अध्यायः 224

भीष्मेण युधिष्ठिरंप्रति गार्हस्थ्ये स्थितस्यापि भगवदुपासकस्य ज्ञानिनः पुरुषार्थसिद्धौ दृष्टान्ततया सुवर्चलाश्वेतकेतूपाख्यानकथनम् ॥ 1 ॥

`युधिष्ठिर उवाच ।
अस्ति कश्चिद्यदि विभो सदारो नियतो गृहे । अतीतसर्वसंसारः सर्वद्वन्द्वविवर्जितः ।
तं मे ब्रूहि महाप्राज्ञ दुर्लभः पुरुषो महान् ॥
भीष्म उवाच ।
शृणु राजन्यथावृत्तं यन्मां त्वं पृष्टवानसि ।
इतिहासमिमं शुद्धं संसारभयभेषजम् ॥
देवलो नाम विप्रर्षिः सर्वशास्त्रार्थकोविदः ।
क्रियावान्धार्मिको नित्यं देवब्राह्मणपूजकः ॥
सुता सुवर्चला नाम तस्य कल्याणलक्षणा । नातिह्रस्वा नातिकृशा नातिदीर्घा यशस्विनी ।
प्रदानसमयं प्राप्ता पिता तस्य ह्यचिन्तयत् ॥
अस्याः पतिः कुतो वेति ब्राह्मणः श्रोत्रियः परः ।
विद्वान्विप्रो ह्यकुटुम्बः प्रियवादी महातपाः ॥
इत्येवं चिन्तयानं तं रहस्याह सुवर्चला ॥
अन्धाय मां महाप्राज्ञ देह्यनन्धाय वै पितः ।
एवं स्मर सदा विद्वन्ममेदं प्रार्थितं मुने ॥
पितोवाच ।
न शक्यं प्रार्थितं वत्से त्वयाऽद्य प्रतिभाति मे ।
अन्धतानन्धता चेति विकारो मम जायते ॥
उन्मत्तेवाशुभं वाक्यं भाषसे शुभलोचने ॥
सुवर्चलोवाच ।
नाहमुन्मत्तभूताऽद्य बुद्धिपूर्वं ब्रवीमि ते ।
विद्यते चेत्पतिस्तादृक्स मां भरति वेदवित् ॥
येभ्यस्त्वं मन्यसे दातुं मामिहानय तान्द्विजान् ।
तादृशं तं पतिं तेषु वरयिष्ये यथातथम् ॥
भीष्म उवाच ।
तथेति चोक्त्वा तां कन्यामृषिः शिष्यानुवाच ह ।
ब्राह्मणान्वेदसंपन्नान्योनिगोत्रविशोधितान् ॥
मातृतः पितृतः शुद्धाञ्शुद्धानाचारतः शुभान् ।
अरोगान्बुद्धिसंपन्नाञ्शीलसत्वगुणान्वितान् ॥
असंकीर्णांश्च गोत्रेषु वेदव्रतसमन्वितान् । ब्राह्मणान्स्नातकाञ्शीघ्रं मातापितृसमन्वितान् ।
निवेष्टुकामान्कन्यां मे दृष्ट्वाऽऽनयत शिष्यकाः ॥
तच्छ्रुत्वा त्वरिताः शिष्या ह्याश्रमेषु ततस्ततः ।
ग्रामेषु च ततो गत्वा ब्राह्मणेभ्यो न्यवेदयन् ॥
ऋषेः प्रभावं मत्वा ते कन्यायाश्च द्विजोत्तमाः ।
अनेकमुनयो राजन्संप्राप्ता देवलाश्रमम् ॥
अनुमान्य यथान्यायं मुनीन्मुनिकुमारकान् ।
अभ्यर्च्य विधिवत्तत्र कन्यामाह पिता महान् ॥
एतेऽपि मुनयो वत्से स्वपुत्रैकमता इह ।
वेदवेदाङ्गसंपन्नाः कुलीनाः शीलसंमताः ॥
येऽमी तेषु वरं भद्रे त्वमिच्छसि महाव्रतम् ।
तं कुमारं वृणीष्वाद्य तस्मै दास्याम्यहं शुभे ॥
तथेति चोक्त्वा कल्याणी तप्तहेमनिभा तदा ।
सर्वलक्षणसंपन्ना वाक्यमाह यशस्विनी ॥
विप्राणां समितीर्दृष्ट्वा प्रणिपत्य तपोधनान् ।
यद्यस्ति समितौ विप्रो ह्यन्धोऽनन्धः स मे वरः ॥
तच्छ्रुत्वा मुनयस्तत्र वीक्षमाणाः परस्परम् ।
नोचुर्विप्रा महाभागाः कन्यां मत्वा ह्यवेदिकां ॥
कुत्सयित्वा मुनिं तत्र मनसा मुनिसत्तमाः ।
यथागतं ययुः क्रुद्धा नानादेशनिवासिनः ॥
कन्या च संस्थिता तत्र पितृवेश्मनि भामिनी ॥
ततः कदाचिद्ब्रह्मण्यो विद्वान्न्यायविशारदः ।
