अध्यायः 184

भरद्वाजेन भृगुंप्रति सयुक्तिकं संघातान्यजीवपक्षाक्षेपः ॥ 1 ॥

भरद्वाज उवाच ।
यदि प्राणयते वायुर्वायुरेव विचेष्टते ।
श्वसित्याभाषते चैव तस्माज्जीवो निरर्थकः ॥
यदूष्मभाव आग्नेयो वह्निना पच्यते यदि ।
अग्निर्जरयते चैतत्तस्माज्जीवो निरर्थकः ॥
जन्तोः प्रमीयमाणस्य जीवो नैवोपलभ्यते ।
वायुरेव जहात्येनमूष्मभावश्च नश्यति ॥
यदि वायुमयो जीवः संश्लेषो यदि वायुना ।
वायुमण्डलवद्दृश्येद्गच्छन्सह मरुद्गणैः ॥
श्लेष्मं वा यदि वा जीवः सह तेन प्रणश्यति ।
महार्णववियुक्तत्वादन्यत्सलिलभाजनम् ॥
यत्क्षिपेत्सलिलं कूपे प्रदीपं वा हुताशने ।
तन्नश्यत्युभयं तद्वज्जीवो वातानलात्मकः ॥
पञ्च साधारणो ह्यस्मिञ्शरीरे जीवितं कुतः ।
तेषामन्यतरत्यागाच्चतुर्णां नास्ति संग्रहः ॥
नश्यन्त्यापो ह्यनाधाराद्वायुरुच्छ्वासनिग्रहात् ।
नश्यते कोष्ठभेदात्खमग्निर्नश्यत्यभोजनात् ॥
व्याधिप्राणपरिक्लेशैर्मेदिनी चैव शीर्यते ।
पीडितेऽन्यतमे ह्येषां संघातो याति पञ्चताम् ॥
तस्मिन्पञ्चत्वमापन्ने जीवः किमनुधावति ।
किं वेदयति वा जीवः किं शृणोति ब्रवीति च ॥
एषा गौः परलोकस्थं तारयिष्यति मामिति ।
यो दत्त्वा म्रियते जन्तुः सा गौः कं तारयिष्यति ॥
गौश्च प्रतिग्रहीता च दाता चैव समं यदा ।
इहैव विलयं यान्ति कुतस्तेषां समागमः ॥
विहगैरुपभुक्तस्य शैलाग्नात्पतितस्य च ।
अग्निना चोपयुक्तस्य कुतः संजीवनं पुनः ॥
छिन्नस्य यदि वृक्षस्य न मूलं प्रतिरोहति ।
बीजान्यस्य प्ररोहन्ति मृतः क्व पुनरेष्यति ॥
बीजमात्रं पुरा सृष्टं यदेतत्परिवर्तते ।
मृतामृताः प्रणश्यन्ति बीजाद्वीजं प्रवर्तते ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि चतुरशीत्यधिकशततमोऽध्यायः ॥ 184 ॥

12-184-3 जन्तोर्देहेन्द्रियबुद्धिसंघातस्य । प्रमीयमाणस्य नश्यमानस्य । नैवोपलभ्यते पलालपृथक्करणे बीजमिव । तस्माद्वायुवियोग एव मरणम् । जन्तोः प्रकीर्यमाणस्येति थ. पाठः ॥ 12-184-4 वायुमयो वायुप्रधानो वायोरन्यः । वायुमण्डलवद्वात्याचक्रवद्वायुना सह दृश्यः स्यादित्यर्थः । यदि वातोपमो जीव इति ट.पाठः ॥ 12-184-5 संश्लेषो यदि वातेन यदि तस्मात्प्रणश्यतीतिझ. पाठः । तत्र यदि वातेन जीवस्य संश्लेषोऽस्ति तस्माच्च जीवादन्यो वातः पञ्चत्वदशायां यदि प्रणश्यति तर्हि यथा महार्णवे क्षिप्तं जलभाजनं सलिलापगमे दृश्यते तद्वद्वायुसंश्लिष्टो जीवो वायोरपगमे दृश्येतेत्यर्थः ॥ 12-184-6 क्षिप्रं प्रविश्य नश्येत यथा नश्यत्यसौ तथेति घ. पाठः ॥ 12-184-7 पञ्चधारणके इति । तेषामन्यतराभावाच्चतुर्णां नास्ति संशयः । इति च. झ. पाठः ॥ 12-184-14 मृतस्य पुनरागमनाभावोऽपि संसारप्रवाहस्याविच्छेदे दृष्टान्तमाह छिन्नस्येति ॥ 12-184-15 दार्ष्टान्तिकमाह बीजमात्रमिति । शरीरमूलं तु बीजमात्रं प्रत्यक्षदृष्टं रेतएव नत्वदृष्टमक्लृत्वात् । प्रवर्तते देहरूपेण परिणमते । तथाच बीजरुहतरुवन्नष्टानां नाश एवेतरेषामुद्भव इति । तस्मान्नित्यं समिध्यते इत्यनुपपन्नम् ॥