ्गेयो राज्यभोगपराङ्मुखः ॥
बाह्लीकप्रमुखा वृद्धा मध्यस्था एव सर्वदा ।
अस्मदीयो भवेद्द्रोणः फल्गुनप्रेमसंयुतः ॥
तस्मात्सहैव वस्तव्यं न गन्तव्यं कथं नृप ।
अथवास्मासु ते कुर्युः किमशक्ताः पराक्रमैः ॥
क्षुद्राः कपटिनो धूर्ता जाग्रत्सु मनुजेश्वर ।
किं न कुर्युः पुरा मह्यं किं न दत्तं महाविषम् ॥
आशीविषैर्महाघोरैः सर्पैस्तैः किं न दंशितः ।
प्रमाणकोट्यां संगृह्य निद्रापरवशे मयि ॥
सर्पैर्दृष्टिविषैर्गोरैर्गङ्गायां शूलसन्ततौ ।
किं तैर्न पातितो भूप तदा किं मृतवानहम् ॥
आपत्सु तासु घोरासु दुष्प्रयुक्तासु पापिभिः ।
अस्मानरक्षद्यो देवो जगद्यस्य वशे स्थितम् ॥
चराचरात्मकं सोऽद्य यातः कुत्र नृपोत्तम ।
यावत्सोढव्यमस्माभिस्तावत्सोढास्मि यत्नतः ॥
यदा न शक्ष्यतेऽस्माभिस्तदा पश्याम नो हितम् ।
किं द्रष्टव्यमिहास्माभिर्विगृह्य तरसा बलात् ॥
सान्त्ववादेन दानेन भेदेनापि यतामहे ।
अर्धराज्यस्य संप्राप्त्यै ततो दण्डः प्रशस्यते ॥
तस्मात्सहैव वस्तव्यं तन्मनोर्पितशल्यवत् । दर्शयित्वा पृथक् क्वापि न गन्तव्यं सुभीतवत् ॥'
युधिष्ठिर उवाच ।
इह यत्तैर्निराकारैर्वस्तव्यमिति रोचये ।
अप्रमत्तैर्विचिन्वद्भिर्गतिमिष्टां ध्रुवामितः ॥
यदि विन्देत चाकारमस्माकं स पुरोचनः ।
क्षिप्रकारी ततो भूत्वा प्रसह्यापि दहेत्ततः ॥
नायं बिभेत्युपक्रोशादधर्माद्वा पुरोचनः ।
तथा हि वर्तते मन्दः सुयोधनवशे स्थितः ॥
अपि चायं प्रदग्धेषु भीष्मोऽस्मासु पितामहः ।
कोपं कुर्यात्किमर्थं वा कौरवान्कोपयीत सः ॥
अथवापीह दग्धेषु भीष्मोऽस्माकं पितामहः ।
धर्म इत्येव कुप्येरन्ये चान्ये कुरुपुङ्गवाः ॥
`उपपन्नं तु दग्धेषु कुलवंशानुकीर्तिताः । कुप्येरन्यदि धर्मज्ञास्तथान्ये कुरुपुङ्गवाः ॥'
वयं तु यदि दाहस्य बिभ्यतः प्रद्रवेमहि ।
स्पशैर्नो घातयेत्सर्वान्राज्यलुब्धः सुयोधनः ॥
अपदस्थान्पदे तिष्ठन्नपक्षान्पक्षसंस्थितः ।
हीनकोशान्महाकोशः प्रयोगैर्घातयेद्ध्रुवम् ॥
तदस्माभिरिमं पापं तं च पापं सुयोधनम् ।
वञ्चयद्भिर्निवस्तव्यं छन्नं वीर क्वचित्क्वचित् ॥
ते वयं मृगयाशीलाश्चराम वसुधामिमाम् ।
तथा नो विदिता मार्गा भविष्यन्ति पलायतां ॥
भौमं च बिलमद्यैव करवाम सुसंवृतम् ।
गूढोद्गतान्न नस्तत्र हुताशः संप्रधक्ष्यति ॥
द्रवतोऽत्र यथा चास्मान्न बुध्येत पुरोचनः ।
पौरो वापि जनः कश्चित्तथा कार्यमतन्द्रितैः ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि जतुगृहपर्वणि अष्टपञ्चाशदधिकशततमोऽध्यायः ॥ 158 ॥

1-158-22 दर्शयित्वा विरोधमिति शेषः ॥ 1-158-29 न गन्तव्यं हास्तिनपुरमिति शेषः ॥ 1-158-40 उपक्रोशाद्गर्हातः ॥ 1-158-41 अयं भीष्म इति संबन्धः ॥ 1-158-42 दग्धेष्वस्मास्वग्निदेषु कोपोऽधर्म इत्येव कारणं कृत्वा भीष्मोऽन्ये च कुप्येरन् ॥ 1-158-44 दाहस्य दाहात् । स्पशैश्चारैः ॥ 1-158-49 अत्र बिले ॥ अष्टपञ्चाशदधिकशततमोऽध्यायः ॥ 158 ॥

अध्यायः 159

खनकेन सुरङ्गकरणम् ॥ 1 ॥

वैशंपायन उवाच ।
विदुरस्य सुहृत्कश्चित्खनकः कुशलः क्वचित् ।
विविक्ते पाण्डवान्राजन्निदं वचनमब्रवीत् ॥
प्रहितो विदुरेणास्मि खनकः कुशलो ह्यहम् ।
पाण्डवानां प्रियं कार्यमिति किं करवाणि वः ॥
प्रच्छन्नं विदुरेणोक्तं प्रियं यन्म्लेच्छभाषया ।
त्वया च तत्तथेत्युक्तमेतद्विश्वासकारणम् ॥
कृष्णपक्षे चतुर्दश्यां रात्रावस्यां पुरोचनः ।
भवनस्य तव द्वारि प्रदास्यति हुताशनम् ॥
मात्रा सह प्रदग्धव्याः पाण्डवाः पुरुषर्षभाः ।
इति व्यवसितं तस्य धार्तराष्ट्रस्य दुर्मतेः ॥
वैशंपायन उवाच ।
उवाच तं सत्यधृतिः कुन्तीपुत्रो युधिष्ठिरः ।
अभिजानामि सौम्य त्वां सुहृदं विदुरस्य वै ॥
शुचिमाप्तं प्रियं चैव सदा च दृढभक्तिकम् ।
न विद्यते कवेः किंचिदविज्ञातं प्रयोजनम् ॥
यथा तस्य तथा नस्त्वं निर्विशेषा वयं त्वयि ।
भवतश्च यथा तस्य पालयास्मान्यथा कविः ॥
इदं शरणमाग्नेयं मदर्थमिति मे मतिः ।
पुरोचनेन विहितं धार्तराष्ट्रस्य शासनात् ॥
स पापः कोशवांश्चैव ससहायश्च दुर्मतिः ।
अस्मानपि च पापात्मा नित्यकालं प्रबाधते ॥
स भवान्भोक्षयत्वस्मान्यत्नेनास्माद्धुताशनात् ।
अस्मास्विह हि दग्धेषु सकामः स्यात्सुयोधनः ॥
समृद्धमायुधागारमिदं तस्य दुरात्मनः ।
वप्रान्तं निष्प्रतीकारमाश्रित्येदं कृतं महत् ॥
इदं तदशुभं नूनं तस्य कर्म चिकीर्षितम् ।
प्रागेव विदुरो वेद तेनास्मानन्वबोधयत् ॥
सेयमापदनुप्राप्ता क्षत्ता यां दृष्टवान्पुरा ।
पुरोचनस्याविदितानस्मांस्त्वं प्रतिमोचय ॥
वैशंपायन उवाच ।
स तथेति प्रतिश्रुत्य खनको यत्नमास्थितः ।
परिखामुत्किरन्नाम चकार च महाबिलम् ॥
चक्रे च वेश्मनस्तस्य मध्ये नातिमहद्बिलम् ।
कपाटयुक्तमज्ञातं समं भूम्याश्च भारत ॥
पुरोचनभयादेव व्यदधात्संवृतं मुखम् । स तस्य तु गृहद्वारि वसत्यशुभधीः सदा ।
तत्र ते सायुधाः सर्वे वसन्ति स्म क्षपां नृप ॥
दिवा चरन्ति मृगयां पाण्डवेया वनाद्वनम् ।
विश्वस्तवदविश्वस्ता वञ्चयन्तः पुरोचनम् ॥
अतुष्टास्तुष्टवद्राजन्नूषुः परमविस्मिताः ॥
न चैनानन्वबुध्यन्त नरा नगरवासिनः ।
अन्यत्र विदुरामात्यात्तस्मात्खनकसत्तमात् ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि जतुगृहपर्वणि ऊनषष्ट्यधिकशततमोऽध्यायः ॥ 159 ॥

1-159-4 आर्द्रायां च पुरोचनः । भवनस्य निशि द्वारि इति ङ. पाठः ॥ 1-159-7 कवेः सर्वज्ञस्य क्रान्तदर्शिनो वा ॥ 1-159-8 यथा वयं तस्य तथा भवतश्च ॥ 1-159-9 शरणं गृहम् ॥ 1-159-12 वप्रान्तं प्राकारमूलम् । निष्प्रतीकारं बहिर्निर्गमनप्रकारशून्यम् ॥ 1-159-14 अस्मांस्त्वं विप्रवासय इति ङ. पाठः ॥ 1-159-15 परिखा प्राकारपरिधिभूतो गर्तस्ताम् । नाम प्रसिद्धण् । उत्किरन्परिखापरिष्कारव्याजेन बिलान्मृदमुत्किरन् बहिः क्षिपन् महाबिलं सुरङ्गाख्यं चकार ॥ 1-159-16 नातिमहामुखं इति ङ. पाठः ॥ ऊनषष्ट्यधिकशततमोऽध्यायः ॥ 159 ॥

अध्यायः 160

रात्रौ कुन्त्या अन्नादिना ब्राह्मणपूजनम् ॥ 1 ॥ भीमेन जतुगृहस्यादीपनम् ॥ 2 ॥ तस्य कुन्तीं भ्रातॄंश्चादाय सुरङ्गाद्वारा बहिंर्निर्गमनम् ॥ 3 ॥

वैशंपायन उवाच ।
तांस्तु दृष्ट्वा सुमनसः परिसंवत्सरोषितान् ।
विश्वस्तानिव संलक्ष्य हर्षं चक्रे पुरोचनः ॥
`स तु संचिन्तयामास प्रहृष्टेनान्तरात्मना ।
प्राप्तकालमिदं मन्ये पाण्डवानां विनाशने ॥
तमस्यान्तर्गतं भावं विज्ञाय कुरुपुङ्गवः । चिन्तयामास मतिमान्धर्मपुत्रो युधिष्ठिरः ॥'
पुरोचने तथा हृष्टे कौन्तेयोऽथ युधिष्ठिरः ।
भीमसेनार्जुनौ चोभौ यमौ प्रोवाच धर्मवित् ॥
अस्मानयं सुविश्वस्तान्वेत्ति पापः पुरोचनः ।
वञ्चितोऽयं नृशंसात्मा कालं मन्ये पलायने ॥
आयुधागारमादीप्य दग्ध्वा चैव पुरोचनम् ।
षट्प्राणिनो निधायेह द्रवामोऽनभिलक्षिताः ॥
वैशंपायन उवाच ।
अथ दानापदेशेन कुन्ती ब्राह्मणभोजनम् ।
चक्रे निशि महाराज आजग्मुस्तत्र योषितः ॥
ता विहृत्य यथाकामं भुक्त्वा पीत्वा च भारत ।
जग्मुर्निशिं गृहानेव समनुज्ञाप्य माधवीम् ॥
`पुरोचनप्रणिहिता पृथां या सेवते सदा ।
निषादी दुष्टहृदया नित्यमन्तरचारिणी ॥
निषादी पञ्चपुत्रा सा तस्मिन्भोज्ये यदृच्छया ।
पुराभ्यासकृतस्नेहा सखी कुन्त्याः सुतैः सह ॥
आनीय मधुमूलानि फलानि विविधानि च । अन्नार्थिनी समभ्यागात्सपुत्रा कालचोदिता ।
सुपापा पञ्चपुत्रा च सा पृथायाः सखी मता ॥'
सा पीत्वा मदिरां मत्ता सपुत्रा मदविह्वला ।
सह सर्वैः सुतै राजंस्तस्मिन्नेव निवेशने ॥
सुष्वाप विगतज्ञाना मृतकल्पा नराधिप ।
अथ प्रवाते तुमुले निशि सुप्ते जने तदा ॥
तदुपादीपयद्भीमः शेते यत्र पुरोचनः ।
ततो जतुगृहद्वारं दीपयामास पाण्डवः ॥
समन्ततो ददौ पश्चादग्निं तत्र निवेशने ।
`पूर्वमेव गृहं शोध्य भीमसेनो महामतिः ॥
पाण्डवैः सहितां कुन्तीं प्रावेशयत तद्बिलम् ।
दत्त्वाग्निं सहसा भीमो गृहे तत्परितः सुधीः ॥
गृहस्थं द्रविणं गृह्य निर्जगाम बिलेन सः ।' ज्ञात्वा तु तद्गृहं सर्वमादीप्तं पाण्डुनन्दनाः ॥
सुरङ्गां विविशुस्तूर्णं मात्रा सार्धमरिन्दमाः ।
ततः प्रतापः सुमहाञ्छब्दश्चैव विभावसोः ॥
प्रादुरासीत्तदा तेन बुबुधे स जनव्रजः ।
तदवेक्ष्य गृहं दीप्तमाहुः पौराः कृशाननाः ॥
दुर्योधनप्रयुक्तेन पापेनाकृतबुद्धिना ।
गृहमात्मविनाशाय कारितं दाहितं च तत् ॥
अहो धिग्धृतराष्ट्रस्य बुद्धिर्नातिसमञ्जसा ।
यः शुचीन्पाण्डुदायादान्दाहयामास शत्रुवत् ॥
दिष्ट्या त्विदानीं पापात्मादग्ध्वा दग्धः पुरोचनः ।
अनागसः सुविश्वस्तान्यो ददाह नरोत्तमान् ॥
वैशंपायन उवाच ।
एवं ते विलपन्ति स्म वारणावतका जनाः ।
परिवार्य गृहं तच्च तस्थू रात्रौ समन्ततः ॥
पाण्डवाश्चापि ते सर्वे सह मात्रा सुदुःखिताः ।
बिलेन तेन निर्गत्य जग्मुर्द्रुतमलक्षिताः ॥
तेन निद्रोपरोधेन साध्वसेन च पाण्डवाः ।
न शेकुः सहसा गन्तुं सह मात्रा परन्तपाः ॥
भीमसेनस्तु राजेन्द्र भीमवेगपराक्रमः ।
जगाम भ्रातॄनादाय सर्वान्मातरमेव च ॥
स्कन्धमारोप्य जननीं यमावङ्केन वीर्यवान् ।
पार्थौ गृहीत्वा पाणिभ्यां भ्रातरौ सुमहाबलः ॥
उरसा पादपान्भञ्जन्महीं पद्भ्यां विदारयन् ।
स जगामाशु तेजस्वी वातरंहा वृकोदरः ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि जतुगृहपर्वणि षष्ट्यधिकशततमोऽध्यायः ॥ 160 ॥

1-160-6 जातुषागारमिति ङ. पाठः ॥ षष्ट्यधिकशततमोऽध्यायः ॥ 160 ॥

अध्यायः 161

पाण्डवानां विदुरप्रेषितदूतदर्शितनौकया गङ्गोत्तरणम् ॥ 1 ॥

वैशंपायन उवाच ।
एतस्मिन्नेव काले तु यथासंप्रत्ययं कविः ।
विदुरः प्रेषयामास तद्वनं पुरुषं शुचिम् ॥
`आत्मनः पाण्डवानां च विश्वास्यं ज्ञातपूर्वकम् । गङ्गासंतरणार्थाय ज्ञाताभिज्ञानवाचिकम् ॥'
स गत्वा तु यथोद्देशं पाण्डवान्ददृशे वने ।
जनन्या सह कौरव्याननयज्जाह्नवीतटम् ॥
विदितं तन्महाबुद्धेर्विदुरस्य महात्मनः ।
ततस्त्रस्यापि चारेण चेष्टितं पापचेतसः ॥
ततः प्रवासितो विद्वान्विदुरेण नरस्तदा ।
पार्थानां दर्शयामास मनोमारुतगामिनीम् ॥
सर्ववातसहां नावं यन्त्रयुक्तां पताकिनीम् ।
शिवे भागीरथीतीरे नरैर्विस्रम्भिभिः कृताम् ॥
ततः पुनरथोवाच ज्ञापकं पूर्वचोदितम् ।
युधिष्ठिर निबोधेयं संज्ञार्थं वचनं कवेः ॥
कक्षघ्नः शिशिरघ्नश्च महाकक्षे बिलौकसः । न हन्तीत्येवमात्मानं यो रक्षति स जीवति ।
`बोद्धव्यमिति यत्प्राह विदुरस्तदिदं तथा ॥'
तेन मां प्रेषितं विदिधि विश्वस्तं संज्ञयाऽनया । भूयश्चैवाह मां क्षत्ता विदुरः सर्वतोऽर्थवित् ।
`अधिक्षिपन्धार्तराष्ट्रं सभ्रातृकमुदारधीः ॥'
कर्णं दुर्योधनं चैव भ्रातृभिः सहितं रणे ।
शकुनिं चैव कौन्तेय विजेताऽसि न संशयः ॥
`वैशंपायन उवाच ।
पाण्डवाश्चापि गत्वाथ गङ्गायास्तीरमुत्तमम् ।
निषादाधिपतिं वीरं दाशं परमधार्मिकम् ॥
दीपिकाभिः कृतालोकं मार्गमाणं च पाण्डवान् ।
ददृशुः पाण्डवेयास्ते नाविकं त्वरयाऽन्वितम् ॥
निषादस्तत्र कौन्तेयानभिज्ञानं न्यवेदयत् ।
विदुरस्य महाबुद्धेर्म्लेच्छभाषादि यत्तदा ॥
नाविक उवाच ।
विदुरेणास्मि सन्दिष्टो दत्त्वा बहु धनं महत् ।
गङ्गातीरे निविष्टस्त्वं पाण्डवांस्तारयेति ह ॥
सोऽहं चतुर्दशीमद्य गङ्गाया अविदूरतः ।
चारेरन्वेषयाम्यस्मिन्वने मृगगणान्विते ॥
प्रभवन्तोऽथ भद्रं वो नावमारुह्य गम्यताम् । युक्तारित्रपताकां च निश्छिद्रां मन्दिरोपमाम् ॥'
इयं वारिपथे युक्ता नौरप्सु सुखगामिनी ।
मोचयिष्यति वः सर्वानस्माद्देशान्न संशयः ॥
वैशंपायन उवाच ।
अथ तान्व्यथितान्दृष्ट्वा सह मात्रा नरोत्तमान् ।
नावमारोप्य गङ्गायां प्रस्थितानब्रवीत्पुनः ॥
विदुरो मूर्ध्न्युपाघ्राय परिष्वज्य वचो मुहुः ।
अरिष्टं गच्छताव्यग्राः पन्थानमिति चाब्रवीत् ॥
इत्युक्त्वा स तु तान्वीरान्पुमान्विदुरचोदितः ।
तारयामास राजेन्द्र गङ्गां नावा नरर्षभान् ॥
तारयित्वा ततो गङ्गां पारं प्राप्तांश्च सर्वशः ।
जयाशिषः प्रयुज्याथ यथागतमगाद्धि सः ॥
पाण्डवाश्च महात्मानः प्रतिसन्दिश्य वै कवेः ।
गङ्गामुत्तीर्य वेगेन जग्मुर्गूढमलक्षिताः ॥
`ततस्ते तत्र तीर्त्वा तु गङ्गामुत्तुङ्गवीचिकाम् ।
जवेन प्रययुर्वीरा दक्षिणां दिशमास्थिताः ॥
विज्ञाय निशि पन्थानं नक्षत्रैर्दक्षिणामुखाः ।
वनाद्वनान्तरं राजन्गहनं प्रतिपेदिरे ॥
श्रान्तास्ततः पिपासार्ताः क्षुधिता भयकातराः ।
पुनरूचुर्महावीर्यं भीमसेनमिदं वचः ॥
इतः कष्टतरं किं नु यद्वयं गहने वने । दिशश्च न प्रजानीमो गन्तुं चैतेन शक्नुमः ।
तं च पापं न जानीमो दग्धो वाथ पुरोचनः ॥
कथं नु विप्रमुच्येम भयादस्मादलक्षिताः ।
शीघ्रमस्मानुपादाय तथैव व्रज भारत ॥
त्वं हि नो बलवानेको यथा सततगस्तथा । इत्युक्तो धर्मराजेन भीमसेनो महाबलः ।
आदाय कुन्तीं भ्रातॄंश्च जगामाशु स पावनिः' ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि जतुगृहपर्वणि एकषष्ट्यधिकशततमोऽध्यायः ॥ 161 ॥

अध्यायः 162

पौरैः प्रातर्जतुगृहसमीपमागत्य पुरोचनसहितानां पाण्डवानां दाहं निश्चित्य धृतराष्ट्राय दूतमुखेन पाण्डवृत्तान्तनिवेदनम् ॥ 1 ॥ तच्छ्रवणेन ज्ञातिभिः सह धृतराष्ट्रेण कुन्त्यादीनां उदकदानम् ॥ 2 ॥ भीष्मविदुरयोः संवादः ॥ 3 ॥

वैशंपायन उवाच ।
अथ रात्र्यां व्यतीतायामशेषो नागरो जनः ।
तत्राजगाम त्वरितो दिदृक्षुः पाण्डुनन्दनान् ॥
निर्वापयन्तो ज्वलनं ते जना ददृशुस्ततः ।
जातुषं तद्गृहं दग्धममात्यं च पुरोचनम् ॥
नूनं दुर्योधनेनेदं विहितं पापकर्मणा ।
पाण्डवानां विनाशायेत्येवं ते चुक्रुशुर्जनाः ॥
विदिते धृतराष्ट्रस्य धार्तराष्ट्रो न संशयः ।
दग्धवान्पाण्डुदायादान्न ह्येतत्प्रतिषिद्धवान् ॥
नूनं शान्तनवोऽपीह न धर्मनुवर्तते ।
द्रोणश्च विदुरश्चैव कृपश्चान्ये च कौरवाः ॥
`नावेक्षन्ते ह तं धर्मं धर्मात्मानोऽप्यहो विधेः ।
श्रुतवन्तोऽपि विद्वांसो धनवद्वशगा अहो ॥
साधूननाथान्धर्मिष्ठात्सत्यव्रतपरायणान् ।
नावेक्षन्ते महान्तोऽपि दैवं तेषां परायणम् ॥
ते वयं धृतराष्ट्राय प्रेषयामो दुरात्मने ।
संवृत्तस्ते परः कामः पाण्डवान्दग्धवानसि ॥
ततो व्यपोहमानास्ते पाण्डवार्थे हुताशनम् ।
निषादीं ददृशुर्दग्धां पञ्चपुत्रामनागसम् ॥
इतः पश्यत कुन्तीयं दग्धा शेते तपस्विनी ।
पुत्रैः सहैव वार्ष्णेयी हन्तेत्याहुः स्म नागराः ॥
खनकेन तु तेनैव वेश्म शोधयता बिलम् ।
पांसुभिः पिहितं तच्च पुरुषैस्तैर्न लक्षितम् ॥
ततस्ते प्रेषयामासुर्धृतराष्ट्राय नागराः ।
पाण्डवानग्निना दग्धानमात्यं च पुरोचनम् ॥
श्रुत्वा तु धृतराष्ट्रस्तद्राजा सुमहदप्रियम् ।
विनाशं पाण्डुपुत्राणां विललाप सुदुःखितः ॥
अन्तर्हृष्टमनाश्चासौ बहिर्दुःखसमन्वितः ।
अन्तःशीतो बहिश्चोष्णो ग्रीष्मेऽगाधह्वदोयथा ॥
धृतराष्ट्र उवाच ।
अद्य पाण्डुर्मृतो राजा मम भ्राता महायशाः ।
तेषु वीरेषु दग्धेषु मात्रा सह विशेषतः ॥
गच्छन्तु पुरुषाः शीघ्रं नगरं वारणावतम् ।
सत्कारयन्तु तान्वीरान्कुन्तीं राजसुतां च ताम् ॥
ये च तत्र मृतास्तेषां सुहृदः सन्ति तानपि ।
कारयन्तु च कुल्यानि शुभ्राणि च बृहन्ति च ॥
मम दग्धा महात्मानः कुलवंशविवर्धनाः ॥
एवं गते मया शक्यं यद्यत्कारयितुं हितम् ।
पाण्डवानां च कुन्त्याश्च तत्सर्वं क्रियतां धनैः ॥
`वैशंपायन उवाच ।
समेताश्च ततः सर्वे भीष्मेण सह कौरवाः ।
धृतराष्ट्रः सपुत्रश्च गङ्गामभिमुखा ययुः ॥
एकवस्त्रा निरानन्दा निराभरणवेष्टनः । उदकं कर्तुकामा वै पाण्डवानां महात्मनाम् ॥'
एवं गत्वा ततश्चक्रे ज्ञातिभिः परिवारितः ।
उदकं पाण्डुपुत्राणां धृतराष्ट्रोऽम्बिकासुतः ॥
रुरुदुः सहिताः सर्वे भृशं शोकपरायणाः ।
हा युधिष्ठिर कौरव्य हा भीम इति चापरे ॥
हा फल्गुनेति चाप्यन्ये हा यमाविति चापरे ।
कुन्तीमार्ताश्च शोचन्त उदकं चक्रिरे जनाः ॥
अन्ये पौरजनाश्चैवमन्वशोचन्त पाण्डवान् ।
विदुरस्त्वल्पशश्चक्रे शोकं वेद परं हि सः ॥
विदुरो धृतराष्ट्रस्य जानन्सर्वं मनोगतम् ।
तेनायं विधिना सृष्टः कुटिलः कपटाशयः ॥
इत्येवं चिन्तयन्राजन्विदुरो विदुषां वरः ।
लोकानां दर्शयन्दुःखं दुःखितैः सह बान्धवैः ॥
मनसाऽचिन्तयत्पार्थान्कियद्दूरं गता इति ।
सहिताः पाण्डवाः पुत्रा इति चिन्तापरोऽभवत् ॥
ततः प्रव्यथितो भीष्मः पाण्डुराजसुतान्मृतान् ।
सह मात्रेति तच्छ्रुत्वा विललाप रुरोद च ॥
भीष्म उवाच ।
हा युधिष्ठिर हा भीम हा धनञ्जय हा यमौ ।
हा पृथे सह पुत्रैस्त्वमेकरात्रेण स्वर्गता ॥
मात्रा सह कुमारास्ते सर्वे तत्रैव संस्थिताः ।
न हि तौ नोत्सहेयातां भीमसेनधनञ्जयौ ॥
तरसा वेगितात्मानौ निर्भेत्तुमपि मन्दरम् ।
परासुत्वं न पश्यामि पृथायाः सह पाण्डवैः ॥
सर्वथा विकृतं तत्तु यदि ते निधनं गताः ।
धर्मराजः स निर्दिष्टो ननु विप्रैर्युधिष्ठिरः ॥
पृथिव्यां च रथिश्रेष्ठो भविता स धनञ्जयः ।
सत्यव्रतो धर्मदत्तः सत्यवाक्छुभलक्षणः ॥
कथं कालवशं प्राप्तः पाण्डवेयो युधिष्ठिरः ।
आत्मानमुपमां कृत्वा परेषां वर्तते तु यः ॥
मात्रा सहैव कौरव्यः कथं कालवशं गतः ।
पालितः सुचिरं कालं फलकाले यथा द्रुमः ॥
भग्नः स्याद्वायुवेगेन तथा राजा युधिष्ठिरः ।
यौवराज्येऽभिषिक्तेन पितुर्येनाहृतं यशः ॥
आत्मनश्च पितुश्चैव सत्यधर्मप्रवृत्तिभिः ।
यच्च सा वनवासेन तन्माता दुःखभागिनी ॥
कालेन सह संमग्नो धिक्कृतान्तमनर्थकम् ।
यच्च सा वनवासेन तन्माता दुःखभागिनी ॥
पुत्रगृध्नुतया कुन्ती न भर्तारं मृतात्वनु ।
अल्पकालं कुले जाता भर्तुः प्रीतिमवाप या ॥
दग्धाऽद्य सह पुत्रैः सा असंपूर्णमनोरा ।
मृतो भीम इति श्रुत्वा मनो न श्रद्दधाति मे ॥
एतच्च चिन्तयानस्य व्यथितं बहुधा मनः ।
अवधूय च मे देहं हृदयेन विदीर्यते ॥
पीनस्कन्धश्चारुबाहुर्मेरुकूटसमो युवा ।
मृतो भीम इति श्रुत्वा मनो न श्रद्दधाति मे ॥
अतित्यागी च योधी च क्षिप्रहस्तो दृढायुधः ।
प्रपत्तिमाँल्लब्धलक्षो रथयानविशारदः ॥
दूरपाती त्वसंभ्रान्तो महावीर्यो महास्त्रवान् ।
अदीनात्मा नरश्रेष्ठः श्रेष्ठः सर्वधनुष्मताम् ॥
येन प्राच्याश्च सौवीरा दाक्षिणात्याश्च निर्जिताः ।
ख्यापितं येन शूरेण त्रिषु लोकेषु पौरुषम् ॥
यस्मिञ्जाते विशोकाऽभूत्कुन्ती पाण्डुश्च वीर्यवान् ।
पुरन्दरसमो जिष्णुः कथं कालवशं गतः ॥
कथं तावृषभष्कन्धौ सिंहविक्रान्तगामिनौ ।
मर्त्यधर्ममनुप्राप्तौ यमावरिनिवर्हणौ ॥
वत्सा गताः क्व मां वृद्धं विहाय भृशमातुरम् ।
हा स्नुषे मम वार्ष्णेयि निधाय हृदि मे शुचम् ॥
वारणावतयात्रायां के स्युर्वै शकुनाः पथि ।
एवमल्पायुषो लोके भविष्यन्ति पृथासुताः ॥
संशप्ता इति कैर्यूयं वत्सान्दर्शय मे पृथे ।
ममैव नाथा मन्नाथा मम नेत्राणि पाण्डवाः ॥
हा पाण्डवा मे हे वत्सा हा सिंहशिशवो मम ।
मातङ्गा हा ममोत्तुङ्गा हा ममानन्दवर्धनाः ॥
मम हीनस्य युष्माभिः सर्वलोकास्तमोवृताः ।
कदा द्रष्टाऽस्मि कौन्तेयांस्तरुणादित्यवर्चसः ॥
अदृष्ट्वा वो महाबाहून्पुत्रवन्मम नन्दनाः ।
क्व गतिर्मे क्व गच्छामि कुतो द्रक्ष्यामि मे शिशून् ॥
हा युधिष्ठिर हा भीम हा हा फल्गुन हा यमौ ।
मा गच्छत निवर्तध्वं मयि कोपं विमुञ्चत ॥
वैशंपायन उवाच ।
श्रुत्वा तत्क्रन्दितं तस्य तिलोदं च प्रसिञ्चतः ।
देशं कालं समाज्ञाय विदुरः प्रत्यभाषत ॥
मा शोचीस्त्वं नरव्याघ्र जहि शोकं महाधृते ।
न तेषां विद्यते मृत्युः प्राप्तकालं कृतं मया ॥
एतच्च तेभ्य उदकं विप्रसिञ्च न भारत ।
क्षत्तेदमब्रवीद्भीष्मं कौरवाणामशृण्वताम् ॥
क्षत्तारमुपसंगम्य बाष्पोत्पीडकलस्वरः ।
मन्दंमन्दमुवाचेदं विदुरं संगमे नृप ॥
भीष्म उवाच ।
कथं ते तात जीवन्ति पाण्डोः पुत्रा महाबलाः ।
कथमस्मत्कृते पक्षः पाण्डोर्न हि निपातितः ॥
कथं मत्प्रमुखाः सर्वे प्रमुक्ता महतो भयात् ।
जननी गरुडेनेव कुरवस्ते समुद्धृताः ॥
वैशंपायन उवाच ।
एवमुक्तस्तु कौरव्य कौरवाणामशृण्वताम् ।
आचचक्षे स धर्मात्मा भीष्मायाद्भुतकर्मणे ॥
विदुर उवाच ।
धृतराष्ट्रस्य शकुने राज्ञो दुर्योधनस्य च ।
विनाशे पाण्डुपुत्राणां कृतो मतिविनिश्चयः ॥
तत्राहमपि च ज्ञात्वा तस्य पापस्य निश्चयम् ।
तं जिघांसुरहं चापि तेषामनुमते स्थितः ॥
ततो जतुगृहं गत्वा दहनेऽस्मिन्नियोजिते ।
पृथायाश्च सपुत्राया धार्तराष्ट्रस्य शासनात् ॥
ततः खनकमाहूय सुरङ्गं वै बिलं तदा ।
सुगूढं कारयित्वा ते कुन्त्या पाण्डुसुतास्तदा ॥
निष्क्रामिता मया पूर्वं मा स्म शोके मनः कृथाः ।
ततस्तु नावमारोप्य सहपुत्रां पृथामहम् ॥
दत्त्वाऽभयं सपुत्रायै कुन्त्यै गृहमदाहयम् ।
तस्मात्ते मा स्म भूद्दुःखं मुक्ताः पापात्तु पाण्डवाः ॥
निर्गताः पाण्डवा राजन्मात्रा सह परन्तपाः ।
अग्निहादान्महाघोरान्मया तस्मादुपायतः ॥
मा स्म शोकमिमं कार्षीर्जीवन्त्येव च पाण्डवाः ।
प्रच्छन्ना विचिरिष्यन्ति यावत्कालस्य पर्ययः ॥
तस्मिन्युधिष्ठिरं काले द्रक्ष्यन्ति भुवि मानवाः ।
विमलं कृष्णपक्षान्ते जगच्चन्द्रमिवोदितम् ॥
न तस्य नाशं पश्यामि यस्य भ्राता धनञ्जयः ।
भीमसेनश्च दुर्धर्षौ माद्रीपुत्रौ च तौ यमौ ॥
वैशंपायन उवाच ।
ततः संहृष्टसर्वाङ्गो भीष्मो विदुरमब्रवीत् ।
दिष्ट्यादिष्ट्येति संहृष्टः पूजयानो महामतिम् ॥
भीष्म उवाच ।
युक्तं चैवानुरूपं च कृतं तात शुभं त्वया ।
वयं विमोक्षिता दुःखात्पाण्डुपक्षो न नाशितः ॥
वैशंपायन उवाच ।
एवमुक्त्वा विवेशाथ पुरं जनशताकुलम् ।
कुरुभिः सहितो राजन्नागरैश्च पितामहः ॥
अथाम्बिकेयः सामात्यः सकर्णः सहसौबलः ।
सात्मजः पार्थनाशस्य स्मरंस्तथ्यं जर्ष च ॥
भीष्मश्च राजन्दुर्धर्षो विदुरश्च महामतिः ।
जहृषाते स्मरन्तौ तौ जातुषाग्नेर्विमोचनम् ॥
सत्यशीलगुणाचारै रागैर्जानपदोद्भवैः ।
द्रोणादयश्च धर्मैस्तु तेषां तान्मोचितान्विदुः ॥
शौर्यलावण्यमाहात्म्यै रूपैः प्राणबलैरपि ।
स्वस्थान्पार्थानमन्यन्त पौरजानपदास्तथा ॥
अन्ये जनाः प्राकृताश्च स्त्रियश्च बहुलास्तदा ।
शङ्कमाना वदन्ति स्म दग्धा जीवन्ति वा न वा ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि जतुगृहपर्वणि द्विषष्ट्यधिकशततमोऽध्यायः ॥ 162 ॥

1-162-17 कुल्यानि अस्थीनि कारयन्तु संस्कारयन्तु । कुल्यानि चैत्यानीत्यन्ये ॥ 1-162-25 विदुरस्त्वन्यथा चक्र इति घ. पाठः ॥ द्विषष्ट्यधिकशततमोऽध्यायः ॥ 162 ॥

अध्यायः 163

तृषार्तान् मातरं भ्रांतॄश्च न्यग्रोधमूले स्थापयित्वा जलानयनाय भीमस्य गमनम् ॥ 1 ॥ जलमानीयागतस्य भूमौ सुप्तान्मात्रादीन्पश्यतो भीमस्य प्रलापः ॥ 2 ॥

वैशंपायन उवाच ।
तेन विक्रममाणेन ऊरुवेगसमीरितम् ।
वनं सवृक्षविटपं व्याघूर्णितमिवाभवत् ॥
जङ्गावातो ववौ चास्य शुचिशुक्रागमे यथा ।
आवर्जितालतावृक्षं मार्गं चक्रे महाबलः ॥
स मृद्गन्पुष्पितांश्चैव फलितांश्च वनस्पतीन् ।
अवरुज्य ययौ गुल्मान्पथस्तस्य समीपजान् ॥
स रोषित इव क्रुद्धो वने भञ्जन्महाद्रुमान् ।
त्रिप्रस्रुतमदः शुष्मी षष्टिवर्षो मतङ्गराट् ॥
गच्छतस्तस्य वेगेन तार्क्ष्यमारुतरंहसः ।
भीमस्य पाण्डुपुत्राणां मूर्च्छेव समजायत ॥
असकृच्चापि सतीर्य दूरपारं भुजप्लवैः ।
पथि प्रच्छन्नमासेदुर्धार्तराष्ट्रभयात्तदा ॥
कृच्छ्रेण मातरं चैव सुकुमारीं यशस्विनीम् ।
अवहत्स तु पृष्ठेन रोधःसु विषमेषु च ॥
अगमच्च वनोद्देशमल्पमूलफलोदकम् ।
क्रूरपक्षिमृगं घोरं सायाह्ने भरतर्षभ ॥
घोरा समभवत्सन्ध्या दारुणा मृगपक्षिणः ।
अप्रकाशा दिशः सर्वा वातैरासन्ननार्तवैः ॥
शीर्णपर्णफलै राजन्बहुगुल्मक्षुपद्रुमैः ।
भग्नावभुग्नभूयिष्ठैर्नानाद्रुमसमाकुलैः ॥
ते श्रमेण च कौरव्यास्तृष्णया च प्रपीडिताः ।
नाशक्नुवंस्तदा गन्तुं निद्रया च प्रवृद्धया ॥
न्यविशन्ति हि ते सर्वे निरास्वादे महावने । `रात्र्यामेव गतास्तूर्णं चतुर्विंशतियोजनम् ।'
ततस्तृषा परिक्लन्ता कुन्ती वचनमब्रवीत् ॥
माता सती पाण्डवानां पञ्चानां मध्यतः स्थिता ।
तृष्णया हि परीताऽहमनाथेव महावने ॥
`इतः परं तु शक्ताहं गन्तुं च न पदात्पदम् ।
शयिष्ये वृक्षमूलेऽत्र धार्तराष्ट्रा हरन्तु माम् ॥
शृणु भीम वचो मह्यं तव बाहुबलात्पुरः ।
स्थातुं न शक्ताः कौरव्याः किं बिभेषि पृथासुत ॥
अन्यो रथो न मेऽस्तीह भीमसेनादृते भुवि ।
धार्तराष्ट्राद्वृथा भीरुर्न मां स्वप्तुमिहेच्छसि ॥
वैशंपायन उवाच ।
भीमपृष्ठस्थिता चेत्थं दूयमानेन चेतसा । निश्यध्वनि रुदन्ती सा निद्रावश्मुपागता ॥'
तच्छ्रुत्वा भीमसेनस्य मातृस्नेहात्प्रजल्पितम् ।
कारुण्येन मनस्तप्तं गमनायोपचक्रमे ॥
ततो भीमो वनं घोरं प्रविश्य विजनं महत् ।
न्यग्रोधं विपुलच्छायं रमणीयं ददर्श ह ॥
तत्र निक्षिप्य तान्सर्वानुवाच भरतर्षभः ।
पानीयं मृगयामीह तावद्विश्रम्यतामिह ॥
एते रुवन्ति मधुरं सारसा जलचारिणः ।
ध्रुवमत्र जलस्थानं महच्चेति मतिर्मम ॥
अनुज्ञातः स गच्छेति भ्रात्रा ज्येष्ठेन भारत ।
जगाम तत्र यत्र स्म सारसा जलचारिणः ॥
`अपश्यत्पद्मिनीखण्डमण्डितं स सरोवरम् ।' स तत्र पीत्वा पानीयं स्नात्वा च भरतर्षभ ॥
तेषामर्थे च जग्राह भ्रातॄणां भ्रातृवत्सलः ।
उत्तरीयेण पानीयमानयामास भारत ॥
`पङ्कजानामनेकैश्च पत्रैर्बध्वा पृथक्पृथक् ।' गव्यूतिमात्रादागत्य त्वरितो मातरं प्रति ।
शोकदुःखपरीतात्मा निशश्वासोरगो यथा ॥
स सुप्तां मातरं `भ्रातॄन्निद्राविद्रावितौजसः ।
महारौद्रे वने घोरे वृक्षमूले सुशीतले ॥
विक्षिप्तकरपादांश्च दीर्घोच्छ्वासान्महाबलान् ।
ऊर्ध्ववक्त्रान्महाकायान्पञ्चेन्द्रानिव भूपते ॥
अज्ञातवृक्षनित्यस्थप्रेतराक्षससाध्वसान् । दृष्ट्वा वै भृशशोकार्तो बिललापानिलात्मजः ॥'
भृशं शोकपरीत्मा विललाप वृकोदरः ॥
अतः कष्टतरं किं नु द्रष्टव्यं हि भविष्यति ।
यत्पश्यामि महीसुप्तान्भ्रातॄनद्य सुमन्दभाक् ॥
शयनेषु परार्ध्येषु ये पुरा वारणावते ।
नाधिजग्मुस्तदा निद्रां तेऽद्य सुप्ता महीतले ॥
स्वसारं वसुदेवस्य शत्रुसङ्घावमर्दिनः ।
कुन्तिराजसुतां कुन्तीं सर्वलक्षणपूजिताम् ॥
स्नुषां विचित्रवीर्यस्य भार्यां पाण्डोर्महात्मनः ।
तथैव चास्मज्जननीं पुण्डरीकोदरप्रभाम् ॥
सुकुमारतरामेनां महार्हशयनोचिताम् ।
शयानां पश्यताऽद्येह पृथिव्यामतथोचिताम् ॥
धर्मादिन्द्राच्च वाताच्च सुपुवे या सुतानिमान् ।
सेयं भूमौ परिश्रान्ता शेषे प्रासादशायिनी ॥
किं नु दुःखतरं शक्यं मया द्रष्टुमतः परम् ।
योऽहमद्य नरव्याघ्रान्सुप्तान्पश्यामि भूतले ॥
त्रिषु लोकेषु यो राज्यं धर्मनित्योऽर्हते नृपः ।
सोऽयं भूमौ परिश्रान्तः शेते प्राकृतवत्कथम् ॥
अयं नीलाम्बुदश्यामो नरेष्वप्रतिमोऽर्जुनः ।
शेते प्राकृतवद्भूमौ ततो दुःखतरं नु किम् ॥
अश्विनाविव देवानां याविमौ रूपसंपदा ।
तौ प्राकृतवदद्येमौ प्रसुप्तौ धरणीतले ॥
ज्ञातयो यस्य नै स्युर्विषमाः कुलपांसनाः ।
स जीवेत सुखं लोके ग्रामद्रुम इवैकजः ॥
एको वृक्षो हि यो ग्रामे भवेत्पर्णफलान्वितः ।
चैत्यो भवति निर्ज्ञातिरध्वनीनैश्च पूजितः ॥
येषां च बहवः शूरा ज्ञातयो धर्ममाश्रिताः ।
ते जीवन्ति सुखं लोके भवन्ति च निरामयाः ॥
बलवन्तः समृद्धार्था मित्रबान्धवनन्दनाः ।
जीवन्त्यन्योन्यमाश्रित्य द्रुमाः काननजा इव ॥
वयं तु धृतराष्ट्रेण दुष्पुत्रेण दुरात्मना ।
`राज्यलुब्धेन मूर्खेण दुर्मन्त्रिसहितेन वै ॥
दुष्टेनाधर्मशीलेन स्वार्थनिष्ठैकबुद्धिना ।' विवासिता न दग्धाश्च क्षत्तुर्बुद्धिपराक्रमात् ॥
तस्मान्मुक्ता वयं दाहादिमं वृक्षमुपाश्रिताः ।
कां दिशं प्रतिपत्स्यामः प्राप्ताः क्लेशमनुत्तमम् ॥
सकामो भव दुर्बुद्धे धार्तराष्ट्राल्पदर्शन ।
नूनं देवाः प्रसन्नास्ते नानुज्ञां मे युधिष्ठिरः ॥
प्रयच्छति वधे तुभ्यं तेन जीवसि दुर्मते ।
नन्वद्य ससुतामात्यं सकर्णानुजसौबलम् ॥
गत्वा क्रोधसमाविष्टः प्रेषयिष्ये यमक्षयम् ।
किं नु शक्यं मया कर्तुं यत्तेन क्रुध्यते नृपः ॥
धर्मात्मा पाण्डवश्रेष्ठः पापाचार युधिष्ठिरः ।
एवमुक्त्वा महाबाहुः क्रोधसन्दीप्तमानसः ॥
करं करेण निष्पिष्य निःश्वसन्दीनमानसः ।
पुनर्दीनमना भूत्वा शान्तार्चिरिव पावकः ॥
भ्रातॄन्महीतले सुप्तानवैक्षत वृकोदरः ।
विश्वस्तानिव संविष्टान्पृथग्जनसमानिव ॥
नातिदूरेण नगरं वनादस्माद्धि लक्षये ।
जागर्तव्ये स्वपन्तीमे हन्त जागर्म्यहंस्वयम् ॥
प्राश्यन्तीमे जलं पश्चात्प्रतिबुद्धा जितक्लमाः ।
इति भीमो व्यवस्यैव जजागार स्वयं तदा ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि जतुगृहपर्वणि त्रिषष्ट्यधिकशततमोऽध्यायः ॥ 163 ॥ ॥ समाप्तं जतुर्गृहपर्व ॥

1-163-2 शुचिशुक्रागमे ज्येष्ठाषाढयोः समये । आवर्जिताः समीकृता लता वृक्षाश्च यस्मिन् ॥ 1-163-3 अवरुज्य भङ्क्त्वा ॥ 1-163-4 रोषितो रोषं प्रापितः । त्रिषु गण्डकर्णमूलगुह्यदेशेषु प्रस्रुतो मदो यस्य सः । शुष्मी तेजस्वी ॥ 1-163-9 अनार्तवैरनृतुभवैरुत्पातरूपैरित्यर्थः ॥ 1-163-12 तृषा तृष्णया ॥ 1-163-30 मुमन्दभागतिमन्दभाग्यः ॥ 1-163-40 एकज एक एव जातोऽसहायः ॥ 1-163-43 बान्धवानां नन्दनाः सुखदाः ॥ 1-163-48 तुभ्यं तव ॥ त्रिषष्ट्यधिकशततमोऽध्यायः ॥ 163 ॥

अध्यायः 164

(अथ हिडिम्बवधपर्व ॥ 9 ॥)

हिडिम्बप्रेरितायाः तद्भगिन्या हिडिम्बायाः पाण्डवसमीपगमनम् ॥ 1 ॥ भीमं दृष्ट्वा कामार्ताया हिडिम्बायाः भीमं प्रति वाक्यम् ॥ 2 ॥ भीमहिडिम्बासंवादः ॥ 3 ॥

वैशंपायन उवाच ।
तत्र तेषु शयानेषु हिडिम्बो नाम राक्षसः ।
अविदूरे वनात्तस्माच्छालवृक्षं समाश्रितः ॥
क्रूरो मानुषमांसादो महावीर्यपराक्रमः ।
प्रावृड्जलधरश्यामः पिङ्गाक्षो दारुणाकृतिः ॥
दष्ट्राकरालवदनः करालो भीमदर्शनः ।
लम्बस्फिग्लम्बजठरो रक्तश्मश्रुशिरोरुहः ॥
महावृक्षगलस्कन्धः शङ्कर्णो विभीषणः ।
यदृच्छया तानपश्यत्पाण्डुपुत्रान्महारथान् ॥
विरूपरूपः पिङ्गाक्षः करालो घोरदर्शनः ।
पिशितेप्सुः क्षुधार्तश्च जिघ्रन्गन्धं यदृच्छया ॥
ऊर्ध्वाङ्गुलिः स कण्डूयन्धुन्वन्रूक्षाञ्शिरोरुहान् ।
जृम्भमाणो महावक्त्रः पुनःपुनरवेक्ष्य च ॥
हृष्टो मानुषमांसस्य महाकायो महाबलः ।
आघ्राय मानुषं गन्धं भगिनीमिदमब्रवीत् ॥
उपपन्नं चिरस्याद्य भक्ष्यं मम मनःप्रियम् ।
जिघ्रतः प्रस्रुता स्नेहाज्जिह्वा पर्येति मे मुखात् ॥
अष्टौ दंष्ट्राः सुतीक्ष्णाग्राश्चिरस्यापातदुःसहाः ।
देहेषु मज्जयिष्यामि स्निग्धेषु पिशितेषु च ॥
आक्रम्य मानुषं कण्ठमाच्छिद्य धमनीमपि ।
उष्णं नवं प्रपास्यामि फेनलिं रुधिरं बहु ॥
गच्छ जानीहि के त्वेते शेरते वनमाश्रिताः ।
मानुषो बलवान्गन्धो घ्राणं तर्पयतीव मे ॥
हत्वैतान्मानुषान्सर्वानानयस्व ममान्तिकम् ।
अस्मद्विषयसुप्तेभ्यो नैतेभ्यो भयमस्ति ते ॥
एषामुत्कृत्य मांसानि मानुषाणां यथेष्टतः ।
भक्षयिष्याव सहितौ कुरु पूर्णं वचो मम ॥
भक्षयित्वा च मांसानि मानुषाणां प्रकामतः ।
नृत्याव सहितावावां दत्ततालावनेकशः ॥
वैशंपायन उवाच ।
एवमुक्ता हिडिम्बा तु हिडिम्बेन महावने ।
भ्रातुर्वचनमाज्ञाय त्वरमाणेव राक्षसी ॥
`आप्लुत्याप्लुत्य च तरूनगच्छत्पाण्डवान्प्रति ।' जगाम तत्र यत्र स्म शेरते पाण्डवा वने ॥
ददर्श तत्र सा गत्वा पाण्डवान्पृथया सह ।
शयानान्भीमसेनं च जाग्रतं त्वपराजितम् ॥
`उपास्यमानान्भीमेन रूपयौवनशालिनः ।
सुकुमारांश्च पार्थान्सा व्यायामेन च कर्शितान् ॥
दुःखेन संप्रयुक्तांश्च सहज्येष्ठान्प्रमाथिनः । रौद्री सती राजपुत्रं दर्शनीयप्रदर्शनम् ॥'
दृष्ट्वैव भीमसेनं सा सालस्कन्धमिवोद्यतम् ।
राक्षसी कामयामास रूपेणाप्रतिमं भुवि ॥
`अन्तर्गतेन मनसा चिन्तयामास राक्षसी' ।
अयं श्यामो महाबाहुः सिंहस्कन्धो महाद्युतिः ॥
कम्बुग्रीवः पुष्कराक्षो भर्ता युक्तो भवेन्मम ।
नाहं भ्रातृवचो जातु कुर्यां क्रूरमसांप्रतम् ॥
पतिस्नेहोऽतिबलवान्न तथा भ्रातृसौहृदम् ।
मुहूर्तमिव तृप्तिश्च भवेद्धातुर्ममैव च ॥
हतैरेतैरहत्वा तु मोदिष्ये शाश्वतीः समाः ।
`निश्चित्येत्थं हिडिम्बा सा भीमं दृष्ट्वा महाभुजं ॥
उत्सृज्य राक्षसं रूपं मानुषं रूपमास्थिता ।' सा कामरूपिणी रूपं कृत्वा मदनमोहिता ॥
उपतस्थे महात्मानं भीमसेनमनिन्दिता ।
`इङ्गिताकारकुशला सोपासर्पच्छनैः शनैः ॥
विनम्यमानेव लता दिव्याभरणभूषिता ।
शनैः शनैश्च तां भीमः समीपमुपसर्पतीम् ॥
हर्षमाणां तदा पश्यत्तन्वीं पीनपयोधराम् ।
चन्द्राननां पद्मनेत्रां नीलकुञ्चितमूर्धजाम् ॥
कृष्णां सुपाण्डुरैर्दन्तैर्बिम्बोष्ठीं चारुदर्शनाम् ।
दृष्ट्वा तां रूपसंपन्नां भीमो विस्मयमागतः ॥
उपचारगुणैर्युक्तां ललितैर्हाससंमितैः ।
समीपमुपसंप्राप्य भीमं साथ वरानता ॥
वचो वचनवेलायां भीमं प्रोवाच भामिनी ।' लज्जया नम्यमानेव सर्वाभरणभूषिता ॥
स्मितपूर्वमिदं वाक्यं भीमसेनमथाब्रवीत् ।
कुतस्त्वमसि संप्राप्तः कश्चासि पुरुषर्षभ ॥
क इमे शेरते चेह पुरुषा देवरूपिणः ।
केयं वै बृहती श्यामा सुकुमारी तवानघ ॥
शेते वनमिदं प्राप्य विश्वस्ता स्वगृहे यथा ।
नेदं जानीथ गहनं वनं राक्षससेवितम् ॥
वसति ह्यत्र पापात्मा हिडिम्बो नाम राक्षसः ॥
तेनाहं प्रेषिता भ्रात्रा दुष्टभावेन रक्षसा ।
बिभक्षयिषता मांसं युष्माकममरोपमाः ॥
साऽहं त्वमभिसंप्रेक्ष्य देवगर्भसमप्रभम् ।
नान्यं भर्तारमिच्छामि सत्यमेतद्ब्रवीमि ते ॥
एतद्विज्ञाय धर्मज्ञ युक्तं मयि समाचर ।
कामोपहतचित्तां हि भजमानां भजस्व माम् ॥
त्रास्यामि त्वां महाबाहो राक्षसात्पुरुषादकात् ।
वत्स्यावो गिरिदुर्गेषु भर्ता भव ममानघ ॥
`इच्छामि वीर भद्रं ते मा मे प्राणान्विहासिषः । त्वया ह्यहं परित्यक्ता न जीवेयमरिन्दम ॥'
अन्तरिक्षचरी ह्यस्मि कामतो विचरामि च ।
अतुलामाप्नुहि प्रीतिं तत्र तत्र मया सह ॥
भीमसेन उवाच ।
`एष ज्येष्ठो मम भ्राता मान्यः परमको गुरुः । अनिविष्टो हि तन्नाहं परिविद्यां कथंचन ॥'
मातरं भ्रातरं ज्येष्ठं कनिष्ठानपरानपि ।
परित्यजेत कोन्वद्य प्रभवन्निह राक्षसि ॥
को हि सुप्तानिमान्भ्रातॄन्दत्त्वा राक्षसभोजनम् ।
मातरं च नरो गच्छेत्कामार्त इव मद्विधः ॥
राक्षस्युवाच ।
`एकं त्वां मोक्षयिष्यामि सह मात्रा परन्तप ।
सोदरानुत्सृजैनांस्त्वमारोह जघनं मम ॥
भीम उवाच ।
नाहं जीवितुमाशंसे भ्रातॄनुत्सृज्य राक्षसि ।
यथाश्रद्धं व्रजैका हि विप्रियं मे प्रभाषसे ॥
राक्षस्युवाच ।'
यत्ते प्रियं तत्करिष्ये सर्वानेतान्प्रबोधय ।
मोक्षयिष्याम्यहं कामं राक्षसात्पुरुषादकात् ॥
भीमसेन उवाच ।
सुखसुप्तान्वने भ्रातॄन्मातरं चैव राक्षसि ।
न भयाद्बोधयिष्यामि भ्रातुस्तव दुरात्मनः ॥
न हि मे राक्षसा भीरु सोढुं शक्ताः पराक्रमम् ।
न मनुष्या न गन्धर्वा न यक्षाश्चारुलोचने ॥
गच्छ वा तिष्ठ वा भद्रे यद्वा पीच्छसि तत्कुरु ।
तं वा प्रेषय तन्वङ्गि भ्रातरं पुरुषादकम् ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि हिडिम्बवधपर्वणि चतुःषष्ट्यधिकशततमोऽध्यायः ॥ 164 ॥

1-164-4 यदृच्छया सालवृक्षं समाश्रित इत्यन्वयः ॥ 1-164-10 धमनीं नाडीम् ॥ 1-164-21 श्यामः तरुणः ॥ 1-164-36 बिभक्षयिषता भक्षयितुमिच्छता ॥ चतुःषष्ट्यधिकशततमोऽध्यायः ॥ 164 ॥

अध्यायः 165

पाण्डवान्प्रति प्रेषितया हिडिम्बया विलम्बिते हिडिम्बस्य तत्रागमनम् ॥ 1 ॥ भीमहिडिम्बयोर्युद्धम् ॥ 2 ॥ कुन्त्यादीनां प्रबोधः ॥ 3 ॥

वैशंपायन उवाच ।
तां विदित्वा चिरगतां हिडिम्बो राक्षसेश्वरः ।
अवतीर्य द्रुमात्तस्मादाजगामाशु पाण्डवान् ॥
लोहिताक्षो महाबाहुरूर्ध्वकेशो महाननः ।
मेघसङ्घातवर्ष्मा च तीक्ष्णदंष्ट्रो भयानकः ॥
तलं तलेन संहत्य बाहू विक्षिप्य चासकृत् ।
उद्वृत्तनेत्रः संक्रुद्धो दन्तान्दन्तेषु निष्कुषन् ॥
कोऽद्य मे भोक्तुकामस्य विघ्नं चरति दुर्मतिः ।
न बिभेति हिडिम्बी च प्रेषिता किमनागता ॥
वैशंपायन उवाच ।
तमापतन्तं दृष्ट्वै तथा विकृतदर्शनम् ।
हिडिम्बोवाच वित्रस्ता भीमसेनमिदं वचः ॥
आपतत्येष दुष्टात्मा संक्रुद्धः पुरुषादकः ।
साऽहं त्वां भ्रातृभिः सार्धं यद्ब्रवीमि तथा कुरु ॥
अहं कामगमा वीर रक्षोबलसमन्विता ।
आरुहेमां मम श्रोणिं नेष्यामि त्वां विहायसा ॥
प्रबोधयैतान्संसुप्तान्मातरं च परन्तप ।
सर्वानेव गमिष्याभि गृहीत्वा वो विहायसा ॥
भीम उवाच ।
मा भैस्त्वं पृथुसुश्रोणि नैष कश्चिन्मयि स्थिते ।
अहमेनं हनिष्यामि पश्यन्त्यास्ते सुमध्यमे ॥
नायं प्रतिबलो भीरु राक्षसापसदो मम ।
सोढुं युधि परिस्पन्दमथवा सर्वराक्षसाः ॥
पश्य बाहू सुवृत्तौ मे हस्तिहस्तनिभाविमौ ।
ऊरू परिघसङ्काशौ संहतं चाप्युरो महत् ॥
विक्रमं मे यथेन्द्रस्य साऽद्य द्रक्ष्यसि शोभने ।
माऽवमंस्थाः पृथुश्रोणि मत्वा मामिह मानुषम् ॥
हिडिम्बोवाच ।
नावमन्ये नरव्याघ्र त्वामहं देवरूपिणम् ।
दृष्टप्रभावस्तु मया मानुषेष्वेव राक्षसः ॥
वैशंपायन उवाच ।
तथा संजल्पतस्तस्य भीमसेनस्य भारत ।
वाचः शुश्राव ताः क्रुद्धो राक्षसः पुरुषादकः ॥
अवेक्षमाणस्तस्याश्च हिडिम्बो मानुषं वपुः ।
स्रग्दामपूरितशिखां समग्रेन्दुनिभाननाम् ॥
सुभ्रूनासाक्षिकेशान्तां सुकुमारनखत्वचम् ।
सर्वाभरणसंयुक्तां सुसूक्ष्माम्बरधारिणीम् ॥
तां तथा मानुषं रूपं बिभ्रतीं सुमनोहरम् ।
पुंस्कामां शङ्कमानश्च चुक्रोध पुरुषादकः ॥
संक्रुद्धो राक्षसस्तस्या भगिन्याः कुरुसत्तम ।
उत्फाल्य विपुले नेत्रे ततस्तामिदमब्रवीत् ॥
को हि मे भोक्तुकामस्य विघ्नं चरति दुर्मतिः ।
न बिभेषि हिडिम्बे किं मत्कोपाद्विप्रमोहिता ॥
धिक्त्वामसति पुंस्कामे मम विप्रियकारिणि ।
पूर्वेषां राक्षसेन्द्राणां सर्वेषामयशस्करि ॥
यानिमानाश्रिताऽकार्षीर्विप्रियं समुहन्मम ।
एष तानद्य वै सर्वान्हनिष्यामि त्वया सह ॥
वैशंपायन उवाच ।
एवमुक्त्वा हिडिम्बां स हिडिम्बो लोहितेक्षणः ।
वधायाभिपपातैनान्दन्तैर्दन्तानुपस्पृशन् ॥
गर्जन्तमेवं विजने भीमसेनोऽभिवीक्ष्य तम् ।
रक्षन्प्रबोधं भ्रातॄणां मातुश्च परवीरहा ॥
तमापतान्तं संप्रेक्ष्य भीमः प्रहरतां वरः ।
भर्त्सयामास तेजस्वी तिष्ठतिष्ठेति चाब्रवीत् ॥
वैशंपायन उवाच ।
भीमसेनस्तु तं दृष्ट्वा राक्षसं प्रहसन्निव ।
भगिनीं प्रति सङ्क्रुद्धमिदं वचनमब्रवीत् ॥
किं ते हिडिम्ब एतैर्वा सुखसुप्तैः प्रबोधितैः ।
मामासादय दुर्बुद्धे तरसा त्वं नराशन ॥
मय्येव प्रहरैहि त्वं न स्त्रियं हन्तुमर्हसि ।
विशेषतोऽनपकृते परेणापकृते सति ॥
न हीयं स्ववशा बाला कामयत्यद्य मामिह ।
चोदितैषा ह्यनङ्गेन शरीरान्तरचारिणा ॥
भगिनी तव दुर्वृत्त रक्षसां वै यशोहर ।
त्वन्नियोगेन चैवेयं रूपं मम समीक्ष्य च ॥
कामयत्यद्य मां भीरुस्तव नैषापराध्यति ।
अनङ्गेन कृते दोषे नेमां गर्हितुमर्हसि ॥
मयि तिष्ठति दुष्टात्मन्न स्त्रियं हन्तुमर्हसि ।
संगच्छस्व मया सार्धमेकेनैको नराशन ॥
अहमेको गमिष्यामि त्वामद्य यमसादनम् । अद्य मद्बलनिष्पिष्टं शिरो राक्षस दीर्यताम् ।
कुञ्जरस्येव पादेन विनिष्पिष्टं बलीयसाः ॥
अद्य गात्राणि ते कङ्काः श्येना गोमायवस्तथा ।
कर्षन्तु भुवि संहृष्टा निहतस्य मया मृधे ॥
क्षणेनाद्य करिष्येऽहमिदं वनमराक्षसम् ।
पुरा यद्दूषितं नित्यं त्वया भक्षयता नरान् ॥
अद्य त्वां भगिनी रक्षः कृष्यमाणं मयाऽसकृत् ।
द्रक्ष्यत्यद्रिप्रतीकाशं सिंहेनेव महाद्विपम् ॥
निराबाधास्त्वयि हते मया राक्षसपांसन ।
वनमेतच्चरिष्यन्ति पुरुषा वनचारिणः ॥
हिडिम्ब उवाच ।
गर्जितेन वृथा किं ते कत्थितेन च मानुष ।
कृत्वैतत्कर्मणा सर्वं कत्थेया मा चिरं कृथाः ॥
बलिनं मन्यसे यच्चाप्यात्मानं सपराक्रमम् ।
ज्ञास्यस्यद्य समागम्य मयात्मानं बलाधिकम् ॥
न तावदेतान्हिंसिष्ये स्वपन्त्वेते यथासुखम् ।
एष त्वामेव दुर्बुद्धे निहन्म्यद्याप्रियंवदम् ॥
पीत्वा तवासृग्गात्रेभ्यस्ततः पश्चादिमानपि ।
हनिष्यामि ततः पश्चादिमां विप्रियकारिणीम् ॥
वैशंपायन उवाच ।
एवमुक्त्वा ततो बाहुं प्रगृह्य पुरुषादकः ।
अभ्यद्रवत संक्रुद्धो भीमसेनमरिन्दमम् ॥
तस्याभिद्रवतस्तूर्णं भीमो भीमपराक्रमः ।
वेगेन प्रहितं बाहुं निजग्राह हसन्निव ॥
निगृह्य तं बलाद्भीमो विस्फुरन्तं चकर्ष ह ।
तस्माद्देशाद्धनूंष्यष्टौ सिंहः क्षुद्रमृगं यथा ॥
ततः स राक्षसः क्रुद्धः पाण्डवेन बलार्दितः ।
भीमसेनं समालिङ्ग्य व्यनदद्भैरवं रवम् ॥
पुनर्भीमो बलादेनं विचकर्ष महाबलः ।
मा शब्दः सुखसुप्तानां भ्रातॄणां मे भवेदिति ॥
`हस्ते गृहीत्वा तद्रक्षो दूरमन्यत्र नीतवान् । पृच्छे गृहीत्वा तुण्डेन गरुडः पन्नगं यथा ॥'
अन्योन्यं तौ समासाद्य विचकर्षतुरोजसा ।
हिडिम्बो भीमसेनश्च विक्रमं चक्रतुः परम् ॥
बभञ्जतुस्तदा वृक्षाँल्लताश्चाकर्षतुस्तदा ।
मत्ताविव चं संरब्धौ वारणौ षष्टिहायनौ ॥
`पादपानुद्धरन्तौ तावूरुवेगेन वेगितौ ।
स्फोटयन्तौ लताजालान्यूरुभ्यां गृह्य सर्वशः ॥
वित्रासयन्तौ तौ शब्दैः सर्वतो मृगपक्षिणः ।
बलेन बलिनौ मत्तावन्योन्यवधकाङ्क्षिणौ ॥
भीमराक्षसयोर्युद्धं तदाऽवर्तत दारुणम् ।
पुरा देवासुरे युद्धे वृत्रवासवयोरिव ॥
भङूक्त्वा वृक्षान्महाशाखांस्ताडयामासतुः क्रुधा ।
सालतालतमालाम्रवटार्जुनविभीतकान् ॥
न्यग्रोधप्लक्षखर्जूरपनसानश्मकण्टकान् ।
एतानन्यान्महावृक्षानुत्खाय तरसाऽखिलान् ॥
उत्क्षिप्यान्योन्यरोषेण ताडयामासतू रणे ।
यदाऽभवद्वनं सर्वं निर्वृक्षं वृक्षसङ्कुलम् ॥
तदा शिलाश्च कुञ्जांश्च वृक्षान्कण्टकिनस्तथा ।
ततस्तौ गिरिशृङ्गाणि पर्वतांश्चाभ्रलेलिहान् ॥
शैलांश्च गण्डपाषाणानुत्खायादाय वैरिणौ ।
चिक्षेपतुरुपर्याजावन्योन्यं विजयेषिणौ ॥
तद्वनं परितः पञ्चयोजनं निर्महीरुहम् ।
निर्लतागुल्मपाषाणं निर्मृगं चक्रतुर्भृशम् ॥
तयोर्युद्धेन राजेन्द्र तद्वनं भीमरक्षसोः ।
मुहूर्तेनाभवत्कूमर्पृष्ठवच्छ्लक्ष्णमव्ययम् ॥
ऊरुबाहुपरिक्लेशात्कर्षन्तावितरेतरम् ।
उत्कर्षन्तौ विकर्षन्तौ प्रकर्षन्तौ परस्परम् ॥
तौ स्वनेन विना राजन्गर्जन्तौ च परस्परम् ।
पाषाणसंघट्टनिभैः प्रहारैरभिजघ्नतुः ॥
अन्योन्यं च समालिङ्ग्य विकर्षन्तौ परस्परम् । बाहुयुद्धमभूद्धोरं बलिवासवयोरिव ।
युद्धसंरम्भनिर्गच्छत्फूत्काररवनिस्वनम् ॥'
तयोः शब्देन महता विबुद्धास्ते नरर्षभाः ।
सह मात्रा च ददृशुर्हिडिम्बामग्रतःस्थिताम् ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि हिडिम्बवधपर्वणि पञ्चषष्ट्यधिकशततमोऽध्यायः ॥ 165 ॥

1-165-2 मेघसंघातवर्ष्मा अतिकृष्णशरीरः ॥ 1-165-32 गमिष्यामि गमयिष्यामि ॥ 1-165-54 निर्वृक्षं अकण्टकवृक्षरहितम् ॥ पञ्चषष्ट्यधिकशततमोऽध्यायः ॥ 165 ॥

अध्यायः 166

कुन्तीहिडिम्बासंवादः ॥ 1 ॥ हिडिम्बावार्तया भीमं हिडिम्बेन युद्ध्यमानं ज्ञातवतां कुन्त्यादीनां तत्र गमनम् ॥ 2 ॥ हिडिम्बवधः ॥ 3 ॥

वैशंपायन उवाच ।
प्रबुद्धास्ते हिडिम्बाया रूपं दृष्ट्वातिमानुषम् ।
विस्मिताः पुरुषव्याघ्रा बभूवुः पृथया सह ॥
ततः कुन्ती समीक्ष्यैनां विस्मिता रूपसंपदा ।
उवाच मधुरं वाक्यं सान्त्वपूर्वमिदं शैनः ॥
कस्य त्वं सुरगर्भाभे कावाऽसि वरवर्णिनि ।
केन कार्येण संप्राप्ता कुतश्चागमनं तव ॥
यदि वाऽस्य वनस्य त्वं देवता यदि वाऽप्सराः ।
आचक्ष्व मम तत्सर्वं किमर्थं चेह तिष्ठसि ॥
हिडिम्बोवाच ।
यदेतत्पश्यसि वनं नीलमेघनिं महत् ।
निवासो राक्षसस्यैष हिडिम्बस्य ममैव च ॥
तस्य मां राक्षसेन्द्रस्य भगिनीं विद्दि भामिनि ।
भ्रात्रा संप्रेषितामार्ये त्वां सपुत्रां जिघांसता ॥
क्रूरबुद्धेरहं तस्य वचनादागता त्विह ।
अद्राक्षं नवहेमाभं तव पुत्रं महाबलम् ॥
ततोऽहं सर्वभूतानां भावे विचरता शुभे ।
चोदिता तव पुत्रार्थं मन्मथेन वशानुगा ॥
ततो वृतो मया भर्ता तव पुत्रो महाबलः ।
अपनेतुं च यतितो न चैव शकितो मया ॥
चिरायमाणां मां ज्ञात्वा ततः स पुरुषादकः ।
स्वयमेवागतो हन्तुमिमान्सर्वांस्तवात्मजान् ॥
स तेन मम कान्तेन तव पुत्रेण धीमता ।
बलादितो विनिष्पिष्य व्यपनीतो महात्मना ॥
विकर्षन्तौ महावेगौ गर्जमानौ परस्परम् ।
पश्यैवं युधि विक्रान्तावेतौ च नरराक्षसौ ॥
वैशंपायन उवाच ।
तस्याः श्रुत्वैव वचनमुत्पपात युधिष्ठिरः ।
अर्जुनो नकुलश्चैव सहदेवश्च वीर्यवान् ॥
तौ ते ददृशुरासक्तौ विकर्षन्तौ परस्परम् ।
काङ्क्षमाणौ जयं चैव सिंहाविव बलोत्कटौ ॥
अथान्योन्यं समाश्लिष्य विकर्षन्तौ पुनःपुनः ।
दावाग्निधूमसदृशं चक्रतुः पार्थिवं रजः ॥
वसुधारेणुसंवीतौ वसुधाधरसन्निभौ ।
बभ्राजतुर्यथा शैलौ नीहारेणाभिसंवृतौ ॥
राक्षसेन तदा भीमं क्लिश्यमानं निरीक्ष्य च ।
उवाचेदं वचः पार्थः प्रहसञ्छनकैरिव ॥
भीम माभैर्महाबाहो न त्वां बुध्यामहे वयम् ।
समेतं भीमरूपेण रक्षसा श्रमकर्शिताः ॥
साहाय्येऽस्मि स्थितः पार्थ पातयिष्यामि राक्षसम् ।
नकुलः सहदेवश्च मातरं गोपयिष्यतः ॥
भीम उवाच ।
उदासीनो निरीक्षस्व न कार्यः संभ्रमस्त्वया ।
न जात्वयं पुनर्जीवेन्मद्बाह्वन्तरमागतः ॥
`भुजयोरन्तरं प्राप्तो भीमसेनस्य राक्षसः ।
अमृत्वा पार्थवीर्येण मृतो मा भूदिति ध्वनिः ॥
अयमस्मांस्तु नो हन्याज्जातु पार्थ राक्षसः । जीवन्तं न प्रमोक्ष्यामि मा भैषीर्भरतर्षभ ॥'
अर्जुन उवाच ।
`पूर्वरात्रे प्रयुक्तोऽसि भीम क्रूरेण रक्षसा । क्षपा व्युष्टा न चेदानीं समाप्तोसीन्महारणः ॥'
किमेनन चिरं भीम जीवता पापरक्षसा ।
गन्तव्ये न चिरं स्थातुमिह शक्यमरिन्दम ॥
पुरा संरज्यते प्राची पुरा सन्ध्या प्रवर्तते ।
रौद्रे मुहूर्ते रक्षांसि प्रबलानि भवन्त्युत ॥
त्वरस्व भीम मा क्रीड जहि रक्षो विभीषणम् ।
पुरा विकुरुते मायां भुजयोः सारमर्पय ॥
`माहात्म्यमात्मनो वेत्थ नराणां हितकाम्यया ।
रक्षो जहि यथा शक्रः पुरा वृत्रं महाबलम् ॥
अथवा मन्यसे भारं त्वमिमं राक्षसं युधि ।
आतिष्ठे तव साहाय्यं शीघ्रमेव तु हन्यताम् ॥
अथवा त्वहमेवैनं हनिष्यामि वृकोदर । कृतकर्मा परिश्रान्तः साधु तावदुपारम ॥'
वैशंपायन उवाच ।
अर्जुनेनैवमुक्तस्तु भीमो रोषाज्ज्वलन्निव ।
बलमाहारयामास यद्वायोर्जगतः क्षये ॥
ततस्तस्याम्बुदाभस्य भीमो रोषात्तु रक्षसः ।
अत्क्षिप्याभ्रामयद्देहं तूर्णं शतगुणं तदा ॥
`इति चोवाच संक्रुद्धो भ्रामयन्राक्षसीं तनुम् । भीमसेनो महाबाहुरभिगर्जन्मुहुर्मुहुः ॥'
भीम उवाच ।
नरमांसैर्वृथा पुष्टो वृथा वृद्धो वृथामतिः ।
वृथामरणमर्हस्त्वं वृथाद्य न भविष्यसि ॥
क्षेममद्य करिष्यामि यथा वनमकण्टकम् ।
न पुनर्मानुषान्हत्वा भक्षयिष्यसि राक्षस ॥
वैशंपायन उवाच ।
इत्युक्त्वा भीमसेनस्तं निष्पिष्य धरणीतले ।
बाहुभ्यामवपीड्याशु पशुमारममारयत् ॥
स मार्यमाणो भीमेन ननाद विपुलं स्वनम् ।
पूरयंस्तद्वनं सर्वं जलार्द्रे इव दुन्दुभिः ॥
बाहुभ्यां योक्त्रयित्वा तं बलवान्पाण्डुनन्दनः ।
`समुद्धाम्य शिरश्चास्य सग्रीवं तदपाहरत् ॥
ततो भित्त्वा शिरश्चास्य सग्रीवं तदुदाक्षिपत् ।
तस्य निष्कर्णनयनं निर्जिह्वं रुधिरोक्षितम् ॥
प्राविद्धं भीमसेनेन शिरो विदशनं बभौ ।
प्रसारितभुजोद्धृष्टो भिन्नमांसत्वगन्तरः ॥
कबन्धभूतस्तत्रासीद्दनुर्वज्रहतो तथा ।
हिडिम्बं निहतं दृष्ट्वा संहृष्टास्ते तरस्विनः ॥
हिडिम्बा सा च संप्रेक्ष्य निहतं राक्षसं रणे ।
अदृश्याश्चैव ये स्वस्स्थाः समेताः सर्षिचारणाः ॥
पूजयन्ति स्म तं हृष्टाः साधुसाध्विति पाण्डवम् ।
भ्रातरश्चापि संहृष्टा युधिष्ठिरपुरोगमाः ॥
अपूजयन्नरव्याघ्रं भीमसेनमरिन्दमम् ।' अभिपूज्य महात्मानं भीमं भीमपराक्रमम् ।
पुनरेवार्जुनो वाक्यमुवाचेदं वृकोदरम् ॥
अदूरे नगरं मन्ये वनादस्मादहं विभो ।
शीघ्रं गच्छाम भद्रं ते न नो विद्यात्सुयोधनः ॥
ततः सर्वे तथेत्युक्त्वा मात्रा सह महारथाः ।
प्रययुः पुरुषव्याघ्रा हिडिम्बा चैव राक्षसी ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि हिडिम्बवधपर्वमि षट्षष्ट्यधिकशततमोऽध्यायः ॥ 166 ॥

1-166-8 भावे चित्ते ॥ 1-166-11 व्यपनीतो दूरे नीतः ॥ 1-166-21 इतिध्वनिर्माभूदिति संबन्धः ॥ 1-166-24 गन्तव्ये सति चिरं स्थातुं न शक्यम् ॥ 1-166-28 अथवेति द्वयं प्रोत्साहनार्थं ॥ 1-166-33 वृथामरणं स्वर्गाद्यप्रयोजकं मरणम् ॥ षट्षष्ट्यधिकशततमोऽध्यायः ॥ 166 ॥

अध्यायः 167

हिडिम्बावधे प्रवृत्तस्य भीमस्य युधिष्ठिरकृतं निवारणं ॥ 1 ॥ हिडिम्बया स्वस्य धर्मज्ञत्वस्य भविष्यज्ज्ञत्वस्य च प्रकटनम् ॥ 2 ॥ हिडिम्बाया धर्मिष्ठतां ज्ञात्वा तदङ्गीकरणे भीमं प्रति कुन्त्या आज्ञा ॥ 3 ॥

वैशंपायन उवाच ।
सा तानेवापतत्तूर्णं भगिनी तस्य रक्षसः ।
अब्रुवाणा हिडिम्बा तु राक्षसी पाण्डवान्प्रति ॥
अभिवाद्य ततः कुन्तीं धर्मराजं च पाण्डवम् ।
अभिपूज्य ततः सर्वान्भीमसेनमभाषत ॥
अहं ते दर्शादेव मन्मथस्य वशं गता ।
क्रूरं भ्रातृवचो हित्वा सा त्वामेवानिरुन्धती ॥
राक्षसे रौद्रसङ्काशे तवापश्यं विचेष्टितम् । अहं शुश्रूषुरिच्छेयं तव गात्रं निषेवितुम् ॥'
भीमसेन उवाच ।
स्मरन्ति वैरं रक्षांसि मायामाश्रित्य मोहिनीम् ।
हिडिम्बे व्रज पन्थानं त्वमिमं भ्रातृसेवितम् ॥
युधिष्ठिर उवाच ।
क्रुद्धोऽपि पुरुषव्याघ्र भीम मा स्म स्त्रियं वधीः ।
शरीरगुप्त्यभ्यधिकं धर्मं गोपाय पाण्डव ॥
वधाभिप्रायमायान्तमवधीस्त्वं महाबलम् ।
रक्षसस्तस्य भगिनी किं नः क्रुद्धा करिष्यति ॥
वैशंपायन उवाच ।
हिडिम्बा तु ततः कुन्तीमभिवाद्य कृताञ्जलिः ।
युधिष्ठिरं तु कौन्तेयमिदं वचनमब्रवीत् ॥
आर्ये जानासि यद्दुःखमिह स्त्रीणामनङ्गजम् ।
तदिदं मामनुप्राप्तं भीमसेनकृते शुभे ॥
सोढं तत्परमं दुःखं मया कालप्रतीक्षया ।
सोऽयमभ्यागतः कालो भविता मे सुखोदयः ॥
मया ह्युत्सृज्य सुहृदः स्वधर्मं स्वजनं तथा ।
वृतोऽयं पुरुषव्याघ्रस्तव पुत्रः पतिः शुभे ॥
वीरेणाऽहं तथाऽनेन त्वया चापि यशस्विनी ।
प्रत्याख्याता न जीवामि सत्यमेतद्ब्रवीमि ते ॥
यदर्हसि कृपां कर्तुं मयि त्वं वरवर्णिनि ।
मत्वा मूढेति तन्मां त्वं भक्ता वाऽनुगतेति वा ॥
भर्त्राऽनेन महाभागे संयोजय सुतेन ह । समुपादाय गच्छेयं यथेष्टं देवरूपिणम् ।
पुनश्चैवानयिष्यामि विस्रम्भं कुरु मे शुभे ॥
`अहं हि समये लप्स्ये प्राग्भ्रातुरपर्वजनात् ।
ततः सोऽभ्यपतद्रात्रौ भीमसेनजिघांसया ॥
यथायथा विक्रमते यथारिमधितिष्ठति ।
तथातथा समासाद्य पाण्डवं काममोहिता ॥
न यातुधान्यहं त्वार्ये न चास्मि रजनीचरी ।
ईशा रक्षस्स्वसा ह्यस्मि राज्ञि सालकटङ्कटी ॥
पुत्रेण तव संयुक्ता युवतिर्देववर्णिनी ।
सर्वान्वोऽहमुपस्थास्ये पुरस्कृत्य वृकोदरम् ॥
अप्रमत्ता प्रमत्तेषु शुश्रूषुरसकृत्त्वहम् ।' वृजिने तारयिष्यामि दासीवच्च नरर्षभाः ॥
पृष्ठेन वो वहिष्यामि विमानं सुकृतानिव ।
यूयं प्रसादं कुरुत भीमसेनो भजेत माम् ॥
`एवं ब्रुवन्ती ह तथा प्रत्याख्याता क्रियां प्रति ।
भूम्यां दुष्कृतिनो लोकान्गमिष्येऽहं न संशयः ॥
अहं हि मनसा ध्यात्वा सर्वं वेत्स्यामि सर्वदा ।' आपन्निस्तरणे प्राणान्धारयिष्ये न केनचित् ॥
सर्वमावृत्य कर्तव्यं धर्मं समनुपश्यता ।
आपत्सु यो धारयति स वै धर्मविदुत्तमः ॥
व्यसनं ह्येव धर्मस्य धर्मिणामापदुच्यते ।
पुम्यात्प्राणान्धारयति पुण्यं वै प्राणधारणम् ॥
येन केनाचरेद्धर्मं तस्मिन्गर्हा न विद्यते ।
`महतोऽत्र स्त्रियं कामाद्वाधितां त्राहि मामपि ॥
धर्मार्थकाममोक्षेषु दयां कुर्वन्ति साधवः ।
तत्तु धर्ममिति प्राहुर्मुनयो धर्मवत्सलाः ॥
दिव्यज्ञानेन जानामि व्यतीतानागतानहम् ।
तस्माद्वक्ष्यामि वः श्रेय आसन्नं सर उत्तमम् ॥
अद्यासाद्य सरः स्नात्वा विश्रम्य च वनस्पतौ ।
श्वः प्रभाते महद्भूतं प्रादुर्भूतं जगत्पतिम् ॥
व्यासं कमलपत्राक्षं दृष्ट्वा शोकं विहास्यथ ।
धार्तराष्ट्राद्विवासं च दहनं वारणावते ॥
त्राणं च विदुरात्तुभ्यं विदितं ज्ञानचक्षुषा ।
आवासे शालिहोत्रस्य स वो वासं विधास्यति ॥
वर्षवातातपसहो ह्ययं पुण्यो वनस्पतिः ।
पीतमात्रे तु पानीये क्षुत्पिपासे विनश्यतः ॥
तपसा शालिहोत्रेण सरो वृक्षश्च निर्मितः ।
कादम्बाः सारसा हंसाः कुरर्यः कुररैः सह ॥
रुवन्ति मधुरं गीतं गान्धर्वस्वनमिश्रितम् ।
वैशंपायन उवाच ।
तस्यास्तद्वचनं श्रुत्वा कुन्ती वचनमब्रवीत् ॥
युधिष्ठिरं महाप्राज्ञं सर्वधर्मविशारदम् ।
कुन्त्युवाच ।
त्वं हि धर्मभृतां श्रेष्ठो मयोक्तं शृणु भारत ॥
राक्षस्येषा हि वाक्येन धर्मं वदति साधु वै ।
भावेन दुष्टा भीमं वै किं करिष्यति राक्षसी ॥
भजतां पाण्डवं वीरमपत्यार्थं यदीच्छसि ।'
युधिष्ठिर उवाच ।
एवमेतद्यथाऽऽत्थ त्वं हिडिम्बे नात्र संशयः ॥
स्थातव्यं तु त्वया धर्मे यथा ब्रूयां सुमध्यमे । `नित्यं कृताह्निका स्नाता कृतशौचा सुरूपिणी ॥'
स्नातं कृताह्निकं भद्रे कृतकौतुकमङ्गलम् ।
भीमसेनं भजेथास्त्वमुदिते वै दिवाकरे ॥
अहस्सु विहरानेन यथाकामं मनोजवा ।
अयं त्वानयितव्यस्ते भीमसेनः सदा निशि ॥
प्राक्सन्ध्यातो विमोक्तव्यो रक्षितव्यश्च नित्यशः ।
एवं रमस्व भीमेन यावद्गर्भस्य वेदनम् ॥
एष ते समयो भद्रे शुश्रूषा चाप्रमत्तया ।
नित्यानुकूलया भूत्वा कर्तव्यं शोभनं त्वया ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि हिडिम्बवधपर्वणि सप्तषष्ट्यधिकशततमोऽध्यायः ॥ 167 ॥

1-167-5 भ्रातृसेवितं पन्थानं मृत्युम् ॥ सप्तषष्ट्यधिकशततमोऽध्यायः ॥ 167 ॥

अध्यायः 168

हिडिम्बया सह पाण्डवानां शालिहोत्रसरोगमनम् ॥ 1 ॥ शालिहोत्रेण तेषामातिथ्यकरणम् ॥ 2 ॥ समयकरणपूर्वकं भीमेन हिडिम्ब्याः परिग्रहः ॥ 3 ॥ रमणीयेषु प्रदेशेषु भीमेन सह क्रीडित्वा सायाह्ने शालिहोत्राश्रमं प्रति हिडिम्ब्या निवर्तनम् ॥ 4 ॥ तत्र व्यासागमनम् ॥ 5 ॥ व्यासेन कुन्त्या आश्वासनम् ॥ 6 ॥ व्यासस्य प्रतिनिवर्तनम् ॥ 7 ॥

वैशंपायन उवाच ।
युधिष्ठिरवचः श्रुत्वा कुन्तीमङ्गेऽधिरोप्य सा ।
भीमार्जुनान्तरगता यमाभ्यां च पुरस्कृता ॥
तिर्यग्युधिष्ठिरे याति हिडिम्बा भीमगामिनी ।
शालिहोत्रसरो रम्यमाससाद जलार्थिनी ॥
वनस्पतितलं गत्वा परिमृज्य गृहं यथा ।
पाण्डवानां च वासं सा कृत्वा पर्णमयं तथा ॥
आत्मनश्च तथा कुन्त्या एकोद्देशे चकार सा ।
पाण्डवास्तु ततः स्नात्वा शुद्धाः सन्ध्यामुपास्य च ॥
तृषिताः क्षुत्पिपासार्ता जलमात्रेण वर्तयन् ।
शालिहोत्रस्ततो ज्ञात्वा क्षुधार्तान्पाण्डवांस्तदा ॥
मनसा चिन्तयामास पानीयं भोजनं महत् ।
ततस्ते पाण्डवाः सर्वे विश्रान्ताः पृथया सह ॥
यथा जतुगृहे वृत्तं राक्षसेन कृतं च यत् ।
कृत्वा कथा बहुविधाः कथान्ते पाण्डुनन्दनम् ॥
कुन्ती राजसुता वाक्यं भीमसेनमथाब्रवीत् ।
यथा पाण्डुस्तथा मान्यस्तव ज्येष्ठो युधिष्ठिरः ॥
अहं धर्मविदाऽनेन मान्या गुरुतरा तव ।
तस्मात्पाण्डुहितार्थं मे युवराज हितं कुरु ॥
निकृता धार्तराष्ट्रेण पापेनाकृतबुद्धिना ।
दुष्कृतस्य प्रतीकारं न पश्यामि वृकोदर ॥
तस्मात्कतिपयाहेन योगक्षेमं भविष्यति ।
क्षेमं दुर्गमिमं वासं वत्स्याम हि यथा वयम् ॥
इदमन्यन्महदुःखं धर्मकृच्छ्रं वृकोदर ।
दृष्ट्वैव त्वां महाप्राज्ञ अनङ्गाभिप्रचोदिता ॥
युधिष्ठिरं च मां चैव वरयामास धर्मतः ।
धर्मार्थं देहि पुत्रं त्वं स नः श्रेयः करिष्यति ॥
प्रतिवाक्यं तु नेच्छामि आवयोर्वचनं कुरु ।
वैशंपायन उवाच ।
तथेति तत्प्रतिज्ञाय भीमसेनोऽब्रवीदिदम् ॥
शासनं ते करिष्यामि वेदशासनमित्यपि ।
समक्षं भ्रातृमध्ये तु तां चोवाच स राक्षसीम् ॥
शृणु राक्षसि सत्येन समयं ते वदाम्यहम् ।' यावत्कालेन भवति पुत्रस्योत्पादनं शुभे ॥
तावत्कालं चरिष्यामि त्वया सह सुमध्यमे ।
`विशेषतो मत्सकाशे मा प्रकाशय नीचताम् ॥
उत्तमस्त्रीगुणोपेता भजेथा वरवर्णिनि ।
वैशंपायन उवाच ।
सा तथेति प्रतिज्ञाय हिडिम्बा राक्षसी तथा ॥
गताऽहनि निवेशेषु भोज्यं राजार्हमानयत् ।
सा कदाचिद्विहारार्थं हिडिम्बा कामरूपिणी ॥
भीमसेनमुपादाय ऊर्ध्वमाचक्रमं तदा ।
शैलशृङ्गेषु रम्येषु देवतायतनेषु च ॥
मृगपक्षिविघृष्टेषु रमणीयेषु सर्वेषु ।
कृत्वा सा परमं रूपं सर्वाभरणभूषिता ॥
संजल्पन्ती सुमधुरं रमयामास पाण्डवम् ।
तथैव वनदुर्गेषु पर्वतद्रुमसानुषु ॥
सरस्तु रमणीयेषु पद्मोत्पलवनेषु च ।
नदीद्वीपप्रदेशेषु वैडूर्यसिकतेषु च ॥
देवारण्येषु पुण्येषु तथा पर्वतसानुषु ।
सुतीर्थवनतोयासु तथा गिरिनदीषु च ॥
सागरस्य प्रदेशेषु भणिहेमयुतेषु च ।
गुह्यकानां निवासेषु कुलपर्वतसानुषु ॥
सर्वर्तुफलवृक्षेषु मानसेषु वनेषु च ।
बिभ्रती परमं रूपं रमयामास पाण्डवम् ॥
`यथा सुमोदते स्वर्गे सुकृत्यप्सरसा सह ।
सुतरां परमप्रीतस्तथा रेमे महाद्युतिः ॥
शुभं हि जघनं तस्याः सवर्णमणिमेखलम् । न ततर्प तदा मृद्गन्भीमसेनो मुहुर्मुहुः ॥'
रमयन्ती ततो भीमं तत्रतत्र मनोजवा ।
सा रेमे तेन संहर्षात्तृप्यन्ती च मुहुर्मुहुः ॥
अहस्सु रमयन्ती सा निशाकालेषु पाण्डवम् ।
आनीय वै स्वके गेहे दर्शयामास मातरम् ॥
भ्रातृभिः सहितो नित्यं स्वपते पाण्डवस्तथा ।
कुन्त्याः परिचरन्ती सा तस्याः पार्श्वेवसन्निशां ॥
कामांश्च मुखवासादीनानयिष्यति भोजनम् ।
तस्यां रात्र्यां व्यतीतायामाजगाम महाव्रतः ॥
पाराशर्यो महाप्राज्ञो दिव्यदर्शी महातपाः । तेऽभिवाद्य महात्मानं कृष्णद्वैपायनं शुभम् ।
तस्थुः प्राञ्जलयः सर्वे सस्नुषा चैव माधवी ॥
श्रीव्यास उवाच ।
मयेदं मनसा पूर्वं विदितं भरतर्षभाः ।
यथा स्थितैरधर्मेण धार्तराष्ट्रौर्विवासिताः ॥
तद्विदित्वाऽस्मि संप्राप्तश्चिकीर्ष्वै परं हितम् ।
न विषादो हि वः कार्यः सर्वमेतत्सुखाय वः ॥
सुहृद्वियोजनं कर्म पुराकृतमरिन्दमाः ।
तस्य सिद्धिरियं प्राप्ता मा शोचत परन्तपाः ॥
समाप्ते दुष्कृते चैव यूयं ते वै न संशयः ।
स्वराष्ट्रे विहरिष्यन्तो भविष्यथ सबान्धवाः ॥
दीनतो बालतश्चैव स्नेहं कुर्वन्ति बान्धवाः ।
तस्मादभ्यधिकः स्नेहो युष्मासु मम संप्रति ॥
स्नेहपूर्वं चिकीर्षामि हितं यत्तन्निबोधत ।
वसतेह प्रतिच्छन्ना ममागमनकाङ्क्षिणः ॥
एतद्वै शालिहोत्रस्य तपसा निर्मितं सरः ।
रमणीयमिदं तोयं क्षुत्पिपासाश्रमापहम् ॥
कार्यार्थिनस्तु षण्मासान्विहरध्वं यथासुखम् ॥
वैशंपायन उवाच ।
एवं स तान्समाश्वास्य व्यासः पार्थानरिन्दमान् ।
स्नेहाच्च संपरिष्वज्य कुन्तीमाश्वासयत्प्रभुः ॥
स्नुषे मा रोद मा रोदेत्येवं व्यासोऽब्रवीद्वचः ।
जीवपुत्रे सुतस्तेऽयं धर्मनित्यो युधिष्ठिरः ॥
पृथिव्यां पार्थइवान्सर्वान्प्रशासिष्यति धर्मराट् ।
धर्मेण जित्वा पृथिवीमखिलां धर्मकृद्वशी ॥
स्थापयित्वा वशे सर्वां सपर्वतवनां शुभाम् ।
भीमसेनार्जुनबलाद्भोक्ष्यत्ययमसंशयम् ॥
पुत्रास्तव च माद्र्याश्च पञ्चैते लोकविश्रुताः ।
स्वराष्ट्रे विहरिष्यन्ति सुखं सुमनसस्तदा ॥
यक्ष्यन्ति च नरव्याघ्रा विजित्य पृथिवीमिमाम् ।
राजसूयाश्वमेधाद्यैः क्रतुभिर्भूरिदक्षिणैः ॥
अनुगृह्य सुहृद्वर्गं धनेन च सुखेन च ।
पितृपैतामहं राज्यमहारिष्यन्ति ते सुताः ॥
स्नुषा कमलपत्राक्षी नाम्ना कमलपालिका ।
वशवर्तिनी तु भीमस्य पुत्रमेषा जनिष्यति ॥
तेन पुत्रेण कृच्छ्रेषु भविष्यथ च तारिताः ।
इह मासं प्रतीक्षध्वमागमिष्याम्यहं पुनः ॥
देशकालौ विदित्वैवं यास्यध्वं परमां मुदम् ॥
वैशंपायन उवाच ।
स तैः प्राञ्जलिभिः सर्वैस्तथेत्युक्तो जनाधिप ।
जगाम भगवान्व्यासो यथागतमृषिः प्रभुः ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि हिडिम्बवधपर्वणि अष्टषष्ट्यधिकशततमोऽध्यायः ॥ 168 ॥

1-168-38 दीनतो बालत इति द्वयं भावप्रधानम् ॥ अष्टषष्ट्युत्तरशततमोऽध्यायः ॥ 168 ॥

अध्यायः 169

घटोत्कचोत्पत्तिः ॥ 1 ॥ स्मृतिमात्रादागच्छाव इत्युक्त्वा हिडिम्बाघटोत्कचयोर्गमनम् ॥ 2 ॥

वैशंपायन उवाच ।
गते भगवति व्यासे पाण्डवा विगतज्वराः ।
ऊषुस्तत्र च षण्मासान्वटवृक्षे यथासुखम् ॥
शाकमूलफलाहारास्तपः कुर्वन्ति पाण्डवाः ।
अनुज्ञाता महाराज ततः कमलपालिका ॥
रमयन्ती सदा भीमं तत्रतत्र मनोजवा ।
दिव्याभरणवस्त्रा हि दिव्यस्रगनुलेपना ॥
एवं भ्रातॄन्सप्त मासान्हिडिम्बाऽवासयद्वने ।
पाण्डवान्भीमसेनार्थे राक्षसी कामरूपिणी ॥
सुखं स विहरन्भीमस्तत्कालं पर्यणामयत् ।
ततोऽलभत सा गर्भं राक्षसी कामरूपिणी ॥
अतृप्ता भीमसेनेन सप्तमासोपसंगता ।' प्रजज्ञे राक्षसी पुत्रं भीमसेनान्महाबलात् ॥
विरूपाक्षं महावक्त्रं शङ्कुकर्णं विभीषणम् ।
भीमरूपं सुताम्राक्षं तीक्ष्णदंष्ट्रं महारथम् ॥
महेष्वासं महावीर्यं महासत्वं महाजवम् ।
महाकायं महाकालं महाग्रीवं महाभुजम् ॥
अमानुषं मानुषजं भीमवेगमरिन्दमम् ।
पिशाचकानतीत्यान्यान्बभूवाति स मानुषान् ॥
बालोऽपि विक्रमं प्राप्तो मानुषेषु विशांपते ।
सर्वास्त्रेषु वरो वीरः प्रकाममभवद्बली ॥
सद्यो हि गर्भं राक्षस्यो लभन्ते प्रसवन्ति च ।
कामरूपधराश्चैव भवन्ति बहुरूपिकाः ॥
प्रणम्य विकचः पादावगृह्णात्स पितुस्तदा ।
मातुश्च परमेष्वासस्तौ च नामास्य चक्रतुः ॥
घटोहास्योत्कच इति माता तं प्रत्यभाषत ।
अभवत्तेन नामास्य घटोत्कच इति स्म ह ॥
अनुरक्तश्च तानासीत्पाण्डवान्स घटोत्कचः ।
तेषां च दयितो नित्यमात्मनित्यो बभूव ह ॥
घटोत्कचो महाकायः पाण्डवान्पृथया सह ।
अभिवाद्य यथान्यायमब्रवीच्च प्रभाष्य तान् ॥
किं करोम्यहमार्याणां निःशङ्कं वदतानघाः ।
तं ब्रुवन्तं भैमसेनिं कुन्ती वचनमब्रवीत् ॥
त्वं कुरूणां कुले जातः साक्षाद्भीमसमो ह्यसि ।
ज्येष्ठः पुत्रोसि पञ्चानां साहाय्यं कुरु पुत्रक ॥
वैशंपायन उवाच ।
पृथयाप्येवमुक्तस्तु प्रणम्यैव वचोऽब्रवीत् । यथा हि रावणो लोके इन्द्रजिच्च महाबलः ।
वर्ष्मवीर्यसमो लोके विशिष्टश्चाभवं नृषु ॥
कृत्यकाल उपस्थास्ये पितॄनिति घटोत्कचः ।
आमन्त्र्य रक्षसां श्रेष्ठः प्रतस्थे चोत्तरां दिशम् ॥
स हि सृष्टो भगवता शक्तिहेतोर्महात्मना ।
वर्णस्याप्रतिवीर्यस्य प्रतियोद्धा महारथः ॥
`भीम उवाच ।
सह वासो मया जीर्णस्त्वया कमलपालिके ।
पुनर्द्रक्ष्यसि राज्यस्थानित्यभाषत तां तदा ॥
हिडिम्बोवाच ।
पदा मां संस्मरेः कान्त रिरंसू रहसि प्रभो ।
तदा तव वशं भूय आगन्तास्म्याशु भारत ॥
इत्युक्त्वा सा जगामाशु भावमासज्य पाण्डवे ।
हिडिम्बा समयं स्मृत्वा स्वां गतिं प्रत्यपद्यत ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि हिडिम्बवधपर्वणि ऊनसप्तत्युत्तरशततमोऽध्यायः ॥ 169 ॥

1-169-12 विकचः केशहीनः ॥ 1-169-13 घटोहं घटवद्वितर्क्यं आस्यं तदुपलक्षितं शिरः यस्य स घटोहास्यः सचासावुत्कचश्च घटोहास्योत्कचः । घटोऽहमुत्कचोऽस्मीति मातरं सोऽभ्यभाषत इति घ.ङ. पाठः ॥ 13 ॥ 1-169-14 आत्मनिलः स्ववशः ॥ ऊनसप्तत्युत्तरशततमोऽध्यायः ॥ 169 ॥

अध्यायः 170

वने चरतां पाण्डवानां व्यासेन सान्त्वनं एकचक्रानगर्यां ब्राह्मणगृहे स्थापनं च ॥ 1 ॥