ऊहापोहविधानज्ञो ब्रह्मचर्यसमन्वितः ॥
वेदविद्वेदतत्वज्ञः क्रियाकल्पविशारदः ।
आत्मतत्वविभागज्ञः पितृमान्गुणसागरः ॥
श्वेतकेतुरिति ख्यातः श्रुत्वा वृत्तान्तमादरात् ।
कन्यार्थं देवलं चापि शीघ्रं तत्रागतोऽभवत् ॥
उद्दालकसुतं दृष्ट्वा श्वेतकेतुं महाव्रतम् ।
यथान्यायं च संपूज्य देवलः प्रत्यभाषत ॥
कन्ये एष महाभागे प्राप्तो ऋषिकुमारकः ।
वरयैनं महाप्राज्ञं वेदवेदाङ्गपारगम् ॥
तच्छ्रुत्वा कुपिता कन्या ऋषिपुत्रमुदैक्षत ।
तां कन्यामाह विप्रर्षिः सोऽहं भद्रे समागतः ॥
अन्धोऽहमत्र तत्वं हि तथा मन्ये च सर्वदा । विशालनयनं विद्धि तथा मां हीनसंशयम् ।
वृणीष्व मां वरारोहे भजे च त्वामनिन्दिते ॥
येनेदं वीक्षते नित्यं वृणोति स्पृशतेऽथवा ।
घ्रायते वक्ति सततं येनेदं सार्यते पुनः ॥
येनेदं मन्यते तत्वं येन बुध्यति वा पुनः ।
न चक्षुर्विद्यते ह्येतत्स वै भूतान्ध उच्यते ॥
यस्मिन्प्रवर्तते चेदं पश्यञ्छृण्वन्स्पृशन्नपि ।
जिघ्रंश्च रसयंस्तद्वद्वर्तते येन चक्षुषा ॥
तन्मे नास्ति ततो ह्यन्धो वृणु भद्रेऽद्य मामतः ।
लोकदृष्ट्या करोमीह नित्यनैमित्तिकादिकम् ॥
आत्मदृष्ट्या च तत्सर्वं विलिप्यासि च नित्यशः ।
स्थितोऽहं निर्भरः शान्तः कार्यकारणभावनः ॥
अविद्यया तरन्मृत्युं विद्यया तं तथाऽमृतम् । यथाप्राप्तं तु संदृश्य वसामीह विमत्सरः ।
क्रीते व्यवसितं भद्रे भर्ताऽहं ते वृणीष्व माम् ॥
भीष्म उवाच ।
ततः सुवर्चला दृष्ट्वा प्राह तं द्विजसत्तमम् । मनसाऽसि वृतो विद्वञ्शेषकर्ता पिता मम ।
वृणीष्व पितरं मह्यमेष वेदविधिक्रमः ॥
तद्विज्ञाय पिता तस्या देवलो मुनिसत्तमः ।
श्वेतकेतुं च संपूज्य तथैवोद्दालकेन तम् ॥
मुनीनामग्रतः कन्यां प्रददौ जलपूर्वकम् ।
उदाहरन्ति वै तत्र श्वेतकेतुं निरीक्ष्य तम् ॥
हृत्पुण्डरीकनिलयः सर्वभूतात्मको हरिः ।
श्वेतकेतुस्वरूपेण स्थितोऽसौ मधुसूदनः ॥
प्रीयतां माधवो देवः पत्नी चेयं सुता मम । प्रतिपादयामि ते कन्यां सहधर्मचरीं शुभाम् ।
इत्युक्त्वा प्रददौ तस्मै देवलो मुनिपुङ्गवः ॥
प्रतिगृह्य च तां कन्यां श्वेतकेतुर्महायशाः ।
उपयम्य यथान्यायमत्र कृत्वा यथाविधि ॥
समाप्य तन्त्रं मुनिभिर्वैवाहिकमनुत्तमम् ।
स गार्हस्थ्ये वसन्धीमान्भार्यां तामिदमब्रवीत् ॥
यानि चोक्तानि वेदेषु तत्सर्वं कुरु शोभने ।
मया सह यथान्यायं सहधर्मचरी मम् ॥
अहमित्येव भावेन स्थितोऽहं त्वं तथैव च ।
तस्मात्कर्माणि कुर्वीथाः कुर्यां ते च ततः परम् ॥
न ममेति च भावेन ज्ञानाग्निनिलयेन च ।
अनन्तरं तथा कुर्यास्तानि कर्माणि भस्मसात् ॥
एवं त्वया च कर्तव्यं सर्वदा दुर्भगा मया । यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः ।
तस्माल्लोकस्य सिद्ध्यर्थं कर्तव्यं चात्मसिद्धये ॥
उक्त्वैवं स महाप्राज्ञः सर्वज्ञानैकभाजनः ।
पुत्रानुत्पाद्य तस्यां च यज्ञैः संतर्प्य देवताः ॥
आत्मयोगपरो नित्यं निर्द्वन्द्वो निष्परिग्रहः ।
