अध्यायः 135

भीष्मेण युधिष्ठिरंप्रति दस्युभावेऽपि शास्त्रमर्यादानुसारिणः परलोकप्राप्तौ दृष्टान्ततया कापच्यचरितोपन्यासः ॥ 1 ॥

भीष्म उवाच ।
अत्राप्युदाहन्तीममितिहासं पुरातनम् ।
यथा दस्युः समर्यादो दस्युत्वात्सिद्धिमाप्तवान् ॥
प्रहर्ता मतिमाञ्शूरः श्रुतवान्सुनृशंसवान् ।
अक्षन्नाश्रमिणां धर्मं ब्रह्मण्यो गुरुपूजकः ॥
अनिषाद्यां क्षत्रियाज्जातः क्षत्रधर्मानुपालकः ।
कापच्यो नाम नैषादिर्दस्युत्वात्सिद्धिमाप्तवान् ॥
अरण्ये सायं पूर्वाह्णे मृगयूथप्रकोपिता ।
वेधिज्ञो मृगजातीनां नैषादानां च कोविदः ॥
सर्वकाननदेशज्ञः पारियात्रचरः सदा ।
धर्मज्ञः सर्ववर्णानाममोघेषुर्दृढायुधः ॥
अप्यनेकशतां सेनामेक एव जिगाय सः ।
स वृद्धावम्बपितरौ महारण्येऽभ्यपूजयत् ॥
मधुमांसैर्मूलफलैरन्नैरुच्चावचैरपि ।
सत्कृत्य भोजयामास सम्यक्परिचचार ह ॥
आरण्यकान्प्रव्रजितान्ब्राह्मणान्परिपालयन् ।
अपि तेभ्यो मृगान्हत्वा निनाय सततं वने ॥
येऽस्मान्न प्रतिगृह्णन्ति दस्युभोजनशङ्कया ।
तेषामासज्य गेहेषु कल्य एव स गच्छति ॥
तं बहूनि सहस्राणि ग्रामणीत्वेऽभिवव्रिरे ।
निर्मर्यादानि दस्यूनां निरनुक्रोशवर्तिनाम् ॥
दस्यव ऊचुः ।
मुहूर्तदेशकालज्ञः प्राज्ञः शूरो दृढव्रतः ।
ग्रामणीर्भव नो मुख्यः सर्वेपामेव संमतः ॥
यथायथा वक्ष्यसि नः करिष्यामस्तथातथा ।
पालयास्मान्यथान्यायं यथा माता यथा पिता ॥
कापच्य उवाच ।
मा वधीस्त्वं स्त्रियं भीरुं मा शिशुं मा तपस्विनम् ।
नायुध्यमानो हन्तव्यो न च ग्राह्या बलात्स्त्रियः ॥
सर्वथा स्त्री न हन्तव्या सर्वसत्वेषु बुध्यत ।
नित्यं गोब्राह्मणे स्वस्ति योद्धव्यं च तदर्थतः ॥
सत्यं च नापि हर्तव्यं सारविघ्नं च मा कृथाः ।
पूज्यन्ते यत्र देवाश्च पितरोऽतिथयश्च ह ॥
सर्वभूतेष्वपि वरो ब्राह्मणो मोक्षमर्हति ।
कार्या चापचितिस्तेषां सर्वस्वेनापि भावयेत् ॥
यस्य त्वेते संप्रदुष्टास्तस्य विद्यात्पराभवम् ।
न तस्य त्रिषु लोकेषु त्राता भवति कस्चन ॥
यो ब्राह्मणान्परिभवेद्विनाशं चापि रोचयेत् ।
सूर्योदय इव ध्वान्ते ध्रुवं तस्य पराभवः ॥
इहैव फलमासीनः प्रत्याकाङ्क्षेत सर्वशः ।
येये नो न प्रदास्यन्ति तांस्तांस्तेनाभियास्यसि ॥
शिष्ट्यर्थं विहितो दण्डो न वधार्थं विधीयते ।
ये च शिष्टान्प्रबाधन्ते धर्मस्तेषां वधः स्मृतः ॥
ये च राष्ट्रोपरोधेन वृद्धिं कुर्वन्ति केचन ।
तानेवानुम्रियेरंस्ते कुणपं कृमयो यथा ॥
ये पुनर्धर्मशास्त्रेण वर्तेरन्निह दस्यवः । अपि ते दस्यवो भूत्वा क्षिप्रं सिद्धिमवाप्नुयुः ।
भीष्म उवाच ।
ते सर्वमेवानुचक्रुः कापच्यस्यानुशासनम् ।
वृद्धिं च लेभिरे सर्वे पापेभ्यश्चाप्युपारमन् ॥
कापच्यः कर्मणा तेन महतीं सिद्धिमाप्तवान् ।
साधूनामाचरन्क्षेमं दस्यून्पापान्निवर्तयन् ॥
इदं कापच्यचरितं यो नित्यमनुचिन्तयेत् ।
नारण्येभ्योऽपि भूतेभ्यो भयमृच्छेत्कथंचन ॥
न भयं तस्य मर्त्येभ्यो नामर्त्येभ्यः कथंचन ।
न सतो नासतो राजन्स ह्यरण्येषु गोपतिः ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि पञ्चत्रिंशदधिकशततमोऽध्यायः ॥ 135 ॥

12-135-3 कायव्यो नामेति झ. पाठः । कापव्यो नामेति ट. पाठः । काश्यपो नामेति ध. पाठः ॥ 12-135-4 निपातानां च कोविद इति ड. थ. ध. पाठः ॥ 12-135-5 पारियात्रः पर्वतविशेषः ॥ 12-135-9 आसज्य क्वचिन्निधाय । कल्ये प्रातः ॥ 12-135-13 मावधीस्त्वमित्येकवचनं गणाभिप्रायेण ॥ 12-135-14 स्वस्ति कल्याणं चिन्तनीयम् ॥ 12-135-15 सारो विवाहादिकार्यं तत्र विघ्नं मा कृथाः । सस्यं च नोपहन्तव्यं सीरविघ्नं च मा कृथाः इति ट. ड. थ. पाठः ॥ 12-135-16 अपचितिः पूजा ॥ 12-135-18 ध्वान्ते ध्वान्तस्य ॥ 12-135-19 ये ये वणिजः । नः अस्मभ्यम् ॥ 12-135-20 शिष्ट्यर्थं दुष्टानां शासनार्थम् ॥