`वैशंपायन उवाच ।
ततस्ते पाण्डवाः सर्वे शालिहोत्राश्रमे तदा ।
पूजितास्तेन वन्येन तमामन्त्र्य महामुनिम् ॥
जटाः कृत्वाऽऽत्मनः सर्वे वल्कलाजिनवाससः ।
कुन्त्या सह महात्मानो बिभ्रतस्तापसं वपुः ॥
ब्राह्मं वेदमधीयाना वेदाङ्गानि च सर्वशः ।
नीतिशास्त्रं च धर्मज्ञा न्यायज्ञानं च पाण्डवाः ॥
शालिहोत्रप्रसादेन लब्ध्वा प्रीतिमवाप्य च ।' ते वनेन वनं गत्वा घ्नन्तो मृगगणान्बहून् ।
अपक्रम्य ययू राजंस्त्वरमाणा महारथाः ॥
मत्स्यांस्त्रिगर्तान्पाञ्चालान्कीचकानन्तरेण च ।
रमणीयान्वनोद्देशान्प्रेक्षमाणाः सरांसि च ॥
क्वचिद्वहन्तो जननीं त्वरमाणा महारथाः ।
`क्वचिच्छ्रान्ताश्च कान्तारे क्वचित्तिष्ठन्ति हर्षिताः' ॥
क्वचिच्छन्देन गच्छन्तस्ते जग्मुः प्रसभं पुनः ।
पथि द्वैपायन सर्वे ददृशुः स्वपितामहम् ॥
तेऽभिवाद्य महात्मानं कृष्णद्वैपायनं तदा ।
तस्थुः प्राञ्जलयः सर्वे सह मात्रा परन्तपाः ॥
व्यास उवाच ।
तदाश्रमान्निर्गमनं मया ज्ञातं नरर्षभाः ।
घटोत्कचस्य चोत्पत्तिं ज्ञात्वा प्रीतिरवर्धत ॥
इदं नगरमभ्याशे रमणीयं निरामयम् ।
वसतेह प्रतिच्छन्ना ममागमनकाङ्क्षिणः ॥
वैशंपायन उवाच ।
एवं स तान्समाश्वास्य व्यासः पार्तानरिन्दमान् ।
एकचक्रामभिगतां कुन्तीमाश्वासयत्प्रभुः ॥
श्रीव्यास उवाच ।
कुर्यान्न केवलं धर्मं दुष्कृतं च तथान नरः ।
सुकृतं दुष्कृतं लोके न कर्ता नास्ति कश्चन ॥
अवश्यं लभते कर्ता फलं वै पुण्यपापयोः ।
दुष्कृतस्य फलेनैव प्राप्तं व्यसनमुत्तमम् ॥
तस्मान्माधवि मानार्हे मा च शोके मनः कृथाः ।
वैशंपायन उवाच ।
एवमुक्त्वा निवेश्यैनान्ब्राह्मणस्य निवेशने ॥
जगाम भगवान्व्यासो यताकाममृषिः प्रभुः ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि हिडिम्बवधपर्वणि सप्तत्यधिकशततमोऽध्यायः ॥ 170 ॥ ॥ समाप्तं हिडिम्बवधपर्व ॥

अध्यायः 171

(अथ बकवधपर्व ॥ 10 ॥)

एकचक्रायां भिक्षामटतः पाण्डवान्दृष्ट्वा पौराणां वितर्कः ॥ 1 ॥ कुम्भकाराद्भीमस्य महत्तरपात्रलाभः ॥ 2 ॥ सभार्यस्य तद्गृहस्वामिनो ब्राह्मणस्य क्रन्दितं श्रुतवत्याः कुन्त्याः भीमानुमत्या ब्राह्मणान्तर्गृहप्रवेशः ॥ 3 ॥ ब्राह्मणप्रलापः ॥ 4 ॥

जनमेजय उवाच ।
एकचक्रां गतास्ते तु कुन्तीपुत्रा महारथाः ।
अत ऊर्ध्वं द्विजश्रेष्ठ किमकुर्वत पाण्डवाः ॥
वैशंपायन उवाच ।
एकचक्रां गतास्ते तु कन्तीपुत्रा महारथाः ।
ऊषुर्नातिचिरं कालं ब्राह्मणस्य निवेशने ॥
रमणीयानि पश्यन्तो वनानि विविधानि च ।
पार्थिवानपि चोद्देशान्सरितश्च सरांसि च ॥
चेरुर्भैश्रं तदा ते तु सर्व एव विशांपते ।
`युधिष्ठिरं च कुन्तीं च चिन्तयन्त उपासते ॥
भैक्षं चरन्तस्तु तदा जटिला ब्रह्मचारिणः ।
बभूवुर्नागराणां च गुणैः संप्रियदर्शनाः ॥
नागरा ऊचुः ।
दर्शनीया द्विजाः शुभ्रा देवगर्भोपमाः शुभाः ।
भैक्षानर्हाश्च राज्यार्हाः सुकुमारास्तपस्विनः ॥
नैते यथार्थतो विप्राः सुकुमारास्तपस्विनः ।
चरन्ति भूमौ प्रच्छन्नाः कस्माच्चित्कारणादिह ॥
सर्वलक्षणसंपन्ना भैक्षं नार्हन्ति नित्यशः ।
कार्यार्थिनश्चरन्तीति तर्कयन्त इति ब्रुवन् ॥
बन्धूनामागमान्नित्यमुपचारैस्तु नागराः ।
भाजनानि च पूर्णानि भक्ष्यभोज्यैरकारयन् ॥
मौनव्रतेन संयुक्ता भैश्रं गृह्णन्ति पाण्डवाः ।
माता चिरगतान्ज्ञात्वा शोचन्ती पाण्डवान्प्रति ॥
दुःखाश्रुपूर्णनयना लिखन्त्यास्ते महीतलम् ।
भिक्षित्वा द्विजगेहेषु चिन्तयन्तश्च मातरम् ॥
त्वरमाणा निवर्तन्ते मातृगौरवयन्त्रिताः ।
मात्रे निवेदयन्ति स्म कुन्त्यै भैक्षं दिवानिशम् ॥
सर्वं संपूर्णभैक्षान्नं मातृदत्तं पृथक्पृथक् ।
विभज्याभुञ्जतेष्टं ते यथाभागं पृथक्पृथक् ॥
अर्धं स्म भुञ्जते पञ्च सह मात्रा परन्तपाः ।
अर्धं सर्वस्य भैक्षस्य भीमो भुङ्क्ते महाबलः ॥
स नाशितश्च भवति कल्याणान्नभुजिः पुरा ।
स वैवर्ण्यं च कार्श्यं च जगामातृप्तिकारितम् ॥
आज्यबिन्दुर्यथा वह्नौ महति ज्वलिते भवेत् ।
तथार्धभागं भीमस्य भिक्षान्नस्य नरोत्तम ॥
तथैव वसतां तत्र तेषां राजन्महात्मनाम् ।
अतिचक्राम सुमहान्कालोऽथ भरतर्षभ ॥
भीमोऽपि क्रीडयित्वाथ मिथो ब्राह्मणबन्धुषु ।
कुम्भकारेण संबन्धाल्लेभे पात्रं महत्तरम् ॥
कुम्भकारोऽददात्पात्रं महत्कृत्वातिमात्रकम् ।
प्रहसन्भीमसेनाय विस्मितस्तस्य कर्मणा ॥
तस्याद्भुतं कर्म कुर्वन्मृद्भारं महदाददे ।
मृद्भारैः शतसाहस्रैः कुम्भकारमतोषयत् ॥
चक्रे चक्रे च मृद्भाण्डान्सततं भैक्षमाचरन् ।
तदादायागतं दृष्ट्वा हसन्ति प्रहसन्ति च ॥
भक्ष्यभोज्यानि विविधान्यादाय प्रक्षिपन्ति च । एवमेव सदा भुक्त्वा मात्रे वदति वै रहः ।
न चाशितोऽस्मि भवति कल्याणान्नभृतः पुरा ॥'
ततः कदाचिद्भैक्षाय गतास्ते पुरषर्षभाः ।
संगत्य भीमसेनस्तु तत्रास्ते पृथया सह ॥
अथार्तिजं महाशब्दं ब्राह्मणस्य निवेशने ।
भृशमुत्पतितं घोरं कुन्ती शुश्राव भारत ॥
रोरुयमाणांस्तान्दृष्ट्वा परिदेवयतश्च सा ।
कारुण्यात्साधुभावाच्च कुन्ती राजन्न चक्षमे ॥
मथ्यमानेव दुःखेन हृदयेन पृथा तदा ।
उवाच भीमं कल्याणी कृपान्वितमिदं वचः ॥
वसामः सुसुखं पुत्र ब्राह्मणस्य निवेशने ।
अज्ञाता धार्तराष्ट्रस्य सत्कृतां वीतमन्यवः ॥
सा चिन्तये सदा पुत्र ब्राह्मणस्यास्य किं न्वहम् ॥
कदा प्रियं करिष्यामि यत्कुर्युरुषिताः सुखम् ॥
एतावान्पुरुषस्तात कृतं यस्मिन्न नश्यति ।
यावच्च कुर्यादन्योऽस्य कुर्यादभ्यधिकं ततः ॥
तदिदं ब्राह्मणस्यास्य दुःखमापतितं ध्रुवम् ।
न तत्र यदि साहाय्यं कुर्याम सुकृतं भवेत् ॥
भीमसेन उवाच ।
ज्ञायतामस्य यद्दुःखं यतश्चैव समुत्थितम् ।
विदित्वा व्यवसिष्यामि यद्यपि स्यात्सुदुष्करम् ॥
वैशंपायन उवाच ।
एवं तौ कथयन्तौ च भूयः सुश्रुवतुः स्वनम् ।
आर्तिजं तस्य विप्रस्य सभार्यस्य विशांपते ॥
अन्तःपुरं ततस्तस्य ब्राह्मणस्य महात्मनः ।
विवेश त्वरिता कुन्ती बद्धवत्सेव सौरभी ॥
ततस्तं ब्राह्मणं तत्र भार्यया च सुतेन च ।
दुहित्रा चैव सहितं ददर्श विकृताननम् ॥
ब्राह्मण उवाच ।
धिगिदं जीवितं लोके गतसारमनर्थकम् ।
दुःखमूलं पराधीनं भृशमप्रियभागि च ॥
जीविते परमं दुःखं जीविते परमो ज्वरः ।
जीविते वर्तमानस्य द्वन्द्वानामागमो ध्रुवः ॥
आत्मा ह्येको हि धर्मार्थौ कामं चैव निषेवते ।
एतैश्च विप्रयोगोऽपि दुःखं परमनन्तकम् ॥
आहुः केचित्परं मोक्षं स च नास्ति कथंचन ।
अर्थप्राप्तौ तु नरकः कृत्स्न एवोपपद्यते ॥
अर्थेप्सुता परं दुःखमर्थप्राप्तौ ततोऽधिकम् ।
जातस्नेहस्य चार्थेषु विप्रयोगे महत्तरम् ॥
`यावन्तो यस्य संयोगा द्रव्यैरिष्टैर्भवन्त्युत ।
तावन्तोऽस्य निख्यन्ते हृदये शोकशङ्कवः ॥
तदिदं जीवितं प्राप्य अल्पकालं महाभयम् । त्यागो हि न मया प्राप्तो भार्यया सहितेन च ॥'
न हि योगं प्रपश्यामि येन मुच्येयमापदः ।
पुत्रदारेण वा सार्धं प्राद्रवेयमनामयम् ॥
यतितं वै मया पूर्वं वेत्थ ब्राह्मणि तत्तथा ।
क्षेमं यतस्ततो गन्तुं त्वया तु मम न श्रुतम् ॥
इह जाता विवृद्धाऽस्मि पिता माता ममेति वै ।
उक्तवत्यसि दुर्मेधे याच्यमाना मयाऽसकृत् ॥
स्वर्गतोऽपि पिता वृद्धस्तथा माता चिरं तव ।
बन्धवा भूतपूर्वाश्च तत्र वासे तु का रतिः ॥
`न भोजनं विरुद्धं स्यान्न स्त्रीदेशो निबन्धनः । सुदूरमपि तं देशं व्रजेद्गरुडहंसवत् ॥'
सोऽयं ते बन्धुकामाया अशृण्वन्त्या वचो मम ।
बन्धुप्रणाशः संप्राप्तो भृशं दुःखकरो मम ॥
अथवा मद्विनाशो यं न हि शक्ष्यामि कंचन ।
परित्यक्तुमहं बन्धुं स्वयं जीवन्नृशंसवत् ॥
सहधर्मचरीं दान्तां नित्यं मातृसमां मम ।
सखायं विहितां देवैर्नित्यं परमिकां गतिम् ॥
पित्रा मात्रा च विहितां सदा गार्हस्थ्यभागिनीम् ।
वरयित्वा यथान्यायं मन्त्रवत्परिणीय च ॥
कुलीनां शीलसंपन्नामपत्यजननीमपि ।
त्वामहं जीवितस्यार्थे साध्वीमनपकारिणीम् ॥
परित्यक्तुं न शक्ष्यामि भार्यां नित्यमनुव्रताम् ।
कुत एव परित्यक्तुं सुतां शक्ष्याम्यहं स्वयम् ॥
बालामप्राप्तवयसमजातव्यञ्जनाकृतिम् ।
भर्तुरर्थाय निक्षिप्तां न्यासं धात्रा महात्मना ॥
यया दौहित्रजाँल्लोकानाशंसे पितृभिः सह ।
स्वयमुत्पाद्य तां बालां कथमुत्स्रष्टुमुत्सहे ॥
मन्यन्ते केचिदधिकं स्नेहं पुत्रे पितुर्नराः ।
कन्यायां केचिदपरे मम तुल्यावुभौ स्मृतौ ॥
यस्यां लोकाः प्रसूतिश्च स्थिता नित्यमथो सुखम् ।
अपापां तामहं बालां कथमुत्स्रष्टुमुत्सहे ॥
`कुत एव परित्यक्तुं सुतं शक्ष्याम्यहं स्वयम् ।
प्रार्थयेयं परां प्रीतिं यस्मिन्स्वर्गफलानि च ॥
यस्य जातस्य पितरो मुखं दृष्ट्वा दिवं गताः ।
अहं मुक्तः पितृऋणाद्यस्य जातस्य तेजसा ॥
दयितं मे कथं बालमहं त्यक्तुमिहोत्सहे ।
तमहं ज्येष्ठपुत्रं मे कुलनिर्हारकं विभुम् ॥
मम पिण्डोदकनिधिं कथं त्यक्ष्यामि पुत्रकम् ।
त्यागोऽयं मम संप्राप्तो ममन्वा मे सुतस्य वा ॥
तव वा तव पुत्र्या वा अत्र वासस्य तत्फलम् ।
न शृणोषि वचो मह्यं तत्फलं भुङ्क्ष्व भामिनि ॥
अथवाहं न शक्ष्यामि स्वयं मर्तुं सुतं मम ।
एकं त्यक्तुं न शक्नोति भवतीं च सुतामपि ॥
अथ मद्रक्षणार्थं वा न हि शक्ष्यामि कंचन ।
परित्यक्तुमहं बन्धुं स्वयं जीवन्नृशंसवत् ॥
आत्मानमपि चोत्सृज्य गते प्रेतवशं मयि ।' त्यक्ता ह्येते मया व्यक्तं नेह शक्ष्यन्ति जीवितुम् ॥
एषां चान्यतमत्यागो नृशंसो गर्हितो बुधैः ।
आत्मत्यागे कृते चेमे मरिष्यन्ति मया विना ॥
स कृच्छ्रामहमापन्नो न शक्तस्तर्तुमापदम् । अहो धिक्कां गतिं त्वद्य गमिष्यामि सबान्धवः ।
सर्वैः सह मृतं श्रेयो न च मे जीवितुं क्षमम् ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि बकवचपर्वणि एकसप्तत्यधिकशततमोऽध्यायः ॥ 171 ॥

1-171-42 योगमुपायम् ॥ एकसप्तत्यधिकशततमोऽध्यायः ॥ 171 ॥

अध्यायः 172

ब्राह्मण प्रति तत्पत्नीवाक्यम् ॥ 1 ॥

ब्राह्मण्युवाच ।
न सन्तापस्त्वया कार्यः प्राकृतेनेव कर्हिचित् ।
न हि सन्तापकालोऽयं वैद्यस्य तव विद्यते ॥
अवश्यं निधनं सर्वैर्गन्तव्यमिह मानवैः ।
अवश्यभाविन्यर्थे वै संतापो नेह विद्यते ॥
भार्या पुत्रोऽथ दुहिता सर्वमात्मार्थमिष्यते ।
व्यथां जहि सुबुद्ध्या त्वं स्वयं यास्यामि तत्र च ॥
एतद्धि परमं नार्याः कार्यं लोके सनातनम् ।
प्राणानपि परित्यज्य यद्भर्तुर्हितमाचरेत् ॥
तच्च तत्र कृतं कर्म तवापीदं सुखावहम् ।
भवत्यमुत्र चाक्षय्यं लोकेऽस्मिंश्च यशस्करम् ॥
एष चैव गुरुर्धर्मो यं प्रवक्ष्याम्यहं तव ।
अर्थश्च तव धर्मश्च भूयानत्र प्रदृश्यते ॥
यदर्थमिष्यते भार्या प्राप्तः सोऽर्थस्त्वया मयि ।
कन्या चैका कुमारश्च कृताहमनृणा त्वया ॥
समर्थः पोषणे चासि सुतयो रक्षणे तथा ।
न त्वहं सुतयोः शक्ता तथा रक्षणपोषणे ॥
मम हि त्वद्विहीनायाः सर्वप्राणधनेश्वर ।
कथं स्यातां सुतौ बालौ भरेयं च कथं त्वहम् ॥
कथं हि विधवाऽनाथा बालपुत्रा विना त्वया ।
मिथुनं जीवयिष्यामि स्थिता साधुगते पथि ॥
अहं कृतावलेपैश्च प्रार्थ्यमानामिमां सुताम् ।
अयुक्तैस्तव संबन्धे कथं शक्ष्यामि रक्षितुम् ॥
उत्सृष्टमामिषं भूमौ प्रार्थयन्ति यथा खगाः ।
प्रार्थयन्ति जनाः सर्वे पतिहीनां तथा स्त्रियम् ॥
साऽहं विचाल्यमाना वै प्रार्थ्यमाना दुरात्मभिः ।
स्थातुं पथि न शक्ष्यामि सज्जनेष्टे द्विजोत्तम ॥
`स्त्रीजन्म गर्हितं नाथ लोके दुष्टजनाकुले ।
मातापित्रोर्वशे कन्या प्रौढा भर्तृवशे तथा ॥
अभावे चानयोः पुत्रे खतन्त्रा स्त्री विगर्हिता ॥
अनाथत्वं स्त्रियो द्वारं दुष्टानां विवृतं हि तत् । वस्त्रखण्डं घृताक्तं हि यथा संकृष्यते श्वभिः ॥'
कथं तव कुलस्यैकमिमं बालमनागसम् ।
पितृपैतामहे मार्गे नियोक्तुमहमुत्सहे ॥
कथं शक्ष्यामि बालेऽस्मिन्गुणानाधातुमीप्सितान् ।
अनाथे सर्वतो लुप्ते यथा त्वं धर्मदर्शिवान् ॥
इमामपि च ते बालामनाथां परिभूय माम् ।
अनर्हाः प्रार्थयिष्यन्ति शूद्रा वेदश्रुतिं यथा ॥
तां चेदहं न दित्सेयं सद्गुणैरुपबृंहिताम् ।
प्रमथ्यैनां हरेयुस्ते हविर्ध्वाङ्क्षा इवाध्वरात् ॥
संप्रेक्षमाणा पुत्रीं ते नानुरूपमिवात्मनः ।
अनर्हवशमापन्नामिमां चापि सुतां तव ॥
अवज्ञाता च लोकेषु तथान्मानमजानती ।
अवलिप्तैरैर्ब्रह्मन्मरिष्यामि न संशयः ॥
तौ च हीनौ मया बालौ त्वया चैव तथात्मजौ ।
विनश्येतां न सन्देहो मत्स्याविव जलक्षये ॥
त्रितयं सर्वथाप्येवं विनशिष्यत्यसंशयम् ।
त्वया विहीनं तस्मात्त्वं मां परित्यक्तुमर्हसि ॥
व्युष्टिरेषा परा स्त्रीणां पूर्वं भर्तुः परा गतिः ।
ननु ब्रह्मन्सपुत्राणामिति धर्मविदो विदुः ॥
`अनिष्टमिह पुत्राणां विषये परिवर्तितुम् ।
हरिद्राञ्जनपुष्पादिसौमङ्गल्ययुता सती ॥
मरणं याति या भर्तुस्तद्दत्तजलपायिनी ।
भर्तृपादार्पितमनाः सा याति गिरिजापदम् ॥
गिराजायाः सखी भूत्वा मोदते नगकन्यया ।
मितं ददाति हि पिता मितं माता मितं सुतः ॥
अमितस्य हि दातारं का पतिं नाभिनन्दति ।
आश्रमाश्चाग्निसंस्कारा जपहोमव्रतानि च ॥
स्त्रीणां नैते विधातव्या विना पतिमनिन्दितम् । क्षमा शौचमनाहारमेतावद्विहितं स्त्रियाः ॥'
परित्यक्तः सुतश्चायं दुहितेयं तथा मया ।
बान्धवाश्च परित्यक्तास्त्वदर्थं जीवितं च मे ॥
यज्ञैस्तपोभिर्नियमैर्दानैश्च विविधैस्तथा ।
विशिष्यते स्त्रिया भर्तुर्नित्यं प्रियहिते स्थितिः ॥
तदिदं यच्चिकीर्षामि धर्मं परमसंमतम् ।
इष्टं चैव हितं चैव तव चैव कुलस्य च ॥
इष्टानि चाप्यपत्यानि द्रव्याणि सुहृदः प्रियाः ।
आपद्धर्मप्रमोक्षाय भार्या चापि सतां मतम् ॥
आपदर्थे धनं रक्षेद्दारान्रक्षेद्धनैरपि ।
आत्मानं सततं रक्षेद्दारैरपि धनैरपि ॥
दृष्टादृष्टफलार्थं हि भार्या पुत्रो धनं गृहम् ।
सर्वमेतद्विधातव्यं बुधानामेष निश्चयः ॥
एकतो वा कुलं कृत्स्नमात्मा वा कुलवर्धनः ।
`उभयोः कोधिको विद्वन्नात्मा चैवाधिकः कुलात् ॥
आत्मनो विद्यमानत्वाद्भुवनानि चतुर्दश ।
विद्यन्ते द्विजशार्दूल आतमा रक्ष्यस्ततस्त्वया ॥
आत्मन्यविद्यमाने चेदस्य नास्तीह किंचन । एतज्जगदिदं सर्वमात्मना न समं किल ॥'
स कुरुष्व मया कार्यं तारयात्मानमात्मना ।
अनुजानीही मामार्य सुतौ मे परिपालय ॥
अवध्याः स्त्रिय इत्याहुर्धर्मज्ञा धर्मनिश्चये ।
धर्मज्ञान्राक्षसानाहुर्न हन्यात्स च मामपि ॥
निःसंशयं वधः पुंसां स्त्रीणां संशयितो वधः ।
अतो मामेव धर्मज्ञ प्रस्थापयितुमर्हसि ॥
भुक्तं प्रियाण्यवाप्तानि धर्मश्च चरितो मया । `त्वच्छुश्रूषणसंभूता कीर्तिश्चाप्यतुला मम ।'
त्वत्प्रसूतिः प्रिया प्राप्ता न मां तप्स्यत्यजीवितं ॥
जातपुत्रा च वृद्धा च प्रियकामा च ते सदा ।
समीक्ष्यैतदहं सर्वं व्यवसायं करोम्यतः ॥
उत्सृज्यापि हि मामार्य प्राप्स्यस्यन्यामपि स्त्रियम् ।
ततः प्रतिष्ठितो धर्मो भविष्यति पुनस्तव ॥
न चाप्यधर्मः कल्याण बहुपत्नीकता नृणाम् ।
स्त्रीणामधर्मः सुमहान्भर्तुः पूर्वस्य लङ्घने ॥
एतत्सर्वं समीक्ष्य त्वमात्मत्यागं च गर्हितम् ।
आत्मानं तारयाद्याशु कुलं चेमौ च दारकौ ॥
वैशंपायन उवाच ।
एवमुक्तस्तया भर्ता तां समालिङ्ग्य भारत ।
मुमोच बाष्पं शनकैः सभार्यो भृशदुःखितः ॥
`मैवं वद त्वं कल्याणि तिष्ठ चेह सुमध्यमे ।
न तु भार्यां त्यजेत्प्राज्ञः पुत्रान्वापि कदाचन ॥
विशेषतः स्त्रियं रक्षेत्पुरुषो बुद्धिमानिह । त्यक्त्वा तु पुरुषो जीवेन्न हातव्यानिमान्सदा ।
न वेत्ति कामं धर्मं च अर्थं मोक्षं च तत्त्वतः ॥' ॥

इति श्रीमन्महाभारते आदिपर्वणि बकवधपर्वणि द्विसप्तत्यधिकशततमोऽध्यायः ॥ 172 ॥

1-172-1 वैद्यस्य विद्यावनः ॥ 1-172-25 परा व्युष्टिर्महद्भाग्यम् ॥ 1-172-43 त्वत् त्वत्तः प्रसूतिः संततिः । अजीवितम् मरणं ॥ द्विसप्तत्यधिकशततमोऽध्यायः ॥ 172 ॥

अध्यायः 173

ब्राह्मणं प्रति तत्कन्यावाक्यम् ॥ 1 ॥ बालस्य पुत्रस्य वचनेन पित्रोः किंचिद्धर्षसमये कुन्त्यास्तत्समीपे गमनम् ॥ 2 ॥

वैशंपायन उवाच ।
तयोर्दुःखितयोर्वाक्यमतिमात्रं निशम्य तु ।
ततो दुःखपरीताङ्गी कन्या तावभ्यभाषत ॥
किमेवं भृशदुःखार्तौ रोरूयेतामनाथवत् ।
ममापि श्रूयतां वाक्यं श्रुत्वा च क्रियतां क्षमम् ॥
धर्मतोऽहं परित्याज्या युवयोर्नात्र संशयः ।
त्यक्तव्यां मां परित्यज्य त्राहि सर्वं मयैकया ॥
इत्यर्थमिष्यतेऽपत्यं तारयिष्यति मामिति ।
अस्मिन्नुपस्थिते काले तरध्वं प्लववन्मया ॥
इह वा तारयेद्दुर्गादुत वा प्रेत्य भारत ।
सर्वथा तारयेत्पुत्रः पुत्र इत्युच्यते बुधैः ॥
आकाङ्क्षन्ते च दौहित्रान्मयि नित्यं पितामहाः ।
तत्स्वयं वै परित्रास्ये रक्षन्ती जीवितं पितुः ॥
भ्राता च मम बालोऽयं गते लोकममुं त्वयि ।
अचिरेणैव कालेन विनश्येत न संशयः ॥
तातेपि हि गते स्वर्गं विनष्टे च ममानुजे ।
पिण्डः पितॄणां व्युच्छिद्येत्तत्तेषां विप्रियं भवेत् ॥
पित्रा त्यक्ता तथा मात्रा भ्रात्रा चाहमसंशयम् ।
दुःखाद्दुःखतरं प्राप्य म्रियेयमतथोचिताम् ॥
त्वयि त्वरोगे निर्मुक्तो माता भ्राता च मे शिशुः ।
सन्तानश्चैव पिण्डश्च प्रतिष्ठास्यत्यसंशयम् ॥
आत्मा पुत्रः सखी भार्या कृच्छ्रं तु दुहिता किल ।
स कृच्छ्रान्मोचयात्मानं मां च धर्मे नियोजया ॥
अनाथा कृपणा बाला यत्र क्वचन गामिनी ।
भविष्यामि त्वया तात विहीना कृपणा सदा ॥
अथवाहं करिष्यामि कुलस्यास्य विमोचनम् ।
फलसंस्था भविष्यामि कृत्वा कर्म सुदुष्करम् ॥
अथवा यास्यसे तत्र त्यक्त्वा मां द्विजसत्तम ।
पीडिताऽहं भविष्यामि तदवेक्षस्व मामपि ॥
तदस्मदर्थं धर्मार्थं प्रसवार्थं च सत्तम ।
आत्मानं परिरक्षस्व त्यक्तव्यां मां च संत्यज ॥
अवश्यकरणीये च मा त्वां कालोत्यगादयम् ।
किं त्वतः परमं दुःखं यद्वयं स्वर्गते त्वयि ॥
याचमानाः परादन्नं परिधावेमहि श्ववत् । त्वयि त्वरोगे निर्मुक्ते क्लेशादस्मात्सबान्धवे ।
अमृतेव सती लोके भविष्यामि सुखान्विता ॥
इतः प्रदाने देवाश्च पितरश्चेति नः श्रुतम् ।
त्वया दत्तेन तोयेन भविष्यति हिताय वै ॥
`इत्येतदुभयं तात निशाम्य तव यद्धितम् ।
तद्व्यवस्य तथाम्बाया हितं स्वस्य सुतस्य च ॥
मातापित्रोश्च पुत्रास्तु भवितारो गुणान्विताः । न तु पुत्रस्य पितरो पुनर्जातु भविष्यतः ॥'
वैशंपायन उवाच ।
एवं बहुविधं तस्या निशम्य परिदेवितम् ।
पिता माता च सा चैव कन्या प्ररुरुदुस्त्रयः ॥
ततः प्ररुदितान्सर्वान्निशम्याथ सुतस्तदा ।
उत्फुल्लनयनो बालः कलमव्यक्तमब्रवीत् ॥
मा पिता रुद मा मातर्मा स्वसस्त्विति चाब्रवीत् ।
प्रहसन्निव सर्वांस्तानेकैकमनुसर्पति ॥
ततः स तृणमादाय प्रहृष्टः पुनरब्रवीत् ।
अनेनाहं हनिष्यामि राक्षसं पुरुषादकम् ॥
वैशंपायन उवाच ।
तथापि तेषां दुःखेन परीतानां निशम्य तत् ।
बालस्य वाक्यमव्यक्तं हर्षः समभवन्महान् ॥
अयं काल इति ज्ञात्वा कुन्ती समुपसृत्य तान् ।
गतासूनमृतेनेव जीवयन्तीदमब्रवीत् ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि बकवधपर्वणि त्रिसप्तत्यधिकशततमोऽध्यायः ॥ 173 ॥

1-173-15 प्रसवार्थं वंशार्थम् ॥ 1-173-17 अमृतेव जीवन्तीव । इह लोके कीर्तेः सत्त्वात् ॥ 1-173-18 इतः प्रदाने अस्मिन् राक्षसाहाराय कन्यादाने दुर्दानत्वात् पितुर्दुर्मरणाच्च कन्याया देवाश्च पितरश्च हिताय नेति श्रुतं यद्यपि तथापि त्वया दत्तेनः तोयेन तव मम च हिताय ते भविष्यन्तीत्यर्थः ॥ 1-173-22 कलं मधुरा ॥ त्रिसप्तत्यधिकशततमोऽध्यायः ॥ 173 ॥

अध्यायः 174

कुन्त्या रोदनकारणप्रश्ने ब्राह्मणेन बकवृत्तान्तकथनम् ॥ 1 ॥

कुन्त्युवाच ।
कुतोमूलमिदं दुःखं ज्ञातुमिच्छामि तत्त्वतः ।
विदित्वाप्यपकर्षेयं शक्यं चेदपकर्षितुम् ॥
ब्राह्मण उवाच ।
उपपन्नं सतामेतद्यद्ब्रवीपि तपोधने ।
न तु दुःखमिदं शक्यं मानुषेण व्यपोहितुम् ॥
`तथापि तत्त्वमाख्यास्ये दुःखस्यैतस्य संभवम् ।
शक्यं वा यदि वाऽशक्यं शृणु भद्रे यथातथम् ॥
समीपे नगरस्यास्य वको वसति राक्षसः ।
इतो गव्यूतिमात्रे ।ञस्ति यमुनागह्वरे गुहा ॥
तस्यां घोरः स वसति जिघांसुः पुरुषादकः ।
बकाभिधानो दुष्टात्मा राक्षसानां कुलाधमः ॥
ईशो जनपदस्यास्य पुरस्य च महाबलः ।
पुष्टो मानुषमांसेन दुर्बुद्धिः पुरुषादकः ॥
प्रबलः कामरूपी च राक्षसस्तु महाबलः ।
तेनोपसृष्टा नगरी वर्षमद्य त्रयोदशम् ॥
तत्कृते परचक्राच्च भूतेभ्यश्च न नो भयम् ।
पुरुषादेन रौद्रेण भक्ष्यमाणा दुरात्मना ॥
अनाथा नगरी नाथं त्रातारं नाधिगच्छति ।
गुहायां च वसंस्तत्र बाधते सततं जनम् ॥
स्त्रियो बालांश्च वृद्धांश्च यूनश्चापि दुरात्मवान् ।
अत्र मन्त्रैश्च होमैश्च भोजनैश्च स राक्षसः ॥
ईडितो द्विजमुख्यैश्च पूजितश्च दुरात्मवान् ।
यदा च सकलानेवं प्रसूदयति राक्षसः ॥
अथैनं ब्राह्मणाः सर्वे समये समयोजयन् ।
मा स्म कामाद्वधी रक्षो दास्यामस्ते सदा वयं ॥
पर्यायेण यथाकाममिह मांसोदनं प्रभो ।
अन्नं मांससमायुक्तं तिलचूर्णसमन्वितम् ॥
सर्पिषा च समायुक्तं व्यञ्जनैश्च समन्वितम् ।
सूपांस्त्रीन्सतिलान्पिण्डाँल्लाजापूपसुरासवान् ॥
शृताशृतान्पानकुम्भान्स्थूलमांसं शृताशृतम् ।
वनमाहिषवाराहभाल्लूकं च शृताशृतम् ॥
सर्पिःकुम्भांश्च विविधान्दधिकुम्भांस्तथा बहून् ।
सद्यःसिद्धसमायुक्तं तिलचूर्णैः समाकुलम् ॥
कुलाच्च पुरुषं चैकं बलीवर्दौ च कालकौ ।
प्राप्स्यसि त्वमसंक्रुद्धो रक्षोभागं प्रकल्पितम् ॥
तिष्ठेह समयेऽस्माकमित्ययाचन्त तं द्विजाः ।
बाढमित्येव तद्रक्षस्तद्वचः प्रत्यगृह्णत ॥
परचक्राटवीकेभ्यो रक्षणं स करोति च ।
तस्मिन्भागे सुनिर्दिष्टे स्थितः स समये बली ॥
एकैकं चैव पुरुषं संप्रयच्छन्ति वेतनम् ।
स वारो बहुभिर्वर्षैर्भवत्यसुकरो नरैः ॥
तद्विमोक्षाय ये केचिद्यतन्ते पुरुषाः क्वचित् । सपुत्रदारांस्तान्हत्वा तद्रक्षो भक्षयत्युत ॥'
वेत्रकीयगृहे राजा नायं नयमिहास्थितः । उपायं तं न कुरुते यत्नादपि स मन्दधीः ।
अनामयं जनस्यास्य येन स्यादद्य शाश्वतम् ॥
एतदर्हा वचं नूनं वसामो दुर्बलस्य ये ।
विषये नित्यवास्तव्याः कुराजानमुपाश्रिताः ॥
ब्राह्मणाः कस्य वक्तव्याः कस्य वाच्छन्दचारिणः ।
गुणैरेते हि वत्स्यन्ति कामगाः पक्षिणो यथा ॥
राजानं प्रथमं विन्देत्ततो भार्यां ततो धनम् । `राजन्यसति लोकेऽस्मिन्कुतो भार्या कुतो धनम् ।
वयस्य संचयेनास्य ज्ञातीन्पुत्रांश्च तारयेत् ॥
विपीरतं मया चेदं त्रयं सर्वमुपार्जितम् ।
तदिमामापदं प्राप्य भृशं तप्यामहे वयम् ॥
सोऽयमस्माननुप्राप्तो वारः कुलविनाशनः ।
भोजनं पुरुषश्चैकः प्रदेयं वेतनं मया ॥
न च मे विद्यते वित्तं संक्रेतुं पुरुषं क्वचित् ।
सुहृज्जनं प्रदातुं च न शक्ष्यामि कदाचन ॥
गतिं चान्यां न पश्यामि तस्मान्मोक्षाय रक्षसः ।
सोऽहं दुःखार्णवे मग्नो महत्यसुकरे भृशम् ॥
सहैवैतैर्गमिष्यामि बान्धवैरद्य राक्षसम् ।
ततो नः सहितान्क्षुद्रः सर्वानेवोपभोक्ष्यति ॥
`दुःखमूलमिदं भद्रे मयोक्तं प्रश्नतोऽनघे ॥' ॥

इति श्रीमन्महाभारते आदिप्रवणि बकवधपर्वणि चतुःसप्तत्यधिकशततमोऽध्यायः ॥ 174 ॥

1-174-22 वेत्रकीयगृहे स्थानविशेषे । इतोऽदूरे राजास्त्ययमिह नगरे नयं न आस्थितः । अस्य नगरस्यावेक्षां न करोतीत्यर्थः । स्वयं राक्षसं हन्तुमशक्तत्वात् । नायं नायमिहास्थित इति खपुस्तकपाठः । नायं नायं बलिं पुनः पुनः प्रापय्येत्यर्थः । उपायमप्यन्यद्वारा न कुरुते यतो मन्दधीः ॥ 1-174-23 एतदर्हाः एतस्य दुःखस्य योग्याः ॥ चतुःसप्तत्यधिकशततमोऽध्यायः ॥ 174 ॥

अध्यायः 175

कुन्त्या बकं प्रति स्वपुत्रप्रेषणवचनम् ॥ 1 ॥

कुन्त्युवाच ।
न विषादस्त्वया कार्यो भयादस्मात्कथंचन ।
उपायः परिदृष्टोऽत्र तस्मान्मोक्षाय रक्षसः ॥
`नैव स्वयं सपुत्रस्य गमनं तत्र रोचये ।' एकस्तव सुतो बालः कन्या चैका तपस्विनी ।
न चैतयोस्तथा पत्न्या गमनं तव रोचये ॥
मम पञ्च सुता ब्रह्मंस्तेषामेको गमिष्यति ।
त्वदर्थं बलिमादाय तस्य पापस्य रक्षसः ॥
ब्राह्मण उवाच ।
नाहमेतत्करिष्यामि जीवितार्थी कथंचन ।
ब्राह्मणस्यातिथेश्चैव स्वार्थे प्राणान्वियोजयन् ॥
न त्वेतदकुलीनासु नाधर्मिष्ठासु विद्यते ।
यद्ब्राह्ममार्थं विसृजेदात्मानमपि चात्मजम् ॥
आत्मनस्तु वधः श्रेयो बोद्धव्यमिति रोचते ।
ब्रहम्वध्याऽऽत्मवध्या वा श्रेयानात्मवधो मम ॥
ब्रह्मवध्या परं पापं निष्कृतिर्नात्र विद्यते ।
अबुद्धिपूर्वं कृत्वापि प्रत्यवायो हि विद्यते ॥
न त्वहं वधमाकाङ्क्षे स्वयमेवात्मनः शुभे ।
परैः कृते वधे पापं न किंचिन्मयि विद्यते ॥
अभिसंधौ कृते तस्मिन्ब्राह्मणस्य वधे मया ।
निष्कृतिं न प्रपश्यामि नृशंसं क्षुद्रमेव च ॥
आगतस्य गृहं त्यागस्तथैव शरणार्थिनः ।
याचमानस्य च वधो नृशंसो गर्हितो बुधैः ॥
कुर्यान्न निन्दितं कर्म न नृशंसं कथंचन ।
इति पूर्वे महात्मान आपद्धर्मविदो विदुः ॥
श्रेयांस्तु सहदारस्य विनाशोऽद्य मम स्वयम् ।
ब्राह्मणस्य वधं नाहमनुमंस्ये कदाचन ॥
कुन्त्युवाच ।
ममाप्येषा मतिर्ब्रह्मन्विप्रा रक्ष्या इति स्थिरा ।
न चाप्यनिष्टः पुत्रो मे यदि पुत्रशतं भवेत् ॥
न चासौ राक्षसः शक्तो मम पुत्रविनाशने ।
वीर्यमन्मन्त्रसिद्धश्च तेजस्वी च सुतो मम ॥
राक्षसाय च तत्सर्वं प्रापयिष्यति भोजनम् ।
मोक्षयिष्यति चात्मानमिति मे निश्चिता मतिः ॥
समागताश्च वीरेण दृष्टपूर्वाश्च राक्षसाः ।
बलवन्तो महाकाया निहताश्चाप्यनेकशः ॥
न त्विदं केषुचिद्ब्रह्मान्व्याहर्तव्यं कथंचन ।
विद्यार्थिनो हि मे पुत्रान्विप्रकुर्युः कुतूहलात् ॥
गुरुणा चाननुज्ञातो ग्राहयेद्यः सुतो मम ।
न स कुर्यात्तथा कार्यं विद्ययेति सतां मतम् ॥
वैशंपायन उवाच ।
एवमुक्तस्तु पृथया स विप्रो भार्यया सह ।
हृष्टः संपूजयामास तद्वाक्यममृतोपमम् ॥
ततः कुन्ती च विप्रश्च सहितावनिलात्मजम् ।
तमब्रूतां कुरुष्वेति स तथेत्यब्रवीच्च तौ ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि पञ्चसप्तत्यधिकशततमोऽध्यायः ॥ 175 ॥

1-175-9 अभिसन्धौ अभिप्राये ॥ 1-175-17 विप्रकुर्युर्वाधेरन् ॥ पञ्चसप्तत्यधिकशततमोऽध्यायः ॥ 175 ॥

अध्यायः 176

भिक्षाटनार्थं गतानां युधिष्ठिरादीनां गृहं प्रत्यागमनम् ॥ 1 ॥ भीमो बकं प्रति प्रेष्यत इति ज्ञातवतो युधिष्ठिरस्य संतापः ॥ 2 ॥ भीमसेनप्रभावकथनेन कुन्त्या कृतं युधिष्ठिराश्वासनम् ॥ 3 ॥

वैशंपायन उवाच ।
करिष्य इति भीमेन प्रतिज्ञातेऽथ भारत ।
आजग्मुस्ते ततः सर्वे भैक्षमादाय पाण्डवाः ॥
`भीमसेनं ततो दृष्ट्वा आपूर्णवदनं तथा ।
बुबोध धर्मराजस्तु हृषितं भीममच्युतम् ॥
तोषस्य कारणं यत्तु मनसाऽचिन्तयद्गुरुः । स समीक्ष्य तदा राजन्योद्धुकामं युधिष्ठिरः ॥'
आकारेणैव तं ज्ञात्वा पाण्डुपुत्रो युधिष्ठिरः ।
रहः समुपविश्यैकस्ततः पप्रच्छ मातरम् ॥
किं चिकीर्षत्ययं कर्म भीमो भमपराक्रमः ।
भवत्यनुमते कच्चित्स्वयं वा कर्तुमिच्छति ॥
कुन्त्युवाच ।
ममैव वचनादेष करिष्यति परन्तपः ।
ब्राह्मणार्थे महत्कृत्यं मोक्षाय नगरस्य च ॥
`बकाय कल्पितं पुत्र महान्तं बलिमुत्तमम् । भीमो भुनक्तु सुस्पष्टमप्येकाहं तपःसुतः ॥'
युधिष्ठिर उवाच ।
किमिदं साहसं तीक्ष्णं भवत्या दुष्करं कृतम् ।
परित्यागं हि पुत्रस्य न प्रशंसन्ति साधवः ॥
कथं परसुतस्यार्थे स्वसुतं त्यक्तुमिच्छसि ।
लोकवेदविरुद्धं हि पुत्रत्यागात्कृतं त्वया ॥
यस्य बाहू समाश्रित्य सुखं सर्वे शयामहे ।
राज्यं चापहृतं क्षुद्रैराजिहीर्षामहे पुनः ॥
यस्य दुर्योधनो वीर्यं चिन्तयन्नमितौजसः ।
न शेते रजनीः सर्वा दुःखाच्छकुनिना सह ॥
यस्य वीरस्य वीर्येण मुक्ता जतुगृहाद्वयम् ।
अन्येभ्यश्चैव पापेभ्यो निहतश्च पुरोचनः ॥
यस्य वीर्यं समाश्रित्य वसुपूर्णां वसुन्धराम् ।
इमां मन्यामहे प्राप्तां निहत्य धृतराष्ट्रजान् ॥
तस्य व्यवसितस्त्यागो बुद्धिमास्थाय कां त्वया ।
कच्चिन्नु दुःखैर्बुद्धिस्ते विलुप्ता गतचेतसः ॥
कुन्त्युवाच ।
युधिष्ठिर न संतापस्त्वया कार्यो वृकोदरे ।
न चायं बुद्धिदौर्बल्याद्व्यवसायः कृतो मया ॥
`न च शोकेन बुद्धिः सा विलुप्ता गतचेकसः ।' इह विप्रस्य भवने वयं पुत्र सुखोषिताः ।
अज्ञाता धार्तराष्ट्राणां सत्कृता वीतमन्यवः ॥
तस्य प्रतिक्रिया पार्थ मयेयं प्रसमीक्षिता ।
एतावानेव पुरुषः कृतं यस्मिन्न नश्यति ॥
यावच्च कुर्यादन्योऽस्य कुर्याद्बहुगुमं ततः । `ब्राह्मणार्थे महान्धर्मो जानामीत्थं वृकोदरे ॥'
दृष्ट्वा भीमस्य विक्रान्तं तदा जतुगृहे महत् ।
हिडिम्बस्य वधाच्चैवं विश्वासो मे वृकोदरे ॥
बाह्वोर्बलं हि भीमस्य नागायुतसमं महत् ।
येन यूयं गजप्रख्या निर्व्यूढा वारणावतात् ॥
वृकोदरेण सदृशो बलेनान्यो न विद्यते ।
यो व्यतीयाद्युधि श्रेष्ठमपि वज्रधरं स्वयम् ॥
जातमात्रः पुरा चैव ममाङ्कात्पतितो गिरौ ।
शरीरगौरवादस्य शिला गात्रैर्विचूर्णिता ॥
तदहं प्रज्ञया ज्ञात्वा बलं भीमस्य पाण्डव ।
प्रतिकार्ये च विप्रस्य ततः कृतवती मतिम् ॥
नेदं लोभान्न चाज्ञानान्न च मोहाद्विनिश्चितम् ।
बुद्धिपूर्वं तु धर्मस्य व्यवसायः कृतो मया ॥
अर्थौ द्वावपि निष्पन्नौ युधिष्ठिर भविष्यतः ।
प्रतीकारश्च वासस्य धर्मश्च चरितो महान् ॥
यो ब्राह्मणस्य साहाय्यं कुर्यादर्थेषु कर्हिचित् ।
क्षत्रियः स शुभाँल्लोकानाप्नुयादिति मे मतिः ॥
क्षत्रियस्यैव कुर्वाणः क्षत्रियो वधमोक्षणम् ।
विपुलां कीर्तिमाप्नोति लोकेऽस्मिंश्च परत्र च ॥
वैश्यस्यार्थे च साहाय्यं कुर्वाणः क्षत्रियो भुवि ।
स सर्वेष्वपि लोकेषु प्रजा रञ्जयते ध्रुवम् ॥
शूद्रं तु मोचयेद्राजा शरणार्थिनमागतम् ।
प्राप्नोतीह कुले जन्म सद्द्रव्ये राजपूजिते ॥
एवं मां भगवान्व्यासः पुरा पौरवनन्दन ।
प्रोवाचासुकरप्रज्ञस्तस्मादेवं चिकीर्षितम् ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि बकवधपर्वणि षट्सप्तत्यधिकशततमोऽध्यायः ॥ 176 ॥

1-176-6 मोक्षाय बकभयादिति शेषः ॥ 1-176-25 प्रतीकारः प्रत्युपकारः ॥ षट्सप्तत्यधिकशततमोऽध्यायः ॥ 176 ॥

अध्यायः 177

परेद्युः प्रातः ब्राह्मणेन दत्तमन्नं भुक्त्वा बकाय प्रापणीयं अन्नादिपूर्णं शकटमारुह्य बकवंन प्रति भीमस्य गमनम् ॥ 1 ॥ तत्र भीमेन शकटस्तान्नभोजनम् ॥ 2 ॥ अन्नं भुञ्जानं भीमं दृष्ट्वा क्रुद्धेन बकेन सह भीमस्य युद्धम् ॥ 3 ॥ बकवधः ॥ 4 ॥

युधिष्ठिर उवाच ।
उपपन्नमिदं मातस्त्वया यद्बुद्धिपूर्वकम् ।
आर्तस्य ब्राह्मणस्यैतदनुक्रोशादिदं कृतम् ॥
ध्रुवमेष्यति भीमोऽयं निहत्य पुरुषादकम् ।
सर्वथा ब्राह्मणस्यार्थे यदनुक्रोशवत्यसि ॥
यथा त्विदं न विन्देयुर्नरा नगरवासिनः ।
तथाऽयं ब्राह्मणो वाच्यः परिग्राह्यश्च यत्नतः ॥
वैशंपायन उवाच ।
`युधिष्ठिरेण संमन्त्र्य ब्राह्मणार्थमरिन्दम ।
कुन्ती प्रविश्य तान्सर्वान्मन्त्रयामास भारत ॥
अथ रात्र्यां व्यतीतायां भीमसेनो महाबलः ।
ब्राह्मणं समुपागम्य वचश्चेदमुवाच ह ॥
आपदस्त्वां विमोक्ष्येऽहं सपुत्रं ब्राह्मण प्रियम् ।
मा भैषी राक्षसात्तस्मान्मां ददातु बलिं भवान् ॥
इद मामशितं कर्तुं प्रयतस्व सकृद्गृहे ।
आथात्मानं प्रादास्यामि तस्मै घोराय रक्षसे ॥
त्वरध्वं किं विलम्बध्वे मा चिरं कुरुतानघाः ।
व्यवस्येयं मनः प्राणैर्युष्मान्रक्षितुमद्य वै ॥
वैशंपायन उवाच ।
एवमुक्तः स भीमेन ब्राह्मणो भरतर्षभ ।
सुहृदां तत्समाख्याय ददावन्नं सुसंस्कृतम् ॥
पिशितोदनमाजह्रुरथास्मै पुरवासिनः ।
सघृतं सोपदंशं च सूपैर्नानाविधैः सह ॥
तदाऽशित्वा भीमसेनो मांसानि विविधानि च ।
मोदकानि च मुख्यानि चित्रोदनचयान्बहून् ॥
ततोऽपिबद्दधिघटान्सुबहून्द्रोणसंमितान् ।
तस्य भुक्तवतः पौरा यथावत्समुपार्जितान् ॥
उपजह्रुर्भृतं भागं समृद्धमनसस्तदा ।
ततो रात्र्यां व्यतीतायां सव्यञ्जनदधिप्लुतम् ॥
समारुह्यान्नसंपूर्णं शकटं स वृकोदरः ।
प्रययौ तूर्यनिर्घोषैः पौरैश्च परिवारितः ॥
आत्मानमेषोऽन्नभूतो राक्षसाय प्रदास्यति ।
तरुणोऽप्रतिरूपश्च दृढ औदरिको युवा ॥
वाग्भिरेवंप्रकाराभिः स्तूयमानो वृकोदरः ।
चुचोद स बलीवर्दौ युक्तौ सर्वाङ्गकालकौ ॥
वादित्राणां प्रवादेन ततस्तं पुरुषादकम् ।
अभ्यगच्छत्सुसंहृष्टः सर्वत्र मनुजैर्वृतः ॥
संप्राप्य स च तं देशमेकाकी समुपाययौ ।
पुरुषादभयाद्भीतस्तत्रैवासीज्जनव्रजः ॥
स गत्वा दूरमध्वानं दक्षिणामभितो दिशम् ।
यतोपदिष्टमुद्देशे ददर्श विपुलं द्रुमम् ॥
केशमज्जास्थिमेदोभिर्बाहूरुचरणैरपि ।
आर्द्रैः शुष्कैश्च संकीर्णमभितोऽथ वनस्पतिम् ॥
गृध्रकङ्कबलच्छन्नं गोमायुगणसेवितम् ।
उग्रगन्धमचक्षुष्यं श्मशानमिव दारुणम् ॥
तं प्रविश्य महावृक्षं चिन्तयामास वीर्यवान् ।
यावन्न पश्यते रक्षो बकाभिख्यं बलोत्तरम् ॥
आचितं विविधैर्भोज्यैरन्नैरुच्चावचैरिदम् ।
शकटं सूपसंपूर्णं यावद्द्रक्ष्यति राक्षसः ॥
तावदेवेह भोक्ष्येऽहं दुर्लभं हि पुनर्भवेत् ।
विप्रकीर्येत सर्वं हि प्रयुद्धे मयि रक्षसा ॥
अभोज्यं हि शवस्पर्शे निगृहीते बके भवेत् ।
स त्वेवं भीमकर्मा तु भीमसेनोऽभिलक्ष्य च ॥
उपविश्य विविक्तेऽन्नं भुङ्क्ते स्म परमं परः ।
तं ततः सर्वतोऽपश्यन्द्रुमानारुह्य नागराः ॥
नारक्षो बलिमश्नीयादेवं बहु च मानवाः ।
भुङ्क्ते ब्राह्मणरूपेण बकोऽयमिति चाब्रुवन् ॥
स तं हसति तेजस्वी तदन्नमुपभुज्य च ।' आसाद्य तु वनं तस्य रक्षसः पाण्डवो बली ।
आजुहाव ततो नाम्ना तदन्नमुपपादयन् ॥
ततः स राक्षसः क्रुद्धो भीमस्य वचनात्तदा ।
आजगाम सुसंक्रुद्धो यत्र भीमो व्यवस्थितः ॥
महाकायो महावेगो दारयन्निव मेदिनीम् ।
लोहिताक्षः करालश्च लोहितश्मश्रुमूर्धजः ॥
आकर्णाद्भिन्नवक्त्रश्च शङ्कुकर्णो विभीषणः ।
त्रिशिखां भ्रुकुटिं कृत्वा संदश्य दशनच्छदम् ॥
भुञ्जानमन्नं तं दृष्ट्वा भीमसेनं स राक्षसः ।
विवृत्य नयने क्रुद्ध इदं वचनमब्रवीत् ॥
कोऽयमन्नमिदं भुङ्क्ते मदर्थमुपकल्पितम् ।
पश्यतो मम दुर्बुद्धिर्यियासुर्यमसादनम् ॥
भीमसेनस्ततः श्रुत्वा प्रहसन्निव भारत ।
राक्षसं तमनादृत्य भुङ्क्त एव पराङ्मुखः ॥
रवं स भैरवं कृत्वा समुद्यम्य करावुभौ ।
अभ्यद्रवद्भीमसेनं जिङांसुः पुरुषादकः ॥
तथापि परिभूयैनं प्रेक्षमाणो वृकोदरः ।
राक्षसं भुङ्क्त एवान्नं पाण्डवः परवीरहा ॥
अमर्षेण तु संपूर्णः कुन्तीपुत्रं वृकोदरम् ।
जघान पृष्ठे पाणिभ्यामुभाभ्यां पृष्ठतः स्थितः ॥
तथा बलवता भीमः पाणिभ्यां भृशमाहतः ।
नैवावलोकयामास राक्षसं भुङ्क्त एव सः ॥
ततः स भूयः संक्रुद्धो वृक्षमादाय राक्षसः ।
ताडयिष्यंस्तदा भीमं पुनरभ्यद्रवद्बली ॥
क्षिप्तं क्रुद्धेन तं वृक्षं प्रतिजग्राह वीर्यवान् ।
सव्येन पाणिना भीमो दक्षिणेनाप्यभुङ्क्त ह ॥
`शकटान्नं ततो भुक्त्वा रक्षसः पाणिना सह ।
गृह्णन्नेव तदा वृक्षं निःशेषं पर्वतोपमम् ॥
भीमसेनो हसन्नेव भुक्त्वा त्यक्त्वा च राक्षसम् ।
पीत्वा दधिघटान्पूर्णान्घृतकुम्भाञ्शतं शतम् ॥
वार्युपस्पृश्य संहृष्टस्तस्थौ गिरिरिवापरः ।
भ्रामयन्तं महावृक्षमायान्तं भीमदर्शनम् ॥
दृष्ट्वोत्थायाहवे वीरः सिंहनादं व्यनादयत् ।
भुजवेगं तथाऽऽस्फोटं क्ष्वेलितं च महास्वनम् ॥
कृत्वाऽऽह्वयत संक्रुद्धो भीमसेनोऽथ राक्षसम् ।
उवाचाशनिशब्देन ध्वनिना भीषयन्निव ॥
भीम उवाच ।
बहुकालं सुपुष्टं ते शरीरं राक्षसाधम ।
द्विपच्चतुष्पन्मांसैश्च बहुभिश्चौदनैरपि ॥
मद्बाहुबलमाश्रित्य न त्वं भूयस्त्वशिष्यसि ।
अद्य मद्बाहुनिष्पिष्टो गमिष्यसि यमालयम् ॥
अद्यप्रभृति स्वप्स्यन्ति वेत्रकीयनिवासिनः ।
निरुद्विग्नाः पुरस्यास्य कण्टके सूद्धृते मया ॥
अद्य युद्धे शरीरं ते कङ्कगोमायुवायसाः ।
मया हतस्य खादन्तु विकर्षन्तु च भूतले ॥
वैशंपायन उवाच ।
एवमुक्त्वा सुसंक्रुद्धः पार्थो बकजिघांसया ।
उपाधावद्बकश्चापि पार्थं पार्थिवसत्तम ॥
महाकायो महावेगो दारयन्निव मेदिनीम् ।
पिशङ्गरूपः पिङ्गाक्षो भीमसेनमभिद्रवत् ॥
त्रिशिखां भ्रुकुटीं कृत्वा संदश्य दशनच्छदम् ।
भृशं स भूयः संक्रुद्धो वृक्षमादाय राक्षसः ॥
ताडयिष्यंस्तदा भीमं तरसाऽभ्यद्रवद्बली ।
क्रुद्धेनाभिहतं वृक्षं प्रतिजग्राह लीलया ॥
सव्येन पाणिना भीमः प्रहसन्निव भारत ।
ततः स पुनरुद्यम्य वृक्षान्बहुविधान्बली ॥
प्राहिणोद्भीमसेनाय बकोऽपि बलवान्रणे ।
सर्वानपोहयद्वृक्षान्स्वस्य हस्तस्य शाखया ॥
तद्वृक्षयुद्धमभवद्वृक्षषण्डविनाशनम् ॥
महत्सुघोरं राजेन्द्र बकपाण्डवयोस्तदा ॥
नाम विश्राव्य स बकः समभिद्रुत्य पाण्डवम् ।
समयुध्यत तीव्रेण वेगेन पुरुषादकः ॥
तयोर्वेगेन महता पृथिवी समकम्पत ।
पादपांश्च महामात्रांश्चूर्णयामासतुः क्षणात् ॥
द्रुतमागत्य पाणिभ्यां गृहीत्वा चैनमाक्षिपत् ।
आक्षिप्तो भीमसेनश्च पुनरेवोत्थितो हसन् ॥
आलिङ्ग्यापि बकं भीमो न्यहनद्वसुधातले ।
भीमो विसर्जयित्वैनं समाश्वसिहि राक्षस ॥
इत्युक्त्वा पुनरास्फोट्य उत्तिष्ठेति च सोऽब्रवीत् ।
समुत्पत्य ततः क्रुद्धो रूपं कृत्वा महत्तरम् ॥
विरूपः सहसा तस्थौ2 तर्जयित्वा वृकोदरम् ।
अहसद्भीमसेनोऽपि राक्षसं भीमदर्शनम् ॥
असौ गृहीत्वा पाणिभ्यां पृष्ठतश्च व्यवस्थितः ।
जानुभ्यां पीडयित्वाथ पातयामास भूतले ॥
पुनः क्रुद्धो विसृज्यैनं राक्षसं क्रोधजीवितम् ।
स्वां कटीमीषदुन्नम्य बाहू तस्य परामृशत् ॥
तस्य बाहू समादाय त्वरमाणो वृकोदरः ।
उत्क्षिप्य चावधूयैनं पातयन्बलवान्भुवि ॥
तं तु वामेन पादेन क्रुद्धो भीमपराक्रमः ।
उरस्येनं समाजघ्ने भीमस्तु पतितं भुवि ॥
व्यात्ताननेन घोरेण लम्बजिह्वेन रक्षसा ।
तेनाभिद्रुत्य भीमेन भीमो मूर्ध्नि समाहतः ॥
एवं निहन्यमानः स राक्षसेन बलीयसा ।
रोषेण महताऽऽविष्टो भीमो भीमपराक्रमः ॥
गृहीत्वा मध्यमुत्क्षिप्य बली जग्राह राक्षसम् ।
तावन्योन्यं पीडयन्तौ पुरुषादवृकोदरौ ॥
मत्ताविव महानागावन्योन्यं विचकर्षतुः ॥
बाहुविक्षेपशब्दैश्च भीमराक्षसयोस्तदा । वेत्रकीयपुरी सर्वा वित्रस्ता समपद्यत ॥'
तयोर्वेगेन महता तत्र भूमिरकम्पत ।
पादपान्वीरुधश्चैव चूर्णयामासतू रयात् ॥
समागतौ च तौ वीरावन्योन्यवधकाङ्क्षिणौ ।
गिरिभिर्गिरिशृह्गैश्च पाषाणैः पर्वतच्युतैः ॥
अन्योन्यं ताडयन्तौ तौ चूर्णयामासतुस्तदा ।
आयामविस्तराभ्यां च परितो योजनद्वयम् ॥
निर्महीरुहपाषाणतृणकुञ्जलतावलिम् ।
चक्रतुर्युद्धदुर्मत्तौ कूर्मपृष्ठोपमां महीम् ॥
मुहूर्तमेवं संयुध्य समं रक्षःकुरूद्वहौ ।
ततो रक्षोविनाशाय मतिं कृत्वा कुरूत्तमः ॥
दन्तान्कटकटीकृत्य दष्ट्वा च दशनच्छदम् ।
नेत्रे संवृत्य विकटं तिर्यक्प्रैक्षत राक्षसम् ॥
अथ तं लोलयित्वा तु भीमसेनो महाबलः ।
अगृह्णात्परिरभ्यैनं बाहुभ्यां परिरभ्य च ॥
जानुभ्यां पार्श्वयोः कुक्षौ पृष्ठे वक्षसि जघ्निवान् ।
भग्नोरुबाहुहृच्चैव विस्रंसद्देहबन्धनः ॥
प्रस्वेददीर्घनिश्वासो निर्यञ्जीवाक्षितारकः ।
अजाण्डास्फोटनं कुर्वन्नाक्रोशंश्च श्वसञ्छनैः ॥
भूमौ निपत्य विलुठन्दण्डाहत इवोरगः ।
विस्फुरन्तं महाकायं परितो विचकर्ष ह ॥
विकृष्यमाणो वेगेन पाण्डवेन बलीयसा । समयुज्यत तीव्रेण श्रमेण पुरुषादकः ॥'
हीयमानबलं रक्षः समीक्ष्य पुरुषर्षभः ।
निष्पिष्य भूमौ जानुभ्यां समाजघ्ने वृकोदरः ॥
ततो ।ञस्य जानुना पृष्ठमवपीड्य बलादिव ।
बाहुना परिजग्राह दक्षिणेन शिरोधराम् ॥
सव्येन च कटीदेशे गृह्य वाससि पाण्डवः ।
जानुन्यारोप्य तत्पृष्ठं महाशब्दं बभञ्ज ह ॥
ततोऽस्य रुधिरं वक्त्रात्प्रादुरासीद्विशांपते ।
भज्यमानस्य भीमेन तस्य घोरस्य रक्षसः ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि बकवधपर्वणि सप्तसप्तत्यधिकशततमोऽध्यायः ॥ 177 ॥

1-177-31 त्रिशिखां त्रिरेखाम् ॥ सप्तसप्तत्यधिकशततमोऽध्यायः ॥ 177 ॥

अध्यायः 178

बकवधानन्तरं समागतानां तत्परिवाराणां भीमेन समयकरणम् ॥ 1 ॥ नगरद्वारदेशे बकशरीरं निधाय ब्राह्मणगृहमा गत्य भीमेन कुन्त्यादीन्प्रति बकवृत्तान्तकथनम् ॥ 2 ॥ मृतबकदर्शार्थं पौराणां गमनम् ॥ 3 ॥ ब्रह्ममहोत्सवकरणम् ॥ 4 ॥ बकवधेन पौराणां भीमसेवनम् ॥ 5 ॥

वैशंपायन उवाच ।
ततः स भग्नपार्श्वाङ्गो नदित्वा भैरवं रवम् ।
शैलराजप्रतीकाशो गतासुरभवद्बकः ॥
तेन शब्देन वित्रस्तो जनस्तस्याथ रक्षसः ।
निष्पपात गृहाद्राजन्सहैव परिचारिभिः ॥
`बकानुजस्तदा राजन्भीमं शरणमेयिवान् । ततस्तु निहतं दृष्ट्वा राक्षसेन्द्रं महाबलम् ।
राक्षसाः परमत्रस्ता भीमं शऱणमाययुः ॥'
तान्भीतान्विगतज्ञानान्भीमः प्रहरतां वरः ।
सांत्वयामास बलवान्समये च न्यवेशयत् ॥
न हिंस्या मानुषा भूयो युष्माभिरिति कर्हिचित् ।
हिंसतां हि वधः शीघ्रमेवमेव भवेदिति ॥
तस्य तद्वचनं श्रुत्वा तानि रक्षांसि भारत ।
एवमस्त्विति तं प्राहुर्जगृहुः समयं च तम् ॥
`सगणस्तु बकभ्राता प्राणमत्पाण्डवं तदा ।' ततः प्रभृति रक्षांसि तत्र सौम्यानि भारत ।
नगरे प्रत्यदृश्यन्त नरैर्नगरवासिभिः ॥
ततो भीमस्तमादाय गतासुं पुरुषादकम् । `निष्कर्णनेत्रं निर्जिह्वं निःसंज्ञं कण्ठपीडनात् ।
कुर्वन्बहुविधां चेष्टां पुरद्वारमकर्षत ॥
द्वारदेशे विनिक्षिप्य पुरमागात्स मारुतिः ।
स एव राक्षसो नूनं पुनरायाति नः पुरीम् ॥
सबालवृद्धाः पुरुषा इति भीताः प्रदुद्रुवुः ।
ततो भीमो बकं हत्वा गत्वा ब्राह्मणवेश्म तत् ॥
बलीवर्दौ च शकटं ब्राह्मणाय न्यवेदयत् ।
तूष्णीमन्तर्गृहं गच्छेत्यभिधाय द्विजोत्तमम् ॥
मातृभ्रातृसमक्षं च गत्वा शयनमेव च । आचचक्षेऽथ तत्सर्वं रात्रौ युद्धमभूद्यथा ॥'
ततो नरा विनिष्क्रान्ता नगरात्कल्यमेव तु ।
ददृशुर्निहतं भूमौ राक्षसं रुधिरोक्षितम् ॥
तमद्रिकूटसदृशं विनिकीर्णं भयानकम् ।
दृष्ट्वा संहृष्टरोमाणो बभूवुस्तत्र नागराः ॥
एकचक्रां ततो गत्वा प्रवृत्तिं प्रददुः पुरे ।
ततः सहस्रशो राजन्नरा नगरवासिनः ॥
तत्राजग्मुर्बकं द्रष्टुं सस्त्रीवृद्धकुमारकाः । ततस्ते विस्मिताः सर्वे कर्म दृष्ट्वाऽतिमानुषम् ।
दैवतान्यर्चयाञ्चक्रुः प्रार्थितानि पुरा भयात् ॥
ततः प्रगणयामासुः कस्य वारोऽद्य भोजने ।
ज्ञात्वा चागम्य तं विप्रं पप्रच्छुः सर्व एव ते ॥
एवं पृष्टः स बहुशो रक्षमाणश्च पाण्डवान् ।
उवाच नागरान्सर्वानिदं विप्रर्षभस्तदा ॥
ब्राह्मण उवाच ।
आज्ञापितं मामशने रुदन्तं सह बन्धुभिः ।
ददर्श ब्राह्मणः कश्चिन्मन्त्रसिद्धो महामनाः ॥
परिपृच्छ्य स मां पूर्वं परिक्लेशं पुरस्य च ।
अब्रवीद्ब्राह्मणश्रेष्ठो विश्वास्य प्रहसन्निव ॥
प्रापयिष्याम्यहं तस्मा अन्नमेतद्दुरात्मने ।
मन्निमित्तं भयं चापि न कार्यमिति चाब्रवीत् ॥
स तदन्नमुपादाय गतो बकवनं प्रति ।
तेन नूनं भवेदेतत्कर्म लोकहितं कृतम् ॥
ततस्ते ब्राह्मणाः सर्वे क्षत्रियाश्च सुविस्मिताः ।
वैश्याः शूद्राश्च मुदिताश्चक्रुर्ब्रह्ममहं तदा ॥
ततो जानपदाः सर्वे आजग्मुर्नगरं प्रति ।
तमद्भुततमं द्रष्टुं पार्थास्तत्रैव चावसन् ॥
वेत्रकीयगृहे सर्वे परिवार्य वृकोदरम् ।
विस्मयादभ्यगच्छन्त भीमं भीमपराक्रमम् ॥
न वै न संभवेत्सर्वं ब्राह्मणेषु महात्मसु ।
इति सत्कृत्य तं पौराः परिवव्रुः समन्ततः ॥
अयं त्राता हि खेदानां पितेव परमार्थतः ।
अस्य शुश्रूषवः पादौ परिचर्य उपास्महे ॥
पशुमद्दधिमनच्चास्य वारं भक्तमुपाहरन् ।
तस्मिन्हते ते पुरुषा भीताः समनुबोधनाः ॥
ततः संप्राद्रवन्पार्थाः सह मात्रा परन्तपाः ।
आगच्छन्नेकचक्रां ते गाण्डवाः संशितव्रताः ॥
वैदिकाध्ययने युक्ता जटिला ब्रह्मचारिणः । अवसंस्ते च तत्रापि ब्राह्मणस्य निवेशने ।
मात्रर सहैकचक्रायां दीर्घकालं सहोषिताः ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि बकवधपर्वणि अष्टसप्तत्यधिकशततमोऽध्यायः ॥ 178 ॥ ॥ समाप्तं च बकवधपर्व ॥

1-178-13 कल्यं प्रातःकाले ॥ 1-178-19 आज्ञापितं राजकीयैरिति शेषः । अशने राक्षसस्य भोजनार्थम् ॥ अष्टसप्तत्यधिकशततमोऽध्यायः ॥ 178 ॥

अध्यायः 179

(अथ चैत्ररथपर्व ॥ 11 ॥)

ब्राह्मणगृहे प्रतिश्रयार्थमागतस्य कस्यचिद्ब्राह्मणस्य मुखात् पाण्डवानां द्रौपदीस्वयंवरश्रवणम् ॥ 1 ॥ पाण्डवकृतधृष्टद्युन्नद्रौपदीसंभवप्रश्नस्य ब्राह्मणेनोत्तरकथनम् ॥ 2 ॥

जनमेजय उवाच ।
ते तथा पुरुषव्याघ्रा निहत्य बकराक्षसम् ।
अत ऊर्ध्वं ततो ब्रह्मन्किमकुर्वत पाण्डवाः ॥
वैशंपायन उवाच ।
तत्रैव न्यवसन्राजन्निहत्य बकराक्षसम् ।
अधीयानाः परं ब्रह्म ब्राह्मणस्य निवेशने ॥
ततः कतिपयाहस्य ब्राह्मणः संशितव्रतः ।
प्रतिश्रयार्थी तद्वेश्म ब्राह्मणस्याजगाम ह ॥
स म्यक् पूजयित्वा तं विप्रं विप्रर्षभस्तदा ।
ददौ प्रतिश्रयं तस्मै सदा सर्वातिथिव्रतः ॥
ततस्ते पाण्डवाः सर्वे सह कुन्त्या नरर्षभाः ।
उपासाञ्चक्रिरे विप्रं कथयन्तं कथाः शुभाः ॥
कथयामास देशांश्च तीर्थानि सरितस्तथा ।
राज्ञश्च विविधाश्चर्यान्देशांश्चैव पुराणि च ॥
स तत्राकथयद्विप्रः कथान्ते जनमेजय ।
पञ्चालेष्वद्भुताकारं याज्ञसेन्याः स्वयंवरम् ॥
धृष्टद्युम्नस्य चोत्पत्तिमुत्पत्तिं च शिखण्डिनः ।
अयोनिजत्वं कृष्णाया द्रुपदस्य महामखे ॥
तदद्भुततमं श्रुत्वा लोके तस्य महात्मनः ।
विस्तरेणैव पप्रच्छुः कथां ते पुरुषर्षभाः ॥
पाण्डवा ऊचुः ।
कथं द्रुपदपुत्रस्य धृष्टद्युम्नस्य पावकात् ।
वेदीमध्याच्च कृष्णायाः संभवः कथमद्भुतः ॥
कथं द्रोणान्महेष्वासात्सर्वाण्यस्त्राण्यशिक्षत । `धृष्टद्युम्नो महेष्वासः कथं द्रोणस्य मृत्युदः ।'
कथं विप्र सखायौ तौ भिन्नौ कस्य कृतेन वा ॥
वैशंपायन उवाच ।
एवं तैश्चोदितो राजन्स विप्रः पुरुषर्षभैः ।
कथयामास तत्सर्वं द्रौपदीसंभवं तदा ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि चैत्ररथपर्वणि ऊनाशीत्यधिकशततमोऽध्यायः ॥ 179 ॥

1-179-7 याज्ञसेन्याः द्रौपद्याः ॥ 7 ॥ ऊनाशीत्यधिकशततमोऽध्यायः ॥ 179 ॥

अध्यायः 180

धृष्टद्युम्नाद्युत्पत्तिकथनार्थं द्रोणद्रुपदयोरुत्पत्तिकथनपूर्वकं द्रुपदवृत्तान्तकथनम् ॥ 1 ॥

ब्राह्मण उवाच ।
गङ्गाद्वारं प्रति महान्बभूवर्षिर्महातपाः ।
भरद्वाजो महाप्राज्ञः सततं संशितव्रतः ॥
सोऽभिषेक्तुं गतो गङ्गां पूर्वमेवागतां सतीम् ।
ददर्शाप्सरसं तत्र घृताचीमाप्लुतामृषिः ॥
तस्या वायुर्नदीतीरे वसनं व्यहरत्तदा ।
अपकृष्टाम्बरां दृष्ट्वा तामृषिश्चकमे तदा ॥
तस्यां संसक्तमनसः कौमारब्रह्मचारिणः ।
चिरस्य रेतश्चस्कन्द तदृषिर्द्रोण आदधे ॥
ततः समभवद्द्रोणः कुमारस्तस्य धीमतः ।
अध्यगीष्ट स वेदांश्च वेदाङ्गानि च सर्वशः ॥
भरद्वाजस्य तु सखा पृषतो नाम पार्थिवः ।
तस्यापि द्रुपदो नाम तदा समभवत्सुतः ॥
स नित्यमाश्रमं गत्वा द्रोणेन सह पार्षतः ।
चिक्रीडाध्ययनं चैव चकार क्षत्रियर्षभः ॥
ततस्तु पृषतेऽतीते स राजा द्रुपदोऽभवत् ।
द्रोणोऽपि रामं शुश्राव दित्सन्तं वसु सर्वशः ॥
वनं तु प्रस्थितं रामं भरद्वाजसुतोऽब्रवीत् ।
आगतं वित्तकामं मां विद्धि द्रोणं द्विजोत्तम ॥
राम उवाच ।
शरीरमात्रमेवाद्य मया समवशेषितम् ।
अस्त्राणि वा शरीरं वा ब्रह्मन्नेकतमं वृणु ॥
द्रोण उवाच ।
अस्त्राणि चैव सर्वाणि तेषां संहारमेव च ।
प्रयोगं चैव सर्वेषां दातुमर्हति मे भवान् ॥
ब्राह्मण उवाच ।
तथेत्युक्त्वा ततस्तस्मै प्रददौ भृगुनन्दनः ।
प्रतिगृह्य तदा द्रोणः कृतकृत्योऽभवत्तदा ॥
संप्रहृष्टमना द्रोणो रामात्परमसम्मतम् ।
ब्रह्मास्त्रं समनुज्ञाप्य नरेष्वभ्यधिकोऽभवत् ॥
ततो द्रुपदमासाद्य भारद्वाजः प्रतापवान् ।
अब्रवीत्पुरुषव्याघ्रः सखायं विद्धि मामिति ॥
द्रुपद उवाच ।
नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा ।
नाराजा पार्थिवस्यापि सखिपूर्वं किमिष्यते ॥
ब्राह्मण उवाच ।
स विनिश्चित्य मनसा पाञ्चाल्यं प्रति बुद्धिमान् ।
जगाम कुरुमुख्यानां नगरं नागसाह्वयम् ॥
तस्मै पौत्रान्समादाय वसूनि विविधानि च ।
प्राप्ताय प्रददौ भीष्मः शिष्यान्द्रोणाय धीमते ॥
द्रोणः शिष्यांस्ततः पार्थानिदं वचनमब्रवीत् ।
समानीय तु ताञ्शिष्यान्द्रुपदस्यासुखाय वै ॥
आचार्यवेतनं किंचिद्धृदि यद्वर्तते मम । कृतास्त्रैस्तत्प्रदेयं स्यात्तदृतं वदतानघाः ।
सोऽर्जुनप्रमुखैरुक्तस्तथाऽस्त्विति गुरुस्तदा ॥
यदा च पाण्डवाः सर्वे कृतास्त्राः कृतनिश्चयाः ।
ततो द्रोणोऽब्रवीद्भूयो वेतनार्थमिदं वचः ॥
पार्षतो द्रुपदो नाम छत्रवत्यां नरेश्वरः ।
तस्मादाकृष्य तद्राज्यं मम शीघ्रं प्रदीयताम् ॥
`धार्तराष्ट्राश्च ते भीताः पाञ्चालान्पाण्डवादयः ।
धार्तराष्ट्रैश्च सहिताः पुनर्द्रोणेन चोदिताः ॥
यज्ञसेनेन संगम्य कर्णदुर्योधनादयः । निर्जिताः संन्यवर्तन्त तथा ते क्षत्रियर्षभाः ॥'
ततः पाण्डुसुताः पञ्च निर्जित्य द्रुपदं युधि ।
द्रोणाय दर्शयामासुर्बद्ध्वा ससचिवं तदा ॥
`महेन्द्र इव दुर्धर्षो महेन्द्र इव दानवम् ।
महेन्द्रपुत्रः पाञ्चालं जितवानर्जुनस्तदा ॥
तद्दृष्ट्वा तु महावीर्यं फल्गुनस्य महौजसः । व्यस्मयन्त जनाः सर्वे यज्ञसेनस्य बान्धवाः ।
द्रोण उवाच ।
प्रार्थयामि त्वया सख्यं पुनरेव नराधिप ।
अराजा किल नो राज्ञः सखा भवितुमर्हति ॥
अतः प्रयतितं राज्ये यज्ञसेन त्वया सह ।
राजाऽसि दक्षिणे कूले भागीरथ्याहमुत्तरे ॥
ब्राह्मण उवाच ।
एवमुक्तो हि पाञ्चाल्यो भारद्वाजेन धीमता ।
उवाचास्त्रविदां श्रेष्ठं द्रोणं ब्राह्मणसत्तमम् ॥
एवं भवतु भद्रं ते भारद्वाज महामते ।
सख्यं तदेव भवतु शश्वद्यदभिमन्यसे ॥
एवमन्योन्यमुक्त्वा तौ कृत्वा सख्यमनुत्तमम् ।
जग्मतुर्द्रोणपाञ्चाल्यौ यथागतमरिन्दमौ ॥
असत्कारः स तु महान्मुहूर्तमपि तस्य तु ।
नापैति हृदयाद्राज्ञो दुर्मनाः स कृशोऽभवत् ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि चैत्ररथपर्वणि अशीत्यधिकशततमोऽध्यायः ॥ 180 ॥

1-180-10 एकतममेकतरम् ॥ 1-180-13 समनुज्ञप्य निशम्य । प्राप्येत्यपि पठन्ति ॥ 1-180-21 छत्रवत्यामहिच्छत्रे ॥ 1-180-28 भागीरथ्याहमिति संधिरार्षः ॥ अशीत्यधिकशततमोऽध्यायः ॥ 180 ॥

अध्यायः 181

द्रोणहन्तृपुत्रोत्पादनेच्छया याजकान्वेषणार्थमतटो द्रुपदस्य उपयाजवचनेन याजसमीपगमनम् ॥ 1 ॥ पुत्रार्थं यज्ञे आरब्धे अग्निकुण्डाद्धृष्टद्युम्नस्योत्पत्तिस्तच्चरितमाकाशवाणी च ॥ 2 ॥ पाञ्चाल्या उत्पत्तिः ॥ 3 ॥ तयोर्नामकरणम् ॥ 4 ॥ द्रोणेन धृष्टद्युम्नस्यास्त्रशिक्षणम् ॥ 5 ॥

ब्राह्मण उवाच ।
अमर्षी द्रुपदो राजा कर्मसिद्धान्द्विजर्षभान् ।
अन्विच्छन्परिचक्राम ब्राह्मणावसथान्बहून् ॥
पुत्रजन्म परीप्सन्वै शोकोपहतचेतनः । `द्रोणेन वैरं द्रुपदो न सुष्वाप स्मरन्सदा ।'
नास्ति श्रेष्ठमपत्यं म इति नित्यमचिन्तयत् ॥
जातान्पुत्रान्स निर्वेदाद्धिग्बन्धूनिति चाब्रवीत् ।
निःश्वासपरमश्चासीद्द्रोणं प्रतिचिकीर्षया ॥
प्रभावं विनयं शिक्षां द्रोणस्य चरितानि च ।
क्षात्रेण च बलेनास्य चिन्तयन्नाध्यगच्छत ॥
प्रतिकर्तुं नृपश्रेष्ठो यतमानोऽपि भारत ।
अभितः सोऽथ कल्माषीं गङ्गाकूले परिभ्रमन् ॥
ब्राह्मणावसथं पुम्यमाससाद महीपतिः ।
तत्र नास्नातकः कश्चिन्न चासीदव्रती द्विजः ॥
अधीयानौ महाभागौ सोऽपश्यत्संशितव्रतौ ।
याजोपयाजौ ब्रह्मर्षी शाम्यन्तौ परमेष्ठिनौ ॥
संहिताध्ययने युक्तौ गोत्रतश्चापि काश्यपौ ।
तारणेयौ युक्तरूपौ ब्राह्मणावृषिसत्तमौ ॥
स तावामन्त्रयामास सर्वकामैरतन्द्रितः ।
बुद्ध्वा बलं तयोस्तत्र कनीयांसमुपह्वरे ॥
प्रपेदे च्छन्दयन्कामैरुपयाजं धृतव्रतम् ।
पादशुश्रूषणे युक्तः प्रियवाक्सर्वकामदः ॥
अर्चयित्वा यथान्यायमुपयाजमुवाच सः ।
येन मे कर्मणा ब्रह्मन्पुत्रः स्याद्द्रोणमृत्यवे ॥
`अर्जुनस्य भवेद्भार्या भवेद्या वरवर्णिनी ।' उपयाज कृते तस्मिन् गवां दाताऽस्मि तेऽर्बुदं ॥
यद्वा तेऽन्यद्द्विजश्रेष्ठ मनसः सुप्रियं भवेत् ।
सर्वं तत्ते प्रदाताऽहं न हि मेऽत्रास्ति संशयः ॥
इत्युक्तो नाहमित्येवं तमृषिः प्रत्यभाषत ।
आराधयिष्यन्द्रुपदः स तं पर्यचरत्पुनः ॥
ततः संवत्सरस्यान्ते द्रुपदं स द्विजोत्तमः ।
उपयाजोऽब्रवीत्काले राजन्मधुरया गिरा ॥
ज्येष्ठो भ्राता ममागृह्माद्विचरन् गहने वने ।
अपरिज्ञातशौचायां भूमौ निपतितं फलम् ॥
तदपश्यमहं भ्रातुरसाम्प्रतमनुव्रजन् ।
विमर्शं संकरादाने नायं कुर्यात्कदाचन ॥
दृष्ट्वा फलस्य नापश्यद्दोषान्पापानुबन्धकान् ।
विविनक्ति न शौचं यः सोऽन्यत्रापि कथं भवेत् ॥
संहिताध्ययनं कुर्वन्वसन्गुरुकुले च यः ।
भैक्षमुत्सृष्टमन्येषां भुङ्क्ते स्म च यदा तदा ॥
कीर्तयन्गुणमन्नानामघृणी च पुनः पुनः ।
तं वै फलार्थिनं मन्ये भ्रातरं तर्कचक्षुषा ॥
तं वै गच्छस्व नृपते स त्वां संयाजयिष्यति ।
जुगुप्समानो नृपतिर्मनसेदं विचिन्तयन् ॥
उपयाजवचः श्रुत्वा याजस्याश्रममभ्यगात् ।
अभिसम्पूज्य पूजार्हमथ याजमुवाच ह ॥
अयुतानि ददान्यष्टौ गवां याजय मां विभो ।
द्रोणवैराभिसन्तप्तं प्रह्लादयितुमर्हसि ॥
स हि ब्रह्मविदां श्रेष्ठो ब्रह्मास्त्रे चाप्यनुत्तमः ।
तस्माद्द्रोणः पराजैष्ट मां वै स सखिविग्रहे ॥
क्षत्रियो नास्ति तस्यास्यां पृथिव्यां कश्चिदग्रणीः ।
कौरवाचायर्मुख्यस्य भारद्वाजस्य धीमतः ॥
द्रोणस्य शरजालानि प्राणिदेहहराणि च ।
षडरत्नि धनुश्चास्य दृश्यते परमं महत् ॥
स हि ब्राह्मणवेषेण क्षात्रं वेगमशंसयम् ।
प्रतिहन्ति महेष्वासो भारद्वाजो महामनाः ॥
क्षत्रोच्छेदाय विहितो जामदग्न्य इवास्थितः ।
तस्य ह्यस्त्रबलं घोरमप्रधृष्यं नरैर्भुवि ॥
ब्राह्मं सन्धारयंस्तेजो हुताहुतिरिवानलः ।
समेत्य स दहत्याजौ क्षात्रधर्मपुरःसरः ॥
ब्रह्मक्षत्रे च विहिते ब्राह्मं तेजो विशिष्यते ।
सोऽहं क्षात्राद्बलाद्धीनो ब्राह्मं तेजः प्रपेदिवान् ॥
द्रोणाद्विशिष्टमासाद्य भवन्तं ब्रह्मवित्तमम् ।
द्रोणान्तकमहं पुत्रं लभेयं युधि दुर्जयम् ॥
तत्कर्म कुरु मे मे याज वितराम्यर्बुदं गवाम् ।
तथेत्युक्त्वा तु तं याजो याज्यार्थमुपकल्पयत् ॥
गुर्वर्थ इति चाकाममुपयाजमचोदयत् ।
याजो द्रोणविनाशाय प्रतिजज्ञे तथा च सः ॥
ततस्तस्य नरेन्द्रस्य उपयाजो महातपाः ।
आचख्यौ कर्म वैतानं तदा पुत्रफलाय वै ॥
स च पुत्रो महावीर्यो महातेजा महाबलः ।
इष्यते यद्विधो राजन्भविता ते तथाविधः ॥
भारद्वाजस्य हन्तारं सोऽभिसन्धाय भूपतिः ।
आजह्वे तत्तथा सर्वं द्रुपदः कर्मसिद्धये ॥
याजस्तु हवनस्यान्ते देवीमाज्ञापयत्तदा ।
प्रेहि मां राज्ञि पृषति मिथुनं त्वामुपस्थितम् ॥
राज्ञ्युवाच ।
अवलिप्तं मुखं ब्रह्मन्दिव्यान्गन्धान्बिभर्मि च ।
सूतार्थे नोपलब्धाऽस्मि तिष्ठ याज मम प्रिये ॥
याज उवाच ।
याजेन श्रपितं हव्यमुपयाजाभिमन्त्रितम् ।
कथं कामं न सन्दध्यात्सा त्वं विप्रेहि तिष्ठ वा ॥
ब्राह्मण उवाच ।
एवमुक्त्वा तु याजेन हुते हविषि संस्कृते ।
उत्तस्थौ पावकात्तस्मात्कुमारो देवसन्निभिः ॥
ज्वालावर्णो घोररूपः किरीटी वर्म चोत्तमम् ।
बिभ्रत्सखङ्गः सशरो धनुष्मान्विनदन्मुहुः ॥
सोऽध्यारोदद्रथवरं तेन च प्रययौ तदा ।
ततः प्रणेदुः पञ्चालाः प्रहृष्टाः साधुसाध्विति ॥
हर्षाविष्टांस्ततश्चैतान्नेयं सेहे वसुन्धरा ।
भयापहो राजपुत्रः पञ्चालानां यशस्करः ॥
राज्ञः शोकापहो जात एष द्रोणवधाय वै ।
इत्युवाच महद्भूतमदृश्यं खेचरं तदा ॥
कुमारी चापि पाञ्चाली वेदीमध्यात्समुत्थिता ।
सुभगा दर्शनीयाङ्गी स्वसितायतलोचना ॥
श्यामा पद्मपलाशाक्षी नीलकुञ्चितमूर्धजा ।
ताम्रतुङ्गनखी सुभ्रूश्चारुपीनपयोधरा ॥
मानुषं विग्रहं कृत्वा साक्षादमरवर्णिनी ।
नीलोत्पलसमो गन्धो यस्याः क्रोशात्प्रधावति ॥
या बिभर्ति परं रूपं यस्या नास्त्युपमा भुवि ।
देवदानवयक्षाणामीप्सितां देवरूपिणीम् ॥
`सदृशी पाण्डुपुत्रस्य अर्जुनस्येति भारत । ऊचुः प्रहृष्टमनसो राजभक्तिपुरस्कृताः ॥'
तां चापि जातां सुश्रोणीं वागुवाचाशरीरिणी ।
सर्वयोषिद्वरा कृष्णा निनीषुः क्षत्रियान्क्षयम् ॥
सुरकार्यमियं काले करिष्यति सुमध्यमा ।
अस्या हेतोः कौरवाणां महदुत्पत्स्यते भयम् ॥
तच्छ्रुत्वा सर्वपञ्चालाः प्रणेदुः सिंहसङ्घवत् ।
न चैतान्हर्षसम्पूर्णानियं सेहे वसुन्धरा ॥
`पाञ्चालराजस्तां दृष्ट्वा हर्षादश्रूण्यवर्तयत् । परिष्वज्य च तां कृष्णां स्नुषा पाण्डोरिति ब्रुवन् ।
अङ्कमारोप्य पाञ्चालीं राजा हर्षमवाप सः ॥'
तौ दृष्ट्वा पार्षती याजं प्रपेदे वै सुतार्थिनी ।
न वै मदन्यां जननीं जानीयातामिमाविति ॥
तथेत्युवाच तां याजो राज्ञः प्रियचिकीर्षया ।
तयोश्च नामनी चक्रुर्द्विजाः सम्पूर्णमानसाः ॥
धृष्टत्वादत्यमर्षित्वाद्द्युम्नाद्युत्संभवादपि ।
धृष्टद्युम्नः कुमारोऽयं द्रुपदस्य भवत्विति ॥
कृष्णेत्येवाब्रुवकन्कृष्णां कृष्णा ।ञभूत्सा हि वर्णतः ।
तथा तन्मिथुनं जज्ञे द्रुपदस्य महामखे ॥
`वैदिकाध्ययने पारं धृष्टद्युम्नो गतः परम् ॥'
धृष्टद्युम्नं तु पाञ्चाल्यमानीय स्वं निवेशनम् ।
उपाकरोदस्त्रहेतोर्भारद्वाजः प्रतापवान् ॥
अमोक्षणीयं दैवं हि भावि मत्वा महामतिः ।
तथा तत्कृतवान्द्रोण आत्मकीर्त्यनुरक्षणात् ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि चैत्ररथपर्वमि एकाशीत्यधिकशततमोऽध्यायः ॥ 181 ॥

1-181-7 परमे ब्रह्मणि वेदे वा स्थातुं शीलं ययोस्तौ ॥ 1-181-8 तारणेयौ कुमारीप्रभवौ सूर्यभक्तौ वा ॥ 1-181-17 संकरादाने दोषयुक्तवस्त्वादाने ॥ 1-181-19 उत्सृष्टं उच्छिष्टम् ॥ 1-181-20 अघृणी लज्जाहीनः ॥ 1-181-21 इदं याजचरितं जुगुप्समानो निन्दन् । विचिन्तयन् स्वकार्यं चेति शेषः ॥ 1-181-23 अष्टावयुतानि ददानि । रिक्तपाणिर्न पश्येत राजानं देवतां गुरुमिति स्मृतेरुपायनमात्रमेतत् न दक्षिणा अर्वुदप्रतिज्ञानात् ॥ 1-181-24 पराजैष्ट पराजितवान् ॥ 1-181-25 तस्य तस्मात् । अग्रणीः श्रेष्ठः ॥ 1-181-56 धृष्टत्वात् प्रगल्भत्वात् । अत्यन्तममर्षः शत्रत्कर्षासहिष्णुत्वं तद्वत्त्वात् । द्युम्नं वित्तं तच्च राज्ञां बलमेव कवचकुण्डलादिकं वा सहोत्पन्नं तदादिर्यस्य शस्त्रास्त्रशौर्योत्साहादेस्तद्द्युम्नादि तस्योत्संभवादुत्कर्षेणोत्पत्तेश्च ॥ एकाशीत्यधिकशततमोऽध्यायः ॥ 181 ॥

अध्यायः 182

जनवार्तया दुर्योधनेन पाण्डवानां दाहं, स्वपुरोहितवचनेन नाशराहित्यं च, ज्ञातवता तेषां जीवने सन्दिहानेन द्रुपदेन उद्धोषितस्य पुत्रीस्वयंवरस्य कुन्तींप्रति ब्राह्मणेन कथनम् ॥ 1 ॥ युष्मासु तत्रागतेष्वीश्वरेच्छया त्वत्पुत्राणामन्यतमं पाञ्चाली वृणुयादपीत्युक्तवता ब्राह्मणेन सह पाण्डवानां पाञ्चालनगरं प्रति गमनम् ॥ 2 ॥

`ब्राह्मण उवाच ।
श्रुत्वा जतुगृहे वृत्तं ब्राह्मणाः संशितव्रताः ।
पाञ्चालराजं द्रुपदमिदं वचनमब्रुवन् ॥
धार्तराष्ट्राः सहामात्या मन्त्रयित्वा परस्परम् ।
पाण्डवानां विनाशाय मतिं चक्रुः सुदुष्कराम् ॥
दुर्योधनेन प्रहितः पुरोचन इति श्रुतः ।
वारणावतमासाद्य कृत्वा जतुगृहं महत् ॥
तस्मिन्गृहे सुविस्रब्धान्पाण्डवान्पृथया सह ।
अर्धरात्रे महाराज दग्धवानतिदुर्मतिः ॥
तेनाग्निना स्वयं चापि दग्धः क्षुद्रो नृशंसवत् ।
एतच्छ्रुत्वा सुसंहृष्टो धृतराष्ट्रः सबान्धवः ॥
अल्पशोकः प्रहृष्टात्मा शशास विदुरं तदा ।
पाण्डवानां महाप्राज्ञ कुरु पिण्डोदकक्रियाम् ॥
अहो विधिवशादेव गतास्ते यमसादनम् ।
इत्युक्त्वा प्रारदत्तत्र धृतराष्ट्रः सबान्धवः ॥
श्रुत्वा भीष्मेण विदुरः कृतवानौर्ध्वदेहिकम् ।
पाण्डवानां विनाशाय कृतं कर्म दुरात्मना ॥
एतत्कार्यस्य कर्ता तु न दृष्टो न श्रुतः पुरा ।
एतद्वृत्तं महाभाग पाण्डवान्प्रति नः श्रुतम् ॥
ब्राह्मण उवाच ।
श्रुत्वा तु वचनं तेषां यज्ञसेनो महामतिः ।
यथा तज्जनकः शोचेदौरसस्य विनाशे ॥
तथाऽतप्यत वै राजा पाण्डवानां विनाशने ।
समाहूय प्रकृतयः सहिताः सर्वनागरैः ॥
कारुण्यादेव पाञ्चालः प्रोवाचेदं वचस्तदा ।
द्रुपद उवाच ।
अहो रूपमहो धैर्यमहो वीर्यमहो बलम् ॥
चिन्तयामि दिवारात्रमर्जुनं प्रति बान्धवाः ।
भ्रातृभिः सहितो मात्रा सोऽदह्यत हुताशने ॥
किमाश्चर्यमितो लोके कालो हि दुरतिक्रमः ।
मिथ्याप्रतिज्ञो लोकेषु किं करिष्यामि सांप्रतं ॥
अन्तर्गतेन दुःखेन दह्यमानो दिवानिशम् ।
याजोपयाजौ सत्कृत्य याचितौ तौ मयाऽनघौ ॥
भारद्वाजस्य हन्तारं देवीं चाप्यर्जुनस्य वै ।
लोकस्तद्वेद यच्चापि तथा याजेन मे श्रुतम् ॥
याजेन पुत्रकामीयं हुत्वा चोत्पादिताविमौ ।
धृष्टद्युम्नश्च कृष्णा च मम तुष्टिकरावुभौ ॥
किं करिष्यामि ते नष्टाः पाण्डवाः पृथया सह ।
ब्राह्मण उवाच ।
इत्येवमुक्त्वा पाञ्चालः शुशोच परमातुरः ॥
दृष्ट्वा शोचन्तमत्यर्थं पाञ्चालमिदमब्रवीत् ।
पुरोधाः सत्वसंपन्नः सम्यग्विद्याविशेषवित् ॥
वृद्धानुशासने सक्ताः पाण्डवा धर्मचारिणः ।
तादृशा न विनश्यन्ति नैव यान्ति पराभवम् ॥
मया दृष्टमिदं सत्यं शृणु त्वं मनुजाधिप ।
ब्राह्मणैः कथितं सत्यं वेदेषु च मया श्रुतम् ॥
बृहस्पतिमतेनाथ पौलोम्या च पुरा श्रुतम् ।
नष्ट हन्द्रो बिसग्रन्थ्यामुपश्रुत्या हि दर्शितः ॥
उपश्रुतिर्महाराज पाण्डवार्थे मया श्रुता ।
यत्रकुत्रापि जीवन्ति पाण्डवास्ते न संशयः ॥
मया दृष्टानि लिङ्गानि इहैवैष्यन्ति पाण्डवाः ।
यन्निमित्तमिहायान्ति तच्छृणुष्व नराधिप ॥
स्वयंवरः क्षत्रियाणां कन्यादाने प्रदर्शितः ।
स्वयंवरस्तु नगरे घुष्यतां राजसत्तम ॥
यत्र वा निवसन्तस्ते पाण्डवाः पृथया सह ।
दूरस्था वा समीपस्था स्वर्गस्था वाऽपि पाण्डवाः ॥
श्रुत्वा स्वयंवरं राजन्समेष्यन्ति न संशयः ।
तस्मात्स्वयंवरो राजन्घुष्यतां मा चिरं कृथाः ॥
ब्राह्मण उवाच ।
श्रुत्वा पुरोहितेनोक्तं पाञ्चालः प्रीतिमांस्तदा ।
घोषयामास नगरे द्रौपद्यास्तु स्वयंवरम् ॥
पुष्यमासे तु रोहिण्यां शुक्लपक्षे शुभे तिथौ ।
दिवसैः पञ्चसप्तत्या भविष्यति न संशयः ॥
देवगन्धर्वयक्षाश्च ऋषयश्च तपोधनाः ।
स्वयंवरं द्रष्टुकामा गच्छन्त्येव न संशयः ॥
तव पुत्रा महात्मानो दर्शनीयो विशेषतः ।
यदृच्छया सा पाञ्चाली गच्छेद्वान्यतमं पतिम् ॥
को हि जानाति लोकेषु प्रजापतिमतं शुभण् ।
तस्मात्सपुत्रा गच्छेथा यदि ब्राह्मणि रोचते ॥
नित्यकालं सुभिक्षास्ते पाञ्चालास्तु तपोधने ।
यज्ञसेनस्तु राजा स ब्रह्मण्यः सत्यसङ्गरः ॥
ब्रह्मण्या नागराः सर्वे ब्राह्मणाश्चातिथिप्रियाः ।
नित्यकालं प्रदास्यन्ति आमन्त्रणमयाचितम् ॥
अहं च तत्र गच्छामि ममैभिः सह शिष्यकैः ।
एकसार्थाः प्रयाताः स्मो ब्राह्मण्या यदि रोचते ॥
एतावदुक्त्वा वचनं ब्राह्मणो विरराम ह ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि चैत्ररथपर्वणि द्व्यशीत्यधिकशततमोऽध्यायः ॥ 182 ॥

1-182-9 एतत्कार्यस्य एतादृशकार्यस्य ॥ 1-182-21 दृष्टं ऊहितम् ॥ द्व्यशीत्यधिकशततमोऽध्यायः ॥ 182 ॥

