अध्यायः 017

भीमप्रति युधिष्ठिरवचनम् ॥ 1 ॥

युधिष्ठिर उवाच ।
असंतोषः प्रमादश्च मदो रागोऽप्रशान्तता ।
बलं मोहोऽभिमानश्चाप्युद्वेगश्चैव सर्वशः ॥
एभिः पाप्मभिराविष्टो राज्यं त्वमभिकाङ्क्षसे ।
निरामिषो विनिर्मुक्तः प्रशान्तः सुसुखी भव ॥
य इमामखिलां भूमिं शिष्यादेको महीपतिः ।
तस्याप्युदरमेकं वै किमिदं त्वं प्रशंससि ॥
नाह्ना पूरयितुं शक्यां न मासैर्भरतर्षभ ।
अपूर्यां पूरयन्निच्छामायुषाऽपि न शक्नुयात् ॥
यथेद्धः प्रज्वलत्यग्निरसमिद्धः प्रशाम्यति ।
अल्पाहारतयाग्निं त्वं शमयौदर्यमुत्थितम् ॥
आत्मोदरकृतेऽप्राज्ञः करोति विशसं बहु ।
जयोदरं पृथिव्या ते श्रेयो निर्जितया जितम् ॥
मानुषान्कामभोगांस्त्वमैश्वर्यं च प्रशंससि ।
अभोगिनोऽबलाश्चैव यान्ति स्थानमनुत्तमम् ॥
योगः क्षेमश्च राष्ट्रस्य धर्माधर्मौ त्वयि स्थितौ ।
मुच्यस्व महतो भारात्त्यागमेवाभिसंश्रय ॥
एकोदरकृते व्याघ्रः करोति विशसं बहु ।
तमन्येऽप्युपजीवन्ति मन्दवेगतरा मृगाः ॥
विषयान्प्रतिसंगृह्य संन्यासे कुरुते मतिम् ।
न च तुष्यन्ति राजानः पश्य बुद्ध्यन्तरं यथा ॥
पत्राहारैरश्मकुट्टैर्दन्तोलूखलिकैस्तथा ।
अब्भक्षैर्वायुभक्षैश्च तेरयं नरको जितः ॥
यस्त्विमां वसुधां कृत्स्नां प्रशासेदखिलां नृपः ।
तुल्याश्मकाञ्चनो यश्च स कृतार्थो न पार्थिवः ॥
संकल्पेषु निरारम्भो निराशीर्निर्ममो भव ।
अशोकं स्थानमातिष्ठ इह चामुत्र चाव्ययम् ॥
निरामिषा न शोचन्ति शोचन्ति त्वामिषैषिणः ।
परित्यज्यामिषं सर्वं मृषावादात्प्रमोक्ष्यसे ॥
पन्थानौ पितृयानश्च देवयानश्च विश्रुतौ ।
ईजानाः पितृयानेन देवयानेन मोक्षिणः ॥
तपसा ब्रह्मर्येण स्वाध्यायेन महर्षयः ।
विमुच्य देहांस्ते यान्ति मृत्योरविषयं गताः ॥
आमिषं बन्धनं लोके कर्मेहोक्तं तथाऽऽमिषम् ।
ताभ्यां विमुक्तः पापाभ्यां पदमाप्नोति तत्परम् ॥
अपि गाथां पुरा गीतां जनकेन वदन्त्युत ।
निर्द्वन्द्वेन विमुक्तेन मोक्षं समनुपश्यता ॥
अनन्तं बत मे वित्तं यस्य मे नास्ति किंचन ।
मिथिलायां प्रदीप्तायां न मे किंचित्प्रदह्यते ॥
प्रज्ञाप्रासादमारुह्य न शोचेच्छोचतो जनान् ।
जगतीस्थोऽथवाऽद्रिस्थो मन्दबुद्धिर्नचेक्षते ॥
दृश्यं पश्यति यः पश्यन्स चक्षुष्मान्स बुद्धिमान् ।
अज्ञातानां च विज्ञानात्संबोधाद्रुद्धिरुच्यते ॥
यस्तु मानं विजानाति बहुमानमियात्स वै ।
ब्रह्मभावप्रभूतानां वैद्यानां भावितात्मनाम् ॥
यदा भूतपृथग्भावमेकस्थमनुपश्यति ।
तत एव च विस्तारं ब्रह्म संपद्यते तदा ॥
ते जनास्तां गतिं यान्ति नाविद्वांसोऽल्पचेतसः ।
नाबुद्धयो नातपसः सर्वं बुद्धौ प्रतिष्ठितम् ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि सप्तदशोऽध्यायः ॥ 17 ॥

12-17-5 इद्धः प्रदीप्तः ॥ 12-17-6 विशसं विशसनम् ॥ 12-17-7 अबलास्तपःकृशाः ॥ 12-17-8 अलब्धलाभो योगः । लब्धसंरक्षणं क्षेमः ॥ 12-17-21 दृश्यं द्रष्टुं योग्यं कर्तव्यमकर्तव्यं च ॥ 12-17-22 यस्तु वाचं विजानातीति झ. पाठः ॥ 12-17-24 ते बुद्धिमन्तः ॥