अध्यायः 183

पाण्डवानां द्रुपदनगरप्रथानम् ॥ 1 ॥

वैशंपायन उवाच ।
एतच्छ्रुत्वा ततः सर्वे पाण्डवा भरतर्षभ । मनसा द्रौपदीं जग्मुरनङ्गशरपीडिताः ॥'
ततस्तां रजनीं राजञ्छल्यविद्धा इवाभवन् ।
सर्वे चास्वस्थमनसो बभूवुस्ते महाबलाः ॥
ततः कुन्ती सुतान्दृष्ट्वा सर्वांस्तद्गतचेतसः ।
युधिष्ठिरमुवाचेदं वचनं सत्यवादिनी ॥
चिररात्रोषिताः स्मेह ब्राह्मणस्य निवेशने ।
रममाणाः पुरे रम्ये लब्धभैक्षा महात्मनः ॥
यानीह रमणीयानि वनान्युपवनानि च ।
सर्वाणि तानि दृष्टानि पुनःपुनररिन्दम ॥
पुनर्दृष्टानि तानीह प्रीणयन्ति न नस्तथा ।
भैक्षं च न तथा वीर लभ्यते कुरुनन्दन ॥
ते वयं साधु पञ्चालान्गच्छाम यदि मन्यसे ।
अपूर्वदर्शनं वीर रमणीयं भविष्यति ॥
सुभिक्षाश्चैव पञ्चालाः श्रूयन्ते शत्रुकर्शन ।
यज्ञसेनश्च राजाऽसौ ब्रह्मण्य इति सुश्रुम ॥
एकत्र चिरवासश्च क्षमो न च मतो मम ।
ते तत्र साधु गच्छामो यदि त्वं पुत्र मन्यसे ॥
युधिष्ठिर उवाच ।
भवत्या यन्मतं कार्यं तदस्माकं परं हितम् ।
अनुजांस्तु न जानामि गच्छेयुर्नेति वा पुनः ॥
वैशंपायन उवाच ।
ततः कुन्ती भीमसेनमर्जुनं यमजौ तथा ।
उवाच गमनं ते च तथेत्येवाब्रुवंस्तदा ॥
तत आमन्त्र्य तं विप्रं कुन्ती राजसुतैः सह ।
प्रतस्थे नगरीं रम्यां द्रुपदस्य महात्मनः ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि चैत्ररथपर्वणि त्र्यशीत्यधिकशततमोऽध्यायः ॥ 183 ॥

अध्यायः 184

प्रस्थानसमयागते व्यासेन पाण्डवान्प्रति द्रौपदीवृत्तान्तकथनपूर्वकं भविष्यद्द्रौपदीलाभकथनम् ॥ 1 ॥ व्यासस्य प्रतिनिवर्तनम् ॥ 2 ॥

वैशंपायन उवाच ।
वसत्सु तेषु प्रच्छन्नं पाण्डवेषु महात्मसु ।
आजगामाथ तान्द्रष्टुं व्यासः सत्यवतीसुतः ॥
तमागतमभिप्रेक्ष्य प्रत्युद्गम्य परन्तपाः ।
प्रणिपत्याभिवाद्यैनं तस्थुः प्राञ्जलयस्तदा ॥
समनुज्ञाप्य तान्सर्वानासीनान्मुनिरब्रवीत् ।
प्रच्छन्नं पूजितः पार्थैः प्रीतिपूर्वमिदं वचः ॥
अपि धर्मेण वर्तध्वं शास्त्रेण च परन्तपाः ।
अपि विप्रेषु पूजा वः पूजार्हेषु न हीयते ॥
अथ धर्मार्थवद्वाक्यमुक्त्वा स भगवानृषिः ।
विचित्राश्च कथास्तास्ताः पुनरेवेदमब्रवीत् ॥
आसीत्तपोवने काचिदृषेः कन्या महात्मनः ।
विलग्नमध्या सुश्रोणी सुभ्रूः सर्वगुणान्विता ॥
कर्मभिः स्वकृतैः सा तु दुर्भगा समपद्यत ।
नाध्यगच्छत्पतिं सा तु कन्या रूपवती सती ॥
तपस्तप्तुमथारेभे पत्यर्थमसुखा ततः ।
तोषयामास तपसा सा किलोग्रेण शङ्करम् ॥
तस्याः स भगवांस्तुष्टस्तामुवाच यशस्विनीम् ।
वरं वरय भद्रं ते वरदोऽस्मीति शङ्करः ॥
अथेश्वरमुवाचेदमात्मनः सा वचो हितम् ।
पतिं सर्वगुणोपेतमिच्छामीति पुनःपुनः ॥
तामथ प्रत्युवाचेदमीशानो वदतां वरः ।
पञ्च ते पतयो भद्रे भविष्यन्तीति भारताः ॥
एवमुक्ता ततः कन्या देवं वरदमब्रवीत् ।
एकमिच्छाम्यहं देव त्वत्प्रसादात्पतिं प्रभो ॥
पुनरेवाब्रवीद्देव इदं वचनमुत्तमम् ।
पञ्चकृत्वस्त्वया ह्युक्तः पतिं देहीत्यहं पुनः ॥
देहमन्यं गतायास्ते यथोक्तं तद्भविष्यति ।
व्यास उवाच ।
द्रुपदस्य कुले जज्ञे सा कन्या देवरूपिणी ॥
निर्दिष्टा भवतां पत्नी कृष्णा पार्षत्यनिन्दिता । पाञ्चालनगरे तस्मान्निवसध्वं महाबलाः ।
सुखिनस्तामनुप्राप्य भविष्यथ न संशयः ॥
एवमुक्त्वा महाभागः पाण्डवान्स पितामहः ।
पार्थानामन्त्र्य कुन्तीं च प्रातिष्ठत महातपाः ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि चैत्ररथपर्वणि चतुरशीत्यधिकशततमोऽध्यायः ॥ 184 ॥

1-184-6 विलग्नमध्या विलग्नं समदेशे शयने भूतलास्पृष्टं मध्यं शरीरमध्यभागो यस्याः सा कृशमध्येति यावत् ॥ चतुरशीत्यधिकशततमोऽध्यायः ॥ 184 ॥

अध्यायः 185

पाञ्चालनगरं गच्छतां पाण्डवानां मार्गे ब्राह्मणैः सह संवादः ॥ 1 ॥

वैशंपायन उवाच ।
गते भगवति व्यासे पाण्डवा हृष्टमानसाः ।
`ते प्रयाता नरव्याघ्रा मात्रा सह परन्तपाः ॥
ब्राह्मणान्गच्छतो पश्यन्पाञ्चालान्सगणान्पथि ।
अथ ते ब्राह्मणा ऊचुः पाण्डवान्ब्रह्मचारिणः ॥
क्व भवन्तो गमिष्यन्ति कुतो वाऽऽगच्छथेति ह ।
युधिष्ठिर उवाच ।
प्रयातानेकचक्रायाः सोदर्यान्देवदर्शिनः ॥
भवन्तो नोऽभिजानन्तु सहितान्ब्रह्मचारिणः ।
गच्छतो नस्तु पाञ्चालान्द्रुपदस्य पुरं प्रति ॥
इच्छामो भवतो ज्ञातुं परं कौतूहलं हि नः ॥
ब्राह्मणा ऊचुः ।
एते सार्धं प्रयाताः स्मो वयमप्यत्र गामिनः ।
तत्राप्यद्भुतसङ्काश उत्सवो भविता महान् ॥
ततस्तु यज्ञसेनस्य द्रुपदस्य महात्मनः ।
यासावयोनिजा कन्या स्थास्यते सा स्वयंवरे ॥
दर्शनीयाऽनवद्याङ्गी सुकुमारी यशस्विनी ।
धृष्टद्युम्नस्य भगिनी द्रोणशत्रोः प्रतापिनः ॥
जातो यः पावकाच्छूरः सशरः सशरासनः ।
सुसमिद्धान्महाभागः सोमकानां महारथः ॥
यस्मिन्संजायमाने हि वागुवाचाशरीरिणी ।
एष मृत्युश्च शिष्यश्च भारद्वाजस्य जायते ॥
स्वसा तस्य तु वेद्याश्च जाता तस्मिन्महामखे ।
स्त्रीरत्नमसितापाङ्गी श्यामा नीलोत्पलद्युतिः ॥
तां यज्ञसेनस्य सुतां द्रौपदीं परमां स्त्रियम् ।
गच्छामस्तत्र वै द्रष्टुं तं चैवास्याः स्वयंवरम् ॥
राजानो राजपुत्राश्च यज्वानो भूरिदक्षिणाः ।
स्वाध्यायवन्तः शुचयो महात्मानो धृतव्रताः ॥
तरुणा दर्शनीयाश्च बलवन्तो दुरासदाः ।
महारथाः कृतास्त्राश्च समेष्यन्तीह भूमिपाः ॥
ते तत्र विविधं दानं विजयार्थं नरेश्वराः ।
प्रदास्यन्ति धनं गाश्च भक्ष्यभोज्यानि सर्वशः ॥
प्रतिलप्स्यामहे सर्वं दृष्ट्वा कृष्णां स्वयंवरे ।
यं च सा क्षत्रियं रङ्गे कुमारी वरयिष्यति ॥
तदा वैतालिकाश्चैव नर्तकाः सूतमागधाः ।
निबोधकाश्च देशेभ्यः समेष्यन्ति महाबलाः ॥
एतत्कौतूहलं तत्र दृष्ट्वा वै प्रतिगृह्य च ।
सहास्माभिर्महात्मानो मात्रा सह निवत्स्यथ ॥
दर्शनीयांश्च वः सर्वानेकरूपानवस्थितान् ।
समीक्ष्य कृष्मा वरयेत्संगत्यान्यतमं पतिम् ॥
अयमेकश्च वो भ्राता दर्शनीयो महाभुजः ।
नियुध्यमानो विजयेत्संगत्य द्रविणं महत् ॥
युधिष्ठिर उवाच ।
परमं भो गमिष्यामो द्रष्टुं तत्र स्वयंवरम् । द्रौपदीं यज्ञसेनस्य कन्यां तस्यास्तथोत्सवम् ॥' ॥

इति श्रीमन्महाभारते आदिपर्वणि चैत्ररथपर्वणि पञ्चाशीत्यधिकशततमोऽध्यायः ॥ 185 ॥

अध्यायः 186

अर्धरात्रे पाण्डवानां गङ्गातीरगमनम् ॥ 1 ॥ तत्र स्त्रीभिः सह जलक्रीडां कुर्वता चित्ररथेन गन्धर्वेण सह अर्जुनस्य युद्धम् ॥ 2 ॥ आग्नेयास्त्रेण दग्धादधःपतितस्य तस्यार्जुनेन ग्रहणं ॥ 3 ॥ गन्धर्वपत्न्या प्रार्थितस्य युधिष्ठिरस्याज्ञया गन्धर्वमोचनम् ॥ 4 ॥ गन्धर्वप्रार्थनया आग्नेयास्त्रपरिवर्तनेन तस्माद्गान्धर्वास्त्रग्रहणानुमोदनम् ॥ 5 ॥ गन्धर्वेण पाण्डवानां पुरोहितसंपादनोपदेशः ॥ 6 ॥

वैशंपायन उवाच ।
ते प्रतस्थुः पुरस्कृत्य मातरं पुरुषर्षभाः ।
समैरुदङ्मुकैर्मार्गैर्यथोद्दिष्टं च भारत ॥
अहोरात्रेणाभ्यगच्छन्पाञ्चालनगरं प्रति ।
अभ्याजग्मुर्लोकनदीं गङ्गां भागीरथीं प्रति ॥
चन्द्रास्तमयवेलायामर्धरात्रसमागमे । वारि चैवानुमज्जन्तस्तीर्थं सोमाश्रयायणम् ।
आसेदुः पुरुषव्याघ्रा गङ्गायां पाण्डुनन्दनाः ॥ उल्मुकं तु समुद्यम्य तेषामग्रे धनञ्जयः ।
प्रकाशार्थं ययौ तत्र रक्षार्थं च महारथः ॥ तत्र गङ्गाजले रम्ये विविक्ते क्रीडयन् स्त्रियः ।
शब्दं तेषां स शुश्राव नदीं समुपसर्पताम् ।
तेन शब्देन चाविष्टश्चुक्रोध बलवद्बली ॥
स दृष्ट्वा पाण्डवांस्तत्र सह मात्रा परन्तपान् ।
विष्फारयन्धनुर्घोरमिदं वचनमब्रवीत् ॥
सन्ध्या संरज्यते घोरा पूर्वरात्रागमेषु या ।
अशीतिभिर्लवैर्हीनं तन्मुहूर्तं प्रचक्षते ॥
विहितं कामचाराणां यक्षगन्धर्वरक्षसाम् ।
शेषमन्यन्मनुष्याणां कर्मचारेषु वै स्मृतम् ॥
लोभात्प्रचारं चरतस्तासु वेलासु वै नरान् ।
उपक्रान्ता निगृह्णीमो राक्षसैः सह बालिशान् ॥
अतो रात्रौ प्राप्नुवतो जलं ब्रह्मविदो जनाः ।
गर्हयन्ति नरान्सर्वान्बलस्थान्नृपतीनपि ॥
आराच्च तिष्ठतास्माकं समीपं नोपसर्पत ।
कस्मान्मां नाभिजानीत प्राप्तं भागीरथीजलम् ॥
अङ्गारपर्णं गन्धर्वं वित्त मां स्वबलाश्रयम् ।
अहं हि मानी चेर्ष्युश्च कुबेरस्य प्रियः सखा ॥
अङ्गारपर्णमित्येवं ख्यातं चेदं वनं मम ।
अनुगङ्गं चरन्कामांश्चित्रं यत्र रमाम्यहम् ॥
न कौणपाः शृङ्गिणो वा न देवा न च मानुषाः ।
कुबेरस्य यथोष्णीषं किं मां समुपसर्पथ ॥
अर्जुन उवाच ।
समुद्रे हिमवत्पार्श्वे नद्यामस्यां च दुर्मते ।
रात्रावहनि सन्ध्यायां कस्य क्लृप्तः परिग्रहः ॥
भुक्तो वाऽप्यथ वाऽभुक्तो रात्रावहनि खेचर ।
न कालनियमो ह्यस्ति गङ्गां प्राप्य सरिद्वरां ॥
वयं च शक्तिसम्पन्ना अकाले त्वामधृष्णुम ।
अशक्ता हि रणे क्रूर युष्मानर्चन्ति मानवाः ॥
पुरा हिमवतश्चैषा हेमशृङ्गाद्विनिःसृता ।
गङ्गा गत्वा समुद्राम्भः सप्तधा समपद्यत ॥
गङ्गां च यमुनां चैव प्लक्षजातां सरस्वतीम् ।
रथस्थां सरयूं चैव गोमतीं गण्डकीं तथा ॥
अपर्युषितपापास्ते नदीः सप्त पिबन्ति ये ।
इयं भूत्वा चैकवप्रा शुचिराकाशगा पुनः ॥
देवेषु गङ्गा गन्धर्व प्राप्नोत्यलकनन्दताम् । तथा पितॄन्वैतरणी दुस्तरा पापकर्मभिः ।
गङ्गा भवति वै प्राप्य कृष्णद्वैपायनोऽब्रवीत् ॥
असम्बाधा देवनदी स्वर्गसंपादनी शुभा ।
कथमिच्छसि तां रोद्धुं नैष धर्मः सनातनः ॥
अनिवार्यमसम्बाधं तव वाचा कथं वयम् ।
न स्पृशेम यथाकामं पुण्यं भागीरथीजलम् ॥
वैशंपायन उवाच ।
अङ्गारपर्णस्तच्छ्रुत्वा क्रुद्ध आनाम्य कार्मुकम् ।
मुमोच बाणान्निशितानहीनाशीविषानिव ॥
उल्मुकं भ्रामयंस्तूर्णं पाण्डवश्चर्म चोत्तरम् ।
व्यपोहत शरांस्तस्य सर्वानेव धनञ्जयः ॥
अर्जुन उवाच ।
बिभीषिका वै गन्धर्व नास्त्रज्ञेषु प्रयुज्यते ।
अस्त्रज्ञेषु प्रयुक्तेयं फेनवत्प्रविलीयते ॥
मानुषानति गन्धर्वान्सर्वान् गन्धर्व लक्षये ।
तस्मादस्त्रेण दिव्येन योत्स्येऽहं न तु मायया ॥
पुराऽस्त्रमिमाग्नेयं प्रादात्किल बृहस्पतिः ।
भरद्वाजाय गन्धर्व गुरुर्मान्यः शतक्रतोः ॥
भरद्वजादग्निवेश्य अग्निवेश्याद्गुरुर्मम ।
साध्विदं मह्यमददद्द्रोणो ब्राह्मणसत्तमः ॥
वैशंपायन उवाच ।
इत्युक्त्वा पाण्डवः क्रुद्धो गन्धर्वाय मुमोच ह ।
प्रदीप्तमस्त्रमाग्नेयं ददाहास्य रथं तु तत् ॥
विरथं विप्लुतं तं तु स गन्धऱ्वं महाबलः ।
अस्त्रतेजःप्रमूढं च प्रपतन्तमवाङ्मुखम् ॥
शिरोरुहेषु जग्राह माल्यवत्सु धनञ्जयः ।
भ्रातॄन्प्रति चकर्षाथ सोऽस्त्रपातादचेतसम् ॥
युधिष्ठिरं तस्य भार्या प्रपेदे शरणार्थिनी ।
नाम्ना कुम्भीनसी नाम पतित्राणमभीप्सती ॥
गन्धर्व्युवाच ।
त्रायस्व मां महाभाग पतिं चेमं विमुञ्च मे ।
गन्धर्वी शरणं प्राप्ता नाम्ना कुम्भीनसी प्रभो ॥
युधिष्ठिर उवाच ।
युद्धे जितं यशोहीनं स्त्रीनाथमपराक्रमम् ।
को निहन्याद्रिपुं तात मुञ्चेमं रिपुसूदन ॥
अर्जुन उवाच ।
जीवितं प्रतिपद्यस्व गच्छ गन्धर्व मा शुचः ।
प्रदिशत्यभयं तेऽद्य कुरुराजो युधिष्ठिरः ॥
गन्धर्व उवाच ।
जितोऽहं पूर्वकं नाम मुञ्चाम्यङ्गारपर्णताम् ।
यशोहीनं न च श्लाघ्यं स्वं नाम जनसंसदि ॥
साध्विमं लब्धवाँल्लाभं योऽहं दिव्यास्त्रधारिणम् ।
गान्धर्व्या माययेच्छामि संयोजयितुमर्जुनम् ॥
अस्त्राग्निना विचित्रोऽयं दग्धो मे रथ उत्तमः ।
सोऽहं चित्ररथो भूत्वा नाम्ना दग्धरथोऽभवं ॥
संभृता चैव विद्येयं तपसेह मया पुरा ।
निवेदयिष्ये तामद्य प्राणदाय महात्मने ॥
संस्तम्भयित्वा तरसा जितं शरणमागतम् ।
यो रिपुं योजयेत्प्राणैः कल्याणं किं न सोऽर्हति ॥
चाक्षुषी नाम विद्येयं यां सोमाय ददौ मनुः ।
ददौ स विश्वावसवे मम विश्वावसुर्ददौ ॥
सेयं कापुरुषं प्राप्ता गुरुदत्ता प्रणश्यति ।
आगमोऽस्या मया प्रोक्तो वीर्यं प्रतिनिबोध मे ॥
यच्चक्षुषा द्रष्टुमिच्छेत्रिषु लोकेषु किंचन ।
तत्पश्येद्यादृशं चेच्छेत्तादृशं द्रष्टुमर्हति ॥
एकपादेन षण्मासान्स्थितो विद्यां लभेदिमाम् ।
अनुनेष्याम्यहं विद्यां स्वयं तुभ्यं व्रते कृते ॥
विद्यया ह्यनया राजन्वयं नृभ्यो विशेषिताः ।
अविशिष्टाश्च देवानामनुभावप्रदर्शिनः ॥
गन्धर्वजानामश्वानामहं पुरुषसत्तम ।
भ्रातृभ्यस्तव तुभ्यं च पृथग्दाता शतं शतं ॥
देवगन्धर्ववाहास्ते दिव्यवर्णा मनोजवाः ।
क्षीणाक्षीणा भवन्त्येते न हीयन्ते च रंहसः ॥
पुरा कृतं महेन्द्रस्य वज्रं वृत्रनिबर्हणम् ।
दशधा शतधा चैव तच्छीर्णं वृत्रमूर्धनि ॥
ततो भागीकृतो देवैर्वज्रभाग उपास्यते ।
लोके यशोधनं किंचित्सैव वज्रतनुः स्मृता ॥
वज्रपाणिर्ब्राह्मणः स्यात्क्षत्रं वज्ररथं स्मृतम् ।
वैश्या वै दानवज्राश्च कर्मवज्रा यवीयसः ॥
क्षत्रवज्रस्य भागेन अवध्या वाजिनः स्मृताः ।
रथाङ्गं वडबा सूते शूराश्चाश्वेषु ये मताः ॥
कामवर्णाः कामजवाः कामतः समुपस्थिताः ।
इति गन्धर्वजाः कामं पूरयिष्यन्ति मे हयाः ॥
अर्जुन उवाच ।
यदि प्रीतेन मे दत्तं संशये जीवितस्य वा ।
विद्याधं श्रुतं वाऽपि न तद्गन्धर्व रोचये ॥
गन्धर्व उवाच ।
संयोगो वै प्रीतिकरो महत्सु प्रतिदृश्यते ।
जीवितस्य प्रदानेन प्रीतो विद्यां ददामि ते ॥
त्वत्तोऽप्यहं ग्रहीष्यामि अस्त्रमाग्नेयमुत्तमम् ।
तथैव योग्यं बीभत्सो चिराय मरतर्षभ ॥
अर्जुन उवाच ।
त्वत्तोऽस्त्रेण वृणोम्यश्वान्संयोगः शास्वतोऽस्तुनौ ।
सखे तद्ब्रूहि गन्धर्व युष्मभ्यो यद्भयं भवेत् ॥
कारणं ब्रूहि गन्धर्व किं तद्येन स्म धर्षिताः ।
यान्तो वेदविदः सर्वे सन्तो रात्रावरिन्दमाः ॥
गन्धर्व उवाच ।
अनग्नयोऽनाहुतयो न च विप्रपुरस्कृताः ।
यूयं ततो धर्षिताः स्थ मया वै पाण्डुनन्दनाः ॥
`यक्षराक्षसगन्धर्वपिशाचपतगोरगाः ।
धर्षन्ति नरव्याघ्र न ब्राह्मणपुरस्कृतान् ॥
जानतापि मया तस्मात्तेजश्चाभिजनं च वः ।
इयमग्निमतां श्रेष्ठ धर्षिता वै पुरागतिः ॥
को हि वस्त्रिषु लोकेषु न वेद भरतर्षभ ।
स्वैर्गुणैर्विस्तृतं श्रीमद्यशोऽग्र्यं भूरिवर्चसाम्' ॥
यक्षराक्षसगन्धर्वाः पिशाचोरगदानवाः ।
विस्तरं कुरुवंशस्य धीमन्तः कथयन्ति ते ॥
नारदप्रभृतीनां तु देवर्षीणां मया श्रुतम् ।
गुणान्कथयतां वीर पूर्वेषां तव धीमताम् ॥
स्वयं चापि मया दृष्टश्चरता सागराम्बराम् ।
इमां वसुमतीं कृत्स्नां प्रभावः सुकुलस्य ते ॥
वेदे धनुषि चाचार्यमभिजानामि तेऽर्जुन ।
विश्रुतं त्रिषु लोकेषु भारद्वाजं यशस्विनम् ॥
`सर्ववेदविदां श्रेष्ठं सर्वशस्त्रभृतां वरम् । द्रोणमिष्वस्त्रकुशलं धनुष्यह्गिरसां वरम् ॥'
धर्मं वायुं च शक्रं च विजानाम्यश्विनौ तथा । पाण्डुं च कुरुशार्दूल षडेतान्कुरुवर्धनान् ।
पितॄनेतानहं पार्थ देवमानुषसत्तमान् ॥
दिव्यात्मानो महात्मानः सर्वशस्त्रभृतां वराः ।
भवन्तो भ्रातरः शूराः सर्वे सुचरितव्रताः ॥
उत्तमां च मनोबुद्धिं भवतां भावितात्मनाम् ।
जानन्नपि च वः पार्थ कृतवानिह धर्षणाम् ॥
स्त्रीसकाशे च कौरव्य न पुमान्क्षन्तुमर्हति ।
धर्षणामात्मनः पश्यन्ब्राहुद्रविणमाश्रितः ॥
नक्तं च बलमस्माकं भूय एवाभिवर्धते ।
यतस्ततो मां कौन्तेय सदारं मन्युराविशत् ॥
सोऽहं त्वयेह विजितः सङ्ख्ये तापत्यवर्धन ।
येन तेनेह विधिना कीर्त्यमानं निबोध मे ॥
ब्रह्मचर्यं परो धर्मः स चापि नियतस्त्वयि ।
यस्मात्तस्मादहं पार्थ रणे ।ञस्मि विजितस्त्वया ॥
यस्तु स्यात्क्षत्रियः कश्चित्कामवृत्तः परन्तप ।
नक्तं च युधि युध्येत न स जीवेत्कथंचन ॥
यस्तु स्यात्कामवृत्तोऽपि पार्थ ब्रह्मपुरस्कृतः ।
जयेन्नक्तञ्चरान्सर्वान्स पुरोहितधूर्गतः ॥
तस्मात्तापत्य यत्किंचिन्नृणां श्रेय इहेप्सितम् ।
तस्मिन्कर्मणि योक्तव्या दान्तात्मानः पुरोहिताः ॥
वेदे षडङ्गे निरताः शुचयः सत्यवादिनः ।
धर्मात्यागः कृतात्मानः स्युर्नृपाणां पुरोहिताः ॥
जयश्च नियतो राज्ञः स्वर्गश्च तदनन्तरम् ।
यस्य स्याद्धर्मविद्वाग्मी पुरोधाः शीलवाञ्शुचिः ॥
लाभं लब्धुमलब्धं वा लब्धं वा परिरक्षितुम् ।
पुरोहितं प्रकुर्वीत राजा गुणसमन्वितम् ॥
पुरोहितमते तिष्ठेद्य इच्छेद्भूतिमात्मनः ।
प्राप्तुं वसुमतीं सर्वां सर्वशः सागराम्बराम् ॥
न हि केवलशौर्येण तापत्याभिजनेन च ।
जयेदब्राह्मणः कश्चिद्भूमिं भूमिपतिः क्वचित् ॥
तस्मादेवं विजानीहि कुरूणां वंशवर्धन ।
ब्राह्मणप्रमुखं राज्यं शक्यं पालयितुं चिरम् ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि चैत्ररथपर्वणि षडशीत्यधिकशततमोऽध्यायः ॥ 186 ॥

1-186-3 सोमाश्रयश्चन्द्रधरो रुद्रस्तस्य स्थानं सोमाश्रयायणम् ॥ 1-186-8 पूर्वरात्रागमेषु पश्चिमायां दिशि अर्धास्तमितार्कमण्डलरूपा या संध्या संरज्यते रक्ता भवति तस्यां मुहूर्तं प्रस्थानकालमशीतिभिर्लवैर्निमेषार्धैर्हीनं प्रचक्षते ॥ 1-186-9 तदेव मुहूर्तं यक्षादीनां कर्मचारेषु विहितमन्यन्मनुष्याणां कर्मचारेषु स्मृतमित्यन्वयः । संध्यायामशीतिलवोपरि रात्रौ यक्षादीनामेव संचारकालः अन्यदहर्मनुष्याणामित्यर्थः ॥ 1-186-15 शृङ्गिणः अभिचारिकाः ॥ 1-186-21 एकवप्रा एकमाकाशरूपं वप्रं यस्याः सा ॥ 1-186-36 स्त्री नाथो रक्षिता यस्य तम् ॥ 1-186-38 अङ्गारवद्भास्वरं दुःस्पर्शं च पर्णं वाहनं रथो यस्य सोऽङ्गारपर्णस्तस्य भावस्तत्ताम् ॥ 1-186-41 क्षीणाश्चाऽक्षीणाश्च क्षीणाक्षीणाः वृद्धास्तरुणा वा एते न भवन्ति रंहसो वेगाच्च न हीयन्ते इति नकारानुषङ्गेण योज्यम् । क्षीणे क्षीणे इति घ. पाठः ॥ 1-186-51 तस्य भागः पृथग्भूतः सर्वैर्भूतैदपास्यते इति ङ. पाठः ॥ 1-186-52 वज्रपाणिः पाणिः वज्रं यस्य स । एवमेव वज्ररथमित्यपि ॥ 1-186-53 रथाङ्गं च तथा सूतो धनुश्च भरतर्षभ इति ङ. पाठः ॥ 1-186-57 तथैव सख्यं बीभत्सो इति ङ. पाठः ॥ 1-186-58 अस्त्रेणास्त्रं वृणे त्वत्तः यद्भयं त्यजेत् इति ङ. पाठः ॥ 1-186-60 अनग्नयो दारहीनत्वात् । अनाहुतयः समावृतत्वात् । आश्रमविंशेषहीनो ब्राह्मणो धर्षणीय इत्यर्थः ॥ 1-186-76 कायवृद्यः कृतदारः ॥ 1-186-81 लाभं लब्धव्यं धनं । अलब्धस्य च लाभाय लब्धस्य परिरक्षणे इति ङ. पाठः ॥ षडशीत्यधिकशततमोऽध्यायः ॥ 186 ॥

अध्यायः 187

सूर्यकन्यायाः तपत्या उपाख्यानम्--स्वभक्ताय संवरणाय स्वकन्यां दातुं सवितुर्निश्चयः ॥ 1 ॥ मृगयार्थं गतस्य संवरणस्य गिरौ तपतीदर्शनेन कामोत्पत्तिः ॥ 2 ॥ राजनि तया सह भाषितुं प्रवृत्ते तप्त्या अन्तर्धानम् ॥ 3 ॥

अर्जुन उवाच ।
तापत्य इति यद्वाक्यमुक्तवानसि मामिह ।
तदहं ज्ञातुमिच्छामि तापत्यार्थं विनिश्चितम् ॥
तपती नाम का चैषा तापत्या यत्कृते वयम् ।
कौन्तेया हि वयं साधो तत्त्वमिच्छामि वेदितुम् ॥
वैशंपायन उवाच ।
एवमुक्तः स गन्धर्वः कुन्तीपुत्रं धनञ्जयम् ।
विश्रुतं त्रिषु लोकेषु श्रावयामास वै कथाम् ॥
हन्त ते कथयिष्यामि कथामेतां मनोरमाम् ।
यथावदखिलां पार्थ सर्वबुद्धिमतां वर ॥
उक्तवानस्मि येन त्वां तापत्य इति यद्वचः ।
तत्तेऽहं कथयिष्यामि शृणुष्वैकमना भव ॥
य एष दिवि धिष्ण्येन नाकं व्याप्नोति तेजसा ।
एतस्य तपती नाम बभूव सदृशी सुता ॥
विवस्वतो वै देवस्य सावित्र्यवरजा विभो ।
विश्रुता त्रिषु लोकेषु तपती तपसा युता ॥
न देवी नासुरी चैव न यक्षी न च राक्षसी ।
नाप्सरा न च गन्धर्वी तथा रूपेण काचन ॥
सुविभक्तानवद्याङ्गी स्वसितायतलोचना ।
स्वाचारा चैव साध्वी च सुवेषा चैव भामिनी ॥
त तस्याः सदृशं कंचित्त्रिषु लोकेषु भारत ।
भर्तारं सविता मेने रूपशीलगुणश्रुतैः ॥
संप्राप्तयौवनां पश्यन्देयां दुहितरं तु ताम् । `द्व्यष्टवर्षां तु तां श्यामां सविता रूपशालिनीम् ।'
नोपलेभे ततः शान्तिं संप्रदानं विचिन्तयन् ॥
अथर्क्षपुत्रः क्रान्तेय कुरूणामृषभो बली ।
सूर्यमाराधयामास नृपः संवरणस्तदा ॥
अर्ध्यमाल्योपहाराद्यैर्गन्धैश्च नियतः शुचिः ।
नियमैरुपवासैश्च तपोभिर्विविधैरपि ॥
सुश्रूषुरनहंवादी शुचिः पौरवनन्दन ।
अंशुमन्तं समुद्यन्तं पूजयामास भक्तिमान् ॥
ततः कृतज्ञं धर्मज्ञं रूपेणासदृशं भुवि ।
तपत्याः सदृशं मेने सूर्यः संवरणं पतिम् ॥
दातुमैच्छत्ततः कन्यां तस्मै संवरणाय ताम् ।
नृपोत्तमाय कौरव्य विश्रुताभिजनाय च ॥
यथा हि दिवि दीप्तांशुः प्रभासयति तेजसा ।
तथा भुवि महिपालो दीप्त्या संवरणोऽभवत् ॥
यथाऽर्चयन्ति चादित्यमुद्यन्तं ब्रह्मवादिनः ।
तथा संवरणं पार्थ ब्राह्मणावरजाः प्रजाः ॥
स सोममति कान्तत्वादादित्यमति तेजसा ।
बभूव नृपतिः श्रीमान्सुहृदां दुर्हृदामपि ॥
एवंगुणस्य नृपतेस्तथावृत्तस्य कौरव ।
तस्मै दातुं मनश्चक्रे तपतीं तपनः स्वयम् ॥
स कदाचिदथो राजा श्रीमानमितविक्रमः ।
चचार मृगयां पार्थ पर्वतोपवने किल ॥
चरतो मृगयां तस्य क्षुत्पिपासासमन्वितः ।
ममार राज्ञः कौन्तेय गिरावप्रतिमो हयः ॥
स मृताश्वश्चरन्पार्थ पद्भ्यामेव गिरौ नृपः ।
ददर्शासदृशीं लोके कन्यामायतलोचनाम् ॥
स एव एकामासाद्य कन्यां परबलार्दनः ।
तस्थौ नृपतिशार्दूलः पश्यन्नविचलेक्षणः ॥
स हि तां तर्कयामास रूपतो नृपतिः श्रियम् ।
पुनः संतर्कयामास रवेर्भ्रष्टामिव प्रभाम् ॥
वपुषा वर्चसा चैव शिखामिव विभावसोः ।
प्रसन्नत्वेन कान्त्या च चन्द्ररेखामिवामलाम् ॥
गिरिपृष्ठे तु सा यस्मिन्स्थिता स्वसितलोचना ।
विभ्राजमाना शुशुभे प्रतिमेव हिरण्मयी ॥
तस्या रूपेण स गिरिर्वेषेण च विशेषतः ।
ससवृक्षक्षुपलतो हिरण्मय इवाभवत् ॥
अवमेने च तां दृष्ट्वा सर्वलोकेषु योषितः ।
अवाप्तं चात्मनो मेने स राजा चक्षुषः फलं ॥
जन्मप्रभृति यत्किचिंद्दृष्टवान्स महीपतिः ।
रूपं न सदृशं तस्यास्तर्कयामास किंचन ॥
तया बद्धमनश्चक्षुः पाशैर्गुणमयैस्तदा ।
न चचाल ततो देशाद्बुबुधे न च किंचन ॥
अस्या नूनं विशालाक्ष्याः सदेवासुरमानुषम् ।
लोकं निर्मथ्य धात्रेदं रूपमाविष्कृतं कृतम् ॥
एवं संतर्कयामास रूपद्रविणसंपदा ।
कन्यामसदृशीं लोके नृपः संवरणस्तदा ॥
तां च दृष्ट्वैव कल्याणीं कल्याणाभिजनो नृपः ।
जगाम मनसा चिन्तां कामबाणेन पीडितः ॥
दह्यमानः स तीव्रेण नृपतिर्मन्मथाग्निना ।
अप्रगल्भां प्रगल्भस्तां तदोवाच मनोहराम् ॥
काऽसि कस्यासि रम्भोरु किमर्थं चेह तिष्ठसि ।
कथं च निर्जनेऽरण्ये चरस्येका शुचिस्मिते ॥
त्वं हि सर्वानवद्याङ्गी सर्वाभरणभूषिता ।
विभूषणमिवैतेषां भूषणानामभीप्सितम् ॥
न देवीं नासुरीं चैव न यक्षीं न च राक्षसीम् ।
न च भोगवतीं मन्ये न गन्धवीं न मानुषीम् ॥
या हि दृष्टा मया काश्चिच्छ्रुता वाऽपि वराङ्गनाः ।
न तासां सदृशीं मन्ये त्वामहं मत्तकाशिनि ॥
दृष्ट्वैव चारुवदने चन्द्रात्कान्ततरं तव ।
वदनं पद्मपत्राक्षं मां मथ्नातीव मन्मथः ॥
एवं तां स महीपालो बभाषे न तु सा तदा ।
कामार्तं निर्जनेऽरण्ये प्रत्यबाषथ किंचन ॥
ततो लालप्यमानस्य पार्थिवस्यायतेक्षणा ।
सौदामिनीव चाभ्रेषु तत्रैवान्तरधीयत ॥
तामन्वेष्टुं स नृपतिः परिचक्राम सर्वतः ।
वनं वनजपत्राक्षीं भ्रमन्नुन्मत्तवत्तदा ॥
अपश्यमानः स तु तां बहु तत्र विलप्य च ।
निश्चेष्टः पार्थिवश्रेष्ठो मुहूर्तं स व्यतिष्ठत ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि चैत्ररथपर्वणि सप्ताशीत्यधिकशततमोऽध्यायः ॥ 187 ॥

1-187-1 यत् यस्मात् तत् तस्मात् । तापत्यार्थं तापत्यशब्दार्थम् ॥ सप्ताशीत्यधिकशततमोऽध्यायः ॥ 187 ॥

अध्यायः 188

भूतले पतितं राजानं दृष्ट्वा तत्समीपे तपत्या आगमनम् ॥ 1 ॥ तयोः संवादः ॥ 2 ॥

गन्धर्व उवाच ।
अथ तस्यामदृश्यायां नृपतिः काममोहितः ।
पातनः शत्रुसङ्घानां पपात धरणीतले ॥
तस्मिन्निपतिते भूमावथ सा चारुहासिनी ।
पुनः पीनायतश्रोणी दर्शयामास तं नृपम् ॥
अथाबभाषे कल्याणी वाचा मधुरया नृपम् ।
तं कुरूणां कुलकरं कामाभिहतचेतसम् ॥
उवाच मधुरं वाक्यं तपती हसतीव सा ।
उत्तिष्ठोत्तिष्ठ भद्रं ते न त्वमर्हस्यरिन्दम ॥
मोहं नृपतिशार्दूल गन्तुमाविष्कृतः क्षितौ ।
एवमुक्तोऽथ नृपतिर्वाचा मधुरया तदा ॥
ददर्श विपुलश्रोणीं तामेवाभिमुखे स्थिताम् ।
अथ तामसितापाङ्गीमाबभाषे स पार्थिवः ॥
मन्मथाग्निपरीतात्मा सन्दिग्धाक्षरया गिरा ।
साधु त्वमसितापाङ्गि कामार्तं मत्तकाशिनि ॥
भजस्व भजमानं मां प्राणा हि प्रजहन्ति माम् ।
त्वदर्थं हि विशालाक्षि मामयं निशितैः शरैः ॥
कामः कमलगर्भाभे प्रतिविध्यन्न शाम्यति ।
दष्टमेवमनाक्रन्दे भद्रे काममहाहिना ॥
सा त्वं पीनायतश्रोणी मामाप्नुहि वरानने ।
त्वदधीना हि मे प्राणाः किन्नरोद्गीतभाषिणि ॥
चारुसर्वानवद्याङ्गि पद्मेन्दुप्रतिमानने ।
न ह्यहं त्वदृते भीरु शक्ष्यामि खलु जीवितुम् ॥
कामः कमलपत्राक्षि प्रतिविध्यति मामयम् ।
तस्मात्कुरु विशालाक्षि मय्यनुक्रोशमङ्गने ॥
भक्तं मामसितापाङ्गि न परित्यक्तुमर्हसि ।
त्वं हि मां प्रीतियोगेन त्रातुमर्हसि भामिनि ॥
त्वद्दर्शनकृतस्नेहं मनश्चलति मे भृशम् ।
न त्वां दृष्ट्वा पुनश्चान्यां द्रष्टुं कल्याणि रोचते ॥
प्रसीद वशगोऽहं ते भक्तं मां भज भामिनि ।
दृष्ट्वैव त्वां वरारोहे मन्मथो भृशमङ्गने ॥
अन्तर्गतं विशालाक्षि विध्यति स्म पतत्त्रिभिः ।
मन्मथाग्निसमुद्भूतं दाहं कमललोचने ॥
प्रीतिसंयोगयुक्ताभिरद्भिः प्रह्लादयस्व मे ।
पुष्पायुधं दुराधर्षं प्रचण्डशरकार्मुकम् ॥
त्वद्दर्शनसमुद्भूतं विध्यन्तं दुःसहैः शरैः ।
उपशामय कल्याणि आत्मदानेन भामिनि ॥
गान्धर्वेण विवाहेन मामुपैहि वराङ्गने ।
विवाहानां हि रम्भोरु गान्धर्वः श्रेष्ठ उच्यते ॥
तपत्युवाच ।
नाहमीशाऽऽत्मनो राजन्कन्या पितृमती ह्यहम् ।
मयि चेदस्ति ते प्रीतिर्याचस्व पितरं मम ॥
यथा हि ते मया प्राणाः संभृताश्च नरेश्वर ।
दर्शनादेव भूयस्त्वं तथा प्राणान्ममाहरः ॥
न चाहमीशा देहस्य तस्मान्नृपतिसत्तम ।
समीपं नोपगच्छामि न स्वतन्त्रा हि योषितः ॥
का हि सर्वेषु लोकेषु विश्रुताभिजनं नृपम् ।
कन्या नाभिलषेन्नाथं भार्तारं भक्तवत्सलम् ॥
तस्मादेवं गते काले याचस्व पितरं मम ।
आदित्यं प्रणिपातेन तपसा नियमेन च ॥
स चेत्कामयते दातुं तव मामरिसूदन ।
भविष्याम्यद्य ते राजन्सततं वशवर्तिनी ॥
अहं हि तपती नाम सावित्र्यवरजा सुता ।
अस्य लोकप्रदीपस्य सवितुः क्षत्रियर्षभ ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि चैत्ररथपर्वणि अष्टाशीत्यधिकशततमोऽध्यायः ॥ 188 ॥

1-188-8 प्रजहन्ति प्रजहति ॥ 1-188-9 अनाक्रन्दे अत्रातरि काले ॥ अष्टाशीत्यधिकशततमोऽध्यायः ॥ 188 ॥

अध्यायः 189

पुनरन्तर्हितायां तपत्यां मोहितस्य संवरणस्य समीपे अमात्यादीनामागमनं ॥ 1 ॥ अमात्येनाश्वासितस्य राज्ञः सूर्योपासनसमये वसिष्ठस्यागमनं ॥ 2 ॥ सूर्यसमीपं गत्वा वसिष्ठेनादित्यस्तुतिकरणं ॥ 3 ॥ स्तुत्या तुष्टेन सूर्येण संवरणार्थं वसिष्ठाय तपतीदानं ॥ 4 ॥ तस्मिन्नेव तपतीसंवरणयोर्विवाहः ॥ 5 ॥ तया सह तत्रैव रममाणस्य संवरणस्य राज्ये द्वादशवार्षिक्यनावृष्टिः ॥ 6 ॥ वसिष्ठेनानावृष्टिनिवर्तनं ॥ 7 ॥ तपत्युपाख्यानोपसंहारः ॥ 8 ॥

गन्धर्व उवाच ।
एवमुक्त्वा ततस्तूर्णं जगामोर्ध्वमनिन्दिता ।
`तपतीतपतीत्येव विललापातुरो नृपः ॥
प्रास्स्वलच्चासकृद्राजा पुनरुत्थाय धावति । धावमानस्तु तपतीमदृष्ट्वैव महीपतिः ।'
स तु राजा पुनर्भूमौ तत्रैव निपपात ह ॥
अन्वेषमाणः सबलस्तं राजानं नृपोत्तमम् ।
अमात्यः सानुयात्रश्च तं ददर्श महावने ॥
क्षितौ निपतितं काले शक्रध्वजमिवोच्छ्रितम् ।
त हि दृष्ट्वा महेष्वासं निरस्तं पतितं भुवि ॥
बभूव सोऽस्य सचिवः संप्रदीप्त इवाग्निना ।
त्वरया चोपसङ्गम्य स्नेहादागतसंभ्रमः ॥
तं समुत्थापयामास नृपतिं काममोहितम् ।
भूतलाद्भूमिपालेशं पितेव पतितं सुतम् ॥
प्रज्ञया वयसा चैव वृद्धः कीर्त्या नयेन च ।
अमात्यस्तं समुत्थाप्य बभूव विगतज्वरः ॥
उवाच चैनं कल्याण्या वाचा मधुरयोत्थिम् ।
मा भैर्मनुजशार्दूल भद्रमस्तु तवानघ ॥
क्षुत्पिपासापरिश्रान्तं तर्कयामास वै नृपम् ।
पतितं पातनं सङ्ख्ये शात्रवाणां महीतले ॥
वारिणा च सुशीतेन शिरस्तस्याभ्यषेचयत् ।
अस्पृशन्मुकुटं राज्ञः पुण्डरीकसुगन्धिना ॥
ततः प्रत्यागतप्राणस्तद्बलं बलवान्नृपः ।
सर्वं विसर्जयामास तमेकं सचिवं विना ॥
ततस्तस्याज्ञया राज्ञो विप्रतस्थे महद्बलम् ।
स तु राजा गिरिप्रस्थे तस्मिन्पुनरुपाविशत् ॥
ततस्तस्मिन् गिरिवरे शुचिर्भूत्वा कृताञ्जलिः ।
आरिराधयिषुः सूर्यं तस्थावूर्ध्वमुखः क्षितौ ॥
जगाम मनसा चैव वसिष्ठमृषिसत्तमम् ।
पुरोहितममित्रघ्नं तदा संवरणो नृपः ॥
नक्तन्दिनमथैकत्र स्थिते तस्मिञ्जनाधिपे ।
अथाजगाम विप्रर्षिस्तदा द्वादशमेऽहनि ॥
स विदित्वैव नृपतिं तपत्या हृतमानसम् ।
दिव्येन विधिना ज्ञात्वा भावितात्मा महानृपिः ॥
तथा तु नियतात्मानं तं नृपं मुनिसत्तमः ।
आबभाषे स धर्मात्मा तस्यैवार्थचिकीर्षया ॥
स तस्य मनुजेन्द्रस्य पश्यतो भगवानृषिः ।
ऊर्ध्वमाचक्रमे द्रष्टुं भास्करं भास्करद्युतिः ॥
`योजनानां तु नियुतं क्षणाद्गत्वा तपोधनः ।' सहस्रांशुं ततो विप्रः कृताञ्जलिरुपस्थितः ।
वसिष्ठोहमिति प्रीत्या स चात्मानं न्यवेदयत् ॥
तमुवाच महातेजा विवस्वान्मुनिसत्तमम् ।
महर्षे स्वागतं तेऽस्तु कथयस्व यथेप्सितम् ॥
यदिच्छसि महाभाग मत्तः प्रवदतां वर ।
तत्ते दद्यामभिप्रेतं यद्यपि स्यात्सुदुर्लभम् ॥
एवमुक्तः स तेनर्षिर्वसिष्ठः संस्तुवन्गिरा ।
प्रणिपत्य विवस्वन्तं भानुमन्तमथाब्रवीत् ॥
`योजनानां चतुष्षष्टिं निमेषात्त्रिशतं तथा ।
अश्वैर्गच्छति नित्यं यस्तत्पार्श्वस्थोऽब्रवीदिदम् ॥
वसिष्ठ उवाच ।
अजाय लोकत्रयपावनाय भूतात्मने गोपतये वृषाय ।
सूर्याय सर्गप्रलयालयाय नमो महाकारुणिकोत्तमाय ॥
विवस्वते ज्ञानभृतेऽन्तरात्मने जगत्प्रदीपाय जगद्धितैषिणे ।
स्वयंभुवे दीप्तसहस्रचक्षुषे सुरोत्तमायामिततेजसे नमः ॥
नमः सवित्रे जगदेकचक्षुषे जगत्प्रसूतिस्थितिनाशहेतवे ।
त्रयीमयाय त्रिगुणात्मधारिणे विरिञ्चनारायणशङ्करात्मने ॥
सूर्य उवाच ।
संस्तुतो वरदः सोऽहं वरं वरय सुव्रत ।
स्तुतिस्त्वयोक्ता भक्तानां जप्येयं वग्दोस्म्यहम्' ॥
वसिष्ठ उवाच ।
यैषा ते तपती नाम सावित्र्यवरजा सुता ।
तां त्वां संवरणस्यार्थे वरयामि विभावसो ॥
स हि राजा बृहत्कीर्तिर्धर्मार्थविदुदारधीः ।
युक्तः संवरणो भर्ता दुहितुस्ते विहङ्गम ॥
गन्धर्व उवाच ।
इत्युक्तः स तदा तेन ददानीत्येव निश्चितः ।
प्रत्यभाषत तं विप्रं प्रतीनन्द्य दिवाकरः ॥
वरः संवरणो राज्ञां त्वमृषीणां वरो मुने ।
तपती योषितां श्रेष्ठा किमन्यत्रापवर्जनात् ॥
ततः सर्वानवद्याङ्गीं तपतीं तपनः स्वयम् ।
ददौ संवरणस्यार्थे वसिष्ठाय महात्मने ॥
प्रतिजग्राह तां कन्यां महर्षिस्तपतीं तदा ।
वसिष्ठोऽथ विसृष्टस्तु पुनरेवाजगाम ह ॥
यत्र विख्यातकीर्तिः स कुरूणामृषभोऽभवत् ।
स राजा मन्मथाविष्टस्तद्गतेनान्तरात्मना ॥
दृष्ट्वा च देवकन्यां तां तपतीं चारुहासिनीम् ।
वसिष्ठेन सहायान्तीं संहृष्टोऽभ्यधिकं बभौ ॥
रुरुचे साऽधिकं सुभ्रूरापतन्ती नभस्तलात् ।
सौदामनीव विभ्रष्टा द्योतयन्ती दिशस्त्विषा ॥
कृच्छ्राद्द्वादशरात्रे तु तस्य राज्ञः समाहिते ।
आजगाम विशुद्धात्मा वसिष्ठो भगवानृषिः ॥
तपसाऽऽराध्य वरदं देवं गोपतिमीश्वरम् ।
लेभे संवरणो भार्यां वसिष्ठस्यैव तेजसा ॥
ततस्तस्मिन्गिरिश्रेष्ठे देवगन्धर्वसेविते ।
जग्राह विधिवत्पाणिं तपत्याः स नरर्षभः ॥
वसिष्ठेनाभ्यनुज्ञातस्तस्मिन्नेव धराधरे ।
सोऽकामयत राजर्षिर्विहर्तुं सह भार्यया ॥
ततः पुरे च राष्ट्रे च वनेषूपवनेषु च ।
आदिदेश महीपालस्तमेव सचिवं तदा ॥
नृपतिं त्वभ्यनुज्ञाप्य वसिष्ठोऽथापचक्रमे ।
सोऽथ राजा गिरौ तस्मिन्विजहारामरो यथा ॥
ततो द्वादशवर्षाणि काननेषु वनेषु च ।
रेमे तस्मिन्गिरौ राजा तयैव सह भार्यया ॥
तस्य राज्ञः पुरे तस्मिन्समा द्वादश सत्तम ।
न ववर्ष सहस्राक्षो राष्ट्रे चैवास्य भारत ॥
ततस्तस्यामनावृष्ट्यां प्रवृत्तायामरिन्दम ।
प्रजाः क्षयमुपाजग्मुः सर्वाः सस्थाणुजङ्गमाः ॥
तस्मिंस्तथाविधे काले वर्तमाने सुदारुणे ।
नावश्यायः पपातोर्व्यां ततः सस्यानि नाऽरुहन् ॥
ततो विभ्रान्तमनसो जनाः क्षुद्भपीडिताः ।
गृहाणि संपरित्यज्य बभ्रमुः प्रदिशो दिशः ॥
ततस्तस्मिन्पुरे राष्ट्रे त्यक्तदारपरिग्रहाः ।
परस्परममर्यादाः क्षुधार्ता जघ्निरे जनाः ॥
तत्क्षुधार्तैर्निरानन्दैः शवभूतैस्तथा नरैः ।
अभवत्प्रेतराजस्य पुरं प्रेतैरिवावृतम् ॥
ततस्तत्तादृशं दृष्ट्वा स एव भगवानृषिः ।
अभ्याद्रवत धर्मात्मा वसिष्ठो मुनिसत्तमः ॥
तं च पार्थिवशार्दूलमानयामास तत्पुरम् । तपत्या सहितं राजन्वर्षे द्वादशमे गते ।
ततः प्रवृष्टस्तत्रासीद्यथापूर्वं सुरारिहा ॥
तस्मिन्नृपतिशार्दूले प्रविष्टे नगरं पुनः ।
प्रववर्ष सहस्राक्षः सस्यानि जनयन्प्रभुः ॥
ततः सराष्ट्रं मुमुदे तत्पुरं परया मुदा ।
तेन पार्थिवमुख्येन भावितं भावितात्मना ॥
ततो द्वादश वर्षाणि पुनरीजे नराधिपः ।
तपत्या सहितः पत्न्या यथा शच्या मरुत्पतिः ॥
गन्धर्व उवाच ।
एवमासीन्महाभागा तपती नाम पौर्विकी ।
तव वैवस्वती पार्थ तापत्यस्त्वं यया मतः ॥
तस्यां संजनयामास कुरुं संवरणो नृपः ।
तपत्यां तपतां श्रेष्ठ तापत्यस्त्वं ततोऽर्जुन ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि चैत्ररथपर्वणि एकोननवत्यधिकशततमोऽध्यायः ॥ 189 ॥

1-189-10 मुकुटं तत्स्थानं ललाटम् ॥ 1-189-15 द्वादशमे द्वादशसंख्यया मिते ॥ 1-189-16 दिव्येन विधिना योगबलेन ॥ एकोननवत्यधिकशततमोऽध्यायः ॥ 189 ॥

अध्यायः 190

गन्धर्वेण वसिष्ठमाहात्म्यकथनपूर्वकं पाण्डवानां पुरोहितसंग्रहणोपदेशः ॥ 1 ॥

वैशंपायन उवाच ।
स गन्धर्ववचः श्रुत्वा तत्तदा भरतर्षभ ।
अर्जुनः परया भक्त्या पूर्णचन्द्र इवाबभौ ॥
उवाच च महेष्वासो गन्धर्वं कुरुसत्तमः ।
जातकौतूहलोऽतीव वसिष्ठस्य तपोबलात् ॥
वसिष्ठ इति तस्यैतदृषेर्नाम त्वयेरितम् ।
एतदिच्छाम्यहं श्रोतुं यथावत्तद्वदस्व मे ॥
य एष गन्धर्वपते पूर्वेषां नः पुरोहितः ।
आसीदेतन्ममाचक्ष्व क एष भगवानृषिः ॥
गन्धर्व उवाच ।
ब्रह्मणो मानसः पुत्रो वसिष्ठोऽरुन्धतीपतिः ।
तपसा निर्जितौ शश्वदजेयावमरैरपि ॥
कामक्रोधावुभौ यस्य चरणौ समुवाहतुः ।
इन्द्रियाणां वशकरो वशिष्ठ इति चोच्यते ॥
`यथा कामश्च क्रोधश्च निर्जितावजितौ नरैः । जितारयो जिता लोकाः पन्थानश्च जिता दिशः ॥'
यस्तु नोच्छेदनं चक्रे कुशिकानामुदारधीः ।
विश्वामित्रापराधेन धारयन्मन्युमुत्तमम् ॥
पुत्रव्यसनसंतप्तः शक्तिमानप्यशक्तवत् ।
विश्वामित्रविनाशाय न चक्रे कर्म दारुणम् ॥
मृतांश्च पुनराहर्तुं शक्तः पुत्रान्यमक्षयात् ।
कृतान्तं नातिचक्राम वेलामिव महोदधिः ॥
यं प्राप्य विजितात्मानं महात्मानं नराधिपाः ।
इक्ष्वाकवो महीपाला लेभिरे पृथिवीमिमाम् ॥
पुरोहितमिमं प्राप्य वसिष्ठमृषिसत्तमम् ।
ईजिरे क्रतुभिश्चैव नृपास्ते कुरुनन्दन ॥
स हि तान्याजयामास सर्वान्नृपतिसत्तमान् ।
ब्रह्मर्षिः पाण्डवश्रेष्ठ बृहस्पतिरिवामरान् ॥
तस्माद्धर्मप्रधानात्मा वेदधर्मविदीप्सितः ।
ब्राह्मणो गुणवान्कश्चित्पुरोधाः प्रतिदृश्यताम् ॥
क्षत्रियेणाभिजातेन पृथिवीं जेतुमिच्छता ।
पूर्वं पुरोहितः कार्यः पार्थ राज्याभिवृद्धये ॥
महीं जिगीषता राज्ञा ब्रह्म कार्यं पुरःस्कृतम् । तस्मात्पुरोहितः कश्चिद्गुणवान्विजितेन्द्रियः ।
विद्वान्भवतु वो विप्रो धर्मकामार्थतत्त्ववित् ॥ ॥

इति श्रीमन्महाभारते आदिपर्वमि चैत्ररथपर्वणि नवत्यधिकशततमोऽध्यायः ॥ 190 ॥

1-190-2 तपोबलात् तपोबलं श्रुत्वा ॥ 1-190-7 जितारयः जिता अस्य इति च्छेदः ॥ 1-190-8 अपराधेन पुत्रशतवधरूपेण ॥ नवत्यधिकशततमोऽध्यायः ॥ 190 ॥

अध्यायः 191

वसिष्ठोपाख्याने---विश्वामित्रस्य वसिष्ठाश्रमाभिगमनं ॥ 1 ॥ वसिष्ठेन विश्वामित्रस्यातिथ्यकरणं ॥ 2 ॥ विश्वामित्रेण वसिष्ठधेनुयाचनं ॥ 3 ॥ वसिष्ठेनादत्ताया धेनोः विश्वामित्रेण बलात्कारेण हरणं ॥ 4 ॥ कुपितया नन्दिन्या सृष्टैः म्लेच्छाद्यैः विश्वामित्रपराजयः ॥ 5 ॥ विश्वामित्रस्य तपसा ब्राह्मण्यप्राप्तिः ॥ 6 ॥

अर्जुन उवाच ।
किंनिमित्तमभूद्वैरं विश्वामित्रवसिष्ठयोः ।
वसतोराश्रमे दिव्ये शंस नः सर्वमेव तत् ॥
गन्धर्व उवाच ।
इदं वासिष्ठमाख्यानं पुराणं परिचक्षते ।
पार्थ सर्वेषु लोकेषु यथावत्तन्निबोध मे ॥
कान्यकुब्जे महानासीत्पार्थिवो भरतर्षभ ।
गाधीति विश्रुतो लोके कुशिकस्यात्मसंभवः ॥
तस्य धर्मात्मनः पुत्रः समृद्धबलवाहनः ।
विश्वामित्र इति ख्यतो बभूव रिपुमर्दनः ॥
स चचार सहामात्यो मृगयां गहने वने ।
मृगान्विध्यन्वराहांश्च रम्येषु मरुधन्वसु ॥
व्यायामकर्शितः सोऽथ मृगलिप्सुः पिपासितः ।
आजगाम नरश्रेष्ठ वसिष्ठस्याश्रमं प्रति ॥
तमागतमभिप्रेक्ष्य वसिष्ठः श्रेष्ठभागृषिः ।
विश्वामित्रं नरश्रेष्ठं प्रतिजग्राह पूजया ॥
पाद्यार्घ्याचमनीचैस्तं स्वागतेन च भारत ।
तथैव परिजग्राह वन्येन हविषा तदा ॥
तस्याथ कामधुग्धेनुर्वसिष्ठस्य महात्मनः ।
उक्ता कामान्प्रयच्छेति सा कामान्दुदुहे ततः ॥
`बाष्पाढ्यस्योदनस्यैव राशयः पर्वतोपमाः ।
निष्ठानानि च सूपांश्च दधिकुल्यास्तथैव च ॥
कूपांश्च घृतसंपूर्णान्गौड्यान्नानि सहस्रशः । इक्षून्मधूनि लाजांश्च मैरेयांश्च वरासवान् ॥'
ग्राम्यारण्याश्चौषधीश्च दुदुहे पय एव च ।
षड्रसं चामृतनिभं रसायनमनुत्तमम् ॥
भोजनीयानि पेयानि भक्ष्याणि विविधानि च ।
लेह्यान्यमृतकल्पानि चोष्याणि च तथार्जुना ॥
रत्नानि च महार्हाणि वासांसि विविधानि च ।
तैः कामैः सर्वसंपूर्णैः पूजितश्च महिपतिः ॥
सामात्यः सबलश्चैव तुतोष स भृशं तदा ।
षडुन्नतां सुपार्श्वोरुं पृथुपञ्चसमावृताम् ॥
मण्डूकनेत्रां स्वाकारां पीनोधसमनिन्दिताम् ।
सुवालघिं शङ्कुकर्णां चारुशृङ्गां मनोरमाम् ॥
पुष्टायतशिरोग्रीवां विस्मितः सोऽभिवीक्ष्यताम् ।
अभिनन्द्य स तां राजा नन्दिनीं गाधिनन्दनः ॥
अब्रवीच्च भृशं तुष्टः स राजा तमृषिं तदा ।
अर्बुदेन गवां ब्रह्मन्मम राज्येन वा पुनः ॥
नन्दिनीं संप्रयच्छस्व भुङ्क्ष्व राज्यं महामुने ।
वसिष्ठ उवाच ।
देवतातिथिपित्रर्थं याज्यार्थं च पयस्विनी ॥
अदेया नन्दिनीयं वै राज्येनापि तवानघ ।
विश्वामित्र उवाच ।
`रत्नं हि भगवन्नेतद्रत्नहारी च पार्थिवः ।'
क्षत्रियोऽहं भवान्विप्रस्तपःस्वाध्यायसाधनः ॥
ब्राह्णेषु कुतो वीर्यं प्रशान्तेषु धृतात्मसु ।
अर्बुदेन गवां यस्त्वं न ददासि ममेप्सितम् ॥
स्वधर्मं न प्रहास्यामि नेष्यामि च बलेन गाम् ।
वसिष्ठ उवाच ।
बलस्थश्चासि राजा च बाहुवीर्यश्च क्षत्रियः ॥
यथेच्छसि तथा क्षिप्रं कुरु मा त्वं विचारय ।
गन्धर्व उवाच ।
एवमुक्तस्तथा पार्थ विश्वामित्रो बलादिव ॥
हंसचन्द्रप्रतीकाशां नन्दिनीं तां जहार गाम् । `सा तदा ह्रियमाणा च विश्वामित्रबलैर्बलात् ।'
कशादण्डप्रणुदिता काल्यमाना इतस्ततः ॥
हंभायमाना कल्याणी वसिष्ठस्याथ नन्दिनी ।
आगम्याभिमुखी पार्थ तस्थौ भगवदुन्मुखी ॥
भृशं च ताड्यमाना वै न जगामाश्रमात्ततः ।
वसिष्ठ उवाच ।
शृणोमि ते रवं भद्रे विनदन्त्याः पुनः पुनः ॥
ह्रियसे त्वं बलाद्भद्रे विश्वामित्रेण नन्दिनि । किं कर्तव्यं मया तत्र क्षमावान्ब्राह्मणो ह्यहम् ।
गन्धर्व उवाच ।
सा भयान्नन्दिनी तेषां बलानां भरतर्षभ ।
विश्वामित्रभयोद्विग्ना वसिष्ठं समुपागमत् ॥
गौरुवाच ।
कशाग्रदण्डाभिहतां क्रोशन्तीं मामनाथवत् ।
विश्वामित्रबलैर्घोरैर्भगवन् किमुपेक्षसे ॥
गन्धर्व उवाच ।
एवं तस्यां तदा पार्थ धर्षितायां महामुनिः ।
न चुक्षुभे तदा धैर्यान्न चचाल धृतव्रतः ॥
वसिष्ठ उवाच ।
क्षत्रियाणां बलं तेजो ब्राह्मणानां क्षमा बलम् ।
क्षमा मां भजते यस्माद्गम्यतां यदि रोचते ॥
नन्दिन्युवाच ।
किं नु त्यक्ताऽस्मि भगवन्यदेवं त्वं प्रभाषसे ।
अत्यक्ताऽहं त्वया ब्रह्मन्नेतुं शक्या न वै बलात् ॥
वसिष्ठ उवाच ।
न त्वां त्यजामि कल्याणि स्थीयतां यदि शक्यते ।
दृढेन दाम्ना बद्ध्वैष वत्सस्ते हियते बलात् ॥
गन्धर्व उवाच ।
स्थीयतामिति तच्छ्रुत्वा वसिष्ठस्य पयस्विनी ।
ऊर्ध्वाञ्चितशिरोग्रीवा प्रबभौ रौद्रदर्शना ॥
क्रोधरक्तेक्षणा सा गौर्हंभारवघनस्वना ।
विश्वामित्रस्य तत्सैन्यं व्यद्रावयत सर्वशः ॥
कशाग्रदण्डाभिहता काल्यमाना ततस्ततः ।
क्रोधरक्तेक्षणा क्रोधं भूय एव समाददे ॥
आदित्य इव मध्याह्ने क्रोधदीप्तवपुर्बभौ ।
अङ्गारवर्षं मुञ्चन्ती मुहुर्वालधितो महत् ॥
असृजत्पह्लवान्पुच्छात्प्रस्रवाद्द्राविडाञ्छकान् ।
योनिदेशाच्च यवानाञ्शकृतः शबरान्बहून् ॥
मूत्रतश्चासृजत्कांश्चिच्छबरांश्चैव पार्श्वतः ।
पौण्ड्रान्किरातान्यवनान्सिंहलान्बर्बरान्खसान् ॥
चिबुकांश्च पुलिन्दांश्च चीनान्हूणान्सकेरलान् ।
ससर्ज फेनतः सा गौर्म्लेच्छान्बहुविधानपि ॥
तैर्विसृष्टैर्महासैन्यैर्नानाम्लेच्छगणैस्तदा ।
नानावरणसंछन्नैर्नानायुधधरैस्तथा ॥
अवाकीर्यत संरब्धैर्विश्वामित्रस्य पश्यतः ।
एकैकश्च तदा योधः पञ्चभिः सप्तभिर्वृतः ॥
अस्त्रवर्षेण महता वध्यमानं बलं तदा ।
प्रभग्नं सर्वतस्त्रस्तं विश्वामित्रस्य पश्यतः ॥
`तस्य तच्चतुरङ्गं वै बलं परमदुःसहम् । प्रभग्नं सर्वतो घोरं पयस्विन्या विनिर्जितम् ॥'
न च प्राणैर्वियुज्यन्ते केचित्तत्रास्य सैनिकाः ।
विश्वामित्रस्य संक्रुद्धैर्वासिष्ठैर्भरतर्षभ ॥
सा गौस्तत्सकलं सैन्यं कालयामास दूरतः ।
विश्वामित्रस्य तत्सैन्यं काल्यमानं त्रियोजनम् ॥
क्रोशमानं भयोद्विग्नं त्रातारं नाध्यगच्छत ।
`विश्वामित्रस्ततो दृष्ट्वा क्रोधाविष्टः स रोदसी ॥
ववर्ष शरवर्षाणि वसिष्ठे मुनिसत्तमे ।
घोररूपांश्च नाराचान्क्षुरान्भल्लान्महामुनिः ॥
विश्वामित्रप्रयुक्तांस्तान्वैणवेन व्यमोचयत् ।
वसिष्ठस्य तदा दृष्ट्वा कर्मकौशलमाहवे ॥
विश्वामित्रोऽपि कोपेन भूयः शत्रुनिपातनः ।
दिव्यास्त्रवर्षं तस्मै स प्राहिणोन्मुनये रुषा ॥
आग्नेयं वारुणं चैन्द्रं याम्यं वायव्यमेव च ।
विससर्ज महाभागे वसिष्ठे ब्रह्मणः सुते ॥
अस्त्राणि सर्वतो ज्वालां विसृजन्ति प्रपेदिरे ।
युगान्तसमये घोराः पतङ्गस्येव रश्मयः ॥
वसिष्ठोऽपि महातेजा ब्रह्मशक्तिप्रयुक्तया ।
यष्ट्या निवारयामास सर्वाण्यस्त्राणि स स्मयन् ॥
ततस्ते भस्मसाद्भूताः पतन्ति स्म महीतले ।
अपोह्य दिव्यान्यस्त्राणि वसिष्ठो वाक्यमब्रवीत् ॥
निर्जितोऽसि महाराज दुरात्मन्गाधिनन्दन ।
यदि तेऽस्ति परं शौर्यं तद्दर्शय मयि स्थिते ॥
गन्धर्व उवाच ।
विश्वामित्रस्तथा चोक्तो वसिष्ठेन नराधिपः ।
नोवाच किंचिद्व्रीडाढ्यो विद्रावितमहाबलः' ॥
दृष्ट्वा तन्महदाश्चर्यं ब्रह्मतेजोभवं तदा । विश्वामित्रः क्षत्रभावान्निर्विण्णो वाक्यमब्रवीत् ।
धिग्बलं क्षत्रियबलं ब्रह्मतेजोबलं बलम् ॥
बलाबले विनिश्चित्य तप एव परं बलम् ।
गन्धर्व उवाच ।
स राज्यं स्फीतमुत्सृज्य तां च दीप्तां नृपश्रियम् ॥
भोगांश्च पृष्ठतः कृत्वा तपस्येव मनो दधे ।
स गत्वा तपसा सिद्धिं लोकान्विष्टभ्य तेजसा ॥
तताप सर्वान्दीप्तौजा ब्राह्मणत्वमवाप्तवान् ।
अपिबच्च ततः सोममिन्द्रेण सह कौशिकः ॥
`एवंवीर्यस्तु राजर्षिर्विप्रर्षिः संबभूव ह' ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि चैत्ररथपर्वमि एकनवत्यधिकशततमोऽध्यायः ॥ 191 ॥

1-191-5 मरुधन्वसु मरुसंज्ञकेष्वल्पजलप्रदेशेषु ॥ 1-191-38 पह्लवादयो म्लेच्छविशेषाः ॥ एकनवत्यधिकशततमोऽध्यायः ॥ 191 ॥

अध्यायः 192

कल्माषपादराजोपाख्याने---वसिष्ठपुत्रेण शक्तिना कल्माषपादं प्रति शापदानं ॥ 1 ॥ पुनरन्येन ब्राह्मणेन च कल्माषपादंप्रति शापदानं ॥ 2 ॥ राक्षसाविष्टेन कल्माषपादेन वसिष्ठपुत्राणां भक्षणं ॥ 3 ॥ पुत्रशोकाभिसंतप्तेन वसिष्ठेन प्राणत्यागार्थं अनेकधा प्रयतनम् ॥ 4 ॥

`अर्जुन उवाच ।
ऋष्योस्तु यत्कृते वैरं विश्वामित्रवसिष्ठयोः ।
बभूव गन्धर्वपते शंस तत्सर्वमेव मे ॥
माहात्म्यं च वसिष्ठस्य ब्राह्मण्यं ब्रह्मतेजसः ।
विश्वामित्रस्य च तथा क्षत्रस्य च महात्मनः ॥
न शृण्वानस्त्वहं तृप्तिमुपगच्छामि खेचर ।
आख्याहि गन्धर्वपते शंस तत्सर्वमेव मे ॥
माहात्म्यं च वसिष्ठस्य विश्वामित्रस्य भाषते ॥
गन्धर्व उवाच ।
इदं वासिष्ठमाख्यानं पुराणं पुण्यमुत्तमम् । पार्थ सर्वेषु लोकेषु विश्रुतं तन्निबोध मे ॥'
कल्माषपाद इत्येवं लोके राजा बभूव ह ।
इक्ष्वाकुवंशजः पार्थ तेजसाऽसदृशो भुवि ॥
स कदाचिद्वनं राजा मृगयां निर्ययौ पुरात् ।
मृगान्विध्यन्वराहांश्च चचार रिपुमर्दनः ॥
तस्मिन्वने महाघोरे खङ्गांश्च बहुशोऽहनत् ।
हत्वा च सुचिरं श्रान्तो राजा निववृते ततः ॥
अकामयत्तं याज्यार्थे विश्वामित्रः प्रतापवान् ।
स तु राजा महात्मानं वासिष्ठमृषिसत्तमम् ॥
तृषार्तश्च क्षुधार्तश्च एकायनगतः पथि ।
अपश्यदजितः सङ्ख्ये मुनिं प्रतिमुखागतम् ॥
शक्तिं नाम महाभागं वसिष्ठकुलवर्धनम् ।
ज्येष्ठं पुत्रं पुत्रशताद्वसिष्ठस्य महात्मनः ॥
अपगच्छ पथोऽस्माकमित्येवं पार्थिवोऽब्रवीत् ।
तथा ऋषिरुवाचैनं सान्त्वयञ्श्लक्ष्णया गिरा ॥
मम पन्था महाराज धर्म एष सनातनः ।
`वृद्धभीरुनृपस्नातस्त्रीरोगिवरचक्रिणाम् ॥
पन्था देयो नृपैस्तेषामन्यैस्तैस्तस्य भूपतेः ।' राज्ञा सर्वेषा धर्मेषु देयः पन्था द्विजातये ॥
एवं परस्परं तौ तु पथोऽर्थं वाक्यमूचतुः ।
अपसर्पापसर्पेति वागुत्तरमकुर्वताम् ॥
ऋषिस्तु नापचक्राम तस्मिन्धर्मपथे स्थितः । `अपि राजा मुनेर्मार्गात्क्रोधान्नापजगाम ह ॥'
अमुञ्चन्तं तु पन्थानं तमृषिं नृपसत्तमः ।
जगाम कशया मोहात्तदा राक्षसन्मुनिम् ॥
कशाप्रहाराभिहतस्ततः स मुनिसत्तमः ।
तं शशाप नृपश्रेष्ठं वासिष्ठः क्रोधमूर्च्छितः ॥
हंसि राक्षसवद्यस्माद्राजापशद तापसम् ।
तस्मात्त्वमद्यप्रभृति पुरुषादो भविष्यसि ॥
मनुष्यपिशिते सक्तश्चरिष्यसि महीमिमाम् ।
गच्छ राजाधमेत्युक्तः शक्तिना वीर्यशक्तिना ॥
ततो याज्यनिमित्तं तु विश्वामित्रवसिष्ठयोः ।
वैरमासीत्तदा तं तु विश्वामित्रोऽन्वपद्यत ॥
तयोर्विवदतोरेवं समीपमुपचक्रमे ।
ऋषिरुग्रतपाः पार्थ विश्वामित्रः प्रतापवान् ॥
ततः स बुबुधे पश्चात्तमृषिं नृपसत्तमः ।
ऋषेः पुत्रं वसिष्ठस्य वसिष्ठमिव तेजसा ॥
अन्तर्धाय ततोऽत्मानं विश्वामित्रोऽपि भारत ।
तावुभावतिचक्राम चिकीर्षन्नात्मनः प्रियम् ॥
स तु शप्तस्तदा तेन शक्तिना वै नृपोत्तमः ।
जगाम शरणं शक्तिं प्रसादयितुमर्हयन् ॥
तस्य भावं विदित्वा स नृपतेः कुरुसत्तम ।
विश्वामित्रस्ततो रक्ष आदिदेश नृपं प्रति ॥
शापात्तस्य तु विप्रर्षेर्विश्वामित्रस्य चाज्ञया ।
राक्षसः किङ्करो नाम विवेश नृपतिं तदा ॥
रक्षसा तं गृहीतं तु विदित्वा मुनिसत्तमः ।
विश्वामित्रोऽप्यपाक्रामत्तस्माद्देशादरिन्दम ॥
ततः स नृपतिर्विद्वान्रक्षन्नात्मानमात्मना ।
बलवत्पीड्यमानोऽपि रक्षसान्तर्गतेन ह ॥
ददर्शाथ द्विजः कश्चिद्राजानं प्रस्थितं वनम् ।
अयाचत क्षुधापन्नः समांसं भोजनं तदा ॥
तमुवाचाथ राजर्षिर्द्विजं मित्रसहस्तदा ।
आस्स्व ब्रह्मंस्त्वमत्रैव मुहूर्तं प्रतिपालयन् ॥
निवृत्तः प्रतिदास्यामि भोजनं ते यथेप्सितम् ।
इत्युक्त्वा प्रययौ राजा तस्थौ च द्विजसत्तमः ॥
ततो राजा परिक्रम्य यथाकामं यथासुखम् ।
निवृत्तोऽन्तःपुरं पार्थ प्रविवेश महामनाः ॥
`अन्तर्गतस्तदा राजा श्रुत्वा ब्राह्मणभाषितम् । सोऽन्तःपुरं प्रविश्याथ न सस्मार नराधिपः ॥'
ततोऽर्धरात्र उत्थाय सूदमानाय्य सत्वरम् ।
उवाच राजा संस्मृत्य ब्राह्मणस्य प्रतिश्रुतम् ॥
गच्छामुष्मिन्वनोद्देशे ब्राह्मणो मां प्रतीक्षते ।
अन्नार्थी तं त्वमन्नेन समांसेनोपपादय ॥
गन्धर्व उवाच ।
एवमुक्तस्ततः सूदः सोऽनासाद्यामिषं क्वचित् ।
निवेदयामास तदा तस्मै राज्ञे व्यथान्वितः ॥
राजा तु रक्षसाविष्टः सूदमाह गतव्यथः ।
अप्येनं नरमांसेन भोजयेति पुनः पुनः ॥
तथेत्युक्त्वा ततः सूदः संस्थानं वध्यघातिनाम् ।
गत्वाऽऽजहार त्वरितो नरमांसमपेतभीः ॥
एतत्संस्कृत्य विधिवदन्नोपहितमाशु वै ।
तस्मै प्रादाद्ब्राह्मणाय क्षुधिताय तपस्विने ॥
स सिद्धचक्षुषा दृष्ट्वा तदन्नं द्विजसत्तमः ।
अभोज्यमिदमित्याह क्रोधपर्याकुलेक्षणः ॥
ब्राह्मण उवाच ।
यस्मादभोज्यमन्नं मे ददाति स नृपाधमः ॥
सक्तो मानुषमांसेषु यथोक्तः शक्तिना पुरा ।
उद्वेजनीयो भूतानां चरिष्यति महीमिमाम् ॥
गन्धर्व उवाच ।
द्विरनुव्याहृते राज्ञः स शापो बलवानभूत् ।
रक्षोबलसमाविष्टो विसंज्ञश्चाभवन्नृपः ॥
ततः स नृपतिश्रेष्ठो रक्षसापहृतेन्द्रियः ।
उवाच शख्तिं तं दृष्ट्वा न चिरादिव भारत ॥
यस्मादसदृशः शापः प्रयुक्तोऽयं मयि त्वया ।
तस्मात्त्वत्तः प्रवर्तिष्ये खादितुं पुरुषानहम् ॥
एवमुक्त्वा ततः सद्यस्तं प्राणैर्विप्रयोज्य च ।
शक्तिं तं भक्षयामास व्याघ्रः पशुमिवेप्सितम् ॥
शक्तिनं तु मृतं दृष्ट्वा विश्वामित्रः पुनःपुनः ।
वसिष्ठस्यैव पुत्रेषु तद्रक्षः संदिदेश ह ॥
स ताञ्शक्त्यवरान्पुत्रान्वसिष्ठस्य महात्मनः ।
भक्षयामास संक्रुद्धः सिंहः क्षुद्रमृगानिव ॥
वसिष्ठो घातिताञ्श्रुत्वा विश्वामित्रेण तान्सुतान् ।
धारयामास तं शोकं महाद्रिरिव मेदिनीम् ॥
चक्रे चात्मविनाशाय बुद्धिं स मुनिसत्तमः ।
न त्वेव कौशिकोच्छेदं मेने मतिमतां वरः ॥
स मेरुकूटादात्मानं मुमोच भगवानृषिः ।
गिरेस्तस्य शिलायां तु तूलराशाविवापतत् ॥
न ममार च पातेन स यदा तेन पाण्डव ।
तदाग्निमिद्धं भगवान्संविवेश महावने ॥
तं तदा सुसमिद्धोऽपि न ददाह हुताशनः ।
दीप्यमानोऽप्यमित्रघ्न शीतोऽग्निरभवत्ततः ॥
स समुद्रमभिप्रेक्ष्य शोकाविष्टो महामुनिः ।
बद्ध्वा कण्ठे शिलां गुर्वीं निपपात तदाम्भसि ॥
स समुद्रोर्मिवेगेन स्थले न्यस्तो महामुनिः । न ममार यदा विप्रः कथंचित्संशितव्रतः ।
जगाम स ततः खिन्नः पुनरेवाश्रमं प्रति ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि चैत्ररथपर्वणि द्विनवत्यधिकशततमोऽध्यायः ॥ 192 ॥

1-192-9 याज्यार्थे अयं मम याज्यो भवत्वित्येतदर्थम् ॥ 1-192-10 एकायनगतः अतिसंकुचितमार्गे गतः ॥ 1-192-52 मुमोच पातयामास । आत्मानं देहम् ॥ द्विनवत्यधिकशततमोऽध्यायः ॥ 192 ॥

अध्यायः 193

पूर्वोपायैरपि दुस्त्यजप्राणस्य वसिष्ठस्य पुनर्गङ्गापतनादिनापि प्राणत्यागासंभवे आश्रमं प्रत्यागमनम् ॥ 1 ॥ तत्र शक्तिभार्यामदृश्यन्तीनाम्नी गर्भवतीं ज्ञात्वा आत्मघातान्निवर्तनं ॥ 2 ॥ अदृश्यन्त्या सह गच्छन्तं वसिष्ठं भक्षयितुमागतस्य कल्माषपादस्य वसिष्ठेन शापान्मोक्षणं ॥ 3 ॥ सौदासपत्न्या वसिष्ठाद्गर्भसंभवः ॥ 4 ॥ अश्मकनामकपुत्रोत्पत्तिः ॥ 5 ॥

गन्धर्व उवाच ।
ततो दृष्ट्वाश्रमपदं रहितं तैः सुतैर्मुनिः ।
निर्जगाम सुदुःखार्तः पुनरप्याश्रमात्ततः ॥
सोऽपश्यत्सरितं पूर्णां प्रावृट्काले नवाम्भसा ।
वृक्षान्बहुविधान्पार्थ हरन्तीं तीरजान्बहून् ॥
अथ चिन्तां समापेदे पुनः कौरवनन्दन ।
अम्भस्यस्या निमज्जेयमिति दुःखसमन्वितः ॥
ततः पाशैस्तदात्मानं गाढं बद्ध्वा महामुनिः ।
तस्या जले महानद्या निममज्ज सुदुःखितः ॥
अथ च्छित्त्वा नदी पाशांस्तस्यारिबलसूदन ।
स्थलस्थं तमृषिं कृत्वा विपाशं समवासृजत् ॥
उत्ततार ततः पाशैर्विमुक्तः स महानृषिः ।
विपाशेति च नामास्या नद्याश्चक्रे महानृषिः ॥
`सा विपाशेति विख्याता नदी लोकेषु भारत । ऋषेस्तस्य नरव्याघ्र वचनात्सत्यवादिनः ।
उत्तीर्य च तदा राजन्दुःखितो भगवानृषिः ॥'
शोके बुद्धिं तदा चक्रे न चैकत्र व्यतिष्ठत ।
सोऽगच्छत्पर्वतांश्चैव सरितश्च सरांसि च ॥
दृष्ट्वा स पुनरेवर्षिर्नदीं हैमवतीं तदा ।
चण्डग्राहवतीं भीमां तस्याः स्रोतस्यपातयत् ॥
सा तमग्निसं विप्रमनुचिन्त्य सरिद्वरा ।
शतधा विद्रुता तस्माच्छतद्रुरिति विश्रुता ॥
ततः स्थलगतं दृष्ट्वा तत्राप्यात्मानमात्मना ।
मर्तुं न शक्यमित्युक्त्वा पुवरेवाश्रमं ययौ ॥
स गत्वा विविधाञ्शैलान्देशान्बहुविधांस्तथा ।
अदृशन्त्याख्यया वध्वाथाश्रमेनुसृतोऽभवत् ॥
अथ शुश्राव संगत्या वेदाध्ययननिःस्वनम् ।
पृष्ठतः परिपूर्णार्थं षड्मिरङ्गैरलङ्कृतम् ॥
अनुव्रजति कोन्वेष मामित्येवाथ सोऽब्रवीत् ।
अदृश्यन्त्येवमुक्ता वै तं स्नुषा प्रत्यभाषत ॥
शक्तोभार्या महाभाग तपोयुक्ता तपस्विनम् ।
अहमेकाकिनी चापि त्वया गच्छामि नापरः ॥
वसिष्ठ उवाच ।
पुत्रि कस्यैष साङ्गस्य वेदस्याध्ययनस्वनः ।
पुरा साङ्गस्य वेदस्य शक्तेरिव मया श्रुतः ॥
अदृश्यन्त्युवाच ।
अयं कुक्षौ समुत्पन्नः शक्तेर्गर्भः सुतस्य ते ।
समा द्वादश तस्येह वेदानभ्यस्यतो मुने ॥
गन्धर्व उवाच ।
एवमुक्तस्तया हृष्टो वसिष्ठः श्रेष्ठभागृषिः ।
अस्ति सन्तानमित्युक्त्वा मृत्योः पार्थ न्यवर्तत ॥
ततः प्रतिनिवृत्तः स तया वध्वा सहानघ ।
कल्माषपादमासीनं ददर्श विजने वने ॥
स तु दृष्ट्वैव तं राजा क्रुद्ध उत्थाय भारत ।
आविष्टो रक्षसोग्रेण इयेषात्तुं तदा मुनिम् ॥
अदृश्यन्ती तु तं दृष्ट्वा क्रूरकर्माणमग्रतः ।
भयसंविग्नया वाचा वसिष्ठमिदमब्रवीत् ॥
असौ मृत्युरिवोग्रेण दण्डेन भगवन्नितः ।
प्रगृहीतेन काष्ठेन राक्षसोऽभ्येति दारुणः ॥
तं निवारयितुं शक्तो नान्योऽस्ति भुवि कश्चन ।
स्वदृतेऽद्य महाभाग सर्ववेदविदां वर ॥
पाहि मां भगवन्पापादस्माद्दारुणदर्शनात् ।
राक्षसोऽयमिहात्तुं वै नूनमावां समीहते ॥
वसिष्ठ उवाच ।
माभैः पुत्रि न भेतव्यं राक्षसात्तु कथंचन ।
नैतद्रक्षो भयं यस्मात्पश्यसि त्वमुपस्थितम् ॥
राजा कल्माषपादोऽयं वीर्यवान्प्रथितो भुवि ।
स एषोऽस्मिन्वनोद्देशे निवसत्यतिभीषणः ॥
गन्धर्व उवाच ।
तमापतन्तं संप्रेक्ष्य वसिष्ठो भगवानृषिः ।
वारयामास तेजस्वी हुङ्कारेणैव भारत ॥
मन्त्रपूतेन च पुनः स तमभ्युक्ष्य वारिणा ।
मोक्षयामास वै शापात्तस्माद्योगान्नराधिपम् ॥
स हि द्वादश वर्षाणि वासिष्ठस्यैव तेजसा ।
ग्रस्त आसीद्ग्रहेणेव पर्वकाले दिवाकरः ॥
रक्षसा विप्रमुक्तोऽथ स नृपस्तद्वनं महत् ।
तेजसा रञ्जयामास न्ध्याभ्रमिव भास्करः ॥
प्रतिलभ्य ततः संज्ञामभिवाद्य कृताञ्जलिः ।
उवाच नृपतिः काले वसिष्ठमृषिसत्तमम् ॥
सौदासोऽहं महाभाग याज्यस्ते मुनिसत्तम ।
अस्मिन्काले यदिष्टं ते ब्रूहि किं करवाणि ते ॥
वसिष्ठ उवाच ।
वृत्तमेतद्यथाकालं गच्छ राज्यं प्रशाधि वै ।
ब्राह्मणं तु मनुष्येन्द्र माऽवमंस्थाः कदाचन ॥
राजोवाच ।
नावमंस्ये महाभाग कदाचिद्ब्राह्मणर्षभान् ।
त्वन्निदेशे स्थितः सम्यक् पूजयिष्याम्यहं द्विजान् ॥
इक्ष्वाकूणां च येनाहमनृणः स्यां द्विजोत्तम ।
तत्त्वत्तः प्राप्तुमिच्छामि सर्ववेदविदां वर ॥
अपत्यायेप्सिताय त्वं महिषीं गन्तुमर्हसि ।
शीलरूपगुणोपेतामिक्ष्वाकुकुलवृद्धये ॥
गन्धर्व उवाच ।
ददानीत्येव तं तत्र राजानं प्रत्युवाच ह ।
वसिष्ठः परमेष्वासं सत्यसन्धो द्विजोत्तमः ॥
ततः प्रतिययौ काले वसिष्ठः सह तेन वै ।
ख्यातां पुरीमिमां लोकेष्वयोध्यां मनुजेश्वर ॥
तं प्रजाः प्रतिमोदन्त्यः सर्वाः प्रत्युद्गतास्तदा ।
विपाप्मानं महात्मानं दिवौकस इवेश्वरम् ॥
सुचिराय मनुष्येन्द्रो नगरीं पुण्यलक्षणाम् ।
विवेश सहितस्तेन वसिष्ठेन महर्षिणा ॥
ददृशुस्तं महीपालमयोध्यावासिनो जनाः ।
पुरोहितेन सहितं दिवाकरमिवोदितम् ॥
स च तां पूरयामास लक्ष्म्या लक्ष्मीवतां वरः ।
अयोध्यां व्योम शीतांशुः शरत्काल इवोदितः ॥
संसक्तिमृष्टपन्थानं पताकाध्वजशोभितम् ।
मनः प्रह्लादयामास तस्य तत्पुरमुत्तमम् ॥
तुष्टपुष्टजनाकीर्णा सा पुरी कुरुनन्दन ।
अशोभत तदा तेन शक्रेणेवामरावती ॥
ततः प्रविष्टे राजर्षौ तस्मिंस्तत्पुरमुत्तमम् ।
राज्ञस्तस्याज्ञया देवी वसिष्ठमुपचक्रमे ॥
ऋतावथ महर्षिस्तु संबभूव तया सह ।
देव्या दिव्येन विधिना वसिष्ठः श्रेष्ठभागृषिः ॥
ततस्तस्यां समुत्पन्ने गर्भे स मुनिसत्तमः ।
राज्ञाभिवादितस्तेन जगाम मुनिराश्रमम् ॥
दीर्घकालेन सा गर्भं सुषुवे न तु तं यदा ।
तदा देव्यश्मना कुक्षिं निर्बिभेद यशस्विनी ॥
ततो द्वादशमे वर्षे स जज्ञे पुरषर्षभः ।
अश्मको नाम राजर्षिः पौदन्यं यो न्यवेशयत् ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि चैत्ररथपर्वणि त्रिनवत्यधिकशततमोऽध्यायः ॥ 193 ॥

1-193-12 वध्वा स्नुषया ॥ 1-193-48 निष्पिपेष मनस्विनीति ङ. पाठः ॥ त्रिनवत्यधिकशततमोऽध्यायः ॥ 193 ॥

अध्यायः 194

पराशरोत्पत्तिः ॥ 1 ॥ पितरं कल्माषपादभक्षितं ज्ञात्वा क्रुद्धेन पराशरेण लोकविनाशाय यतनम् ॥ 2 ॥ कर्तवीर्यार्जुन वंश्यैः क्षत्रियैः धनार्थं भृगुवंश्यानां ब्राह्मणानां हननम् ॥ 3 ॥ क्षत्रियभीत्या कयाचिद्ब्राह्मण्या ऊरौ गर्भं धृतं हन्तुं क्षत्रियाणामुद्यमः ॥ 4 ॥ ऊरुं भित्वा निर्गतस्य बालकस्य तेजसान्धीभूतानां क्षत्रियाणां ब्राह्मणींप्रति शरणगमनम् ॥ 5 ॥

गन्धर्व उवाच ।
आश्रमस्था ततः पुत्रमदृश्यन्ती व्यजायत ।
शक्तेः कुलकरं राजन् द्वितीयमिव शक्तिनम् ॥
जातकर्मादिकास्तस्य क्रियाः स मुनिसत्तमः ।
पौत्रस्य भरतश्रेष्ठ चकार भगवान्स्वयम् ॥
परासुः स यतस्तेन वसिष्ठः स्थापितो मुनिः ।
गर्भस्थेन ततो लोके पराशर इति स्मृतः ॥
अमन्यत स धर्मात्मा वसिष्ठं पितरं मुनिः ।
जन्मप्रभृति तस्मिंस्तु पितरीवान्ववर्तत ॥
स तात इति विप्रर्षिं वसिष्ठं प्रत्यभाषत ।
मातुः समक्षं कौन्तेय अदृश्यन्त्याः परन्तप ॥
तातेति परिपूर्णार्थं तस्य तन्मधुरं वचः ।
अदृश्यन्त्यश्रुपूर्णाक्षी शृण्वती तमुवाच ह ॥
मा तात ताततातेति ब्रूह्येनं पितरं पितुः ।
रक्षसा भक्षितस्तात तव तातो वनान्तरे ॥
मन्यसे यं तु तातेति नैष तातस्तवानघ ।
आर्य एष पिता तस्य पितुस्तव यशस्विनः ॥
स एवमुक्तो दुःखार्तः सत्यवागृषिसत्तमः ।
सर्वलोकविनाशाय मतिं चक्रे महामनाः ॥
तं तथा निश्चितात्मानं स महात्मा महातपाः ।
ऋषिर्ब्रह्मविदां श्रष्ठो मैत्रावरुणिरन्त्यधीः ॥
वसिष्ठो वारयामास हेतुना येन तच्छृणु ।
वसिष्ठ उवाच ।
कृतवीर्य इति ख्यातो बभूव पृथिवीपतिः ॥
याज्यो वेदविदां लोके भृगूणां पार्थिवर्षभः ।
स तानग्रभुजस्तात धान्येन च धनेन च ॥
सोमान्ते तर्पयामास विपुलेन विशांपतिः ।
तस्मिन्नृपतिशार्दूले स्वर्यातेऽथ कथंचन ॥
बभूव तत्कुलेयानां द्रव्यकार्यमुपस्थितम् ।
भृगूणां तु धनं ज्ञात्वा राजानः सर्व एव ते ॥
याचिष्णवोऽभिजग्मुस्तांस्ततो भार्गवसत्तमान् ।
भूमौ तु निददुः केचिद्भृगवो धनमक्षयम् ॥
ददुः केचिद्द्विजातिभ्यो ज्ञात्वा क्षत्रियतो भयम् ।
भृहवस्तु ददुः केचित्तेषां वित्तं यथेप्सितम् ॥
क्षत्रियाणां तदा तात कारणान्तरदर्शनात् ।
ततो महीतलं तात क्षत्रियेण यदृच्छया ॥
खनताऽधिगतं वित्तं केनच्चिद्धृगुवेश्मनि ।
तद्वित्तं ददृशुः सर्वे समेताः क्षत्रियर्षभाः ॥
अवमन्य ततः क्रोधाद्भृगूंस्ताञ्छरणगतान् ।
निजघ्नुः परमेष्वासाः सर्वांस्तान्निशितैः शरैः ॥
आगर्भादवकृन्तन्तश्चेरुः सर्वां वसुन्धराम् ।
तत उच्छिद्यमानेषु भृगुष्वेवं भयात्तदा ॥
भृगुपत्न्यो गिरिं दुर्गं हिमवन्तं प्रपेदिरे ।
तासामन्यतमा गर्भं भयाद्दध्रे महौजसम् ॥
ऊरुणैकेन वाभोरूर्भर्तुः कुलविवृद्धये ।
तं गर्भमुपलभ्याशु ब्राह्मण्येका भयार्दिता ॥
गत्वा वै कथयामास क्षत्रियाणामुपह्वरे ।
ततस्ते क्षत्रिया जग्मुस्तं गर्भं हन्तुमुद्यताः ॥
ददृशुर्ब्राह्मणीं तेऽथ दीप्यमानां स्वतेजसा ।
अथ गर्भः स भित्त्वोरुं ब्राह्मण्या निर्जगाम ह ॥
मुष्णन्दृष्टीः क्षत्रियाणां मध्याह्न इव भास्करः ।
ततश्चक्षुर्विहीनास्ते गिरिदुर्गेषु बभ्रमुः ॥
ततस्ते मोघसङ्कल्पा भयार्ताः क्षत्रियाः पुनः ।
ब्राह्मणीं शरमं जग्मुर्दृष्ट्यर्थं तामनिन्दिताम् ॥
ऊचुश्चैनां महाभागां क्षत्रियास्ते विचेतसः ।
ज्योतिःप्रहीणा दुःखार्ताः शान्तार्चिष इवाग्नयः ॥
भगवत्याः प्रसादेन गच्छेत्क्षत्रमनामयम् ।
उपारम्य च गच्छेम सहिताः पापकर्मणः ॥
सपुत्रा त्वं प्रसादं नः कर्तुमर्हसि शोभने ।
पुनर्दृष्टिप्रदानेन राज्ञः संत्रातुमर्हसि ॥ ॥

इति श्रीमन्महाभारते आदिप्रवणि चैत्ररथपर्वणि चतुर्नवत्यधिकशततमोऽध्यायः ॥ 194 ॥

1-194-10 अन्त्यधीः अन्ते सिद्धान्ते साध्वी अन्त्या धीर्यस्य सोन्त्यधीः ॥ चतुर्नवत्यधिकशततमोऽध्यायः ॥ 194 ॥

अध्यायः 195

ब्राह्मणीवाक्येन और्वंप्रति शरणागतानां क्षत्रियाणां चक्षुःप्राप्तिः ॥ 1 ॥ लोकविनाशार्थं तपस्यत और्वस्य तत्पितृकृततपोनिवारणम् ॥ 2 ॥

ब्राह्मण्युवाच ।
नाहं गृह्णामि वस्ताता दृष्टीर्नास्मि रुषान्विता ।
अयं तु भार्गवो नूनमूरुजः कुपितोऽद्य वः ॥
तेन चक्षूंषि वस्ताता व्यक्तं कोपान्महात्मना ।
स्मरता निहतान्बन्धूनादत्तानि न संशयः ॥
गर्भानपि यदा यूयं भृगूणां घ्नत पुत्रकाः ।
तदायमूरुणा गर्भो मया वर्षशतं धृतः ॥
षडङ्गश्चाखिलो वेद इमं गर्भस्थमेव ह ।
विवेश भृगुवंशस्य भूयः प्रियचिकीर्षया ॥
सोऽयं पितृवधाद्व्यक्तं क्रोधाद्वो हन्तुमिच्छति ।
तेजसा तस्य दिव्येन चक्षूंषि मुषितानि वः ॥
तमेव यूयं याचध्वमौर्वं मम सुतोत्तमम् ।
अयं वः प्रणिपातेन तुष्टो दृष्टीः प्रदास्यति ॥
वसिष्ठ उवाच ।
एवमुक्तास्ततः सर्वे राजानस्ते तमूरुजम् ।
ऊचुः प्रसीदेति तदा प्रसादं च चकार सः ॥
अनेनैव च विख्यातो नाम्ना लोकेषु सत्तमः ।
स और्व इति विप्रर्षिरूरुं भित्त्वा व्यजायत ॥
चक्षूंषि प्रतिलभ्याथ प्रतिजग्मुस्ततो नृपाः ।
भार्गवस्तु मुनिर्मेने सर्वलोकपराभवम् ॥
स चक्रे तात लोकानां विनाशाय मतिं तदा ।
सर्वेषामेव कार्त्स्न्येन मनः प्रवणमात्मनः ॥
इच्छन्नपचितिं कर्तुं भृगूणां भृगुनन्दनः ।
सर्वलोकविनाशाय तपसा सहतैधितः ॥
तापयामास ताँल्लोकान्सदेवासुरमानुषान् ।
तपसोग्रेण महता नन्दयिष्यन्पितामहान् ॥
ततस्तं पितरस्तात विज्ञाय कुलनन्दनम् ।
पितृलोकादुपागम्य सर्व ऊचुरिदं वचः ॥
और्व दृष्टः प्रभावस्ते तपसोग्रस्य पुत्रक ।
प्रसादं कुरु लोकानां नियच्छ क्रोधमात्मनः ॥
नानीशैर्हि तदा तात भृगुभिर्भावितात्मभिः ।
वधो ह्युपेक्षितः सर्वैः क्षत्रियाणां विहिंसताम् ॥
आयुषा विप्रकृष्टेन यदा नः खेद आविशत् ।
तदाऽस्माभिर्वधस्तात क्षत्रियैरीप्सितः स्वयम् ॥
निखातं यच्च वै वित्तं केनचिद्गृगुवेश्मनि ।
वैरायैव तदा न्यस्तं क्षत्रियान्कोपयिष्णुभिः ॥
किं हि वित्तेन नः कार्यं स्वर्गेप्सूनां द्विजोत्तम ।
यदस्माकं धनाध्यक्षः प्रभूतं धनमाहरत् ॥
यदा तु मृत्युरादातुं न नः शक्नोति सर्वशः ।
तदाऽस्माभिरयं दृष्ट उपायस्तात संमतः ॥
आत्महा च पुमांस्तात न लोकाँल्लभते शुभान् ।
ततोऽस्माभिः समीक्ष्यैवं नात्मनात्मा निपातितः ॥
न चैतन्नः प्रियं तात यदिदं कर्तुमिच्छसि ।
नियच्छेदं मनः पापात्सर्वलोकपराभवात् ॥
मा वधीः क्षत्रियांस्तात न लोकान्सप्त पुत्रक ।
दूषयन्तं तपस्तेजः क्रोधमुत्पतितं जहि ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि चैत्ररथपर्वणि पञ्चनवत्यधिकशततमोऽध्यायः ॥ 195 ॥

1-195-20 आत्महेति एतेन भृगुपतनादिना मरणं ब्राह्मणेतरविषयं दर्शितम् ॥ 1-195-22 मावधीरिति क्षत्रियान् तदनियन्तृत्वेनानपराधिनः । सप्तलोकान् भूरादींश्च मावधीः किंतु तपःसंभृतं तेजो दूषयन्तं क्रोधं जहि ॥ पञ्चनवत्यधिकशततमोऽध्यायः ॥ 195 ॥

अध्यायः 196

पितॄणां निदेशेन और्वस्य समुद्रे क्रोधत्यागः ॥ 1 ॥

और्व उवाच ।
उक्तवानस्मि यां क्रोधात्प्रतिज्ञां पितरस्तदा ।
सर्वलोकविनाशाय न सा मे वितथा भवेत् ॥
वृथारोषप्रतिज्ञो वै नाहं जीवितुमुत्सहे ।
अनिस्तीर्णो हि मां रोषो दहेदग्निरिवारणिम् ॥
यो हि कारणतः क्रोधं संजातं क्षन्तुमर्हति ।
नालं स मनुजः सम्यक् त्रिवर्गं परिरक्षितुम् ॥
अशिष्टानां नियन्ता हि शिष्टानां परिरक्षिता ।
स्थाने रोषः प्रयुक्तः स्यान्नृपैः सर्वजिगीषुभिः ॥
अश्रौषमहमूरुस्थो गर्भशय्यागतस्तदा ।
आरावं मातृवर्गस्य भृगूणां क्षत्रियैर्वधे ॥
सामरैर्हि यदा लोके भृगूणां क्षत्रियाधमैः ।
आगर्भोत्सादनं क्षान्तं तदा मां मन्युराविशत् ॥
प्रकीर्णकेशाः किल मे मातरः पितरस्तथा ।
भयात्सर्वेषु लोकेषु नाधिजग्मुः परायणम् ॥
तान्भृगूणां यदा दारान्कश्चिन्नाभ्युपपद्यत ।
माता तदा दधारेयमूरुणैकेन मां शुभा ॥
प्रतिषेद्धा हि पापस्य यदा लोकेषु विद्यते ।
तदा सर्वेषु लोकेषु पापकृन्नोपपद्यते ॥
यदा तु प्रतिषेद्धारं पापो न लभते क्वचित् ।
तिष्ठन्ति बहवो लोकास्तदा पापेषु कर्मसु ॥
जानन्नपि च यः पापं शक्तिमान्न नियच्छति ।
ईशः सन्सोऽपि तेनैव कर्मणा संप्रयुज्यते ॥
राजभिश्चेश्वरैश्चैव यदि वै पितरो मम ।
शक्तैर्न शकितास्त्रातुमिष्टं मत्वेह जीवितम् ॥
अत एषामहं क्रुद्धो लोकानामीश्वरो ह्यहम् ।
भवतां च वचो नालमहं समभिवर्तितुम् ॥
ममापि चेद्भवेदेवमीश्वरस्य सतो महत् ।
उपेक्षमाणस्य पुनर्लोकानां किल्बिषाद्भयम् ॥
यश्चायं मन्युजो मेऽग्निर्लोकानादातुमिच्छति ।
दहेदेष च मामेव निगृहीतः स्वतेजसा ॥
भवतां च विजानामि सर्वलोकहितेप्सुताम् ।
तस्माद्विधद्ध्वं यच्छ्रेयो लोकानां मम चेश्वराः ॥
पितर ऊचुः ।
य एष मन्युजस्तेऽग्निर्लोकानादातुमिच्छति ।
अप्सु तं मुञ्च भद्रं ते लोका ह्यप्सु प्रतिष्ठिताः ॥
आपोमयाः सर्वरसाः सर्वमापोमयं जगत् ।
तस्मादप्सु विमुञ्चेमं क्रोधाग्निं द्विजसत्तम ॥
अयं तिष्ठतु ते विप्र यदीच्छसि महोदधौ ।
मन्युजोऽग्निर्दहन्नापो लोका ह्यापोमयाः स्मृताः ॥
एवं प्रतिज्ञा सत्येयं तवानघ भविष्यति ।
न चैवं सामरा लोका गमिष्यन्ति पराभवम् ॥
वसिष्ठ उवाच ।
ततस्तं क्रोधजं तात और्वोऽग्निं वरुणालये ।
उत्ससर्ज स चैवाप उपयुङ्क्ते महोदधौ ॥
महद्धयशिरो भूत्वा यत्तद्वेदविदो विदुः ।
तमग्निमुद्हिरद्वक्त्रात्पिबत्यापो महोदधौ ॥
तस्मात्त्वमपि भद्रं ते न लोकान्हन्तुमर्हसि ।
पराशरं पराँल्लोकाञ्जानञ्ज्ञानवतां वर ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि चैत्ररथपर्वणि षण्णवत्यधिकशततमोऽध्यायः ॥ 196 ॥

1-196-2 अनिस्तीर्णोऽकृतकार्यः ॥ 1-196-8 तद्भृगूणां राजा कश्चिन्नाभ्युपपद्यते इति ङ. पाठः ॥ 1-196-21 उपयुङ्क्ते भक्षयति ॥ 1-196-22 हयशिरः वडवामुखम् ॥ षण्णवत्यधिकशततमोऽध्यायः ॥ 196 ॥

अध्यायः 197

वसिष्ठवाक्येन लोकविनाशान्निवृत्तेन पराशरेण राक्षसनाशार्थं यज्ञारम्भः ॥ 1 ॥ पुलस्त्यप्रार्थनया पराशरेण यज्ञसमापनम् ॥ 2 ॥

गन्धर्व उवाच ।
एवमुक्तः स विप्रर्षिर्वसिष्ठेन महात्मना ।
न्ययच्छदात्मनः क्रोधं सर्वलोकपराभवात् ॥
ईजे च स महातेजाः सर्ववेदविदां वरः ।
ऋषी राक्षससत्रेण शाक्तेयोऽथ पराशरः ॥
ततो वृद्धांश्च बालांश्च राक्षसान्स महामुनिः ।
ददाह वितते यज्ञे शक्तेर्वधमनुस्मरन् ॥
न हि तं वारयामास वसिष्ठो रक्षसां वधात् ।
द्वितीयामस्य मां भाङ्क्षं प्रतिज्ञामिति निश्चयात् ॥
त्रयाणां पावकानां च सत्रे तस्मिन्महामुनिः ।
आसीत्पुरस्ताद्दीप्तानां चतुर्थ इव पावकः ॥
तेन यज्ञेन शुभ्रेण हूयमानेन शक्तितः ।
तद्विदीपितमाकाशं सूर्येणेव घनात्यये ॥
तं वसिष्ठादयः सर्वे मुनयस्तत्र मेनिरे ।
तेजसा दीप्यमानं वै द्वितीयमिव भास्करम् ॥
ततः परमदुष्प्रापमन्यैर्ऋषिरुधारधीः ।
समापिपयिषुः सत्रं तमत्रिः समुपागमत् ॥
तथा पुलस्त्यः पुलहः क्रतुश्चैव महाक्रतुः ।
तत्राजग्मुरमित्रघ्न रक्षसां जीवितेप्सया ॥
पुलस्त्यस्तु वधात्तेषां रक्षसां भरतर्षभ ।
उवाचेदं वचः पार्थ पराशरमरिन्दमम् ॥
कच्चित्तातापविघ्नं ते कच्चिन्नन्दसि पुत्रक ।
अजानतामदोषाणां सर्वेषां रक्षसां वधात् ॥
प्रजोच्छेदमिमं मह्यं न हि कर्तु त्वमर्हसि ।
नैष तात द्विजातीनां धर्मो दृष्टस्तपस्विनाम् ॥
शम एव परो धर्मस्तमाचर पराशर ।
अधर्मिष्ठं वरिष्ठः सन्कुरुषे त्वं पराशर ॥
शक्तिं चापि हि धर्मज्ञं नातिक्रान्तुमिहार्हसि ।
प्रजायाश्च ममोच्छेदं न चैवं कर्तुमर्हसि ॥
शापाद्धि शक्तेर्वासिष्ठ तदा तदुपपादितम् ।
आत्मजेन स दोषेण शक्तिर्नीत इतो दिवम् ॥
न हि तं राक्षसः कश्चिच्छक्तो भक्षयितुं मुने । `वासिष्ठो भक्षितश्चासीत्कौशिकोत्सृष्टरक्षसा ।
शापं न कुर्वन्ति तदा न च त्राणपरायणाः ॥
क्षमावन्तोऽदहन्देहं देहमन्यद्भवत्विति ।' आत्मनैवात्मनस्तेन दृष्टो मृत्युस्तदाऽभवत् ॥
निमित्तभूतस्तत्रासीद्विश्वामित्रः पराशर ।
राजा कल्माषपादश्च दिवमारुह्य मोदते ॥
ये च शक्त्यवराः पुत्रा वसिष्ठस्य महामुने ।
ते च सर्वे मुदा युक्ता मोदन्ते सहिताः सुरैः ॥
सर्वमेतद्वसिष्ठस्य विदितं वै महामुने ।
रक्षसां च समुच्छेद एष तात तपस्विनाम् ॥
निमित्तभूतस्त्वं चात्र क्रतौ वासिष्ठनन्दन ।
तत्सत्रं मुञ्च भद्रं ते समाप्तमिदमस्तु ते ॥
गन्धर्व उवाच ।
एवमुक्तः पुलस्त्येन वसिष्ठेन च धीमता ।
तदा समापयामास सत्रं शाक्तो महामुनिः ॥
सर्वराक्षससत्राय संभृतं पावकं तदा ।
उत्तरे हिमवत्पार्श्वे उत्ससर्ज महावने ॥
स तत्राद्यापि रक्षांसि वृक्षानश्मन एव च ।
भक्षयन्दृश्यते वह्निः सदा पर्वणि पर्वणि ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि चैत्ररथपर्वणि सप्तनवत्यधिकशततमोऽध्यायः ॥ 197 ॥

1-197-4 माभाङ्क्षे न नाशयेयम् ॥ 1-197-12 मद्यं मम ॥ सप्तनवत्यधिकशततमोऽध्यायः ॥ 197 ॥

अध्यायः 198

सौदासभार्यायां वसिष्ठेन पुत्रोत्पादनकारणं पृष्टवन्तमर्जुनंप्रति पुनः कल्माषपादकथाकथनम् ॥ 1 ॥ मैथुनधर्मस्य ब्राह्णं भक्षितवतः सौदासस्य ब्राह्मण्या शापः ॥ 2 ॥

`गन्धर्व उवाच ।
पुनश्चैव महातेजा विश्वामित्रजिघांसया ।
अग्निं संभृतवान्घोरं शाक्तेयः सुमहातपाः ॥
वासिष्ठसंभृतश्चाग्निर्विश्वामित्रहितैषिणा । तेजसा वह्नितुल्येन ग्रस्तः स्कन्देन धीमता ॥'
अर्जुन उवाच ।
राज्ञा कल्माषपादेन गुरौ ब्रह्मविदां वरे ।
कारणं किं पुरस्कृत्य भार्या वै सन्नियोजिता ॥
जानता वै परं धर्मं वसिष्ठेन महात्मना ।
अगम्यागमनं कस्मात्कृतं तेन महर्षिणा ॥
अधर्मिष्ठं वसिष्ठेन कृतं चापि पुरा सखे ।
एतन्मे संशयं सर्वं छेत्तुमर्हसि पृच्छतः ॥
गन्धर्व उवाच ।
धनञ्जय निबोधेयं यन्मां त्वं परिपृच्छसि ।
वसिष्ठं प्रति दुर्धर्ष तथा मित्रसहं नृपम् ॥
कथितं ते मया सर्वं यथा शप्तः स पार्थिवः ।
शक्तिना भरतश्रेष्ठ वासिष्ठेन महात्मना ॥
स तु शापवशं प्राप्तः क्रोधपर्याकुलेक्षणः ।
निर्जगाम पुराद्राजा सहदारः परन्तपः ॥
अरण्यं निर्जनं गत्वा सदारः परिचक्रमे ।
नानामृगगणाकीर्णं नानासत्वसमाकुलम् ॥
नानागुल्मलताच्छन्नं नानाद्रुमसमावृतम् ।
अरण्यं घोरसन्नादं शापग्रस्तः परिभ्रमन् ॥
स कदाचित्क्षुधाविष्टो मृगयन्भक्ष्यमात्मनः ।
ददर्श सुपरिक्लिष्टः कस्मिंश्चिन्निर्जने वने ॥
ब्राह्मणं ब्राह्मणीं चैव मिथुनायोपसंगतौ ।
तौ तं वीक्ष्य सुवित्रस्तावकृतार्थौ प्रधावितौ ॥
तयोः प्रद्रवतोर्विप्रं जग्राह नृपतिर्बलात् ।
दृष्ट्वा गृहीतं भर्तारमथ ब्राह्मण्यभाषत ॥
शृणु राजन्मम वचो यत्त्वां वक्ष्यामि सुव्रत ।
आदित्यवंशप्रभवस्त्वं हि लोके परिश्रुतः ॥
अप्रमत्तः स्थि धर्मे गुरुशुश्रूषणे रतः ।
शापोपहत दुर्धर्ष न पापं कर्तुमर्हसि ॥
ऋतुकाले तु संप्राप्ते भर्तृव्यसनकर्शिता ।
अकृतार्था ह्यहं भर्त्रा प्रसवार्थं समागता ॥
प्रसीद नृपतिश्रेष्ठ भर्ताऽयं मे विसृज्यताम् ।
एवं विक्रोशमानायास्तस्यास्तु न नृशंसवत् ॥
भर्तारं भक्षयामास व्याघ्रो मृगमिवेप्सितम् ।
तस्याः क्रोधाभिभूताया यान्यश्रूण्यपतन्भुवि ॥
सोऽग्निः समभवद्दीप्तस्तं च देशं व्यदीपयत् ।
ततः सा शोकसंतप्ता भर्तृव्यसनकर्शिता ॥
कल्माषपादं राजर्षिमशपद्ब्राह्मणी रुषा ।
यस्मान्ममाकृतार्थायास्त्वया क्षुद्र नृशंसवत् ॥
प्रेक्षन्त्या भक्षितो मेऽद्य प्रियो भर्ता महायशाः ।
तस्मात्त्वमपि दुर्बुद्धे मच्छापपरिविक्षतः ॥
पत्नीमृतावनुप्राप्य सद्यस्त्यक्ष्यसि जीवितम् । `तेन प्रसाद्यमाना सा प्रसादमकरोत्तदा ।'
यस्य चर्षेर्वसिष्ठस्य त्वया पुत्रा विनाशिताः ॥
तेन संगम्य ते भार्या तनयं जनयिष्यति ।
सते वंशकरः पुत्रो भविष्यति नृपाधम ॥
एवं शप्त्वा तु राजानं सा तमाङ्गिरसी शुभा ।
तस्यैव सन्निधौ दीप्तं प्रविवेश हुताशनम् ॥
वसिष्ठश्च महाभागः सर्वमेतदवैक्षत ।
ज्ञानयोगेन महता तपसा च परन्तप ॥
मुक्तशापश्च राजर्षिः कालेन महता ततः ।
ऋतुकालेऽभिपतितो मदयन्त्या निवारितः ॥
न हि सस्मार स नृपस्तं शापं काममोहितः ।
देव्याः सोऽथ वचः श्रुत्वा संभ्रान्तो नृपसत्तमः ॥
तं शापमनुसंस्मृत्य पर्यतप्यद्भृशं तदा । एतस्मात्कारणाद्राजा वसिष्ठं सन्ययोजयत् ।
स्वदारेषु नरश्रेष्ठ शापदोषसमन्वितः ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि चैत्ररथपर्वणि अष्टनवत्यधिकशततमोऽध्यायः ॥ 198 ॥

अध्यायः 199

अर्जुनेन अनुरूपपुरोहितसंपादनं पृष्टेन गन्धर्वेण धौम्यवरणाक्ष्यनुज्ञा ॥ 1 ॥ गन्धर्वाय आग्नेयास्त्रदानम् ॥ 2 ॥ उत्को चतीर्थे पाण्डवैः धौम्यस्य पौरोहित्ये वरणम् ॥ 3 ॥

अर्जुन उवाच ।
अस्माकमनुरूपो वै यः स्याद्गन्धर्व वेदवित् ।
पुरोहितस्तमाचक्ष्व सर्वं हि विदितं तव ॥
गन्धर्व उवाच ।
यवीयान्देवलस्यैष वने भ्राता तपस्यति ।
धौम्य उत्कोचके तीर्थे तं वृणुध्वं यीच्छथ ॥
वैशंपायन उवाच ।
ततोऽर्जुनोऽस्त्रमाग्नेयं प्रददौ तद्यथाविधि ।
गन्धर्वाय `स च प्रीतो वचनं चेदमब्रवीत् ॥
मयि सन्ति हयश्रेष्ठास्तव दास्यामि वै सखे ।
उपकारकृतं मित्रं प्रतिकारेण योजये ॥
गृह्णीष्व चाक्षुषीं विद्यामिमां भरतसत्तम ।
एवमुक्तोऽर्जुनः' प्रीतो वचनं चेदमब्रवीत् ॥
त्वय्येव तावत्तिष्ठन्तु हया गन्धर्वसत्तम ।
कार्यकाले ग्रहीष्यामः स्वस्ति तेऽस्त्विति चाब्रवीत् ॥
तेऽन्योन्यमभिसंपूज्य गन्धर्वः पाण्डवाश्च ह ।
रम्याद्भागीरथीतीराद्यथाकामं प्रतस्थिरे ॥
तत उत्कोचकं तीर्थं गत्वा धौम्याश्रमं तु ते ।
तं वव्रुः पाण्डवा धौम्यं पौरोहित्याय भारत ॥
तान्धौम्यः प्रतिजग्राह सर्ववेदविदां वरः ।
वन्येन फलमूलेन पौरोहित्येन चैव ह ॥
ते समाशंसिरे लब्धां श्रियं राज्यं च पाण्डवाः ।
ब्राह्मणं तं पुरस्कृत्य पाञ्चालीं च स्वयंवरे ॥
पुरोहितेन तेनाथ गुरुणा संगतास्तदा ।
नाथवन्तमिवात्मानं मेनिरे भरतर्षभाः ॥
स हि वेदार्थतत्त्वज्ञस्तेषां गुरुरुदारधीः ।
वेदविच्चैव वाग्मी च धौम्यः श्रीमान्द्विजोत्तमः ॥
तेजसा चैव बुद्ध्या च रूपेण यशसा श्रिया ।
मन्त्रैश्च विविधैर्धौम्यस्तुल्य आसीद्बृहस्पतेः ॥
स चापि विप्रस्तान्मेने स्वभावाभ्यधिकान्भुवि ।
तेन धर्मविदा पार्था योज्या सर्वविदा वृताः ॥
मेनिरे सहिता वीराः प्राप्तं राज्यं च पाण्डवाः ।
बुद्धिवीर्यबलोत्साहैर्युक्ता देवा इवापरे ॥
कृतस्वस्त्ययनास्तेन ततस्ते मनुजाधिपाः ।
मेनिरे सहिता गन्तुं पाञ्चाल्यास्तं स्वयंवरम् ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि चैत्ररथपर्वणि एकोनद्विशततमोऽध्यायः ॥ 199 ॥ ॥ समाप्तं चैत्ररथपर्व ॥

अध्यायः 200

(अथ स्वयंवरपर्व ॥ 12 ॥)

मध्येमार्गं आगतस्य व्यासस्य आज्ञया पाण्डवानां द्रुपदपुरप्रवेशः ॥ 1 ॥ तेषां कुम्भकारगृहे वासः, भैक्षवृत्तिश्च ॥ 2 ॥ द्रौपद्याः स्वयंवरनिर्माणकारणकथनं ॥ 3 ॥ द्रुपदेन कृतां स्वयंवरघोषणां श्रुतवतां क्षत्रियादीनां आगमनं ॥ 4 ॥ सर्वेषां उचिते स्थाने उपवेशनं पाण्डवानां ब्राह्मणमध्ये उपवेशनं ॥ 5 ॥ मङ्गलस्नातायाः स्वलङ्कृताया द्रौपद्या रङ्गमध्ये आगमनं ॥ 6 ॥ धृष्टद्युम्नेन लक्ष्यवेधपणकथनम् ॥ 7 ॥

वैशंपायन उवाच ।
ततस्ते नरशार्दूला भ्रातरः पञ्च पाण्डवाः । तं ब्राह्मणं पुरस्कृत्य पाञ्चाल्याश्च स्वयंवरम् ।
प्रययुर्द्रौपदीं द्रष्टुं तं च देशं महोत्सवम् ॥
ततस्ते तं महात्मानं शुद्धात्मानमकल्मषम् ।
ददृशुः पाण्डवा वीराः पथि द्वैपायनं तदा ॥
तस्मै यथावत्सत्कारं कृत्वा तेन च सत्कृताः ।
कथान्ते चाभ्यनुज्ञाताः प्रययुर्द्रुपदक्षयम् ॥
पश्यन्तो रमणीयानि वनानि च सरांसि च ।
तत्रतत्र वसन्तश्च शनैर्जग्मुर्महराथाः ॥
स्वाध्यायवन्तः शुचयो मधुराः प्रियवादिनः ।
आनुपूर्व्येण संप्राप्ताः पाञ्चालान्पाण्डुनन्दनाः ॥
ते तु दृष्ट्वा पुरं तच्च स्कन्धावारं च पाण्डवाः ।
कुम्भकारस्य शालायां निवासं चक्रिरे तदा ॥
तत्र भैक्षं समाजह्रुर्ब्राह्मणीं वृत्तिमाश्रिताः ।
तान्संप्राप्तांस्तथा वीराञ्जज्ञिरे न नराः क्वचित् ॥
`यज्ञसेनस्तु पाञ्चालो भीष्मद्रोमकृतागसम् ।
ज्ञात्वाऽऽत्मानं तदारेभे त्राणायात्मक्रियां क्षमां ॥
अवाप्य धृष्टद्युम्नं हि न स द्रोणमचिन्तयत् ।
स तु वैरप्रसङ्गाच्च भीष्माद्भयमचिन्तयत् ॥
कन्यादानात्तु शरणं सोऽमन्यत महीपतिः ।' यज्ञसेनस्य कामस्तु पाण्डवाय किरीटिने ॥
दास्यामि कृष्मामिति वै न चैनं विवृणोति सः । `जामातृबलसंयोगं मेने हि बलवत्तरम् ॥'
सोऽन्वेषमाणः कौन्तेयान्पाञ्चालो जनमेजय ।
दृढं धनुरथानम्यं कारयामास भारत ॥
`वैयाघ्रपद्यस्योग्रं वै सृञ्जयस्य महीपतिः ।
तद्धनुः किन्धुरं नाम देवदत्तमुपानयत् ॥
आयसी तस्य च ज्याऽऽसीत्प्रतिबद्धा महाबला ।
न तु ज्यां प्रसहेदन्यस्तद्धनुःप्रवरं महत् ॥
शङ्करेण वरं दत्तं प्रीतेन च महात्मना ।
तन्निष्फलं स्यान्न तु मे इति प्रामाण्यमागतः ॥
मया कर्तव्यमधुना दुष्करं लक्ष्यवेधनम् । इति निश्चित्य मनसा कारितं लक्ष्यमुत्तमम् ॥'
यन्त्रं वैहायसं चापि कारयामास कृत्रिमम् ।
तेन यन्त्रेण सहितं राजँल्लक्ष्यं च काञ्चनम् ॥
द्रुपद उवाच ।
इदं सज्यं धनुः कृत्वा सज्जैरेभिश्च सायकैः ।
अतीत्य लक्ष्य यो वेद्धा स लब्धा मत्सुतामिति ॥
वैशंपायन उवाच ।
इति स द्रुपदो राजा स्वयंवरमघोषयत् ।
तच्छ्रुत्वा पार्थिवाः सर्वे समीयुस्तत्र भारत ॥
ऋषयश्च महात्मानः स्वयंवरदिदृक्षवः ।
दुर्योधनपुरोगाश्च सकर्णाः कुरवो नृप ॥
`यादवा वासुदेवेन सार्धमन्धकवृष्णयः ।' ततोऽर्चिता राजगुणा द्रुपदेन महात्मना ॥
उपोपविष्टा मञ्चेषु द्रष्टुकामाः स्वयंवरम् ।
`ब्राह्मणाश्च महाभागा देशेभ्यः समुपागमन् ॥
ब्राह्मणैरेव सहिताः पाण्डवाः समुपाविशन् ।
त्रयस्त्रिंशत्सुराः सर्वे विमानैर्व्योम्न्यवस्थिताः ॥
ततः पौरजनाः सर्वे सागरोद्धूतनिःस्वनाः ।
शिंशुमारशिरः प्राप्य न्यविशंस्ते स्म पार्थिवाः ॥
प्रागुत्तरेण नगराद्भूमिभागे समे शुभे ।
समाजवाटः शुशुभे भवनैः सर्वतो वृतः ॥
प्राकारपरिखोपेतो द्वारतोरणमण्डितः ।
वितानेन विचित्रेण सर्वतः समलङ्कृतः ॥
तूर्यौघशतसङ्कीर्णः परार्ध्यागुरुधूपितः ।
चन्दनोदकसिक्तश्च माल्यदामोपशोभितः ॥
कैलासशिखरप्रख्यैर्नभस्तलविलेखिभिः ।
सर्वतः संवृतः शुभ्रैः प्रासादैः सुकृतोच्छ्रयै ॥
सुवर्णजालसंवीतैर्मणिकुट्टिमभूषणैः ।
सुखारोहणसोपानैर्महासनपरिच्छदैः ॥
स्रग्दामसमवच्छन्नैरगुरूत्तमवासितैः ।
हंसांशुवर्णैर्बहुभिरायोजनसुगन्धिभिः ॥
असंबाधशतद्वारैः शयनासनशोभितैः ।
बहुधातुपिनद्धाङ्गैर्हिमवच्छिखरैरिव ॥
तत्र नानाप्रकारेषु विमानेषु स्वलङ्कृताः ।
स्पर्धमानास्तदाऽन्योन्यं निषेदुः सर्वपार्थिवाः ॥
तत्रोपविष्टान्ददृशुर्महासत्वान्पृथग्जनाः ।
राजसिंहान्महाभागान्कृष्णागुरुविभूषितान् ॥
महाप्रसादान्ब्राह्मण्यान्स्वराष्ट्रपरिरक्षिणः ।
प्रियान्सर्वस्य लोकस्य सुकृतैः कर्मभिः शुभैः ॥
मञ्चेषु च परार्द्ध्येषु पौरजानपदा जनाः ।
कृष्णादर्शनसिद्ध्यर्थं सर्वतः समुपाविशन् ॥
ब्राह्मणैस्ते च सहिताः पाण्डवाः समुपाविशन् ।
ऋद्धिं पञ्चालराजस्य पश्यन्तस्तामनुत्तमाम् ॥
ततः समाजो ववृधे स राजन्दिवसान्बहून् ।
रत्नप्रदानबहुलः शोभितो नटनर्तकैः ॥
वर्तमाने समाजे तु रमणीयेऽह्नि षोडशे । `मैत्रे मुहूर्ते तस्याश्च राजदाराः पुराविदः ।
पुत्रवत्यः सुवसनाः प्रतिकर्मोपचक्रमुः ॥
वैडूर्यमयपीठे तु निविष्टां द्रौपदीं तदा ।
सतूर्यं स्नापयाञ्चक्रुः स्वर्णकुम्भस्थितैर्जलैः ॥
तां निवृत्ताभिषेकां च दुकूलद्वयधारिणीम् ।
निन्युर्मणिस्तम्भवतीं वेदिं वै सुपरिष्कृताम् ॥
निवेश्य प्राङ्मुखीं हृष्टां विस्मिताक्ष्यः प्रसाधिकाः ।
केनालङ्करणेनेमामित्यन्योन्यं व्यलोकयन् ॥
धूपोष्मणा च केशानामार्द्रभावं व्यपोहयन् ।
बबन्धुरस्या धम्मिल्लं माल्यैः सुरभिगन्धिभिः ॥
दूर्वामधूकरचितं माल्यं तस्या ददुः करे ।
चक्रुश्च कृष्णागरुणा पत्रसङ्गं कुचद्वये ॥
रेजे सा चक्रवाकाङ्का स्वर्णदीर्घा सरिद्वरा ।
अलकैः कुटिलैस्तस्या मुखं विकसितं बभौ ॥
आसक्तभृङ्गं कुसुमं शशिम्बिम्बं जिगाय तत् ।
कालाञ्जनं नयनयोराचारार्थं समादधुः ॥
भूषणं रत्नखचितैरलंचक्रुर्यथोचितम् ।
माता च तस्याः पृषती हरितालमनश्शिलाम् ॥
अङ्गुलीभ्यामुपादाय तिलकं विदधे मुखे ।
अलङ्कृतां वधूं दृष्ट्वा योषितो मुदमाययुः ॥
माता न मुमुदे तस्याः पतिः कीदृग्भविष्यति ।
सौविदल्लाः समागम्य द्रुपदस्याज्ञया ततः ॥
एनामारोपयामासुः करिणीं कुचभूषिताम् ।
ततोऽवाद्यन्त वाद्यानि मङ्गलानि दिवि स्पृशन् ॥
विलासिनीजनाश्चापि प्रवरं करिणीशतम् ।
माङ्गल्यगीतं गायन्त्यः पार्स्वयोरुभयोर्ययुः ॥
जनापसरणे व्यग्राः प्रतिहार्यः पुरा ययुः ।
कोलाहलो महानासीत्तस्मिन्पुरवरे तदा ॥
धृष्टद्युम्नो ययावग्रे हयमारुह्य भारत ।
द्रुपदो रङ्गदेशे तु बलेन महता युतः ॥
तस्थौ व्यूह्य महानीकं पालितं दृढधन्विभिः ।' आप्लुताङ्गीं सुवसनां सर्वाभरणभूषिताम् ॥
मालां च समुपादाय काञ्चनीं समलङ्कृताम् । `आगतां ददृशुः सर्वे रङ्गभूमिमलङ्कृताम् ॥'
अवतीर्णा ततो रङ्गं द्रौपदी भरतर्षभ । `तस्थौ प्रमुदितान्सर्वान्नृपतीन्रङ्गमण्डले ।
प्रेक्षन्ती व्रीडितापाङ्गी द्रष्टृणां सुमनोहरा ॥'
पुरोहितः सोमकानां मन्त्रविद्ब्राह्मणः शुचिः ।
परिस्तीर्य जुहावाग्निमाज्येन विधिवत्तदा ॥
संतर्पयित्वा ज्वलनं ब्राह्मणान्स्वस्ति वाच्य च ।
वारयामास सर्वाणि वादित्राणि समन्ततः ॥
निःशब्दे तु कृते तस्मिन्धृष्टद्युम्नो विशांपते ।
कृष्णामादाय विधिवन्मेघदुन्दुभिनिःस्वनः ॥
रङ्गमध्यं गतस्तत्र मेघगम्भीरया गिरा ।
वाक्यमुच्चैर्जगादेदं श्लक्ष्णमर्थवदुत्तमम् ॥
इदं धनुर्लक्ष्यमिमे च बाणाः शृण्वन्तु मे भूपतयः समेताः ।
छिद्रेण यन्त्रस्य मसर्पयध्वं शरैः शितैर्व्योमचरैर्दशार्धैः ॥
एतन्महत्कर्म करोति यो वै कुलेन रूपेण बलेन युक्तः ।
तस्याद्य भार्या भगिनी ममेयं कृष्णा भवित्री न मृषा ब्रवीमि ॥
तानेवमुक्त्वा द्रुपदस्य पुत्रः पश्चादिदं तां भगिनीमुवाच ।
नाम्ना च गोत्रेण च कर्मणा च संकीर्तयन्भूमिपतीन्समेतान् ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि स्वयंवरपर्वणि द्विशततमोऽध्यायः ॥ 200 ॥

1-200-7 जज्ञिरे ज्ञातवन्तः ॥ 1-200-17 वैहायसमन्तरिक्षगतम् ॥ 1-200-24 शिंशुमारो जलजन्तुस्तदाकारस्तारासमूहात्मको विष्णुस्तस्य शिरःप्रदेशे ऐशान्यां दिशि । अतएव सा अपराजितादिक् तां दिशं प्राप्य न्यविशन् ॥ 1-200-25 तामेव दिशमात्र प्रागिति ॥ द्विशततमोऽध्यायः ॥ 200 ॥

अध्यायः 201

रङ्गे आगतानां राज्ञां नामकथनम् ॥ 1 ॥

धृष्टद्युम्न उवाच ।
दुर्योधनो दुर्विषहो दुर्मुखो दुष्प्रधर्षणः ।
विविंशतिर्विकर्णश्च सहो दुःशासनस्तथा ॥
युयुत्सुर्वायुवेगश्च भीमवेगरवस्तथा ।
उग्रायुधो बलाकी च करकायुर्विरोचनः ॥
कुण्डकश्चित्रसेनश्च सुवर्चाः कनकध्वजः ।
नन्दको बाहुशाली च तुहुण्डो विकटस्तथा ॥
एते चान्ये च बहवो धार्तराष्ट्रा महाबलाः ।
कर्णेन सहिता वीरास्त्वदर्थं समुपागताः ॥
असङ्ख्याता महात्मानः पार्थिवाः क्षत्रियर्षभाः ।
शकुनिः सौबलश्चैव वृषकोऽथ बृहद्बलः ॥
एते गान्धारराजस्य सुताः सर्वे समागताः ।
अश्वत्थामा च भोजश्च सर्वशस्त्रभृतां वरौ ॥
समवेतौ महात्मानौ त्वदर्थे समलङ्कृतौ ।
बृहन्तो मणिमांश्चैव दण्डधारश्च पार्थिवः ॥
सहदेवजयत्सेनौ मेघसन्धिश्च पार्थिवः ।
विराटः सह पुत्राभ्यां शङ्खेनैवोत्तरेण च ॥
वार्धक्षेमिः सुशर्मा च सेनाबिन्दुश्च पार्थिवः ।
सुकेतुः सह पुत्रेण सुनाम्ना च सुवर्चसा ॥
सुचित्रः सुकुमारश्च वृकः सत्यधृतिस्तथा ।
सूर्यध्वजो रोचमानो नीलश्चित्रायुधस्तथा ॥
अंशुमांश्चेकितानश्च श्रेणिमांश्च महाबलः ।
समुद्रसेनपुत्रश्च चन्द्रसेनः प्रतापवान् ॥
जलसन्धः पितापुत्रौ विदण्डो दण्ड एव च ।
पौण्ड्रको वासुदेवश्च भगदत्तश्च वीर्यवान् ॥
कलिङ्गस्ताम्रलिप्तश्च पत्तनाधिपतिस्तथा ।
मद्रराजस्तथा शल्यः सहपुत्रो महारथः ॥
रुक्माङ्गदेन वीरेण तथा रुक्मरथेन च ।
कौरव्यः सोमदत्तश्च पुत्रश्चास्य महारथः ॥
समवेतास्त्रयः शूरा भूरिर्भूरिश्रवाः शलः ।
सुदक्षिणश्च काम्भोजो दृढधन्वा च पौरवः ॥
बृहद्बलः सुषेणश्च शिबिरौशीनस्तथा ।
पटच्चरनिहन्ता च कारूषाधिपतिस्तथा ॥
सङ्कर्षणो वासुदेवो रौक्मिणेयश्च वीर्यवान् ।
साम्बश्च चारुदेष्णश्च प्राद्युम्निः सगदस्तथा ॥
अक्रूरः सात्यकिश्चैव उद्धवश्च महामतिः ।
कृतवर्मा च हार्दिक्यः पृथुर्विपृथुरेव च ॥
विदूरथश्च कङ्कश्च शङ्कुश्च सगवेषणः ।
आशावहोऽनिरुद्धश्च समीकः सारिमेजयः ॥
वीरो वातपतिश्चैव झिल्लीपिण्डारकस्तथा ।
उशीनरश्च विक्रान्तो वृष्णयस्ते प्रकीर्तिताः ॥
भगीरथो बृहत्क्षत्रः सैन्धवश्च जयद्रथः ।
बृहद्रथो बाह्लिकश्च श्रउतायुश्च महारथः ॥
उलूकः कैतवो राजा चित्राङ्गदशुभाङ्गदौ ।
वत्सराजश्च मतिमान्कोसलाधिपतिस्तथा ॥
शिशुपालख्च विक्रान्तो जरासन्धस्तथैव च ।
एते चान्ये च बहवो नानाजनपदेश्वराः ॥
त्वदर्थमागता भद्रे क्षत्रियाः प्रथिता भुवि । एते भेत्स्यन्ति विक्रान्तास्त्वदर्थे लक्ष्यमुत्तमम् ।
विध्यते य इदं लक्ष्यं वरयेथाः शुभेऽद्य तम् ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि स्वयंवरपर्वणि एकाधिकद्विशततमोऽध्यायः ॥ 201 ॥

अध्यायः 202

ब्राह्मणमध्यस्थान्पाण्डवान्विज्ञाय श्रीकृष्णेन बलरामाय कथंन ॥ 1 ॥ धनुर्दर्शनेनैव केषांचिद्राज्ञां धनुःपूरणे निरशत ॥ 2 ॥ शिशुपालादीनां धनुःपूरणे भङ्गः ॥ 3 ॥ अर्जुनस्य धनुःपूरणे एषणा ॥ 4 ॥

वैशंपायन उवाच ।
तेऽलङ्कृताः कुण्डलिनो युवानः परस्परं स्पर्धमाना नरेन्द्राः ।
अस्त्रं बलं चात्मनि मन्यमानाः सर्वें समुत्पेतुरुदायुधास्ते ॥
रूपेण वीर्येण कुले चैव शीलेन वित्तेन च यौवनेन ।
समिद्धदर्पा मदवेगभिन्ना मत्ता यथा हैमवता गजेन्द्राः ॥
परस्परं स्पर्धया प्रेक्षमाणाः सङ्कल्पजेनाभिपरिप्लुताङ्गाः ।
कृष्णा ममैवेत्यभिभाषमाणा नृपाः समुत्पेतुरथासनेभ्यः ॥
ते क्षत्रिया रङ्गगताः समेता जिगीषमाणा द्रुपदात्मजां ताम् ।
चकाशिरे पर्वतराजकन्या- मुमां यथा देवगणाः समेताः ॥
कन्दर्पबाणाभिनिपीडिताङ्गां कृष्णागतैस्ते हृदयैर्नरेन्द्राः ।
रङ्गावतीर्णा द्रुपदात्मजार्थं द्वेषं प्रचक्रुः सुहृदोऽपि तत्र ॥
अथाययुर्देवगणा विमानै रुद्रादित्या वसवोऽथाश्विनौ च ।
साध्याश्च सर्वे मरुतस्तथैव यमं पुरस्कृत्य धनेश्वरं च ॥
दैत्याः सुपर्णाश्च महोरगाश्च देवर्षयो गुह्यकाश्चारणाश्च ।
विश्वावसुर्नारदपर्वतौ च गन्धर्वमुख्याः सहसाऽप्सरोभिः ॥
हलायुधस्तत्र जनार्दनश्च वृष्ण्यन्धकाश्चैव यताप्रधानम् ।
प्रेक्षां स्म चक्रुर्यदुपुङ्गवास्ते स्थिताश्च कृष्णस्य मते महान्तः ॥
दृष्ट्वा तु तान्मत्तगजेन्द्ररूपा- न्पञ्चाभिपद्मानिव वारणेन्द्रान् ।
भस्मावृताङ्गानिव हव्यवाहान् कृष्णः प्रदध्यौ यदुवीरमुख्यः ॥
शशंस रामाय युधिष्ठिरं स भीमं सजिष्णुं च यमौ च वीरौ ।
शनैःशनैस्तान्प्रसमीक्ष्य रामो जनार्दनं प्रीतमना ददर्श ह ॥
अन्ये तु वीरा नृपपुत्रपौत्राः कृष्णागतैर्नत्रमनःस्वभावैः ।
व्यायच्छमाना ददृशुर्न तान्वै सन्दष्टदन्तच्छदताम्रनेत्राः ॥
तथैव पार्थाः पृथुबाहवस्ते वीरौ यमौ चैव महानुभावौ ।
तां द्रौपदीं प्रेक्ष्य तदा स्म सर्वे कन्दर्पबाणाभिहता बभूवुः ॥
देवर्षिगन्धर्वसमाकुलं त- त्सुपर्णनागासुरसिद्धजुष्टम् ।
दिव्येन गन्धेन समाकुलं च दिव्यैश्च पुष्पैरवकीर्यमाणम् ॥
महास्वनैर्दुन्दुभिनादितैश्च बभूव तत्सङ्कुलमन्तरिक्षम् ।
विमानसंबाधमभूत्समन्ता- त्सवेणुवीणापणवानुनादम् ॥
`समाजवाटोपरि संस्थितानां मेघैः समन्तादिव गर्जमानैः ।'
ततस्तु ते राजगणाः क्रमेण कृष्णानिमित्तं कृतविक्रमाश्च । सकर्णदुर्योधनशाल्वशल्य- द्रौणायनिक्राथसुनीथवक्राः ॥
कलिङ्गवङ्गाधिपपाण्ड्यपौण्ड्रा विदेहराजो यवनाधिपश्च ।
अन्ये च नानानृपपुत्रपौत्रा राष्ट्राधिपाः पङ्कजपत्रनेत्राः ॥
किरीटहाराङ्गदचक्रवालै- र्विभूषिताङ्गाः पृथुबाहवस्ते ।
अनुक्रमं विक्रमसत्वयुक्ता बलेन वीर्येण च नर्दमानाः ॥
तत्कार्मुकं संहननोपपन्नं सज्यं न शेकुर्मनसाऽपि कर्तुम् ।
ते विक्रमन्तः स्फुरता दृढेन विक्षिप्यमाणा धनुषा नरेन्द्राः ॥
विचेष्टमाना धरणीतलस्था यथाबलं शैक्ष्यगुणक्रमाश्च ।
गतौजसः स्नस्तकिरीटहारा विनिःश्वसन्तः शमयांबभूवुः ॥
हहाकृतं तद्धनुषा दृढेन विस्रस्तहाराङ्गदचक्रवालम् ।
कृष्णानिमित्तं विनिवृत्तकामं राज्ञां तदा मण्डलमार्तमासीत् ॥
`एवं तेषु निवृत्तेषु क्षत्रियेषु समन्ततः ।
चेदीनामधिपो वीरो बलवानन्तकोपमः ॥
दमघोषात्मजो धीमाञ्शिशुपालो महाद्युतिः ।
धनुषोऽभ्याशमागम्य तस्थौ राज्ञां समक्षतः ॥
तदप्यारोप्यमाणं तु माषमात्रेऽभ्यताडयत् ।
धनुषा पीड्यमानस्तु जानुभ्यामगमन्महीम् ॥
तत उत्थाय राजा स स्वराष्ट्राण्यभिजग्मिवान् ।
ततो राजा जरासन्धो महावीर्यो महाबलः ॥
कम्बुग्रीवः पृथुव्यंसो मत्तवारणविक्रमः ।
मत्तवारणताम्राक्षो मत्तवारणवेगवान् ॥
धनुषोऽभ्याशमागत्य तस्थौ गिरिरिवाचलः ।
धनुरारोप्यमाणं तु सर्षमात्रेऽभ्यताडयत् ॥
ततः शल्यो महावीर्यो मद्रराजो महाबलः ।
धनुरारोप्यमाणं तु मुद्गमात्रेऽभ्यताडयत् ॥
तदैवागात्स्वयं राज्यं पश्चादनवलोकयन् ।
इदं धनुर्वरं कोऽद्य सज्यं कुर्वीत पार्थिवः ॥
इति निश्चित्य मनसा भूय एव स्थितस्तदा ।
ततो दुर्योधनो राजा धार्तराष्ट्रः परन्तपः ॥
मानी दृढास्त्रसंपन्नः सर्वैश्च नृपलक्षणैः ।
उत्थितः सहसा तत्र भ्रातृमध्ये महाबलः ॥
विलोक्य द्रौपदीं हृष्टो धनुषोऽभ्याशमागमत् ।
स बभौ धनुरादाय शक्रश्चापधरो यथा ॥
धनुरारोपयामास तिलमात्रेऽभ्यताडयत् ।
आरोप्यमाणं तद्राजा धनुषा बलिना तदा ॥
उत्तानशय्यमपतदङ्गुल्यन्तरताडितः ।
स ययौ ताडितस्तेन व्रीडन्निव नराधिपः ॥
ततो वैकर्तनः कर्णो वृषा वै सूतनन्दनः ।
धनुरभ्याशमागम्य तोलयामास तद्धनुः ॥
तं चाप्यारोप्यमाणं तद्रोममात्रेऽभ्यताडयत् ।
त्रैलोक्यविजयी कर्णः सत्वे त्रैलोक्यविश्रुतः ॥
धनुषा सोऽपि निर्धूत इति सर्वे भयाकुलाः ।
एवं कर्णे विनिर्धूते धनुषा च नृपोत्तमाः ॥
चक्षुर्भिरपि नापश्यन्विनम्रमुखपङ्कजाः ।
दृष्ट्वा कर्णं विनिर्धूतं लोके वीरा नृपोत्तमाः ॥
निराशा धनुरुद्धारे द्रौपदीसंगमेऽपि च ॥
तस्मिंस्तु संभ्रान्तजने समाजे निक्षिप्तवादेषु जनाधिपेषु ।
कुन्तीसुतो जिष्णुरियेष कर्तुं सज्यं धनुस्तत्सशरं च वीरः ॥
ततो वरिष्ठः सुरदानवाना- मुदरधीर्वृष्णिकुलप्रवीरः ।
जहर्ष रामेण स पीड्य हस्तं हस्तंगतां पाण्डुसुतस्य मत्वा ॥
न जज्ञिरेऽन्ये नृपविप्रमुख्याः संछन्नरूपानथ पाण्डुपुत्रान् ।
विना हि लोके च यदुप्रवीरौ धौम्यं हि धर्मं सह सोदरांश्च ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि स्वयंवरपर्वणि द्व्यधिकद्विशततमोऽध्यायः ॥ 202 ॥

1-202-3 संकल्पजेन कामेन ॥ 1-202-9 अभितः पद्मा लक्ष्मीर्येषां तान्सर्वाङ्गसुन्दरानित्यर्थः ॥ द्व्यधिकद्विशततमोऽध्यायः ॥ 202 ॥

अध्यायः 203

धनुरारोपणार्थमुत्थितमर्जुनंप्रति ब्राह्मणानां शुभाशंसनम् ॥ 1 ॥ अर्जुनेन धनुरारोपणपूर्वकं लक्ष्यवेधः ॥ 2 ॥ द्रौपद्या अर्जुनकण्ठे मालाप्रक्षेपः ॥ 3 ॥

वैशंपायन उवाच ।
यदा निवृत्ता राजानो धनुषः सज्यकर्मणः ।
अथोदतिष्ठद्विप्राणां मध्याज्जिष्णुरुदारधीः ॥
उदक्रोशन्विप्रमुख्या विधुन्वन्तोऽजिनानि च ।
दृष्ट्वा संप्रस्थितं पार्थमिन्द्रकेतुसमप्रभम् ॥
केचिदासन्विमनसः केचिदासन्मुदान्विताः ।
आहुः परस्परं केचिन्निपुणा बुद्धिजीविनः ॥
यत्कर्णशल्यप्रमुखैः क्षत्रियैर्लोकविश्रुतैः ।
नानतं बलवद्भिर्हि धनुर्वेदपरायणैः ॥
तत्कथं त्वकृतास्त्रेण प्राणतो दुर्बलीयसा ।
वटुमात्रेण शक्यं हि सज्यं कर्तुं धनुर्द्विजाः ॥
अवहास्या भविष्यन्ति ब्राह्मणाः सर्वराजसु ।
कर्मण्यस्मिन्नसंसिद्धे चापलादपरीक्षिते ॥
यद्येष दर्पाद्धर्षाद्वाप्यथ ब्राह्मणचापलात् ।
प्रस्थितो धनुरायन्तुं वार्यतां साधु मा गमत् ॥
नावहास्या भविष्यामो न च लाघवमास्थिताः ।
न च विद्विष्टतां लोके गमिष्यामो महीक्षिताम् ॥
केचिदाहुर्युवा श्रीमान्नागराजकरोपमः ।
पीनस्कन्धोरुबाहुश्च धैर्येण हिमवानिव ॥
सिंहखेलगतिः श्रीमान्मत्तनागेन्द्रविक्रमः ।
संभाव्यमस्मिन्कर्मेदमुत्साहाच्चानुमीयते ॥
शक्तिरस्य महोत्साहा न ह्यशक्तः स्वयं व्रजेत् ।
न च तद्विद्यते किंचित्कर्म लोकेषु यद्भवेत् ॥
ब्राह्मणानामसाध्यं च नृषु संस्थानचारिषु ।
अब्भक्षा वायुभक्षाश्च फलाहारा दृढव्रताः ॥
दुर्बला अपि विप्रा हि बलीयांसः स्वेतजसा ।
ब्राह्मणो नावमन्तव्यः सदसद्वा समाचरन् ॥
सुखं दुःखं महद्ध्रस्वं कर्म यत्समुपागतम् ।
जामदग्न्येन रामेण निर्जिताः क्षत्रिया युधि ॥
पीतः समुद्रोऽगस्त्येन अगाधो ब्रह्मतेजसा ।
तस्माद्ब्रुवन्तु सर्वेऽत्र वटुरेष धनुर्महान् ॥
आरोपयतु शीघ्रं वै तथेत्यूचुर्द्विजर्षभाः ।
वैशंपायन उवाच ।
एवं तेषां विलपतां विप्राणां विविधा गिरः ॥
अर्जुनो धनुषोऽभ्याशे तस्थौ गिरिरिवाचलः ।
`अर्जुनः पाण्डवश्रेष्ठो धृष्टद्युम्नमथाब्रवीत् ॥
एतद्धनुर्ब्राह्मणानां सज्यं कर्तुमलं तु किम् ।
वैशंपायन उवाच ।
तस्य तद्वचनं श्रुत्वा धृष्टद्युम्नोऽब्रवीद्वचः ॥
ब्राह्मणो वाथ राजन्यो वैश्यो वा शूद्र एव वा ।
एतेषां यो धनुःश्रेष्ठं सज्यं कुर्याद्द्विजोत्तम ॥
तस्मै प्रदेया भगिनी सत्यमुक्तं मया वचः ॥
वैशंपायन उवाच ।
ततः पश्चान्महातेजाः पाण्डवो रणदुर्जयः ।' स तद्धनुः परिक्रम्य प्रदक्षिणमथाकरोत् ॥
प्रणम्य शिरसा देवमीनं वरदं प्रभुम् ।
कृष्णं च मनसा कृत्वा जगृहे चार्जुनो धनुः ॥
यत्पार्थिवै रुक्मसुनीथवक्रै राधेयदुर्योधनशल्यसाल्वैः ।
तदा धनुर्वेदपरैर्नृसिंहैः कृतं न सज्यं महतोऽपि यत्नात् ॥
तदर्जुनो वीर्यवतां सदर्प- स्तदैन्द्रिरिन्द्रावरजप्रभावः ।
सज्यं च चक्रे निमिषान्तरेण शरांश्च जग्राह दशार्दसङ्ख्यान् ॥
विव्याध लक्ष्यं निपपात तच्च छिद्रेण भूमौ सहसातिविद्धम् ।
ततोऽन्तरिक्षे च बभूव नादः समाजमध्ये च महान्निनादः ॥
पुष्पाणि दिव्यानि ववर्ष देवः पार्थस्य मूर्ध्नि द्विषतां निहन्तुः ॥
चेलानि विव्यधुस्तत्र ब्राह्मणाश्च सहस्रशः । विलक्षितास्ततश्चक्रुर्हाहाकारांश्च सर्वशः ।
न्यपतंश्चात्र नभसः समन्तात्पुष्पवृष्टयः ॥
शताङ्गानि च तूर्याणि वादकाः समवादयन् ।
सूतमागधसङ्घाश्चाप्यस्तुवंस्तत्र सुस्वराः ॥
तं दृष्ट्वा द्रुपदः प्रीतो बभूव रिपुसूदनः ।
सह सैन्यैश्च पार्थस्य साहाय्यार्थमियेष सः ॥
तस्मिंस्तु शब्दे महति प्रवृद्धे युधिष्ठिरो धर्मभृतां वरिष्ठः ।
आवासमेवोपजगाम शीघ्रं सार्धं यमाभ्यां पुरुषोत्तमाभ्याम् ॥
विद्धं तु लक्ष्यं प्रसमीक्ष्य कृष्णा पार्थं च शक्रप्रतिमं निरीक्ष्य ।
`स्वभ्यस्तरूपापि नवेव नित्यं विनापि हासं हसतीव कन्या ॥
मदादृतेऽपि स्खलतीव भावै- र्वाचा विना व्याहरतीव दृष्ट्या ।
आदाय शुक्लं वरमाल्यदाम जगाम कुन्तीसुतमुत्स्मयन्ती ॥
गत्वा च पश्चात्प्रसमीक्ष्य कृष्णा पार्थस्य वक्षस्यविशङ्कमाना ।
क्षिप्त्वा स्रजं पार्थिववीरमध्ये वराय वव्रे द्विजसङ्घमध्ये ॥
शचीव देवेन्द्रमथाग्निदेवं स्वाहेव लक्ष्मीश्च यथा मुकुन्दम् ।
उषेव सूर्यं मदनं रतीव महेश्वरं पर्वतराजपुत्री ॥'
स तामुपादाय विजित्य रङ्गे द्विजातिभिस्तैरभिपूज्यमानः ।
रङ्गान्निरक्रामदचिन्त्यकर्मा पत्न्या तया चाप्यनुगम्यमानः ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि स्वयंवरपर्वणि त्र्यधिकद्विशततमोऽध्यायः ॥ 203 ॥

1-203-29 साहाय्यार्थं द्रौपद्यलाभात् क्षुब्धैर्नृपान्तरैर्युद्धप्रसक्तौ सत्याम् ॥ त्र्यधिकद्विशततमोऽध्यायः ॥ 203 ॥

अध्यायः 204

क्रोधाद्राजसु द्रुपदहननार्थमागतेषु राजसंमुखे भीमार्जुनयोः सज्जीभूय स्थितयोः सतोः कृष्णबलरामयोः संवादः ॥ 1 ॥

वैशंपायन उवाच ।
तस्मै दित्सति कन्यां तु ब्राह्मणाय तदा नृपे ।
कोप आसीन्महीपानामालोक्यान्योन्यमन्तिकात् ॥
`ऊचुः सर्वे समागम्य परस्परहितैषिणः । वयं सर्वे समाहूता द्रुपदेन दुरात्मना ।
संहत्य चाभ्यगच्छाम स्वयंवरदिदृक्षया ॥'
अस्मानयमतिक्रम्य तृणीकृत्य च संगतान् ।
दातुमिच्छति विप्राय द्रौपदीं योषितां वराम् ॥
अवरोप्येह वृक्षस्तु फलकाले निपात्यते ।
निहन्मैनं दुरात्मानं योयमस्मान्न मन्यते ॥
न ह्यर्हत्येष संमानं नापि वृद्धक्रमं गुणैः ।
हन्मैनं सह पुत्रेण दुराचारं नृपद्विषम् ॥
अयं हि सर्वानाहूय सत्कृत्य च नराधिपान् ।
गुणवद्भोजयित्वान्नं ततः पश्चान्न मन्यते ॥
अस्मिन्राजसमवाये देवानामिव सन्नये ।
किमयं सदृशं कंचिन्नृपतिं नैव दृष्टवान् ॥
न च विप्रेष्वधीकारो विद्यते वरणं प्रति ।
स्वयंवरः क्षत्रियाणामितीयं प्रथिता श्रुतिः ॥
अथवा यदि कन्येयं न च कंचिद्बुभूषति ।
अग्नावेनां परिक्षिप्य याम राष्ट्राणि पार्थिवाः ॥
ब्राह्मणो यदि चापल्याल्लोभाद्वा कृतवानिदम् ।
विप्रियं पार्थिवेन्द्राणां नैष वध्यः कथंचन ॥
ब्राह्मणार्थं हि नो राज्यं जीवितं हि वसूनि च ।
पुत्रपौत्रं च यच्चान्यदस्माकं विद्यते धनम् ॥
अवमानभयाच्चैव स्वधर्मस्य च रक्षणात् ।
स्वयंवराणामन्येषां मा भूदेवंविधा गतिः ॥
इत्युक्त्वा राजशार्दूला रुष्टाः परिघबाहवः ।
द्रुपदं तु जिघांसन्तः सायुधाः समुपाद्रवन् ॥
तान्गृहीतशरावापान्क्रुद्धानापततो बहून् ।
द्रुपदो वीक्ष्य संग्रासाद्ब्राह्मणाञ्छरणं गतः ॥
`न भयान्नापि कार्पण्यान्न प्राणपरिरक्षणात् । जगाम द्रुपदो विप्राञ्शमार्थी प्रत्यपद्यत ॥'
वेगेनापततस्तांस्तु प्रभिन्नानिव वारणान् ।
पाण्डुपुत्रौ महेष्वासौ प्रतियातावरिन्दमौ ॥
ततः समुत्पेतुरुदायुधास्ते महीक्षितो बद्धगोधाङ्गुलित्राः ।
जिघांसमानाः कुरुराजपुत्रा- वमर्षयन्तोऽर्जुनभीमसेनौ ॥
ततस्तु भीमोऽद्भुतभीमकर्मा महाबलो वज्रसमानसारः ।
उत्पाट्य दोर्भ्यां द्रुममेकवीरो निष्पत्रयामास यथा गजेन्द्रः ॥
तं वृक्षमादाय रिपुप्रमाथी दण्डीव दण्डं पितृराज उग्रम् ।
तस्थौ समीपे पुरुषर्षभस्य पार्थस्य पार्थः पृथुदीर्घबाहुः ॥
तत्प्रेक्ष्य कर्मातिमनुष्यबुद्धि- र्जिष्णुः स हि भ्रातुरचिन्त्यकर्मा ।
विसिष्मिये चापि भयं विहाय तस्थौ धनुर्गृह्य महेन्द्रकर्मा ॥
तत्प्रेक्ष्य कर्मातिमनुष्यबुद्धि- र्जिष्णोः सहभ्रातुरचिन्त्यकर्मा ।
दामोदरो भ्रातरमुग्रवीर्यं हलायुधं वाक्यमिदं बभाषे ॥
य एष सिंहर्षभखेलगामी मदद्धनुः कर्षति तालमात्रम् ।
एषोऽर्जुनो नात्र विचार्यमस्ति यद्यस्मि संकर्षण वासुदेवः ॥
यस्त्वेष वृक्षं तरसाऽवभज्य राज्ञां निकारे सहसा प्रवृत्तः ।
वृकोदरान्नान्य इहैतदद्य कर्तुं समर्थः समरे पृथिव्याम् ॥
योऽसौ पुरस्तात्कमलायताक्षो महातनुः सिंहगतिर्विनीतः ।
गौरः प्रलम्बोज्ज्वलचारुघोणो विनिःसृतः सोऽप्युत धर्मपुत्रः ॥
यौ तौ कुमाराविव कार्तिकेयौ द्वावाश्विनेयाविति मे वितर्कः ।
मुक्ता हि तस्माज्जतुवेश्मदाहा- न्मया श्रुताः पाण्डुसुताः पृथा च ॥
वैशंपायन उवाच ।
तमब्रवीन्निर्जलतोयदाभो हलायुधोऽनन्तरजं प्रतीतः ।
प्रीतोऽस्मि दृष्ट्वा हि पितृष्वसारं पृथां विमुक्तां सह कौरवाग्र्यैः ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि स्वयंवरपर्वणि चतुरधिकद्विशततमोऽध्यायः ॥ 204 ॥

अध्यायः 205

अर्जुनेन कर्णपराजयः ॥ 1 ॥ भीमेन कर्णपराजयः ॥ 2 ॥ युधिष्ठिरादिभिर्दुर्योधनादिपराजयः ॥ 3 ॥ पुनर्युद्धाय कृतनिश्चयानां राज्ञां श्रीकृष्णवाक्येन युद्धोद्योगाद्विरम्य स्वस्वालयगमनम् ॥ 4 ॥ द्रौपद्या सह भीमार्जुनयोः कुलालगृहप्रवेशः ॥ 5 ॥

वैशंपायन उवाच ।
अजिनानि विधुन्वन्तः करकाश्च द्विजर्षभाः ।
ऊचुस्ते भीर्न कर्तव्या वयं योत्स्यामहे परान् ॥
तानेवं वदतो विप्रानर्जुनः प्रहसन्निव ।
उवाच प्रेक्षका भूत्वा यूयं तिष्ठत पार्श्वतः ॥
अहमेनानजिह्माग्रैः शतशो विकिरञ्छरैः ।
वारयिष्यामि संक्रुद्धान्मन्त्रैराशीविषानिव ॥
इति तद्धनुरानम्य शुल्कावाप्तं महाबलः ।
भ्रात्रा भीमेन सहितस्तस्थौ गिरिरिवाचलः ॥
ततः कर्णमुखान्दृष्ट्वा क्षत्रियान्युद्धदुर्मदान् ।
संपेततुरभीतौ तौ गजौ प्रतिगजानिव ॥
ऊचुश्च वाचः परुषास्ते राजानो युयुत्सवः ।
आहवे हि द्विजस्यापि वधो दृष्टो युयुत्सतः ॥
इत्येवमुक्त्वा राजानः सहसा दुद्रुवुर्द्विजान् ।
ततः कर्णो महातेजा जिष्णुं प्रति ययौ रणे ॥
युद्धार्थी वासिताहेतोर्गजः प्रतिगजं यथा ।
भीमसेनं ययौ शल्यो मद्राणामीश्वरो बली ॥
दुर्योधनादयः सर्वे ब्राह्मणैः सह संगताः ।
मृदुपूर्वमयत्नेन प्रत्ययुध्यंस्तदाऽऽहवे ॥
ततोऽर्जुनः प्रत्यविध्यदापतन्तं शितैः शरैः ।
कर्णं वैकर्तनं श्रीमान्विकृष्य बलवद्धनुः ॥
तेषां शराणां वेगेन शितानां तिग्मतेजसाम् ।
विमुह्यमानो राधेयो यत्नात्तमनुधावति ॥
तावुभावप्यनिर्देश्यौ लाघवाज्जयतां वरौ ।
अयुध्येतां सुसंरब्धावन्योन्यविजिगीषिणौ ॥
कृते प्रतिकृतं पश्य पश्य बाहुबलं च मे ।
इति शूरार्थवचनैरभाषेतां परस्परम् ॥
ततोऽर्जुनस्य भुजयोर्वीर्यमप्रतिमं भुवि ।
ज्ञात्वा वैकर्तनः कर्णः संरब्धः समयोधयत् ॥
अर्जुनेन प्रयुक्तांस्तान्बाणान्वेगवतस्तदा ।
प्रतिहत्य ननादोच्चैः सैन्यानि तदपूजयन् ॥
कर्ण उवाच ।
तुष्यामि ते विप्रमुख्य भुजवीयर्स्य संयुगे ।
अविषादस्य चैवास्य शस्त्रास्त्रविजयस्य च ॥
किं त्वं साक्षाद्धनुर्वेदो रामो वा विप्रसत्तम ।
अथ साक्षाद्धरिहयः साक्षाद्वा विष्णुरच्युतः ॥
आत्मप्रच्छादनार्थं वै बाहुवीर्यमुपाश्रितः ।
विप्ररूपं विधायेदं मन्ये मां प्रतियुध्यसे ॥
न हि मामाहवे क्रुद्धमन्यः साक्षाच्छचीपतेः ।
पुमान्योधयितुं शक्तः पाण्डवाद्वा किरीटिनः ॥
`दग्धा जतुगृहे सर्वे पाण्डवाः सार्जुनास्तदा । विनार्जुनं वा समरे मां निहन्तुमशक्नुवन् ॥'
तमेवंवादिनं तत्र फाल्गुनः प्रत्यभाषत ।
नास्मि कर्ण धनुर्वेदो नास्मि रामः प्रतापवान् ॥
ब्राह्मणोऽस्मि युधां श्रेष्ठः सर्वशस्त्रभृतां वरः ।
ब्राह्मे पौरन्दरे चास्त्रे निष्ठितोगुरुशासनात् ॥
स्थितोऽस्म्यद्य रणे जेतुं त्वां वै वीर स्थिरो भव ।
`निर्जितोऽस्मीति वा ब्रूहि ततो व्रज यथासुखम् ॥
वैशंपायन उवाच ।
एवमुक्त्वाऽथ कर्णस्य धनुश्चिच्छेद पाण्डवः ।
ततोऽन्यद्धनुरादाय संयोद्धुं सन्दधे शरम् ॥
दृष्ट्वा तच्चापि कौन्तेयश्छित्वा तद्धनुराशुगैः ।
तथा वैकर्तनं कर्णं बिभेद समरेऽर्जुनः ॥
ततः कर्णस्तु राधेयः छिन्नछन्वा महाबलः ।
शरैरतीव विद्धाङ्गः पलायनमथाकरोत् ॥
पुनरायान्मुहूर्तेन गृहीत्वा सशरं धनुः ।
ववर्ष शरवर्षाणि पार्थं वैकर्तनस्तथा ॥
तानि वै शरजालानि कौन्तेयोऽभ्यहनच्छरैः । ज्ञात्वा सर्वाञ्शरान्घोरान्कर्णोऽदावद्द्रुतं बहिः ॥'
ब्राह्मं तेजस्तदाऽजय्यं मन्यमानो महारथः ।
अपरस्मिन्वनोद्देशे वीरौ शल्यवृकोदरौ ॥
बलिनौ युद्धसंपन्नौ विद्यया च बलेन च ।
अन्योन्यमाह्वयन्तौ तु मत्ताविव महागजौ ॥
मुष्टिभिर्जानुभिश्चैव निघ्नन्तावितरेतरम् ।
प्रकर्षणाकर्षणयोरभ्याकर्षविकर्षणैः ॥
आचकर्षतुरन्योन्यं मुष्टिभिश्चापि जघ्नतुः ।
ततश्चटचटाशब्दः सुघोरो ह्यभवत्तयोः ॥
पाषाणसंपातनिभैः प्रहारैरभिजघ्नतुः ।
मुहूर्तं तौ तदाऽन्योन्यं समरे पर्यकर्षताम् ॥
ततो भीमः समुत्क्षिप्य बाहुभ्यां शल्यमाहवे ।
अपातयत्कुरुश्रेष्ठो ब्राह्मणा जहसुस्तदा ॥
तत्राश्चर्यं भीमसेनश्चकार पुरुषर्षभः ।
यच्छल्यं पातितं भूमौ नावधीद्बलिनं बली ॥
पातिते भीमसेनेन शल्ये कर्णे च शङ्किते ।
`विस्मयः परमो जज्ञे सर्वेषां पश्यतां नृणाम् ॥
ततो राजसमूहस्य पश्यतो वृक्षमारुजत् ।
ततस्तु भीमं संज्ञाभिर्वारयामास धर्मराट् ॥
आकारज्ञस्तथा भ्रातुः पाण्डवोऽपि न्यवर्तत ।
धर्मराजश्च कौरव्य दुर्योधनममर्षणम् ॥
अयोधयत्सभामध्ये पश्यतां वै महीक्षिताम् ।
ततो दुर्योधनस्तं तु ह्यवज्ञाय युधिष्ठिरम् ॥
नायोधयत्तदा तेन बलवान्वै सुयोधनः ।
एतस्मिन्नन्तरेऽविध्यद्बाणेनानतपर्वणा ॥
दुर्योधनममित्रघ्नं धर्मराजो युधिष्ठिरः ।
ततो दुर्योधनः क्रुद्धो दण्डाहत इवोरगः ॥
प्रत्ययुध्यत राजानं यत्नं परममास्थितः ।
छित्त्वा राजा धनुः सज्यं धार्तराष्ट्रस्य संयुगे ॥
अभ्यवर्षच्छरौघैस्तं स हित्वा प्राद्रवद्रणम् ।
दुःशासनस्तु संक्रुद्धः सहदेवेन पार्थिव ॥
युद्ध्वा च सुचिरं कालं सहदेवेन निर्जितः । उत्सृज्य च धनुः सङ्ख्ये जानुभ्यामवनीं गतः ।
उत्थाय सोऽभिदुद्राव सोसिं जग्राह चर्म च ॥
विकर्णचित्रसेनाभ्यां निगृहीतश्च कौरवः ।
मा युद्धमिति कौरव्य ब्राह्मणेनाबलेन वै ॥
दुःसहो नकुलश्चोभौ युद्धं कर्तुं समुद्यतै ।
तौ दृष्ट्वा कौरवा युद्धं वाक्यमूचुर्महाबलौ ॥
निवर्तन्तां भवन्तो वै कुतो विप्रेषु क्रूरता ।
दुर्बला ब्राह्मणाश्चेमे भवन्तो वै महाबलाः ॥
द्वावत्र ब्राह्मणौ क्रूरौ वाय्विन्द्रसदृशौ बले ।
ये वा के वा नमस्तेभ्यो गच्छामः स्वपुरं वयम् ॥
एवं संभाषमाणास्ते न्यवर्तन्ताथ कौरवाः ।
जहृषुर्ब्राह्मणास्तत्र समेतास्तत्र सङ्घशः ॥
बहुशस्ते ततस्तत्र क्षत्रिया रणमूर्धनि ।
प्रेक्षमाणास्तथाऽतिष्ठन्ब्राह्मणांश्च समन्ततः ॥
ब्राह्मणाश्च जयं प्राप्ताः कन्यामादाय निर्ययुः ।
विजिते भीमसेनेन शल्ये कर्णे च निर्जिते ॥
दुर्योधने चापयाते तथा दुःशासने रणात् ।' शङ्किताः सर्वराजानः परिवव्रुर्वृकोदरम् ॥
ऊचुश्च सहितास्तत्र साध्विमौ ब्राह्मणर्षभौ ।
विज्ञायेतां क्वजन्मानौ क्वनिवासौ तथैव च ॥
को हि राधासुतं कर्णं शक्तो योधयितुं रणे ।
अन्यत्र रामाद्द्रोणाद्वा पाण्डवाद्वा किरीटिनः ॥
कृष्णाद्वा देवकीपुत्रात्कृपाद्वापि शरद्वतः ।
को वा दुर्योधनं शक्तः प्रतियोथयितुं रणे ॥
तथैव मद्राधिपतिं शल्यं बलवतांवरम् ।
बलदेवादृते वीरात्पाण्डवाद्वा वृकोदरात् ॥
वीराद्दुर्योधनाद्वाऽन्यः शक्तः पातयितुं रणे ।
क्रियतामवहारोऽस्माद्युद्धाद्ब्राह्मणसंवृतात् ॥
ब्राह्मणा हि सदा रक्ष्याः सापराधाऽपिनित्यदा ।
अथैनानुपलभ्येह पुनर्योत्स्याम हृष्टवत् ॥
वैशंपायन उवाच ।
तांस्तथावादिनः सर्वान्प्रसमीक्ष्य क्षितीश्वरान् ।
अथान्यान्पुरुषांश्चापि कृत्वा तत्कर्म संयुगे ॥
तत्कर्म भीमस्य समीक्ष्य कृष्णः कुन्तीसुतौ तौ परिशङ्कमानः ।
निवारयामास महीपतींस्ता- न्धर्मेण लब्धेत्यनुनीय सर्वान् ॥
एवं ते विनिवृत्तास्तु युद्धाद्युद्धविशारदाः ।
यथावासं ययुः सर्वे विस्मिता राजसत्तमाः ॥
वृत्तो ब्रह्मोत्तरो रङ्गः पाञ्चाली ब्राह्मणैर्वृता ।
इति ब्रुवन्तः प्रययुर्ये तत्रासन्समागताः ॥
ब्राह्मणैस्तु प्रतिच्छन्नौ रौरवाजिनवासिभिः ।
कृच्छ्रेण जग्मतुस्तौ तु भीमसेनधनञ्जयौ ॥
विमुक्तौ जनसंबाधाच्छत्रुभिः परिविक्षतौ ।
कृष्णयानुगतौ तत्र नृवीरौ तौ विरेजतुः ॥
पौर्णमास्यां घनैर्मुक्तौ चन्द्रसूर्याविवोदितौ ।
तेषां माता बहुविधं विनाशं पर्यचिन्तयत् ॥
अनागच्छत्सु पुत्रेषु भैक्षकाले च लिङ्घिते ।
धार्तराष्ट्रैर्हताश्च स्युर्विज्ञाय कुरुपुङ्गवाः ॥
मायान्वितैर्वा रक्षोभिः सुघोरैर्दृढवैरिभिः ।
विपरीतं मतं जातं व्यासस्यापि महात्मनः ॥
इत्येवं चिन्तयामासं सुतस्नेहावृता पृथा ।
ततः सुप्तजनप्राये दुर्दिने मेघसंप्लुते ॥
महत्यथापराह्णे तु घनैः सूर्य इवावृतः ।
ब्राह्मणैः प्राविशत्तत्र जिष्णुर्भार्गववेश्म तत् ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि स्वयंवरपर्वणि प़ञ्चाधिकद्विशततमोऽध्यायः ॥ 205 ॥

1-205-12 विजिगीषिणौ विजिगीषावन्तौ ॥ 1-205-29 वनोद्देशे रङ्गदृशां निवासस्थाने ॥ 1-205-34 समुत्क्षिप्य कूष्माण्डफलवदपातयत् ॥ 1-205-57 अवहारो युद्धान्निवर्तनं ॥ 1-205-59 संयुगे तत्कर्म कृत्वा तूष्णींभूताविति शेषः ॥ 1-205-62 ब्रह्म ब्राह्मणजातिः उत्तरं उत्कृष्टं यस्मिन्स ब्रह्मोत्तरः ॥ 1-205-69 भार्गववेश्म कुलालगृहं ॥ पाञ्चाधिकद्विशततमोऽध्यायः ॥ 205 ॥

अध्यायः 206

भीमार्जुनाश्यां द्रौपद्याः भिक्षेत्यावेदने कुन्त्या पञ्चानां सह भोजनानुज्ञा ॥ 1 ॥ पश्चात् द्रौपदीदर्शनेन चिन्तान्वितायां कुन्त्यां युधिष्ठिरार्जुनयोः संवादः ॥ 2 ॥ द्वैपायनवचःस्मरणेन सर्वेषां द्रौपदी भार्येति युधिष्ठिरनिश्चयः ॥ 3 ॥ जनमेजयेन कृष्णस्य कार्मुकानारोपणे कारणप्रश्ने पाण्डवार्थमिति वैशंपायनस्योत्तरम् ॥ 4 ॥ कुलालशालांप्रति श्रीकृष्णस्यागमनम् ॥ 5 ॥

वैशंपायन उवाच ।
गत्वा तु तां भार्गवकर्मशालां पार्थौ पृथां प्राप्य महानुभावौ ।
तां याज्ञसेनीं परमप्रतीतौ भिक्षेत्यथावेदयतां नराग्र्यौ ॥
कुटीगता सा त्वनवेक्ष्य पुत्रौ प्रोवाच भुङ्क्तेति समेत्य सर्वे ।
पश्चाच्च कुन्ती प्रसमीक्ष्य कृष्णां कष्टं मया भाषितमित्युवाच ॥
साऽधर्मभीता परिचिन्तयन्ती तां याज्ञसेनीं परमप्रतीताम् ।
पाणौ गृहीत्वोपजगाम कुन्ती युधिष्ठिरं वाक्यमुवाच चेदम् ॥
कुन्त्युवाच ।
इयं तु कन्या द्रुपदस्य राज्ञ- स्तवानुजाभ्यां मयि संनिसृष्टा ।
यथोचितं पुत्र मयाऽपि चोक्तं समेत्य भुङ्क्तेति नृप प्रमादात् ॥
मया कथं नानृतमुक्तमद्य भवेत्कुरूणामृषभ ब्रवीहि ।
पञ्चालराजस्य सुतामधर्मो न चोपवर्तेत न विभ्रमेच्च ॥
वैशंपायन उवाच ।
स एवमुक्तो मतिमान्नृवीरो मात्रा मुहूर्तं तु विचिन्त्य राजा ।
कुन्तीं समाश्वास्य कुरुप्रवीरो धनञ्जयं वाक्यमिदं बभाषे ॥
त्वया जिता फाल्गुन याज्ञसेनी त्वयैव शोभिष्यति राजपुत्री ।
प्रज्वाल्यतामग्निरमित्रसाह गृहाण पाणिं विधिवत्त्वमस्याः ॥
अर्जुन उवाच ।
मा मां नरेन्द्र त्वमधर्मभाजं कृथा न धर्मोऽयमशिष्टदृष्टः ।
भवान्निवेश्यः प्रथमं ततोऽयं भीमो महाबाहुरचिन्त्यकर्मा ॥
अहं ततो नकुलोऽनन्तरं मे पश्चादयं सहदेवस्तरस्वी ।
वृकोदरोऽहं च यमौ च राज- न्नियं च कन्या भवतो नियोज्याः ॥
एवं गते यत्करणीयमत्र धर्म्यं यशस्यं कुरु तद्विचिन्त्य ।
पाञ्चालराजस्य हितं च यत्स्या- त्प्रशाधि सर्वे स्म वशे स्थितास्ते ॥
वैशंपायन उवाच ।
जिष्णोर्वचनमाज्ञाय भक्तिस्नेहसमन्वितम् ।
दृष्टिं निवेशयामासुः पाञ्चाल्यां पाण्डुनन्दनाः ॥
दृष्ट्वा ते तत्र पश्यन्तीं सर्वे कृष्णां यशस्विनीम् ।
संप्रेक्ष्यान्योन्यमासीना हृदयैस्तामधारयन् ॥
तेषां तु द्रौपदीं दृष्ट्वा सर्वेषाममितौजसाम् ।
संप्रमथ्येन्द्रियग्रामं प्रादुरासीन्मनोभवः ॥
काम्यं हि रूपं पाञ्चाल्या विधात्रा विहितं स्वयम् ।
बभूवाधिकमन्याभ्यः सर्वभूतमनोहरम् ॥
तेषामाकारभावज्ञः कुन्तीपुत्रो युधिष्ठिरः ।
द्वैपायनवचः कृत्स्नं सस्मार मनुजर्षभः ॥
अब्रवीत्सहितान्भ्रातॄन्मिथो भेदभयान्नृपः ।
सर्वेषां द्रौपदी भार्या भविष्यति हि नः शुभा ॥
`जनमेजय उवाच ।
सताऽपि शक्तेन च केशवेन सज्यं धनुस्तन्न कृतं किमर्थम् ।
विद्धं च लक्ष्यं न च कस्य हेतो- राचक्ष्व तन्मे द्विपदां वरिष्ठ ॥
वैशंपायन उवाच ।
शक्तेन कृष्णेन च कार्मुकं त- न्नारोपितं ज्ञातुकामेन पार्थान् ।
परिश्रवादेव बभूव लोके जीवन्ति पार्था इति निश्चयोऽस्य ॥
अन्यानशक्तान्नृपतीन्समीक्ष्य स्वयंवरे कार्मुकेणोत्तमेन ।
धनञ्जयस्तद्धनुरेकवीरः सज्यं करोतीत्यभिवीक्ष्य कृष्णः ॥
इति स्वयं वासुदेवो विचिन्त्य पार्थान्विवित्सन्विविधैरुपायैः ।
न तद्धनुः सज्यमियेप कर्तुं बभूवुरस्येष्टतमा हि पार्थाः ॥'
भ्रातुर्वचस्तत्प्रसमीक्ष्य सर्वे ज्येष्ठस्य पाण्डोस्तनयास्तदानीम् ।
तमेवार्थं ध्यायमाना मनोभिः सर्वे च ते तस्थुरदीनसत्वाः ॥
वृष्णिप्रवीरस्तु कुरुप्रवीरा- नाशंसमानः सहरौहिणेयः ।
जगाम तां भार्गवकर्मशालां यत्रासते ते पुरुषप्रवीराः ॥
तत्रोपविष्टं पृथुदीर्घबाहुं ददर्श कृष्णः सहरौहिणेयः ।
अजातशत्रुं परिवार्य तांश्चा- प्युपोपविष्टाञ्ज्वलनप्रकाशान् ॥
ततोऽब्रवीद्वासुदेवोऽभिगम्य कुन्तीसुतं धर्मभृतां वरिष्ठम् ।
कृष्णोऽहमस्मीति निपीड्य पादौ युधिष्ठिरस्याजमीढस्य राज्ञः ॥
तथैव तस्याप्यनु रौहिणेय- स्तौ चापि हृष्टाः कुरवोऽभ्यनन्दन ।
पितृष्वसुश्चापि यदुप्रवीरा- वगृह्णतां भारतमुख्य पादौ ॥
अजातशत्रुश्च कुरुप्रवीरः पप्रच्छ कृष्णं कुशलं विलोक्य ।
कथं वयं वासुदेव त्वयेह गूढा वसन्तो विदिताश्च सर्वे ॥
तमब्रवीद्वासुदेवः प्रहस्य गूढोऽप्यग्निर्ज्ञायत एव राजन् ।
तं विक्रमं पाण्डवेयानतीत्य कोऽन्यः कर्ता विद्यते मानुषेषु ॥
दिष्ट्या सर्वे पावकाद्विप्रमुक्ता यूयं घोरात्पाण्डवाः शत्रुसाहाः ।
दिष्ट्या पापो धृतराष्ट्रस्य पुत्रः सहामात्यो न सकामोऽभविष्यत् ॥
भद्रं वोऽस्तु निहितं यद्गुहायां विवर्धध्वं ज्वलना इवैधमानाः ।
मा वो विद्युः पार्थिवाः केचिदेव यास्यावहे शिबिरायैव तावत् । सोऽनुज्ञातः पाण्डवेनाव्ययश्रीः
प्रायाच्छीघ्रं बलदेवेन सार्धम् ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि स्वयंवरपर्वणि षडधिकद्विशततमोऽध्यायः ॥ 206 ॥

1-206-12 दृष्ट्वा ते तत्र तिष्ठन्ती इति ङ. पाठः ॥ 1-206-29 यद्भद्रं गुहायां बुद्धौ वो निहितं तद्वोस्तु ॥ षडधिकद्विशततमोऽध्यायः ॥ 206 ॥

अध्यायः 207

पाण्डवावासे धृष्टद्युम्नस्य निलीयावस्थानम् ॥ 1 ॥ भीमाद्यानीतस्य भैक्षस्य कुन्त्याज्ञया द्रौपद्या परिवेषणम् ॥ 2 ॥ सर्वं पाण्डववृत्तान्तं ज्ञात्वा धृष्टद्युम्नस्य प्रतिनिवर्तनम् ॥ 3 ॥

वैशंपायन उवाच ।
धृष्टद्युमनस्तु पाञ्चाल्यः पृष्ठतः कुरुनन्दनौ ।
अन्वगच्छत्तदा यान्तौ भार्गवस्य निवेशने ॥
सोज्ञायमानः पुरुषानवधाय समन्ततः ।
स्वयमारान्निलीनोऽभूद्भार्गवस्य निवेशने ॥
सायं च भीमस्तु रिपुप्रमाथी जिष्णुर्यमौ चापि महानुभावौ ।
भैक्षं चरित्वा तु युधिष्ठिराय निवेदयांचक्रुरदीनसत्वाः ॥
ततस्तु कुन्ती द्रुपदात्मजां ता- मुवाच काले वचनं वदान्या ।
ततोऽग्रमादाय कुरुष्व भद्रे बलिं च विप्राय च देहि भिक्षाम् ॥
ये चान्नमिच्छन्ति ददस्व तेभ्यः परिश्रिता ये परितो मनुष्याः ।
ततश्च शेषं प्रविभज्य शीघ्र- मर्धं चतुर्णां मम चात्मनश्च ॥
अर्धं तु भीमाय च देहि भद्रे य एष नागर्षभतुल्यरूपः ।
गौरो युवा संहननोपपन्न एषो हि वीरो बहुभुक् सदैव ॥
सा हृष्टरूपैव तु राजपुत्री तस्या वचः साध्वविशङ्कमाना ।
यथावदुक्तं प्रचकार साध्वी ते चापि सर्वे बुभुजुस्तदन्नम् ॥
कुशैस्तु भूमौ शयनं चकार माद्रीपुत्रः सहदेवस्तपस्वी ।
अथात्मकीयान्यजिनानि सर्वे संस्तीर्य वीराः सुषुपुर्धरण्याम् ॥
अगस्त्यकान्तामभितो दिशं तु शिरांसि तेषां कुरुसत्तमानाम् ।
कुन्ती पुरस्तात्तु बभूव तेषां पादान्तरे चाथ बभूव कृष्णा ॥
अशेत भूमौ सह पाण्डुपुत्रैः पादोपधानीव कृता कुशेषु ।
न तत्र दुःखं मनसापि तस्या न चावमेने कुरुपुङ्गवांस्तान् ॥
ते तत्र शूराः कथयांबभूवुः कथा विचित्राः पृतनाधिकाराः ।
अस्त्राणि दिव्यानि रथांश्च नागान् खड्गान्गदाश्चापि परश्वधांश्च ॥
तेषां कथास्ताः परिकीर्त्यमानाः पाञ्चालराजस्य सुतस्तदानीम् ।
सुश्राव कृष्णां च तदा निषण्णां ते चापि सर्वे ददृशुर्मनुष्याः ॥
धृष्टद्युम्नो राजपुत्रस्तु सर्वं वृत्तं तेषां कथितं चैव रात्रौ ।
सर्वं राज्ञे द्रुपदायाखिलेन निवेदयिष्यंस्त्वरितो जगाम ॥
पाञ्चालराजस्तु विषण्णरूप- स्तान्पाण्डवानप्रतिविन्दमानः ।
धृष्टद्युम्नं पर्यपृच्छन्महात्मा क्व सा गता केन नीता च कृष्णा ॥
कच्चिन्न शूद्रेण न हीनजेन वैश्येन वा करदेनोपपन्ना ।
कच्चित्पदं मूर्ध्नि न पङ्कदिग्धं कच्चिन्न माला पतिता श्मशाने ॥
कच्चित्स वर्णप्रवरो मनुष्य उद्रिक्तवर्णोऽप्युत एव कच्चित् ।
कच्चिन्न वामो मम मूर्ध्नि पादः कृष्णाभिमर्शेन कृतोऽद्य पुत्र ॥
कच्चिन्न तप्स्ये परमप्रतीतः संयुज्य पार्थेन नरर्षभेण ।
वदस्व तत्त्वेन महानुभाव कोऽसौ विजेता दुहितुर्ममाद्य ॥
विचित्रवीर्यस्य सुतस्य कच्चि- त्कुरुप्रवीरस्य ध्रियन्ति पुत्राः ।
कच्चित्तु पार्थेन यवीयसाऽध्य धनुर्गृहीतं निहतं च लक्ष्यम् ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि स्वयंवरपर्वणि सप्ताधिकद्विशततमोऽध्यायः ॥ 207 ॥ ॥ समाप्तं स्वयंवरपर्व ॥

1-207-4 अग्रं प्रथममादाय बलिं कुरुष्व भिक्षां च देहि ॥ 1-207-18 ध्रेयन्ति जीवन्ति ॥ सप्ताधिकद्विशततमोऽध्यायः ॥ 207 ॥

अध्यायः 208

(अथ वैवाहिकपर्व ॥ 13 ॥)

धृष्टद्युम्नवार्तां श्रुतवता द्रुपदेन तत्वविवित्सया पाण्डवान्प्रति पुरोहितप्रेषणम् ॥ 1 ॥

वैशंपायन उवाच ।
ततस्तथोक्तः परिहृष्टरूपः पित्रे शशंसाथ स राजपुत्रः ।
धृष्टद्युम्नः सोमकानां प्रबर्हो वृत्तं यथा येन हृता च कृष्णा ॥
धृष्टद्युम्न उवाच ।
योऽसौ युवा व्यायतलोहिताक्षः कृष्णाजिनी देवसमानरूपः ।
यः कार्मुकाग्र्यं कृतवानधिज्यं लक्षं च यः पातितवान्पृथिव्याम् ॥
असज्जमानश्च ततस्तरस्वी वृतो द्विजाग्र्यैरभिपूज्यमानः ।
चक्राम वज्रीव दितेः सुतेषु सर्वैश्च देवैर्ऋषिभिश्च जुष्टः ॥
कृष्मा प्रगृह्याजिनमन्वयात्तं नागं यथा नागवधूः प्रहृष्टा ।
`श्यामो युवा वारणमत्तगामी कृत्वा महत्कर्म सुदुष्करं तत् ॥
यः सूतपुत्रेण चकार युद्धं शङ्केऽर्जुनं तं त्रिदशेशवीर्यम् ।'
अमृष्यमाणेषु नराधिपेषु क्रुद्धेषु वै तत्र समापतत्सु ॥
ततोऽपरः पार्थिवसङ्घमध्ये प्रवृद्धमारुज्य महीप्ररोहम् ।
प्राकालयत्तेन स पार्थिवौघान् भीमोऽन्तकः प्राणभृतो यथैव ॥
तौ पार्थिवानां मिषतां नरेन्द्र कृष्णामुपादाय गतौ नराग्र्यौ ।
`विक्षोभ्य विद्राव्य च पार्तिवांस्ता- न्स्वतेजसा दुष्प्रतिवीक्ष्यरूपौ ।' विभ्राजमानाविव चन्द्रसूर्यौ बाह्यां पुराद्भार्गवकर्मशालाम् ॥
तत्रोपविष्टार्चिरिवानलस्य तेषां जनित्रीति मम प्रतर्कः ।
तथाविधैरेव नरप्रवीरै- रुपोपविष्टैस्त्रिबिरग्निकल्पैः ॥
तस्यास्ततस्तावभिवाद्य पादा- वुक्त्वा च कृष्णामभिवादयेति ।
स्थितौ च तत्रैव निवेद्य कृष्णां भिक्षाप्रचाराय गता नराग्र्याः ॥
तेषां तु भैक्षं प्रतिगृह्य कृष्णा दत्वा बलिं ब्राह्मणसाच्च कृत्वा ।
तां चैव वृद्धां परिवेष्य तांश्च नरप्रवीरान्स्वयमप्यभुङ्क्त ॥
सुप्तास्तु ते पार्थिव सर्व एव कृष्णा च तेषां चरणोपधाने ।
आसीत्पृथिव्यां शयनं च तेषां दर्भाजिनाग्रास्तरणोपपन्नम् ॥
ते नर्दमाना इव कालमेघाः कथा विचित्राः कथयांबभूवुः ।
न वैश्यशूद्रौपयिकीः कथास्ता न च द्विजानां कथयन्ति वीराः ॥
निःसंशयं क्षत्रियपुंगवास्ते यथा हि युद्धं कथयन्ति राजन् ।
आशा हि नो व्यक्तमियं समृद्धा मुक्तान्हि पार्थाञ्शृणुमोऽग्निदाहात् ॥
यथा हि लक्ष्यं निहतं धनुश्च सज्यं कृतं तेन तथा प्रसह्य ।
यथा हि भाषन्ति परस्परं ते छन्ना ध्रुवं ते प्रचरन्ति पार्थाः ॥ 1-208015x वैशंपायन उवाच ।
ततः स राजा द्रुपदः प्रहृष्टः पुरोहितं प्रेषायामास तेषाम् ।
विद्याम युष्मानिति भाषमाणो महात्मानः पाण्डुसुताः स्थ कच्चित् ॥
गृहीतवाक्यो नृपतेः पुरोधा गत्वा प्रशंसामभिधाय तेषाम् ।
वाक्यं समग्रं नृपतेर्यथाव- दुवाच चानुक्रमविक्रमेण ॥
विज्ञातुमिच्छत्यवनीश्वरो वः पाञ्चालराजो वरदो वरार्हाः ।
लक्ष्यस्य वेद्धारमिमं हि दृष्ट्वा हर्षस्य नान्तं प्रतिपद्यते सः ॥
आख्यात च ज्ञातिकुलानुपूर्वी पदं शिरःसु द्विषतां कुरुध्वम् ।
प्रह्लादयध्वं हृदयं ममेदं पाञ्चालराजस्य च सानुगस्य ॥
पाण्डुर्हि राजा द्रुपदस्य राज्ञः प्रियः सखा चात्मसमो बभूव ।
तस्यैष कामो दुहिता ममेयं स्नुषा यदि स्यादिह कौरवस्य ॥
अयं हि कामो द्रुपदस्य राज्ञो हृदि स्थितो नित्यमनिन्दिताङ्गाः ।
यदर्जुनो वै पृथुदीर्घबाहु- र्धर्मेण विन्देत सुतां ममैताम् ॥
कृतं हि तत्स्यात्सुकृतं ममेदं यशश्च पुण्यं च हितं तदेतत् ।
अथोक्तवाक्यं हि पुरोहितं स्थितं ततो विनीतं समुदीक्ष्य राजा ॥
समीपतो भीममिदं शशास प्रदीयतां पाद्यमर्ध्यं तथाऽस्मै ।
मान्यः पुरोधा द्रुपदस्य राज्ञ- स्तस्मै प्रयोज्याऽभ्यधिका हि पूजा ॥
वैशंपायन उवाच ।
भीमस्ततस्तत्कृतवान्नरेन्द्र तां चैव पूजां प्रतिगृह्य हर्षात् ।
सुखोपविष्टं तु पुरोहितं तदा युधिष्ठिरो ब्राह्मणमित्युवाच ॥
पाञ्चालराजेन सुता निसृष्टा स्वधर्मदृष्टेन यथा न कामात् ।
प्रदिष्टशुंल्का द्रुपदेन राज्ञा सा तेन वीरेण तथाऽनुवृत्ता ॥
न तत्र वर्णेषु कृता विवक्षा न चापि शीले न कुले न गोत्रे ।
कृतेन सज्येन हि कार्मुकेण विद्धेन लक्ष्येण हि सा विसृष्टा ॥
सेयं तथाऽनेन महात्मनेह कृष्णा जिता पार्थिवसङ्घमध्ये ।
नैवं गते सौमकिरद्य राजा सन्तापमर्हत्यसुखाय कर्तुम् ॥
कामश्च योऽसौ द्रुपदस्य राज्ञः स चापि संपत्स्यति पार्थिवस्य ।
संप्राप्यरूपां हि नरेन्द्रकन्या- मिमामहं ब्राह्मण साधु मन्ये ॥
न तद्धनुर्मन्दबलेन शक्यं मौर्व्या समायोजयितुं तथाहि ।
न चाकृतास्त्रेण न हीनजेन लक्ष्यं तथा पातयितुं हि शक्यम् ॥
तस्मान्न तापं दुहितुर्निमित्तं पाञ्चालराजोऽर्हति कर्तुमद्य ।
न चापि तत्पातनमन्यथेह कर्तुं हि शक्यं भुवि मानवेन ॥
एवं ब्रुवत्येव युधिष्ठिरे तु पाञ्चालराजस्य समीपतोऽन्यः ।
तत्राजगामाशु नरो द्वितीयो निवेदयिष्यन्निह सिद्धमन्नम् ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि वैवाहिकपर्वणि अष्टाधिकद्विशततमोऽध्यायः ॥ 208 ॥

1-208-27 संप्राप्यरूपासस्माकं योग्यरूपम् ॥ अष्टाधिकद्विशततमोऽध्यायः ॥ 208 ॥

अध्यायः 209

कुन्त्या सह पाण्डवानां द्रुपदगृहगमनम् ॥ 1 ॥ परीक्षणार्थं द्रुपदेन अनेकविधवस्तूपहरणम् ॥ 2 ॥ द्रौपद्या सह कुन्त्या अन्तःपुरप्रवेशः ॥ 3 ॥ भोजनानन्तरं पाण्डवानां साङ्ग्रामिकवस्तुपूर्णप्रदेशे प्रवेशः ॥ 4 ॥

दूत उवाच ।
जन्यार्थमन्नं द्रुपदेन राज्ञा विवाहहेतोरुपसंस्कृतं च ।
तदाप्नुवध्वं कृतसर्वकार्याः कृष्णा च तत्रैतु चिरं न कार्यम् ॥
इमे रथाः काञ्चनपद्मचित्राः सदश्वयुक्ता वसुधाधिपार्हाः ।
एतान्समारुह्य परैत सर्वे पाञ्चालराजस्य निवेशनं तत् ॥
वैशंपायन उवाच ।
ततः प्रयाताः कुरुपुंगवास्ते पुरोहितं तं परियाप्य सर्वे ।
आस्थाय यानानि महान्ति तानि कुन्ती च कृष्णा च सहैकयाने ॥
`स्त्रीभिः सुगन्धाम्बरमाल्यदानै- र्विभूषिता आभरणैर्विचित्रैः ।
माङ्गल्यगीतध्वनिवाद्यघोषै- र्मनोहरैः पुण्यकृतां वरिष्ठैः ॥
संगीयमानाः प्रययुः प्रहृष्टा दीपैर्ज्वलद्भिः सहिताश्च विप्रैः ॥
स वै तथोक्तस्तु युधिष्ठिरेण पाञ्चालराजस्य पुरोहितोऽग्र्यः ।
सर्वं यथोक्तं कुरुनन्दनेन निवेदयामास नृपाय गत्वा ॥'
श्रुत्वा तु वाक्यानि पुरोहितस्य यान्युक्तवान्भारत धर्मराजः ।
जिज्ञासयैवाथ कुरूत्तमानां द्रव्याण्यनेकान्युपसंजहार ॥
फलानि माल्यानि च संस्कृतानि वर्माणि चर्माणि तथाऽऽसनानि ।
गाश्चैव राजन्नथ चैव रज्जू- र्बीजानि चान्यानि कृषीनिमित्तम् ॥
अन्येषु शिल्पेषु च यान्यपि स्युः सर्वाणि कृत्यान्यखिलेन तत्र ।
क्रीडानिमित्तान्यपि यानि तत्र सर्वाणि तत्रोपजहार राजा ॥
वर्माणि चर्माणि च भानुमन्ति खड्गा महान्तोऽश्वरथाश्च चित्राः ।
धनूंषि चाग्र्याणि शराश्च चित्राः शक्त्यृष्टयः काञ्चनभूषणाश्च ॥
प्रासा भुशुण्ड्यश्च परश्वधाश्च सांग्रामिकं चैव तथैव सर्वम् ।
शय्यासनान्युत्तमवस्तुवन्ति तथैव वासो विविधं च तत्र ॥
कुन्ती तु कृष्णां परिगृह्य साध्वी- मन्तःपुरं द्रुपदस्याविवेश ।
स्त्रियश्च तां कौरवराजपत्नीं प्रत्यर्चयामासुरदीनसत्वाः ॥
तान्सिंहविक्रान्तगतीन्निरीक्ष्य महर्षभाक्षानजिनोत्तरीयान् ।
गूढोत्तरांसान्भुजगेन्द्रभोग- प्रलम्बबाहून्पुरुषप्रवीरान् ॥
राजा च राज्ञः सचिवाश्च सर्वे पुत्राश्च राज्ञः सुहृदस्तथैव ।
प्रेष्याश्च सर्वे निखिलेन राज- न्हर्षं समापेतुरतीव तत्र ॥
ते तत्र वीराः परमासनेषु सपादपीठेष्वविशङ्कमानाः ।
यथानुपूर्व्याद्विविशुर्नराग्र्या- स्तथा महार्हेषु न विस्मयन्तः ॥
उच्चावचं पार्थिवभोजनीयं पात्रीषु जाम्बूनदराजतीषु ।
दासाश्च दास्यश्च सुमृष्टवेषाः संभोजकाश्चाप्युपजह्रुरन्नम् ॥
ते तत्र भुक्त्वा पुरुषप्रवीरा यथात्मकामं सुभृशं प्रतीताः ।
उत्क्रम्य सर्वाणि वसूनि राज- न्सांग्रामिकं ते विविशुर्नृवीराः ॥
तल्लक्षयित्वा द्रुपदस्य पुत्रा राजा च सर्वैः सह मन्त्रिमुख्यैः ।
समर्थयामासुरुपेत्य हृष्टाः कुन्तीसुतान्पार्थिवराजपुत्रान् ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि वैवाहिकपर्वणि नवाधिकद्विशततमोऽध्यायः ॥ 209 ॥

1-209-1 जन्यार्थं वरपक्षीयजतार्थं ॥ 1-209-3 परियाप्य प्रस्थाप्य ॥ 1-209-9 कृन्तन्तीति कृत्यानि वास्यादीनि ॥ 1-209-11 वस्तुवन्ति मतोर्मस्य वत्वमार्षम् ॥ 1-209-13 गूढोत्तरांसान्गूढजत्रून् गूढोन्नतांसान् इति ङ. पाठः ॥ नवाधिकद्विशततमोऽध्यायः ॥ 209 ॥

अध्यायः 210

द्रुपदप्रश्नानन्तरं युधिष्ठिरेण स्वेषां पाण्डवत्वकथनम् ॥ 1 ॥ द्रौपद्याः पञ्चपत्नीत्वे द्रुपदस्य विवादः ॥ 2 ॥ व्यासागमनम् ॥ 3 ॥

वैशंपायन उवाच ।
तत आहूय पाञ्चाल्यो राजपुत्रं युधिष्ठिरम् ।
परिग्रहेण ब्राह्मेण परिगृह्य महाद्युतिः ॥
पर्यपृच्छददीनात्मा कुन्तीपुत्रं सुवर्चसम् ।
कथं जानीम भवतः क्षत्रियान्ब्राह्मणानुत ॥
वैश्यान्वा गुणसंपन्नानथ वा शूद्रयोनिजान् ।
मायामास्थाय वा सिद्धांश्चरतः सर्वतोदिशम् ॥
कृष्णाहेतोरनुप्राप्ता देवाः संदर्शनार्थिनः ।
ब्रवीतु नो भवान्सत्यं सन्देहो ह्यत्र नो महान् ॥
अपि नः संशयस्यान्ते मनः संतुष्टिमावहेत् ।
अपि नो भागधेयानि शुभानि स्युः परन्तप ॥
इच्छया ब्रूहि तत्सत्यं सत्यं राजसु शोभते ।
इष्टापूर्तेन च तथा वक्तव्यमनृतं न तु ॥
श्रुत्वा ह्यमरसङ्काश तव वाक्यमरिंदम ।
ध्रुवं विवाहकरणमास्थास्यामि विधानतः ॥
युधिष्ठिर उवाच ।
मा राजन्विमना भूस्त्वं पाञ्चाल्य प्रीतिरस्तु ते ।
ईप्सितस्ते ध्रुवः कामः संवृत्तोऽयमसंशयम् ॥
वयं हि क्षत्रिया राजन्पाण्डोः पुत्रा महात्मनः ।
ज्येष्ठं मां विद्धि कौन्तेयं भीमसेनार्जुनाविमौ ॥
आभ्यां तव सुता राजन्निर्जिता राजसंसदि ।
यमौ च तत्र कुन्ती च यत्र कृष्मा व्यवस्थिता ॥
व्येतु ते मानसं दुःखं क्षत्रियाः स्मो नरर्षभ ।
पद्मिनीव सुतेयं ते ह्रदादन्यह्रदं गता ॥
इति तथ्यं महाराज सर्वमेतद्ब्रवीमि ते ।
भवान्हि गुरुरस्माकं परमं च परायणम् ॥
वैशंपायन उवाच ।
ततः स द्रुपदो राजा हर्षव्याकुललोचनः ।
प्रतिवक्तुं मुदा युक्तो नाशकत्तं युधिष्टिरम् ॥
यत्नेन तु स तं हर्षं सन्निगृह्य परंतपः ।
अनुरूपं तदा वाचा प्रत्युवाच युधिष्ठिरम् ॥
पप्रच्छ चैनं धर्मात्मा यथा ते प्रद्रुताः पुरात् ।
स तस्मै सर्वमाचख्यावानुपूर्व्येण पाण्डवः ॥
तच्छ्रुत्वा द्रुपदो राजा कुन्तीपुत्रस्य भाषितम् ।
विगर्हयामास तदा धृतराष्ट्रं नरेश्वरम् ॥
आश्वासयामास च तं कुन्तीपुत्रं युधिष्ठिरम् ।
प्रतिजज्ञे च राज्याय द्रुपदो वदतां वरः ॥
ततः कुन्ती च कृष्णा च भीमसेनार्जुनावपि ।
यमौ च राज्ञा संदिष्टं विविशुर्भवनं महत् ॥
तत्र ते न्यवसन्राजन्यज्ञसेनेन पूजिताः ।
प्रत्याश्वस्तस्ततो राजा सह पुत्रैरुवाच तम् ॥
गृह्णातु विधिवत्पाणिमद्यायं कुरुनन्दनः ।
पुण्येऽहनि महाबाहुरर्जुनः कुरुतां क्षणम् ॥
वैशंपायन उवाच ।
तमब्रवीत्ततो राजा धर्मात्मा च युधिष्ठिरः ।
`ममापि दारसंबन्धः कार्यस्तावद्विशांपते ॥
तस्मात्पूर्वं मया कार्यं तद्भवाननुमन्यताम् ।'
द्रुपद उवाच ।
भवान्वा विधिवत्पाणिं गृह्णातु दुहितुर्मम ।
यस्य वा मन्यसे वीर तस्य कृष्णामुपादिश ॥
युधिष्ठिर उवाच ।
सर्वेषां महिषी राजन्द्रौपदी नो भविष्यति ।
एवं प्रव्याहृतं पूर्वं मम मात्रा विशांपते ॥
अहं चाप्यनिविष्टो वै भीमसेनश्च पाण्डवः ।
पार्थेन विजिता चैषा रत्नभूता सुता तव ॥
एष नः समयो राजँल्लब्धस्य सह भोजनम् ।
न च तं हातुमिच्छामः समयं राजसत्तम ॥
`अक्रमेण निवेशे च धर्मलोपो महान्भवेत् ।' सर्वेषां धर्मतः कृष्णा महिषी नो भविष्यति ।
आनुपूर्व्येण सर्वेषां गृह्णातु ज्वलने करान् ॥
द्रुपद उवाच ।
एकस्य बह्व्यो विहिता महिष्यः कुरुनन्दन ।
नैकस्या बहवः पुंसः श्रूयन्ते पतयः क्वचित् ॥
`सोऽयं न लोके वेदे वा जातु धर्मः प्रशस्ते ।' लोकवेदविरुद्धं त्वं नाधर्मं धर्मविच्छुचिः ।
कर्तुमर्हसि कौन्तेय कस्मात्ते बुद्धिरीदृशी ॥
युधिष्ठिर उवाच ।
सूक्ष्मो धर्मो महाराज नास्य विद्मो वयं गतिम् ।
पूर्वेषामानुपूर्व्येण यातं वर्त्माऽनुयामहे ॥
न मे वागनृतं प्राह नाधर्मे धीयते मतिः ।
एवं चैव वदत्यम्बा मम चैतन्मनोगतम् ॥
`आश्रमे रुद्रनिर्दिष्टाद्व्यासादेतन्मया श्रुतम् ।' एष धर्मो ध्रुवो राजंश्चरैनमविचारयन् ।
मा च शङ्का तत्र ते स्यात्कथंचिदपि पार्थिव ॥
द्रुपद उवाच ।
त्वं च कुन्ती च कौन्तय धृष्टद्युम्नश्च मे सुतः ।
कथयन्त्विति कर्तव्यं श्वः काल्ये करवामहे ॥
वैशंपायन उवाच ।
ते समेत्य ततः सर्वे कथयन्ति स्म भारत ।
अथ द्वैपायनो राजन्नभ्यागच्छद्यदृच्छया ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि वैवाहिकपर्वणि दशाधिकद्विशततमोऽध्यायः ॥ 210 ॥

1-210-1 ब्राह्मेण ब्राह्मणार्थणुचितेनाभ्युत्थानादिना परिग्रहेण आतिथ्येन ॥ 1-210-6 इष्टापूर्तेन हेतुना । अनृतं न वक्तव्यमिति । अनृतभाषणे इष्टापूर्ते नश्येतामित्यर्थः ॥ 1-210-20 क्षणं देवपूजाद्युत्सवम् ॥ 1-210-24 अनिविष्टः अकृतविवाहः ॥ 1-210-25 समयो नियमः ॥ 1-210-26 ज्वलने ज्वलनसमीपे ॥ 1-210-27 पुंसः पुमां सः ॥ 1-210-29 यूयं च वयं च वयं । पूर्वेषां प्रचेतःप्रभृतीनाम् । तैर्यातं वर्त्म बहूनामेकपत्नीत्वमनुयामहे । तच्च आनुपूर्व्येणैव न त्वक्रमेण ॥ दशाधिकद्विशततमोऽध्यायः ॥ 210 ॥

अध्यायः 211

एकस्याः बहुभार्यात्वे शङ्कमानान्द्रुपदादीन्प्रति व्यासेन स्वस्वाभिप्रायकथनानुज्ञा ॥ 1 ॥ द्रुपदादिभिः स्वस्वमते कथिते व्यासेनास्य विवाहस्य धर्म्यत्वकथनम् ॥ 2 ॥

वैशंपायन उवाच ।
ततस्ते पाण्डवाः सर्वे पाञ्चाल्यश्च महायशाः ।
प्रत्युथाय महात्मानं कृष्णं सर्वेऽभ्यवादयन् ॥
प्रतिनन्द्य स तां पूजां पृष्ट्वा कुशलमन्ततः ।
आसने काञ्चने शुद्धे निषसाद महामनाः ॥
अनुज्ञातास्तु ते सर्वे कृष्णेनामिततेजसा ।
आसनेषु महार्हेषु निषेदुर्द्विपदां वराः ॥
ततो मुहूर्तान्मधुरां वाणीमुच्चार्य पार्षतः ।
पप्रच्छ तं महात्मानं द्रौपद्यर्थं विशांपते ॥
कथमेका बहूनां स्यान्न च स्याद्धर्मसंकरः ।
एतन्मे भगवान्सर्वं प्रब्रवीतु यथातथम् ॥
व्यास उवाच ।
अस्मिन्धर्मे विप्रलब्धे लोकवेदविरोधके ।
यस्य यस्य मतं यद्यच्छ्रोतुमिच्छामि तस्य तत् ॥
द्रुपद उवाच ।
अधर्मोऽयं मम मतो विरुद्धो लोकवेदयोः ।
न ह्येका विद्यते पत्नी बहूनां द्विजसत्तम ॥
न चाप्याचरितः पूर्वैरयं धर्मो महात्मभिः ।
न चाप्यधर्मो विद्वद्भिश्चरितव्यः कथंचन ॥
ततोऽहं न करोम्येनं व्यवसायं क्रियां प्रति ।
धर्मः सदैव संदिग्धः प्रतिभाति हि मे त्वयम् ॥
धृष्टद्युम्न उवाच ।
यवीयसः कथं भार्यां ज्येष्ठो भ्राता द्विजर्षभ ।
ब्रह्मन्समभिवर्तेत सद्वृत्तः संस्तपोधन ॥
न तु धर्मस्य सूक्ष्मत्वाद्गतिं विद्मः कथंचन ।
अधर्मो धर्म इति वा व्यवसायो न शक्यते ॥
कर्तुमस्मद्विधैर्ब्रह्मंस्ततोऽयं न व्यवस्यते ।
पञ्चानां महिषी कृष्णा भवत्विति कथंचन ॥
युधिष्ठिर उवाच ।
न मे वागनृतं प्राह नाधर्मे धीयते मतिः ।
वर्तते हि मनो मेऽत्र नैषोऽधर्मः कथंचन ॥
श्रूयते हि पुराणेऽपि जटिला नाम गौतमी ।
ऋषीनध्यासितवती सप्त धर्मभृतां वरा ॥
तथैव मुनिजा वार्क्षी तपोभिर्भावितात्मनः ।
संगताभूद्दश भ्रातॄनकेन्म्नः प्रचेतसः ॥
गुरोर्हि वचनं प्राहुर्धर्म्यं धर्मज्ञसत्तम ।
गुरूणां चैव सर्वेषां माता परमको गुरुः ॥
सा चाप्युक्तवती वाचं भैक्षवद्भुज्यतामिति ।
तस्मादेतदहं मन्ये परं धर्मं द्विजोत्तम ॥
कुन्त्युवाच ।
एतमेतद्यथा प्राह धर्मचारी युधिष्ठिरः । भुज्यतां भ्रातृभिः सार्धमित्यर्जुनमचोदयम् ।
अनृतान्मे भयं तीव्रं मुच्येऽहमनृतात्कथम् ॥
व्यास उवाच ।
अनृतान्मोक्ष्यसे भद्रे धर्मश्चैव सनातनः ।
ननु वक्ष्यामि सर्वेषां पाञ्चाल शृमु मे स्वयम् ॥
यथाऽयं विहितो धर्मो यतश्चायं सनातनः ।
यथा च प्राह कौन्तेयस्तथा धर्मो न संशयः ॥
वैशंपायन उवाच ।
तत उत्थाय भगवान्व्यासो द्वैपायनः प्रभुः ।
करे गृहीत्वा राजानं राजवेश्म समाविशत् ॥
पाण्डवाश्चापि कुन्ती च धृष्टद्युम्नश्च पार्षतः ।
विविशुस्तेऽपि तत्रैव प्रतीक्षन्ते स्म तावुभौ ॥
ततो द्वैपायनस्त्समै नरेन्द्राय महात्मने ।
आचख्यौ तद्यथा धर्मो बहूनामेकपत्निता ॥
`यथा च ते ददुश्चैव राजपुत्र्याः पुरा वरम् । धर्माद्यास्तपसा तुष्टाः पञ्चपत्नीत्वमीश्वराः ॥' ॥

इति श्रीमन्महाभारते आदिपर्वणि वैवाहिकपर्वणि एकादशाधिकद्विशततमोऽध्यायः ॥ 211 ॥

अध्यायः 212

इन्द्रसेनापरनाम्न्या नालायन्या उपाख्यानारम्भः-नालायन्या स्थविरस्य पत्युर्मौद्गल्यस्य आराधनम् ॥ 1 ॥ तुष्टेन मौद्गल्येन नालायनीप्रार्थनयाऽऽत्मनः पञ्चरूपस्वीकारेण तस्यां रमणम् ॥ 2 ॥ तयोः स्वर्गादिलोकेषु नानारूपेण रमणम् ॥ 3 ॥ सैव नालायनी तव दुहिता जातेति द्रुपदं प्रति व्यासस्योक्तिः ॥ 4 ॥

व्यास उवाच ।
मा भूद्राजंस्तव तापो मनस्थः पञ्चानां भार्या दुहिता ममेति ।
मातुरेषा प्रार्थिता स्यात्तदानीं पञ्चानां भार्या दुहिता ममेति ॥
याजोपयाजौ धर्मरतौ तपोभ्यां तौ चक्रतुः पञ्चपतित्वमस्याः ।
तत्पञ्चभिः पाण्डुसुतैरवाप्ता भार्या कृष्णा मोदतां वै कुलं ते ॥
लोके नान्यो विद्यते त्वद्विशिष्टः
सर्वारीणामप्रधृष्योऽसि राजन् । भूयस्त्विदं शृणु मे त्वं विशोको यथाऽऽगतं पञ्चपत्नीत्वमस्याः ॥
एषा नालायनी पूर्वं मौद्गल्यं स्थविरं पतिम् ।
आराधयामास तदा कुष्ठिनं तमनिन्दिता ॥
त्वगस्थिभूतं कटुकं लोलमीर्ष्युं सुकोपनम् ।
सुगन्धेतरगन्धाढ्यं वलीपलितमूर्धजम् ॥
स्थविरं विकृताकारं शीर्यमाणनखत्वचम् ।
उच्छिष्टमुपभुञ्जाना पर्युपास्ते महामुनिम् ॥
ततः कदाचिदङ्गुष्ठो भुञ्जानस्य व्यशीर्यत ।
अन्नादुद्धृत्य तच्चान्नमुपभुङ्क्तेऽविशङ्किता ॥
तेन तस्याः प्रसन्नेन कामव्याहारिणा तदा ।
वरं वृणीष्वेत्यसकृदुक्ता वव्रे वरं तदा ॥
मौद्गल्य उवाच ।
नाहं वृद्धो न कटुको नेर्व्यावान्नैव कोपनः ।
न च दुर्गन्धवदनो न कृशो न च लोलुपः ॥
कथं त्वां रमयामीह कथं त्वां वासयाम्यहम् ।
वद कल्याणि भद्रं ते यथा त्वं मनसेच्छसि ॥
व्यास उवाच ।
सा तमक्लिष्टकर्माणं वरदं सर्वकामदम् ।
भर्तारमनवद्याङ्गी प्रसन्नं प्रत्युवाच ह ॥
नालायन्युवाच ।
पञ्चधा प्रविभक्तात्मा भगवांल्लोकविश्रुतः ।
रमय त्वमचिन्त्यात्मन्पुनश्चैकत्वमागतः ॥
तां तथेत्यब्रवीद्धीमान्महर्षिर्वै महातपाः ।
स पञ्चधा तु भूत्वा तां रमयामास सर्वतः ॥
नालायनीं सुकेशान्तां मौद्गल्यश्चारुहासिनीम् ।
आश्रमेष्वधिकं चापि पूज्यमानो महर्षिभिः ॥
स चचार यथाकामं कामरूपवपुः पुनः ।
यदा ययौ दिवं चापि तत्र देवर्षिभिः सह ॥
चचार सोऽमृताहारः सुरलोके चचार ह ।
पूज्यमानस्तथा शच्या शक्रस्य भवनेष्वपि ॥
महेन्द्रसेनया सार्धं पर्यधावद्रिरंसया ।
सूर्यस्य च रथं दिव्यमारुह्य भगवान्प्रभुः ॥
पर्युपेत्य पुनर्मेरु मेरौ वासमरोचयत् ।
आकाशगङ्गामाप्लुत्य तया सह तपोधनः ॥
रश्मिजालेषु चन्द्रस्य उवाच च यथाऽनिलः ।
गिरिरूपधरो योगी स महर्षिस्तदा पुनः ॥
तत्प्रभावेन सा तस्य मध्ये जज्ञे महानदी ।
यदा पुष्पाकुलः सालः संजज्ञे भगवानृषिः ॥
लतात्वमनुसंपेदे तमेवाभ्यनुवेष्टती ।
पुपोष च वपुर्यस्य तस्य तस्यानुगं पुनः ॥
सा पुपोष समं भर्त्रा स्कन्धेनापि चचार ह ।
ततस्तस्य च तस्याश्च तुल्या प्रीतिरवर्धत ॥
तथा सा भगवांस्तस्याः प्रसादादृषिसत्तमः ।
विरराम च सा चैव दैवयोगेन भामिनी ॥
स च तां तपसा देवीं रमयामास योगतः ।
एकपत्नी तथा भूत्वा सदैवाग्रे यशस्विनी ॥
अरुन्धतीव सीतेव बभूवातिपतिव्रता ।
दमयन्त्याश्च मातुः स विशेषमधिकं ययौ ॥
एतत्तथ्यं महाराज मा ते भूद्बुद्धिरन्यथा ।
सा वै नालायनी जज्ञे दैवयोगेन केनचित् ॥
राजंस्तवात्मजा कृष्णा वेद्यां तेजस्विनी शुभा ।
तस्मिंस्तस्या मनः सक्तं न चचाल कदाचन ॥
तथा प्रणिहितो ह्यात्मा तस्यास्तस्मिन्द्विजोत्तमे ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि वैवाहिकपर्वणि द्वादशाधिकद्विशततमोऽध्यायः ॥ 212 ॥

1-212-1 मातुः मात्रा । स्यात् अभूत् ॥ 1-212-10 कथं केन प्रकारेण ॥ 1-212-22 स्कन्धेन मानुषादिदेहेन ॥ द्वादशाधिकद्विशततमोऽध्यायः ॥ 212 ॥

अध्यायः 213

कथं नालायनी मत्पुत्री जातेति व्यासं प्रति द्रुपदस्य प्रश्नः ॥ 1 ॥ पुनर्नालायनीकथाकथनं ॥ 2 ॥ कामोपभोगविरक्तेन मौद्गल्येन कामातृप्तायाः नालादन्याः पञ्चपतित्वशापः ॥ 3 ॥ नालायन्या रुद्रमुद्दिश्य तपःकरणम् ॥ 4 ॥ नालयन्या पतिं देहीति पञ्चकृत्वः प्रार्थितेन रुद्रेण अन्यजन्मनि पञ्च ते पतयो भविष्यन्तीति वरदानम् ॥ 5 ॥ पुनः रुद्रात नि कौत्पवरप्राप्तिः ॥ 6 ॥ त्वयि गङ्गाजलस्थायां तत्रागमिष्यन्तमिन्द्रमानयेति नालायनींप्रति रुद्रस्याज्ञापनम् ॥ 7 ॥

द्रुपद उवाच ।
ब्रूहि तत्कारणं येन ब्रह्मन्नालायनी शुभा ।
जाता ममाध्वरे कृष्मा सर्ववेदविदां वर ॥
व्यास उवाच ।
शृणु राजन्यथा ह्यस्या दत्तो रुद्रेण वै वरः ।
यदर्थं चैव संभूता तव गेहे यशस्विनी ॥
हन्त त कथयिष्यामि कृष्मायाः पौर्वदेहिकम् ।
इन्द्रसेनेति विख्याता पुरा नालायनी शुभा ॥
मौद्गल्यस्य पतिमासाद्य चचार विगतज्वरा ।
मौद्गल्यस्य महर्षेश्च रममाणस्य वै तया ॥
संवत्सरगणा राजन्व्यतीयुः क्षणवत्तदा ।
ततः कदाचिद्धर्मात्मा तृप्तः कामैर्व्यरज्यत ॥
अन्विच्छन्परमं धर्मं ब्रह्मयोगपरोऽभवत् । उत्ससर्ज स तां विप्रः सा तदा चापतद्भुवि ।
मौद्गल्यो राजशार्दूल तपोभिर्भावितः सदा ॥
नालायन्युवाच ।
प्रसीद भगवन्मह्यं न मामुत्स्रष्टुमर्हसि ।
अवितृप्तास्मि ब्रह्मर्षे कामानां कामसेवनात् ॥
मौद्गल्य उवाच ।
यस्मात्त्वं मामनिःशङ्का ह्यवक्तव्यं भाषसे ।
आचरन्ती तपोविघ्नं तस्माच्छृणु वचो मम ॥
भविष्यसि नृलोके त्वं राजपुत्री यशस्वि ।
पाञ्चालराजस्य सुता द्रुपदस्य महात्मनः ॥
भवितारस्तत्र तव पतयः पञ्च विप्लुताः ।
तैः सार्धं मधुराकारैश्चिरं रतिमवाप्स्यसि ॥
वैशंपायन उवाच ।
सैवं शप्ता तु विमना वनं प्रागाद्यशस्विनी ।
भोगैरतृप्ता देवेशं तपसाऽऽराधयत्तदा ॥
निराशीर्मारुताहारा निराहारा तथैव च ।
अनुवर्तमाना त्वादित्यं तथा पञ्चतपाभवत् ॥
तीव्रेण तपसा तस्यास्तुष्टः पशुपतिः स्वयम् ।
वचं प्रादात्तदा रुद्रः सर्वलोकेश्वरः प्रभुः ॥
भविष्यति परं जन्म भविष्यति वराङ्गना ।
भविष्यन्ति परं भद्रे पतयः पञ्च विश्रुताः ॥
महेन्द्रवपुषः सर्वे महेन्द्रसमविक्रमाः ।
तत्रस्था च महत्कर्म सुराणां त्वं करिष्यसि ॥
स्त्र्युवाच ।
एकः खलु मया भर्ता वृतः पञ्च त्विमे कथम् ।
एको भवति नैकस्या बहवस्तद्ब्रवीहि मे ॥
महेश्वर उवाच ।
पञ्चकृत्वस्त्वया चोक्तः पतिं देहीत्यहं पुनः ।
पञ्चते पतयो भद्रे भविष्यन्ति सुखावहाः ॥
स्त्र्युवाच ।
धर्म एकः पतिः स्त्रीणां पूर्वमे प्रकल्पितः ।
बहुपत्नीकता पुंसो धर्मश्च बहुभिः कृतः ॥
स्त्रीधर्मः पूर्वमेवायं निर्मितो मुनिभिः सदा ।
सहधर्मचरी भर्तुरेका एकस्य चोच्यते ॥
एको हि भर्ता नारीणां कौमार इति लौकिकः ।
आपत्सु च नियोगेन भर्तुर्नार्याः परः स्मृतः ॥
गच्छेत न तृतीयं तु तस्या निष्कृतिरुच्यते ।
चतुर्थे पतिता नारी पञ्चमे वर्धकी भवेत् ॥
एवं गते धर्मपथे न वृणे बहुपुंस्कताम् ।
अलोकाचरितात्त्समात्कथं मुच्येय सङ्करात् ॥
महेश्वर उवाच ।
अनावृताः पुरा नार्यो ह्यासञ्शुध्यन्ति चार्तवे ।
सकृदुक्तं त्वया नैतन्नाधर्मस्ते भविष्यति ॥
स्त्र्युवाच ।
यदि मे पतयः पञ्च रतिमिच्छामि तैर्मिथः ।
कौमारं च भवेत्सर्वैः संगमे संगमे च मे ॥
पतिशुश्रूषया चैव सिद्धिः प्राप्ता मया पुरा ।
भोगेच्छा च मया प्राप्ता स च भोगश्च मे भवेत् ॥
रुद्र उवाच ।
रतिश्च भद्रे सिद्धिश्च न भजेते परस्परम् ।
भोगानाप्स्यसि सिद्धिं च योगेन च महत्त्वताम् ॥
अन्यदेहान्तरे चैव रूपभाग्यगुणान्विता ।
पञ्चभिः प्राप्य कौमारं महाभागा भविष्यसि ॥
गच्छ गङ्गाजलस्था च नरं पश्यसि यं शुभे ।
तमानय ममाभ्याशं सुरराजं शुचिस्मिते ॥
इत्युक्ता विश्वरूपेण रुद्रं कृत्वा प्रदक्षिणम् ।
जगाम गङ्गामुद्दिश्य पुण्यां त्रिपथगां नदीम् ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि वैवाहिकपर्वणि त्रयोदशाधिकद्विशततमोऽध्यायः ॥ 213 ॥

1-213-23 अनावृताः निरोधरहिताः ॥ त्रयोदशाधिकद्विशततमोऽध्यायः ॥ 213 ॥

अध्यायः 214

पञ्चे उपाख्यानप्रारम्भः ॥ 1 ॥ नैमिशारण्ये देवैरारब्धे सत्रे यमस्य शामित्रकर्मणि व्यापृतत्वात् लोके प्रजाबाहुल्यं दृष्ट्वा तत्परिजिहीर्षया देवैर्ब्रह्मसमीपगमनम् ॥ 2 ॥ ब्रह्माज्ञया पुनर्नैमिशारण्यं गतस्य गङ्गायां पुण्डरीकं दृष्ट्वा तज्जिहीर्षया गतस्य इन्द्रस्य तत्र रुदन्ताः स्त्रियाः दर्शनम् ॥ 3 ॥ तामनुगच्छतेन्द्रेण पर्वतविवरे पूर्वेषां चतुर्णां इन्द्राणां दर्शनम् ॥ 4 ॥ बलरामकेशवद्रौपद्यादीनामुत्पत्तिकथा ॥ 5 ॥ व्यासदत्तदिव्यदृष्टेर्द्रुपदस्य पाण्डवद्रौपदीपूर्वरूपदर्शनं ॥ 6 ॥ द्रौपद्या अव्यवहितपूर्वजन्मवृत्तान्तकथनम् ॥ 7 ॥

व्यास उवाच ।
पुरा वै नैमिशारण्ये देवाः सत्रमुपासते ।
तत्र वैवस्वतो राजञ्शामित्रमकरोत्तदा ॥
ततो यमो दीक्षितस्तत्र राज- न्नामारयत्कंचिदपि प्रजानाम् ।
ततः प्रजास्ता बहुला बभूवुः कालातिपातान्मरणप्रहीणाः ॥
सोमश्च शक्रो वरुणः कुबेरः साध्या रुद्रा वसवोऽथाश्विनौ च ।
प्रजापतिर्भुवनस्य प्रणेता समाजग्मुस्तत्र देवास्तथाऽन्ये ॥
ततोऽब्रुवँल्लोकगुरुं समेता भयात्तीव्रान्मानुषाणां विवृद्ध्या ।
तस्माद्भयादुद्विजन्तः सुखेप्सवः प्रयाम सर्वे शरणं भवन्तम् ॥
पितामह उवाच ।
किं वो भयं मानुषेभ्यो यूयं सर्वे यदाऽमराः ।
मा वो मर्त्यसकाशाद्वै भयं भवितुमर्हति ॥
देवा ऊचुः ।
मर्त्या अमर्त्याः संवृत्ता न विशेषोऽस्ति कश्चन ।
अविशेषादुद्विजन्तो विशेषार्थमिहागताः ॥
श्रीभगवानुवाच ।
वैवस्वतो व्यापृतः सत्रहेतो- स्तेन त्विमे न म्रियन्ते मनुष्याः ।
तस्मिन्नेकाग्रे कृतसर्वकार्ये तत एषां भवितैवान्तकालः ॥
वैवस्वतस्यैव तनुर्विभक्ता वीर्येण युष्माकमुत प्रवृद्धा ।
सैषामन्तो भविता ह्यन्तकाले न तत्र वीर्यं भविता नरेषु ॥
व्यास उवाच ।
ततस्तु ते पूर्वजदेववाक्यं श्रुत्वा जग्मुर्यत्र देवा यजन्ते ।
समासीनास्ते समेता महाबला भागीरथ्यां ददृशुः पुण्डरीकम् ॥
दृष्ट्वा च तद्विस्मितास्ते बभूवु- स्तेषामिन्द्रस्तत्र शूरो जगाम ।
सोऽपश्यद्योषामथ पावकप्रभां यत्र देवी गङ्गा सततं प्रसूता ॥
सा तत्र योषा रुदती जलार्थिनी गङ्गां देवीं व्यवगाह्य व्यतिष्ठत् ।
तस्याश्रुबिन्दुः पतितो जले य- स्तत्पद्ममासीदथ तत्र काञ्चनम् ॥
तदद्भुतं प्रेक्ष्य वज्री तदानी- मपृच्छत्तां योषितमन्तिकाद्वै ।
का त्वं भद्रे रोदिषि कस्य हेतो- र्वाक्यं तथ्यं कामयेऽहं ब्रवीहि ॥
स्त्र्युवाच ।
त्वं वेत्स्यसे मामिह याऽस्मि शक्र यदर्थं चाहं रोदिमि मन्दभाग्या ।
आगच्छ राजन्पुरतो गमिष्ये द्रष्टाऽसि तद्रोदिमि यत्कृतेऽहम् ॥
व्यास उवाच ।
तां गच्छन्तीमन्वगच्छत्तदानीं सोऽपश्यदारात्तरुणं दर्शनीयम् ।
सिद्धासनस्थं युवतीसहायं क्रीडन्तमक्षैर्गिरिराजमूर्ध्नि ॥
तमब्रवीद्देवराजो ममेदं त्वं विद्धि विद्वन्भुवनं वशे स्थितम् ।
ईशोऽहस्मीति समन्युरब्रवी- द्दृष्ट्वा तमक्षैः सुभृशं प्रमत्तम् ॥
क्रुद्धं च शक्रं प्रसमीक्ष्य देवो जहाय शक्रं च शैरुदैक्षत ।
संस्तम्भितोऽभूदथ देवराज- स्तेनेक्षितः स्थाणुरिवावतस्थे ॥
यदा तु पर्याप्तमिहास्य क्रीडया तदा देवीं रुदतीं तामुवाच ।
आनीयतामेष यतोऽहमारा- न्नैनं दर्पः पुनरप्याविशेत ॥
ततः शक्रः स्पृष्टमात्रस्तया तु स्रस्तैरङ्गैः पतितोऽभूद्धरण्याम् ।
तमब्रवीद्भगवानुग्रतेजा मैवं पुनः शक्र कृथाः कथंचित् ॥
निवर्तयैनं च महाद्रिराजं बलं च वीर्यं च तवाप्रमेयम् ।
छिद्रस्य चैवाविश मध्यमस्य यत्रासते त्वद्विधाः सूर्यभासः ॥
स तद्विवृत्य विवरं महागिरे- स्तुल्यद्युतींश्चतुरोऽन्यान्ददर्श ।
स तानभिप्रेक्ष्य बभूव दुःखितः कच्चिन्नाहं भविता वै यथेमे ॥
ततो देवो गिरिशो वज्रपाणिं विवृत्य नेत्रे कुपितोऽभ्युवाच ।
दरीमेतां प्रविश त्वं शतक्रतो यन्मां बाल्यादवमंस्थाः पुरस्तात् ॥
उक्तस्त्वेवं विभुना देवराजः प्रावेपताऽऽर्तो भृशमेवाभिषङ्गात् ।
स्रस्तैरङ्गैरनिलेनेव नुन्न- मश्वत्थपत्रं गिरिराजमूर्ध्नि ॥
स प्राञ्जलिर्वै वृषवाहनेन प्रवेपमानः सहसैवमुक्तः ।
उवाच देवं बहुरूपमुग्र- मद्याशेषस्य भुवनस्य त्वं भवाद्यः ॥
तमब्रवीदुग्रवर्चाः प्रहस्य नैवंशीलाः शेषमिहाप्नुवन्ति ।
एतेऽप्येवं भवितारः पुरस्ता- त्तस्मादेतां दरीमाविश्य शेष्य ॥
एषा भार्या भविता वो न संशयो योनिं सर्वे मानुषीमाविशध्वम् ।
तत्र यूयं कर्म कृत्वाऽविषह्यं बहूनन्यान्निधनं प्रापयित्वा ॥
`अस्त्रैर्दिव्यैर्मानुषान्योधयित्वा शूरान्सर्वानाहवे संविजित्य ।'
आगन्तारः पुनरेवेन्द्रवलोकं स्वकर्मणा पूर्वचितं महार्हम् । सर्वं मया भाषितमेतदेवं कर्तव्यमन्यद्विविधार्थयुक्तम् ॥
पूर्वेन्द्रा ऊचुः ।
गमिष्यामो मानुषं देवलोका- द्दुराधरो विहितो यत्र मोक्षः ।
देवास्त्वस्मानादधीरञ्जनन्यां धर्मो वायुर्मघवानश्विनौ च ॥
व्यास उवाच ।
एतच्छ्रुत्वा वज्रपाणिर्वचस्तु देवश्रेष्ठं पुनरेवेदमाह ।
वीर्येणाहं पुरुषं कार्यहेतो- र्दद्यामेषां पञ्चमं मत्प्रसूतम् ॥
विश्वभुग्भूतधामा च शिबिरिन्द्रः प्रतापवान् ।
शान्तिश्चतुर्थस्तेषां वै तेजस्वी पञ्चमः स्मृतः ॥
तेषां कामं भगवानुग्रधन्वा प्रादादिष्टं सन्निसर्गाद्यथोक्तम् ।
तां चाप्येषां योषितं लोककान्तां श्रियं भार्यां व्यदधान्मानुषेषु ॥
तैरेव सार्धं तु ततः स देवो जगाम नारायणमप्रमेयम् ।
अनन्तमव्यक्तमजं पुराणं सनातनं विश्वमनन्तरूपम् ॥
स चापि तद्व्यदधात्सर्वमेव ततः सर्वे संबभूवुर्धरण्यमाम् ।
`नरं तु देवं विबुधप्रधान- मिन्द्राज्जिष्णुं पञ्चमं कल्पयित्वा ।' स चापि केशौ हरिरुद्बबर्ह शुक्लमेकमपरं चापि कृष्णम् ॥
तौ चापि केशौ विशतां यदूनां कुले स्त्रियौ देवकीं रोहिणीं च ।
तयोरेको बलदेवो बभूव योऽसौ श्वेतस्य देवस्य केशः । कृष्णो द्वितीयः केशवः संबभूव केशो योऽसौ वर्णतः कृष्ण उक्तः ॥
ये ते पूर्वं शक्ररूपा निबद्धा- स्तस्यां दर्यां पर्वतस्योत्तरस्य ।
इहैव ते पाण्डवा वीर्यवन्तः शक्रस्यांशः पाण्डवः सव्यसाची ॥
एवमेते पाण्डवाः संबभूवु- र्ये ते राजन्पूर्वमिन्द्रा बभूवुः ।
लक्ष्मीश्चैषां पूर्वमेवोपदिष्टा भार्या यैषा द्रौपदी दिव्यरूपा ॥
कथं हि स्त्री कर्मणा ते महीतला- त्समुत्तिष्ठेदन्यतो दैवयोगात् ।
यस्या रूपं सोमसूर्यप्रकाशं गन्धश्चास्याः कोशमात्रात्प्रवाति ॥
इदं चान्यत्प्रीतिपूर्वं नरेन्द्र ददानि ते वरमत्यद्भुतं च ।
दिव्यं चक्षुः पश्य कुन्तीसुतांस्त्वं पुण्यैर्दिव्यैः पूर्वदेहैरुपेतान् ॥
वैशंपायन उवाच ।
ततो व्यासः परमोदारकर्मा शुचिर्विप्रस्तपसा तस्य राज्ञः ।
चक्षुर्दिव्यं प्रददौ तांश्च सर्वान् राजाऽपश्यत्पूर्वदेहैर्यथावत् ॥
ततो दिव्यान्हेमकिरीटमालिनः शक्रप्रख्यान्पावकादित्यवर्णान् ।
बद्धापीडांश्चारुरूपांश्च यूनो व्यूढोरस्कांस्तालमात्रान्ददर्श ॥
दिव्यैर्वस्त्रैरजोभिः सुगन्धै- र्माल्यैश्चाग्र्यैः शोभमानानतीव ।
साक्षात्त्र्यक्षान्वा वसूंश्चापि रुद्रा- नादित्यान्वा सर्वगुणोपपन्नान् ॥
तान्पूर्वेन्द्रानभिवीक्ष्याभिरूपा- त्र्शक्रात्मजं चेन्द्ररूपं निशम्य ।
प्रीतो राजा द्रुपदो विस्मितश्च दिव्यां मायां तामवेक्ष्याप्रमेयाम् ॥
तां चैवाग्र्यां स्त्रियमतिरूपयुक्तां दिव्यां साक्षात्सोमवह्निप्रकाशाम् ।
योग्यां तेषां रूपतेजोयशोभिः पत्नी मत्वा हृष्टवान्पार्थिवेन्द्रः ॥
स तद्दृष्ट्वा महदाश्चर्यरूपं जग्राह पादौ सत्यवत्याः सुतस्य ।
नैतच्चित्रं परमर्षे त्वयीति प्रसन्नचेताः स उवाच चैनम् ॥
`व्यास उवाच ।
इदं चापि पुरावृत्तं तन्निबोध च भूमिम ।
कीर्त्यमानं नृपर्षीणां पूर्वेषां दारकर्मणि ॥
नितन्तुर्नाम राजर्षिर्बभूव भुवि विश्रुतः ।
तस्य पुत्रा महेष्वासा बभूवुः पञ्च भूमिताः ॥
साल्वेयः शूरसेनश्च श्रुतसेनश्च वीर्यवान् ।
तिन्दुसारोऽतिसारश्च क्षत्रियाः क्रतुयाजिनः ॥
नातिचक्रमुरन्योन्यमन्योन्यस्य प्रियंवदाः ।
अनीर्ष्यवो धर्मविदः सौम्याश्चैव प्रियकराः ॥
एतान्नैतन्तवान्पञ्च शिबिपुत्री स्वयंवरे ।
अवाप स्वपतीन्वीरान्भौमाश्वी मनुजाधिपान् ॥
वीणेव मधुरारावा गान्धर्वस्वरमूर्च्छिता ।
उत्तमा सर्वनारीणां भौमाश्वी ह्यभवत्तदा ॥
यस्या नैतन्तवाः पञ्च पतयः क्षत्रियर्षभाः ।
बभूवुः पृथिवीपालाः सर्वैः समुदिता गुणैः ॥
तेषामेकाभवद्भार्या राज्ञामौशीनरी शुभा ।
भौमाश्वी नाम भद्रं ते तथारूपगुणान्विता ॥
पञ्चभ्यः पञ्चधा पञ्च दायादान्सा व्यजायत ।
तेभ्यो नैतन्तवेभ्यस्तु राजशार्दूल वै तदा ॥
पृथगाख्याऽभवत्तेषां भ्रातॄणां पञ्चधा भुवि ।
यथावत्कीर्त्यमानांस्ताञ्छृणु मे राजसत्तम ॥
साल्वेयाः शूरसेनाश्च श्रुतसेनाश्च पार्थिवाः ।
तिन्दुसारातिसाराश्च वंशा एषां नृपोत्तम ॥
एवमेकाऽभवद्भार्या भौमाश्वी भुवि विश्रुता । तथैव द्रुपदैषा ते सुता वै देवरूपिणी ।
पञ्चानां विहिता पत्नी कृष्णा पार्षत्यनिन्दिता' ॥
व्यास उवाच ।
आसीत्तपोवंने काचिदृषेः कन्या महात्मनः ।
नाध्यगच्छत्पतिं सा तु कन्या रूपवती सती ॥
तोषयामास तपसा सा किलोग्रेण शङ्करम् ।
तामुवाचेश्वरः प्रीतो वृणु काममिति स्वयम् ॥
सैवमुक्ताऽब्रवीत्कन्या देवं वरदमीश्वरम् ।
पतिं सर्वगुणोपेतमिच्छामीति पुनःपुनः ॥
ददौ तस्यै स देवेशस्तं वरं प्रीतमानसः ।
पञ्च ते पतयो भद्रे भविष्यन्तीति शङ्करः ॥
सा प्रसादयती देवमिदं भूयोऽभ्यभाषत ।
एकं पतिं गुणोपेतं त्वत्तोऽर्हामीति शङ्कर ॥
तां देवदेवः प्रीतात्मा पुनः प्राह शुभं वचः ।
पञ्चकृत्वस्त्वयोक्तोऽहं पतिं देहीति वै पुनः ॥
तत्तथा भविता भद्रे वचस्तद्भद्रमस्तु ते ।
देहमन्यं गतायास्ते सर्वमेतद्भविष्यति ॥
द्रुपदैषा हि सा जज्ञे सुता वै देवरूपिणी ।
पञ्चानां विहिता पत्नी कृष्णा पार्षत्यनिन्दिता ॥
`सैव नालायनी भूत्वा रूपेणाप्रतिमा भुवि ।
मौद्गल्यं पतिमास्थाय शिवाद्वरमभीप्सती ॥
एतद्देवरहस्यं ते श्रावितं राजसत्तम । नाख्यातव्यं कस्यचिद्वै देवगुह्यमिदं यतः ॥'
स्वर्गश्रीः पाण्डवार्थं तु समुत्पन्ना महामखे ।
सेह तप्त्वा तपो घोरं दुहितृत्वं तवागता ॥
सैषा देवी रुचिरा देवजुष्टा पञ्चानामेका स्वकृतेनेह कर्मणा ।
सृष्टा स्वयं देवपत्नी स्वयंभुवा श्रुत्वा राजन्द्रुपदेष्टं कुरुष्व ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि वैवाहिकपर्वणि चतुर्दशाधिकद्विशततमोऽध्यायः ॥ 214 ॥

1-214-1 शमिता यज्ञे पशुवधकर्ता तस्य भावः शामित्रम् ॥ 1-214-3 यत्र प्रजापतिस्तत्र सोमादयः समाजग्मुः ॥ 1-214-11 तस्याः अश्रुबिन्दुः । सन्धिरार्षः ॥ 1-214-21 ततः शीघ्रमप्रवेशाद्धेतोः ॥ 1-214-23 हे भव अद्य त्वमशेषस्य भुवनस्य आद्यः पतिरसि । अद्येत्यनेन मां जित्वैव नत्वन्यथेति सूचितम् ॥ 1-214-24 शेषं प्रसादम् ॥ 1-214-27 दुराधरो दुष्प्रापः ॥ 1-214-28 वीर्येण शुक्रद्वारा पुरुषमंशभूतं दद्याम् ॥ 1-214-29 तेजस्वी इन्द्रांशः ॥ 1-214-31 तैर्विश्वभुगादिभिः । स देवो महादेवः ॥ 1-214-32 व्यदधाद्विहितवान् आज्ञप्तवानित्यर्थः । उद्बबर्ह उद्धृतवान् ॥ 1-214-38 तस्य राज्ञः । तस्मै राज्ञे ॥ चतुर्दशाधिकद्विशततमोऽध्यायः ॥ 214 ॥

अध्यायः 215

युधिष्ठिरादीनां क्रमेण द्रौपद्याः पाणिग्रहणम् ॥ 1 ॥

द्रुपद उवाच ।
अश्रुत्वैवं वचनं ते महर्षे मया पूर्वं यतितं संविधातुम् ।
न वै शक्यं विहितस्यापयानं तदेवेदमुपपन्नं विधानम् ॥
दिष्टस्य ग्रन्थिरनिवर्तनीयः स्वकर्मणा विहितं तेन किंचित् ।
कृतं निमित्तमिह नैकहेतो- स्तदेवेदमुपन्नं विधानम् ॥
यथैव कृष्णोक्तवती पुरस्ता- न्नैकान्पतीन्मे भगवान्ददातु ।
स चाप्येवं वरमित्यब्रवीत्तां देवो हि वेत्ता परमं यदत्र ॥
यदि चैवं विहितः शङ्करेण धर्मोऽधर्मो वा नात्र ममापराधः ।
गृह्णन्त्विमे विधितत्पाणिमस्या यथोपजोषं विहितैषां हि कृष्णा ॥
व्यास उवाच ।
नायं विधिर्मानुषाणां विवाहे देवा ह्येते द्रौपदी चापि लक्ष्मीः ।
प्राक्कर्मणः सुकृतात्पाण्डवानां पञ्चानां भार्या देवदेवप्रसादात् ॥
तेषामेवायं विहितः स्याद्विवाहो यथा ह्येष द्रौपदीपाण्डवानाम् ।
अन्येषां नृणां योषितां च न धर्मः स्यान्मानवोक्तो नरेन्द्र ॥
वैशंपायन उवाच ।
तत आजग्मतुस्तत्र तौ व्यासद्रुपदावुभौ । कुन्ती सपुत्रा यत्रास्ते धृष्टद्युम्नश्च पार्षतः ।
ततो द्वैपायनः कृष्णो युधिष्ठिरमथागमत् ॥'
ततोऽब्रवीद्भगवान्धर्मराज- मद्यैव पुण्येऽहनि पाण्डवेय ।
पुण्ये पुष्ये योगमुपैति चन्द्रमाः पाणिं कृष्णायास्त्वं गृहाणाद्य पूर्वं ॥
`एवमुक्त्वा धर्मराजं भीमादीनप्यभाषत ॥
क्रमेण पुरुषव्याघ्राः पाणिं गृह्णन्तु पाणिभिः ।
एवमेव मया सर्वं दृष्टमेतत्पुराऽनघाः ॥
वैशंपायन उवाच ।
ततो राजा यज्ञसेनः सपुत्रो जन्यार्थणुक्तं बहु तत्तदग्र्यम् ।
`समर्थयामास महानुभावो हृष्टः सपुत्रः सहबन्धुवर्गः ।' समानयामास सुतां च कृष्णा- माप्लाव्य रत्नैर्बहुभिर्विभूष्य ॥
ततस्तु सर्वे सुहृदो नृपस्य समाजग्मुः सहिता मन्त्रिणश्च ।
द्रष्टुं विवाहं परमप्रतीता द्विजाश्च पौराश्च यथाप्रधानाः ॥
ततोऽस्य वेश्माग्र्यजनोपशोभितं विस्तीर्णपद्मोत्पलभूषिताजिरम् ।
बलौघरत्नौघविचित्रमाबभौ नभो यथा निर्मलतारकान्वितम् ॥
ततस्तु ते कौरवराजपुत्रा विभूषिताः कुण्डलिनो युवानः ।
महार्हवस्त्राम्बरचन्दनोक्षिताः कृताभिषेकाः कृतमङ्गलक्रियाः ॥
पुरोहितेनाग्निसमानवर्चसा सहैव धौम्येन यताविधि प्रभो ।
क्रमेण सर्वे विविशुस्ततः सदो महर्षभा गोष्ठमिवाभिनन्दिनः ॥
ततः समाधाय स वेदपरागो जुहाव मन्त्रैर्ज्वलितं हुताशनम् ।
युधिष्ठिरं चाप्युपनीय मन्त्रवि- न्नियोजयामास सहैव कृष्णया ॥
प्रदक्षिणं तौ प्रगृहीतपाणी समानयामास स वेदपरागः ।
`विप्रांश्च संतर्प्य युधिष्ठिरो धनै- र्गोभिश्च रत्नैर्विविधैश्च पूर्वम् ॥
तदा स राजा द्रुपदस्य पुत्रिका- पाणिं प्रजग्राह हुताशनाग्रतः ।
धौम्येन मन्त्रैर्विधिवद्भुतेऽग्नौ सहाग्निकल्पैर्ऋषिभिः समेत्य ॥
ततोऽन्तरिक्षात्कुसुमानि पेतु- र्ववौ च वायुः सुमनोज्ञगन्धः ।
ततोऽभ्यनुज्ञाप्य समाजशोभितं युधिष्ठिरं राजपुरोहितस्तदा ॥
विप्रांश्च सर्वान्सुहृदश्च राज्ञः समेत्य राजानमदीनसत्वम् ।
जगाद भूयोऽपि महानुभावो वचोऽर्थयुक्तं मनुजेश्वरं तम् ॥
गृह्णन्त्वथान्ये नरदेवकन्या- पाणिं यथावन्नरदेवपुत्राः ।
तमभ्यनन्दद्द्रुपदस्तथा द्विजं तथा कुरुष्वेति तमादिदेश ॥
पुरोहितस्यानुमतेन राज्ञ- स्ते राजपुत्रा मुदिता बभूवुः ।
क्रमेण चान्ये च नराधिपात्मजा वरस्त्रियास्ते जगृहुः करं तदा ॥'
अहन्यहन्युत्तमरूपधारिणो महारथाः कौरववंशवर्धनाः ॥
इदं च तत्राद्भुतरूपमुत्तमं जगाद देवर्षिरतीतमानुषम् ।
महानुभावा किल सा सुमध्यमा बभूव कन्यैव गते गतेऽहनि ॥
`पतिश्वशुरता ज्येष्ठे पतिदेवरताऽनुजे । मध्यमेषु च पाञ्चाल्यास्त्रितयं त्रितयं त्रिषु ॥'
कृते विवाहे द्रुपदो धनं ददौ महारथेभ्यो बहुरूपमुत्तमम् ।
शतं रथानां वरहेममालिनां चतुर्युजां हेमखलीनमालिनाम् ॥
शतं गजानामपि पद्मिनां तथा शतं गिरिणामिव हेमशृङ्गिणाम् ।
तथैव दासीशतमग्र्ययौवनं महार्हवेषाभरणाम्बरस्रजम् ॥
पृथक्पृथग्दिव्यदृशां पुनर्ददौ तदा धनं सौमकिरग्निसाक्षिकम् ।
तथैव वस्त्राणि विभूषणानि प्रभावयुक्तानि महानुभावः ॥
कृते विवाहे च ततस्तु पाण्डवाः प्रभूतरत्नामुपलभ्य तां श्रियम् ।
विजह्रुरिन्द्रप्रतिमा महाबलाः पुरे तु पाञ्चालनृपस्य तस्य ह ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि वैवाहिकपर्वणि पञ्चदशाधिकद्विशततमोऽध्यायः ॥ 215 ॥

1-215-26 चतुर्युजामश्वचतुष्टययुजाम् ॥ पञ्चदशाधिकद्विशततमोऽध्यायः ॥ 215 ॥

अध्यायः 216

द्रौपदींप्रति कुन्त्या आशीर्वादः ॥ 1 ॥ श्रीकृष्णप्रेषितालंकारादीनां पाण्डवैः स्वीकारः ॥ 2 ॥

वैशंपायन उवाच ।
पाण्डवैः सह संयोगं गतस्य द्रुपदस्य ह ।
न बभूव भयं किंचिद्देवेभ्योऽपि कथंचन ॥
कुन्तीमासाद्य ता नार्यो द्रुपदस्य महात्मनः ।
नाम संकीर्तयन्त्योऽस्या जग्मुः पादौ स्वमूर्धभिः ॥
कृष्णा च क्षौमसंवीता कृतकौतुकमङ्गला ।
कृताभिवादना श्वश्र्वास्तस्थौ प्रह्वा कृताञ्जलिः ॥
रूपलक्षणसंपन्नां शीलाचारसमन्विताम् ।
द्रौपदीमवदत्प्रेम्णा पृथाशीर्वचनं स्नुषाम् ॥
यथेन्द्राणी हरिहये स्वाहा चैव विभावसौ ।
रोहिणी च यथा सोमे दमयन्ती यथा नले ॥
यथा वैश्रवणे भद्रा वसिष्ठे चाप्यरुन्धती ।
यथा नारायणे लक्ष्मीस्तथा त्वं भव भर्तृषु ॥
जीवसूर्वीरसूर्भद्रे बहुसौख्यसमन्विता ।
सुभगा भोगसंपन्ना यज्ञपत्नी पतिव्रता ॥
अतिथीनागतान्साधून्वृद्दान्बालांस्तथा गुरून् ।
पूजयन्त्या यथान्यायं शश्वद्गच्छन्तु ते समाः ॥
कुरुजाङ्गलमुख्येषु राष्ट्रेषु नगरेषु च ।
अनु त्वमभिषिच्यस्व नृपतिं धर्मवत्सला ॥
पतिभिर्निर्जितामुर्वीं विक्रमेण महाबलैः ।
कुरु ब्राह्मणसात्सर्वामश्वमेधे महाक्रतौ ॥
पृथिव्यां यानि रत्नानि गुणवन्ति गुणान्विते ।
तान्याप्नुहि त्वं कल्याणि सुखिनी शरदां शतं ॥
यथा च त्वाऽभिनन्दामि वध्वद्य क्षौमसंवृताम् ।
तथा भूयोऽभिनन्दिष्ये जातपुत्रां गुणान्वितां ॥
वैशंपायन उवाच ।
ततस्तु कृतदारेभ्यः पाण्डुभ्यः प्राहिणोद्धरिः ।
वैदूर्यमणिचित्राणि हैमान्याभरणानि च ॥
वासांसि च महार्हाणि नानादेश्यानि माधवः ।
कम्बलाजिनरत्नानि स्पर्शवन्ति शुभानि च ॥
शयनासनयानानि विविधानि महान्ति च ।
वैदूर्यवज्रचित्राणि शतशो भाजनानि च ॥
रूपयौवनदाक्षिण्यैरुपेताश्च स्वलङ्कृताः ।
प्रेष्याः संप्रददौ कृष्णो नानादेश्याः स्वलङ्कृताः ॥
गजान्विनीतान्भद्रांश्च सदश्वांश्च स्वलङ्कृतान् ।
रथांश्च दान्तान्सौवर्णैः शुभ्रैः पट्टैरलङ्कृतान् ॥
कोटिशश्च सुवर्णं च तेषामकृतकं तथा ।
वीथीकृतममेयात्मा प्राहिणोन्मधुसूदनः ॥
तत्सर्वं प्रतिजग्राह धर्मराजो युधिष्ठिरः ।
मुदा परमया युक्तो गोविन्दप्रियकाम्यया ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि वैवाहिकपर्वणि षोडशाधिकद्विशततमोऽध्यायः ॥ 216 ॥ ॥ समाप्तं वैवाहिकपर्व ॥

1-216-12 हे वधु अद्य ॥ षोडशाधिकद्विशततमोऽध्यायः ॥ 216 ॥

अध्यायः 217

(अथ विदुरागमनराज्यलाभपर्व ॥ 14 ॥)

चारद्वारा पाण्डवविवाहादिवृत्तान्तश्रवणेन अन्यैः राजभिः भीष्मधृतराष्ट्रादीनां धिक्कारः ॥ 1 ॥ धार्तराष्ट्रैः पाण्डवान्प्रति मन्त्रालोचनं ॥ 2 ॥ पाण्डवा हन्तव्या इति शकुनेरुक्तिः ॥ 3 ॥ पाण्डवानां हन्तुमशक्यत्वात्तैः सह सन्धिः कर्तव्य इति सौमदत्तेरुक्तिः ॥ 4 ॥

वैशंपायन उवाच ।
ततो राज्ञां चैरराप्तैः प्रवृत्तिरुपनीयत ।
पाण्डवैरुपसंपन्ना द्रौपदी पतिभिः शुभा ॥
येन तद्धनुरादाय लक्ष्यं विद्धं महात्मना ।
सोऽर्जुनो जयतां श्रेष्ठो महाबाणधनुर्धरः ॥
यः शल्यं मद्रराजं वै प्रोत्क्षिप्यापातयद्बली ।
त्रासयामास संक्रुद्धो वृक्षेण पुरुषान्रणे ॥
न चास्य संभ्रमः कश्चिदासीत्तत्र महात्मनः ।
स भीमो भीमसंस्पर्शः शत्रुसेनाङ्गपातनः ॥
`योऽसावत्यक्रमीद्युध्यन्युद्धे दुर्योधनं तथा ।
स राजा पाण्डवश्रेष्ठः पुण्यभाग्बुद्धिवर्धनः ॥
दुर्योधनस्यावरजैर्यौ युध्येतां प्रतीपवत् । तौ यमौ वृत्तसंपन्नौ संपन्नबलविक्रमौ ॥'
ब्रह्मरूपधराञ्श्रुत्वा प्रशान्तान्पाण्डुनन्दनान् ।
कौन्तेयान्मनुजेन्द्राणां विस्मयः समजायत ॥
`पौरा हि सर्वे राजन्याः समपद्यन्त विस्मिताः ।' सपुत्रा हि पुरा कुन्ती दग्धा जतुगृहे श्रुता ॥
`सर्वभूमिपतीनां च राष्ट्राणां च यशस्विनी ।' पुनर्जातानिव च तांस्तेऽमन्यन्त नराधिपाः ॥
धिगकुर्वंस्तदा भीष्मं धृतराष्ट्रं च कौरवम् ।
कर्मणाऽतिनृशंसेन पुरोचनकृतेन वै ॥
धार्मिकान्वृत्तसंपन्नान्मातुः प्रियहिते रतान् ।
यदा तानीदृशान्पार्थानुत्सादयितुमिच्छति ॥
ततः स्वयंवरे वृत्ते धार्तराष्ट्राश्च भारत ।
मन्त्रयन्ति ततः सर्वे कर्णसौबलदूषिताः ॥
शकुनिरुवाच ।
कश्चिच्छत्रुः कर्शनीयः पीडनीयस्तथाऽपरः ।
उत्सादनीयाः कौन्तेयाः सर्वक्षत्रस्य मे मताः ॥
एवं पराजिताः सर्वे यदि यूयं गमिष्यथ ।
अकृत्वा संविदं कांचिन्मनस्तप्स्यत्यसंशयम् ॥
अयं देशश्च कालश्च पाण्डवाहरणाय नः ।
न चेदेवं करिष्यध्वं लोके हास्या भविष्यथ ॥
यमेते संश्रिता वस्तुं कामयन्ते च भूमिपम् ।
सोऽल्पवीर्यबलो राजा द्रुपदो वै मतो मम ॥
यावदेतान्न जानन्ति जीवतो वृष्णिपुङ्गवाः ।
चैद्यश्च पुरुषव्याघ्रः शिशुपालः प्रतापवान् ॥
एकीभावं गतो राज्ञा द्रुपदेन महात्मना ।
दुराधर्षतरा राजन्भविष्यन्ति न संशयः ॥
यावच्चञ्चलतां सर्वे प्राप्नुवन्ति नराधिपाः ।
तावदेव व्यवस्यामः पाण्डवानां वधं प्रति ॥
मुक्ता जतुगृहाद्भीमादाशीविषमुखादिव ।
पुनस्ते यदि मुच्यन्ते महन्नो भयमागतम् ॥
तेषामिहोपयातानामेषां तु चिरवासिनाम् ।
अन्तरे दुष्करं स्थातुं गजयोर्महतोरिव ॥
हनध्वं प्रगृहीतानि बलानि बलिनां वराः ।
यावन्नः कुरुसेनायां पतन्ति पतगा इव ॥
तावत्सर्वाभिसारेण पुरमेतद्विहन्यताम् ।
एतन्मम मतं चैव प्राप्तकालं नरर्षभ ॥
वैशंपायन उवाच ।
शकुनेर्वचनं श्रुत्वा भाषमाणस्य दुर्मतेः ।
सोमदत्तिरिदं वाक्यं जगाद परमं ततः ॥
प्रकृतीः सप्त वै ज्ञात्वा आत्मनश्च परस्य च ।
तथा देशं च कालं च षड्विधान्स नयोद्गुणान् ॥
स्थानं वृद्धिं क्षयं चैव भूमिं मित्राणि विक्रमम् ।
प्रसमीक्ष्याभियुञ्जीत परं व्यसनपीडितम् ॥
ततोऽहं पाण्डवान्मन्ये मित्रकोशसमन्वितान् ।
बलस्थान्विक्रमस्थांश्च स्वकृतैः प्रकृतिप्रियान् ॥
वपुषा हि तु भूतानां नेत्राणि हृदयानि च ।
श्रोत्रं मधुरया वाचा रमयत्यर्जुनो नृणाम् ॥
न तु केवलदैवेन प्रजा भावेन भेजिरे ।
यद्बभूव मनःकान्तं कर्मणा स चकार तत् ॥
न ह्ययुक्तं न चासक्तं नानृतं न च विप्रियम् ।
भाषितं चारुभाषस्य जज्ञे पार्थस्य भारती ॥
तानेवंगुणसंपन्नान्संपन्नान्राजलक्षणैः ।
न तान्पश्यामि ये शक्ताः समुच्छेत्तुं यथा बलात् ॥
प्रभावशक्तिर्विपुला मन्त्रशक्तिश्च पुष्कला ।
तथैवोत्साहशक्तिश्च पार्थेष्वप्यधितिष्ठति ॥
मौलमित्रबलानां च कालज्ञो वै युधिष्टिरः ।
साम्ना दानेन भेदेन दण्डेनेति युधिष्ठिरः ॥
अमित्रांश्च ततो जेतुनं न रोषेणेति मे मतिः ।
परिक्रीय धनैः शत्रुं मित्राणि च बलानि च ॥
मूलं च सुकृतं कृत्वा भुङ्क्ते भूमिं च पाण्डवः ।
अशक्यान्पाण्डवान्मन्ये देवैरपि सवासवैः ॥
येषामर्थे सदा युक्तौ कृष्णसंकर्षणावुभौ ।
श्रेयश्च यदि मन्यद्वं मन्मतं यदि वा मतम् ॥
संविदं पाण्डवैः सर्वैः कृत्वा याम यथागतम् ।
गोपुराट्टालकैरुच्चैरुपतल्पशतैरपि ॥
गुप्तं पुरवरश्रेष्ठमेतदद्भिश्च संवृतम् ।
तृणधान्येन्धरसैस्तथा यन्त्रायुधौषधैः ॥
युक्तं बहुकवाटैश्च द्रव्यागारसुवेदिकैः ।
भीमोच्छ्रितमहाचक्रं बृहदट्टालसंवृतम् ॥
दृढप्राकारनिर्यूहं शतघ्नीशतसंकुलम् ।
ऐष्टको दारवो वप्रो मानुषश्चेति यः स्मृतः ॥
प्राकारकर्तृभिर्वीरैर्नृगर्भस्तत्र पूजितः ।
तदेतन्नरगर्भेण पाण्डरेण विराजते ॥
सालेनानेकतालेन सर्वतः संवृतं पुरम् ।
अनुरक्ताः प्रकृतयो द्रुपदस्य महात्मनः ॥
दानमानार्जिताः सर्वे बाह्याभ्यन्तरगाश्च ये ।
प्रतिरुद्धानिमाञ्ज्ञात्वा राजभिर्भीमविक्रमैः ॥
उपयास्यन्ति दाशार्हाः समुदग्रोच्छ्रितायुधाः ।
तस्मात्संन्धिं वयं कृत्वा धार्तराष्ट्रस्य पाण्डवैः ॥
स्वराष्ट्रमेव गच्छामो यद्याप्तं वचनं मम । एतन्मम मतं सर्वैः क्रियतां यदि रोचते ।
एतद्धि सुकृतं मन्ये क्षेमं चापि महीभिताम् ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि विदुरागमनराज्यलाभपर्वणि सप्तदशाधिकद्विशततमोऽध्यायः ॥ 217 ॥

1-217-29 भेजिर अर्जुनमिति शेषः ॥ सप्तदशाधिकद्विशततमोऽध्यायः ॥ 217 ॥

अध्यायः 218

पाण्डवा हन्तव्या एवेति कर्णस्योक्तिः ॥ 1 ॥ पाञ्चालनगरंप्रति युद्धार्थं दुर्योधनादीनां गमनम् ॥ 2 ॥ तैः सह योद्धुं सपाण्डवस्य द्रुपदस्यागमनम् ॥ 3 ॥ कर्णजयद्रथाभ्यां सुमित्रप्रियदर्शनयोर्वधः ॥ 4 ॥ अर्जुनेन कर्णजयद्रथपुत्रयोर्वधः ॥ 5 ॥ कर्णदुर्योधनादीनां पराजयः ॥ 6 ॥ पराजितानां तेषां हास्तिनपुरगमनम् ॥ 7 ॥ कृष्णबलरामयोः पाञ्चालपुरे वासः ॥ 8 ॥

वैशंपायन उवाच ।
सौमदत्तेर्वचः श्रुत्वा कर्णो वैकर्तनो वृषा ।
उवाच वचनं काले कालज्ञः सर्वकर्मणाम् ॥
नीतिपूर्वमिदं सर्वमुक्तं वचनमर्थवत् ।
वचनं नाभ्यसूयामि श्रूयतां यद्वचस्त्विति ॥
द्वैधीभावो न गन्तव्यः सर्वकर्मसु मानवैः ।
द्विधाभूतेन मनसा अन्यत्कर्म न सिध्यति ॥
संप्रयाणासनाभ्यां तु कर्शनेन तथैव च ।
नैतच्छक्यं पुरं हर्तुमाक्रन्दश्चाप्यशोभनः ॥
अवमर्दनकालोऽत्र मतश्चिन्तयतो मम ।
यावन्नो वृष्णयः पार्ष्णिं न गृह्णन्तिरणप्रियाः ॥
भवन्तश्च तथा हृष्टाः स्वबाहुबलशालिनः ।
प्राकारमवमृद्रन्तु परिघाः पूरयन्त्वपि ॥
प्रस्रावयन्तु सलिलं क्रियतां विषमं समम् ।
तृणकाष्ठेन महता खातमस्य प्रपूर्यताम् ॥
घुष्यतां राजमार्गेषु परेषां यो हनिष्यति ।
नागमश्वं पदातिं वा दानमानं स लप्स्यति ॥
नागे दशसहस्राणि पञ्च चाश्वपदातिषु ।
रथे वै द्विगुणं नागाद्वसु दास्यन्ति पार्थिवाः ॥
यश्च कामसुखे सक्तो बालश्च स्थविरश्च यः ।
अयुद्धमनसो ये च ते तु तिष्ठन्तु भीरवः ॥
प्रदरश्च न दातव्यो न गन्तव्यमचोदितैः ।
यशो रक्षत भद्रं वो जेष्यामो वै रिपून्वयम् ॥
अनुलोमाश्च नो वाताः सततं मृगपक्षिणः ।
अग्नयश्च विराजन्ते शस्त्राणि कवचानि च ॥
वैशंपायन उवाच ।
ततः कर्णवचः श्रुत्वा धार्तराष्ट्रप्रियैषिणः ।
निर्ययुः पृथिवीपालाश्चालयन्तः परान्रणे ॥
न हि तेषां मनःसक्तिरिन्द्रियार्थेषु सर्वशः ।
यथा परिरपुघ्नानां प्रसभं युद्ध एव च ॥
वैकर्तनपुरोव्रातः सैन्धवोर्मिमहास्वनः ।
दुःशासनमहामत्स्यो दुर्योधनमहाग्रहः ॥
स राजसागरो भीमो भीमघोषप्रदर्शनः ।
अभिदुद्राव वेगेन पुरं तदपसव्यतः ॥
तदनीकमनाधृष्यं शस्त्राग्निव्यालदीपितम् ।
समुत्कम्पितमाज्ञाय चुक्रुशुर्द्रुपदात्मजाः ॥
ते मेघसमनिर्घोषैर्बलिनः स्यन्दनोत्तमैः । निर्ययुर्नगरद्वारात्त्रासयन्तः परान्र
धृष्टद्युम्नः शिखण्डी च सुमित्रः प्रियदर्शनः ।
चित्रकेतुः सुकेतुश्च ध्वजकेतुश्च वीर्यवान् ॥
पुत्रा द्रुपदराजस्य बलवन्तो जयैषिणः ।
द्रुपदस्य महावीर्यः पाण्डरोष्णीषकेतनः ॥
पाण्डरव्यजनच्छत्रः पाण्डरध्वजवाहनः ।
स पुत्रगणमध्यस्थः शुशुभे राजसत्तमः ॥
चन्द्रमा ज्योतिषां मध्ये पौर्णमास्यामिवोदितः ।
अथोद्धूतपताकाग्रमजिह्मगतिमव्ययम् ॥
द्रुपदानीकमायान्तं कुरुसैन्यमभिद्रवत् ।
तयोरुभयतो जज्ञे तेषां तु तुमुलः स्वनः ॥
बलयोः संप्रसरतोः सरितां स्रोतसोरिव ।
प्रकीर्णरथनागाश्वैस्तान्यनीकानि सर्वशः ॥
ज्योतींषईव प्रकीर्णानि सर्वतः प्रचकाशिरे ।
उत्कृष्टभेरीनिनदे संप्रवृत्ते महारवे ॥
अमर्षिता महात्मानः पाण्डवा निर्ययुस्ततः ।
रथांश्च मेघनिर्घोषान्युक्तान्परमवाजिभिः ॥
धून्वन्तो ध्वजिनः शुभ्रानास्थाय भरतर्षभाः ।
ततः पाण्डुसुतान्दृष्ट्वा रथस्थानात्तकार्मुकान् ॥
नृपाणामभवत्कम्पो वेपथुर्हृदयेषु च ।
निर्यातेष्वथ पार्थेषु द्रोपदं तद्बलं रणे ॥
आविशत्परमो हर्षः प्रमोदश्च जयं प्रति ।
सुमुहूर्तं व्यतिकरः सैन्यानामभवद्भृशम् ॥
ततो द्वन्द्वमयुध्यन्त मृत्युं कृत्वा पुरस्कृतम् ।
जघ्नतुः समरे तस्मिन्सुमित्रप्रियदर्शनौ ॥
जयद्रथश्च कर्णश्च पश्यतः सव्यसाचिनः ।
अर्जुनः प्रेक्ष्य निहतौ सौमित्रप्रियदर्शनौ ॥
जयद्रथसुतं तत्र जघान पितुरन्तिके ।
वृषसेनादवरजं सुदामानं धनंजयः ॥
कर्णपुत्रं महेष्वासं रथनीडादपातयत् ।
तौ सुतौ निहतौ दृष्ट्वा राजसिंहौ तरस्विनौ ॥
नामृष्येतां महाबाहू प्रहारमिव सद्गजौ ।
तौ जग्मतुरसंभ्रान्तौ फल्गुनस्य रथंप्रति ॥
प्रतिमुक्ततलत्राणौ शपमानौ परस्परम् ।
सन्निपातस्तयोरासीदतिघोरो महामृधे ॥
वृत्रशम्बरयोः सङ्क्ये वज्रिणेव महारणे ।
त्रीनश्वाञ्जघ्नतुस्तस्य फल्गुनस्य नर्षभौ ॥
ततः किलिकिलाशब्दः कुरूणामभवत्तदा ।
तान्हयान्निहतान्दृष्ट्वा भीमसेनः प्रतापवान् ॥
निमेषान्तरमात्रेण रथमश्वैरयोजयत् ।
उपयातं रथं दृष्ट्वा दुर्योधनपुरःसरौ ॥
सौबलः सौमदत्तिश्च समेयातां परन्तपौ ।
तैः पञ्चभिरदीनात्मा भीमसेनो महाबलः ॥
अयुध्यत तदा वीरैरिन्द्रियार्थैरिवेश्वरः ।
तैर्निरुद्धो न संत्रासं जगाम समितिंजयः ॥
पञ्चभिर्द्विरदैर्मत्तैर्निरुद्ध इव केसरी ।
तस्यैते युगपत्पञ्च पञ्चभिर्निशितैः शरैः ॥
सारथिं वाजिनश्चैव निन्युर्वैवस्वतक्षयम् ।
हताश्वात्स्यन्दनश्रेष्ठादवरुह्य महारथः ॥
चचार विविधान्मार्गानसिमुद्यम्य पाण्डवः ।
अश्वस्कन्धेषु चक्रेषु युगेष्वीषासु चैव हि ॥
व्यचरत्पातयञ्शत्रून्सुपर्ण इव भोगिनः ।
विधनुष्कं विकवचं विरथं च समीक्ष्य तम् ॥
अभिपेतुर्नव्याघ्रा अर्जुनप्रमुखा रथाः ।
धृष्टद्युम्नः शिखण्डी च यमौ च युधि दुर्जयौ ॥
तस्मिन्महारथे युद्धे प्रवृत्ते शरवृष्टिभिः ।
रथध्वजपताकाश्च सवर्मन्तरधीयत ॥
तत्प्रवृत्तं चिरं कालं युद्धं सममिवाभवत् ।
रथेन तान्महाबाहुरर्जुनो व्यधमत्पुनः ॥
तमापतन्तं दृष्ट्वेव महाबाहुर्धनुर्धरः ।
कर्णोऽस्त्रविदुषां श्रेष्ठो वारयामास सायकैः ॥
स तेनाभिहतः पार्थो वासविर्वज्रसन्निभान् ।
त्रीञ्शरान्संदधे क्रुद्धो वधात्क्रुद्धस्य पाण्डवः ॥
तैः शरैराहतं कर्णं ध्वजयष्टिमुपाश्रितम् ।
अपोवाह रथाच्चाशु सूतः परपुरंजयम् ॥
ततः पराजिते कर्णे धार्तराष्ट्रान्महाभयम् ।
विवेश समुदग्रांश्च पाण्डवान्प्रसमीक्ष्य तु ॥
तत्प्रकम्पितमत्यर्थं तद्दृष्ट्वा सौबलो बलम् ।
गिरा मधुरया चापि समाश्वासयतासकृत् ॥
धार्तराष्ट्रैस्ततः सर्वैर्दुर्योधनपुरःसरैः ।
धृतं तत्पुनरेवासीद्बलं पार्थप्रपीडितम् ॥
ततो दुर्योधनं दृष्ट्वा भीमो भीमपराक्रमः ।
अक्रुध्यत्स महाबाहुरगारं जातुषं स्मरन् ॥
ततः संग्रामशिरसि ददर्श विपुलद्रुमम् ।
आयामभूतं तिष्ठन्तं स्कन्धपञ्चाशदुन्नतम् ॥
महास्कन्धं महोत्सेधं शक्रध्वजमिवोच्छ्रितम् ।
तमुत्पाठ्य च पाणिभ्यामुद्यम्य चरणावपि ॥
अभिपेदे परान्सङ्ख्ये वज्रपाणिरिवासुरान् ।
भीमसेनभयार्तानि फल्गुनाभिहतानि च ॥
न शेकुस्तान्यनीकानि धार्तराष्ट्राण्युदीक्षितुम् ।
तानि संभ्रान्तयोधानि श्रान्तवाजिगजानि च ॥
दिशः प्राकालयद्भीमो दिवीवाभ्राणि मारुतः ।
तान्निवृत्तान्निरानन्दान्नरवारणवाजिनः ॥
नानुसस्रुर्न चाजघ्नुर्नोचुः किंचिच्च दारुणम् ।
स्वमेव शिबिरं जग्मुः क्षत्रियाः शरविक्षताः ॥
परेऽप्यभिययुर्हृष्टाः पुरं पौरसुखावहाः ।
मुहूर्तमभवद्युद्धं तेषां वै पाण्डवैः सह ॥
यावत्तद्युद्धमभवन्महद्देवासुरोपमम् ।
तावदेवाभवच्छान्तं निवृत्ता वै महारथाः ॥
सुव्रतं चक्रिरे सर्वे सुवृतामब्रुवन्वधूम् ।
कृतार्थं द्रुपदं चोचुर्धृष्टद्युम्नं च पार्षतम् ॥
शकुनिः सिन्धुराजश्च कर्णदुर्योधनावपि ।
तेषां तदाभवद्दुःखं हृदि वाचा तु नाब्रुवन् ॥
ततः प्रयाता राजानः सर्व एव यथागतम् ।
धार्तराष्ट्रा हि ते सर्वे गता नागपुरं तदा ॥
प्रागेव पूर्निरोधात्तु पाण्डवैरश्वसादिनः ।
प्रेषिता गच्छतारिष्टानस्मानाख्यात शौरये ॥
तेऽचिरेणैव कालेन संप्राप्ता यादवीं पुरीम् ।
ऊचुः संकर्षणोपेन्द्रौ वचनं वचनक्षमौ ॥
कुशलं पाण्डवाः सर्वानाहुः स्मान्धकवृष्णयः ।
आत्मनश्चाहतानाहुर्विमुक्ताञ्जातुषाद्गृहात् ॥
समाजे द्रौपदीं लब्धामाहू राजीवलोचनाम् ।
आत्मनः सदृशीं सर्वैः शीलवृत्तसमाधिभिः ॥
तच्छ्रुत्वा वचनं कृष्णस्तानुवाचोत्तरं वचः ।
सर्वमेतदहं जाने वधात्तस्य तु रक्षसः ॥
तत उद्योजयामास माधवश्चतुरङ्गिणीम् ।
सेनामुपानयत्तूर्णं पाञ्चालनगरीं प्रति ॥
ततः संकर्षणश्चैव केशवश्च महाबलः ।
यादवैः सह सर्वैश्च पाण्डवानभिजग्मतुः ॥
पितृष्वसारं संपूज्य नत्वा चैव तु यादवीम् ।
द्रौपदीं भूषणैः शुभ्रैर्भूषयित्वा यथाविधि ॥
पाण्डवान्हर्षयित्वा तु पूजयामासतुश्च तान् ।
न्यायतः पूजितौ राज्ञा द्रुपदेन महात्मना ॥
यादवाः पूजिताः सर्वे पाण्डवैश्च महात्मभिः ।
रेमिरे पाण्डवैः सार्धं ते पाञ्चालपुरे तदा ॥ ॥

इति श्रीमन्माहाभारते आदिपर्वणि विदुरागमनराज्यलाभपर्वणि अष्टादशाधिकद्विशततमोऽध्यायः ॥ 218 ॥

अध्यायः 219

विदुरात् ज्ञातपाण्डववृत्तान्तेन धृतराष्ट्रेण द्रौपद्यानयनार्थमाज्ञापनम् ॥ 1 ॥ धृतराष्ट्रसमीपे कर्णदुर्योधनयोर्भाषणम् ॥ 2 ॥

वैशंपायन उवाच ।
वृत्ते स्वयंवरे चैव राजानः सर्व एव ते ।
यथागतं विप्रजग्मुर्विदित्वा पाण्डवान्वृतान् ॥
अथ दुर्योधनो राजा विमना भ्रातृभिः सह ।
अश्वत्थाम्ना मातुलेन कर्णेन च कृपेण च ॥
विनिवृत्तो वृतं दृष्ट्वा द्रौपद्या श्वेतवाहनम् ।
तं तु दुःशासनोऽव्रीडो मन्दंमन्दमिवाब्रवीत् ॥
यद्यसौ ब्राह्मणो न स्याद्विन्देत द्रौपदीं न सः ।
न हि तं तत्त्वतो राजन्वेद कश्चिद्धनंजयम् ॥
दैवं च परमं मन्ये पौरुषं चाप्यनर्थकम् ।
धिगस्तु पौरुषं मन्त्रं यद्धरन्तीह पाण्डवाः ॥
`बध्वा चक्षूंषि नः पार्था राज्ञां च द्रुपदात्मजाम् ।
उद्वाह्य राज्ञां तैर्न्यस्तो वामः पादः पृथासुतैः ॥
विमुक्ताः कथमेतेन जतुवेश्मविर्भुजः ।
अस्माकं पौरुषं सत्वं बुद्धिश्चापि गता ततः ॥
वयं हता मातुलाद्य विश्वस्य च पुरोचनम् ।
अदग्ध्वा पाण्डवानेतान्स्वयं दग्धो हुताशने ॥
मत्तो मातुल मन्येऽहं पाण्डवा बुद्धिमत्तराः ।
तेषां नास्ति भयं मृत्योर्मुक्तानां जतुवेश्मनः ॥
वैशंपावयन उवाच ।
एवं संभाषमाणास्ते निन्दन्तश्च पुरोचनम् । पञ्चपुत्रां किरातीं च विदुरं च महामतिम् ॥'
विविशुर्हास्तिनपुरं दीना विगतचेतसः ॥
त्रस्ता विगतसंकल्पा दृष्ट्वा पार्थान्महौजसः ।
मुक्तान्हव्यभुजश्चैव संयुक्तान्द्रुपदेन च ॥
धृष्टद्युम्नं तु संचिन्त्य तथैव च शिखण्डिनम् ।
द्रुपदस्यात्मजांश्चान्यान्सर्वयुद्धविशारदान् ॥
विदुरस्त्वथ ताञ्श्रुत्वा द्रौपद्या पाण्डवान्वृतान् ।
व्रीडितान्धार्तराष्ट्रांश्च भग्नदर्पानुपागतान् ॥
ततः प्रीतमनाः क्षत्ता धृतराष्ट्रं विशांपते ।
उवाच दिष्ट्या कुरवो वर्ध्त इति विस्मितः ॥
वैचित्रवीर्यस्तु नृपो निशम्य विदुरस्य तत् ।
अब्रवीत्परमप्रीतो दिष्ट्या दिष्ट्येति भारत ॥
मन्यते स वृतं पुत्रं ज्येष्ठं द्रुपदकन्यया ।
दुर्योधनमविज्ञानात्प्रज्ञाचक्षुर्नरेश्वरः ॥
अथ त्वाज्ञापयामास द्रौपद्या भूषणं बहु ।
आनीयतां वै कृष्णेति पुत्रं दुर्योधनं तदा ॥
`अथ स्म पश्चाद्विदुर आचख्यावम्बिकात्मजम् ।
कौरव्या इति सामान्यान्न मन्येथास्तवात्मजान् ॥
वर्धन्त इति मद्वाक्याद्वर्धिताः पाण्डुनन्दनाः ।
कृष्णया संवृताः पार्था विमुक्ता राजसङ्गरात् ॥
दिष्ट्या कुशलिनो राजन्पूजिता द्रुपदेन च ॥
वैशंपायन उवाच ।
एतच्छ्रुत्वा तु वचनं विदुरस्य नराधिपः ।
आकारच्छादनार्थाय दिष्ट्यादिष्ट्येति चाब्रवीत् ॥
धृतराष्ट्र उवाच ।
एवं विदुर भद्रं ते यदि जीवन्ति पाण्डवाः ।
न ममौ मे तनौ प्रीतिस्त्वद्वाक्यामृतसंभवा ॥
साध्वाचारतया तेषां संबन्धो द्रुपदेन च ।
बभूव परमश्लाघ्यो दिष्ट्यादिष्ट्येति चाब्रवीत् ॥
अन्ववाये वसोर्जातः प्रवरे मात्स्यके कुले ।
वृत्तविद्यातपोवृद्धः पार्थिवानां च संमतः ॥
पुत्राश्चास्य तथा पौत्राः सर्वे सुचरितव्रताः ।
तेषां संबन्धिनश्चान्ये बहवः सुमहाबलाः ॥
यथैव पाण्डोः पुत्रास्ते ततोऽप्यभ्यधिका मम ।
सेयमभ्यधिकान्येभ्यो वृत्तिर्विदुर मे मता ॥
या प्रीतिः पाण्डुपुत्रेषु न साऽन्यत्र ममाभिभो ।
नित्योऽयं चिन्तितः क्षत्तः सत्यं सत्येन शपे ॥
यत्ते कुशलिनो वीराः पाण्डुपुत्रा महारथाः ।
मित्रवन्तोऽभवन्पुत्रा दुर्योधनमुखास्तथा ॥
मया श्रुतं यदा वह्नेर्दग्धाः पाण्डुसुता इति ।
तदाऽदह्यं दिवारात्रं न भोक्ष्ये न स्वपामि च ॥
असहायाश्चं मे पुत्रा लूनपक्षा इव द्विजाः । तत्त्वतः शृणु मे क्षत्तः सुसहायाः सुता मम ।
अद्य वै स्थिरसाम्राज्यमाचन्द्रार्कं ममाभवत् ॥'
को हि द्रुपदमासाद्य मित्रं क्षत्तः सबान्धवम् ।
न बुभूषेद्भवेनार्थी गतश्रीरपि पार्थिवः ॥
वैशंपायन उवाच ।
तं तथा भाषमाणं तु विदुरः प्रत्यभाषत । नित्यं भवतु ते बुद्धिरेषा राजञ्छतं समाः ।
इत्युक्त्वा प्रययौ राजन्विदुरः स्वं निवेशनम् ॥
ततो दुर्योधनश्चापि राधेयश्च विशांपते ।
धृतराष्ट्रमुपागम्य वचोऽब्रूतामिदं तदा ॥
सन्निधौ विदुरस्य त्वां दोषं वक्तुं न शक्नुवः ।
विविक्तमिति वक्ष्यावः किं तवेदं चिकीर्षितम् ॥
सपत्नवृद्धिं यत्तात मन्यसे वृद्धिमात्मनः ।
अभिष्टौषि च यत्क्षत्तुः समीपे द्विपदांवर ॥
अन्यस्मिन्नृप कर्तव्ये त्वमन्यत्कुरुषेऽनघ ।
तेषां बलविघातो हि कर्तव्यस्तात नित्यशः ॥
ते वयं प्राप्तकालस्य चिकीर्षां मन्त्रयामहे ।
यथा नो न ग्रसेयुस्ते सपुत्रबलबान्धवान् ॥ ॥

इति श्रीमन्महाभारते आदिपर्वमि विदुरागमनराज्यलाभपर्वणि एकोनविंशत्यधिकद्विशततमोऽध्यायः ॥ 219 ॥

1-219-32 गतश्रीर्नष्टश्रीः को भवेन ऐश्वर्येणार्थी न बुभूषेद्भवितुमिच्छेदपि तु सर्वोपीच्छेत् ॥ एकोनविंशत्यधिकद्विशततमोऽध्यायः ॥ 219 ॥

अध्यायः 220

धृतराष्ट्रदुर्योधनसंवादः ॥ 1 ॥

`वैशंपायन उवाच ।
दुर्योधनेनैवमुक्तः कर्णेन च विशांपते । पुत्रं च सूतपुत्रं च धृतराष्ट्रोऽब्रवीदिदम् ॥ '
धृतराष्ट्र उवाच ।
अहमप्येवमेवैतच्चिकीर्षामि यथा युवाम् ।
विवेक्तुं नाहमिच्छामि त्वाकारं विदुरं प्रति ॥
ततस्तेषां गुणानेव कीर्तयामि विशेषतः ।
नावबुध्येत विदुरो ममाभिप्रायमिङ्गितैः ॥
यच्च त्वं मन्यसे प्राप्तं तद्ब्रवीहि सुयोधन ।
राधेय मन्यसे यच्च प्राप्तकालं वदाशु मे ॥
दुर्योधन उवाच ।
अद्य तान्कुशलैर्विप्रैः सुगुप्तैराप्तकारिभिः ।
कुन्तीपुत्रान्भेदयामो माद्रीपुत्रौ च पाण्डवौ ॥
अथवा द्रुपदो राजा महद्भिर्वित्तसंचयैः ।
पुत्राश्चास्य प्रलोभ्यन्ताममात्याश्चैव सर्वशः ॥
परित्यजेद्यथा राजा कुन्तीपुत्रं युधिष्ठिरम् ।
अथ तत्रैव वा तेषां निवासं रोचयन्तु ते ॥
इहैषां दोषवद्वासं वर्णयन्तु पृथक्पृथक् ।
ते भिद्यमानास्तत्रैव मनः कुर्वन्तु पाण्डवाः ॥
अथवा कुशळाः केचिदुपायनिपुणा नराः ।
इतरेतरतः पार्थान्भेदयन्त्वनुरागतः ॥
व्युत्थापयन्तु वा कृष्णां बहुत्वात्सुकरं हि तत् ।
अथवा पाण्डवांस्तस्यां भेदयन्तु ततश्च ताम् ॥
भीमसेनस्य वा राजन्नुपायकुशलैर्नरैः ।
मृत्युर्विधीयतां छन्नैः स हि तेषां बलाधिकः ॥
तमाश्रित्य हि कौन्तेयः पुरा चास्मान्न मन्यते ।
सहि तीक्ष्णश्च शूरश्च तेषां चैव परायणम् ॥
तस्मिंस्त्वभिहते राजन्हतोत्साहा हतौजसः ।
यतिष्यन्ते न राज्याय स हि तेषां व्यपाश्रयः ॥
अजेयो ह्यर्जुनः सङ्ख्ये पृष्ठगोपे वृकोदरे ।
तमृते फाल्गुनो युद्धे राधेयस्य न पादभाक् ॥
ते जानानास्तु दौर्बल्यं भीमसेनमृते महत् ।
अस्मान्बलवतो ज्ञात्वा न यतिष्यन्ति दुर्बलाः ॥
इहागतेषु वा तेषु निदेशवशवर्तिषु ।
प्रवर्तिष्यामहे राजन्यथाशास्त्रं निबर्हणम् ॥
`दर्पं वा वदतां तेषां केचिदत्र मनस्विनः । द्रुपदस्यात्मजा राजन्प्रभिद्यन्ते ततः परैः ॥'
अथवा दर्शनीयाभिः प्रमदाभिर्विलोभ्यताम् ।
एकैकस्तत्र कौन्तेयस्ततः कृष्णा विरज्यताम् ॥
प्रेष्यतां चैव राधेयस्तेषामागमनाय वै ।
तैस्तैः प्रकारैः सन्नीय पात्यन्तामाप्तकारिभिः ॥
एतेषामप्युपायानां यस्ते निर्दोषवान्मतः ।
तस्य यप्रोगमातिष्ठ पुरा कालोऽतिवर्तते ॥
यावद्ध्यकृतविश्वासा द्रुपदे पार्थिवर्षभे ।
तावदेव हि ते शक्या न शक्यास्तु ततः परम् ॥
एषा मम मतिस्तात निग्रहाय प्रवर्तते ।
साध्वी वा यदि वाऽसाध्वी किं वा राधेय मन्यसे ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि विदुरागमनराज्यलाभपर्वणि विंशत्यधिकद्विशततमोऽध्यायः ॥ 220 ॥

1-220-3 इङ्गितैश्चेष्टितैः ॥ विंशत्यधिकद्विशततमोऽध्यायः ॥ 220 ॥

अध्यायः 221

दुर्योधनं प्रति कर्णोनोक्तं श्रुतवतो धृतराष्ट्रस्य भीष्मादिभिः सह मन्त्रणम् ॥ 1 ॥

कर्ण उवाच ।
दुर्योधन तव प्रज्ञा न सम्यगिति मे मतिः ।
न ह्युपायेन ते शक्याः पाण्डवाः कुरुवर्धन ॥
पूर्वमेव हि ते सूक्ष्मैरुपायैर्यतितास्त्वया ।
निग्रहीतुं तदा वीर न चैव शकितास्त्वया ॥
इहैव वर्तमानास्ते समीपे तव पार्थिव ।
अजातपक्षाः शिशवः शकिता नैव बाधितुम् ॥
जातपक्षा विदेशस्था विवृद्धाः सर्वशोऽद्य ते ।
नोपायसाध्याः कौन्तेया ममैषा मतिरच्युता ॥
न च ते व्यसनैर्योक्तुं शक्या दिष्टकृतेन च ।
शकिताश्चेप्सवश्चैव पितृपैतामहं पदम् ॥
परस्परेण भेदश्च नाधातुं तेषु शक्यते ।
एकस्यां ये रताः पत्न्यां न भिद्यन्ते परस्परम् ॥
न चापि कृष्णा शक्येत तेभ्यो भेदयितुं परैः ।
परिद्यूनान्वृतवती किमुताद्य मृजावतः ॥
ईप्सितश्च गुणः स्त्रीणामेकस्या बहुभर्तृता ।
तं च प्राप्तवती कृष्णा न सा भेदयितुं क्षमा ॥
आर्यव्रतश्च पाञ्चाल्यो न स राजा धनप्रियः ।
न संत्यक्ष्यति कौन्तेयान्राज्यदानैरपि ध्रुवम् ॥
तथाऽस्म पुत्रो गुणवाननुरक्तश्च पाण्डवान् ।
तस्मान्नोपायसाध्यांस्तानहं मन्ये कथंचन ॥
इदं त्वद्य क्षमं कर्तुमस्माकं पुरुषर्षभ ।
यावन्न कृतमूलास्ते पाण्डवेया विशांपते ॥
तावत्प्रहरणीयास्ते तत्तुभ्यं तात रोचताम् । अस्मत्पक्षो महान्यावद्यावत्पाञ्चालको लघुः ।
तावत्प्रहरणं तेषां क्रियतां मा विचारय ॥
वाहनानि प्रभूतानि मित्राणि च कुलानि च ।
यावन्न तेषां गान्धारे तावद्विक्रम पार्थिव ॥
यावच्च राजा पाञ्चाल्यो नोद्यमे कुरुते मनः ।
सह पुत्रैर्महावीर्यैस्तावद्विक्रम पार्थिव ॥
यावन्नायाति वार्ष्णेयः कर्षन्यादववाहिनीम् ।
राज्यार्थे पाण्डवेयानां पाञ्चाल्यसदनं प्रति ॥
वसूनि विविधान्भोगान्राज्यमेव च केवलम् ।
नात्याज्यमस्ति कृष्णस्य पाण्डवार्थे कथंचन ॥
विक्रमेण मही प्राप्ता भरतेन महात्मना ।
विक्रमेण च लोकांस्त्रीञ्जितवान्पाकशासनः ॥
विक्रमं च प्रशंसन्ति क्षत्रियस्य विशांपते ।
स्वको हि धर्मः शूराणां विक्रमः पार्थिवर्षभ ॥
ते बलेन वयं राजन्महता चतुरङ्गिणा ।
प्रमथ्य द्रुपदं शीघ्रमानयामेह पाण्डवान् ॥
न हि साम्ना न दानेन न भदेन च पाण्डवाः ।
शक्याः साधयितुं तस्माद्विक्रमेणैव ताञ्जहि ॥
तान्विक्रमेण जित्वेमामखिलां भुङ्क्ष्व मेदिनीम् ।
अतो नान्यं प्रपश्यामि कार्योपायं जनाधिप ॥
वैशंपायन उवाच ।
श्रुत्वा तु राधेयवचो धृतराष्ट्रः प्रतापवान् ।
अभिपूज्य ततः पश्चादिदं वचनमब्रवीत् ॥
उपपन्नं महाप्राज्ञे कृतास्त्रे सूतनन्दने ।
त्वयि विक्रमसंपन्नमिदं वचनमीदृशम् ॥
भूय एव तु भीष्मश्च द्रोणो विदुर एव च ।
युवां च कुरुतं बुद्धिं भवेद्या नः सुखोदया ॥
तत आनाय्य तान्सर्वान्मन्त्रिणः सुमहायशाः ।
धृतराष्ट्रो महाराज मन्त्रयामास वै तदा ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि विदुरागमनराज्यलाभपर्वणि एकविंशत्यधिकद्विशततमोऽध्यायः ॥ 221 ॥

1-221-7 परिद्यूनान् शोच्यान् । मृजावतः सुवेषान् ॥ एकविंशत्यधिकद्विशततमोऽध्यायः ॥ 221 ॥

अध्यायः 222

भीष्मेण दुर्योधनादिसमीपे पाण्डवेक्ष्योऽर्धराज्यं दातव्यमिति स्वाबिप्रायकथनम् ॥ 1 ॥

भीष्म उवाच ।
न रोचते विग्रहो मे पाण्डुपुत्रैः कथंचन ।
यथैव धृतराष्ट्रो मे तथा पाण्डुरसंशयम् ॥
गान्धार्याश्च यथा पुत्रास्तथा कुन्तीसुता मम ।
यथा च मम ते रक्ष्या धृतराष्ट्र तथा तव ॥
यथा च मम राज्ञश्च तथा दुर्योधनस्य ते ।
तथा कुरूणां सर्वेषामन्येषामपि पार्थिव ॥
एवं गते विग्रहं तैर्न रोचे सन्धाय वीरैर्दीयतामर्धभूमिः ।
तेषामपीदं प्रपितामहानां राज्यं पितुश्चैव कुरूत्तमानाम् ॥
दुर्योधन यथा र्जायं त्वमिदं तात पश्यसि ।
मम पैतृकमित्येवं तेऽपि पश्यन्ति पाण्डवाः ॥
यदि राज्यं न ते प्राप्ताः पाण्डवेया यशस्विनः ।
कुत एव तवापीदं भारतस्यापि कस्यचित् ॥
अधर्मेण च राज्यं त्वं प्राप्तवान्भरतर्षभ ।
तेऽपि राज्यमनुप्राप्ताः पूर्वमेवेति मे मतिः ॥
मधुरेणैव राज्यस्य तेषामर्धं प्रदीयताम् ।
एतद्धि पुरुषव्याघ्र हितं सर्वजनस्य च ॥
अतोऽन्यथा चेत्क्रियते न हितं नो भविष्यति ।
तवाप्यकीर्तिः सकला भविष्यति न संशयः ॥
कीर्तिरक्षणमातिष्ठ कीर्तिर्हि परमं बलम् ।
नष्टकीर्तेर्मनुष्यस्य जीवितं ह्यफळं स्मृतम् ॥
यावत्कीर्तिर्मनुष्यस्य न प्रणश्यति कौरव ।
तावज्जीवति गान्धरे नष्टकीर्तिस्तु नश्यति ॥
तमिमं समुपातिष्ठ धर्मं कुरुकुलोचितम् ।
अनुरूपं महाबाहो पूर्वेषामात्मनः कुरु ॥
दिष्ट्या ध्रियन्ते पार्था हि दिष्ट्या जीवति सा पृथा ।
दिष्ट्या पुरोचनः पापो न सकामोऽत्ययं गतः ॥
यदाप्रभृति दग्धास्ते कुन्तिभोजसुतासुताः ।
तदाप्रभृति गान्धारे न शक्नोम्यभिवीक्षितुम् ॥
लोके प्राणभृतां किंचिच्छ्रुत्वा कुन्तीं तथागताम् । न चापि दोषेण तथा लोको मन्येत्पुरोचनम् ।
यथा त्वां पुरुषव्याघ्र लोको दोषेण गच्छति ॥
तदिदं जीवितं तेषां तव किल्बिषनाशनम् ।
संमन्तव्यं महाराज पाण्डवानां च दर्शनम् ॥
न चापि तेषां वीराणां जीवतां कुरुनन्दन ।
पित्र्योंशः शक्य आदातुमपि वज्रभृता स्वयं ॥
ते सर्वेऽवस्थिता धर्मे सर्वे चैवैकचेतसः ।
अधर्मेण निरस्ताश्च तुल्ये राज्ये विशेषतः ॥
यदि धर्मस्त्वया कार्यो यदि कार्यं प्रियं च मे ।
क्षेमं च यदि कर्तव्यं तेषामर्धं प्रदीयताम् ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि विदुरागमनराज्यलाभपर्वणि द्वाविंशत्यधिकद्विशततमोऽध्यायः ॥ 222 ॥

1-222-8 मधुरेण प्रीत्या ॥ 1-222-13 ध्रियन्ते जीवन्ति ॥ 1-222-15 गच्छति अवगच्छति ॥ द्वाविंशत्यधिकद्विशततमोऽध्यायः ॥ 222 ॥

अध्यायः 223

पाण्डवाः संविभाज्या इति द्रोणवचनम् ॥ 1 ॥ तद्विरोधितया कर्णेन अम्बुवीचवृत्तान्तकथनम् ॥ 2 ॥ मदुक्तं न क्रियते चेत्कुरवो विनङ्क्ष्यन्तीति द्रोणेनोक्तिः ॥ 3 ॥

द्रोण उवाच ।
मन्त्राय समुपानीतैर्धृतराष्ट्र हितैर्नृप ।
धर्म्यमर्थ्यं यशस्यं च वाच्यमित्यनुशुश्रुम ॥
ममाप्येषा मतिस्तात या भीष्मस्य महात्मनः ।
संविभज्यास्तु कौन्तेया धर्म एष सनातनः ॥
प्रेष्यतां द्रुपदायाशु नऱः कश्चित्प्रियंवदः ।
बहुलं रत्नमादाय तेषामर्थाय भारत ॥
मिथः कृत्यं च तस्मै स आदाय वसु गच्छतु ।
वृद्धिं च परमां ब्रूयात्तत्संयोगोद्भवां तथा ॥
संप्रीयमाणं त्वां ब्रूयाद्राजन्दुर्योधनं तथा ।
असकृद्द्रुपदे चैव धृष्टद्युम्ने च भारत ॥
उचितत्वं प्रियत्वं च योगस्यापि च वर्णयेत् ।
पुनःपुनश्च कौन्येयान्माद्रीपुत्रौ च सान्त्वयन् ॥
हिरण्मयानि शुभ्राणि बहून्याभरणानि च ।
वचनात्तव राजेन्द्र द्रौपद्याः संप्रयच्छतु ॥
तथा द्रुपदपुत्राणां सर्वेषां भरतर्षभ ।
पाण्डवानां च सर्वेषां कुन्त्या युक्तानि यानि च ॥
`दत्त्वा तानि महार्हाणि पाण्डवान्संप्रहर्षय ।' एवं सान्त्वसमायुक्तं द्रुपदं पाण्डवैः सह ।
उक्त्वा सोऽनन्तरं ब्रूयात्तेषामागमनं प्रति ॥
अनुज्ञातेषु वीरेषु बलं गच्छतु शोभनम् ।
दुःशासनो विकर्णश्चाप्यानेतुं पाण्डवानिह ॥
ततस्ते पाण्डवाः श्रेष्ठाः पूज्यमानाः सदा त्वया ।
प्रकृतीनामनुमते पदे स्थास्यन्ति पैतृके ॥
एतत्तव महाराज तेषु पुत्रेषु चैव हि ।
वृत्तमौपयिकं मन्ये भीष्मेण सह भारत ॥
कर्ण उवाच ।
योजितावर्थमानाभ्यां सर्वकार्येष्वनन्तरौ ।
न मन्त्रयेतां त्वच्छ्रेयः किमद्भुततरं ततः ॥
दुष्टेन मनसा यो वै प्रच्छन्नेनान्तरात्मना ।
ब्रूयान्नि)श्रेयसं नाम कथं कुर्यात्सतां मतम् ॥
न मित्राण्यर्थकृच्छ्रेषु श्रेयसे चेतराय वा ।
विधिपूर्वं हि सर्वस्य दुःखं वा यदि वा सुखम् ॥
कृतप्रज्ञोऽकृतप्रज्ञो बालो वृद्धश्च मानवः ।
ससहायोऽसहायश्च सर्वं सर्वत्र विन्दति ॥
श्रूयते हि पुरा कश्चिदम्बुवीच इतीश्वरः ।
आसीद्राजगृहे राजा मागधानां महीक्षिताम् ॥
स हीनः करणैः सर्वैरुच्छ्वासपरमो नृपः ।
अमात्यसंस्थः सर्वेषु कार्येष्वेवाभवत्तदा ॥
तस्यामात्यो महाकर्णिर्बभूवैकेश्वरस्तदा ।
स लब्धबलमात्मानं मन्यमानोऽवमन्यते ॥
स राज्ञ उपभोग्यानि स्त्रियो रत्नधनानि च ।
आददे सर्वशो मूढ ऐश्वर्यं च स्वयं तदा ॥
तदादाय च लुब्धस्य लोभाल्लोभोऽभ्यवर्धत ।
तथाहि सर्वमादाय राज्यमस्य जिहीर्षति ॥
हीनस्य करणैः सर्वैरच्छ्वासपरमस्य च ।
यतमानोऽपि तद्राज्यं न शशाकेति नः श्रुतं ॥
किमन्यद्विहिता नूनं तस्य सा पुरुषेन्द्रता ।
यदि ते विहितं राज्यं भविष्यति विशांपते ॥
मिषतः सर्वलोकस्य स्थास्यते त्वयि तद्धुवम् ।
अतोऽन्यथा चेद्विहितं यतमानो न लप्स्यसे ॥
एवं विद्वन्नुपादत्स्व मन्त्रिणां साध्वसाधुताम् ।
दुष्टानां चैव बोद्धव्यमदुष्टानां च भाषितम् ॥
द्रोण उवाच ।
विद्म ते भावदोषेण यदर्थमिदमुच्यते ।
दुष्ट पाण्डवहेतोस्त्वं दोषमाख्यापयस्युत ॥
हितं तु परमं कर्ण ब्रवीमि कुलवर्धनम् ।
अथ त्वं मन्यसे दुष्टं ब्हूहि यत्परमं हितम् ॥
अतोऽन्यथा चेत्क्रियते यद्ब्रवीमि परं हितम् ।
कुरवो वै विनङ्क्ष्यन्ति नचिरेणैव मे मतिः ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि विदुरागमनराज्यलाभपर्वणि त्रयोविंशत्यधिकद्विशततमोऽध्यायः ॥ 223 ॥

1-223-4 मिथः कृत्यं सांबन्धिकं वरपक्षीयैर्वध्वलंकारादिकन्यापक्षीयैर्वरालंकारादि ॥ 1-223-15 विधिपूर्वं अधृष्टकारणकम् ॥ 1-223-17 अम्बुवीर इति श्रुतः इति घ. पाठः । विनिन्द इति वितश्रुः इति ङ पाठः । ईश्वरः समर्थः । राजगृहे तन्नामके नगरे ॥ त्रयोविंशत्यधिकद्विशततमोऽध्यायः ॥ 223 ॥

अध्यायः 224

भीष्मद्रोणाभ्यामुक्तमेवावश्यं करणीयं पाण्डवा जेतुं न शक्याः दुर्योधनादीनां वचनं मा कुरु इति धृतराष्ट्रंप्रति विदुरस्योक्तिः ॥ 1 ॥

विदुर उवाच ।
राजन्निःसंशयं श्रेयो वाच्यस्त्वमसि बान्धवैः ।
न त्वशुश्रूषमाणे वै वाक्यं संप्रति तिष्ठति ॥
प्रियं हितं च तद्वाक्यमुक्तवान्कुरुसत्तमः ।
भीष्मः शान्तनवो राजन्प्रतिगृह्णासि तन्न च ॥
तथा द्रोणेन बहुधा भाषितं हितमुत्तमम् ।
तच्च राधासुतः कर्णो मन्यते न हितं तव ॥
चिन्तयंश्च न पश्यामि राजंस्तव सुहृत्तमम् ।
आभ्यां पुरुषसिंहाभ्यां यो वा स्यात्प्रज्ञयाधिकः ॥
इमौ हि वृद्धौ वयसा प्रज्ञया च श्रुतेन च ।
समौ च त्वयि राजेन्त्र तथा पाण्डुसुतेषु च ॥
धर्मे चानवरौ राजन्सत्यतायां च भारत ।
रामाद्दाशरथेश्चैव गयाच्चैव न संशयः ॥
न चोक्तवन्तावश्रेयः पुरस्तादपि किंचन ।
न चाप्यपकृतं किंचिदनयोर्लक्ष्यते त्वयि ॥
तावुभौ पुरुषव्याघ्रावनागसि नृपे त्वयि ।
न मन्त्रयेतां त्वच्छ्रेयः कथं सत्यपराक्रमौ ॥
प्रज्ञावन्तौ नरश्रेष्ठावस्मिँल्लोके नराधिप ।
त्वन्निमित्तमतो नेमौ किंचिज्जिह्मं वदिष्यतः ॥
इति मे नैष्ठिकी बुद्धिर्वर्तते कुरुनन्दन ।
न चार्थहेतोर्धर्मज्ञौ वक्ष्यतः पक्षसंश्रितम् ॥
एतद्धि परमं श्रेयो मन्येऽहं तव भारत ।
दुर्योधनप्रभृतयः पुत्रा राजन्यथा तव ॥
तथैव पाण्डवेयास्ते पुत्रा राजन्न संशयः ।
तेषु चेदहितं किंचिन्मन्त्रयेयुरतद्विदः ॥
मन्त्रिणस्ते न च श्रेयः प्रपश्यन्ति विशेषतः । अथ ते हृदये राजन्विशेषः स्वेषु वर्तते ।
अन्तरस्थं विवृण्वानाः श्रेयः कुर्युर्न ते ध्रुवम् ॥
एतदर्थमिमौ राजन्महात्मानौ महाद्युती ।
नोचतुर्विवृतं किंचिन्न ह्येष तव निश्चयः ॥
यच्चाप्यशक्यतां तेषामाहतुः पुरुषर्षभौ ।
तत्तथा पुरुषव्याघ्र तव तद्भद्रमस्तु ते ॥
कथं हि पाण्डवः श्रीमान्सव्यसाची धनञ्जयः ।
शक्यो विजेतुं संग्रामे राजन्मघवतापि हि ॥
`भीमसेनो महाबाहुर्नागायुतबलो महान् ।
राक्षसानां भयकरो बाहुशाली महाबलः ॥
हिडिम्बो निहतो येन बाहुयुद्धेन भारत ।
यो रावणसमो युद्धे तथा च बकराक्षसः ॥
स युध्यमानो राजेन्द्र भीमो भीमपराक्रमः ।' कथं स्म युधि शक्येत विजेतुममरैरपि ॥
तथैव कृतिनौ युद्धे यमौ यमसुताविव ।
कथं विजेतुं शक्यौ तौ रणे जीवितुमिच्छता ॥
यस्मिन्धृतिरनुक्रोशः क्षमा सत्यं पराक्रमः ।
नित्यानि पाण्डवे ज्येष्ठे स जीयेत रणे कथम् ॥
येषां पक्षधरो रामो येषां मन्त्री जनार्दनः ।
किं नु तैरजितं सङ्ख्ये येषां पक्षे च सात्यकिः ॥
द्रुपदः श्वशुरो येषां येषां स्यालाश्च पार्षताः ।
धृष्टद्युम्नमुखा वीरा भ्रातरो द्रुपदात्मजाः ॥
`चैद्यश्च येषां भ्राता च शिशुपालो महारथः ।' सोऽशक्यतां च विज्ञाय तेषामग्रे च भारत ।
दायाद्यतां च धर्मेण सम्यक्तेषु समाचर ॥
इदं निर्दिष्टमयशः पुरोचनकृतं महत् ।
तेषामनुग्रहेणाद्य राजन्प्रक्षालयात्मनः ॥
तेषामनुग्रहश्चायं सर्वेषां चैव नः कुले ।
जीवितं च परं श्रेयः क्षत्रस्य च विवर्धनम् ॥
द्रुपदोऽपि महान्राजा कृतवैरश्च नः पुरा ।
तस्य संग्रहणं राजन्स्वपक्षस्य विवर्धनम् ॥
बलवन्तश्च दाशार्हा बहवश्च विशांपते ।
यतः कृष्णस्ततः सर्वे यतः कृष्णस्ततो जयः ॥
यच्च साम्नैव शक्येत कार्यं साधयितुं नृप ।
को दैवशप्तस्तत्कार्यं विग्रहेण समाचरेत् ॥
श्रुत्वा च जीवतः पार्थान्पौरजानपदा जनाः ।
बलवद्दर्शने हृष्टास्तेषां राजन्प्रियं कुरु ॥
दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः ।
अधर्मयुक्ता दुष्प्रज्ञा बाला मैषां वचः कृथाः ॥
उक्तमेतत्पुरा राजन्मया गुणवतस्तव ।
दुर्योधनापराधेन प्रजेयं वै विनङ्क्ष्यति ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि विदुरागमनराज्यलाभपर्वणि चतुर्विंशत्यधिकद्विशततमोऽध्यायः ॥ 224 ॥

1-224-6 अनवरौ श्रेष्ठौ ॥ 1-224-7 अनयोः आभ्याम् ॥ 1-224-24 दायाद्यतां पितृधनभोजनार्हताम् ॥ चतुर्विंशत्यधिकद्विशततमोऽध्यायः ॥ 224 ॥

अध्यायः 225

धृतराष्ट्राज्ञया विदुरस्य द्रुपदनगरगमनम् ॥ 1 ॥ तत्र श्रीकृष्णादीनां समीपे धृतराष्ट्रसन्देशकथनम् ॥ 2 ॥

धृतराष्ट्र उवाच ।
भीष्मः शान्तनवो विद्वान्द्रोणश्च भगवानृषिः । `हितं च परमं सत्यमब्रूतां वाक्यमुत्तमम् ।'
हितं च परमं वाक्यं त्वं च सत्यं ब्रवीषि माम् ॥
यथैव पाण्डोस्ते वीराः कुन्तीपुत्रा महारथाः ।
तथैव धर्मतः सर्वे मम पुत्रा न संशयः ॥
यथैव मम पुत्राणामिदं राज्यं विधीयते ।
तथैव पाण्डुपुत्राणामिदं राज्यं न संशयः ॥
क्षत्तरानय गच्छैतान्सह मात्रा सुसत्कृतान् ।
तया च देवरूपिण्या कृष्णया सह भारत ॥
दिष्ट्या जीवन्ति ते पार्था दिष्ट्या जीवति सा पृथा ।
दिष्ट्या द्रुपदकन्यां च लब्धवन्तो महारथाः ॥
दिष्ट्या वर्धामहे सर्वे दिष्ट्या शान्तः पुरोचनः ।
दिष्ट्या मम परं दुःखमपनीतं महाद्युते ॥
`त्वमेव गत्वा विदुर तानिहानय मा चिरम् ।
वैशंपायन उवाच ।
एवमुक्तस्ततः क्षत्ता रथमारुह्य शीघ्रगम् ।
आगात्कतिपयाहोभिः पाञ्चालान्राजधर्मवित्' ॥
ततो जगाम विदुरो धृतराष्ट्रस्य शासनात् ।
सकाशं यज्ञसेनस्य पाण्डवानां च भारत ॥
समुपादाय रत्नानि वसूनि विविधानि च ।
द्रौपद्याः पाण्डवानां च यज्ञसेनस्य चैव ह ॥
तत्र गत्वा स धर्मज्ञः सर्वशास्त्रविशारदः ।
द्रुपदं न्यायतो राजन्संयुक्तमुपतस्थिवान् ॥
स चापि प्रतिजग्राह धर्मेण विदुरं ततः ।
चक्रतुश्च यथान्यायं कुशलप्रश्नसंविदम् ॥
ददर्श पाण्डवांस्तत्र वासुदेवं च भारत ।
स्नेहात्परिष्वज्य स तान्पप्रच्छानामयं ततः ॥
तैश्चाप्यमितबुद्दिः स पूजितो हि यथाक्रमम् ।
वचनाद्धृतराष्ट्रस्य स्नेहयुक्तं पुनःपुनः ॥
पप्रच्छानामयं राजंस्ततस्तान्पाण्डुनन्दनान् ।
प्रददौ चापि रत्नानि विविधानि वसूनि च ॥
पाण्डवानां च कुन्त्याश्च द्रौपद्याश्च विशांपते ।
द्रुपदस्य च पुत्राणां यथा दत्तानि कौरवैः ॥
प्रोवाच चामितमतिः प्रश्रितं विनयान्वितः ।
द्रुपदं पाण्डुपुत्राणां सन्निधौ केशवस्य च ॥
विदुर उवाच ।
राजञ्छृणु सहामात्यः सपुत्रश्च वचो मम ।
धृतराष्ट्रः सपुत्रस्त्वां सहामात्यः सबान्धवः ॥
अब्रवीत्कुशलं राजन्प्रीयमाणः पुनःपुनः ।
प्रीतिमांस्ते दृढं चापि संबन्धेन नराधिप ॥
तथा भीष्मः शान्तनवः कौरवैः सह सर्वशः ।
कुशलं त्वां महाप्राज्ञः सर्वतः परिपृच्छति ॥
भारद्वाजो महाप्राज्ञो द्रोणः प्रियसखस्तव ।
समाश्लेषमुपेत्य त्वां कुशलं परिपृच्छति ॥
धृतराष्ट्रश्च पाञ्चाल्य त्वया संबन्धमेयिवान् ।
कृतार्थं मन्यतेत्मानं तथा सर्वेऽपि कौरवाः ॥
न तथा राज्यसंप्राप्तिस्तेषां प्रीतिकरी मता ।
यथा संबन्धकं प्राप्य यज्ञसेन त्वया सह ॥
एतद्विदित्वा तु भवान्प्रस्थापयतु पाण्डवान् ।
द्रष्टुं हि पाण्डुपुत्रांश्च त्वरन्ति कुरवो भृशम् ॥
विप्रोषिता दीर्घकालमेते चापि नरर्षभाः ।
उत्सुका नगरं द्रष्टुं भविष्यन्ति तथा पृथा ॥
कृष्णामपि च पाञ्चालीं सर्वाः कुरुवरस्त्रियः ।
द्रष्टुकामाः प्रतीक्ष्ते पुरं च विषयाश्च नः ॥
स भवान्पाण्डुपुत्राणामाज्ञापयतु मा चिरम् ।
गमनं सहदाराणामेतदत्र मतं मम ॥
निसृष्टेषु त्वया राजन्पाण्डवेषु महात्मसु । ततोऽहं प्रेषयिष्यामि धृतराष्ट्रस्य शीघ्रगान् ।
आगमिष्यन्ति कौन्तेयाः कुन्ती च सह कृष्णया ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि विदुरागमनराज्यलाभपर्वणि पञ्चविंशत्यधिकद्विशततमोऽध्यायः ॥ 225 ॥

अध्यायः 226

पाण्डवानां हास्तिनपुरगमनंप्रति श्रीकृष्णद्रुपदयोरश्यनुज्ञा ॥ 1 ॥ पृथाविदुरसंवादः ॥ 2 ॥ प्रस्थितानां पाण्डवानां द्रुपदेन पारिबर्हदानम् ॥ 3 ॥ प्रत्युद्गमनायागतैः कौरवैः सह पाण्डवानां भीष्मादिवन्दनपुरःसरं गृहप्रवेशः ॥ 4 ॥

द्रुपद उवाच ।
एवमेतन्महाप्राज्ञ यथात्थ विदुराद्य माम् ।
ममापि परमो हर्षः संबन्धेऽस्मिन्कृते प्रभो ॥
गमनं चापि युक्तं स्याद्दृढमेषां महात्मनाम् ।
न तु तावन्मया युक्तमेतद्वक्तुं स्वयं गिरा ॥
यदा तु मन्यते वीरः कुन्तीपुत्रो युधिष्ठिरः ।
भीमसेनार्जुनौ चैव यमौ च पुरुषर्षभौ ॥
रामकृष्णौ च धर्मज्ञौ तदा गच्छन्तु पाण्डवाः ।
एतौ हि पुरुषव्याघ्रावेषां प्रियहिते रतौ ॥
युधिष्ठिर उवाच ।
परवन्तो वयं राजंस्त्वयि सर्वे सहानुगाः ।
यथा वक्ष्यसि नः प्रीत्या तत्करिष्यामहे वयम् ॥
वैशंपायन उवाच ।
ततोऽब्रवीद्वासुदेवो गमनं रोचते मम ।
यथा वा मन्यते राजा द्रुपदः सर्वधर्मवित् ॥
द्रुपद उवाच ।
यथैव मन्यते वीरो दाशार्हः पुरुषोत्तमः ।
प्राप्तकालं महाबाहुः सा बुद्धिर्निश्चिता मम ॥
यथैव हि महाभागाः कौन्तेया मम सांप्रतम् ।
तथैव वासुदेवस्य पाण्डुपुत्रा न संशयः ॥
न तद्ध्यायति कौन्तेयः पाण्डुपुत्रो युधिष्ठिरः ।
यथैषां पुरुषव्याघ्रः श्रेयो ध्यायति केशवः ॥
वैशंपायन उवाच ।
`पृथायास्तु ततो वेश्म प्रविवेश महामतिः ।
पादौ स्पृष्ट्वा पृथायास्तु शिरसा च महीं गतः ॥
दृष्ट्वा तु देवरं कुन्ती शुशोच च मुहुर्मुहुः ।
कुन्त्युवाच ।
वैचित्रवीर्य ते पुत्राः कथंचिज्जीवितास्त्वया ॥
त्वत्प्रसादाज्जतुगृहे मृताः प्रत्यागतास्तथा ।
कूर्मी चिन्तयते पुत्रान्यत्र वा तत्र संमता ॥
चिन्तया वर्धिताः पुत्रा यथा कुशलिनस्तथा ।
तव पुत्रास्तु जीवन्ति त्वद्भक्त्या भरतर्षभ ॥
यथा परभृतः पुत्रानरिष्टा वर्धयेत्सदा ।
तथैव पुत्रास्तु मम त्वया तात सुरक्षिताः ॥
क्लेशास्तु बहवः प्राप्तास्तथा प्राणान्तिका मया ।
अतः परं न जानामि कर्तव्यं ज्ञातुमर्हसि ॥
विदुर उवाच ।
न विनश्यन्ति लोकेषु तव पुत्रा महाबलाः ।
अचिरेणैव कालेन स्वराज्यस्था भवन्ति ते ॥
बान्धवैः सहिताः सर्वे न शोकं कुरु माधवि ।
वैशंपायन उवाच ।'
ततस्ते समनुज्ञाता द्रुपदेन महात्मना ॥
पाण्डवाश्चैव कृष्णश्च विदुरश्च महामतिः ।
आदाय द्रौपदीं कृष्णां कुन्तीं चैव यशस्विनीम् ॥
सविहारं सुखं जग्मुर्नगरं नागसाह्वयम् ।
`सुवर्णकक्ष्याग्रैवेयान्सुवर्णाङ्कुशभूषितान् ॥
जाम्बूनदपरिष्कारान्प्रभिन्नकरटामुखान् ।
अधिष्ठितान्महामात्रैः सर्वशस्त्रसमन्वितान् ॥
सहस्रं प्रददौ राजा गजानां वरवर्मिणाम् ।
रथानां च सहस्रं वै सुवर्णमणिचित्रितम् ॥
चतुर्युजां भानुमच्च पञ्चानां प्रददौ तदा ।
सुवर्णपरिबर्हाणां वरचामरमालिनाम् ॥
जात्यश्वानां च पञ्चाशत्सहस्रं प्रददौ नृपः । दासीनामयुतं राजा प्रददौ वरभूषणम् ।
ततः सहस्रं दासानां प्रददौ वरधन्वनाम् ॥
हैमानि शय्यासनबाजनानि द्रव्याणि चान्यानि च गोधनानि ।
पृथक्पृथक्वैव ददौ स कोटिं पाञ्चालराजः परमप्रहृष्टः ॥
शिबिकानां शतं पूर्णं वाहान्पञ्चशतं नरान् ॥
एवमेतानि पाञ्चालो जन्यार्थे प्रददौ धनम् ।
हरणं चापि पाञ्चाल्या ज्ञातिदेयं च सोमकः ॥
धृष्टद्युम्नो ययौ तत्र भगिनीं गृह्य भारत । नानद्यमानो बहुशस्तूर्यघोषैः सहस्रशः ॥'
श्रुत्वा चोपस्थितान्वीरान्धृतराष्ट्रोऽम्बिकासुतः ।
प्रतिग्रहाय पाण्डूनां प्रेषयामास कौरवान् ॥
विकर्णं च महेष्वासं चित्रसेनं च भारत ।
द्रोणं च परमेष्वासं गौतमं कृपमेव च ॥
तैस्तैः परिवृताः शूरैः शोभमाना महारथाः ।
नगरं हास्तिनपुरं शनैः प्रविविशुस्तदा ॥
`पाण्डवानागताञ्छ्रुत्वा नागरास्तु कुतूहलात् ।
मण्डयाञ्चक्रिरे तत्र नगरं नागसाह्वयम् ॥
मुक्तपुष्पावकीर्णं तु जलसिक्तं तु सर्वतः ।
धूपितं दिव्यधूपेन मङ्गलैश्चाभिसंवृतम् ॥
पताकोच्छ्रितमाल्यं च पुरमप्रतिमं बभौ । शङ्खभेरीनिनादैश्च नानावादित्रनिस्वनैः ॥'
कौतूहलेन नगरं पूर्यमाणमिवाभवत् ।
यत्र ते पुरुषव्याघ्राः शोकदुःखसमन्विताः ॥
`निर्गताश्च पुरात्पूर्वं धृतराष्ट्रप्रबाधिताः ।
पुनर्निवृत्ता दिष्ट्या वै सह मात्रा परन्तपाः ॥
इत्येवमीरिता वाचो जनैः प्रियचिकीर्षुभिः ।' तत उच्चावचा वाचः प्रियाः सर्वत्र भारत ॥
उदीरितास्तदाऽशृण्वन्पाण्डवा हृदयंगमाः ।
पौरा ऊचुः
अयं स पुरुषव्याघ्रः पुनरायाति धर्मवित् ॥
यो नः स्वानिव दायादान्धर्मेण परिरक्षति ।
अद्य पाण्डुर्महाराजो वनादिव मनःप्रियम् ॥
आगतश्चैवमस्माकं चिकीर्षन्नात्र संशयः ।
किं न्वद्य सुकृतं कर्म सर्वेषां नः प्रियं परम् ॥
यन्नः कुन्तीसुता वीरा भर्तारः पुनरागताः । यदि दत्तं यदि हुतं यदि वाप्यस्ति नस्तपः ।
तेन तिष्ठन्तु नगरे पाण्डवाः शरदां शतम् ॥
ततस्ते धृतराष्ट्रस्य भीष्मस्य च महात्मनः ।
अन्येषां च तदर्हाणां चक्रुः पादाभिवन्दनम् ॥
पृष्टास्तु कुशलप्रश्नं सर्वेण नगरेण ते ।
समाविशन्त वेश्मानि धृतराष्ट्रस्य शासनात् ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि विदुरागमनराज्यलाभपर्वणि षड्विंशत्यधिकद्विशततमोऽध्यायः ॥ 226 ॥

अध्यायः 227

द्रौपद्या नमस्कृतया गान्धार्या तद्रूपदर्शनेन तस्याः स्वपुत्रमृत्युत्ववितर्कः ॥ 1 ॥ धृतराष्ट्रेण युधिष्ठिरस्य धर्मराज्येऽभिषेकः ॥ 2 ॥ पाण्डवानां खाण्डवप्रस्थगमनम् ॥ 3 ॥ श्रीकृष्णचिन्तितेनेन्द्रेण विश्वकर्मणः प्रेषणम् ॥ 4 ॥ विश्वकर्मणा इन्द्रप्रस्थपुरनिर्माणम् ॥ 5 ॥ तत्रागतानां सर्वेषां विसर्जनम् ॥ 6 ॥

`वैशंपायन उवाच ।
दुर्योधनस्य महिषी काशिराजसुता तदा ।
धृतराष्ट्रस्य पुत्राणां वधूभिः सहिता तदा ॥
पाञ्चालीं प्रतिजग्राह साध्वीं श्रियमिवापराम् ।
पूजयामास पूजार्हां शचीदेवीमिवागताम् ॥
ववन्दे तत्र गान्धारीं कृष्णया सह माधवी ।
आशिषश्च प्रयुक्त्वा तु पाञ्चालीं परिषस्वजे ॥
परिष्वज्यैव गान्धारी कृष्णां कमललोचनाम् ।
पुत्राणां मम पाञ्चाली मृत्युरेवेत्यमन्यत ॥
संचिन्त्य विदुरं प्राह युक्तितः सुबलात्मजा ।
कुन्तीं राजसुतां क्षत्तः सवधूं सपरिच्छदाम् ॥
पाण्डोर्निवेशनं शीघ्रं नीयतां यदि रोचते ।
करणेन मुहूर्तेन नक्षत्रेण शुभे तिथौ ॥
यथा सुखं तथा कुन्ती रंस्यते स्वगृहे सुतैः ।
तथेत्येव तदा क्षत्ता कारयामास तत्तथा ॥
पूजयामासुरत्यर्थं बान्धवाः पाण्डवांस्तदा ।
नागराः श्रेणिमुख्याश्च पूजयन्ति स्म पाण्डवान् ॥
भीष्मो द्रोणः कृपः कर्णो बाह्लीकः ससुतस्तदा ।
शासनाद्धृतराष्ट्रस्य अकुर्वन्नतिथिक्रियाम् ॥
एवं विहरतां तेषां पाण्डवानां महात्मनाम् । नेता सर्वस्य कार्यस्य विदुरो राजशासनात् ॥'
विश्रान्तास्ते महात्मानः कंचित्कालं सकेशवाः ।
आहूता धृतराष्ट्रेण राज्ञा शान्तनवेन च ॥
धृतराष्ट्र उवाच ।
भ्रातृभिः सह कौन्तेय निबोधेदं वचो मम ।
`पाण्डुना वर्धितं राज्यं पाण्डुना पालितं जगत् ॥
शासनान्मम कौन्तेय मम भ्राता महाबलः ।
कृतवान्दुष्करं कर्म नित्यमेव विशांपते ॥
तस्मात्त्वमपि कौन्तेय शासनं कुरु मा चिरम् ।
मम पुत्रा दुरात्मानः सर्वेऽहंकारसंयुताः ॥
शासनं न करिष्यन्ति मम नित्यं युधिष्ठिर । स्वकार्यनिरतैर्नित्यमवलिप्तैर्दुरात्मभिः ॥'
पुनर्वै विग्रहो मा भूत्खाण्डवप्रस्थमाविश ।
न हि वो वसतस्तत्र कश्चिच्छक्तः प्रबाधितुम् ॥
संरक्ष्यमाणान्पार्थेन त्रिदशानिव वज्रिणा ।
अर्धराज्यं तु संप्राप्य खाण्डवप्रस्थणाविश ॥
`केशवो यदि मन्यते तत्कर्तव्यमसंशयम् ॥'
वैशंपायन उवाच ।
प्रतिगृह्य तु तद्वाक्यं नृपं सर्वे प्रणम्य च ।
`वासुदेवेन संमन्त्र्य पाण्डवाः समुपाविशन् ॥
धृतराष्ट्र उवाच ।
अभिषेकस्य संभारान्क्षत्तरानय मा चिरम् ।
अभिषिक्तं करिष्यामि ह्यद्य वै कुरुनन्दनम् ॥
ब्राह्मणा नैगमश्रेष्ठाः श्रेणीमुख्याश्च सर्वतः ।
आहूयन्तां प्रकृतयो बान्धवाश्च विशेषतः ॥
पुण्याहं वाच्यतां तात गोसहस्रं प्रदीयताम् ।
ग्राममुख्याश्च विप्रेभ्यो दीयन्तां बहुदक्षिणाः ॥
अङ्गदे मकुटं क्षत्तर्हस्ताभरणमानय ।
मुक्तावलीश्च हारं च निष्काणि कटकानि च ॥
कटिबन्धश्च सूत्रं च तथोदरनिबन्धनम् ।
अष्टोत्तरसहस्रं तु ब्राह्मणाधिष्ठिता गजाः ॥
जाह्नवीसलिलं शीघ्रमानीयन्तां पुरोहितैः ।
अभिषेकोदकक्लिन्नं सर्वाभरणभूषितम् ॥
औपवाह्योपरिगतं दिव्यचारमरवीजितम् ।
सुवर्णमणिचित्रेण श्वेतच्छत्रेण शोभितम् ॥
जयेति द्विजवाक्येनु स्तूयमानं नृपैस्तथा ।
दृष्ट्वा कुन्तीसुतं ज्येष्ठमाजमीढं युधिष्ठिरम् ॥
प्रीताः प्रीतेन मनसा प्रशंसन्तु परे जनाः ।
पाण्डोः कृतोपकारस्य राज्यं दत्वा ममैव च ॥
प्रतिक्रिया कृतमिदं भविष्यति न संशयः ।
भीष्मो द्रोणः कृपः क्षत्ता साधुसाध्वित्यथाब्रुवन् ॥
श्रीवासुदेव उवाच ।
युक्तमेतन्महाभाग कौरवाणां यशस्करम् ।
शीघ्रमद्यैव राजेन्द्र त्वयोक्तं कर्तुमर्हसि ॥
इत्येवमुक्तो वार्ष्णेयस्त्वरयामास तत्तदा ।
तथोक्तं धृतराष्ट्रेण कारयामास केशवः ॥
तस्मिन्क्षणे महाराज कृष्णद्वैपायनस्तदा ।
आगत्य कुरुभिः सर्वैः पूजितः ससुहृद्गणैः ॥
मूर्धाभिषिक्तैः सहितो ब्राह्मणैर्वेदपारगैः ।
कारयामास विधिवत्केशवानुमते तदा ॥
कृपो द्रोणश्च भीष्मश्च धौम्यश्च व्यासकेशवौ ।
बाह्लीकः सोमदत्तश्च चातुर्वेद्यपुरस्कृताः ॥
अभिषेकं तदा चक्रुर्भद्रपीठे सुसंस्कृतम् ॥
व्यास उवाच ।
जित्वा तु पृथिवीं कृत्स्नां वशे कृत्वा नृपान्भवान् ।
राजसूयादिभिर्यज्ञैः क्रतुभिर्वरदक्षिणैः ॥
स्नात्वा ह्यवभृथस्नानं मोदतां बान्धवैः सह ।
एवमुक्त्वा तु ते सर्वे आशीर्भिरभिपूजयन् ॥
मूर्धाभिषिक्तः कौरव्यः सर्वाभरणभूषितः ।
जयेति संस्तुतो राजा प्रददौ धनमक्षयम् ॥
सर्वमूर्धाभिषिक्तैश्च पूजितः कुरनन्दनः ।
औपवाह्यमथारुह्य श्वेतच्छत्रेण शोभितः ॥
रराज राजाभिमतो महेन्द्र इव दैवतैः ।
ततः प्रदक्षिणीकृत्य नगरं नागसाह्वयम् ॥
प्रविवेश तदा राजा नागरैः पूजितो गृहम् ।
मूर्धाभिषिक्तं कौन्तेयमभ्यगच्छन्त कौरवाः ॥
गान्धारिपुत्राः शोचन्तः सर्वे ते सह बान्धवैः ।
ज्ञात्वा शोकं च पुत्राणां धृतराष्ट्रोऽब्रवीदिदं ॥
समक्षं वासुदेवस्य कुरूणां च समक्षतः ।
अभिषेकस्त्वया प्राप्तो दुष्प्रापो ह्यकृतात्मभिः ॥
गच्छ त्वमद्यैव नृप कृतकृत्योऽसि कौरव ।
आयुः पुरूरवा राजन्नहुषेण ययातिना ॥
तत्रैव निवसन्ति स्म खाण्डवे तु नृपोत्तम ।
राजधानी तु सर्वेषां पौरवाणां महाभुज ॥
विनाशितं मुनिगणैर्लोभाद्बुधसुतस्य वै ।
तस्मात्त्वं खाण्डवप्रस्थं पुरं राष्ट्रं च वर्धय ॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च कृतलक्षणाः ।
त्वद्भक्त्या जन्तवश्चान्ये भजन्त्येव पुरं शुभम् ॥
पुरं राष्ट्रं समृद्धं वै धनधान्यसमाकुलम् ।
तस्माद्गच्छस्व कौन्तेय भ्रातृभिः सहितोऽनघ ॥
वैशंपायन उवाच ।
प्रतिगृह्य तु तद्वाक्यं तस्मै सर्वे प्रणम्य च ।
रथैर्नागैर्हयैश्चापि सहितास्तु पदातिभिः ॥
प्रतस्थिरे ततो घोषसंयुक्तैः स्यन्दनैर्वरैः ।
तान्दृष्ट्वा नागराः सर्वे भक्त्या चैव प्रतस्थिरे ॥
गच्छतः पाण्डवैः सार्धं दृष्ट्वा नागपुरालयात् ।
पाण्डवैः सहिता गन्तुं नार्हतेति च नागरान् ॥
घोषयामास नगरे धार्तराष्ट्रः ससौबलः ।' ततस्ते पाण्डवास्तत्र गत्वा कृष्णपुरोगमाः ॥
मण्डयाञ्चक्रिरे तद्वै पुरं स्वर्गादिव च्युतम् ।
`वासुदेवो जगन्नाथश्चिन्तयामास वासवम् ॥
महेन्द्रश्चिन्तितो राजन्विश्वकर्माणमादिशत् ।
विश्वकर्मन्महाप्राज्ञ अद्यप्रभृति तत्पुरम् ॥
इन्द्रप्रस्थमिति ख्यातं दिव्यं भूम्यां भविष्यति ।
महेन्द्रशासनाद्गत्वा विश्वकर्मा तु केशवम् ॥
प्रणम्य प्रणिपातार्हं किं करोमीत्यभाषत ।
वासुदेवस्तु तच्छ्रुत्वा विश्वकर्माणमूचिवान् ॥
कुरुष्व कुरुराजस्य महेन्द्रपुरसन्निभम् ।
इन्द्रेण कृतनामानमिन्द्रप्रस्थं महापुरम् ॥
वैशंपायन उवाच ।'
ततः पुण्ये शिवे देशे शान्तिं कृत्वा महारथाः ।
स्वस्तिवाच्य यथान्यायमिन्द्रप्रस्थं भवत्विति ॥
तत्पुरं मापयामासुर्द्वैपायनपुरोगमाः । `ततः स विश्वकर्मा तु चकार पुरमुत्तमम् ॥'
सागरप्रतिरूपाभिः परिखाभिरलङ्कृतम् ।
प्राकारेण च संपन्नं दिवमावृत्य तिष्ठता ॥
पाण्डुराभ्रप्रकाशेन हिमरश्मिनिभेन च ।
शुशुभे तत्पुरश्रेष्ठं नागैर्भोगवती यथा ॥
द्विपक्षगरुडप्रख्यैर्द्वारैः सौधैश्च शोभितम् ।
गुप्तमभ्रचयप्रख्यैर्गोपुरैर्मन्दरोपमैः ॥
विविधैरपि निर्विद्धैः शस्त्रोपेतैः सुसंवृतैः ।
शक्तिभिश्चावृतं तद्धि द्विजिह्वैरिव पन्नगैः ॥
तल्पैश्चाभ्यासिकैर्युक्तं शुशुभे योधरक्षितम् ।
थीक्ष्णाङ्कुशशतघ्नीभिर्यन्त्रजालैश्च शोभितम् ॥
आयसैश्च महाचक्रैः शुशुभे तत्पुरोत्तमम् ।
सुविभक्तमहारथ्यं देवताबाधवर्जितम् ॥
विरोचमानं विविधैः पाण्डुरैर्भवनोत्तमैः ।
तत्त्रिविष्टपसंकाशमिन्द्रप्रस्थं व्यरोचत ॥
मेघवृन्दमिवाकाशे विद्धं विद्युत्समावृतम् ।
तत्र रम्ये शिवे देशे कौरव्यस्य निवेशनम् ॥
शुशुभे धनसंपूर्णं धनाध्यक्षक्षयोपमम् ।
तत्रागच्छन्द्विजा राजन्सर्ववेदविदां वराः ॥
निवासं रोचयन्ति स्म सर्वभाषाविदस्तथा ।
वणिजश्चाययुस्तत्र नानादिग्भ्यो धनार्थिनः ॥
सर्वशिल्पविदस्तत्र वासायाभ्यागमंस्तदा ।
उद्यानानि च रम्याणि नगरस्य समन्ततः ॥
आम्रैराम्रातकैर्नीपैरशोकैश्चम्पकैस्तथा ।
पुन्नागैर्नागपुष्पैश्च लकुचैः पनसैस्तथा ॥
शालतालतमालैश्च बकुलैश्च सकेतकैः ।
मनोहरैः सुपुष्पैश्च फलभारावनामितैः ॥
प्राचीनामलकैर्लोध्रैरङ्कोलैश्च सुपिष्पितैः ।
जम्बूभिः पाटलाभिश्च कुब्जकैरतिमुक्तकैः ॥
करवीरैः पारिजातैरन्यैश्च विविधैर्द्रुमैः ।
नित्यपुष्पफलोपेतैर्नानाद्विजगणायुतैः ॥
मत्तबर्हिणसंघुष्टकोकिलैश्च सदामदैः ।
गृहैरादर्शविमलैर्विविधैश्च लतागृहैः ॥
मनोहरैश्चित्रगृहैस्तथाऽजगतिप्रवतैः ।
वापीभिर्विविधाभिश्च पूर्णाभिः परमाम्भसा ॥
सरोभिरतिरम्यैश्च पद्मोत्पलसुगन्धिभिः ।
हंसकारण्डवयुतैश्चक्रवाकोपशोभितैः ॥
रम्याश्च विविधास्तत्र पुष्करिण्यो वनावृताः ।
तडागानि च रम्याणि बृहन्ति सुबहूनि च ॥
`नदी च नन्दिनी नाम सा पुरीमुपगूहति ।
चातुर्वर्ण्यसमाकीर्णमन्यैः शिल्पिभिरावृतम् ॥
सर्वदाभिसृतं सद्भिः कारितं विश्वकर्मणा ।
उपभोगसमृद्धैश्च सर्वद्रव्यसमावृतम् ॥
नित्यमार्यजनोपेतं नरनारीगणैर्युतम् ।
वाजिवारणसंपूर्णं गोभिरुष्ट्रैः खरैरजैः ॥
तत्त्रिविष्टपसङ्काशमिन्द्रप्रस्थं व्यरोचत ।
पुरीं सर्वगुणोपेतां निर्मितां विश्वकर्मणा ॥
पौरवाणामधिपतिः कुन्तीपुत्रो युधिष्ठिरः ।
कृतमङ्गलसत्कारैर्ब्राह्मणैर्वेदपारगैः ॥
द्वैपायनं पुरस्कृत्य धौम्यस्याभिमते स्थितः ।
भ्रातृभिः सहितो राजा राजमार्गमतीत्य च ॥
औपवाह्यगतो राजा केशवेन सहाभिभूः ।
तोरणद्वारसुमुखं द्वात्रिंशद्द्वारसंयुतम् ॥
वर्धमानपुरद्वारात्प्रविवेश महाद्युतिः ।
शङ्खदुन्दुभिनिर्घोषाः श्रूयन्ते बहवो भृशम् ॥
जयेति ब्राह्मणगिरः श्रूयन्ते च सहस्रशः ।
संस्तूयमानो मुनिभिः सूतमागधबन्दिभिः ॥
औपवाह्यगतो राजा राजमार्गमतीत्य च ।
कृतमङ्गलसत्कारं प्रविवेश गृहोत्तमम् ॥
प्रविश्य भवनं राजा नागरैरभिसंवृतः ।
प्रहृष्टमुदितैरासीत्सत्कारैरभिपूजितः ॥
पूजयामास विप्रेन्द्रान्केशेन महात्मना ।
ततस्तु राष्ट्रं नगरं नरनारीगणायुतम् ॥
गोधनैश्च समाकीर्णं सस्यैर्वृद्धिं तदागमत् ॥'
तेषां पुण्यजनोपेतं राष्ट्रमाविशतां महत् ।
पाण्डवानां महाराज शश्वत्प्रीतिरवर्धत ॥
`सौबलेन च कर्णेन धार्तराष्ट्रैः कृपेण च ।' तथा भीष्मेण राज्ञा च धर्मप्रणयिना सदा ॥
पाण्डवाः समपद्यन्त खाण्डवप्रस्थवासिनः ।
पञ्चभिस्तैर्महेष्वासैरिन्द्रकल्पैः समावृतम् ॥
शुशुभे तत्पुरश्रेष्ठं नागैर्भोगवती यथा ।
`ततस्तु विश्वकर्माणं पूजयित्वा विसृज्य च ॥
द्वैपायनं च संपूज्य विसृज्य च नराधिपः ।
वार्ष्णेयमब्रवीद्राजा गन्तुकामं कृतक्षणम् ॥
तव प्रसादाद्वार्ष्णेय राज्यं प्राप्तं मयाऽनघ ।
प्रसादादेव ते वीर शून्यं राष्ट्रं सुदुर्गमम् ॥
तवैव तु प्रसादेन राज्यस्थाश्च भवामहे ।
गतिस्त्वमापत्कालेऽपि पाण्डवानां च माधव ॥
ज्ञात्वा तु कृत्यं कर्तव्यं कारयस्व भवान्हि नः ।
यदिष्टमनुमन्तव्यं पाण्डवानां त्वयाऽनघ ॥
श्रीवासुदेव उवाच ।
त्वत्प्रभावान्महाराज्यं संप्राप्तं हि स्वधर्मतः ।
पितृपैतामहं राज्यं कथं न स्यात्तव प्रभो ॥
धार्तराष्ट्रा दुराचाराः किं करिष्यन्ति पाण्डवान् ।
यथेष्टं पालय जगच्छश्वद्धर्मधुरं वह ॥
पुनः पुनश्च संहर्षाद्ब्राह्मणान्भर पौरव ।
अद्यैव नारदः श्रीमानागमिष्यति सत्वरः ॥
आदत्स्व तस्य वाक्यानि शासनं कुरु तस्य वै ।
एवमुक्त्वा ततः कुन्तीमभिवाद्य जनार्दनः ॥
उवाच श्लक्ष्णया वाचा गमिष्यामि नमोस्तु ते ।
कुन्त्युवाच ।
जातुषं गृहमासाद्य मया प्राप्तं यदानघ ॥
आर्येण समभिज्ञातं त्वया वै यदुपुङ्गव ।
त्वया नाथेन गोविन्द दुःखं तीर्णं महत्तरम् ॥
त्वं हि नाथस्त्वनाथानां दरिद्राणां विशेषतः ।
सर्वदुःखानि शाम्यन्ति तव संदर्शनान्मम ॥
स्मरस्वैनान्महाप्राज्ञ तेन जीवन्ति पाण्डवाः ॥
वैशंपायन उवाच ।
करिष्यामीति चामन्त्र्य अभिवाद्य पितृष्वसाम् । गमनाय मतिं चक्रे वासुदेवः सहानुगः ॥'
तान्निवेश्य ततो वीरः सह रामेण कौरवान् ।
ययौ द्वारवतीं राजन्पाण्डवानुमते तदा ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि विदुरागमनराज्यलाभपर्वणि सप्तविंशत्यधिकद्विशततमोऽध्यायः ॥ 227 ॥

अध्यायः 228

पाण्डवानां समीपे नारदागमनम् ॥ 1 ॥

जनमेजय उवाच ।
एवं संप्राप्य राज्यं तदिन्द्रप्रस्थे तपोधन ।
अत ऊर्ध्वं नरव्याघ्राः किमकुर्वत पाण्डवाः ॥
सर्व एव महात्मानः सर्वे मम पितामहाः ।
द्रौपदी धर्मपत्नी च कथं तानन्ववर्तत ॥
कथमासुश्च कृष्णायामेकस्यां ते नरर्षभाः ।
वर्तमाना महाभागा नाभिद्यन्त परस्परम् ॥
श्रोतुमिच्छाम्यहं तत्र विस्तरेण यथातथम् ।
तेषां चेष्टितमन्योन्यं युक्तानां कृष्णया सह ॥
वैशंपायन उवाच ।
धृतराष्ट्राभ्यनुज्ञाता इन्द्रप्रस्थं प्रविश्य तत् ।
रेमिरे पुरुषव्याघ्राः कृष्णया सह पाण्डवाः ॥
प्राप्य राज्यं महातेजाः सत्यसन्धो युधिष्ठिरः ।
पालयामास धर्मेण पृथिवीं भ्रातृभिः सह ॥
जितारयो महात्मानः सत्यधर्मपरायणाः ।
एवं पुरमिदं प्राप्य तत्रोषुः पाण्डुनन्दनाः ॥
कुर्वाणाः पौरकार्याणि सर्वाणि भरतर्षभाः ।
आसांचक्रुर्महार्हेषु पार्थिवेष्वासनेषु च ॥
तेषु तत्रोपविष्टेषु पाण्डवेषु महात्मसु ।
आययौ धर्मराजं तु द्रष्टुकामोऽथ नारदः ॥
`पथा नक्षत्रजुष्टेन सुपर्णाचरितेन च ।
चन्द्रसूर्यप्रकाशेन सेवितेन महर्षिभिः ॥
नभस्स्थलेन दिव्येन दुर्लभेनातपस्विनाम् ।
भूतार्चितो भूतधरां राष्ट्रमन्दिरभूषिताम् ॥
अवेक्षमाणो द्युतिमानाजगाम महातपाः ।
सर्ववेदान्तगो विप्रः सर्ववेदाङ्गपारगः ॥
परेण तपसा युक्तो ब्राह्मेण तपसा वृतः ।
नये नीतौ च निस्तो विश्रुतश्च महामुनिः ॥
परात्परतरं प्राप्तो धर्मान्समभिजग्मिवान् ।
भावितात्मा गतरजाः शान्तो मृदुर्ऋजुर्दिवजः ॥
धर्मेणाधिगतः सर्वैर्देवदानवमानुषैः ।
क्षीणकर्मसु पापेषु भूतेषु विविधेषु च ॥
सर्वथा कृतमर्यादो वेदेषु विविधेषु च ।
शतशः सोमपा यज्ञे पुण्ये पुण्यकृदग्निचित् ॥
ऋक्सामयजुषां वेत्ता न्यायदृग्धर्मकोविदः ।
ऋजुरारोहबान्वृद्धो भूयिष्ठपथिकोऽनघः ॥
श्लक्ष्णया शिखयोपेतः संपन्नः परमत्विषा ।
अवदाते च सूक्ष्मे च दिव्ये च रचिते शुभे ॥
महेन्द्रदत्ते महती बिभ्रत्परमवाससी ।
जाम्बूनदमये दिव्ये गण्डूपदमुखे नवे ॥
अग्न्यर्कसदृशे दिव्ये धारयन्कुण्डले शुभे ।
राजतच्छत्रमुच्छ्रित्य चित्रं परमवर्चसम् ॥
प्राप्य दुष्प्रापमन्येन ब्रह्मवर्चसमुत्तमम् ।
भवने भूमिपालस्य बृहस्पतिरिवाप्लुतः ॥
संहितायां च सर्वेषां स्थितस्योपस्थितस्य च ।
द्विपदस्य च धर्मस्य क्रमधर्मस्य पारगः ॥
गाधा सामानुसामज्ञः साम्नां परमवल्गुनाम् ।
आत्मनः सर्वमोक्षिभ्यः कृतिमान्कृत्यवित्सदा ॥
यजुर्धर्मैर्बहुविधैर्मतो मतिमतां वरः ।
विदितार्थः समश्चैव च्छेत्ता निगमसंशयान् ॥
अर्थनिर्वचने नित्यं संशयच्छिदसंशयः ।
प्रकृत्या धर्मकुशलो दाता धर्मविशारदः ॥
लोपेनागमधर्मेण संक्रमेण च वृत्तिषु ।
एकशब्दांश्च नानार्थानेकार्थांश्च पृथक्कृतान् ॥
पृथगर्थाभिधानांश्च प्रयोगानन्ववेक्षिता ।
प्रमाणभूतो लोकेषु सर्वाधिकरणेषु च ॥
सर्ववर्णविकारेषु नित्यं कुशलपूजितः ।
स्वरेऽस्वरे च विविधे वृत्तेषु विविधेषु च ॥
समस्थानेषु सर्वेषु समाम्नायेषु धातुषु ।
उद्देश्यानां समाख्याता सर्वमाख्यातमुद्दिशन् ॥
अभिसन्धिषु तत्त्वज्ञः पदान्यङ्गान्यनुस्मरन् ।
कालधर्मेण निर्दिष्टं यथार्थं च विचारयन् ॥
चिकीर्षितं च यो वेत्ता यथा लोकेन संवृतम् ।
विभाषितं च समयं भाषितं हृदयंगमम् ॥
आत्मने च परस्मै च स्वरसंस्कारयोगवित् ।
एषां स्वराणां ज्ञाता च बोद्धा प्रवचनः स्वराट् ॥
विज्ञाता चोक्तवाक्यानामेकतां बहुतां तथा ।
बोद्धा हि परमार्थांश्च विविधांश्च व्यतिक्रमान् ॥
अभेदतश्च बहुशो बहुशश्चापि भेदतः ।
वक्ता विविधवाक्यानां नानादेशसमीक्षिता ॥
पञ्चागमांश्च विविधानादेशांश्च समीक्षिता ।
नानार्थकुशलस्तत्र तद्धितेषु च कृत्स्नशः ॥
परिभूषयिता वाचां वर्णतः स्वरतोऽर्थतः ।
प्रत्ययं च समाख्याता नियतं प्रतिधातुकम् ॥
पञ्च चाक्षरजातानि स्वरसंज्ञानि यानि च । तमागतमृषिं दृष्ट्वा प्रत्युद्गम्याभिवाद्य च ॥'
आसनं रुचिरं तस्मै प्रददौ स युधिष्ठिरः । `कृष्णाजिनोत्तरे तस्मिन्नुपविष्टो महानृषिः ॥'
देवर्षेरुपविष्टस्य स्वयमर्ध्यं यथाविधि । प्रादाद्युधिष्ठिरो धीमान्राज्यं तस्मै न्यवेदयत् ।
प्रतिगृह्य तु तां पूजामृषिः प्रीतमनास्तदा ॥
आशीर्भिर्वर्धयित्वा च तमुवाचास्यतामिति ।
निषसादाभ्यनुज्ञातस्ततो राजा युधिष्ठिरः ॥
प्रेषयामास कृष्णायै भगवन्तमुपस्थितम् ।
श्रुत्वैतद्द्रौपदी चापि शुचिर्भूत्वा समाहिता ॥
जगाम तत्र यत्रास्ते नारदः पाण्डवैः सह ।
तस्याभिवाद्य चरणौ देवर्षेर्धर्मचारिणी ॥
कृताञ्जलिः सुसंवीता स्थिताऽथ द्रुपदात्मजा ।
तस्याश्चापि स धर्मात्मा सत्यवागृषिसत्तमः ॥
आशिषो विविधाः प्रोच्य राजपुत्र्यास्तु नारदः ।
गम्यतामिति होवाच भगवांस्तामनिन्दिताम् ॥
गतायामथ कृष्णायां युधिष्ठिरपुरोगमान् ।
विविक्ते पाण्डवान्सर्वानुवाच भगवानृषिः ॥
पाञ्चाली भवतामेका धर्मपत्नी यशस्विनी ।
यथा वो नात्र भेदः स्यात्तथा नीतिर्विधीयतां ॥
सुन्दोपसुन्दौ हि पुरा भ्रातरौ सहितावुभौ ।
आस्तामवध्यावन्येषां त्रिषु लोकेषु विश्रुतौ ॥
एकराज्यावेकगृहावेकशय्यासनाशनौ ।
तिलोत्तमायास्तौ हेतोरन्योन्यमभिजघ्नतुः ॥
रक्ष्यतां सौहृदं तस्मादन्योन्यप्रीतिभावकम् ।
यथा वो नात्र भेदः स्यात्तत्कुरुष्व युधिष्ठिर ॥
युधिष्ठिर उवाच ।
सुन्दोपसुन्दावसुरौ कस्य पुत्रौ महामुने ।
उत्पन्नश्च कथं भेदः कथं चान्योन्यमघ्नताम् ॥
अप्सरा देवकन्या वै कस्य चैषा तिलोत्तमा ।
यस्याः कामेन संमत्तौ जघ्नतुस्तौ परस्परम् ॥
एतत्सर्वं यथा वृत्तं विस्तरेण तपोधन ।
श्रोतुमिच्छामहे ब्रह्मन्परं कौतूहलं हि मे ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि विदुरागमनराज्यलाभपर्वणि अष्टाविंशत्यधिकद्विशततमोऽध्यायः ॥ 228 ॥

अध्यायः 229

सुन्दोपसुन्दकथा--सुन्दोपसुन्दयोर्ब्रह्मणो वरलाभः ॥ 1 ॥

नारद उवाच ।
शणु मे विस्तरेणेममितिहासं पुरातनम् ।
भ्रातृभिः सहितः पार्थ यथा वृत्तं युधिष्ठिर ॥
महासुरस्यान्ववाये हिरण्यकशिपोः पुरा ।
निकुम्भो नाम दैत्येन्द्रस्तेजस्वी बलवानभूत् ॥
तस्य पुत्रौ महावीर्यौ जातौ भीमपराक्रमौ ।
सुन्दोपसुन्दौ दैत्येन्द्रौ दारुणौ क्रूरमानसौ ॥
तावेकनिश्चयौ दैत्यावेककार्यार्थसंमतौ ।
निरन्तरमवर्तेतां समदुःखसुखावुभौ ॥
विनाऽन्योन्यं न भुञ्जाते विनाऽन्योन्यं न जल्पतः ।
अन्योन्यस्य प्रियकरावन्योन्यस्य प्रियंवदौ ॥
एकशीलसमाचारौ द्विधैवैकोऽभवत्कृतः ।
तौ विवृद्धौ महावीर्यौ कार्येष्वप्येकनिश्चयौ ॥
त्रैलोक्यविजयार्थाय समाधायैकनिश्चयम् ।
दीक्षां कृत्वा गतौ विन्ध्यं तावुग्रं तेपतुस्तपः ॥
तौ तु दीर्घेण कालेन तपोयुक्तौ बभूवतुः ।
क्षुत्पिपासापरिश्रान्तौ जटावल्कलधारिणौ ॥
मलोपचितसर्वाङ्गौ वायुभक्षौ बभूवतुः । आत्ममांसानि जुह्वान्तौ पादाङ्गुष्ठाग्रधिष्ठितौ ।
ऊर्ध्वबाहू चानिमिषौ दीर्घकालं धृतव्रतौ ॥
तयोस्तपःप्रभावेण दीर्घकालं प्रतापितः ।
धूमं प्रमुमुचे विन्ध्यस्तद्भुतमिवाभवत् ॥
ततो देवा भयं जग्मुरुग्रं दृष्ट्वा तयोस्तपः ।
तपोविघातार्थमथो देवा विघ्नानि चक्रिरे ॥
रत्नैः प्रलोभयामासुः स्त्रीभिश्चोभौ पुनःपुनः ।
न च तौ चक्रतुर्भङ्गं व्रतस्य सुमहाव्रतौ ॥
अथ मायां पुनर्देवास्तयोश्चक्रुर्महात्मनोः ।
भगिन्यो मातरो भार्यास्तयोश्चात्मजनस्तथा ॥
प्रपात्यमाना विस्रस्ताः शूलहस्तेन रक्षसा ।
भ्रष्टाभरणकेशान्ता भ्रष्टाभरणवाससः ॥
अभिभाष्य ततः सर्वास्तौ त्राहीति विचुक्रुशुः ।
न च तौ चक्रतुर्भङ्गं व्रतस्य सुमहाव्रतौ ॥
यदा क्षोभं नोपयाति नार्तिमन्यतरस्तयोः ।
ततः स्त्रियस्ता भूतं च सर्वमन्तरधीयत ॥
ततः पितामहः साक्षादभिगम्य महासुरौ ।
वरेण च्छ्दयामास क्वलोकहितः प्रभुः ॥
ततः सुन्दोपसुन्दौ तौ भ्रातरौ दृढविक्रमौ ।
दृष्ट्वा पितामहं देवं तस्थतुः प्राञ्जली तदा ॥
ऊचतुश्च प्रभुं देवं ततस्तौ सहितौ तदा ।
आवयोस्तपसाऽनेन यदि प्रीतः पितामहः ॥
मायाविदावस्त्रविदौ बलिनौ कामरूपिणौ ।
उभावप्यमरौ स्यावः प्रसन्नो यदि नौ प्रभुः ॥
ब्रह्मोवाच ।
ऋतेऽमरत्वं युवयोः सर्वमुक्तं भविष्यति ।
अन्यद्वृणीतं मृत्योश्च विधानममरैः सम् ॥
प्रभविष्याव इति यन्महदभ्युद्यतं तपः ।
युवयोर्हेतुनानेन नामरत्वं विधीयते ॥
त्रैलोक्यविजयार्थाय भवद्भ्यामास्थितं तपः ।
हेतुनाऽनेन दैत्येन्द्रौ न वां कामं करोम्यहम् ॥
सुन्दोपसुन्दावूचतुः । त्रिषु लोकेषु यद्भूतं किंचित्स्थावरजङ्गमम् ।
सर्वस्मान्नौ भयं न स्यादृतेऽन्योन्यं पितामह ॥
पितामह उवाच ।
यत्प्रार्थितं यथोक्तं च काममेतद्ददानि वाम् ।
मृत्योर्विधानमेतच्च यथावद्वा भविष्यति ॥
नारद उवाच ।
ततः पितामहो दत्त्वा वरमेतत्तदा तयोः ।
निवर्त्य तपसस्तौ च ब्रह्मलोकं जगाम ह ॥
लब्ध्वा वराणि दैत्येन्द्रावथ तौ भ्रातरावुभौ ।
अवध्यौ सर्वलोकस्य स्वमेव भवनं गतौ ॥
तौ तु लब्धवरौ दृष्ट्वा कृतकामौ मनस्विनौ ।
सर्वः सुहृञ्जनस्ताभ्यां प्रहर्षमुपजग्मिवान् ॥
ततस्तौ तु जटा भित्त्वा मौलिनौ संबभूवतुः ।
महार्हाभरणोपेतौ विरजोम्बरधारिणौ ॥
अकालकौमुदीं चैव चक्रतुः सार्वकालिकीम् ।
नित्यः प्रमुदितः सर्वस्तयोश्चैव सुहृञ्जनः ॥
भक्ष्यतां भुज्यतां नित्यं दीयतां रम्यतामिति ।
गीयेतां पीयतां चेति शभ्दश्चासीद्गृहे गृहे ॥
तत्रतत्र महानादैरुत्कृष्टतलनादितैः ।
हृष्टं प्रमुदितं सर्वं दैत्यानामभवत्पुरम् ॥
तैस्तैर्विहारैर्बहुभिर्दैत्यानां कामरूपिणाम् ।
समाः संक्रीडतां तेषामहरेकमिवाभवत् ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि विदुरागमनराज्यलाभपर्वणि एकोनत्रिंशदधिकद्विशततमोऽध्यायः ॥ 229 ॥

अध्यायः 230

सुन्दोपसुन्दयोः दिग्विजयः कुरुक्षेत्रे निवासश्च ॥ 1 ॥

नारद उवाच ।
उत्सवे वृत्तमात्रे तु त्रैलोक्याकाङ्क्षिणावुभौ ।
मन्त्रयित्वा ततः सेनां तावज्ञापयतां तदा ॥
सुहृद्भिरप्यनुज्ञातौ दैत्यैर्वृद्धैश्च मन्त्रिभिः ।
कृत्वा प्रास्थानिकं रात्रौ मघासु ययतुस्तदा ॥
गदापिट्टशधारिण्या शूलमुद्गरहस्तया ।
प्रस्थितौ सह वर्मिण्या महत्या दैत्यसेनया ॥
मङ्गलैः स्तुतिभिश्चापि विजयप्रतिसंहितैः ।
चारणैः स्तूयमानौ तौ जग्मतुः परया मुदा ॥
तावन्तरिक्षमुत्प्लुत्य दैत्यौ कामगमावुभौ ।
देवानामेव भवनं जग्मतुर्युद्दुर्मदौ ॥
तयोरागमनं ज्ञात्वा वरदानं च तत्प्रभोः ।
हित्वा त्रिविष्टपं जग्मुर्ब्रह्मलोकं ततः सुराः ॥
ताविन्द्रलोकं निर्जित्य यक्षरक्षोगणांस्तदा ।
खेचराण्यपि भूतानि जघ्नतुस्तीव्रविक्रमौ ॥
अन्तर्भूमिगतान्नागाञ्जित्वा तौ च महारथौ ।
समुद्रवासिनीः सर्वा म्लेच्छजातीर्विजिग्यतुः ॥
ततः सर्वां महीं जेतुमारब्धावुग्रशासनौ ।
सैनिकांश्च समाहूय सुतीक्ष्णं वाक्यमूचतुः ॥
राजर्षयो महायज्ञैर्हव्यकव्यैर्द्विजातयः ।
तेजो बलं च देवानां वर्धन्ति श्रियं तथा ॥
तेषामेवं प्रवृत्तानां सर्वेषामसुरद्विषाम् ।
संभूय सर्वैरस्माभिः कार्यः सर्वात्मना वधः ॥
एवं सर्वान्समादिश्य पूर्वतीरे महोदधेः ।
क्रूरां मतिं समास्थाय जग्मतुः सर्वतोमुखौ ॥
यज्ञैर्यजन्ति ये केचिद्याजयन्ति च ये द्विजाः ।
तान्सर्वान्प्रसभं हत्वा बलिनौ जग्मतुस्ततः ॥
आश्रमेष्वग्निहोत्राणि मुनीनां भावितात्मनाम् ।
गृहीत्वा प्रक्षिपन्त्यप्सु विश्रब्धं सैनिकास्तयोः ॥
तपोधनैश्च ये क्रुद्धैः शापा उक्ता महात्मभिः ।
नाक्रामन्त तयोस्तेऽपि वरदाननिराकृताः ॥
नाक्रामन्त यदा शापा बाणा मुक्ताः शिलास्विव ।
नियमान्संपरित्यज्य व्यद्रवन्त द्विजातयः ॥
पृथिव्यां ये तपःसिद्धा दान्ताः शमपरायणाः ।
तयोर्भयाद्दुद्रुवुस्ते वैनतेयादिवोरगाः ॥
मथितैराश्रमैर्भग्नैर्विकीर्णकलशस्रुवैः ।
शून्यमासीज्जगत्सर्वं कालेनेव हतं तदा ॥
ततो राजन्नदृश्यद्भिर्ऋषिभिश्च महासुरौ ।
उभौ विनिश्चयं कृत्वा विकुर्वाते वधैषिणौ ॥
प्रभिन्नकरटौ मत्तौ भूत्वा कुञ्जररूपिणौ ।
संलीनमपि दुर्गेषु निन्यतुर्यमसादनम् ॥
सिंहौ भूत्वा पुनर्व्याघ्रौ पुनश्चान्तर्हितावुभौ ।
तैस्तैरुपायैस्तौ क्रूरावृषीन्दृष्ट्वा निजघ्नतुः ॥
निवृत्तयज्ञस्वाध्याया प्रनष्टनृपतिद्विजा ।
उत्सन्नोत्सवयज्ञा च बभूव वसुधा तदा ॥
हाहाभूता भयार्ता च निवृत्तविपणापणा ।
निवृत्तदेवकार्या च पुण्योद्वाहविवर्जिता ॥
निवृत्तकृषिगोरक्षा विध्वस्तनगराश्रमा ।
अस्थिकङ्कालसंकीर्णा भूर्बभूवोग्रदर्शना ॥
निवृत्तपितृकार्यं च निर्वषट्कारमङ्गलम् ।
जगत्प्रतिभयाकारं दुष्प्रेक्ष्यमभवत्तदा ॥
चन्द्रादित्यौ ग्रहास्तारा नक्षत्राणि दिवौकसः ।
जग्मुर्विषादं तत्कर्म दृष्ट्वा सुन्दोपसुन्दयोः ॥
एवं सर्वा दिशो दैत्यौ जित्वा क्रूरेण कर्मणा ।
निःसपत्नौ कुरुक्षेत्रे निवेशमभिचक्रतुः ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि विदुरागमनराज्यलाभपर्वणि त्रिंशदधिकद्विशततमोऽध्यायः ॥ 230 ॥

1-230-3 प्रस्थितौ सहधर्मिण्या इति ख.पाठः । जयमरणरूपतुल्यधर्म पत्येत्यर्थः । रत्नo ॥ 1-230-19 अदृश्यद्भिः अदृश्यैः तृतीयाचेयं सप्तर्म्येथ ऋषिष्वदृश्येषु सत्स्वित्यर्थः ॥ त्रिंशदधिकद्विशततमोऽध्यायः ॥ 230 ॥

अध्यायः 231

सुन्दोपसुन्दकृतोपद्रवं निवेद्य देवादिभिः प्रार्थितेन ब्रह्मणा आज्ञप्तेन विश्वकर्मणा तिलोत्तमासृष्टिः ॥ 1 ॥ तिलोत्तमया ब्रह्माज्ञास्वीकारः ॥ 2 ॥

नारद उवाच ।
ततो देवर्षयः सर्वे सिद्धाश्च परमर्षयः ।
जग्मुस्तदा परमार्तिं दृष्ट्वा तत्कदनं महत् ॥
तेऽभिजग्मुर्जितक्रोधा जितात्मानो जितेन्द्रियाः ।
पितामहस्य भनं जगतः कृपया तदा ॥
ततो ददृशुरासीनं सह देवैः पितामहम् ।
सिद्धैर्ब्रह्मर्षिभिश्चैव समन्तात्परिवारितम् ॥
तत्र देवो महादेवस्तत्राग्निर्वायुना सह ।
चन्द्रादित्यौ च शक्रश्च पारमेष्ठ्यास्तथर्षयः ॥
वैखानसा वालखिल्या वानप्रस्था मरीचिपाः ।
अजाश्चैवाविमूढाश्च तेजोगर्भास्तपस्विनः ॥
ऋषयः सर्व एवैते पितामहमुपागमन् ।
ततोऽभिगम्य ते दीनाः सर्व एव महर्षयः ॥
सुन्दोपसुन्दयौः कर्म सर्वमेव शशंसिरे ।
यथा हृतं यथा चैव कृतं येन क्रमेण च ॥
न्यवेदयंस्ततः सर्वमखिलेन पितामहे ।
ततो देवगणाः सर्वे ते चैव परमर्षयः ॥
तमेवार्थं पुरस्कृत्य पितामहमचोदयन् ।
ततः पितामहः श्रुत्वा सर्वेषां तद्वचस्तदा ॥
मुहूर्तमिव संचिन्त्य कर्तव्यस्य च निश्चयम् ।
तयोर्वधं समुद्दिश्य विश्वकर्माणमाह्वयत् ॥
दृष्ट्वा च विश्वकर्माणं व्यादिदेश पितामहः ।
सृज्यतां प्रार्थनीयैका प्रमदेति महातपाः ॥
पितामहं नमस्कृत्य तद्वाक्यमभिनन्द्य च ।
निर्ममे योषितं दिव्यां चिन्तयित्वा पुनःपुनः ॥
त्रिषु लोकेषु यत्किंचिद्भूतं स्थावरजङ्गमम् ।
समानयद्दर्शनीयं तत्तदत्र स विश्ववित् ॥
कोटिशश्चैव रत्नानि तस्या गात्रे न्यवेशत् ।
तां रत्नसङ्घातमयीमसृजद्देवरूपिणीम् ॥
सा प्रयत्नेन महता निर्मिता विश्वकर्मणा ।
त्रिषु लोकेषु नारीणां रूपेणाप्रतिमाभवत् ॥
न तस्याः सूक्ष्ममप्यस्ति यद्गात्रे रूपसंपदा ।
नियुक्ता यत्र वा दृष्टिर्न सज्जति निरीक्षताम् ॥
सा विग्रहवतीव श्रीः कामरूपा वपुष्मती ।
`पितामहमुपातिष्ठत्किं करोमीति चाब्रवीत् ॥
प्रीतो भूत्वा स दृष्ट्वैव प्रीत्या चास्यै वरं ददौ ।
कान्तत्वं सर्वभूतानां साश्रियानुत्तमं वपुः ॥
सा तेन वरदानेन कर्तुश्च क्रियया तदा ।' जहार सर्वभूतानां चक्षूंषि च मनांसि च ॥
तिलंतिलं समानीय रत्नानां यद्विनिर्मिता ।
तिलोत्तमेति तत्तस्या नाम चक्रे पितामहः ॥
ब्रह्माणं सा नमस्कृत्य प्राञ्जलिर्वाक्यमब्रवीत् ।
किं कार्यं मयि भूतेश येनास्म्यद्येह निर्मिता ॥
पितामह उवाच ।
गच्छ सुन्दोपसुन्दाभ्यामसुराभ्यां तिलोत्तमे ।
प्रार्थनीयेन रूपेण कुरु भद्रे प्रलोभनम् ॥
त्वत्कृते दर्शादेव रूपसंपत्कृतेन वै ।
विरोधः स्याद्यथा ताभ्यामन्योन्येन तथा कुरु ॥
नारद उवाच ।
सा तथेति प्रतिज्ञाय नमस्कृत्य पितामहम् ।
चकार मण्डलं तत्र विबुधानां प्रदक्षिणम् ॥
प्राङ्मुखो भगवानास्ते दक्षिणेन महेश्वरः ।
देवाश्चैवोत्तरेणासन्सर्वतस्त्वृषयोऽभवन् ॥
कुर्वन्त्यां तु तदा तत्र मण्डलं तत्प्रदक्षिणम् ।
इन्द्रः स्थाणुश्च भगवान्धैर्येण तु परिच्युतौ ॥
द्रष्टुकामस्य चात्यर्थं गतायां पार्श्वतस्तथा ।
अन्यदञ्चितपद्माक्षं दक्षिणं निःसृतं मुखम् ॥
पृष्ठतः परिवर्तन्त्यां पश्चिमं निःसृतं मुखम् ।
गतायां चोत्तरं पार्श्वमुत्तरं निःसृतं मुखम् ॥
महेन्द्रस्यापि नेत्राणां पृष्ठतः पार्श्वतोग्रतः ।
रक्तान्तानां विशालानां सहस्रं सर्वतोऽभवत् ॥
एवं चतुर्मुखः स्थाणुर्महादेवोऽभवत्पुरा ।
तथा सहस्रनेत्रश्च बभूव बलसूदनः ॥
तथा देवनिकायानां महर्षीणां च सर्वशः ।
मुखानि चाभ्यवर्तन्त येन याति तिलोत्तमा ॥
तस्या गात्रे निपतिता दृष्टिस्तेषां महात्मनाम् ।
सर्वेषामेव भूयिष्ठमृते देवं पितामहम् ॥
गच्छन्त्यां तु तया सर्वे देवाश्च परमर्षयः ।
कृतमित्येव तत्कार्यं मेनिरे रूपसंपदा ॥
तिलोत्तमायां तस्यां तु गतायां लोकभावनः । `कृतं कार्यमिति श्रीमानब्रवीच्च पितामहः ।'
सर्वान्विसर्जयामास देवानृषिगणांश्च तान् ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि विदुरागमनराज्यलाभपर्वणि एकत्रिंशदधिकद्विशततमोऽध्यायः ॥ 231 ॥

1-231-23 ताभ्यां तयोः ॥ 1-231-31 देवनिकायानां देवसङ्घानां येन देशेन मार्गेण सा याति तथा मुखान्यभ्यवर्तन्त ॥ एकत्रिंशदधिकद्विशततमोऽध्यायः ॥ 231 ॥

अध्यायः 232

सुन्दोपसुन्दलमीपे तिलोत्तमाया आगमनम् ॥ 1 ॥ तस्यां सकामयोस्तयोः परस्परं गदाप्रहारेण मरणम् ॥ 2 ॥ तिलोत्तमाया ब्रह्मणा वरदानम् ॥ 3 ॥ नारदोक्तामिमां कथां श्रुतवद्भिः पाण्डवैः तत्समक्षं द्रौपदीविषये समयकरणम् ॥ 4 ॥

नारद उवाच ।
जित्वा तु पृथिवीं दैत्यौ निःसपत्नौ गतव्यथौ ।
कृत्वा त्रैलोक्यमव्यग्रं कृतकृत्यौ बभूवतुः ॥
देवगन्धर्वयक्षाणां नागपार्थिवरक्षसाम् ।
आदाय सर्वरत्नानि परां तुष्टिमुपागतौ ॥
यदा न प्रतिषेद्धारस्तयोः सन्तीह केचन ॥
निरुद्योगौ तदा भूत्वा विजह्रातेऽमराविव ॥
स्त्रीभिर्माल्यैश्च गन्धैश्च भक्ष्यभोज्यैः सुपुष्कलैः ।
पानैश्च विविधैर्हृद्यैः परां प्रीतिमवापतुः ॥
अन्तःपुरवनोद्याने पर्वतेषु वनेषु च ।
यथेप्सितेषु देशेषु विजह्रातेऽमराविव ॥
ततः कदाचिद्विन्ध्यस्य प्रस्थे समशिलातले ।
पुष्पिताग्रेषु सालेषु विहारमभिजग्मतुः ॥
दिव्येषु सर्वकामेषु समानीतेषु तावुभौ ।
वरासनेषु संहृष्टौ सह स्त्रीभिर्निषीदतुः ॥
ततो वादित्रनृत्ताभ्यामुपातिष्ठन्त तौ स्त्रियः ।
गीतैश्च स्तुतिसंयुक्तैः प्रीत्या समुपजग्मिरे ॥
ततस्तिलोत्तमा तत्र वने पुष्पाणि चिन्वती ।
वेषं सा क्षिप्तमाधाय रक्तेनैकेन वाससा ॥
नदीतीरेषु जातान्सा कर्णिकारान्प्रचिन्वती ।
शनैर्जगाम तं देशं यत्रास्तां तौ महासुरौ ॥
तौ तु पीत्वा वरं पानं मदरक्तान्तलोचनौ ।
दृष्ट्वैव तां वरारोहां व्यथितौ संबभूवतुः ॥
तावुत्थायासनं हित्वा जग्मतुर्यत्र सा स्थिता ।
उभौ च कामसंमत्तावुभौ प्रार्थयतश्च ताम् ॥
दक्षिणे तां करे सुभ्रूं सुन्दो जग्राह पाणिना ।
उपसुन्दोपि जग्राह वामे पाणौ तिलोत्तमाम् ॥
वरप्रदानमत्तौ तावौरसेन बलेन च ।
धनरत्नमदाभ्यां च सुरापानमदेन च ॥
सर्वैरेतैर्मदैर्मत्तावन्योन्यं भ्रुकुटीकृतौ ।
मदकामसमाविष्टौ परस्परमथोचतुः ॥
मम भार्या तव गुरुरिति सुन्दोऽभ्यभाषत ।
मम भार्या तव वधूरुपसुन्दोऽभ्यभाषत ॥
नैषा तव ममैषेति ततस्तौ मन्युराविशत् ।
तस्या रूपेण संमत्तौ विगतस्नेहसौहृदौ ॥
तस्या हेतोर्गदे भीमे संगृह्णीतामुभौ तदा ।
प्रगृह्य च गदे भीमे तस्यां तौ काममोहितौ ॥
अहंपूर्वमहंपूर्वमित्यन्योन्यं निजघ्नतुः ।
तौ गदाभिहतौ भीमौ पेततुर्धरणीतले ॥
रुधिरेणावसिक्ताङ्गौ द्वाविवार्कौ नभश्च्युतौ ।
ततस्ता विद्रुता नार्यः स च दैत्यगणस्तथा ॥
पातालमगमत्सर्वो विषादभयकम्पितः ।
ततः पितामहस्तत्र सहदेवैर्महर्षिभिः ॥
आजगाम विशुद्धात्मा पूजयंश्च तिलोत्तमाम् ।
वरेण च्छन्दयामास भगवान्प्रपितामहः ॥
वरं दित्सुः स तत्रैनां प्रीतः प्राह पितामहः ।
आदित्यचरिताँल्लोकान्विचरिष्यसि भामिनि ॥
तेजसा च सुदृष्टां त्वां न करिष्यति कश्चन ।
एवं तस्यै वरं दत्वा सर्वलोकपितामहः ॥
इन्द्रे त्रैलोक्यमाधाय ब्रह्मलोकं गतः प्रभुः ।
एवं तौ सहितौ भऊत्वा सर्वार्थेष्वेकनिश्चयौ ॥
तिलोत्तमार्थं संक्रुद्धावन्योन्यमभिजघ्नतुः ।
तस्माद्ब्रवीमि वः स्नेहात्सर्वाभरतसत्तमाः ॥
यथा वो नात्र भेदः स्यात्सर्वेषां द्रौपदीकृते ।
तथा कुरुत भद्रं वो मम चेत्प्रियमिच्छथ ॥
वैशंपायन उवाच ।
एवमुक्ता महात्मानो नारदेन महर्षिणा । समयं चक्रिरे राजंस्तेऽन्योन्यवशमागताः ।
समक्षं तस्य देवर्षेर्नारदस्यामितौजसः ॥
`एकैकस्य गृहे कृष्णा वसेद्वर्षमकल्मषा' द्रौपद्या नः सहासीनानन्योन्यं योऽभिदर्शयेत् ।
स नो द्वादश मासानि ब्रह्मचारी वने वसेत् ॥
कृते तु समये तस्मिन्पाण्डवैर्धर्मचारिभिः ।
नारदोऽप्यगमत्प्रीत इष्टं देशं महामुनिः ॥
एवं तैः समयः पूर्वं कृतो नारदचोदितैः ।
न चाभिद्यन्त ते सर्वे तदान्योन्येन भारत ॥
`अभ्यनन्दन्त ते सर्वे तदान्योन्यं च पाण्डवाः ।
एतद्विस्तरशः सर्वमाख्यातं ते नराधिप ॥
काले च तस्मिन्संपन्ने यथावज्जनमेजय ॥' ॥

इति श्रीमन्महाभारते आदिपर्वणि विदुरागमनराज्यलाभपर्वणि द्वात्रिंशदधिकद्विशततमोऽध्यायः ॥ 232 ॥ ॥ समाप्तं च विदुरागमनराज्यलाभपर्व ॥

1-232-24 तेजसाऽर्कवत्परदृष्ट्यभिभावकत्वात्सुदृष्टां सम्यग्दृष्टां न करिष्यति कश्चित् ॥ द्वात्रिंशदधिकद्विशततमोऽध्यायः ॥ 232 ॥

अध्यायः 233

(अर्थार्जुनवनवासपर्व ॥ 15 ॥)

तस्करैः कस्यचिद्ब्राह्मणस्य गोहरणम् ॥ 1 ॥ चोरितानां गवां प्रत्याजिहीर्षया धनुर्ग्रहणार्थं द्रौपदीयुधिष्ठिराधिष्ठिते आयुधागारे अर्जुनस्य प्रवेशः ॥ 2 ॥ चोरेश्यः प्रत्याहृता गाः ब्राह्मणाय दत्त्वा यथासमयं अर्जुनस्य तीर्थयात्रा ॥ 3 ॥

वैशंपायन उवाच ।
एवं ते समयं कृत्वा न्यवसंस्तत्र पाण्डवाः ।
वशे शस्त्रप्रतापेन कुर्वन्तोऽन्यान्महीक्षितः ॥
तेषां मनुजसिंहानां पञ्चानाममितौजसाम् ।
बभूव कृष्णा सर्वेषां पार्थानां वशवर्तिनी ॥
ते तया तैश्च सा वीरैः पतिभिः सह पञ्चभिः ।
बभूव परमप्रीता नागैरिव सरस्वती ॥
वर्तमानेषु धर्मेण पाण्डवेषु महात्मसु ।
व्यवर्धन्कुरवः सर्वे हीनदोषाः सुखान्विताः ॥
अथ दीर्घेण कालेन ब्राह्मणस्य विशांपते ।
कस्यचित्तस्करा जह्रुः केचिद्गा नृपसत्तम ॥
ह्रियमाणे धने तस्मिन्ब्राह्मणः क्रोधमूर्च्छितः ।
आगम्य खाण्डवप्रस्थमुदक्रोशत्स पाण्डवान् ॥
ह्रियते गोधनं क्षुद्रैर्नृशंसैरकृतात्मभिः ।
प्रसह्य चास्मद्विषयादभ्यधावत पाण्डवाः ॥
ब्राह्मणस्य प्रशान्तस्य हविर्ध्वाङ्क्षैः प्रलुप्यते ।
शार्दूलस्य गुहां शून्यां नीचः क्रोष्टाभिमर्दति ॥
अरक्षितारं राजानं बलिषद्भागहारिणम् ।
तमाहुः सर्वलोकस्य समग्रं पापचारिणम् ॥
ब्राह्मणस्वे हृते चोरैर्धर्मार्थे च विलोपिते ।
रोरूयमाणे च मयि क्रियतां हस्तधारणा ॥
वैशंपायन उवाच ।
रोरूयमाणस्याभ्याशे भृशं विप्रस्य पाण्डवः ।
तानि वाक्यानि शुश्राव कुन्तीपुत्रो धनञ्जयः ॥
श्रुत्वैव च महाबाहुर्मा भैरित्याह तं द्विजम् ।
आयुधानि च यत्रासन्पाण्डवानां महात्मनां ॥
कृष्णया सह तत्रास्ते धर्मराजो युधिष्ठिरः ।
संप्रवेशाय चाशक्तो गमनाय च पाण्डवः ॥
तस्य चार्तस्य तैर्वाक्यैश्चोद्यमानः पुनःपुनः ।
आक्रन्दे तत्र कौन्तेयश्चिन्तयामास दुःखितः ॥
ह्रियमाणे धने तस्मिन्ब्राह्मणस्य तपस्विनः ।
अश्रुप्रमार्जनं तस्य कर्तव्यमिति निश्चयः ॥
उपर्रेक्षणजोऽधर्मः सुमहान्स्यान्महीपतेः ।
यद्यस्य रुदतो द्वारि न करोम्यद्य रक्षणम् ॥
अनास्तिक्यं च सर्वेषामस्माकमपि रक्षणे ।
प्रतितिष्ठेत लोकेऽस्मिन्नधर्मश्चैव नो भवेत् ॥
अनापृच्छय तु राजानं गते मयि न संशयः ।
अजातशत्रोर्नृपतेर्मयि चैवानृतं भवेत् ॥
अनुप्रवेशे राज्ञस्तु वनवासो भवेन्मम ।
सर्वमन्यत्परिहृतं धर्षणात्तु महीपतेः ॥
अधर्मो वै महानस्तु वने वा मरणं मम ।
शरीरस्य विनाशेन धर्म एव विशिष्यते ॥
एवं विनिश्चित्य ततः कुन्तीपुत्रो धनञ्जयः ।
अनुप्रविश्य राजानमापृच्छय च विशांपते ॥
`मुखमाच्छाद्य निबिडमुत्तरीयेण वाससा । अग्रजं चार्जुनो गेहादभिवाद्याशु निःसृतः ॥'
धनुरादाय संहृष्टो ब्राह्मणं प्रत्यभाषत ।
ब्राह्मणा गम्यतां शीघ्रं यावत्परधनैर्षिणः ॥
न दूरे ते गताः क्षुद्रास्तावद्गच्छावहे सह ।
यावन्निवर्तयाम्यद्य चोरहस्ताद्धनं तव ॥
सोऽनुसृत्य महाबाहुर्धन्वी वर्मी रथी ध्वजी ।
शरैर्विध्वस्य तांश्चोरानवजित्य च तद्धनम् ॥
ब्राह्मणं समुपाकृत्य यशः प्राप्य च पाण्डवः ।
ततस्तद्गेधनं पार्थो दत्त्वा तस्मै द्विजातये ॥
आजगाम पुरं वीरः सव्यसाची धनञ्जयः ।
सोऽभिवाद्य गुरून्सर्वान्सर्वैश्चाप्यभिनन्दितः ॥
धर्मराजमुवाचेदं व्रतमादिश मे प्रभो ।
समयः समतिक्रान्तो भवत्संदर्शने मया ॥
वनवासं गमिष्यामि समयो ह्येष नः कृतः ।
इत्युक्तो धर्मरास्तु सहसा वाक्यमप्रियम् ॥
कथमित्यब्रवीद्वाचा शोकार्तः सज्जमानया ।
युधिष्ठिरो गुडाकेशं भ्राता भ्रातरमच्युतम् ॥
उवाच दीनो राजा च धनञ्जयमिदं वचः ।
प्रमाणमस्मि यदि ते मत्तः शृणु वचोऽनघ ॥
अनुप्रवेशे यद्वीर कृतवांस्त्वं ममाप्रियम् ।
सर्वं तदनुजानामि व्यलीकं न च मे हृदि ॥
गुरोरनुप्रवेशो हि नोपघातो यवीयसः ।
यवीयसोऽनुप्रवेशो ज्येष्ठस्य विधिलोपकः ॥
निवर्तस्व महाबाहो कुरुष्व वचनं मम ।
न हि ते धर्मलोपोऽस्ति न च ते धर्पणा कृता ॥
अर्जुन उवाच ।
न व्याजेन चरेद्धर्ममिति मे भवतः श्रुतम् ।
न सत्याद्विचलिष्यामि सत्येनायुधमालभे ॥
वैशंपायन उवाच ।
सोऽभ्यनुज्ञाय राजानं वनचर्याय दीक्षितः ।
वने द्वादश मासांस्तु वासायानुजगाम ह ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि अर्जुनवनवासपर्वणि त्रयस्त्रिंशदधिकद्विशततमोऽध्यायः ॥ 233 ॥

1-233-3 नागैर्गजवधूरिव इति ङ. पाठः ॥ 1-233-16 उपप्रेक्षणज उपेक्षाजन्यः ॥ 1-233-17 अनास्तिक्यमास्तिक्याभावः ॥ 1-233-30 सज्जमानया स्खलन्त्या ॥ 1-233-36 मासांस्तु ब्रह्मचर्याय दीक्षितः इति ङ. पाठः ॥ त्रयस्त्रिंशदधिकद्विशततमोऽध्यायः ॥ 233 ॥

अध्यायः 234

ब्राह्मणैः सह तीर्थान्यटतोऽर्जुनस्य स्नानार्थं गङ्गायामवतरणम् ॥ 1 ॥ तत्र उलूप्या नागकन्यया गृहीतस्यार्जुनस्य नागलोकगमनम् ॥ 2 ॥ संवादपूर्वकमुलूप्याः परिग्रहः ॥ 3 ॥ इरावत उत्पत्तिः ॥ 4 ॥ अर्जुनं पुनर्गङ्गाद्वारमुपनीय उलूप्या स्वलोकगमनम् ॥ 5 ॥

वैशंपायन उवाच ।
तं प्रयान्तं महाबाहुं कौरवाणां यशस्करम् ।
अनुजग्मुर्महात्मानो ब्राह्मणा वेदपारगाः ॥
वेदवेदाङ्गविद्वासस्तथैवाध्यात्मचिन्तकाः ।
भैक्षाश्च भगवद्भक्ताः सूताः पौराणिकाश्च ये ॥
कथकाश्चापरे राजञ्श्रमणाश्च वनौकसः ।
दिव्याख्यानानि ये चापि पठन्ति मधुरं द्विजाः ॥
एतैश्चान्यैश्च बहुभिः सहायैः पाण्डुनन्दनः ।
वृतः श्लक्ष्णकथैः प्रायान्मरुद्भिरिव वासवः ॥
रमणीयानि चित्राणि वनानि च सरांसि च ।
सरितः सागरांश्चैव देशानपि च भारत ॥
पुण्यान्यपि च तीर्थानि ददर्श भरतर्षभः ।
स गङ्गाद्वारमाश्रित्य निवेशमकरोत्प्रभुः ॥
तत्र तस्याद्भुतं कर्म शृणु त्वं जनमेजय ।
कृतवान्यद्विशुद्धात्मा पाण्डूनां प्रवरो हि सः ॥
निविष्टे तत्र कौन्तेये ब्राह्मणेषु च भारत ।
अग्निहोत्राणि विप्रास्ते प्रादुश्चक्रुरनेकशः ॥
तेषु प्रबोध्यमानेषु ज्वलितेषु हुतेषु च ।
कृतपुष्पोपहारेषु तीरान्तरगतेषु च ॥
कृताभिषेकैर्विद्वद्भिर्नियतैः सत्पथे स्थितैः ।
शुशुभेऽतीव तद्राजन्गङ्गाद्वारं महात्मभिः ॥
तथा पर्याकुले तस्मिन्निवेशे पाण्डवर्षभः ।
अभिषेकाय कौन्तेयो गङ्गामवततार ह ॥
तत्राभिषेकं कृत्वा स तर्पयित्वा पितामहान् ।
उत्तितीर्षुर्जलाद्राजन्नग्निकार्यचिकीर्षया ॥
अपकृष्टो महाबाहुर्नागराजस्य कन्यया ।
अन्तर्जले महाराज उलूप्या कामयानया ॥
ददर्श पाण्डवस्तत्र पावकं सुसमाहितः ।
कौरव्यस्याथ नागस्य भवने परमार्चिते ॥
तत्राग्निकार्यं कृतवान्कुन्तीपुत्रो धनञ्जयः ।
अशङ्कमानेन हुतस्तेनातुष्यद्धुताशनः ॥
अग्निकार्यं स कृत्वा तु नागराजसुतां तदा ।
प्रसहन्निव कौन्तेय इदं वचनमब्रवीत् ॥
किमिदं साहसं भीरु कृतवत्यसि भामिनि ।
कश्चायं सुभगे देशः का च त्वं कस्य वात्मजा ॥
उलूप्युवाच ।
ऐरावतकुले जातः कौरव्यो नाम पन्नगः ।
तस्यास्मि दुहिता राजन्नुलूपी नाम पन्नगी ॥
साऽहं त्वामभिषेकार्थमवतीर्णं समुद्गाम् ।
दृष्ट्वैव पुरुषव्याघ्र कन्दर्पेणाभिमूर्च्छिता ॥
तां मामनङ्गग्लपितां त्वत्कृते कुरुनन्दन ।
अनन्यां नन्दयस्वाद्य प्रदानेनात्मनोऽनघ ॥
अर्जुन उवाच ।
ब्रह्मचर्यमिदं भद्रे मम द्वादशमासिकम् ।
धर्मराजेन चादिष्टं नाहमस्मि स्वयं वशः ॥
तव चापि प्रियं कर्तुमिच्छामि जलचारिणि ।
अनृतं नोक्तपूर्वं च मया किंचन कर्हिचित् ॥
कथं च नानृतं मे स्यात्तव चापि प्रियं भवेत् ।
न च पीड्येत मे धर्मस्तथा कुर्या भुजङ्गमे ॥
उलूप्युवाच ।
जानाम्यहं पाण्डवेय यथा चरसि मेदिनीम् ।
यथा च ते ब्रह्मचर्यमिदमादिष्टवान्गुरुः ॥
परस्परं वर्तमानान्द्रुपदस्यात्मजां प्रति ।
यो नोऽनुप्रविशेन्मोहात्स वै द्वादशमासिकम् ॥
वने चरेद्ब्रह्मचर्यमिति वः समयः कृतः ।
तदिदं दौपदीहेतोरन्योन्यस्य प्रवासनम् ॥
कृतवांस्तत्र धर्मार्थमत्र धर्मो न दुष्यति ।
परित्राणं च कर्तव्यमार्तानां पृथुलोचन ॥
कृत्वा मम परित्राणं तव धर्मो न लुप्यते ।
यदि वाप्यस्य धर्मस्य सूक्ष्मोऽपि स्याद्व्यतिक्रमः ॥
स च ते धर्म एव स्याद्दत्वा प्राणान्ममार्जुन ।
भक्तां च भज मां पार्थ सतामेतन्मतं प्रभो ॥
न करिष्यसि चेदेवं मृतां मामुपधारय ।
प्राणदानान्महाबाहो चर धर्ममनुत्तमम् ॥
शरणं च प्रपन्नास्मि त्वामद्य पुरुषोत्तम ।
दीनाननाथान्कौन्तेय परिरक्षसि नित्यशः ॥
साऽहं शऱणमभ्येमि रोरवीमि च दुःखिता । याचे त्वां चाभिकामाहं तस्मात्कुरु मम प्रियम् ।
स त्वमात्मप्रदानेन सकामां कर्तुमर्हसि ॥
वैशंपायन उवाच ।
एवमुक्तस्तु कौन्तेयः पन्नगेश्वरकन्यया ।
कृतवांस्तत्तथा सर्वं धर्ममुद्दिश्य कारणम् ॥
स नागभवने रात्रिं तामुषित्वा प्रतापवान् ।
`पुत्रमुत्पादयामास स तस्यां सुमनोहरम् ॥
इरावन्तं महाभागं महाबलपराक्रमम् ।' उदितेऽभ्युत्थितः सूर्ये कौरव्यस्य निवेशनात् ॥
आगतस्तु पुनस्तत्र गङ्गाद्वारं तया सह ।
परित्यज्य गता साध्वी उलूपी निजमन्दिरं ॥
दत्त्वा वरमजेयत्वं जले सर्वत्र भारत ।
साध्या जलचराः सर्वे भविष्यन्ति न संशयः ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि अर्जुनवनवासपर्वणि चतुस्त्रिंशदधिकद्विशततमोऽध्यायः ॥ 234 ॥

1-234-36 परिष्वज्येति ख. पाठः ॥ चतुस्त्रिंशदधिकद्विशततमोऽध्यायः ॥ 234 ॥

अध्यायः 235

अर्जुनस्य मणलूरग्रामगमनम् ॥ 1 ॥ पुत्रिकापुत्रकधर्मेण चित्राङ्गदापरिग्रहः ॥ 2 ॥

वैशंपायन उवाच ।
कथयित्वा च तत्सर्वं ब्राह्मणेभ्यः स भारत ।
प्रययौ हिमवत्पार्श्वं ततो वज्रधरात्मजः ॥
अगस्त्यवटमासाद्य वसिष्ठस्य च पर्वतम् ।
भृगुतुङ्गे च कौन्तेयः कृतवाञ्शौचमात्मनः ॥
प्रददौ गोसहस्राणि सुबहूनि च भारत ।
निवेशांश्च द्विजातिभ्यः सोऽददत्कुरुसत्तमः ॥
हिरण्यबिन्दोस्तीर्थे च स्नात्वा पुरुषसत्तमः ।
दृष्टवान्पाण्डवश्रेष्ठः पुण्यान्यायतनानि च ॥
अवतीर्य नरश्रेष्ठो ब्राह्मणैः सह भारत ।
प्राचीं दिशमभिप्रेप्सुर्जगाम भरतर्षभः ॥
आनुपूर्व्येण तीर्थानि दृष्टवान्कुरुसत्तमः ।
नदीं चोत्पलिनीं रम्यामरण्यं नैमिषं प्रति ॥
नन्दामपरनन्दां च कौशिकीं च यशस्विनीम् ।
महानदीं गयां चैव गङ्गामपि च भारत ॥
एवं तीर्थानि सर्वाणि पश्यमानस्तथाश्रमान् ।
आत्मनः पावनं कुर्वन्ब्राह्मणेभ्यो ददौ च गाः ॥
अङ्गवङ्गकलिङ्गेषु यानि तीर्थानि कानिचित् ।
जगाम तानि सर्वाणि पुण्यान्यायतनानि च ॥
दृष्ट्वा च विधिवत्तानि धनं चापि ददौ ततः । कलिङ्गराष्ट्रद्वारेषु ब्राह्मणाः पाण्डवानुगाः ।
अभ्यनुज्ञाय कौन्तेयमुपावर्तन्त भारत ॥
स तु तैरभ्यनुज्ञातः कुन्तीपुत्रो धनञ्जयः ।
सहायैरल्पकैः शूरः प्रययौ यत्र सागरः ॥
स कलिङ्गानतिक्रम्य देशानायतनानि च ।
हर्म्याणि रमणीयानि प्रेक्षणाणो ययौ प्रभुः ॥
महेन्द्रपर्वतं दृष्ट्वा तापसैरुपशोभितम् ।
`गोदावर्यां ततः स्नात्वा तामतीत्य महाबलः ॥
कावेरीं तां समासाद्य सङ्गमे सागरस्य च ।
स्नात्वा संपूज्य देवांश्च पितॄंश्च मुनिभिः सह' ॥
समुद्रतीरेण शनैर्मणलूरं जगाम ह ॥
तत्र सर्वाणि तीर्थानि पुण्यान्यायतनानि च ।
अभिगम्य महाबाहुरभ्यगच्छन्महीपतिम् ॥
मणलूरेश्वरं राजन्धर्मज्ञं चित्रवाहनम् ।
तस्य चित्राङ्गदा नाम दुहिता चारुदर्शना ॥
तां ददर्श पुरे तस्मिन्विचरन्तीं यदृच्छया ।
दृष्ट्वा च तां वरारोहां चकमे चैत्रवाहनीम् ॥
अभिगम्य च राजानमवदत्स्वं प्रयोजनम् ।
देहि मे खल्विमां राजन्क्षत्रियाय महात्मने ॥
तच्छ्रुत्वा त्वब्रवीद्राजा कस्य पुत्रोऽसि नाम किम् ।
उवाच तं पाण्डवोऽहं कुन्तीपुत्रो धनञ्जयः ॥
तमुवाचाथ राजा स सान्त्वपूर्वमिदं वचः ।
राजा प्रभञ्जनो नाम कुलेऽस्मिन्संबभूव ह ॥
अपुत्रः प्रसवेनार्थी तपस्तेपे स उत्तमम् ।
उग्रेण तपसा तेन देवदेवः पिनाकधृक् ॥
ईश्वरस्तोषितः पार्थ देवदेवः उमापतिः ।
स तस्मै भघवान्प्रादादेकैकं प्रसवं कुले ॥
एकैकः प्रसवस्तस्माद्भवत्यस्मिन्कुले सदा ।
तेषां कुमाराः सर्वेषां पूर्वेषां मम जज्ञिरे ॥
एका च मम कन्येयं कुलस्योत्पादनी भृशम् ।
पुत्रो ममायमिति मे भावना पुरुषर्षभ ॥
पुत्रिकाहेतुविधिना संज्ञिता भरतर्षभ ।
तस्मादेकः सुतो योऽस्यां जायते भारत त्वया ॥
एतच्छुल्कं भवत्वस्याः कुलकृज्जायतामिह ।
एतेन समयेनेमां प्रतिगृह्णीष्व पाण्डव ॥
स तथेति प्रतिज्ञाय तां कन्यां प्रतिगृह्य च । `मासे त्रयोदशे पार्थः कृत्वा वैवाहिकीं क्रियाम् ।'
उवास नगरे तस्मिन्मासांस्त्रीन्स तया सह ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि अर्जुनवनवासपर्वणि पञ्चत्रिंशदधिकद्विशततमोऽध्यायः ॥ 235 ॥

अध्यायः 236

सौभद्रतीर्थे स्नानार्थमवतीर्णस्यार्जुनस्य ग्राहेण ग्रहणम् ॥ 1 ॥ जलादुद्धरणेन ग्राहरूपं परित्यज्य नारीरूपं प्राप्तया वर्गानाम्नया स्वप्रभृतीनां ब्राह्मणेन शापदानकथनम् ॥ 2 ॥

वैशंपायन उवाच ।
ततः समुद्रे तीर्थानि दक्षिमे भरतर्षभः ।
अभ्यगच्छत्सुपुण्यानि सोभितानि तपस्विभिः ॥
वर्जयन्ति स्म तीर्तानि तत्र पञ्च सम तापसाः ।
अवकीर्णानि यान्यासन्पुरस्तात्तु तपस्विभिः ॥
अगस्त्यतीर्थं सौभद्रं पौलोमं च सुपावनम् ।
कारन्धमं प्रसन्नं च महमेधफलं च तत् ॥
भारद्वाजस्य तीर्थं तु पापप्रशमनं महत् ।
एतानि पञ्च तीर्थानि ददर्श कुरुसत्तमः ॥
विविक्तान्युपलक्ष्याथ तानि तीर्थानि पाण्डवः ।
दृष्ट्वा च वर्ज्यमानानि मुनिभिर्धर्मबुद्धिभिः ॥
तपस्विनस्ततोऽपृच्छत्प्राञ्जलिः कुरुनन्दनः ।
तीर्थानीमानि वर्ज्यन्ते किमर्थं ब्रह्मवादिभिः ॥
तापसा ऊचुः ।
ग्राहाः पञ्च वसन्त्येषु हरन्ति च तपोधनान् ।
तत एतानि वर्ज्यन्ते तीर्थानि कुरुनन्दन ॥
वैशंपायन उवाच ।
तेषां श्रुत्वा महाबाहुर्वार्यमाणस्तपोधनैः ।
जगाम तानि तीर्थानि द्रष्टुं पुरुषसत्तमः ॥
ततः सौभद्रमासाद्य महर्षेस्तीर्थमुत्तमम् ।
विगाह्य सहसा शूरः स्नानं चक्रे परन्तपः ॥
अथ तं पुरुषव्याघ्रमन्तर्जलचरो महान् ।
जग्राह चरणे ग्राहः कुन्तीपुत्रं धनञ्जयम् ॥
स तमादाय कौन्तेयो विस्फुरन्तं जलेचरम् ।
उदतिष्ठन्महाबाहुर्बलेन बलिनां वरः ॥
उत्कृष्ट एव ग्राहस्तु सोऽर्जुनेन यशस्विना ।
बभूव नारी कल्याणी सर्वाभरणभूषइता ॥
दीप्यमाना श्रिया राजन्दिव्यरूपा मनोरमा ।
तदद्भुतं महद्दृष्ट्वा कुन्तीपुत्रो धनञ्जयः ॥
तां स्त्रियं परमप्रीत इदं वचनमब्रवीत् ।
का वै त्वमसि कल्याणिकुतो वाऽसि जलेचरी ॥
किमर्थं च महत्पापमिदं कृतवती पुरा ।
वर्गोवाच ।
अप्सराऽस्मि महाबाहो देवारण्यविहारिणी ॥
इष्टा धनपतेर्नित्यं वर्गा नाम महाबल ।
मम सख्यश्चतस्रोऽन्याः सर्वाः कामगमाः शुभाः ॥
ताभिः सार्धं प्रयाताऽस्मि लोकपालनिवेशनम् ।
ततः पश्यामहे सर्वा ब्राह्मणं संशितव्रतम् ॥
रूपवन्तमधीयानमेकमेकान्तचारिणम् ।
तस्यैव तपसा राजंस्तद्वयं तेजसा वृतम् ॥
आदित्य इव तं देशं इत्वं सर्व व्यकाशयत् ।
तस्य दृष्ट्वा तपस्तादृग्रूपचाद्भुतमुत्तमम् ॥
अवतीर्णाः स्म तं देशं तपोविघ्नचिकीर्षया ।
अहं च सौरभेयी च समीची बुद्बुदा लता ॥
यौगपद्येन तं विप्रमभ्यगच्छाम भारत ।
गायन्त्योऽथहसन्त्यश्च लोभयित्वा च तं द्विजं ॥
स च नास्मासु कृतवान्मनो वीर कथंचन ।
नाकम्पत महातेजाः स्थितस्तपसि निर्मले ॥
सोऽशपत्कुपितोऽस्मांस्तु ब्राह्मणः क्षत्रियर्षभ ।
ग्राहभूता जले यूयं चरिष्यथ शतं समाः ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि अर्जुनवनवासपर्वणि षट्त्रिंशदधिकद्विशततमोऽध्यायः ॥ 236 ॥

1-236-5 धर्मबुद्धिभिर्दुर्मरणज दोषं तीर्थेनाप्यविनाश्यं पश्यद्भिः ॥ 1-236-15 चर्चोवाच इति घ पाठः ॥ षट्त्रिंशदधिकद्विशततमोऽध्यायः ॥ 236 ॥

अध्यायः 237

प्रसादितेन ब्राह्मणेन कृतस्य शापमोचनप्रकारस्य, नारदनिदेशेनैतत्तीर्थागमनस्य च अर्जुनंप्रति वर्गया कथनम् ॥ 1 ॥ एतत्कथां श्रुतवता अर्जुनेन ग्राहरूपाणाभवशिष्टानां चतसृणामप्यप्सरसां तत्तत्तीर्थेभ्य उद्धरणेन तासां स्वस्वरूपप्राप्तिः ॥ 2 ॥ पुनर्मणलूरमागत्य तत्र चित्राङ्गदायां जातं बभ्रुवाहननामानं स्वपुत्रं च स्वश्वशुरे समर्प्य अर्जुनस्य गोकर्णक्षेत्रगमनम् ॥ 3 ॥

वर्गोवाच ।
ततो वयं प्रव्यथिताः सर्वा भारतसत्तम ।
अयाम शरणं विप्रं तं तपोधनमच्युतम् ॥
रूपेण वयसा चैव कन्दर्पेण च दर्पिताः ।
अयुक्तं कृतवत्यः स्म क्षन्तुमर्हसि नो द्विज ॥
एष एव वधोऽस्माकं स्वयं प्राप्तस्तपोधन ।
यद्वयं संशितात्मानं प्रलोब्धुं त्वामिहागताः ॥
अवध्यास्तु स्त्रियः सृष्टा मन्यन्ते धर्मचारिणः ।
तस्माद्धर्मेण वर्ध त्वं नास्मन्हिंसितुमर्हसि ॥
सर्वभूतेषु धर्मज्ञ मैत्रो ब्राह्मण उच्यते ।
सत्यो भवतु कल्याण एष वादो मनीषिणाम् ॥
शरणं च प्रपन्नानां शिष्टाः कुर्वन्ति पालनम् ।
शरणं त्वां प्रपन्नाः स्म तस्मात्त्वं क्षन्तुमर्हसि ॥
वैशंपायन उवाच ।
एवमुक्तः स धर्मात्मा ब्राह्मणः शुभकर्मकृत् ।
प्रसादं कृतवान्वीर रविसोमसमप्रभः ॥
ब्राह्मण उवाच ।
शतं शतसहस्रं तु सर्वमक्षय्यवाचकम् ।
परिमाणं शतं त्वेतन्नेदमक्षय्यवाचकम् ॥
यदा च वो ग्राहभूता गृह्णन्तीः पुरुषाञ्जले ।
उत्कर्षति जलात्तस्मात्स्थलं पुरुषसत्तमः ॥
तदा यूयं पुनः सर्वाः स्वं रूपं प्रतिपत्स्यथ ।
अनृतं नोक्तपूर्वं मे हसतापि कदाचन ॥
तानि सर्वाणि तीर्थानि ततः प्रभृति चैव ह । नारीतीर्थानि नाम्नेह ख्यातिं यास्यन्ति सर्वशः ।
पुण्यानि च भविष्यन्ति पावनानि मनीषिणां ॥
वर्गोवाच ।
ततोऽभिवाद्य तं विप्रं कृत्वा चापि प्रदक्षिणम् ।
अचिन्तयामोऽपसृत्य तस्माद्देशात्सुदुःखिताः ॥
क्व नु नाम वयं सर्वाः कालेनाल्पेन तं नरम् ।
समागच्छेम यो नस्तद्रूपमापादयेत्पुनः ॥
ता वयं चिन्तयित्वैव मुहूर्तादिव भारत ।
दृष्टवत्यो महाभागं देवर्षिमुत नारदम् ॥
संप्रहृष्टाः स्म तं दृष्ट्वा देवर्षिममितद्युतिम् ।
अभिवाद्य च तं पार्थ स्थिताः स्म व्रीडिताननाः ॥
स नोऽपृच्छद्दुःखमूलमुक्तवत्यो वयं च तम् ।
श्रउत्वा तत्र यथावृत्तमिदं वचनमब्रवीत् ॥
दक्षिणे सागरानूपे पञ्च तीर्थानि सन्ति वै ।
पुण्यानि रमणीयानि तानि गच्छत मा चिरं ॥
तत्राशु पुरुषव्याघ्रः पाण्डवेयो धनञ्जयः ।
मोक्षयिष्यति शुद्धात्मा दुःखादस्मान्न संशयः ॥
`इत्युक्त्वा नारदः सर्वास्तत्रैवान्तरधीयत ।' तस्य सर्वा वयं वीर श्रुत्वा वाक्यमितो गताः ।
तदिदं सत्यमेवाद्य मोक्षिताहं त्वयाऽनघ ॥
एतास्तु मम ताः सख्यश्चतस्रोऽन्या जले श्रिताः ।
कुरु कर्म शुभं वीर एताः सर्वा विमोक्षय ॥
वैशंपायन उवाच ।
ततस्ताः पाण्डवश्रेष्ठः सर्वा एव विशांपते ।
`अवगाह्य च तत्तीर्थं गृहीतो ग्राहिभिस्तदा ॥
ग्राहीभिश्चोत्तताराशु तरयामास तत्क्षणात् ।
सा चाप्सरा बभूवाशु सर्वाभरणभूषिता ॥
एवं क्रमेण ताः सर्वा मोक्षयामास वीर्यवान् ॥'
उत्थाय च जलात्तस्मात्प्रतिलभ्य वपुः स्वकम् ।
तास्तदाऽप्सरसो राजन्नदृश्यन्त यथा पुरा ॥
तीर्थानि शोधयित्वा तु तथानुज्ञाय ताः प्रभुः ।
चित्राङ्गदां पुनर्द्रष्टुं मणलूरं पुनर्ययौ ॥
तस्यामजनयत्पुत्रं राजानं बभ्रुवाहनम् ।
तं दृष्ट्वा पाण्डवो राजंश्चित्रवाहनमब्रवीत् ॥
चित्राङ्गदायाः शुल्कं त्वं गृहाण बभ्रुवाहनम् ।
अनेन च भविष्यामि ऋणान्मुक्तो नराधिप ॥
चित्राङ्गदां पुनर्वाक्यमब्रवीत्पाण्डुनन्दनः ।
इहैव भव भद्रं ते वर्धेथा बभ्रुवाहनम् ॥
इन्द्रपस्थनिवासं मे त्वं तत्रागत्य रंस्यसि ।
कुन्ती युधिष्ठिरं भीमं भ्रातरौ मे कनीयसौ ॥
आगत्य तत्र पश्येथा अन्यानपि च बान्धवान् ।
बान्धवैः सहिताः सर्वैर्नन्दसे त्वमनिन्दिते ॥
धर्मे स्थितः सत्यधृतिः कौन्तेयोऽथ युधिष्ठिरः ।
जित्वा तु पृथिवीं सर्वां राजसूयं करिष्यति ॥
तत्रागच्छन्ति राजानः पृथिव्यां नृपसंज्ञिताः ।
बहूनि रत्नान्यादाय आगमिष्यति ते पिता ॥
एकसार्थं प्रयातासि चित्रवाहनसेवया ।
द्रक्ष्यामि राजसूये त्वां पुत्रं पालय मा शुचः ॥
बभ्रुवाहननाम्ना तु मम प्राणो बहिश्चरः ।
तस्माद्भरस्व पुत्रं वै पुरुषं वंशवर्धनम् ॥
चित्रावाहनदायादं धर्मात्पौरवनन्दनम् ।
पाण्डवानां प्रियं पुत्रं तस्मात्पालय सर्वदा ॥
विप्रयोगेण संतापं मा कृथास्त्वमनिन्दिते ।
चित्राङ्गदामेवमुक्त्वा `सागरानूपमाश्रितः ॥
स्थानं दूरं समाप्लुत्य दत्त्वा बहुधनं तदा ।
केरलान्समतिक्रम्य' गोकर्णमभितोऽगमत् ॥
आद्यं पशुपतेः स्थानं दर्शनादेव मुक्तिदम् ।
यत्र पापोऽपि मनुजः प्राप्नोत्यभयदं पदम् ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि अर्जुनवनवासपर्वणि सप्तत्रिंशदधिकद्विशततमोऽध्यायः ॥ 237 ॥

1-236-4 वर्ध वर्धस्व ॥ सप्तत्रिंशदधिकद्विशततमोऽध्यायः ॥ 237 ॥

अध्यायः 238

अर्जुनस्य प्रभासतीर्थगमनम् ॥ 1 ॥ तत्र स्मृतिपथागतसुभद्रारूपलावण्यादिकं चिन्तयतोऽर्जुनस्य परिव्राजकवेषस्वीकारेण तस्या हरणे निश्चयः ॥ 2 ॥ अर्जुनस्य चिन्तितज्ञानेन हसता श्रीकृष्णेन सह शायिन्या सत्यभामया हासकारणे पृष्टे तां प्रति अर्जुनवृत्तान्तकथनम् ॥ 3 ॥ सत्यभामां शयने विहाय एकाकिना श्रीकृष्णेन प्रभासतीर्थंप्रति प्रस्थानम् ॥ 4 ॥ चारमुखेन अर्जुनस्य तत्रागमनं श्रुत्वा कृष्णस्य तत्रागमनम् ॥ 5 ॥ अर्जुनेन संभाप्य कृष्णस्य द्वारकांप्रति पुनरागमनम् ॥ 6 ॥

वैशंपायन उवाच ।
सोऽपरान्तेषु तीर्थानि पुण्यान्यायतनानि च ।
सर्वाण्येवानुपूर्व्येण जगामामितविक्रमः ॥
समुद्रे पश्चिमे यानि तीर्थान्यायतनानि च ।
तानि सर्वाणि गत्वा स प्रभासमुपजग्मिवान् ॥
`चिन्तयामास रात्रौ तु गदेन कथितं पुरा ।
सुभद्रायाश्च माधुर्यरूपसंपद्गुणानि च ॥
प्राप्तुमं तां चिन्तयामास कोऽत्रोपायो भवेदिति ।
वेषवैकृत्यमापन्नः परिव्राजकरूपधृत् ॥
कुकुरान्धकवृष्णीनामज्ञातो वेषधारणात् ।
भ्रममाणश्चरन्भैक्षं परिव्राजकवेषवान् ॥
येनकेनाप्युपायेन प्रविश्य च गृहं महत् ।
दृष्ट्वा सुभद्रां कृष्णस्य भगिनीमेकसुन्दरीम् ॥
वासुदेवमतं ज्ञात्वा करिष्यामि हितं शुभम् ।
एवं विनिश्चयं कृत्वा दीक्षितो वै तदाऽभवत् ॥
त्रिदण्डी मुण्डितः कुण्डी अक्षमालाङ्गुलीयकः ।
योगभारं वहन्पार्थो वटवृक्षस्य कोटरम् ॥
प्रविशंश्चैव बीभत्सुर्वृष्टिं वर्षति वासवे ।
चिन्तयामास देवेशं केशवं क्लेशनाशनम् ॥
केशवश्चिन्तितं ज्ञात्वा दिव्यज्ञानेन दृष्टवान् ।
शयानः शयने दिव्ये सत्यभामासहायवान् ॥
केशवः सहसा राजञ्जहाय च ननन्द च ।
पुनः पुनः सत्यभामा चाब्रवीत्पुरुषोत्तमम् ॥
भगवंश्चिन्तयाविष्टः शयने शयितः सुखम् ।
भवान्बहुप्रकारेण जहास च पुनः पुनः ॥
श्रोतव्यं यदि वा कृष्ण प्रसादो यदि ते मयि ।
वक्तुमर्हसि देवेश तच्छ्रोतुं कामयाम्यहम् ॥
श्रीभगवानुवाच ।
पितृष्वसुर्यः पुत्रो मे भीमसेनानुजोऽर्जुनः ।
तीर्थयात्रां गतः पार्थः कारणात्समयात्तदा ॥
तीर्थयात्रासमाप्तौ तु निवृत्तो निशि भारतः ।
सुभध्रां चिन्तयामास रूपेणाप्रतिमां भुवि ॥
चिन्तयेन्नेव तां भद्रां यतिरूपधरोऽर्जुनः ।
यतिरूपप्रतिच्छन्नो द्वारकां प्राप्य माधवीम् ॥
येनकेनाप्युपायेन दृष्ट्वा तु वरवर्णिनीम् ।
वासुदेवमतं ज्ञात्वा प्रयतिष्ये मनोरथम् ॥
एवं व्यवसितः पार्थो यतिलिङ्गेन पाण्डवः ।
छायायां वटवृक्षस्य वृष्टिं वर्षति वासवे ॥
योगभारं वहन्नेव मानसं दुःखमाप्तवान् ।
एतदर्थं विजानीहि हसन्तं मां मुदा प्रिये ॥
भ्रातरं तव पश्येति सत्यभामां व्यसर्जयत् । तत उत्थाय शयनात्प्रस्थितो मधुसूदनः ॥'
प्रभासदेशं संप्राप्तं बीभत्सुमपराजितम् ।
तीर्थान्यनुचरन्तं तं शुश्राव मधुसूदनः ॥
चाराणां चैव वचनादेकाकी स जनार्दनः ।
तत्राभ्यगच्छत्कौन्तेयं महात्मातं स माधवः ॥
ददृशाते तदान्योन्यं प्रभासे कृष्णपाण्डवौ ॥
तावन्योन्यं समाश्लिष्य पृष्ट्वा च कुशलं वने ।
आस्तां प्रियसखायौ तौ नरनारायणावृषी ॥
ततोऽर्जुनं वासुदेवस्तां चर्यां पर्यपृच्छत ।
किमर्थं पाण्डवैतानि तीर्थान्यनुचरस्युत ॥
ततोऽर्जनो यथावृत्तं सर्वमाख्यातवांस्तदा ।
श्रुत्वोवाच च वार्ष्णेय एवमेतदिति प्रभुः ॥
तौ विहृत्य यथाकामं प्रभासे कृष्णपाण्डवौ ।
महीधरं रैवतकं वासायैवाभिजग्मतुः ॥
पूर्वमेव तु कृष्णस्य वचनात्तं महीधरम् ।
पुरुषा मण्डयाञ्चक्रुरुपजह्रश्च भोजनम् ॥
प्रतिगृह्यार्जुनः सर्वमुपभुज्य च पाण्डवः ।
सहैव वासुदेवेन दृष्टवान्नटनर्तकान् ॥
अभ्यनुज्ञाय तान्सर्वानर्चयित्वा च पाण्डवः ।
सत्कृतं शनं दिव्यमभ्यगच्छन्महामतिः ॥
ततस्तत्र महाबाहुः शयानः शयने शुभे । तीर्थानां पल्वलानां च पर्वतानां च दर्शनम् ।
आपगानां वनानां च कथयामास सात्वते ॥
एवं स कथयन्नेव निद्रया जनमेजय ।
कौन्तेयोऽपि हृतस्तस्मिञ्शयने स्वर्गसन्निभे ॥
मधुरेणैव गीतेन वीणाशब्देन चैव ह ।
प्रबोध्यमानो बुबुधे स्तुतिभिर्मङ्गलैस्तता ॥
स कृत्वाऽवश्यकार्याणि वार्ष्णेयेनाभिनन्दितः ।
`वार्ष्णेयं समनुज्ञाप्य तत्र वासमरोचयत् ॥
तथेत्युक्त्वा वासुदेवो भोजनं वै शशास ह । यतिरूपधरं पार्थं विसृज्य सहसा हरिः ।'
रथेन काञ्चनाङ्गेन द्वारकामभिजग्मिवान् ॥
अलङ्कृता द्वारका तु बभूव जनमेजय ॥
दिदृक्षन्तश्च गोविन्दं द्वारकावासिनो जनाः ।
नरेन्द्रमार्गमाजग्मुस्तूर्णं शतसहस्रशः ॥
`क्षणार्धमपि वार्ष्णेया गोविन्दविरहाक्षमाः । कौतूहलसमाविष्टा भृशमुत्प्रेक्ष्य संस्थिताः ॥'
अवलोकेषु नारीणां सहस्राणि शतानि च ।
भोजवृष्ण्यन्धकानां च समवायो महानभूत् ॥
स तथा सत्कृतः सर्वैर्भोजवृष्ण्यन्धकात्मजैः ।
अभिवाद्याभिवाद्यांश्च सर्वैश्च प्रतिनन्दितः ॥
कुमारैः सर्वशो वीरः सत्कारेणाभिचोदितः ।
समानवयसः सर्वानाश्लिष्य स पुनःपुनः ॥
कृष्णः स्वभवनं रम्यं प्रविवेश महाबलः ।
प्रभासादागतं देव्यः सर्वाः कृष्णमपूजयन् ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि अर्जुनवनवासपर्वणि अष्टत्रिंशदधिकद्विशततमोऽध्यायः ॥ 238 ॥ ॥ समाप्तं चार्जुनवनवासपर्व ॥

1-238-1 अपरान्तेषु पश्चिसमुद्रतीरेषु ॥ 1-238-36 अलंकृता द्वारका तु बभूव जनमेजय । कुन्तीपुत्रस्य पूजार्थमपि निष्कुटकेष्वपि ॥ इति च, ज, झ, ञ, ड, पाठः ॥ 1-238-37 दिदृक्षन्तश्च कौन्तेयं इति च, ज, झ, ञ, ज, पाठः ॥ 1-238-42 कृष्णस्य भवने रम्ये रत्नभोज्यसमावृते । उवास सह कृष्णेन बहुलास्तत्र शर्वरीः ॥ इति च, ज, झ, ञ, ड, पाठः ॥ अष्टत्रिंशदधिकद्विशततमोऽध्यायः ॥ 238 ॥

अध्यायः 239

(अथ सुभद्राहरणपर्व ॥ 16 ॥)

रवैतकपर्वतंप्रति उत्सवार्थं कृष्णादीनां गमनम् ॥ 1 ॥ तत्र कृष्णस्य परिव्राजकरूपार्जुनदर्शनम् ॥ 2 ॥ सुभद्रादर्शनेन तस्यां संजातहृच्छयस्यार्जुनस्य यतिरूपेण सुभद्राहरणे कुष्णानुज्ञालाभः ॥ 3 ॥ दूतेनिवेदितैतद्वृत्तान्तेन सपरिवारेण युधिष्ठिरेणाभ्यनुज्ञानम् ॥ 4 ॥

वैशंपायन उवाच ।
ततः कतिपयाहस्य तस्मिन्रैवतके गिरौ ।
वृष्ण्यन्धकानामभवदुत्सवो नृपसत्तम ॥
तत्र दानं ददुर्वीरा ब्राह्मणेभ्यः सहस्रशः ।
भोजवृष्ण्यन्धकाश्चैव महे तस्य गिरेस्तदा ॥
प्रसादै रत्नचित्रैश्च गिरेस्तस्य समन्ततः ।
स देशः शोभितो राजन्कल्पवृक्षैश्च सर्वशः ॥
वादित्राणि च तत्रान्ये वादकाः समवादयन् ।
ननृतुर्नर्तकाश्चैव जगुर्गेयानि गायनाः ॥
अलङ्कृताः कुमाराश्च वृष्णीनां सुमहौजसाम् ।
यानैर्हाटकचित्रैश्च चञ्चूर्यन्ते स्म सर्वशः ॥
पौराश्च पादचारेण यानैरुच्चावचैस्तथा ।
सदाराः सानुयात्राश्च शतशोऽथ सहस्रशः ॥
ततो हलधरः क्षीबो रेवतीसहितः प्रभुः ।
अनुगम्यमानो गन्धर्वैरचरत्रत्र भारत ॥
तथैव राजा वृष्णीनामुग्रसेनः प्रतापवान् ।
अनुगीयमानो गन्धर्वैः स्त्रीसहस्रसहायवान् ॥
रौक्मिणेयश्च साम्बश्च क्षीबौ समरदुर्मदौ ।
दिव्यमाल्याम्बरधरौ विजह्वातेऽमराविव ॥
अक्रूरः सारणश्चैव गदो बभ्रुर्विदूरथः ।
निशठश्चारुदेष्णश्च पृथुर्विपृथुरेव च ॥
सत्यकः सात्यकिश्चैव भङ्गकारमहारवौ ।
हार्दिक्य उद्धवश्चैव ये चान्ये नानुकीर्तिताः ॥
एते परिवृताः स्त्रीभिर्गन्धर्वैश्च पृथक्पृथक् ।
तमुत्सवं रैवतके शोभयाञ्चक्रिरे तदा ॥
`वासदेवो ययौ तत्र सह स्त्रीभिर्मुदान्वितः । दत्त्वा दानं द्विजातिभ्यः परिव्राजमपश्यत ॥'
चित्रकौतूहले तस्मिन्वर्तमाने महाद्भुते ।
वासुदेवश्च पार्थश्च सहितौ परिजग्मतुः ॥
तत्र चङ्क्रममाणौ तौ वसुदेवसुतां शुभाम् ।
अलङ्कृतां सखीमध्ये भद्रां ददृशतुस्तदा ॥
दृष्ट्वैव तामर्जुनस्य कन्दर्पः समजायत ।
तं तदैकाग्रमनसं कृष्णः पार्थमलक्षयत् ॥
अब्रवीत्पुरुषव्याघ्रः प्रसहन्निव भारत ।
वनेचरस्य किमिदं कामेनालोड्यते मनः ॥
ममैषा भगिनी पार्थ सारणस्य सहोदरी । सुभद्रा नाम भद्रं ते पितुर्मे दयिता सुता ।
यदि ते वर्तते बुद्धिर्वक्ष्यामि पितरं स्वयम् ॥
अर्जुन उवाच ।
दुहिता वसुदेवस्य वासुदेवस्य च स्वसा ।
रूपेण चैषा संपन्ना कमिवैषा न मोहयेत् ॥
कृतमेव तु कल्याणं सर्वं मम भवेद्ध्रुवम् ।
यदि स्यान्मम वार्ष्णेयी महिषीयं स्वसा तव ॥
प्राप्तौ तु क उपायः स्यात्तं व्रवीहि जनार्दन ।
आस्थास्यामि तदा सर्वं यदि शक्यं नरेण तत् ॥
वासुदेव उवाच ।
स्वयं वरः क्षत्रियाणां विवाहः पुरुषर्षभ ।
स च संशयितः पार्थ स्वभावस्यानिमित्ततः ॥
प्रसह्य हरणं चापि क्षत्रियाणां प्रशस्यते ।
विवाहहेतुः शूराणामिति धर्मविदो विदुः ॥
स त्वमर्जुन कल्याणीं प्रसह्य भगिनीं मम । `यतिरूपधरस्तं तु यथा कालविपाकता ।'
हर स्वयंवरे ह्यस्याः को वै वेद चिकीर्षितम् ॥
वैशंपायन उवाच ।
ततोऽर्जुनश्च कृष्णश्च विनिश्चित्येतिकृत्यताम् ।
शीघ्रगान्पुरुषानन्प्रेषयामासतुस्तदा ॥
धर्मराजाय तत्सर्वमिन्द्रप्रस्थगताय वै ।
श्रुत्वैव च महाबाहुरनुजज्ञे समातृकः ॥
`भीमसेनस्तु तच्छ्रुत्वा कृतकृत्यं स्म मन्यते ।
इत्येवं मनुजैरुक्तं कृष्णः श्रुत्वा महामतिः ॥
अनुज्ञाप्य तदा पार्थं हृदि स्थाप्य चिकीर्षितम् ।
इत्येवं मनुजैः सार्धं द्वारकां समुपेयिवान् ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि सुभद्राहरणपर्वणि ऊनचत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 239 ॥

1-239-5 चञ्चूर्यन्ते देदीप्यन्ते ॥ 1-239-7 क्षीबो मधुमत्तः ॥ 1-239-22 स्वभावस्यानिमित्ततः स्त्रीचित्तस्य शौर्यपाण्डित्याद्यनपेक्षत्वात् । स्त्रियो ह्यपरीक्षितेपि पुंसि आपाततो रमणीये सद्यः सकामा भवन्तीति भावः ॥ ऊनचत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 239 ॥

अध्यायः 240

द्वारकाया उपवने वसतः यतिरूपस्यार्जुतस्य रैवतकपर्वतात्प्रतिनिवृत्तैर्यादवैर्दर्शनम् ॥ 1 ॥ यतिनिवासविषये यादवै पृष्टे सुभद्रागृहे वसत्विति रामोक्तिः ॥ 2 ॥

वैशंपायन उवाच ।
चैराः संचारिते तस्मिन्ननुज्ञाते युधिष्ठिरे ।
वासुदेवाभ्यनुज्ञातः कथयित्वेतिकृत्यताम् ॥
कृष्णस्य मतमास्थाय प्रययौ भरतर्षभः ।
द्वारकाया उपवने तस्थौ वै कार्यसाधनः ॥
निवृत्ते ह्युत्सवे तस्मिन्गिरौ रैवतके तदा ।
वृष्णयोऽप्यगमन्सर्वे पुरीं द्वारवतीमनु ॥
चिन्तयानस्ततो भद्रामुपविष्टः शिलातले ।
रमणीये वनोद्देशे बहुपादपसंवृते ॥
सालतालाश्वकर्णैश्च बकुलैरर्जुनैस्तथा ।
चम्पकाशोकपुन्नागैः केतकैः पाटलैस्तथा ॥
कर्णिकारैरशोकैश्च अङ्कोलैरतिमुक्तकैः ।
एवमादिभिरन्यैश्च संवृते स शिलातले ॥
पुनःपुनश्चिन्तयानः सुभद्रां भद्रभाषिणीम् ।
यदृच्छया चोपपन्नान्वृष्णिवीरान्ददर्श सः ॥
बलदेवं च हार्दिक्यं साम्बं सारणमेव च ।
प्रद्युम्नं च गदं चैव चारुदेष्णं विदूरथम् ॥
भानुं च हरितं चैव विपृथुं पृथुमेव च ।
तथान्यांश्च बहून्पश्यन्हृदि शोकमधारयत् ॥
ततस्ते सहिताः सर्वे यतिं दृष्ट्वा समुत्सुकाः ।
वृष्णयो विनयोपेताः परिवार्योपतस्थिरे ॥
ततोऽर्जुनः प्रीतमनाः स्वागतं व्याजहार सः ।
आस्यतामास्यतां सर्वै रमणीये शिलातले ॥
इत्येवमुक्ता यतिना प्रीतास्ते यादवर्षभाः ।
उपोपविविशुः सर्वे ते स्वागतमिति ब्रुवन् ॥
परितः सन्निविष्टेषु वृष्णिवीरेषु पाण्डवः ।
आकारं गूहमानस्तु कुशलप्रश्नमब्रवीत् ॥
सर्वत्र कुशलं चोक्त्वा बलदेवोऽब्रवीदिदम् ।
प्रसादं कुरु मे विप्र कुतस्त्वं चागतो ह्यसि ॥
त्वया दृष्टानि पुण्यानि वद त्वं वदतांवर ।
पर्वतांश्चैव तीर्थानि वनान्यायतनानि च ॥
वैशंपायन उवाच ।
तीर्थानां दर्शनं चैव पर्वतानां च भारत ।
आपगानां वनानां च कथयामास ताः कथाः ॥
श्रुत्वा धर्मकथाः पुण्या वृष्णिवीरा मुदान्विताः ।
अपूजयंस्तदा भिक्षुं कथान्ते जनमेजय ॥
ततस्तु यादवाः सर्वे मन्त्रयन्ति स्म भारत ।
अयं देशातिथिः श्रीमान्यतिलिङ्गधरो द्विजः ॥
आवासं कमुपाश्रित्य वसेत निरुपद्रवः ।
इत्येवं प्रब्रुवन्तस्तु रौहिणेयं च यादवाः ॥
ददृशुः कृष्णमायान्तं सर्वे यादवनन्दनम् ।
एहि केशव तातेति रौहिणेयो वचोऽब्रवीत् ॥
यतिलिङ्गधरो विद्वान्देशातिथिरयं द्विजः । वर्षमासनिवासार्थमागतो नः पुरं प्रति ।
स्थाने यस्मिन्निवसतु तन्मे ब्रूहि जनार्दन ॥
श्रीकृष्ण उवाच ।
त्वयि स्थिते महाभाग परवानस्मि धर्मतः ।
स्वयं तु रुचिरे स्थाने वासयेर्यदुनन्दन ॥
प्रीतः स तेन वाक्येन परिष्वज्य जनार्दनम् ।
बलदेवोऽब्रवीद्वाक्यं चिन्तयित्वा महाबलः ॥
आरामे तु वसेद्धीमांश्चतुरो वर्षमासकान् ।
कन्यागृहे सुभद्राया भुक्त्वा भोजनमिच्छया ॥
लतागृहेषु वसतामिति मे धीयते मतिः ।
लब्धानुज्ञास्त्वया तात मन्यन्ते सर्वयादवाः ॥
श्रीकृष्ण उवाच ।
बलवान्दर्शनीयश्च वाग्मी श्रीमान्बहुश्रुतः ।
कन्यापुरसमीपे तु न युक्तमिति मे मतिः ॥
गुरुः शास्ता च नेता च शास्त्रज्ञो धर्मवित्तमः ।
त्वयोक्तं न विरुध्येहं करिष्यामि वचस्तव ॥
शुभाशुभस्य विज्ञाता नान्योऽस्मि भुवि कश्चन ॥
बलदेव उवाच ।
अयं देशातिथिः श्रीमान्सर्वधर्मभृतां वरः ।
धृतिमान्विनयोपेतः सत्यबादी जितेन्द्रियः ॥
यतिलिङ्गधरो ह्येष को विजानाति मानसम् ।
त्वमिमं पुण्डरीकाक्ष नीत्वा कन्यापुरं शुभम् ॥
निवेदय सुभद्रायै मद्वाक्यपरिचोदितः ।
भक्ष्यैर्भोज्यैश्च पानैश्च अन्नैरिष्टैश्च पूजय ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि सुभद्राहरणपर्वणि चत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 240 ॥

अध्यायः 241

यतेः सुभद्रागृहे कृष्णेन स्थापनम् ॥ 1 ॥ श्रुतपूर्वपार्थलक्षणदर्शनेन इमं यतिं अर्जुनं शङ्कमानायाः सुभद्रायाः यतिंप्रति अर्जुनादिकुशलप्रश्नः ॥ 2 ॥ अर्जुनेन तत्वे कथिते मोहितायां सुभद्रायां रुक्मिण्या श्वश्रूसमीपे तद्वृत्तकथनम् ॥ 3 ॥ वासुदेवानुमत्या देवक्या सुभद्राश्वासनम् ॥ 4 ॥ गूढं सुभद्राया विवाहचिकीर्षया कृष्णेन महादेवपूजाव्याजेन सर्वयादवैः सह अन्तर्द्वीपगमनम् ॥ 5 ॥

वैशंपायन उवाच ।
स तथेति प्रतिज्ञाय सहितो यतिना हरिः ।
कृत्वा तु संविदं तेन प्रहृष्टः केशवोऽभवत् ॥
पर्वते तौ विहृत्यैव यथेष्टं कृष्णपाण्डवौ । तां पुरीं प्रविवेशाथ गृह्य हस्तेन पाण्डवम् ।
प्रविश्य च गृहं रम्यं सर्वभोगसमन्वितम् ॥
पार्थमावेदयामास रुक्मिणीसत्यभामयोः ।
हृषीकेशवचः श्रुत्वा ते उभे चोचतुर्भृशम् ॥
मनोरथो महानेष हृदि नौ परिवर्तते ।
कदा द्रक्षाव बीभत्सुं पाण्डवं पुरमागतम् ॥
इत्येवं हर्षमाणे ते वदन्त्यौ सुभृशं प्रियम् ।
रुग्मिणीसत्यभामे वै दृष्ट्वा प्रीतोऽभवद्यतिः ॥
सर्वेषां हर्षमाणानां पार्थो हर्षमुपागमत् ।
प्राप्तमज्ञातरूपेण चागतं चार्जुनं हरिः ॥
सत्कृत्य पूज्यमानं तु प्रीत्या चैव ह्यपूजयत् ।
स तं प्रियातिथिं श्रेष्ठं समीक्ष्य यतिमागतम् ॥
सोदर्यां भगिनीं कृष्णः सुभद्रामिदमब्रवीत् ।
अयं देशातिथिर्भद्रे संशितव्रतवानृषिः ॥
प्राप्नोतु सततं पूजां तव कन्यापुरे वसन् ।
आर्येण च परिज्ञातः पूजनीयो यतिस्त्वया ॥
रागाद्भरस्व वार्ष्णेयि भक्ष्यैर्भोज्यैर्यतिं सदा ।
एष यद्यदृषिर्ब्रूयात्कार्यमेव न संशयः ॥
सखीभिः सहिता भद्रे भवास्य वशवर्तिनी ।
पुरा हि यतयो भद्रे ये भैक्षार्थमनुव्रताः ॥
ते बभूवुर्दशार्हाणां कन्यापुरनिवासिनः । तेभ्यो भोज्यानि भक्ष्याणि यथाकालमतन्द्रिताः ।
कन्यापुरगताः कन्याः प्रयच्छन्ति यशस्विनि ॥
वैशंपायन उवाच ।
सा तथेत्यब्रवीत्कृष्णं करिष्यामि यथाऽऽथ माम् ।
तोषयिष्यामि वृत्तेन कर्मणा च द्विजर्षभम् ॥
एवमेतेन रूपेण कंचित्कालं धनञ्जयः ।
उवास भक्ष्यैर्भोज्यैश्च भद्रया परमार्चितः ॥
तस्य सर्वगुणोपेतां वासुदेवसहोदरीम् ।
पश्यतः सततं भद्रां प्रादुरासीन्मनोभवः ॥
गूहयन्निव चाकारमालोक्य वरवर्णिनीम् ।
दीर्घमुष्णं विनिश्वस्य पार्थः कामवशं गतः ॥
स कृष्णां द्रौपदीं मेने न रूपे भद्रया समाम् ।
प्राप्तां भूमान्विन्द्रसेनां साक्षाद्वा वरुणात्मजाम् ॥
अतीतकाले संप्राप्ते सर्वास्तापि सुरस्त्रियः ।
न समा भद्रया लोके इत्येवं मन्यतेऽर्जुनः ॥
अतीतसमये काले सोदर्याणां धनञ्जयः ।
न सस्मार सुभद्रायां कामाङ्कुशनिवारितः ॥
क्रीडारतिपरां भद्रां सखीगणसमावृताम् ।
प्रीयते स्मार्जुनः पश्यन्स्वाहामिव विभावसुः ॥
पाण्डवस्य सुभद्रायाः सकाशे तु यशस्विनः ।
समुत्पत्तिः प्रभावश्च गदेन कथितः पुरा ॥
श्रुत्वा चाशनिनिर्घोषं केशवेनापि धीमता ।
उपमामर्जुनं कृत्वा विस्तरः कथितः पुरा ॥
क्रुद्धमानप्रलापश्च वृष्णीनामर्जुनं प्रति ।
पौरुषं चोपमां कृत्वा प्रावर्तत धनुष्मताम् ॥
अन्योन्यकलहे चापि विवादे चापि वृष्णयः ।
अर्जुनोपि न मे तुल्यः कुतस्त्वमिति चाब्रुवन् ॥
जातांश्च पुत्रान्गृह्णन्त आशिषो वृष्णयोऽब्रवन् ।
अर्जुनस्य समो वीर्ये भव तात धनुर्धरः ॥
तस्मात्सुभद्रा चकमे पौरुषाद्भरतर्षभम् ।
सत्यसन्धस्य रूपेण चातुर्येण च मोहिता ॥
चारणातिथिसंघानां गदस्य च निशम्य सा ।
अदृष्टे कृतभावाभूत्सुभद्रा भरतर्षभे ॥
कीर्तयन्ददृशे यो यः कथंचित्कुरुजाङ्गलम् ।
तं तमेव तदा भद्रा बीभत्सुं स्म हि पृच्छति ॥
अभीक्ष्णश्रवणादेवमभीक्ष्णपरिपृच्छनात् ।
प्रत्यक्ष इव भद्रायाः पाण्डवः प्रत्यपद्यत ॥
भुजौ भुजगसङ्काशौ ज्याघातेन किणीकृतौ ।
पार्थोऽयमिति पश्यन्त्या निःशंसयमजायत ॥
यथारूपं हि शुश्राव सुभद्रा भरतर्षभम् ।
तथारूपमवेक्ष्यैनं परां प्रीतिमवाप सा ॥
सा कदाचिदुपासीनं पप्रच्छ कुरुनन्दनम् ।
कथं देशाश्च चरिता नानाजनपदाः कथम् ॥
सरांसि सरितश्चैव वनानि च कथं यते ।
दिशः काश्च कथं प्राप्ताश्चरता भवता सदा ॥
स तथोक्तस्तदा भद्रां बहुनर्मामृतं ब्रुवन् ।
उवाच परमप्रीतस्तथा बहुविधाः कथाः ॥
निशण्य विविधं तस्य लोके चरितमात्मनः ।
तथा परिगतो भावः कन्यायाः समपद्यत ॥
पर्वसन्धौ तु कस्मिंश्चित्सुभद्रा भरतर्षभम् ।
रहस्येकान्तमासाद्य हर्षमाणाऽभ्यभाषत ॥
यतिना रचता देशान्खाण्डवप्रस्थवासिनी ।
कश्चिद्भगवता दृष्टा पृथाऽस्माकं पितृष्वसा ॥
भ्रातृभिः प्रीयते सर्वैर्दृष्टः कच्चिद्युधिष्ठिरः ।
कच्चिद्धर्मपरो भीमो धर्मराजस्य धीमतः ॥
निवृत्तसमयः कच्चिदपराधाद्धनञ्जयः ।
नियमे कामभोगानां वर्तमानः प्रिये रतः ॥
क्व नु पार्थश्चरत्यद्य बहिः स वसतीर्वसन् ।
सुखोचितो ह्यदुःखार्हो दीर्घबाहुररिन्दमः ॥
कच्चिच्छ्रुतो वा दृष्टो वा पार्थो भगवताऽर्जुनः ।
निशम्य वचनं तस्यास्तामुवाच हसन्निव ॥
आर्या कुशलिनी कुन्ती सहपुत्रा सहस्नुषा ।
प्रीयते पश्यती पुत्रान्खाण्डवप्रस्थ आसते ॥
अनुज्ञातश्च मात्रा च सोदरैश्च धनञ्जयः ।
द्वारकामावसत्येको यतिलिङ्गेन पाण्डवः ॥
पश्यन्ती सततं कस्मान्नाभिजानासि माधवि ।
निशण्य वचनं तस्य वासुदेवसहोदरी ॥
निश्वासबहुला तस्थौ क्षितिं विलिखती तदा ।
ततः परमसंहृष्टः सर्वशस्त्रभृतां वरः ॥
अर्जुनोऽहमिति प्रीतस्तामुवाच धनञ्जयः ।
यथा तव गतो भावः श्रवणान्मयि भामिनि ॥
त्वद्गतः सततं भावस्तथा तव गुणैर्मम ।
प्रशस्तेऽहनि धर्मेण भद्रे स्वयमहं वृतः ॥
सत्यवानिव सावित्र्या भविष्यामि पतिस्तव ॥
वैशंपायन उवाच ।
एवमुक्त्वा ततः पार्थः प्रविवेश लतागृहम् ।
ततः सुभद्रा ललिता लज्जाभावसमन्विता ॥
मुमोह शयने दिव्ये शयाना न तथोचिता ।
नाकरोद्यतिपूजां सा लज्जाभावमुपेयुषी ॥
कन्यापुरे तु यद्वृत्तं ज्ञात्वा दिव्येन चक्षुषा ।
शशास रुक्मिणीं कृष्णो भोजनादि तदार्जुने ॥
तदाप्रभृति तां भद्रां चिन्तयन्वै धनञ्जयः ।
आस्ते स्म स तदाऽऽरामे कामेन भृशपीडितः ॥
सुभद्रा चापि न स्वस्था पार्थं प्रति बभूव सा ।
कृशा विवर्णवदना चिन्ताशोकपरायणा ॥
निश्वासपरमा भद्रा मानसेन मनस्विनी ।
न शय्यासनभोगेषु रतिं विन्दति केनचित् ॥
न नक्तं न दिवा शेते बभूवोन्मत्तदर्शना । एवं शोकपरां भद्रां देवी वाक्यमथाब्रवीत् ।
मा शोकं कुरु वार्ष्णेयि धृतिमालम्ब्य शोभने ॥
रुक्मिण्येवं सुभद्रां तां कृष्णस्यानुमते तदा ।
रहोगत्य तदा श्वश्रूं देवकीं वाक्यमब्रवीत् ॥
अर्जुनो यतिरूपेण ह्यागतः सुसमाहितः ।
कन्यापुरमथाविश्य पूजितो भद्रया मुदा ॥
तं विदित्वा सुभद्रापि लज्जया परिमोहिता ।
दिवानिशं शयाना सा नाकरोद्भोजनादिकम् ॥
एवमुक्ता तया देवी भद्रां शोकपरायणाम् ।
तत्समीपं समागत्य श्लक्ष्णं वाक्यमथाब्रवीत् ॥
मा शोकं कुरु वार्ष्णेयि धृतिमालम्ब्य शोभने ।
राज्ञे निवेदयित्वापि वसुदेवाय धीमते ॥
कृष्णायापि तथा भद्रे प्रहर्षं कारयामि ते ।
पश्चाज्जानामि ते वार्तां मा शोकं कुरु भामिनि ॥
एवमुक्त्वा तु सा माता भद्रायाः प्रियकारिणी ।
निवेदयामास तदा भद्रामानकदुन्दुभेः ॥
रहस्येकासना तत्र भद्राऽस्वस्थेति चाब्रवीत् ।
आरामे तु यतिः श्रीमानर्जुनश्चेति नः श्रुतम् ॥
अक्रूराय च कृष्माय आहुकाय च सात्येकः ।
निवेद्यतां महाप्राज्ञ श्रोतव्यं यदि बान्धवैः ॥
वैशंपायन उवाच ।
वसुदेवस्तु तच्छ्रुत्वा अक्रूराहुकयोस्तथा ।
निवेदयित्वा कृष्णेन मन्त्रयामास तैस्तदा ॥
इदं कार्यमिदं कृत्यमिदमेवेति निश्चितः ।
अक्रूरश्चोग्रसेनश्च सात्यकिश्च गदस्तथा ॥
पृथुश्रवाश्च कृष्णश्च सहिताः शिनिना मुहुः ।
रुक्मिणी सत्यभामा च देवकी रोहिणी तथा ॥
वसुदेवेन सहिताः पुरोहितमते स्थिताः ।
विवाहं मन्त्रयामासुर्द्वादशेऽहनि भारत ॥
अज्ञातं रौहिणेयस्य उद्धवस्य च भारत ।
विवाहं तु सुभद्रायाः कर्तुकामो गदाग्रजः ॥
महादेवस्य पूजार्थं महोत्सव इति ब्रुवन् ।
चतुस्त्रिंशदहोरात्रं सुभद्रार्तिप्रशान्तये ॥
नगरे घोषयास हितार्थं सव्यसाचिनः ।
इतश्चतुर्थे त्वहनि अन्तर्द्वीपं तु गम्यताम् ॥
सदारैः सानुयात्रैश्च सपुत्रैः सहबाधवैः ।
गन्तव्यं सर्ववर्मैश्च गन्तव्यं सर्वयादवैः ॥
एवमुक्तास्तु ते सर्वे तथा चक्रुश्च सर्वशः ।
ततः सर्वदशार्हाणामन्तर्द्वीपे च भारत ॥
चतुस्त्रिंशदहोरात्रं बभूव परमोत्सवः ।
कृष्णरामाहुकाक्रूरप्रद्युम्नशिनिसत्यकाः ॥
समुद्रं प्रययुर्हृष्टाः कुकुरान्धकवृष्णयः ।
युक्तयन्त्रपताकाभिर्वृष्णयो ब्राह्मणैः सह ॥
समुद्रं प्रययुर्नौभिः सर्वे पुरनिवासिनः ।
ततस्त्वरितमागत्य दाशार्हगणपूजितम् ॥
सुभद्रा पुण्डरीकाक्षमब्रवीद्यतिशासनात् ।
कृत्यवान्द्वादशाहानि स्थाता स भगवानिह ॥
तिष्ठतस्तस्य कः कुर्यादुपस्थानविधिं सदा ।
तमुवाच हृषीकेशः कस्त्वदन्यो विशेषतः ॥
तमृषिं प्रत्युपस्थातुमितो नार्हति माधवि ।
त्वमेवास्मन्मतेनाद्य महर्षेर्वशवर्तिनी ॥
कुरु सर्वाणि कार्याणि कीर्तिं धर्ममवेक्ष्य च ।
तस्य चातिथिमुख्यस्य सर्वेषां च तपस्विनाम् ॥
संविधानपरा भद्रे भव त्वं वशवर्तिनी ॥
वैशंपायन उवाच ।
एवमादिश्य भिक्षां च भद्रां च मधुसूदनः ।
ययौ शङ्खप्रणादेन भेरीणां निस्वनेन च ॥
ततस्तु द्वीपमासाद्य दानधर्मपरायणाः ।
उग्रसेनमुखाश्चान्ये विजहुः कुकुरान्धकाः ॥
पटहानां प्रणादैश्च भेरीणां निस्वनेन च ।
सप्तयोजनविस्तार आयतो दशयोजनम् ॥
बभूव स महाद्वीपः सपर्वतमहावनः ।
सेतुपुष्करिणीजालैराक्रीडः सर्वसात्वताम् ॥
वापीपल्वलसङ्घैश्च काननैश्च मनोरमैः ।
वासुदेवस्य क्रीडार्थं योग्यः सर्वप्रहर्षतः ॥
कुकुरान्धकवृष्णीनां तथा प्रियकरस्तदा ।
बभूव परमोपेतस्त्रिविष्टप इवापरः ॥
चतुस्त्रिंशदहोरात्रं दानधर्मपरायणाः ।
उग्रसेनमुखाः सर्वे विजहुः कुकुरान्धकाः ॥
विचित्रमाल्याभरणाश्चित्रगन्धानुलेपनाः ।
विहाराभिगताः सर्वे यादवा हर्षसंयुताः ॥
सुनृत्तगीतवादित्रै रममाणास्तदाऽभवन् । प्रतियाते दशार्हाणामृषभे शार्ङ्गधन्वनि ।
सुभध्रोद्वाहनं पार्थः प्राप्तकालममन्यत ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि सुभद्राहरणपर्वणि एकचत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 241 ॥

अध्यायः 242

सुभद्राविवाहः ॥ 1 ॥

वैशंपायन उवाच ।
कुकुरान्धकवृष्णीनामपयानं च पाण्डवः ।
विनिश्चित्य ततः पार्थः सुभद्रामिदमब्रवीत् ॥
शृणु भद्रे यथाशास्त्रं हितार्थं मुनिभिः कृतम् ।
विवाहं बहुधा सत्सु वर्णानां धर्मसंयुतम् ॥
कन्यायास्तु पिता भ्राता माता मातुल एव वा ।
पितुः पिता पितुर्भ्राता दाने तु प्रभुतां गतः ॥
महोत्सवं पशुपतेर्द्रष्टुकामः पिता तव ।
अन्तर्द्वीपं गतो भद्रे पुत्रैः पौत्रैः सबान्धवैः ॥
मम चैव विशालाक्षि विदेशस्था हि बान्धवाः ।
तस्मात्सुभद्रे गान्धर्वो विवाहः पञ्चमः स्मृतः ॥
समागमे तु कन्यायाः क्रियाः प्रोक्ताश्चतुर्विधाः ।
तेषां प्रवृत्तिं साधूनां शृणु माधवि तद्यथा ॥
वरमाहूय विधिना पित्रा दत्ता तथार्थिने ।
सा पत्नी तु परैरुक्ता सा वश्या तु पतिव्रता ॥
भृत्यानां भरणार्थाय आत्मनः पोषणाय च ।
दाने गृहीता या नारी सा भार्येति स्मृता बुधैः ॥
धर्मतो वरयित्वा तु आनीय स्वं निवेशनम् ।
न्यायेन दत्तातारुण्ये दाराः पितृकृताः स्मृताः ॥
गान्धर्वेण विवाहेन रागात्पुत्रार्थकारणात् ।
आत्मनाऽनुगृहीता या वश्या सा तु प्रजावती ॥
जनयेद्या तु भर्तारं जाया इत्येव नामतः ।
पत्नी भार्या च दाराश्च जाया चेति चतुर्विधाः ॥
चतस्र एवाग्निसाक्ष्याः क्रियायुक्ताश्च धर्मतः ।
गान्धर्वस्तु क्रियाहीनो रागादेव प्रवर्तते ॥
सकामायाः सकामेन निर्मन्त्रो रहसि स्मृतः ।
मयोक्तमक्रियं चापि कर्तव्यं माधवि त्वया ॥
अयनं चैव मासश्च ऋतुः पक्षस्तथा तिथिः ।
करणं च मुहूर्तं च लग्नसंपत्तथैव च ॥
विवाहस्य विशालाक्षि प्रशस्तं चोत्तरायणम् ।
वैशाखश्चैव मासानां पक्षाणां शुक्ल एव च ॥
नक्षत्राणां तथा हस्तस्तृतीया च तिथिष्वपि ।
लग्नो हि मकरः श्रेष्ठः करणानां बवस्तथा ॥
मैत्रो मुहूर्तो वैवाह्य आवयोः शुभकर्मणि ।
सर्वसंपदियं भद्रे अद्य रात्रौ भविष्यति ॥
भगवानस्तमभ्येति आदित्यस्तपतां वरः ।
रात्रौ विवाहकालोऽयं भविष्यति न संशयः ॥
नारायणोऽपि सर्वज्ञो नावबुध्येत विश्वकृत् ।
धर्मसङ्कटमापन्ने किं नु कृत्वा सुखं भवेत् ॥
मनोभवेन कामेन मोहितं मां प्रलापिनम् ।
प्रतिवाक्यं च मे देवि किं न वक्ष्यसि माधवि ॥
वैशंपायन उवाच ।
अर्जुनस्य वचः श्रुत्वा चिन्तयन्ती जनार्दनम् ।
नोवाच किंचिद्वचनं बाष्पदूषितलोचना ॥
रागोन्मादप्रलापी सन्नर्जुनो जयतां वरः ।
चिन्तयामास पितरं प्रविश्य च लतागृहम् ॥
चिन्तयानं तु कौन्तेयं मत्वा शच्या शचीपतिः ।
सहितो नारदाद्यैश्च मुनिभिश्च महामनाः ॥
गन्धर्वैरप्सरोभिश्च चारणैश्चापि गुह्यकैः ।
अरुन्धत्या वसिष्ठेन ह्याजगाम कुशस्थलीम् ॥
चिन्तितं च सुभद्रायाश्चिन्तयित्वा जनार्दनः ।
निद्रयापहृतज्ञानं रौहिणेयं विना तदा ॥
सहाक्रूरेण शिनिना सत्यकेन गदेन च ।
वसुदेवेन देवक्या आहूकेन च धीमता ॥
आजगाम पुरीं रात्रौ द्वारकां स्वजनैर्वृतः ।
पूजयित्वा तु देवेशो नारदादीन्महायशाः ॥
कुशलप्रश्नमुक्त्वा तु देवेन्द्रेणाभियाचितः ।
वैवाहिकीं क्रियां कृष्णः स तथेत्येवमुक्तवान् ॥
आहुको वसुदेवश्च सहाक्रूरः ससात्यकिः । अभिप्रणम्य शिरसा पाकशासनमब्रुवन् ।
देवदेव नमस्तेस्तु लोकनाथ जगत्पते ॥
वयं धन्याः स्म सहितैर्बान्धवैः सहिताः प्रभो ।
कृतप्रसादास्तु वयं तव वाक्येन विश्वजित् ॥
वैशंपायन उवाच ।
एवमुक्त्वा प्रसाद्यैनं पूजयित्वा प्रयत्नतः ।
महेन्द्रशासनात्सर्वे सहिता ऋषिभिस्तदा ॥
विवाहं कारयामासुः शक्रपुत्रस्य शास्त्रतः ।
अरुन्धती शची देवी रुग्मिणी देवकी तथा ॥
दिव्यस्त्रीभिश्च सहिताः सुभद्रायाः शुभाः क्रियाः ।
अर्जुनेऽपि तथा सर्वाः क्रिया भद्राः प्रयोजयन् ॥
महर्षिः काश्यपो होता सदस्या नारदादयः ।
पुण्याशिषः प्रयोक्तारः सर्वे ते हि तदार्जुने ॥
अभिषेकं तदा कृत्वा महेन्द्रः पाकशासनिम् ।
लोकपालैस्तु सहितः सर्वदेवैरभिष्टुतः ॥
किरीटाङ्गदहाराद्यैर्हस्ताभरणकुण्डलैः ।
भूषयित्वा तदा पार्थं द्वितीयमिव वासवम् ॥
पुत्रं परिष्वज्य तदा प्रीतिमाप पुरन्दरः ।
शछी देवी तदा भद्रामरुन्धत्यादिभिस्तथा ॥
कारयामास वैवाह्यमङ्गलान्यादवस्त्रियः ।
सहाप्सरोभिर्मुदिता भूषयित्वा स्वभूषणैः ॥
पौलोमीमिव मन्यन्ते सुभद्रां तत्र योषितः ।
ततो विवाहो ववृधे कृतः सर्वगुणान्वितः ॥
तस्याः पाणिं गृहीत्वा तु मन्त्रैर्होमपुरस्कृतम् ।
सुभद्रया बभौ जिष्णुः शच्या इव शचीपतिः ॥
सा जिष्णुमधिकं भेजे सुभद्रा चारुदर्शना ।
पार्थस्य सदृशी भद्रा रूपेण वयसा तथा ॥
सुभद्रायाश्च पार्थोऽपि सदृशो रूपलक्षणैः ।
इत्यूचुश्च तदा देवाः प्रीताः सेन्द्रपुरोगमाः ॥
एवं निवेश्य देवास्ते गन्धर्वैः साप्सरोगणैः ।
आमन्त्र्य यादवाः सर्वे विप्रजग्मुर्यथागतम् ॥
यादवाः पार्थमामन्त्र्य अन्तर्द्वीपं गतास्तदा ।
वासुदेवस्तदा पार्थमुवाच यदुनन्दनः ॥
द्वाविंशद्दिवसान्पार्थ इहोष्य भरतर्षभ ।
मामकं रथमारुह्य शैब्यसुग्रीवयोजितम् ॥
सुभद्रया सुखं पार्थ खाण्डवप्रस्थमाविश । यादवैः सहितः पश्चादागमिष्यामि भारत ।
यतिवेषेण नियतो वस त्वं रुक्मिणीगृहे ॥
वैशंपायन उवाच ।
एवमुक्त्वा प्रचक्राम अन्तर्द्वीपं जनार्दनः ।
कृतोद्वाहस्ततः पार्थः कृतकार्योऽभवत्तदा ॥
तस्यां चोपगतो भावः पार्थस्य सुमहात्मनः ।
तस्मिन्भावः सुभद्राया अन्योन्यं समवर्धत ॥
स तथा युयुजे वीरो भद्रया भरतर्षभः ।
अभिनिष्पन्नया रामः सीतयेव समन्वितः ॥
अपि जिष्णुर्विजज्ञे तां ह्रीं श्रियं सन्नतिक्रियाम् ।
देवतानां वरस्त्रीणां रूपेण सदृशीं सतीम् ॥
स प्रकृत्या श्रिया दीप्त्या संदिदीपे तयाऽधिकम् ।
उद्यत्सहस्रदीप्तांशुः शरदीव दिवाकरः ॥
सा तु तं मनुजव्याघ्रमनुरक्ता यशस्विनी ।
कन्यापुरगता भूत्वा तत्परा समपद्यत ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि सुभद्राहरणपर्वणि द्विचत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 242 ॥

अध्यायः 243

कृष्णरथमास्थाय सुभद्रयासह अर्जुनस्य खाण्डवप्रस्थं गन्तुं यत्नः ॥ 1 ॥

वैशंपायन उवाच ।
वृष्म्यन्धकपुरात्तस्मादपयातुं धनञ्जयः ।
विनिश्चित्य तया सार्धं सुभद्रामिदमब्रवीत् ॥
द्विजानां गुणमुख्यानां यथार्हं प्रतिपादय ।
भोज्यैर्भक्ष्यैश्च कामैश्च स्वपुरीं प्रतियास्यताम् ॥
आत्मनश्च समुद्दिश्य महाव्रतसमापनम् ।
गच्छ भद्रे स्वयं तूर्णं महाराजनिवेशनम् ॥
तेजोबलजवोपेतैः शुक्लैर्हयवरोत्तमैः ।
वाजिभिः शैव्यसुग्रीवमेघपुष्पबलाहकैः ॥
युक्तं रथवरं तूर्णमिहानय सुसत्कृतम् ।
व्रतार्थमिति भाषित्वा सखीभिः सुभगे सह ॥
क्षिप्रमादाय पर्येहि सह सर्वायुधेन च ।
अनुकर्षान्तपताकाश्च तूणीरांश्च धनूंषि च ॥
सर्वान्रथवरे स्थाप्य सोत्सेधाश्च महागदाः ॥
वैशंपायन उवाच ।
अर्जुनेनैवमुक्ता सा सुभद्रा भद्रभाषिणी ।
जगाम नृपतेर्वेश्म सखीभिः सहिता तदा ॥
व्रतार्थमिति तत्रस्थान्रक्षिणो वाक्यमब्रवीत् ।
रथेनानेन यास्यामि महाव्रतसमापनम् ॥
शैब्यसुग्रीवयुक्तेन सायुधेनैव शार्ङ्गिणः ।
रथेन रमणीयेन प्रयास्यामि व्रतार्थिनी ॥
सुभध्रयैवमुक्ते तु जनाः प्राञ्जलयोऽभवन् ।
योजयित्वा रथवरं कल्याणैरभिभाष्य ताम् ॥
यथोक्तं सर्वमारोप्य आयुधानि च भामिनी ।
क्षिप्रमादाय कल्याणी सुभद्राऽर्जुनमब्रवीत् ॥
रथोऽयं रथिनां श्रेष्ठ आनीतस्तव शासनात् ।
स त्वं याहि यथाकामं कुरून्कौरवनन्दन ॥
वैशंपायन उवाच ।
निवेद्य तु रथं भर्तुः सुभद्रा भद्रसंमता ।
ब्राह्मणानां तदा हृष्टा ददौ सा विविधं वसु ॥
स्नेहवन्ति च भोज्यानि प्रददावीप्सितानि च ।
यथाकामं यथाश्रद्धं वस्त्राणि विविधानि च ॥
तर्पिता विविधैर्भोज्यैस्तान्यवाप्य वसूनि च ।
ब्राह्मणाः स्वगृहं जग्मुः प्रयुज्य परमाशिषः ॥
सुभद्रया तु विज्ञप्तः पूर्वमेव धनञ्जयः ।
अभीशुग्रहणे पार्थ न मेऽस्ति सदृशो भुवि ॥
तस्मात्सा पूर्वमारुह्य रश्मीञ्जग्राह माधवी ।
सोदरा वासुदेवस्य कृतस्वस्त्ययना हयान् ॥
व्यत्ययित्वा तु तल्लिङ्गं यतिवेषं धनञ्जयः ।
आमुच्य कवचं वीरः समुच्छ्रितमहद्धनुः ॥
आरुरोह रथश्रेष्ठं शुक्लवासा धनञ्जयः ।
महेन्द्रदत्तं मुकुटं तथैवाभरणानि च ॥
अलङ्कृत्य तु कौन्तेयः प्रयातुमुपचक्रमे ।
ततः कन्यापुरे घोषस्तुमुलः समपद्यत ॥
दृष्ट्वा नववरं पार्थं बाणखड्गधनुर्धरम् ।
अभीशुहस्तां सुश्रोणीमर्जुनेन रथे स्थिताम् ॥
ऊचुः कन्यास्तदा यान्तीं वासुदेवसहोदराम् ।
सर्वकामसमृद्धा त्वं सुभद्रे भद्रभाषिणि ॥
वासुदेवप्रियं लब्ध्वा भर्तारं वीरमर्जुनम् ।
सर्वसीमन्तिनीनां त्वां श्रेष्ठां कृष्णसहोदरीम् ॥
मन्यामहे महाभागे सुभद्रे भद्रभाषिणि ।
यस्मात्सर्वमनुष्याणां श्रेष्ठो भर्ता तवार्जुनः ॥
उपपन्नस्त्वया वीरः सर्वलोकमहारथः ।
हे प्रयाहि गृहान्भद्रे सुहृद्भिः संगमोऽस्तु ते ॥
वैशंपायन उवाच ।
एवमुक्ता प्रहृष्टाभिः सखीभिः प्रतिनन्दिता ।
भद्रा भद्रजवोपेतानश्वान्पुनरचोदयत् ॥
पार्श्वे चामरहस्ता सा सखी तस्याङ्गनाऽभवत् ।
ततः कन्यापुरद्वारात्सघोषादभिनिःसृतम् ॥
ददृशुस्तं रथश्रेष्ठं जना जीमूतनिस्वनम् ।
सुभद्रासङ्गृहीतस्य रथस्य महतः स्वनम् ॥
मेघस्वनमिवाकाशे शुश्रुवुः पुरवासिनः ।
सुभद्रया तु संपन्ने तिष्ठन्रथवरेऽर्जुनः ॥
प्रबभौ च तयोपेतः कैलास इव गङ्गया ।
पार्थः सुभद्रासहितो विरराज महारथः ॥
विराजते यथा शक्रो राजञ्शच्या समन्वितः ।
सुभद्रां प्रेक्ष्य पार्थेन ह्रियमाणां यशस्विनीम् ॥
चक्रुः किलकिलाशब्दानासाद्य बहवो जनाः ।
दाशार्हाणां कुलस्य श्रीः सुभद्रा मद्रभाषिणी ॥
अभिकामा सकामेन पार्थेन सह गच्छति ।
अथापरे तु संक्रुद्धा गृह्णीत घ्नत माचिरम् ॥
इति संवार्य शस्त्राणि ववर्षुरभितो दिशम् ।
इति संभाषमाणानां स नादः सुमहानभूत् ॥
स तेन जनघोषेण वीरो गज इवार्दितः ।
ववर्ष शरवर्षाणि न तु कंचन रोषयत् ॥
मुमोच निशितान्बाणान्दीप्यमानान्स्वतेजसा ।
प्रासादवरसङ्घेषु हर्म्येषु भवनेषु च ॥
क्षोभयित्वा पुरश्रेष्ठं गरुत्मानिव सागरम् ।
प्रेक्षन्रैवकतद्वारं निर्ययौ भरतर्षभः ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि सुभद्राहरणपर्वणि त्रिचत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 243 ॥

अध्यायः 244

द्वारकाया बहिर्निर्गच्छतोऽर्जुनस्य विपृथुना युद्धम् ॥ 1 ॥ विपृथुं जित्वाऽर्जुनस्य खाण्डवप्रस्थंप्रति गमनम् ॥ 2 ॥ युद्धोद्युक्तानां यादवानां बलरामवाक्यान्निवृत्तिः ॥ 3 ॥ बलस्य क्रोधः ॥ 4 ॥

वैशंपायन उवाच ।
शासनात्पुरुषेन्द्रस्य बलेन महता बली ।
गिरौ रैवतके नित्यं बभूव विपृथुश्रवाः ॥
प्रवासे वासुदेवस्य तस्मिन्हलधरोपमः ।
संबभूव तदा गोप्ता पुरस्य पुरवर्धनः ॥
प्राप्य पाण्डवनिर्याणं निर्ययौ विपृथुश्रवाः ।
निशम्य पुरनिर्घोषं स्वमनीकमचोदयत् ॥
सोऽभिपत्य तदाध्वानं ददर्श पुरुषर्षभम् ।
निःसृतं द्वारकाद्वारादंशुमन्तमिवाम्बिरात् ॥
सविद्युतमिवाम्भोदं प्रेक्षतां तं धनुर्धरम् ।
पार्थमानर्तयोधानां विस्मयः समपद्यत ॥
उदीर्णरथनागाश्वमनीकमभिवीक्ष्य तत् ।
उवाच परमप्रीता सुभद्रा भद्रभाषिणी ॥
संग्रहीतुमभिप्रायो दीर्घकालकृतो मम ।
युध्यमानस्य सङ्ग्रामे रथं तव नरर्षभ ॥
ओजस्तेजोद्युतिबलैरन्वितस्य महात्मनः ।
पार्थ ते सारथित्वेन भविता शिक्षितास्म्यहम् ॥
एवमुक्तः प्रियां प्रीतः प्रत्युवाच नरर्षभः ।
चोदयाश्वानसंसक्तान्विश्तु विपृथोर्बलम् ॥
बहुभिर्युध्यमानस्य तावकान्विजिघांसतः ।
पश्य बाहुबलं भद्रे शरान्विक्षिपतो मम ॥
वैशंपायन उवाच ।
एवमुक्ता तदा भद्रा पार्थेन भरतर्षभ ।
चुचोद साश्वान्संहृष्टा ते ततो विविशुर्बलम् ॥
तदाहतमहावाद्यं समुदग्रध्वजायुतम् ।
अनीकं विपृथोर्हृष्टं पार्थमेवान्ववर्तत ॥
रथैर्बहुविधाकारैः सदश्वैश्च महाजवैः ।
किरन्तः शरवर्षाणि परिवव्रुर्धनञ्जयम् ॥
तेषामस्त्राणि संवार्य दिव्यास्त्रेण महास्त्रवित् ।
आवृणोन्महदाकाशं शरैः परपुरञ्जयः ॥
तेषां बाणान्महाबाहुर्मुकुटान्यङ्गदानि च ।
चिच्छेद निशितैर्बाणैः शरांश्चैव धनूंषि च ॥
युगानीषान्वरूथानि यन्त्राणि विविधानि च ।
अजिघांसन्परान्पार्थश्चिच्छेद निशितैः शरैः ॥
विधनुष्कान्विकवचान्विरथांश्च महारथान् ।
कृत्वा पार्थः प्रियां प्रीतः प्रेक्ष्यतामित्यदर्शयत् ॥
सा दृष्ट्वा महदाश्चर्यं सुभद्रा पार्थमब्रवीत् ।
अवाप्तार्थाऽस्मि भद्रं ते याहि पार्थ यथासुखम् ॥
स सक्तं पाण्डुपुत्रेण समीक्ष्य विपृथुर्बलम् ।
त्वरमाणोऽभिसंक्रम्य स्थीयतामित्यभाषत ॥
ततः सेनापतेर्वाक्यं नात्यवर्तन्त यादवाः ।
सागरे मारुतोद्धूता वेलामिव महोर्मयः ॥
ततो रथवरात्तूर्णमवरुह्य नरर्षभः ।
अभिगम्य नरव्याघ्रं प्रहृष्टः परिषस्वजे ॥
सोऽब्रवीत्पार्थमासाद्य दीर्घकालमिदं तव ।
निवासमभिजानामि शङ्खचक्रगदाधरात् ॥
न मेऽस्त्यविदितं किंचिद्यद्यदाचितं त्वया ।
सुभद्रार्थं प्रलोभेन प्रीतस्तव जनार्दनः ॥
प्राप्तस्य यतिलिङ्गेन वासितस्य धनञ्जय ।
बन्धुमानसि रामेण महेन्द्रावरजेन च ॥
मामेव च सदाकाङ्क्षी मन्त्रिणं मधुसूदनः ।
अन्तरेण सुभद्रां च त्वां च तात धनञ्जय ॥
इमं रथवरं दिव्यं सर्वशस्त्रसमन्वितम् ।
इदमेवानुयात्रं च निर्दिश्य गदपूर्वजः ॥
अन्तर्द्वीपं तदा वीर गतो वृष्णिसुखावहः ।
दीर्घकालावरुद्धं त्वां संप्राप्तं प्रियया सह ॥
पश्यन्तु भ्रातरः सर्वे वज्रपाणिमिवामराः ।
आयाते तु दशार्हाणामृषभे शार्ङ्गधन्वनि ॥
भद्रामनुगमिष्यन्ति रत्नानि च वसूनि च ।
अरिष्टं याहि पन्थानं सुखी भव धनञ्जय ॥
नष्टशोकैर्विशोकस्य सुहृद्भिः संगमोऽस्तु ते ॥
वैशंपायन उवाच ।
ततो विपृथुमामन्त्र्य पार्थः प्रीतोऽभिवाद्य च ।
कृष्णस्य मतमास्थाय कृष्णस्य रथमास्थितः ॥
पूर्वमेव तु पार्थाय कृष्णेन विनियोजितम् ।
सर्वरत्नसुसंपूर्णं सर्वभोगसमन्वितम् ॥
रथेन काञ्चनाङ्गेन कल्पितेन यथाविधि ।
शैब्यसुग्रीवयुक्तेन किङ्किणीजालमालिना ॥
सर्वशस्त्रोपपन्नेन जीमूतरवनादिना ।
ज्वलनार्चिःप्रकाशेन द्विषतां हर्षनाशिना ॥
सन्नद्धः कवची खड्गी बद्धगोधाङ्गुलित्रवान् । युक्तः सेनानुयात्रेण रथणारोप्य माधवीम् ।
रथेनाकाशगेनैव पययौ *स्वपुरं प्रति ॥
ह्रियमाणां तु तां दृष्ट्वा सुभद्रां सैनिका जनाः ।
विक्रोशन्तोऽद्रवन्सर्वे द्वारकामभितः पुरीम् ॥
ते समासाद्य सहिताः सुधर्मामभितः सभाम् ।
सभापालस्य तत्सर्वमाचख्युः पार्थविक्रमम् ॥
तेषां श्रुत्वा सभापालो भेरीं सान्नाहिकीं ततः ।
समाजघ्ने महाघोषां जाम्बूनदपरिष्कृताम् ॥
क्षुब्धास्तेनाथ शब्देन भोजवृष्ण्यन्धकास्तदा । `अन्तर्द्वीपात्समुत्पेतुः सहसा सहितास्तदा ।'
अन्नपानमपास्याथ समापेतुः समन्ततः ॥
तत्र जाम्बूनदाङ्गानि स्पर्ध्यास्तरणवन्ति च ।
मणिविद्रुमचित्राणि ज्वलिताग्निप्रभाणि च ॥
भेजिरे पुरुषव्याघ्रा वृष्ण्यन्धकमहारथाः ।
सिंहासनानि शतशो धिष्ण्यानीव हुताशनाः ॥
तेषां समुपविष्टानां देवानामिव सन्नये ।
आचख्यौ चेष्टितं जिष्णोः सभापालः सहानुगः ॥
तच्छ्रुत्वा वृष्णिवीरास्ते मदसंरक्तलोचनाः ।
अमृष्यमाणाः पार्थस्य समुत्पेतुरहङ्कृताः ॥
योजयध्वं रथानाशु प्रासानाहरतेति च ।
धनूंषि च महार्हाणि कवचानि बृहन्ति च ॥
सूतानुच्चुक्रुशुः केचिद्रथान्योजयतेति च ।
स्वयं च तुरगान्केचिदयुञ्जन्हेमभूषितान् ॥
रथेष्वानीयमानेषु कवचेषु ध्वजेषु च ।
अभिक्रन्दे नृवीराणां तदासीत्तुमुलं महत् ॥
वनमाली ततः क्षीबः कैलासशिखरोपमः ।
नीलवासा मदोत्सिक्त इदं वचनमब्रवीत् ॥
किमिदं कुरुथाप्रज्ञास्तूष्णींभूते जनार्दने ।
अस्य भावमविज्ञाय संक्रुद्धा मोघगर्जिताः ॥
एष तावदभिप्रायमाख्यातु स्वं महामतिः ।
यदस्य रुचिरं कर्तुं तत्कुरुध्वमतन्द्रिताः ॥
ततस्ते तद्वचः श्रुत्वा ग्राह्यरूपं हलायुधात् ।
तूष्णींभूतास्ततः सर्वे साधुसाध्विति चाब्रुवन् ॥
समं वचो निशम्यैव बलदेवस्य धीमतः ।
पुनरेवसभामध्ये सर्वे ते समुपाविशन् ॥
ततोऽब्रवीद्वासुदेवं वचो रामः परन्तपः । `त्रैलोक्यनाथ हे कृष्ण भूतभव्यभविष्यकृत् ।'
किमवागुपविष्टोऽसि प्रेक्षमाणो जनार्दन ॥
सत्कृतस्त्वत्कृते पार्थः सर्वैरस्माभिरच्युत ।
न च सोऽर्हति तां पूजां दुर्बुद्धिः कुलपांसनः ॥
को हि तत्रैव भुक्तावान्नं भाजनं भेत्तुमर्हति ।
मन्यमानः कुले जातमात्मानं पुरुषः क्वचित् ॥
इच्छन्नेव हि संबन्धं कृतं पूर्वं च मानयन् ।
को हि नाम भवेनार्थी साहसेन समाचरेत् ॥
सोऽवमन्य तथाऽस्माकमनादृत्य च केशवम् ।
प्रसह्य हृतवानद्य सुभद्रां मृत्युमात्मनः ॥
कथं हि शिरसो मध्ये कृतं तेन पदं मम ।
मर्षयिष्यामि गोविन्द पादस्पर्शमिवोरगः ॥
अद्य निष्कौरवामेकः करिष्यामि वसुन्धराम् ।
न हि मे मर्षणीयोऽयमर्जुनस्य व्यतिक्रमः ॥
तं तथा गर्जमानं तु मेघदुन्दुभिनिःस्वनम् ।
अन्वपद्यन्त ते सर्वे भोजवृष्ण्यन्धकास्तदा ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि सुभद्राहरणपर्वणि चतुश्चत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 244 ॥ ॥ समाप्तं च सुभद्राहरणपर्व ॥

1-244-42 सन्नये समुदाये चतुश्चत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 244 ॥ * 239 तमाध्यायस्य 26 श्लोकादुपरि प्रकृतश्लोकपर्यन्तं विद्यमानानां 248 श्लोकानां स्थाने च, ज, झ, ञ, ड, पुस्तकेषु अधोलिखिता अष्टौ श्लोका एव दृश्यन्ते । 1-244a-1x वैशंपायन उवाच । 1-244a-1a ततः संवादिते तस्मिन्ननुज्ञातो धनञ्जयः । 1-244a-1b गतां रैवतके कन्यां विदित्वा जनमेजय ॥ 1-244a-2a वासुदेवाभ्यनुज्ञातः कथयित्वेतिकृत्यताम् । 1-244a-2b कृष्णस्य मतमादाय प्रययौ भरतर्षभः ॥ 1-244a-3a रथेन काञ्चनाङ्गेन कल्पितेन यथाविधि । 1-244a-3b शैब्यसुग्रीवयुक्तेन किङ्किणीजालमालिना ॥ 1-244a-4a सर्वशस्त्रोपपन्नेन जीमूतरवनादिना । 1-244a-4b ज्वलिताग्निप्रकाशेन द्विषतां हर्षघातिना ॥ 1-244a-5a सन्नद्धः कवची खड्गी बद्धगोधाङ्गुलित्रवान् । 1-244a-5b मृगयाव्यपदेशेन प्रययौ पुरुषर्षभः ॥ 1-244a-6a सुभद्रा त्वथ शैलेन्द्रमभ्यर्च्यैव हि रैवतम् । 1-244a-6b दैवतानि च सर्वाणि ब्राह्मणान्स्वस्तिवाच्य च ॥ 1-244a-7a प्रदक्षिणं गिरेः कृत्वा प्रययौ द्वारकां प्रति । 1-244a-7b तामभिद्रुत्य कौन्तेयः प्रसह्यारोपयद्रथम् । 1-244a-7c सुभद्रां चारुसर्वाङ्गीं कामबाणप्रपीडितः ॥ 1-244a-8a ततः स पुरुषव्याघ्रस्तामादाय शुचिस्मिताम् । 1-244a-8b रथेन काञ्चनाङ्गन प्रययौ स्वपुरं प्रति ॥

अध्यायः 245

(अथ हरणाहरणपर्व ॥ 17 ॥)

कृष्णेन बलरामसान्त्वनम् ॥ 1 ॥ अर्जुनंप्रत्यानेतुं यादवानां गमनम् ॥ 2 ॥ विपृथुवाक्यादुर्जनं दूरगतं ज्ञात्वा तेषां प्रतिनिवर्तनम् ॥ 3 ॥ सुभद्रया सह अर्जुनस्य खाण्डवप्रस्थगमनम् ॥ 4 ॥

वैशंपायन उवाच ।
उक्तवन्तो यथावीर्यमसकृत्सर्ववृष्णयः ।
ततोऽब्रवीद्वासुदेवो वाक्यं धर्मार्थसंयुतम् ॥
`मयोक्तं न श्रुतं पूर्वं सहितैः सर्वयादवैः । अतिक्रान्तमतिक्रान्तं न निवर्तेत कर्हिचित् ।
शृणुध्वं सहिताः सर्वे मम वाक्यं सहेतुकम् ॥'
नावमानं कुलस्यास्य गुडाकेशः प्रयुक्तवान् ।
संमानोऽभ्यधिकस्तेन प्रयुक्तोऽयं न संशयः ॥
अर्थलुब्धान्न वः पार्थो मन्यते सात्वतान्सदा ।
स्वयंवरमनाधृष्यं मन्यते चापि पाण्डवः ॥
प्रदानमपि कन्यायाः पशुवत्को नु मन्यते ।
विक्रयं चाप्यपत्यस्य कः कुर्यात्पुरुषो भुवि ॥
एतान्दोषांस्तु कौन्तेयो दृष्टवानिति मे मतिः । `क्षत्रियाणां तु वीर्येण प्रशस्तं हरणं बलात् ।'
अतः प्रसह्य हृतवान्कन्यां धर्मेण पाण्डवः ॥
उचितश्चैव संबन्धः सुभद्रा च शयस्विनी ।
एष चापीदृशः पार्थः प्रसह्य हृतवानतः ॥
भरतस्यान्वये जातं शान्तनोश्च यशस्विनः ।
कुन्तिभोजात्माजापुत्रं का बुभूषेत नार्जुनम् ॥
न तं पश्यामि यः पार्थं विजयेत रणे बलात् ।
वर्जयित्वा विरूपाक्षं भगनेत्रहरं हरम् ॥
अपि सर्वेषु लोकेषु सेन्द्ररुद्रेषु मारिष ।
स च नाम रथस्तादृङ्मदीयास्ते च वाजिनः ॥
`मम शस्त्रं विशेषेण तूणौ चाक्षयसायकौ ।' योद्धा पार्थश्च शीघ्रास्त्रः को नु तेन समो भवेत् ।
तमभिद्रुत्य सान्त्वेन परमेण धनञ्जयम् ॥
निवर्तयत संहृष्टा ममैषा परमा मतिः ।
यदि निर्जित्य वः पार्थो बलाद्गच्छेत्स्वकं पुरं ॥
प्रणश्येद्वो यशः सद्यो न तु सान्त्वे पराजयः । `पितृष्वसायाः पुत्रो मे संबन्धं नार्हति द्विषाम् ।'
तच्छ्रुत्वा वासुदेवस्य तथा कर्तुं जनाधिप ॥
`उद्योगं कृतवन्तस्ते भेरीं सन्नाद्य यादवाः ।
अर्जुनस्तु तदा श्रुत्वा भेरीसन्नादनं महत् ॥
कौन्तेयस्त्वरमाणस्तु सुभद्रामभ्यभाषत ।
आयान्ति वृष्णयः सर्वे ससुहृज्जनबान्धवाः ॥
त्वदर्थं योद्धुकामास्ते मदरक्तान्तलोचनाः ।
प्रमत्तानशुचीन्मूढान्सुरामत्तान्नराधमान् ॥
वमनं पानशीलांस्तान्करिष्यामि शरोत्तमैः ।
उताहो वा मदोन्मत्तान्नयिष्यामि यमक्षयम् ॥
एवमुक्त्वा प्रियां पार्थो न्यवर्तत महाबलः ।
निवर्तमानं दृष्ट्वैव सुभद्रा त्रस्ततां गता ॥
एवं मा वद पार्थेति पादयोः पतिता तदा ।
सुभद्रा तु कलिर्जाता वृष्णीनां निधाय च ॥
एवं ब्रुवन्तः पौरास्ते ह्यपवादरताः प्रभो । मम शोकं वर्धयन्ति तस्मान्नाशं न चिन्तये ।
परिवादभयान्मुक्ता त्वत्प्रसादाद्भवाम्यहम् ॥
वैशंपायन उवाच ।
एवमुक्तस्ततः पार्थः प्रियया भद्रया तदा ।
गमनाय मतिं चक्रे पार्थः सत्यपराक्रमः ॥
स्तितपूर्वं तदाऽऽभाष्य परिष्वज्य प्रियां तदा ।
उत्थाप्य च पुनः पार्थो याहि याहीति चाब्रवीत् ॥
ततः सुभद्रा त्वरिता रश्मीन्संगृह्य पाणिना ।
चोदयामास जवनाञ्शीग्रमश्वान्कृतत्वरा ॥
ततस्तु कृतसन्नाहा वृष्णिवीराः समाहिताः ।
प्रत्यानयार्थं पार्थस्य जवनैस्तुरगोत्तमैः ॥
राजमार्गमनुप्राप्ता दृष्ट्वा पार्थस्य विक्रमम् ।
प्रासादपङ्क्तिस्तम्भेषु वेदिकासु ध्वजेषु च ॥
अर्जुनस्य शरान्दृष्ट्वा विस्मयं परमं गताः ।
केशवस्य वचस्तथ्यं मन्यमानास्तु यादवाः ॥
अतीत्य तं रैवतकं श्रुत्वा तु विपृथोर्वचः ।
अर्जुनेन कृतं श्रुत्वा गन्तुकामास्तु वृष्णयः ॥
श्रुत्वा दीर्घं गतं पार्थं न्यवर्तन्त महारथाः ।
पुरोद्यानमतिक्रम्य विशालं च गिरिव्रजम् ॥
सानुमुज्जयिनीं चैव वनान्युपवनानि च ।
पुण्येष्वानर्तराष्ट्रेषु वापीपद्मसरांसि च ॥
प्राप्य धेनुमतीतीर्थमश्वरोधसरः प्रति ।
प्रेक्षावर्तं ततः शैलमम्बुदं च नगोत्तमम् ॥
आराच्छृङ्गमथासाद्य तीर्णः करवतीं नदीम् ।
प्राप्य साल्वेयराष्ट्राणि निषधानप्यतीत्य च ॥
देवापृथुपुरं पश्यन् सर्वतः सुसमाहितः ।
तमतीत्य महाबाहुर्देवारण्यमपश्यत ॥
पूजयामासुरायान्तं देवारण्ये महर्षयः ।
स वनानि नदीः शैलान् गिरिप्रस्रवणानि च ॥
अतीत्य च तदा पार्थः सुभद्रासारथिस्तदा ।
कौरवं विषयं प्राप्य विशोकः समपद्यत ॥
सोदर्याणां महाबाहुः सिंहाशयमिवाशयम् ।
दूरादुपवनोपेतं समन्तात्सलिलावृतम् ॥
भद्रया मुदितो जिष्णुर्ददर्श वृजिनं पुरम् ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि हरणाहरणपर्वणि पञ्चत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 245 ॥

1-245-20 तस्मात्पापं न चिन्तये ॥ पञ्चत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 245 ॥

अध्यायः 246

अर्जुनेन सुभद्रायाः गोपीवेषेण द्रौपदीसमीपप्रेषणम् ॥ 1 ॥ कृतनतिं सुभद्रांप्रति पृथाद्रौपदीभ्यां आशीर्वादः ॥ 2 ॥ स्वपुरं प्रविष्टेनार्जुनेन भ्रातृश्यः स्वकृततीर्थयात्रावृत्तान्तकथनम् ॥ 3 ॥

वैशंपायन उवाच ।
क्रोशणात्रे पुरस्यासीद्गोष्ठं पार्थस्य शोभनम् ।
तत्रापि यात्वा बीभत्सुर्निविष्टो यदुकन्यया ॥
ततः सुभद्रां सत्कृत्य पार्थो वचनमब्रवीत् ।
गोपिकानां तु वेषेण गच्छ त्वं वृजिनं पुरम् ॥
कामव्याहारिणी कृष्णा रोचतां ते वचो मम ।
दृष्ट्वा तु परुषं ब्रूयात्सह तत्र मयागताम् ॥
अन्यवेषेण तु गतां दृष्ट्वा सा त्वां प्रियं वदेत् ।
यत्तु सा प्रथमं ब्रूयान्न तस्यास्ति निवर्तनम् ॥
तस्मान्मानं च दर्पं च व्यपनीय स्वयं व्रज ।
तस्य तद्वचनं श्रुत्वा सुभद्रा प्रत्यभाषत ॥
एवमेतत्करिष्यामि यथा त्वं पार्थ भाषसे ।
सुभद्रावचनं श्रुत्वा सुप्रीतः पाकशासनिः ॥
गोपालान्स समानीय त्वरितो वाक्यमब्रवीत् ।
तरुम्यः सन्ति यावन्त्यस्ताः सर्वा व्रजयोषितः ॥
आगच्छन्तु गमिष्यन्त्या भद्रया सह सङ्गताः ।
इन्द्रप्रस्थं पुरवरं कृष्णां द्रष्टुं यशस्विनीम् ॥
एतच्छ्रुत्वा तु गोपालैरानीता व्रजयोषितः । ततस्ताभिः परिवृतां व्रजस्त्रीभिः समन्ततः ॥'
सुभद्रां त्वरमाणश्च रक्तकौशेयवासिनीम् ।
पार्थः प्रस्थापयामास कृत्वा गोपालिकावपुः ॥
साऽधिकं तेन रूपेण शोभमाना यशस्विनी ।
`गोपालिकामध्यगता प्रययौ वृजिनं पुरम् ॥
त्वरिता खाण्डवप्रस्थमाससाद विवेश च ।' भवनं श्रेष्ठमासाद्य वीरपत्नी वराङ्गना ॥
ववन्दे पृथुताम्राक्षी पृथां भद्रा पितृष्वसाम् ।
तां कुन्ती चारुसर्वाङ्गीमुपाजिघ्रत मूर्धनि ॥
प्रीत्या परमया युक्ता आशीर्भिर्युञ्जताऽतुलाम् ।
ततोऽभिगम्य त्वरिता पूर्णेन्दुसदृशानना ॥
ववन्दे द्रौपदीं भद्रा प्रेष्याऽहमिति चाब्रवीत् ।
प्रत्युत्थाय तदा कृष्णा स्वसारं माधवस्य च ॥
परिष्वज्यावदत्प्रीत्या निःसपत्नोस्तु ते पतिः ।
`वीरसूर्भव भद्रे त्वं भव भर्तृप्रिया तथा ॥
ओजसा निर्मिता बह्वीरुवाच परमाशिषः ।' तथैव मुदिता भद्रा तामुवाच तथास्त्विति ॥
`ततः सुभद्रां वार्ष्णेयी परिष्वज्य शुभाननाम् ।
अङ्के निवेश्य मुदिता वसुदेवं प्रशस्य च ॥
ततः किलकिलाशब्दः क्षणेन समपद्यत ।
हर्षादानर्तयोधानामासाद्य वृजिनं पुरम् ॥
देवपुत्रप्रकाशास्ते जाम्बूनदमयध्वजाः ।
पृष्ठतोऽनुययुः पार्थं पुरुहूतमिवामराः ॥
गोभिरुष्ट्रैः सदश्वैश्च युक्तानि बहुला जनाः ।
ददृशुर्यानमुख्यानि दाशार्हपुरवासिनाम् ॥
ततः पुरवरे यूनां पुंसां वाच उदीरिताः ।
अर्जुने प्रतियाति स्म अश्रूयन्त समन्ततः ॥
प्रवासादागतं पार्थं दृष्ट्वा स्वमिव बान्धवम् । सोऽभिगम्य नरश्रेष्ठो दाशार्हशतसंवृतः ।
पौरैः पुरवरं प्रीत्या परया चाभिनन्दितः ।
प्राप्य चान्तःपुरद्वारमवरुह्य नरर्षभः ॥
ववन्दे धौम्यमासाद्य मातरं च धनञ्जयः ।
स्पृष्ट्वा च चरणौ राज्ञो भीमस्य च धनञ्जयः ॥
यमाभ्यां वन्दितो हृष्टः सस्वजे तौ ननन्द च ।
ब्राह्मणप्रमुखान्सर्वान्भ्रातृभिः सह सङ्गतः ॥
यथार्हं मानयामास पौरजानपदानपि ।
तत्रस्थान्यनुयातानि तीर्थान्यायतनानि च ॥
निवेदयामास तदा राज्ञे सर्वं स्वनुष्ठितम् ।
भ्रातृभ्यश्चैव सर्वेभ्यः कथयामास भारत ॥
श्रुत्वा सर्वं महाप्राज्ञो धर्मराजो युधिष्ठिरः ।
पुरस्तादेव तेषां तु पूजयामास चार्जुनम् ॥
पाण्डवेन यथार्हं तु पूजार्हेण सुपूजितः ।
न्यविशच्चाभ्यनुज्ञातो राज्ञा तुष्टो यशस्विना ॥
तामदीनां सुपूजार्हां सुभद्रां प्रीतिवर्धिनीम् ।
साक्षाच्छ्रियममन्यन्त पार्थाः कृष्णसहोदराम् ॥
गुरूणां श्वशुराणां च देवराणां तथैव च । सुभद्रा स्वेन वृत्तेन बभूव परमप्रिया ॥'
ततस्ते हृष्टमनसः पाण्डवेया महारथाः ।
कुन्ती च परमप्रीता कृष्णा च सततं तथा ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि हरणाहरणपर्वणि षट्चत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 246 ॥

अध्यायः 247

कृष्णानुमत्याऽर्जुनः सुभद्रां जहारेति पौराणामूहः ॥ 1 ॥ अर्जुने इन्द्रप्रस्थं प्राप्तं ज्ञात्वा यादवैः सह श्रीकृष्णस्य इन्द्रप्रस्थं प्रत्यागमनम् ॥ 2 ॥ आगताञ्श्रीकृष्णादीञ्श्रुत्वा युधिष्ठिरस्य प्रत्युद्गमनं तेषां सत्कारश्च ॥ 3 ॥ वैवाहिकमहोत्सवकरणम् ॥ 4 ॥ पारिबर्हदानम् ॥ 5 ॥ कंमचित्कालं तत्रोषितानां कुरुभिः पूजितानां बलरामादीनां द्वारकांप्रति गमनम् ॥ 6 ॥ अभिमन्यूत्पत्तिः ॥ 7 ॥ द्रौपद्याः युधिष्ठिरादिश्यः पञ्चपुत्रोत्पत्तिः तेषां विद्याश्यासश्च ॥ 8 ॥

वैशंपायन उवाच ।
अथ शुश्राव निर्वृत्ते वृष्णीनां परमोत्सवे ।
अर्जुनेन हृतां भद्रां शङ्खचक्रगदाधरः ॥
पुरस्तादेव पौराणां संशयः समजायत ।
जानता वासुदेवेन वासितो भरतर्षभः ॥
लोकस्य विदितं ह्यद्य पूर्वं विपृथुना यथा ।
सान्त्वयित्वाभ्यनुज्ञातो भद्रया सह सङ्गतः ॥
दित्सता सोदरां तस्मै पतत्त्रिवरकेतुना ।
अर्हते पार्थिवेन्द्राय पार्थायायतलोचनाम् ॥
सत्कृत्य पाण्डवश्रेष्ठं प्रेषयामास चार्जुनम् ।
भद्रया सह बीभत्सुः प्रापितो वृजिनं पुरम् ॥
इति पौरजनाः सर्वे वदन्ति च समन्ततः ।' श्रुत्वा तु पुण्डरीकाक्षः संप्राप्तं स्वपुरोत्तमम् ॥
अर्जुनं पाण्डवश्रेष्ठमिन्द्रप्रस्थगतं तथा ।
`यियासुः खाण्डवप्रस्थममन्त्रयत केशवः ॥
पूर्वं सत्कृत्य राजानमाहुकं मधुसूदनः ।
तथा विपृथुमक्रूरं संकर्षणविडूरथौ ॥
मन्त्रयामास तैः सार्धं पुरस्तादभिमानितैः ।
संकर्षणेन संमन्त्र्य ह्यनुज्ञातो महामनाः ॥
संप्रीतः प्रीयमाणेन वृष्णिराज्ञा जनार्दनः ।
अभिमन्त्र्याभ्यनुज्ञातो योजयामास वाहिनीम् ॥
ततस्तु यानान्यासाद्य दाशार्हाणां यशस्विनाम् ।
सिंहनादः प्रहृष्टानां क्षणेन समपद्यत ॥
योजयन्तः सदश्वांस्तु यानयुग्यं रथांस्तथा । गजांश्च परमप्रीतः समपद्यन्त वृष्णयः ॥'
वृष्ण्यन्धकमहामात्रैः सह वीरैर्महारथैः ।
भ्रातृभिश्च कुमारैश्च योधैश्च शतशो वृतः ॥
सैन्येन महता शौरिरभिगुप्तः समन्ततः ।
तत्र दानपतिः श्रीमाञ्जगाम स महायशाः ॥
अक्रूरो वृष्णिवीराणां सेनापतिररिन्दमः ।
अनाधृष्टिर्महातेजा उद्धवश्च महायशाः ॥
साक्षाद्वृहस्पतेः शिष्यो महाबुद्धिर्महामनाः ।
सत्यकः सात्यकिश्चैव कृतवर्मा च सात्वतः ॥
प्रद्युम्नश्चैव साम्बश्च निशङ्कुः शङ्कुरेव च ।
चारुदेष्णश्च विक्रान्तो झिल्ली विपृथुरेव च ॥
सारणश्च महाबाहुर्गदश्च विदुषां वरः ।
एते चान्ये च बहवो वृष्णिभोजान्धकास्तथा ॥
आजग्मः खाण्डवप्रस्थमादाय हरणं बहु ।
`उपहारं समादाय पृथुवृष्णिपुरोगमाः ॥
प्रययुः सिंहनादेन सुभध्रामवलोककाः । ते त्वदीर्घेण कालेन कृष्णेन सह यादवाः ।
पुरमासाद्य पार्थानां परां प्रीतिमवाप्नुवन् ॥'
ततो युधिष्ठिरो सजा श्रुत्वा माघवमागतम् ।
प्रतिग्रहार्थं कृष्णस्य यमौ प्रास्थापयत्तदा ॥
ताभ्यां प्रतिगृहीतं तु वृष्णिचक्रं महर्द्धिमत् ।
विवेश खाण्डवप्रस्थं पताकाध्वजशोभितम् ॥
संमृष्टसिक्तपन्थानं पुष्पप्रकरशोभितम् ।
चन्दनस्य रसैः शीतैः पुम्यगन्धैर्निषेवितम् ॥
दह्यताऽगुरुणा चैव देशे देशे सुगन्धिना ।
हृष्टपुष्टजनाकीर्णं वणिग्भिरुपशोभितम् ॥
प्रतिपेदे महाबाहुः सह रामेण केशवः ।
वृष्ण्यन्धकैस्तथा भोजैः समेतः पुरुषोत्तमः ॥
संपूज्यमानः पौरैश्च ब्राह्मणैश्च सहस्रशः ।
विवेश भवनं राज्ञः पुरन्दरगृहोपमम् ॥
युधिष्ठिरस्तु रामेण समागच्छद्यथाविधि ।
मूर्ध्नि केशवमाघ्राय बाहुभ्यां परिषस्वजे ॥
तं प्रीयमाणो गोविन्दो विनयेनाभिपूजयन् ।
भीमं च पुरुषव्याघ्रं विधिवत्प्रत्यपूजयत् ॥
तांश्च वृष्ण्यन्धकश्रेष्ठान्कुन्तीपुत्रो युधिष्ठिरः ।
प्रतिजग्राह सत्कारैर्यथाविधि यथागतम् ॥
गुरुवत्पूजयामास कांश्चित्कांश्चिद्वयस्यवत् ।
कांश्चिदभ्यवदत्प्रेम्णा कैश्चिदप्यभिवादितः ॥
`ततः पृथा च पार्थाश्च मुदिताः कृष्णया सह ।
पुण्डरीकाक्षमासाद्य बभूवुर्मुदितेन्द्रियाः ॥
हर्षादभिगतौ दृष्ट्वा संकर्षणजनार्दनौ ।
बन्धुमन्तं पृथा पार्थं युधिष्ठिरममन्यत ॥
ततः सङ्कर्षणाक्रूरावप्रमेयावदीनवत् ।
भद्रवत्यै सुभद्रायै धनौघमुपजह्रतुः ॥
प्रवालानि च हाराणि भूषणानि सहस्रशः ।
कुथास्तरपरिस्तोमान्व्याघ्राजिनपुरस्कृतान् ॥
विविधैश्चैव रंत्नौगैर्दीप्तप्रभमजायत ।
शयनासनयानैश्च युधिष्ठिरनिवेशनम् ॥
ततः प्रीतिकरो यूनां विवाहपरमोत्सवः । भद्रवत्यै सुभद्रायै सप्तरात्रमवर्तत ॥'
तेषां ददौ हृषीकेशो जन्यार्थे धनमुत्तमम् ।
हरणं वै सुभद्राया ज्ञातिदेयं महायशाः ॥
रथानां काञ्चनाङ्गानां किङ्किणीजालमालिनाम् ।
चतुर्युजामुपेतानां सूतैः कुशलशिक्षितैः ॥
सहस्रं प्रददौ कृष्मो गवामयुतमेव च ।
श्रीमान्माथुरदेश्यानां दोग्ध्रीणां पुण्यवर्चसाम् ॥
बडवानां च शुद्धानां चन्द्रांशुसमवर्चसाम् ।
ददौ जनार्दनः प्रीत्या सहस्रं हेमभूषितम् ॥
तथैवाश्वतरीणां च दान्तानां वातरंहसाम् ।
शतान्यञ्जनकेशीनां श्वेतानां पञ्चपञ्च च ॥
स्नानपानोत्सवे चैव प्रयुक्तं वयसान्वितम् ।
स्त्रीणां सहस्रं गौरीणां सुवेषाणां सुवर्चसाम् ॥
सुवर्णशतकण्ठीनामरोमाणां स्वलङ्कृताम् ।
परिचर्यासु दक्षाणां प्रददौ पुष्करेक्षणः ॥
पृष्ठ्यानामपि चाश्वानां बाह्लिकानां जनार्दनः ।
ददौ शतसहस्राख्यं कन्याधनमनुत्तमम् ॥
कृताकृतस्य मुख्यस्य कनकस्याग्निवर्चसः ।
मनुष्यभारान्दाशार्हो ददौ दश जनार्दनः ॥
गजानां तु प्रभिन्नानां त्रिधा प्रस्रवतां मदम् ।
गिरिकूटनिकाशानां समरेष्वनिवर्तिनाम् ॥
क्लृप्तानां पटुघण्टानां चारूणां हेममालिनाम् ।
हस्त्यारोहैरुपेतानां सहस्रं साहसप्रियः ॥
रामः पाणिग्रहणिकं ददौ पार्थाय लाङ्गली ।
प्रीयमाणो हलधरः संबन्धं प्रति मानयन् ॥
स महाधनरत्नौघो वस्त्रकम्बलफेनवान् ।
महागजमहाग्राहः पताकाशैवलाकुलः ॥
पाण्डुसागरमाविद्धः प्रविवेश महाधनः ।
पूर्णमापूरयंस्तेषां द्विषच्छोकावहोऽभवत् ॥
प्रतिजग्राह तत्सर्वं धर्मराजो युधिष्टिरः ।
पूजयामास तांश्चैव वृष्ण्यन्धकमहारथान् ॥
ते समेता महात्मानः कुरुवृष्ण्यन्धकोत्तमाः ।
विजह्रुरमरावासे नराः सुकृतिनो यथा ॥
तत्रतत्र महानादैरुत्कृष्टतलनादितैः ।
यथायोगं यथाप्रीति विजह्रुः कुरुवृष्णयः ॥
एवमुत्तमवीर्यास्ते विहृत्य दिवसान्बहून् ।
पूजिताः कुरुभिर्जग्मुः पुनर्द्वारवतीं प्रति ॥
रामं पुरुस्कृत्य ययुर्वृष्म्यन्धकमहारथाः ।
रत्नान्यादाय शुभ्राणि दत्तानि कुरुसत्तमैः ॥
`रामः सुभद्रां संपूज्य परिष्वज्य स्वसां तदा ।
न्यासेति द्रौपदीमुक्त्वा परिधाय महाबलः ॥
पितृष्वसायाश्चरणावभिवाद्य ययौ तदा ।
तस्मिन्काले पृथा प्रीता पूजयामास तं तथा ॥
स वृष्णिवीरः पार्थैश्च पौरैश्च परमार्चितः ।
ययौ द्वारवतीं रामो वृष्णिभिः सह संयुतः ॥
वासुदेवस्तु पार्थेन तत्रैव सह भारत । `चतुस्त्रिंशदहोरात्रं रममाणो महाबलः ।'
उवास नगरे रम्ये शक्रप्रस्थे महात्मना ॥
व्यचरद्यमुनातीरे मृगयां स महायशाः ।
मृगान्विध्यन्वराहांश्च रेमे सार्धं किरीटिना ॥
ततः सुभद्रा सौभद्रं केशवस्य प्रिया स्वसा ।
जयन्तमिव पौलोमी ख्यातिमन्तमजीजनत् ॥
दीर्घबाहुं महोरस्कं वृषभाक्षमरिन्दमम् ।
सुभद्रा सुषुवे वीरमभिमन्युं नरर्षभम् ॥
अभीश्च मन्युमांश्चैव ततस्तमरिमर्दनम् ।
अभिमन्युरिति प्राहुरार्जुनिं पुरुषर्षभम् ॥
स सात्वत्यामतिरथः संबभूव घनञ्जयात् ।
मखे निर्मथनेनेव शमीगर्भाद्धुताशनः ॥
यस्मिञ्जाते महातेजाः कुन्तीपुत्रो युधिष्ठिरः ।
अयुतं गा द्विजातिभ्यः प्रादान्निष्कांश्च भारत ॥
दयितो वासुदेवस्य वाल्यात्प्रभृति चाभवत् ।
पितॄणां चैव सर्वेषां प्रजानामिव चन्द्रमाः ॥
जन्मप्रभृति कृष्णश्च चक्रे तस्य क्रियाः शुभाः ।
स चापि ववृधे बालः शुक्लपक्षे यथा शशी ॥
चतुष्पादं दशविधं धनुर्वेदमरिन्दमः ।
अर्जुनाद्वेद वेदज्ञः सकलं दिव्यमानुषम् ॥
विज्ञानेष्वपि चास्त्राणां सौष्ठवे च महाबलः ।
क्रियास्वपि च सर्वासु विशेषानभ्यसिक्षयत् ॥
आगमे च प्रयोगे च चक्रे तुल्यमिवात्मना ।
तुतोष पुत्रं सौभद्रं प्रेक्षणाणो धनञ्जयः ॥
सर्वसंहननोपेतं सर्वलक्षणलक्षितम् ।
दुर्धर्षमृषभस्कन्धं व्यात्ताननमिवोरगम् ॥
सिंहदर्पं महेष्वासं मत्तमातङ्गविक्रमम् ।
मेघदुन्दुभिनिर्घोषं पूर्णचन्द्रनिभाननम् ॥
कृष्णस्य सदृशं शौर्ये वीर्ये रूपे तथाऽऽकृतौ ।
ददर्श पुत्रं बीभत्सुर्मघवानिव तं यथा ॥
पाञ्चाल्यपि तु पञ्चभ्यः पतिभ्यः शुभलक्षणा ।
लेभे पञ्च सुतान्वीराञ्श्रेष्ठान्पञ्चाचलानिव ॥
युधिष्ठिरात्प्रतिविन्ध्यं सुतसोमं वृकोदरात् ।
अर्जुनाच्छ्रुतकर्माणं शतानीकं च नाकुलिम् ॥
सहदेवाच्छ्रुतसेनमेतान्पञ्च महारथान् ।
पाञ्चाली सुषुवे वीरानादित्यानदितिर्यथा ॥
शास्त्रतः प्रतिविन्ध्यन्तमूचुर्विप्रायुधिष्ठिरम् ।
परप्रहरणज्ञाने प्रतिविन्ध्यो भत्वयम् ॥
सुतेसोमसहस्रे तु सोमार्कसमतेजसम् ।
सुतसोमं महेष्वासं सुषुवे भीमसेनतः ॥
श्रुतं कर्म महत्कृत्वा निवृत्तेन किरीटिना ।
जातः पुत्रस्तथेत्येवं श्रुतकर्मा ततोऽभवत् ॥
शतानीकस्य राजर्षेः कौरव्यस्य महात्मनः ।
चक्रे पुत्रं सनामानं नकुलः कीर्तिवर्धनम् ॥
ततस्त्वजीजनत्कृष्णा नक्षत्रे वह्निदैवते ।
सहदेवात्सुतं तस्माच्छ्रुतसेनेति तं विदुः ॥
एकवर्षान्तरास्त्वेते द्रौपदेया यशस्विनः ।
अन्वजायन्त राजेन्द्र परस्परहितैषिणः ॥
जातकर्माण्यानुपूर्व्याच्चूडोपनयनानि च ।
चकार विधिवद्धौम्यस्तेषां भरतसत्तम ॥
कृत्वा च वेदाध्ययनं ततः सुचरितव्रताः ।
जगृहुः सर्वमिष्वस्त्रमर्जुनाद्दिव्यमानुषम् ॥
दिव्यगर्भोपमैः पुत्रैर्व्यूढोरस्कैर्महारथैः ।
अन्विता राजशार्दूल पाण्डवा मुदमाप्नुवन् ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि हरणाहरणपर्वणि सप्तचत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 247 ॥ ॥ समाप्तं च हरणाहरणपर्व ॥

1-247-43 अरोगाणां स्वलङ्कृतां इति ख. पाठः ॥ 1-247-74 धरा पञ्च गणानिव । इति ङ पाठः ॥ 1-247-77 परप्रहरणज्ञाने शत्रुकृतप्रहारवेदनायां विध्य इव निर्विज्ञान इति प्रतिविन्ध्यः ॥ सप्तचत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 247 ॥

अध्यायः 248

(अथ खाण्डवदाहपर्व ॥ 18 ॥)

युधिष्ठिरस्य राज्यपरिपालनप्रकारवर्णनम् ॥ 1 ॥ तत्रैव निवसता श्रीकृष्णेन सहार्जुनस्य जलक्रीडार्थं यमुनां प्रति गमनम् ॥ 2 ॥ सस्त्रीकयोस्तयोर्जलक्रीडावर्णनम् ॥ 3 ॥ ब्राह्मणरूपस्याग्नेस्तत्रागमनम् ॥ 4 ॥

वैशंपायन उवाच ।
इन्द्रप्रस्थे वसन्तस्ते जघ्रुरन्यान्नराधिपान् ।
शासनाद्धृतराष्ट्रस्य राज्ञः शान्तनवस्य च ॥
आश्रित्य धर्मराजानं सर्वलोकोऽवसत्सुखम् ।
पुण्यलक्षणकर्माणं स्वदेहमिव देहिनः ॥
स समं धर्मकामार्थान्सिषेवे भरतर्षभ ।
त्रीनिवात्मसमान्बन्धून्नीतिमानिव मानयन् ॥
तेषां समविभक्तानां क्षितौ देहवतामिव ।
बभौ धर्मार्थकामानां चतुर्थ इव पार्थिवः ॥
अध्येतारं परं वेदान्प्रयोक्तारं महाध्वरे ।
रक्षितारं शुभाँल्लोकाँल्लोभिरे तं जनाधिपम् ॥
अधिष्ठानवती लक्ष्मीः परायणवती मतिः ।
वर्धमानोऽखिलो धर्मस्तेनासीत्पृथिवीक्षिताम् ॥
भ्रातृभिः सहितौ राजा चतुर्भिरधिकं बभौ ।
प्रयुज्यमानैर्विततो वेदैरिव महाध्वरः ॥
तं तु धौम्यादयो विप्राः परिवार्योपतस्थिरे ।
बृहस्पतिसमा मुख्याः प्रजापतिमिवामराः ॥
धर्मराजे ह्यतिप्रीत्या पूर्णचन्द्र इवामले ।
प्रजानां रेमिरे तुल्यं नेत्राणि हृदयानि च ॥
न तु केवलदैवेन प्रजा भावेन रेमिरे ।
यद्बभूव मनःकान्तं कर्मणा स चकार तत् ॥
न ह्ययुक्तं न चासत्यं नासह्यं न च वाऽप्रियम् ।
भाषितं चारुभाषस्य जज्ञे पार्थस्य धीमतः ॥
स हि सर्वस्य लोकस्य हितमात्मन एव च ।
चिकीर्षन्सुमहातेजा रेमे भरतसत्तम ॥
तथा तु मुदिताः सर्वे पाण्डवा विगतज्वराः ।
अवसन्पृथिवीपालाँस्तापयन्तः स्वतेजसा ॥
ततः कतिपयाहस्य बीभत्सुः कृष्णमब्रवीत् ।
उष्णानि कृष्ण वर्तन्ते गच्छावो यमुनां प्रति ॥
सुहृज्जनवृतौ तत्र विहृत्य मधुसूदन ।
सायाह्ने पुनरेष्यावो रोचतां ते जनार्दन ॥
वासुदेव उवाच ।
कुन्तीमातर्ममाप्येतद्रोचते यद्वयं जले ।
सुहृज्जनवृताः पार्थ विहरेम यथासुखम् ॥
वैशंपायन उवाच ।
आमन्त्र्य तौ धर्मराजमनुज्ञाप्य च भारत ।
जग्मतुः पार्थगोविन्दौ सुहृज्जनवृतौ ततः ॥
`विहरन्खाण्डवप्रस्थे काननेषु च माधवः ।
पुष्पितोपवनां दिव्यां ददर्श यमुनां नदीम् ॥
तस्यास्तीरे वनं दिव्यं सर्वर्तुसुमनोहरम् ।
आलयं सर्वभूतानां खाण्डवं खड्गचर्मभृत् ॥
ददर्श कृत्स्नं तं देशं सहितः सव्यसाचिना ।
ऋक्षगोमायुशार्दूलवृककृष्णमृगान्वितम् ॥
शाखामृगगणैर्जुष्टं गजद्वीपिनिषेवितम् ।
शकबर्हिणदात्यूहहंससारसनादितम् ॥
नानामृगसहस्रैश्च पक्षिभिश्च समावृतम् ।
मानार्हं तच्च सर्वेषां देवदानवरक्षसाम् ॥
आलयं पन्नगेन्द्रस्य तक्षकस्य महात्मनः ।
वेणुशाल्मलिबिल्वातिमुक्तजंब्वाम्रचम्पकैः ॥
अङ्कोलपनसाश्वत्थतालजम्बीरवञ्जुलैः ।
एकपद्मकतालैश्च शतशश्चैव रौहिणैः ॥
नानावृक्षैः समायुक्तं नानागुल्मसमावृतम् ।
वेत्रकीचकसंयुक्तमाशीविषनिषेवितम् ॥
विगतार्कं महाभोगविततद्रुमसङ्कटम् ।
व्यालदंष्ट्रिगणाकीर्णं वर्जितं सर्वमानुषैः ॥
रक्षसां भुजगेन्द्राणां पक्षिणां च महालयम् ।
खाण्डवं सुमहाप्राज्ञः सर्वलोकविभागवित् ॥
दृष्टवान्सर्वलोकेश अर्जुनेन समन्वितः ।
पीताम्बरधरो देवस्तद्वनं बहुधा चरन् ॥
सद्रुमस्य सयक्षस्य सभूतगणपक्षिणः । खाण्डवस्य विनाशं तं ददर्श मधुसूदनः ॥'
विहारदेशं संप्राप्य नानाद्रुममनुत्तमम् ।
गृहैरुच्चावचैर्युक्तं पुरन्दरपुरोपमम् ॥
भक्ष्यैर्भोज्यैश्च पेयैश्च रसवद्बिर्महाधनैः ।
माल्यैश्च विविधैर्गन्धैस्तथा वार्ष्मेयपाण्डवौ ॥
तदा विविशतुः पूर्णं रत्नैरुच्चावचैः शुभैः ।
यथोपजोषं सर्वश्च जनश्चिक्रीड भारत ॥
स्त्रियश्च विपुलश्रोष्ण्यश्चारुपीनपयोधराः ।
मदस्खलितगामिन्यश्चिक्रीडुर्वामलोचनाः ॥
वने काश्चिज्जले काश्चित्काश्चिद्वेश्मसु चाङ्गनाः ।
यथादेशं यथाप्रीति चिक्रीडुः पार्थकृष्णयोः ॥
वासुदेवप्रिया नित्यं सत्यभामा च भामिनी । द्रौपदी च सुभद्रा च वासांस्याभरणानि च ।
प्रायच्छन्त महाराज स्त्रीणां ताः स्म मदोत्कटाः ॥
काश्चित्प्रहृष्टा ननृतुश्चुक्रुशुश्च तथा पराः ।
जहसुश्च परा नार्यः पपुश्चान्या वरासवम् ॥
रुरुधुश्चापरास्तत्र प्रजघ्नुश्च परस्परम् ।
मन्त्रयामासुरन्याश्च रहस्यानि परस्परम् ॥
वेणुवीणामृदङ्गानां मनोज्ञानां च सर्वशः ।
शब्देन पूर्यते हर्म्यं तद्वनं सुमहर्द्धिमत् ॥
तस्मिंस्तदा वर्तमानो कुरुदाशार्हनन्दनौ ।
समीपं जग्मतुः कंचिदुद्देशं सुमनोहरम् ॥
तत्र गत्वा महात्मानौ कृष्णौ परपुरञ्जयौ ।
महार्हासनयो राजंस्ततस्तौ सन्निषीदतुः ॥
तत्र पूर्वव्यतीतानि विक्रान्तानीतराणि च ।
बहूनि कथयित्वा तौ रेमाते पार्थमाधवौ ॥
तत्रोपविष्टौ मुदितौ नाकपृष्ठेऽश्विनाविव ।
अभ्यागच्छत्तदा विप्रो वासुदेवधनञ्जयौ ॥
बृहच्छालप्रतीकाशः प्रतप्तकनकप्रभः ।
हरिपिङ्गोज्ज्वलश्मश्रुः प्रमाणायामतः समः ॥
तरुणादित्यसङ्काशश्चीरवासा जटाधरः ।
पद्मपत्राननः पिङ्गस्तेजसा प्रज्वलन्निव ॥
जगाम तौ कृष्णपार्थौ दिधक्षुः खाण्डवं वनम् । उपसृष्टं तु तं कृष्णो भ्राजमानं द्विजोत्तमम् ।
अर्जनो वासुदेवश्च तूर्णमुत्पत्य तस्थतुः ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि खाण्डवदाहपर्वणि अष्टचत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 248 ॥

1-248-14 उष्णानि निधाधदिनानि ॥ 1-248-16 कुन्ती माता यस्येति नेकुन्तामातर्हेऽर्जुन ॥ 1-248-30 गृहैः मध्येयमुनं निर्मितैः क्रीडावाप्यादियुक्तैः ॥ 1-248-39 उद्देशं प्रदेशम् ॥ 1-248-43 हरिपिङ्गः नीलपीताखिलाङ्गः । ज्वलश्मश्रुः ज्वालावत्पीतश्मश्रुः ॥ अष्टचत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 248 ॥

अध्यायः 249

खाण्डववनदहनार्थं कृष्णार्जुनौप्रति अग्नेः प्रार्थना ॥ 1 ॥ जनमेजयस्य अग्निकृतखाण्डवदाहप्रार्थनाकारणप्रश्नानुरोधेनवैशंपायनेन श्वेतकिराजोपाख्यानकथनम् ॥ 2 ॥ बहूनि वर्षाण्यविच्छिन्नं यजतः श्वेतकेर्यागेन श्रान्तैर्ऋत्विग्भिः पुनर्याजना नङ्गीकरणम् ॥ 3 ॥ आराधितस्य शङ्करस्याज्ञया द्वादशवर्षपर्यन्तं संतताज्यधारयाऽग्नेस्तोषणम् ॥ 4 ॥ पुनराराधितस्य शङ्करस्याज्ञया दुर्वाससः साहाय्येन यजतो राज्ञो मखे बहुहविर्भोजनेनाग्नेर्ग्लानिः ॥ 5 ॥ तत्परिहारार्थं प्रार्थितेन ब्रह्मणा खाण्डवभक्षणविधानम् ॥ 6 ॥ खाण्डवं दग्धुं सप्तकृत्वो यतितवतोऽप्यग्नेः तत्रत्यैर्गजादिसत्वैर्जलसेकेन निर्वापणम् ॥ 7 ॥

वैशंपायन उवाच ।
सोऽब्रवीदर्जुनं चैव वासुदेवं च सात्वतम् ।
लोकप्रवीरौ तिष्ठन्तौ काण्डवस्य समीपतः ॥
ब्राह्मणो बहुभोक्ताऽस्मि बुञ्जेऽपरिमितं सदा ।
भिक्षे वार्ष्णेयपार्थौ वामेकां तृप्तिं प्रयच्छतम् ॥
एवमुक्तो तमब्रूतां ततस्तौ कृष्णपाण्डवौ ।
केनान्नेन भवांस्तृप्येत्तस्यान्नस्य यतावहे ॥
एवमुक्तः स भगवानब्रवीत्तावुभौ ततः ।
भाषमाणौ तदा वीरौ किमन्नं क्रियतामिति ॥
ब्राह्मण उवाच ।
नाहमन्नं बुभुक्षे वै पावकं मां निबोधतम् ।
यदन्नमनुरूपं मे तद्युवां संप्रयच्छतम् ॥
इदमिन्द्रः सदा दावं खाण्डवं परिरक्षति ।
न च शक्नोम्यहं दग्धुं रक्ष्यमाणं महात्मना ॥
वसत्यत्र सखा तस्य तक्षकः पन्नगः सदा ।
सगणस्तत्कृते दावं परिरक्षति वज्रभृत् ॥
तत्र भूतान्यनेकानि रक्ष्यन्तेऽस्य प्रसङ्गतः ।
तं दिधक्षुर्न शक्नोमि दग्धुं शक्रस्य तेजसा ॥
स मां प्रज्वलितं दृष्ट्वा मेघाम्भोभिः प्रवर्षति ।
ततो दग्धुं न शक्नोमि दिधक्षुर्दावमीप्सितम् ॥
स युवाभ्यां सहायाभ्यामस्त्रविद्भ्यां समागतः ।
दहेयं खाण्डवं दावमेतदन्नं वृतं मया ॥
युवां ह्युदकधारास्ता भूतानि च समन्ततः ।
उत्तमास्त्रविदौ सम्यक्सर्वतो वारयिष्यथः ॥
जनमेजय उवाच ।
किमर्थं भगवानग्निः खाण्डवं दग्धुमिच्छति ।
रक्ष्यमाणं महेन्द्रेण नानासत्वसमायुतम् ॥
न ह्येतत्कारणं ब्रह्मन्नल्पं संप्रतिभाति मे ।
यद्ददाह सुसंक्रुद्धः खाण्डवं हव्यवाहनः ॥
एतद्विस्तरशो ब्रह्मन्श्रोतुमिच्छामि तत्त्वतः ।
खाण्डवस्य पुरा दाहो यथा समभवन्मुने ॥
वैशंपायन उवाच ।
शृणु मे ब्रुवतो राजन्सर्वमेतद्यथातथम् ।
यन्निमित्तं ददाहाग्निः खाण्डवं पृथिवीपते ॥
हन्त ते कथयिष्यामि पौराणीमृषिसंस्तुताम् ।
कथामिमां नरश्रेष्ठ खाण्डवस्य विनाशिनीम् ॥
पौराणः श्रूयते राजन्राजा हरिहयोपमः ।
श्वेतकिर्नाम विख्यातो बलविक्रमसंयुतः ॥
यज्वा दानपतिर्धीमान्यथा नान्योऽस्ति कश्चन ।
`जग्राह दीक्षां स नृपः तदा द्वादशवार्षिकीम् ॥
तस्य सत्रे सदा तस्मिन्समागच्छन्महर्षयः । वेदवेदाङ्गविद्वांसो ब्राह्मणाश्च सहस्रशः ॥'
ईजे च स महायज्ञैः क्रतुभिश्चाप्तदक्षिणैः ॥
तस्य नान्याऽभवद्बुद्धिर्दिवसे दिवसे नृप ।
सत्रे क्रियासमारम्भे दानेषु विविधेषु च ॥
ऋत्विग्भिः सहितो धीमानेवमीजे स भूमिपः ।
ततस्तु ऋत्विजश्चास्य धूमव्याकुललोचनाः ॥
कालेन महता खिन्नास्तत्यजुस्ते नराधिपम् ।
ततः प्रसादयामास ऋत्विजस्तान्महीपतिः ॥
चक्षुर्विकलतां प्राप्ता न प्रपेदुश्च ते क्रतुम् ।
ततस्तेषामनुमते तद्विप्रैस्तु नराधिपः ॥
सत्रं समापयामास ऋत्विग्भिरपरैः सह ।
तस्यैवंवर्तमानस्य कदाचित्कालपर्यये ॥
सत्रमहार्तुकामस्य संवत्सरशतं किल ।
ऋत्विजो नाभ्यपद्यन्त समाहर्तुं महात्मनः ॥
स च राजाऽकरोद्यत्नं महान्तं ससुहृज्जनः ।
प्रणिपातेन सान्त्वेन दानेन च महायशाः ॥
ऋत्विजोऽनुनयामास भूयो भूयस्त्वतन्द्रितः ।
ते चास्य तमभिप्रायं न चक्रुरमितौजसः ॥
स चाश्रमस्थान्राजर्षिस्तानुवाच रुषान्वितः ।
यद्यहं पतितो विप्राः शुश्रूषायां न च स्थितः ॥
आशु त्याज्योऽस्मि युष्माभिर्ब्राह्मणैश्च जुगुप्सितः ।
तन्नार्हथ क्रतुश्रद्धां व्याघातयितुमद्य ताम् ॥
अस्थाने वा परित्यागं कर्तुं मे द्विजसत्तमाः ।
प्रपन्न एव वो विप्राः प्रसादं कर्तुमर्हथ ॥
सान्त्वदानादिभिर्वाक्यैस्तत्त्वतः कार्यवत्तया ।
प्रसादयित्वा वक्ष्यामि यन्नः कार्यं द्विजोत्तमाः ॥
अथवाऽहं परित्यक्तो भवद्भिर्द्वेषकारणात् ।
ऋत्विजोऽन्यान्गमिष्यामि याजनार्थं द्विजोत्तमाः ॥
एतावदुक्त्वा वचनं विरराम स पार्थिवः ।
यदा न शेकू राजानं याजनार्थं परन्तप ॥
ततस्ते याजकाः क्रुद्धास्तमूचुर्नृपसत्तमम् ।
तव कर्माम्यजस्रं वै वर्तन्ते पार्थिवोत्तम ॥
ततो वयं परिश्रान्ताः सततं कर्मवाहिनः ।
श्रमादस्मात्परिश्रान्तान्स त्वं नस्त्यक्तुमर्हसि ॥
बुद्धिमोहं समास्थाय त्वरासंभावितोऽनघ ।
गच्छ रुद्रसकाशं त्वं सहि त्वां याजयिष्यति ॥
साधिक्षेपं वचः श्रुत्वा संक्रुद्धः श्वेतकिर्नृपः ।
कैलासं पर्वतं गत्वा तप उग्रं समास्थितः ॥
आराधयन्महादेवं नियतः संशितव्रतः ।
उपवासपरो राजन्दीर्घकालमतिष्ठत ॥
कदाचिद्द्वादशे काले कदाचिदपि षोडशे ।
आहारमकरोद्राजा मूलानि च फलानि च ॥
ऊर्ध्वबाहुस्त्वनिमिषस्तिष्ठन्स्थाणुरिवाचलः ।
षण्मासानभवद्राजा श्वेतकिः सुसमाहितः ॥
तं तथा नृपशार्दूलं तप्यमानं महत्तपः ।
शङ्करः परमप्रीत्या दर्शयामास भारत ॥
उवाच चैनं भगवान्स्निग्धगम्भीरया गिरा ।
प्रीतोऽस्मि नरशार्दूल तपसा ते परन्तप ॥
वरं वृणीष्व भद्रं ते यं त्वमिच्छसि पार्थिव ।
एतच्छ्रुत्वा तु वचनं रुद्रस्यामिततेजसः ॥
प्रणिपत्य महात्मानं राजर्षिः प्रत्यभाषत ।
यदि मे भगवान्प्रीतः सर्वलोकनमस्कृतः ॥
स्वयं मां देवदेवेश याजयस्व सुरेश्वर ।
एतच्छ्रुत्वा तु वचनं राज्ञा तेन प्रभाषितम् ॥
उवाच भगवान्प्रीतः स्मितपूर्वमिदं वचः ।
नास्माकमेतद्विषये वर्तते याजनं प्रति ॥
त्वया च सुमहत्तप्तं तपो राजन्वरार्थिना ।
याजयिष्यामि राजंस्त्वां समयेन परन्तप ॥
समा द्वादश राजेन्द्र ब्रह्मचारी समाहितः ।
सततं त्वाज्यधाराभिर्यदि तर्पयसेऽनलम् ॥
कामं प्रार्थयसे यं त्वं मत्तः प्राप्स्यसि तं नृप ।
एवमुक्तश्च रुद्रेण श्वेतकिर्मनुजाधिपः ॥
तथा चकार तत्सर्वं यथोक्तं शूलपाणिना ।
पूर्णे तु द्वादशे वर्षे पुनरायान्महेश्वरः ॥
दृष्टैव च स राजानं शङ्करो लोकभावनः ।
उवाच परमप्रीतः श्वेतकिं नृपसत्तमम् ॥
तोषितोऽहं नृपश्रेष्ठ त्वयेहाद्येन कर्मणा ॥
याजनं ब्राह्मणानां तु विधिदृष्टं परन्तप ॥
अतोऽहं त्वां स्वयं नाद्य याजयामि परन्तप ।
ममांशस्तु क्षितितले महाभागो द्विजोत्तमः ॥
दुर्वासा इति विख्यातः स हि त्वां याजयिष्यति ।
मन्नियोगान्महातेजाः संभाराः संभ्रियन्तु ते ॥
एतच्छ्रुत्वा तु वचनं रुद्रेण समुदाहृतम् ।
स्वपुरं पुनरागम्य संभारान्पुनरार्जयत् ॥
ततः संभृतसंभारो भूयो रुद्रमुपागमत् । `उवाच च महिपालः प्राञ्जलिः प्रणतः स्थितः ।'
संभृता मम संभाराः सर्वोपकरणानि च ॥
त्वत्प्रसादानमहादेव श्वो मे दीक्षा भवेदिति ।
एतच्छ्रुत्वा तु वचनं तस्य राज्ञो महात्मनः ॥
दुर्वाससं समाहूय रुद्रो वचनमब्रवीत् ।
एष राजा महाभागः श्वेतकिर्द्विजसत्तम ॥
एनं याजय विप्रेन्द्र मन्नियोगेन भूमिपम् ।
बाढमित्येव वचनं रुद्रं त्वृषिरुवाच ह ॥
ततः सत्रं समभवत्तस्य राज्ञो महात्मनः ।
यथाविधि यथाकालं यथोक्तं बहुदक्षिणम् ॥
तस्मिन्परिसमाप्ते तु राज्ञः सत्रे महात्मनः ।
दुर्वाससाऽभ्यनुज्ञाता विप्रतस्थुः स्म याजकाः ॥
ये तत्र दीक्षिताः सर्वे सदस्याश्च महौजसः ।
सोऽपि राजन्महाभागः स्वपुरं प्राविशत्तदा ॥
पूज्यमानो महाभागैर्ब्राह्मणैर्वेदपारगैः ।
बन्दिभिः स्तूयमानश्च नागरैश्चाभिनन्दितः ॥
एवंवृत्तः स राजर्षिः श्वेतकिर्नृपसत्तमः ।
कालेन महता चापि ययौ स्वर्गमभिष्टुतः ॥
ऋत्विग्भिः सहितः सर्वैः सदस्यैश्च समन्वितः ।
तस्य सत्रे पपौ वह्निर्हविद्वार्दशवत्सरान् ॥
सततं चाज्यधाराभिरैकात्म्ये तत्र कर्मणि ।
हविषा च ततो वह्निः परां तृप्तिमगच्छत ॥
न चैच्छत्पुनरादातुं हविरन्यस्य कस्यचित् ।
पाण्डुवर्णो विवर्णश्च न यतावत्प्रकाशते ॥
ततो भघवतो वह्नेर्विकारः समजायत ।
तेजसा विप्रहीणश्च ग्लानिश्चैनं समाविशत् ॥
स लक्षयित्वा चात्मानं तेजोहीनं हुताशनः ।
जगाम सदनं पुण्यं ब्रह्मणो लोकपूजितम् ॥
तत्र ब्रह्माणमासीनमिदं वचनमब्रवीत् ।
भगवन्परमा प्रीतिः कृता श्वेतकिना मम ॥
अरुचिश्चाभवत्तीव्रा तां न शक्नोम्यपोहितुम् ।
तेजसा विप्रहीणोऽस्मि बलेन च जगत्पते ॥
इच्छेयं त्वत्प्रसादेन स्वात्मनः प्रकृतिं स्थिराम् ।
एतच्छ्रुत्वा हुतवहाद्भगवान्सर्वलोककृत् ॥
हव्यवाहमिदं वाक्यमुवाच प्रहसन्निव ।
त्वया द्वादश वर्षाणि वसोर्धाराहुतं हविः ॥
उपयुक्तं महाभाग तेन त्वां ग्लानिराविशत् ।
तेजसा विप्रहीणत्वात्सहसा हव्यवाहन ॥
मागमस्त्वं व्यथां वह्ने प्रकृतिस्थो भविष्यसि ।
अरुचिं नाशयिष्येऽहं समयं प्रतिपद्य ते ॥
पुरा देवनियोगेन यत्त्वया भस्मसात्कृतम् ।
आलयं देवशत्रूणां सुघोरं खाण्डवं वनम् ॥
तत्र सर्वाणि सत्वानि निवसन्ति विभावसो ।
तेषां त्वं मेदसा तृप्तः प्रकृतिस्थो भविष्यसि ॥
गच्छ शीघ्रं प्रदग्धुं त्वं ततो मोक्ष्यसि किल्विषात् ।
एतच्छुत्वा तु वचनं परमेष्ठिमुखाच्च्युतम् ॥
उत्तमं जवमास्थाय प्रदुद्राव हुताशनः । आगम्य खाण्डवं दावमुत्तमं वीर्यमास्थितः ।
सहसा प्राज्वलच्चाग्निः क्रुद्धो वायुसमीरितः ॥
प्रदीप्तं खाण्डवं दृष्ट्वा ये स्युस्तत्र निवासिनः ।
परमं यत्नेमातिष्ठन्पावकस्य प्रशान्तये ॥
करैस्तु करिणः शीघ्रं जलमादाय सत्वराः ।
सिषिचुः पावकं क्रुद्धाः शतशोऽथ सहस्रशः ॥
बहुशीर्षास्ततो नागाः शिरोभिर्जलसन्ततिम् ।
मुमुचुः पावकाभ्याशे सत्वराः क्रोधमूर्च्छिताः ॥
तथैवान्यानि सत्वानि नानाप्रहरणोद्यमैः ।
विलयं पावकं शीघ्रमनयन्भरतर्षभ ॥
अनेन तु प्रकारेण भूयोभूयश्च प्रज्वलन् ।
सप्तकृत्वः प्रशमितः खाण्डवे हव्यवाहनः ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि खाण्डवदाहपर्वणि ऊनपञ्चाशदधिकद्विशततमोऽध्यायः ॥ 249 ॥

1-249-20 इक्ष्वाकूणामधिरथो यज्वा विपुलदक्षिणः इति ङ. पाठः ॥ 1-249-37 त्वरासंभावितः त्वरायुक्तः ॥ 1-249-73 प्रकृतिं स्वभावम् ॥ 1-249-74 वसोर्धारा पात्रविशेषः । येन हूयमानं घृतद्रव्यं संततधारारूपेण क्षरति । तेन हुतं हविरर्थाद्धृतमेव वसोर्धारां जुहोतीत्युपक्रम्य घृतस्य वा एवमेषा धारेति वाक्यशेषात् ॥ 1-249-75 उपयुक्तं भुक्तम् ॥ ऊनपञ्चाशदधिकद्विशततमोऽध्यायः ॥ 249 ॥

अध्यायः 250

पुनर्निवेदितविघ्नवृत्तान्तेन ब्रह्मणा आज्ञुप्तस्याग्नेः कृष्णार्जुनौप्रति आगमनम् ॥ 1 ॥ वैशंपायनेन जनमेजयंप्रति खाण्डवदाहकारणकथनसमापनम् ॥ 2 ॥ अर्जुनेन दिव्यानां रथाश्वधनुरादीनां याचनम् ॥ 3 ॥

वैशंपायन उवाच ।
स तु नैराश्यमापन्नः सदा ग्लानिसमन्वितः ।
पितामहमुपागच्छत्संक्रुद्धो हव्यवाहनः ॥
तच्च सर्वं यथान्यायं ब्रह्मणे संन्यवेदयत् ।
उवाच चैवनं भगवान्मुहूर्तं स विचिन्त्य तु ॥
उपायः परिदृष्टो मे यथा त्वं धक्ष्यसेऽनघ ।
कालं च कंचित्क्षमतां ततस्तद्धक्ष्यते भवान् ॥
भविष्यतः सहायौ ते नरनारायणौ तदा ।
ताभ्यां त्वं सहितो दावं धक्ष्यसे हव्यवाहन ॥
एवमस्त्विति तं वह्निर्ब्रह्माणं प्रत्यभाषत ।
संभूतौ तौ विदित्वा तु नरनारायणावृषी ॥
कालस्य महतो राजंस्तस्य वाक्यं स्वयंभुवः ।
अनुस्मृत्य जगामाथ पुनरेव पितामहम् ॥
अब्रवीच्च तदा ब्रह्मा यथा त्वं धक्ष्यसेऽनल ।
खाण्डवं दावमद्यैव मिषतोऽस्य शचीपतेः ॥
नरनारायणौ यौ तौ पूर्वदेवौ विभावसो ।
संप्राप्तौ मानुषे लोके कार्यार्थं हि दिवौकसाम् ॥
अर्जुनं वासुदेवं च यौ तौ लोकोऽभिमन्यते ।
तावेतौ सहितावेहि खाण्डवस्य समीपतः ॥
तौ त्वं याचस्व साहाय्ये दाहार्थं खाण्डवस्य च ।
ततो धक्ष्यसि तं दावं रक्षितं त्रिदशैरपि ॥
तौ तु सत्वानि सर्वाणि यत्नतो वारयिष्यतः ।
देवराजं च सहितौ तत्र मे नास्ति संशयः ॥
एतच्छ्रुत्वा तु वचनं त्वरितो हव्यवाहनः ।
कृष्णपार्थावुपागम्य यमर्थं त्वभ्यभाषत ॥
तं ते कथितवानस्मि पूर्वमेव नृपोत्तम ।
तच्छ्रुत्वा वचनं त्वग्नेर्बीभत्सुर्जातवेदसम् ॥
अब्रवीन्नृपशार्दूल तत्कालसदृशं वचः ।
दिधक्षुं खाण्डवं दावमकामस्य शतक्रतोः ॥
अर्जुन उवाच ।
उत्तमास्त्राणि मे सन्ति दिव्यानि च बहूनि च ।
यैरहं शक्नुयां योद्धुमपि वज्रधरान्बहून् ॥
धनुर्मे नास्ति भगवन्बाहुवीर्येण संमितम् ।
कुर्वतः समरे यत्नं वेगं यद्विषहेन्मम ॥
शरैश्च मेऽर्थो बहुभिरक्षयैः क्षिप्रमस्यतः ।
न हि वोढुं रथः शक्तः शरान्मम यथेप्सितान् ॥
अश्वांश्च दिव्यानिच्छेयं पाण्डुरान्वातरंहसः ।
रथं च मेघनिर्घोषं सूर्यप्रतिमतेजसम् ॥
तथा कृष्णस्य वीर्येण नायुधं विद्यते समम् ।
येन नागान्पिशाचांश्च निहन्यान्माधवो रणे ॥
उपायं कर्मसिद्धौ च भघवन्वक्तुमर्हसि ।
निवारयेयं येनेन्द्रं वर्षमाणं महावने ॥
पौरुषेण तु यत्कार्यं तत्कर्ताऽहं स्म पावक ।
करणानि समर्थानि भगवन्दातुमर्हसि ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि खाण्डवदाहपर्वणि पञ्चाशदधिकद्विशततमोऽध्यायः ॥ 250 ॥

अध्यायः 251

अग्निना वरुणात् आहृतानां रथादीनां अर्जुनाय दानम् ॥ 1 ॥ अग्नेः खाण्डवदाहारम्भः ॥ 2 ॥

वैशंपायन उवाच ।
एवमुक्तः स भगवान्धूमकेतुर्हुताशनः ।
चिन्तयामास वरुणं लोकपालं दिदृक्षया ॥
आदित्यमुदके देवं निवसन्तं जलेश्वरम् ।
स च तच्चिन्तितं ज्ञात्वा दर्शयामास पावकम् ॥
तमब्रवीद्भमकेतुः प्रतिगृह्य जलेश्वरम् ।
चतुर्थं लोकपालानां देवदेवं सनातनम् ॥
सोमेन राज्ञा यद्दत्तं धनुश्चैवेषुधी च ते ।
तत्प्रयच्छोभयं शीघ्रं रथं च कपिलक्षणम् ॥
कार्यं च सुमहत्पार्थो गाण्डीवेन करिष्यति ।
चक्रेण वासुदेवश्च तन्ममाद्य प्रदीयताम् ॥
ददानीत्येव वरुणः पावकं प्रत्यभाषत ।
तदद्भुतं महावीर्यं यशःकीर्तिविवर्धनम् ॥
सर्वशस्त्रैरनाधृष्यं सर्वशस्त्रप्रमाथि च ।
सर्वायुधमहामात्रं परसैन्यप्रधर्षणम् ॥
एकं शतसहस्रेण संमितं राष्ट्रवर्धनम् ।
चित्रमुच्चावचैर्वर्णैः शोभितं श्लक्ष्णमव्रणम् ॥
देवदानवगन्धर्वैः पूजितं शाश्वतीः समाः ।
प्रादाच्चैव धनूरत्नमक्षय्यौ च महेषुधी ॥
रथं च दिव्याश्वयुजं कपिप्रवरकेतनम् ।
उपेतं राजतैरश्वैर्गान्धर्वैर्हेममालिभिः ॥
पाण्डुराभ्रप्रतीकाशैर्मनोवायुसमैर्जवे ।
सर्वोपकरणैर्युक्तमजय्यं देवदानवैः ॥
भावुमन्तं महाघोषं सर्वरत्नमनोरमम् ।
ससर्ज यं सुतपसा भौमनो भुवनप्रभुः ॥
प्रजापतिरनिर्देश्यं यस्य रूपं रवेरिव ।
यं स्म सोमः समारुह्य दानवानजयत्प्रभुः ॥
नवमेघप्रतीकाशं ज्ललन्तमिव च श्रिया ।
आश्रितौ तं रथश्रेष्ठं शक्रायुधसमावुभौ ॥
तापनीया सुरुचिरा ध्वजयष्टिरनुत्तमा ।
तस्यां तु वानरो दिव्यः सिंहशार्दूलकेतनः ॥
`हनूमान्नाम तेजस्वी कामरूपी महाबलः ।' दिधक्षन्निव तत्र स्म संस्थितो मूर्ध्न्यशोभत ।
ध्वजे भूतानि तत्रासन्विविधानि महान्ति च ॥
नादेन रिपुसैन्यानां येषां संज्ञा प्रणश्यति ।
स तं नानापताकाभिः शोभितं रथसत्तमम् ॥
प्रदक्षिणमुपावृत्य दैवतेभ्यः प्रणम्य च ।
सन्नद्धः कवची खड्गी बद्धगोधाङ्गुलित्रकः ॥
आरुरोह तदा पार्थो विमानं सुकृती यथा ।
तच्च दिव्यं धनुः श्रेष्ठं ब्रह्मणा निर्मितं पुरा ॥
गाण्डीवमुपसंगृह्य बभूव मुदितोऽर्जुनः ।
हुताशनं पुरस्कृत्य ततस्तदपि वीर्यवान् ॥
जग्राह बलमास्थाय ज्यया च युयुजे धनुः ।
मौर्व्यां तु योज्यमानायां बलिना पाण्डवेन ह ॥
येऽशृष्वन्कूजितं यत्र तेषां वै व्यथितं मनः ।
लब्ध्वा रथं धनुश्चैव तथाऽक्षय्ये महेषुधी ॥
बभूव कल्यः कौन्तेयः प्रहृष्टः साह्यकर्मणि ।
वज्रनाभं ततश्चक्रं ददौ कृष्णाय पावकः ॥
आग्नेयमस्त्रं दयितं स च कल्योऽभवत्तदा ।
अब्रवीत्पावकश्चैवमेतेन मधुसूदन ॥
अमानुषानपि रणे जेष्यसि त्वमसंशयम् ।
अनेन तु मनुष्याणां देवानामपि चाहवे ॥
रक्षःपिशाचदैत्यानां नागानां चाधिकस्तथा ।
भविष्यसि न सन्देहः प्रवरोऽपि निबर्हणे ॥
क्षिप्तं क्षिप्तं रणे चैतत्त्वया माधव शत्रुषु ।
हत्वाऽप्रतिहतं सङ्ख्ये पाणिमेष्यति ते पुनः ॥
वैशंपायन उवाच ।
वरुणश्च ददौ तस्मै गदामशनिनिःस्वनाम् ।
दैत्यान्तकरणीं घोरां नाम्ना कौमोदकीं प्रभुः ॥
ततः पावकमब्रूतां प्रहृष्टावर्जुनाच्युतौ ।
कृतास्त्रौ शस्त्रसंपन्नौ रथिनौ ध्वजिनावपि ॥
कल्यौ स्वो भगवन्योद्धुमपि सर्वैः सुरासुरैः ।
किं पुनर्वज्रिणैकेन पन्नगार्थे युयुत्सता ॥
अर्जुन उवाच ।
चक्रपाणिर्हृषीकेशो विचरन्युधि वीर्यवान् । चक्रेण भस्मसात्सर्वं विसृष्टेन तु वीर्यवान् ।
त्रिषु लोकेषु तन्नास्ति यन्न कुर्याज्जनार्दनः ॥
गाण्डीवं धनुरादाय तथाऽक्षय्ये महेषुधी ।
अहमप्युत्सहे लोकान्विजेतुं युधि पावक ॥
सर्वतः परिवार्यैवं दावमेतं महाप्रभो ।
कामं संप्रज्वलाद्यैव कल्यौ स्वः साह्यकर्मणि ॥
`यदि खाण्डवमेष्यति प्रमादा- त्सगणो वा परिरक्षितुं महेन्द्रः ।
शरताडितगात्रकुण्डलानां कदनं द्रक्ष्यति देववाहिनीनाम् ॥'
वैशंपायन उवाच ।
एवमुक्तः स भगवान्दाशार्हेणार्जुनेन च ।
तैजसं रपमास्थाय दावं दग्धुं प्रचक्रमे ॥
सर्वतः परिवार्याथ सप्तार्चिर्ज्वलनस्तथा ।
ददाह खाण्डवं दावं युगान्तमिव दर्शयन् ॥
प्रतिगृह्य समाविश्य तद्वनं भरतर्षभ ।
मेघस्तनितनिर्घोषः सर्वभूतान्यकम्पयत् ॥
दह्यतस्तस्य च बभौ रूपं दावस्य भारत ।
मेरोरिव नगेन्द्रस्य कीर्णस्यांशुमतोंशुभिः ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि खाण्डवदाहपर्वणि एकपञ्चाशदधिकद्विशततमोऽध्यायः ॥ 251 ॥

1-251-2 आदित्यमदितेः पुत्रम् ॥ 1-251-7 महामात्रं प्रधानम् ॥ 1-251-12 भौमनो विश्वकर्मा ॥ 1-251-15 सिंहशार्दूलवद्भयंकरः केतनः कायोयस्य सः ॥ 1-251-23 कल्यः समर्थः वज्रं वरत्रा सा नाभौ यस्य तत् ॥ 1-251-27 हत्वा हत्वा रिपून्सङ्ख्ये इति घ. पात ॥ एकपञ्चाशदधिकद्विशततमोऽध्यायः ॥ 251 ॥

अध्यायः 252

खाण्डवदाहं दृष्ट्वा त्रस्तैर्देवैः प्रार्थितेनेन्द्रेण जलवर्षणम् ॥ 1 ॥

वैशंपायन उवाच ।
तौ रथाभ्यां रथश्रेष्ठौ दावस्योभयतः स्थितौ ।
दिक्षु सर्वासु भूतानां चक्राते कदनं महत् ॥
यत्र यत्र च दृश्यन्ते प्राणिनः खाण्डवालयाः ।
पलायन्तः प्रवीरौ तौ तत्रतत्राभ्यधावताम् ॥
छिद्रं न स्म प्रपश्यन्ति रथयोराशुचारिणोः ।
आविद्धावेव दृश्येते रथिनौ तौ रथोत्तमौ ॥
खाण्डवे दह्यमाने तु भूतान्यथ सहस्रशः ।
उत्पेतुर्भैरवान्नादान्विनदन्तः समन्ततः ॥
दग्धैकदेशा बहवो निष्टप्ताश्च तथाऽपरे ।
स्फुटिताक्षा विशीर्णाश्च विप्लुताश्च तथाऽपरे ॥
समालिङ्ग्य सुतानन्ये पितॄन्भ्रातॄनथाऽपरे ।
त्यक्तुं न शेकुः स्नेहेन तत्रैव निधनं गताः ॥
सन्दष्टदशनाश्चान्ये समुत्पेतुरनेकशः ।
ततस्तेऽतीव घूर्णन्तः पुनरग्नौ प्रपेदिरे ॥
दग्धपक्षाक्षिचरणा विचेष्टन्तो महीतले ।
तत्रतत्र स्म दृश्यन्ते विनश्यन्तः शरीरिणः ॥
जलाशयेषु तप्तेषु क्वाथ्यमानेषु वह्निना ।
गतसत्वाः स्म दृश्यन्ते कूर्ममत्स्याः समन्ततः ॥
शरीरैरपरे दीप्तैर्देहवन्त इवाग्नयः ।
अदृश्यन्त वने तत्र प्राणिनः प्राणिसंक्षये ॥
कांश्चिदुत्पततः पार्थः शरैः संछिद्य खण्डशः ।
पातयामास विहगान्प्रदीप्ते वसुरेतसि ॥
ते शराचितसर्वाङ्गा निनदन्तो महारवान् ।
ऊर्ध्वमुत्पत्य वेगेन निपेतुः खाण्डवे पुनः ॥
शरैरभ्याहतानां च सङ्घशः स्म वनौकसाम् ।
विरावः शुश्रुवे घोरः समुद्रस्येव मथ्यतः ॥
वह्नेश्चापि प्रदीप्तस्य खमुत्पेतुर्महार्चिषः ।
जनयामासुरुद्वेगं सुमहान्तं दिवौकसाम् ॥
तेनार्चिषा सुसन्तप्ता देवाः सर्षिपुरोगमाः । ततो जग्मुर्महात्मानः सर्व एव दिवौकसः ।
शतक्रतुं सहस्राक्षं देवेशमसुरार्दनम् ॥
देवा ऊचुः ।
किं न्विमे मानवाः सर्वे दह्यन्ते चित्रभानुना ।
कच्चिन्न संक्षयः प्राप्तो लोकानाममरेश्वर ॥
वैशंपायन उवाच ।
तच्छ्रुत्वा वृत्रहा तेभ्यः स्वयमेवान्ववेक्ष्य च ।
खाण्डवस्य विमोक्षार्थं प्रययौ हरिवाहनः ॥
महता रथबृन्देन नानारूपेण वासवः ।
आकाशं समवाकीर्य प्रववर्ष सुरेश्वरः ॥
ततोऽक्षमात्रा व्यसृजन्धाराः शतसहस्रशः ।
चोदिता देवराजेन जलदाः खाण्डवं प्रति ॥
असंप्राप्तास्तु ता धारास्तेजसा जातवेदसः ।
ख एव समुशुष्यन्त नकाश्चित्पावकं गताः ॥
ततो नमुचिहा क्रुद्धो भृशमर्चिष्मतस्तदा ।
पुनरेव महामेघैरम्भांसि व्यसृजद्बहु ॥
अर्चिर्धाराभिसंबद्धं धूमविद्युत्समाकुलम् ।
बभूव तद्वनं घोरं स्तनयित्नुसमाकुलम् ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि खाण्डवदाहपर्वणि द्विपञ्चाशदधिकद्विशततमोऽध्यायः ॥ 252 ॥

1-252-3 आविद्धावेव अलातचक्रवद्भ्रामितावेव ॥ द्विपञ्चाशदधिकद्विशततमोऽध्यायः ॥ 252 ॥

अध्यायः 253

इन्द्राभिवृष्टस्य जलस्यार्जुनेन निवारणम् ॥ 1 ॥ पुत्रं निगीर्याकाशमुत्पतन्त्याः तक्षकभार्यायाः अर्जुनेन शिरश्छेदः ॥ 2 ॥ इन्द्रेण स्वकृतवायुवर्षमोहितादर्जुनात्तक्षकपुत्रस्याश्वसेनस्य मोचनम् ॥ 3 ॥ पावकान्मुमुक्षूणां नागादीनां मारणम् ॥ 4 ॥ इन्द्रस्य कृष्णार्जुनाभ्यां युद्धम् ॥ 5 ॥

वैशंपायन उवाच ।
तस्याथ वर्षतो वारि पाण्डवः प्रत्यवारयत् ।
शरवर्षेण बीभत्सुरुत्तमास्त्राणि दर्शयन् ॥
खाण्डवं च वनं सर्वं पाण्डवो बहुभिः शरैः ।
प्राच्छादयदमेयात्मा नीहारेणेव चन्द्रमाः ॥
न च स्म किंचिच्छक्नोति भूतं निश्चरितुं ततः ।
संछाद्यमाने खे बाणैरस्यता सव्यसाचिना ॥
तक्षकस्तु न तत्रासीन्नागराजो महाबलः ।
दह्यमाने वने तस्मिन्कुरुक्षेत्रं गतो हि सः ॥
अश्वसेनोऽभवत्तत्र तक्षकस्य सुतो बली ।
स यत्नमकरोत्तीव्रं मोक्षार्थं जातवेदसः ॥
न शशाक स निर्गन्तुं निरुद्धोऽर्जुनपत्रिभिः ।
मोक्षयामास तं माता निगीर्य भुजगात्मजा ॥
तस्य पूर्वं शिरो ग्रस्तं पुच्छमस्य निगीर्यते ।
निगीर्य सोर्ध्वमक्रामत्सुतं नागी मुमुक्षया ॥
तस्याः शरेण तीक्ष्णेन पृथुधारेण पाण्डवः ।
शिरश्चिच्छेद गच्छन्त्यास्तामपश्यच्छचीपतिः ॥
तं मुमोचयिषुर्वज्री वातवर्षेण पाण्डवम् ।
मोहयामास तत्कालमश्वसेनस्त्वमुच्यत ॥
तां च मायां तदा दृष्टा घोरां नागेन वञ्चितः ।
द्विधा त्रिधा च खगतान्प्राणिनः पाण्डवोच्छिनत् ॥
शशाप तं च संक्रुद्धो बीभत्सुर्जिह्मगामिनम् ।
पावको वासुदेवश्चाप्यप्रतिष्ठो भविष्यसि ॥
ततो जिष्णुः सहस्राक्षं खं वितत्याशुगैः शरैः ।
योधयामास संक्रुद्धो वञ्चनां तामनुस्मरन् ॥
देवराजोऽपि तं दृष्ट्वा संरब्धं समरेऽर्जुनम् ।
स्वमस्त्रमसृजत्तीव्रं छादयित्वाऽखिलं नभः ॥
ततो वायुर्महाघोषः क्षोभयन्सर्वसागरान् ।
वियत्स्थो जनयन्मेघाञ्जलधारासमाकुलान् ॥
ततोऽशनिमुचो घोरांस्तडित्स्तनितनिःस्वनान् ।
तद्विघातार्थमसृजदर्जुनोऽप्यस्त्रमुत्तमम् ॥
वायव्यमभिमन्त्र्याथ प्रतिपत्तिविशारदः ।
तेनेन्द्राशनिमेघानां वीर्यौजस्तद्विनाशितम् ॥
जलधाराश्च ताः शोषं जग्मुर्नेशुश्च विद्युतः ।
क्षणेन चाभवद्व्योम संप्रशान्तरजस्तमः ॥
सुखशीतानिलवहं प्रकृतिस्थार्कमण्डलम् ।
निष्प्रतीकारहृष्टश्च हुतभुग्विविधाकृतिः ॥
सिच्यमानो वसौघैस्तैः प्राणिनां देहनिःसृतैः ।
प्रजज्वालाथ सोऽर्चिष्मान्स्वनादैः पूरयञ्जगत् ॥
कृष्णाभ्यां रक्षितं दृष्ट्वा तं च दावमहङ्कृताः ।
खमुत्पेतुर्महाराज सुपर्णाद्याः पतत्त्रिणः ॥
गरुत्मान्वज्रसदृशैः पक्षतुण्डनखैस्तथा ।
प्रहर्तुकामो न्यपतदाकाशात्कृष्णपाण्डवौ ॥
तथैवोरगसङ्घाताः पाण्डवस्य समीपतः ।
उत्सृजन्तो विषं घोरं निपेतुर्ज्वलिताननाः ॥
तांश्चकर्त शरैः पार्थः सरोषाग्निसमुक्षितैः ।
विविशुश्चापि तं दीप्तं देहाभावाय पावकम् ॥
ततः सुराः सगन्धर्वा यक्षराक्षसपन्नगाः ।
उत्पेतुर्नादमतुलमुत्सृजन्तो रणार्थिनः ॥
अयःकणपचक्राश्मभुशुण्ड्युद्यतबाहवः ।
कृष्णपार्थौ जिघांसन्तः क्रोधसंमूर्च्छितौजसः ॥
तेषामतिव्याहरतां शस्त्रवर्षं प्रमुञ्चताम् ।
प्रममाथोत्तमाङ्गानि बीभत्सुर्निशितैः शरैः ॥
कृष्णश्च सुमहातेजाश्चक्रेणारिविनाशनः ।
दैत्यदानवसङ्घानां चकार कदनं महत् ॥
अथापरे शरैर्विद्धाश्चक्रवेगेरितास्तथा ।
वेलामिव समासाद्य व्यतिष्ठन्नमितौजसः ॥
ततः शक्रोऽतिसक्रुद्धस्त्रिदशानां महेश्वरः ।
पाण्डुरं गजमास्थाय तावुभौ समुपाद्रवत् ॥
वेगेनाशनिमादाय वज्रमस्त्रं च सोऽसृजत् ।
हतावेताविति प्राह सुरानसुरसूदनः ॥
ततः समुद्यतां दृष्ट्वा देवेन्द्रेण महाशनिम् ।
जगृहुः सर्वशस्त्राणि स्वानि स्वानि सुरास्तथा ॥
कालदण्डं यमो राजन् गदां चैव धनेश्वरः ।
पाशांश्च तत्र वरुणो विचित्रां च तथाऽशनिम् ॥
स्कन्दः शक्तिं समादाय तस्थौ मेरुरिवाचलः ।
ओषधीर्दीप्यमानाश्च जगृहातेऽस्विनावपि ॥
जगृहे च धनुर्धाता मुसलं तु जयस्तथा ।
पर्वतं चापि जग्राह क्रूद्धस्त्वष्टा महाबलः ॥
अंशस्तु शक्तिं जग्राह मृत्युर्देवः परश्वधम् ।
प्रगृह्य परिघं घोरं विचचारार्यमा अपि ॥
मित्रश्च क्षुरपर्यन्तं चक्रमादाय तस्थिवान् ।
पूषा भगश्च संक्रुद्धः सविता च विशांपते ॥
आत्तकार्मुकनिस्त्रिंशाः कृष्णापार्थौ प्रदुद्रुवुः ।
रुद्राश्च वसवश्चैव मरुतश्च महाबलाः ॥
विश्वेदेवास्तथा साध्या दीप्यमानाः स्वतेजसा ।
एते चान्ये च बहवो देवास्तौ पुरुषोत्तमौ ॥
कृष्णपार्थौ जिघांसन्तः प्रतीयुर्विविधायुधाः ।
तत्राद्भुतान्यदृश्यन्त निमित्तानि महाहवे ॥
युगान्तसमरूपाणि भूतसंमोहनानि च ।
तथा दृष्ट्वा सुसंरब्धं शक्रं देवैः सहाच्युतौ ॥
अभीतौ युधि दुर्धर्षौ तस्थतुः सज्जकार्मुकौ ।
आगच्छतस्ततो देवानुभौ युद्धविशारदौ ॥
व्यताडयेतां संक्रुद्धौ शरैर्वज्रोपमैस्तदा ।
असकृद्भग्नसंकल्पाः सुराश्च बहुशः कृताः ॥
भयाद्रणं परित्यज्य शख्रमेवाभिशिश्रियुः ।
दृष्ट्वा निवारितान्देवान्माधवेनार्जुनेन च ॥
आश्चर्यमगमंस्तत्र मुनयो नभसि स्थिताः ।
शक्रश्चापि तयोर्वीर्यमुपलभ्यासकृद्रणे ॥
बभूव परमप्रीतो भूयश्चैतावयोधयत् ।
ततोऽश्मवर्षं सुमहद्व्यसृजत्पाकशासनः ॥
भूय एव तदा वीर्यं जिज्ञासुः सव्यसाचिनः ।
तच्छैरर्जुनो वर्षं प्रतिजघ्नेऽत्यमर्षितः ॥
विफलं क्रियमाणं तत्समवेक्ष्य शतक्रतुः ।
भूयः संवर्धयामास तद्वर्षं पाकशासनः ॥
सोश्मवर्षं महावेगैरिषुभिः पाकशासनिः ।
विलयं गमयामास हर्षयन्पितरं तथा ॥
तत उत्पाट्य पाणिभ्यां मन्दराच्छिखरं महत् ।
सद्रुमं व्यसृजच्छक्रो जिघांसुः पाण्डुनन्दनम् ॥
ततोऽर्जुनो वेगवद्भिर्ज्वलिताग्रैरजिह्मगैः ।
शरैर्विध्वंसयामास गिरेः शृङ्गं सहस्रधा ॥
गिरेर्विशीर्यमाणस्य तस्य रूपं तदा बभौ ।
सार्कचन्द्रग्रहस्येव नभसः परिशीर्यतः ॥
तेनाभिपतता दावं शैलेन महता भृशम् ।
शृङ्गेण निहतास्तत्र प्राणिनः खाण्डवालयाः ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि खाण्डवदाहपर्वणि त्रिपञ्चाशदधिकद्विशततमोऽध्यायः ॥ 253 ॥ ॥ समाप्तं च खाण्डवदाहपर्व ॥

अध्यायः 254

(अथ मयदर्शनपर्व ॥ 19 ॥)

देवेषु पराजितेषु अशरीरवाणीश्रवणेन इन्द्रस्य निवृत्तिः ॥ 1 ॥ पलायमानं मयं हन्तुमुद्युक्ते श्रीकृष्णे आत्मानं शरणागतस्य मयस्य अर्जुनेनाभयदानम् ॥ 2 ॥ खाण्डवदाहेऽपि अश्वसेनादीनामदाहस्य वैशंपायनेन कथनम् ॥ 3 ॥

वैशंपायन उवाच ।
तथा शैलनिपातेन भीषिताः खाण्डवालयाः ।
दानवा राक्षसा नागास्तरक्ष्वृक्षवनौकसः ॥
द्विपाः प्रभिन्नाः शार्दूलाः सिंहाः केसरिणस्तथा ।
मृगाश्च महिषाश्चैव शतशः पक्षिणस्तथा ॥
समुद्विग्ना विससृपुस्तथान्या भूतजातयः ।
तं दावं समुदैक्षन्त कृष्णौ चाभ्युद्यतायुधौ ॥
उत्पातनादशब्देन त्रासिता इव चाभवन् ।
ते वनं प्रसमीक्ष्याथ दह्यमानमनेकधा ॥
कृष्णमभ्युद्यतास्त्रं च नादं मुमुचुरुल्बणम् ।
तेन नादेन रौद्रेण नादेन च विभावसोः ॥
ररास गगनं कृत्स्नमुत्पातजलदैरिव ।
ततः कृष्णो महाबाहुः स्वतेजोभास्वरं महत् ॥
चक्रं व्यसृजदत्युग्रं तेषां नाशाय केशवः ।
तेनार्ता जातयः क्षुद्राः सदानवनिशाचराः ॥
निकृत्ताः शतशः सर्वा निपेतुरनलं क्षणात् ।
तत्रादृश्यन्त ते दैत्याः कृष्णचक्रविदारिताः ॥
वसारुधिरसंपृक्ताः सन्ध्यायामिव तोयदाः ।
पिशाचान्पक्षिणो नागान्पशूंश्चैव सहस्रशः ॥
निघ्नंश्चरति वार्ष्णेयः कालवत्तत्र भारत ।
क्षिप्तं क्षिप्तं पुनश्चक्रं कृष्णस्यामित्रघातिनः ॥
छित्त्वानेकानि सत्वानि पाणिमेति पुनः पुनः ।
तथा तु निघ्नतस्तस्य पिशाचोरगराक्षसान् ॥
बभूव रूपमत्युग्रं सर्वभूतात्मनस्तदा ।
समेतानां च सर्वेषां दानवानां च सर्वशः ॥
विजेता नाभवत्कश्चित्कृष्णपाण्डवयोर्मृधे ।
तयोर्बलात्परित्रातुं तं च दावं यदा सुराः ॥
नाशक्नुवञ्शमयितुं तदाऽभूवन्पराङ्मुखाः ।
शतक्रतुस्तु संप्रेक्ष्य विमुखानमरांस्तथा ॥
बभूव मुदितो राजन्प्रशंसन्केशवार्जुनौ ।
निवृत्तेष्वथ देवेषु वागुवाचाशरीरिणी ॥
शतक्रतुं समाभाष्य महागम्भीरनिःस्वना ।
न ते सखा सन्निहितस्तक्षको भुजगोत्तमः ॥
दाहकाले खाण्डवस्य कुरुक्षेत्रं गतो ह्यसौ ।
न च शक्यौ युधा जेतुं कथंचिदपि वासव ॥
वासुदेवार्जुनावेतौ निबोध वचनान्मम ।
नरनारायणावेतौ पूर्वदेवौ दिवि श्रुतौ ॥
भवानप्यभिजानाति यद्वीर्यौ यत्पराक्रमौ ।
नैतौ शक्यौ दुराधर्षौ विजेतुमजितौ युधि ॥
अपि सर्वेषु लोकेषु पुराणावृषिसत्तमौ ।
पूजनीयतमावेतावपि सर्वैः सुरासुरैः ॥
यक्षराक्षसगन्धर्वनरकिन्नरपन्नगैः ।
तस्मादितः सुरैः सार्धं गन्तुमर्हसि वासव ॥
दिष्टं चाप्यनुपश्यैतत्खाण्डवस्य विनाशनम् ।
इति वाक्यमुपश्रुत्य तथ्यमित्यमरेश्वरः ॥
क्रोधामर्षौ समुत्सृज्य संप्रतस्थे दिवं तदा ।
तं प्रस्थितं महात्मानं समवेक्ष्य दिवौकसः ॥
सहिताः सेनया राजन्ननुजग्मुः पुरन्दरम् ।
देवराजं तदा यान्तं सह देवैरवेक्ष्य तु ॥
वासुदेवार्जुनौ वीरौ सिंहनादं विनेदतुः ।
देवराजे गते राजन्प्रहृष्टौ केशवार्जुनौ ॥
निर्विशङ्कं वनं वीरौ दाहयामासतुस्तदा ।
स मारुत इवाभ्राणि नाशयित्वाऽर्जुनः सुरान् ॥
व्यधमच्छरसङ्घातैर्देहिनः खाण्डवालयान् ।
न च स्म किंचिच्छक्नोति भूतं निश्चरितुं ततः ॥
संछिद्यमानमिषुभिरस्यता सव्यसाचिना ।
नाशक्नुवंश्च भूतानि महान्त्यपि रणेऽर्जुनम् ॥
निरीक्षितुममोघास्त्रं योद्धुं चापि कुतो रणे ।
शतं चैकेन विव्याध शतेनैकं पतत्रिणाम् ॥
व्यसवस्तेऽपतन्नग्नौ साक्षात्कालहता इव ।
न चालभन्त ते शर्म रोधःसु विषमेषु च ॥
पितृदेवनिवासेषु सन्तापश्चाप्यजायत ।
भूतसङ्घाश्च बहवो दीनाश्चक्रुर्महास्वनम् ॥
रुरुदुर्वारणाश्चैव तथा मृगतरक्षवः ।
तेन शब्देन वित्रेसुर्गङ्गोदधिचरा झषाः ॥
विद्याधरगणाश्चैव ये च तत्र वनौकसः ।
न त्वर्जुनं महाबाहो नापि कृष्णं जनार्दनम् ॥
निरीक्षितुं वै शक्नोति कश्चिद्योद्धुं कुतः पुनः ।
एकायनगता येऽपि निष्पेतुस्तत्र केचन ॥
राक्षसा दानवा नागा जघ्ने चक्रेण तान्हरिः ।
ते तु भिन्नशिरोदेहाश्चक्रवेगाद्गतासवः ॥
पेतुरन्ये महाकायाः प्रदीप्ते वसुरेतसि ।
समांसरुधिरौधैश्च वसाभिश्चापि तर्पितः ॥
उपर्याकाशगो भूत्वा विधूमः समपद्यत ।
दीप्ताक्षो दीप्तजिह्वश्च संप्रदीप्तमहाननः ॥
दीप्तोर्ध्वकेशः पिङ्गाक्षः पिबन्प्राणभृतां वसाम् ।
तां स कृष्णार्जुनकृतां सुधां प्राप्य हुताशनः ॥
बभूव मुदितस्तृप्तः परां निर्वृतिमागतः ।
तथाऽसुरं मयं नाम तक्षकस्य निवेशनात् ॥
विप्रद्रवन्तं सहसा ददर्श मधुसूदनः ।
तमग्निः प्रार्थयामास दिधक्षुर्वातसारथिः ॥
शरीरवाञ्जटी भूत्वा नदन्निव बलाहकः ।
विज्ञाय दानवेन्द्राणां मयं वै शिल्पिनां वरम् ॥
जिघांसुर्वासुदेवस्तं चक्रमुद्यम्य धिष्ठितः ।
स चक्रमुद्यतं दृष्ट्वा दिधक्षन्तं च पावकम् ॥
अभिधावार्जुनेत्येवं मयस्त्राहीति चाब्रवीत् ।
तस्य भीतस्वनं श्रुत्वा मा भैरिति धनंजयः ॥
प्रत्युवाच मयं पार्थो जीवयन्निव भारत ।
तं न भेतव्यमित्याह मयं पार्थो दयापरः ॥
तं पार्थेनाभये दत्ते नमुचेर्भ्रातरं मयम् ।
न हन्तुमैच्छद्दाशार्हः पावको न ददाह च ॥
तद्वनं पावको धीमान्दिनानि दश पञ्च च ।
ददाह कृष्णपार्थाभ्यां रक्षितः पाकशासनात् ॥
तस्मिन्वने दह्यमाने षडग्निर्न ददाह च ।
अश्वसेनं मयं चैव चतुरः शार्ङ्गकांस्तथा ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि मयदर्शनपर्वणि चतुःपञ्चाशदधिकद्विशततमोऽध्यायः ॥ 254 ॥

अध्यायः 255

शार्ङ्गकाणां मोचनकारणे जनमेजयेन पृष्टे वैशंपायनेन मन्दपालोपाख्यानकथनारम्भः ॥ 1 ॥ तपसा पितृलोकं गतस्याप्यनवाप्ततपःफळस्य मन्दपालस्य देवाज्ञया प्रजोत्पादनार्थं पुनर्भूमावागमनम् ॥ 2 ॥ तत्र शार्ङ्ग्यां जरितायां पुत्रचतुष्टयोत्पादनम् ॥ 3 ॥ सपुत्रां जरितां खाण्डवे विसृज्य लपितानाम्न्याऽन्यया शार्ङ्ग्या संगतस्य मन्दपालस्य विप्ररूपाग्निदर्शनम् ॥ 4 ॥ तस्य खाण्डवदिधक्षां ज्ञात्वा पुत्ररक्षणार्थं स्तुतादग्नेर्वरलाभः ॥ 5 ॥

जनमेजय उवाच ।
किमर्थं शार्ङ्गकानग्निर्न ददाह तथा गते ।
तस्मिन्वने दह्यमाने ब्रह्मन्नेतत्प्रचक्ष्व मे ॥
अदाहे ह्यश्वसेनस्य दानवस्य मयस्य च ।
कारणं कीर्तितं ब्रह्मञ्शार्ङ्गकाणां न कीर्तितम् ॥
तदेतदद्भुतं ब्रह्मञ्शार्ङ्गकाणामनामयम् ।
कीर्तयस्वाग्निसंमर्दे कथं ते न विनाशिताः ॥
वैशंपायन उवाच ।
यदर्थं शार्ङ्गकानग्निर्न ददाह तथा गते ।
तत्ते सर्वं प्रवक्ष्यामि यथा भूतमरिन्दम ॥
धर्मज्ञानां मुख्यतमस्तपस्वी संशितव्रतः ।
आसीन्महर्षिः श्रुतवान्मन्दपाल इति श्रुतः ॥
स मार्गमाश्रितो राजन्नृषीणामूर्ध्वरेतसाम् ।
स्वाध्यायवान्धर्मरतस्तपस्वी विजितेन्द्रियः ॥
स गत्वा तपसः पारं देहमुत्सृज्य भारत ।
जगाम पितृलोकाय न लेभे तत्र तत्फलम् ॥
स लोकानफलान्दृष्ट्वा तपसा निर्जितानपि ।
पप्रच्छ धर्मराजस्य समीपस्थान्दिवौकसः ॥
मन्दपाल उवाच ।
किमर्थमावृता लोका ममैते तपसाऽर्जिताः ।
किं मया न कृतं तत्र यस्यैतत्कर्मणः फलम् ॥
तत्राहं तत्करिष्यामि यदर्थमिदमावृतम् ।
फलमेतस्य तपसः कथयध्वं दिवौकसः ॥
देवा ऊचुः ।
ऋणिनो मानवा ब्रह्मञ्जायन्ते येन तच्छृणु ।
क्रियाभिर्ब्रह्मचर्येण प्रजया च न संशयः ॥
तदपाक्रियते सर्वं यज्ञेन तपसा सुतैः ।
तपस्वी यज्ञकृच्चासि न च ते विद्यते प्रजा ॥
त इमे प्रसवस्यार्थे तव लोकाः समावृताः ।
प्रजायस्व ततो लोकानुपभोक्ष्यसि पुष्कलान् ॥
पुन्नाम्नो नरकात्पुत्रस्त्रायते पितरं श्रुतिः ।
तस्मादपत्यसन्ताने यतस्व ब्रह्मसत्तम ॥
वैशंपायन उवाच ।
तच्छ्रुत्वा मन्दपालस्तु वचस्तेषां दिवौकसाम् ।
क्व नु शीघ्रमपत्यं स्याद्बहुलं चेत्यचिन्तयत् ॥
स चिन्तयन्नभ्यगच्छत्सुबहुप्रसवान्खगान् ।
शार्ङ्गिकां शार्ङ्गको भूत्वा जरितां समुपेयिवान् ॥
तस्यां पुत्रानजनयच्चतुरो ब्रह्मवादिनः ।
तानपास्य स तत्रैव जगाम लपितां प्रति ॥
बालान्स तानण्डगतान्सह मात्रा मुनिर्वने ।
तस्मिन्गते महाभागे लपितां प्रति भारत ॥
अपत्यस्नेहसंयुक्ता जरिता बह्वचिन्तयत् ।
तेन त्यक्तानसंत्याज्यानृषीनण्डगतान्वने ॥
न जहौ पुत्रशोकार्ता जरिता खाण्डवे सुतान् ।
बभार चैतान्संजातान्स्ववृत्त्या स्नेहविक्लवा ॥
ततोऽग्निं खाण्डवं दग्धुमायान्तं दृष्टवानृषिः ।
मन्दपालश्चरंस्तस्मिन्वने लपितया सह ॥
तं संकल्पं विदित्वाग्नेर्ज्ञात्वा पुत्रांश्च बालकान् ।
सोऽभितुष्टाव विप्रर्षिब्रार्ह्मणो जातवेदसम् ॥
पुत्रान्प्रतिवदन्भीतो लोकपालं महौजसम् ।
मन्दपाल उवाच ।
त्वमग्ने सर्वलोकानां मुखं त्वमसि हव्यवाट् ॥
त्वमन्तः सर्वभूतानां गूढश्चरसि पावक ।
त्वामेकमाहुः कवयस्त्वामाहुस्त्रिविधं पुनः ॥
त्वामष्टधा कल्पयित्वा यज्ञवाहमकल्पयन् ।
त्वया विश्वमिदं सृष्टं वदन्ति परमर्षयः ॥
त्वदृते हि जगत्कृत्स्नं सद्यो नश्येद्धुताशन ।
तुभ्यं कृत्वा नमो विप्राः स्वकर्मविजितां गतिम् ॥
गच्छन्ति सह पत्नीभिः सुतैरपि च शाश्वतीम् ।
त्वामग्ने जलदानाहुः खेविषक्तान्सविद्युतः ॥
दहन्ति सर्वभूतानि त्वत्तो निष्क्रम्य हेतयः ।
जातवेदस्त्वयैवेदं विश्वं सृष्टं महाद्युते ॥
तवैव कर्मविहितं भूतं सर्वं चराचरम् ।
त्वयापो विहिताः पूर्वं त्वयि सर्वमिदं जगत् ॥
त्वयि हव्यं च कव्यं च यथावत्संप्रतिष्ठितम् ।
त्वमेव दहनो देव त्वं धाता त्वं बृहस्पतिः ॥
त्वमश्विनौ यमौ मित्रः सोमस्त्वमसि चानिलः ।
वैशंपायन उवाच ।
एवं स्तुतस्तदा तेन मन्दपालेन पावकः ॥
तुतोष तस्य नृपते मुनेरमिततेजसः ।
उवाच चैनं प्रीतात्मा किमिष्टं करवाणि ते ॥
तमब्रवीन्मन्दपालः प्राञ्जलिर्हव्यवाहनम् ।
प्रदहन्खाण्डवं दावं मम पुत्रान्विसर्जय ॥
तथेति तत्प्रतिश्रुत्य भगवान्हव्यवाहनः ।
खाण्डवे तेन काले न प्रजज्वाल दिदक्षया ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि मयदर्शनपर्वणि पञ्चपञ्चाशदधिकद्विशततमोऽध्यायः ॥ 255 ॥

1-255-23 पुत्राणां दहनाद्भीतो इति ङ. पाठः ॥ पञ्चपञ्चाशदधिकद्विशततमोऽध्यायः ॥ 255 ॥

अध्यायः 256

प्रज्वलदग्निदर्शनेन जरितायाः स्वपुत्रैः संवादः ॥ 1 ॥

वैशंपायन उवाच ।
ततः प्रज्वलिते वह्नौ शार्ङ्गकास्ते सुदुःखिताः ।
व्यथिताः परमोद्विग्ना नाधिजग्मुः परायणम् ॥
निशाम्य पुत्रकान्बालान्माता तेषां तपस्विनी ।
जरिता शोकदुःखार्ता विललाप सुदुःखिता ॥
जरितोवाच ।
अयमग्निर्दहन्कक्षमित आयाति भीषणः ।
जगत्संदीपयन्भीमो मम दुःखविवर्धनः ॥
इमे च मां कर्षयन्ति शिशवो मन्दचेतसः ।
अबर्हाश्चरणैर्हीनाः पूर्वेषां नः परायणाः ॥
त्रासयंश्चायमायाति लेलिहानो महीरुहान् ।
अजातपक्षाश्च सुता न शक्ताः सरणे मम ॥
आदाय च न शक्नोमि पुत्रांस्तरितुमात्मना ।
न च त्यक्तुमहं शक्ता हृदयं दूयतीव मे ॥
कं तु जह्यामहं पुत्रं कमादाय व्रजाम्यहम् ।
किंनु मे स्यात्कृतं कृत्वा मन्यध्वं पुत्रकाः कथम् ॥
चिन्तयाना विमोक्षं वो नाधिगच्छामि किंचन ।
छादयिष्यामि वो गात्रैः करिष्ये मरणं सह ॥
जरितारौ कुलं ह्येतज्ज्येष्ठत्वेन प्रतिष्ठितम् ।
सारिसृक्कः प्रजायेत पितॄणां कुलवर्धनः ॥
स्तम्बमित्रस्तपः कुर्याद्द्रोणो ब्रह्मविदां वरः ।
इत्येवमुक्त्वा प्रययौ पिता वो निर्घृणः पुरा ॥
कमुपादाय शक्येयं गन्तुं कष्टाऽऽपदुत्तमा । किं नु कृत्वा कृतं कार्यं भवेदिति च विह्वला ।
नापश्यत्स्वधिया मोक्षं स्वसुतानां तदानलात् ॥
वैशंपायन उवाच ।
एवं ब्रुवाणां शार्ङ्गास्ते प्रत्यूचुरथ मातरम् ।
स्नेहमुत्सृज्य मातस्त्वं पत यत्र न हव्यवाट् ॥
अस्मास्विह विनष्टेषु भवितारः सुतास्तव ।
त्वयि मातर्विनष्टायां न नः स्यात्कुलसन्ततिः ॥
अन्ववेक्ष्यैतदुभयं क्षेमं स्याद्यत्कुलस्य नः ।
तद्वै कर्तुं परः कालो मातरेष भवेत्तव ॥
मा त्वं सर्वविनाशाय स्नेहं कार्षीः सुतेषु नः ।
न हीदं कर्म मोघं स्याल्लोककामस्य नः पितुः ॥
जरितोवाच ।
इदमाखोर्बिलं भूमौ वृक्षस्यास्य समीपतः ।
तदाविशध्वं त्वरिता वह्नेरत्र न वो भयम् ॥
ततोऽहं पांसुना छिद्रमपिधास्यामि पुत्रकाः ।
एवं प्रतिकृतं मन्ये ज्वलतः कृष्णवर्त्मनः ॥
तत एष्याम्यतीतेऽग्नौ विहन्तुं पांसुशंचयम् ।
रोचतामेष वो वादो मोक्षार्थं च हुताशनात् ॥
शार्ङ्गका ऊचुः ।
अबर्हान्मांसभूतान्नः क्रव्यादाखुर्विनाशयेत् ।
पश्यमाना भयमिदं प्रवेष्टुं नात्र शक्नुमः ॥
कथमग्निर्न नो धक्ष्येत्कथमाखुर्न नाशयेत् ।
कथं न स्यात्पिता मोघः कथं माता ध्रियेत नः ॥
बिल आखोर्विनाशः स्यादग्नेराकाशचारिणाम् ।
अन्ववेक्ष्यैतदुभयं श्रेयान्दाहो न भक्षणम् ॥
गर्हितं मरणं नः स्यादाखुना भक्षिते बिले ।
शिष्टादिष्टः परित्यागः शरीरस्य हुताशनात् ॥
`अग्निदाहे तु नियतं ब्रह्मलोके ध्रुवा गतिः ॥' ॥

इति श्रीमन्महाभारते आदिपर्वणि मयदर्शनपर्वणि षट्पञ्चाशदधिकद्विशततमोऽध्यायः ॥ 256 ॥

1-256-15 नोऽस्माकं सर्वविनाशाय सर्वेषां विनाशाय सुतेषु स्नेहं माकार्षीरिति संबन्धः ॥ 1-256-18 विहन्तुं दूरीकर्तुंम् । वादो वचनम् ॥ 1-256-19 क्रव्यादाखुर्मांसाद उन्दुरुः । पश्यमानाः पश्यन्तः ॥ 1-256-20 मोघो निष्फलाऽपत्योत्पत्तिः । ध्रियेत जीवेत ॥ 1-256-22 शिष्टादिष्टः शिष्टैरादिष्टः ॥ षट्पञ्चाशदधिकद्विशततमोऽध्यायः ॥ 256 ॥

अध्यायः 257

पुत्रैः सह संवादानन्तरं जरितायाः स्थानान्तरगमनम् ॥ 1 ॥

जरितोवाच ।
अस्माद्बिलान्निष्पतितमाखुं श्येनो जहार तम् ।
क्षुद्रं पद्भ्यां गृहीत्वा च यातो नात्र भयं हि वः ॥
शार्ङ्गका ऊचुः ।
न हृतं तं वयं विद्मः श्येनेनाखुं कथंचन ।
अन्येऽपि भितारोऽत्र तेभ्योऽपि भमेव नः ॥
संशयो वह्निरागच्छेद्दृष्टं वायोर्निवर्तनम् ।
मृत्युर्नो बिलवासिभ्यो बिले स्यान्नात्र संशयः ॥
निःसंशयात्संशयितो मृत्युर्मातर्विशिष्यते ।
चर खे त्वं यथान्यायं पुत्रानाप्स्यसि शोभनान् ॥
जरितोवाच ।
अहं वेगेन तं यान्तमद्राक्षं पततां वरम् ।
बिलादाखुं समादाय श्येनं पुत्रा महाबलम् ॥
तं पतन्तं महावेगा त्वरिता पृष्ठतोऽन्वगाम् ।
आशिषोऽस्य प्रयुञ्जाना हरतो मूषिकं बिलात् ॥
यो नो द्वेष्टारमादाय श्येनराज प्रधावसि ।
भव त्वं दिवमास्थाय निरमित्रो हिरण्मयः ॥
स यदा भक्षितस्तेन श्येनेनाखुः पतत्रिणा ।
तदाहं तमनुज्ञाप्य प्रत्युपायां पुनर्गृहम् ॥
प्रविशध्वं बिलं पुत्रा विश्रब्धा नास्ति वो भयम् ।
श्येनेन मम पश्यन्त्या हृत आखुर्महात्मना ॥
शार्ङ्गका ऊचुः ।
न विद्महे हृतं मातः श्येनैनाखुं कथंचन ।
अविज्ञाय न शक्यामः प्रवेष्टं विवरं भुवः ॥
जरितोवाच ।
अहं तमभिजानामि हृतं श्येनेन मूषिकम् ।
नास्ति वोऽत्र भयं पुत्राः क्रियतां वचनं मम ॥
शार्ङ्गका ऊचुः ।
न त्वं मिथ्योपचारेण मोक्षयेथा भयाद्धि नः ।
समाकुलेषु ज्ञानेषु न बुद्धिकृतमेव तत् ॥
न चोपकृतमस्माभिर्न चास्मान्वेत्थ ये वयम् ।
पीड्यमाना बिभर्ष्यस्मान्का सती के वयं तव ॥
तरुणी दर्शीयाऽसि समर्था भर्तुरेषणे ।
अनुगच्छ पतिं मातुः पुत्रानाप्स्यसि शोमनान् ॥
वयमस्निं समाविश्य लोकानाप्स्याम शोभनान् ।
अथास्मान्न दहेदग्निरायास्त्वं पुनरेव नः ॥
वैशंपायन उवाच ।
एवमुक्ता ततः शार्ङ्गी पुत्रानुत्सृज्य खाण्डवे ।
जगाम त्वरिता देशं क्षेममग्नेरनामयम् ॥
ततस्तीक्ष्णार्चिरभ्यागात्त्वरितो हव्यवाहनः ।
यत्र शार्ङ्गा वभूवुस्ते मन्दपालस्य पुत्रकाः ॥
ततस्तं ज्वलितं दृष्ट्वा ज्वलनं ते विहङ्गमाः । `व्यथिताः करुणा वाचः श्रावयामासुरन्तिकात् ।'
जरितारिस्ततो वाक्यं श्रावयामास पावकम् ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि मयदर्शनपर्वणि सप्तपञ्चाशदधिकद्विशततमोऽध्यायः ॥ 257 ॥

1-257-3 वह्निरागच्छेदित्यत्र संशयो यतो वायोः सकाशाद्वह्नेति वर्तनं दृष्टम् ॥ 1-257-5 अहं वैश्येनमायान्तं इति ङ. पाठः ॥ सप्तपञ्चाशदधिकद्विशततमोऽध्यायः ॥ 257 ॥

अध्यायः 258

जरितार्यादीनां चतुर्णां शार्ङ्गकाणां परस्परं संवादः ॥ 1 ॥ स्तुत्या प्रसन्नेनाग्निना तेभ्योऽभयदानम् ॥ 2 ॥ शार्ङ्गकाणां प्रार्थनया अग्निना मार्जाराणां दाहः ॥ 3 ॥

जरितारिरुवाच ।
पुरतः कृच्छ्रकालस्य धीमाञ्जागर्ति पुरुषः ।
स कृच्छ्रकालं संप्राप्य व्यथां नैवैति कर्हिचित् ॥
यस्तु कृच्छ्रमनुप्राप्तं विचेता नावबुध्यते ।
सकृच्छ्रकाले व्यथितो न श्रेयो विन्दते महत् ॥
सारिसृक्व उवाच ।
धीरस्त्वमसि मेधावी प्राणकृच्छ्रमिदं च नः ।
प्राज्ञः शूरो बहूनां हि भवत्येको न संशयः ॥
स्तम्बमित्र उवाच ।
ज्येष्ठस्तातो भवति वै ज्येष्ठो मुञ्चति कृच्छ्रतः ।
ज्येष्ठश्चेन्न प्रजानाति नीयान्किं करिष्यति ॥
द्रोण उवाच ।
हिरण्यरेतास्त्वरितो जलन्नायाति नः क्षयम् ।
सप्तजिह्वाननः क्रूरो लिहानो विसर्पति ॥
वैशंपायन उवाच ।
एवं संभाष्य तेऽन्योन्यं मन्दपालस्य पुत्रकाः ।
तुष्टुवुः प्रयता भूत्वा यथाऽग्निं शृणु पार्थिव ॥
जरितारिरुवाच ।
आत्माऽसि वायोर्ज्वलन शरीरमसि वीरुधाम् ।
योनिरापश्च ते शुक्रं योनिस्त्वमसि चाम्भसः ॥
ऊर्ध्वं चाधश्च सर्पन्ति पृष्ठतः पार्श्वतस्तथा ।
अर्चिषस्ते महावीर्य रश्यमः सवितुर्यथा ॥
सारिसृक्क उवाच ।
माता प्रणष्टा पितरं न विद्मः पक्षा जाता नै नो धूमकेतो ।
न नस्त्राता विद्यते वै त्वदन्य- स्तस्मादस्मांस्त्राहि बालांस्त्वमग्ने ॥
यदग्ने ते शिवं रूपं ये च ते सप्त हेतयः ।
तेन नः परिपाहि त्वमार्तान्नः शरणैषिणः ॥
त्वमेवैकस्तपसे जप्तवेदो नान्यस्तप्ता विद्यते गोषु देव ।
ऋषीनस्मान्बालकान्पालयस्व परेणास्मान्प्रेहि वै हव्यवाह ॥
स्तम्बमित्र उवाच ।
सर्वमग्ने त्वमेवैकस्त्वयि सर्वमिदं जगत् ।
त्वं धारयसि भूतानि भुवनं त्वं बिभर्षि च ॥
त्वमग्निर्हव्यवाहस्त्वं त्वमेव परमं हविः ।
मनीषिणस्त्वां जानन्ति बहुधा चैकधापि च ॥
सृष्ट्वा लोकांस्त्रीनिमान्हव्यवाह काले प्राप्ते पचसि पुनः समिद्धः ।
त्वं सर्वस्य भुवनस्य प्रसूति- स्त्वमेवाग्ने भवसि पुनः प्रतिष्ठा ॥
द्रोण उवाच ।
त्वमन्नं प्राणिभिर्भुक्तमन्तर्भूतो जगत्पते ।
नित्यप्रवृद्धः पचसि त्वयि सर्वं प्रतिष्ठितम् ॥
सूर्यो भूत्वा रश्मिभिर्जातवेदो भूमेरम्भो भूमिजातान्रसांश्च ।
विश्वानादाय पुनरुत्सृज्य काले दृष्ट्वा वृष्ट्या भावयसीह शुक्र ॥
त्वत्त एताः पुनः शुक्र वीरुधो हरितच्छदाः ।
जायन्ते पुष्करिण्यश्च सुभद्रश्च महोदधिः ॥
इदं वै सद्म तिग्मांशो वरुणस्य परायणम् ।
शिवस्त्राता भवास्माकं माऽस्मानद्य विनाशय ॥
पिङ्गाक्ष लोहितग्रीव कृष्णवर्त्मन्हुताशन ।
परेण प्रेहि मुञ्चास्मान्सागरस्य गृहानिव ॥
वैशंपायन उवाच ।
एवमुक्तो जातवेदा द्रोणेन ब्रह्मवादिना ।
द्रोणमाह प्रतीतात्मा मन्दपालप्रतिज्ञया ॥
अग्निरुवाच ।
ऋषिर्द्रोणस्त्वमसि वै ब्रह्मैतद्व्याहृतं ईप्सितं ते करिष्यामि न च ते
मन्दपालेन वै यूयं मम पूर्वं निवेदिताः ।
वर्जयेः पुत्रकान्मह्यं दहन्दावमिति स्म ह ॥
तस्य तद्वचनं द्रोण त्वया यच्चेह भाषितम् । उभयं मे गरीयस्तु ब्रूहि किं करवाणि ते ।
भृशं प्रीतोऽस्मि भद्रं ते ब्रह्मंस्तोत्रेण सत्तम ॥
द्रोण उवाच ।
इमे मार्जारकाः शुक्र नित्यमुद्वेजयन्ति नः ।
एतान्कुरुष्व दग्धांस्त्वं हुताशन सबान्धवान् ॥
वैशंपायन उवाच ।
तथा तत्कृतवानग्निरभ्यनुज्ञाय शार्ङ्गकान् ।
ददाह खाण्डवं दावं समिद्धो जनमेजय ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि मयदर्शनपर्वणि अष्टपञ्चाशदधिकद्विशततमोऽध्यायः ॥ 258 ॥

अध्यायः 259

पुत्रांश्चन्तयन्तं मन्दपालं प्रति लपितायाः सासूयवचनम् ॥ 1 ॥ अग्निशान्त्यनन्तरं आत्मदिदृक्षयाऽऽगतं मन्दपालं प्रति भार्यया पुत्रैश्च उपालम्भः ॥ 2 ॥ ।

वैशंपायन उवाच ।
मन्दपालोऽञपि कौरव्यं चिन्तयामास पुत्रकान् ।
उक्त्वाऽपि च स तिग्मांशुं नैव शर्माधिगच्छति ॥
स तप्यमानः पुत्रार्थे लपितामिदमब्रवीत् ।
कथं नु शक्ताः शरणे लपिते मम पुत्रकाः ॥
वर्धमाने हुतवहे वाते चाशु प्रवायति ।
असमर्था विमोक्षाय भविष्यन्ति ममात्मजाः ॥
कथं त्वशक्ता त्राणाय माता तेषां तपस्विनी ।
भविष्यति हि शोकार्ता पुत्रत्राणमपश्यती ॥
कथमुड्डीयनेऽशक्तान्पतने च ममात्मजान् ।
सन्तप्यमाना बहुधा वाशमाना प्रधावती ॥
जरितारिः कथं पुत्रः सारिसृक्कः कथं च मे ।
स्तम्बमित्रः कथं द्रोणः कथं सा च तपस्विनी ॥
लालप्यमानं तमृषइं मन्दपालं तथा वने ।
लपिता प्रत्युवाचेदं सासूयमिव भारत ॥
न ते पुत्रेष्ववेक्षाऽस्ति यानृषीनुक्तवानसि ।
तेजस्विनो वीर्यवन्तो न तेषां ज्वलनाद्भयम् ॥
त्वयाऽग्नौ ते परीताश्च स्वयं हि मम सन्निधौ ।
श्रुतं तथा चेति ज्वलनेन महात्मना ॥
पलो न तां वाचमुक्त्वा मिथ्या करिष्यति ।
न्धुकृत्ये न तेन ते स्वस्थ मानसम् ॥
तामेव तु ममामित्रां चिन्तयन्परितप्यसे ।
ध्रुवं मयि न ते स्नेहो यथा तपयं पुराऽभवत् ॥
नहि पक्षवता न्याय्यं निः हेन सुहृज्जने ।
पीड्यमान उपद्रष्टुं शक्तेना मा कथंचन ॥
गच्छ त्वं जरितामेव यदर्थं परितप्यसे ।
चरिष्याम्यहमप्येका यथा पुरुषाश्रिता ॥
मन्दपाल उवाच ।
नाहमेवं चरे लोके यथा त्वमभिमन्यसे ।
अपत्यहेतोर्विचरे तच्च कृच्छ्रगतं मम ॥
भूतं हित्वा च भाव्यर्थे योऽवलम्बेत्स मन्दधीः ।
अवमन्येत तं लोको यथेच्छसि तथा कुरु ॥
एष हि प्रज्वलन्नग्निर्लेलिहानी महीरुहान् ।
आविग्ने हृदि सन्तापं जनयत्यशिवं मम ॥
वैशंपायन उवाच ।
`भर्तुर्हि वाक्यं सा श्रुत्वा लपिता दुःखिताऽभवत् । सान्त्वयामास च पुनः पति पतिपरायणा ॥'
तस्माद्देशादतिक्रान्ते ज्वलने जरिता पुनः ।
जगाम पुत्रकानेन जरिता पुत्रगृद्धिनी ॥
सा तान्कुशलिनः सर्वान्विमुक्ताञ्जातवेदसः ।
रोरूयमाणान्ददृशे वने पुत्रान्निरामयान् ॥
अश्रूणि मुमुचे तेषां दर्शनात्सा पुनःपुनः ।
`न श्रद्धेयं ततस्तेषांर्शनं वै पुनःपुनः ॥
इति मत्वाऽब्रवीद्वाकजरिता पुत्रगृद्धिनी ।' एकाकशश्च पुत्रांस्तन्त्र्शमानान्वपद्यत ॥
`जरिता तु परिष्वज्युत्रस्नेहाच्चुचुम्ब ह ॥'
ततोऽभ्यगच्छत्सहसमन्दपालोऽपि भारत ।
अथ ते सर्व एवैनं भ्यनन्दंस्तदा सुताः ॥
`गुरुत्वान्मन्दपालस्तपसश्च विशेषतः ।
अभिवादामहे सर्वे तपक्षाः प्रसादतः ॥
एवमुक्तवतां तेषां तनन्द्य महातपाः । परिष्वज्य ततो मू उपाघ्राय च बलकान् ।
पुत्रान्स्वयं समाहूयतः प्रोवाच गौतमः ॥'
लालप्यमानमेकैकंरितां च पुनःपुनः ।
न चैवोचुस्तदा किंतमृषिं साध्वसाधु वा ॥
मन्दपाल उवाच ।
ज्येष्ठः सुतस्ते कत कतमस्तस्य चानुजः ।
मध्यमः कतमश्चैव यान्कतमश्च ते ॥
एवं ब्रुवन्तं दुःखाकं मा न प्रतिभाषसे । कृतवानस्मि हव्यानैव शान्तिमितो लभे ।
`एवमुक्त्वा तु तां मन्दपालस्तदाऽस्पृशत् ॥'
जरितोवाच ।
किं नु ज्येष्ठेन ते किमनन्तरजेन ते ।
किं वा मध्यमजातेन किं कनिष्ठेन वा पुनः ॥
यां त्वं मां सर्वतो हीनामुत्सृज्यासि गतः पुरा ।
तामेव लपितां गच्छ तरुणीं चारुहासिनीम् ॥
मन्दपाल उवाच ।
न स्त्रीणां विद्यते किंचिदमुत्र पुरुषान्तरात् ।
सापत्नकमृते लोके नान्यदर्थविनाशनम् ॥
वैराग्निदीपनं चैव भृशुद्वेगकारि च ।
सुव्रता चापि कल्याणी सर्वभूतेषु विश्रुता ॥
अरुन्धती महात्मानं वसिष्ठं पर्यशङ्कत ।
विशुद्धभावमत्यन्तं सदा प्रियहिते रतम् ॥
सप्तर्षिमध्यगं वीरमवमेने च तं मुनिम् । अपध्यानेन सा तेन धूमारुणसमप्रभा ।
लक्ष्याऽलक्ष्या नाभिरूपा निमित्तमिव पश्यति ॥
अपत्यहेतोः संप्राप्तं तथा त्वमपि मामिह ।
इष्टमेवं गते हि त्वं सा तथैवाद्य वर्तते ॥
न हि भार्येति विश्वासः कार्यः पुंसा कथंचन ।
न हि कार्यमनुध्याति नारी पुत्रवती सती ॥
वैशंपायन उवाच ।
ततस्ते सर्व एवैनं पुत्राः सम्यगुपासते ।
स च तानात्मजान्सर्वानाश्वासयितुमुद्यतः ॥ ॥

इति श्रीमन्महाभारते आदिप्रवणि मयदर्शनपर्वणि ऊनषष्ट्यधिकद्विशततमोऽध्यायः ॥ 259 ॥

1-259- 1-259-10 1-259-12 मिति ङ. पाठः ॥ 1-259-13 ह्यपुरुषा तथा इति ङ. पाठः ॥ ऊनषष्ठ्यधिकद्विशततमोऽध्यायः ॥ 259 ॥

अध्यायः 260

मन्दपालस्य पुत्राश्वपूर्वकं सर्वैः सहान्यत्र गमनम् ॥ 1 ॥ देवगणैः सहागतस्येन्द्रस्य कृष्णार्जुनवरदानपूर्वकं स्वलोकगमनम् ॥ 2 ॥ अग्नेस्थानगमनानन्तरं कृष्णार्जुनमयानां नदीकूल उपवेशनम् ॥ 3 ॥

मन्दपाल उवाच ।
युष्माकमपवर्गार्थं ती ज्वलनो मया ।
अग्निना च तथेत्येतिज्ञातं महात्मना ॥
अग्नेर्वचनमाज्ञाय धर्मज्ञतां च वः ।
भवतां च परं वीर्यं नाहमिहागतः ॥
न सन्तापो हि वर्त्थः पुत्रका हृदि मां प्रति ।
ऋषीन्वेद हुताशो ब्रह्म तद्विदितं च वः ॥
वैशंपायन उवाच ।
एवमाश्वासितान्पुत्रान्भार्यामादाय स द्विजः ।
मन्दपालस्ततो देशादन्यं देशं जगाम ह ॥
भगवानापि तिग्मांशुः समिद्धः खाण्डवं ततः ।
ददाह सह कृष्णाभ्यां जनयञ्जगतो हितम् ॥
वसामेदोवहाः कुल्यास्तत्र पीत्वा च पावकः ।
जगाम दर्शयामास चार्जुनम् ॥
ततोऽञन्तरिक्षाद्भगवानवतीर्य पुरन्दरः ।
मरुद्गणैर्वृतः पार्थं केशवं चेदमब्रवीत् ॥
कृतं युवाभ्यां कर्मेदममरैरपि दुष्करम् ।
वरं वृणीतं तुष्टोऽस्मि दुर्लभं पुरुषेष्विह ॥
पार्थस्तु वरयामास शक्रादस्त्राणि सर्वशः ।
प्रदातुं तच्च शक्रस्तु कालं चक्रे महाद्युतिः ॥
यदा प्रसन्नो भगवान्महादेवो भविष्यति ।
तदातुभ्यं प्रदास्यामि पाण्डवास्त्राणि सर्वशः ॥
अहमेव च तं कालं वेत्स्यामि कुरुनन्दन ।
तपसा महता चापि दास्यामि भवतोऽप्यहम् ॥
आग्नेयानि च सर्वाणि वायव्यानि च सर्वशः ।
मदीयानि च सर्वाणि ग्रहीष्यसि धनञ्जय ॥
वासुदेवोऽपि जग्राह प्रीतिं पार्थेन शाश्वतीम् ।
ददौ सुरपतिश्चैव वरं कृष्णाय धीमते ॥
एवं दत्त्वा वरं ताभ्यां सह देवैर्मरुत्पतिः ।
हुताशनमनुज्ञाप्य जगामत्रिदिवं प्रभुः ॥
पावकश्च तदा दावं दग्ध्वसमृगपक्षिणम् ।
अहोभिरेकविंशद्भिर्विरराग्सुतर्पितः ॥
जग्ध्वा मांसानि पीत्वा चदांसि रुधिराणि च ।
युक्तः परमया प्रीत्या तावुत्वाच्युतार्जुनौ ॥
युवाभ्यां पुरुषाग्र्याभ्यां ततोऽस्मि यथासुखम् ।
अनुजानामि वां वीरौ चरतंत्र वाञ्छितम् ॥
`गाण्डिवं च धनुर्दिव्यमक्षौ च महेषुधी ।
कपिध्वजो रथश्चायं तव द महामते ॥
अनेन धनुषा चैव रथेनाने भारत । विजेष्यसि रणे शत्रून्सदेवामानुषान् ॥'
एवं तौ समनुज्ञातौ पाववेमहात्मना ।
अर्जुनो वासुदेवश्च दानवश्चयस्तथा ॥
परिक्रम्य ततः सर्वे त्रयोऽभरतर्षभ ।
रमणीये नदीकूले सहितामुपाविशंन् ॥

इति श्रीमन्महाभारते शतसाहस्त्र्यां संहितायां वैयासिक्यां आदिपर्वणि मयपर्वणि षष्ट्यधिकद्विशततमोऽध्यायः ॥ 260 ॥ ॥ समाप्तं मयदर्शनपर्वादिपर्व च ॥

1-260-15 अहानि पञ्च चैकं च इति ख. पाठः ॥ षष्ट्यधिकद्विशततमोऽध्यायः ॥ 260 ॥