भार्यां तां सदृशीं प्राप्य बुद्धिं क्षेत्रज्ञयोरिव ॥
लोकमन्यमनुप्राप्तौ भार्या भर्ता तथैव च ।
साक्षिभूतौ जगत्यस्मिंश्चरमाणौ मुदाऽन्वितौ ॥
ततः कदाचिद्भर्तारं श्वेतकेतुं सुवर्चला ।
पप्रच्छ को भवानत्र ब्रूहि मे तद्द्विजोत्तम ॥
तामाह भगवान्वाग्मी तया ज्ञातो न संशयः ।
द्विजोत्तमेति मामुक्त्वा पुनः कमनुपृच्छसि ॥
सा तमाह महात्मानं पृच्छामि हृदि शायिनम् ।
तच्छ्रुत्वा प्रत्युवाचैनां स न वक्ष्यति भामिनि ॥
नामगोत्रसमायुक्तमात्मानं मन्यसे यदि ।
तन्मिथ्यागोत्रसद्भावे वर्तते देहबन्धनम् ॥
अहमित्येष भावोऽत्र त्वयि चापि समाहितः । त्वमप्यहमहं सर्वमहमित्येव वर्तते ।
नात्र तत्परमार्थं वै किमर्थमनुपृच्छसि ॥
ततः प्रहस्य सा हृष्टा भर्तारं धर्मचारिणी ।
उवाच वचनं काले स्मयमाना तदा नृप ॥
किमनेकप्रकारेण विरोधेन प्रयोजनम् । क्रियाकलापैर्ब्रह्मर्षे ज्ञाननष्टोऽसि सर्वदा ।
तन्मे ब्रूहि महाप्राज्ञ यथाऽहं त्वामनुव्रता ॥
श्वेतकेतुरुवाच ।
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः ।
वर्तते तेन लोकोऽयं संकीर्णश्च भविष्यति ॥
संकीर्णे च तथा धर्मे वर्णः संकरमेति च ।
संकरे च प्रवृत्ते तु मात्स्यो न्यायः प्रवर्तते ॥
तदनिष्टं हरेर्भद्रे धातुरस्य महात्मनः ।
परमेश्वरसंक्रीडा लोकसृष्टिरियं शुभे ॥
यावत्पासव उद्दिष्टास्तावत्योऽस्य विभूतयः ।
तावत्यश्चैव मायास्तु तावत्योऽस्याश्च शक्तयः ॥
एवं सुगह्वरे युक्तो यत्र मे तद्भवाभवम् । छित्त्वा ज्ञानासिना गच्छेत्स विद्वान्स च मे प्रियः ।
सोऽहमेव न सन्देहः प्रतिज्ञा इति तस्य वै ॥
ये मूढास्ते दुरात्मानो धर्मसंकरकारकाः ।
मर्यादाभेदका नीचा नरके यान्ति जन्तवः ॥
आसुरीं योनिमापन्ना इति देवानुशासनम् ॥
भगवत्या तथा लोके रक्षितव्यं न संशयः ।
मर्यादालोकरक्षार्थमेवमस्ति तथा स्थितः ॥
सुवर्चलोवाच ।
शब्दः कोत्र इति ख्यातस्तथाऽर्थं च महामुने ।
आकृत्या पतयो ब्रूहि लक्षणेन पृथक्पृथक् ॥
श्वेतकेतुरुवाच ।
व्यत्ययेन च वर्णानां परिवादकृतो हि यः ।
स शब्द इति विज्ञेयस्तन्निपातोऽर्थ उच्यते ॥
सुवर्चलोवाच ।
शब्दार्थयोर्हि संबन्धस्त्वनयोरस्ति वा न वा ।
तन्मे ब्रूहि यथातत्वं शब्दस्यानेऽर्थ एव चेत् ॥
श्वेतकेतुरुवाच ।
शब्दार्थयोर्न चैवास्ति संबन्धोऽत्यन्त एव हि ।
पुष्करे च यथा तोयं तथाऽस्मीति च वेत्थ तत् ॥
सुवर्चलोवाच ।
अर्थे स्थितिर्हि शब्दस्य नान्यथा च स्थितिर्भवेत् ।
विद्यते चेन्महाप्राज्ञ विनाऽर्थं ब्रूहि सत्तम ॥
श्वेतकेतुरुवाच ।
ससंसर्गोऽतिमात्रस्तु वाचकत्वेन वर्तते ।
अस्ति चेद्वर्तते नित्यं विकारोच्चारणेन वै ॥
सुवर्चलोवाच ।
शब्दस्थानोत्र इत्युक्तस्तथाऽर्थ इति मे कृतः ।
अर्थः स्थितो न तिष्ठेच्च विरूढमिह भाषितम् ॥
श्वेतकेतुरुवाच ।
न विकूलोऽत्र कथितो नाकाशं हि विना जगत् ।
संबन्धस्तत्र नास्त्येव तद्वदित्येष मन्यताम् ॥
सुवर्चलोवाच ।
सदाऽहंकारशब्दोऽयं व्यक्तमात्मनि संश्रितः ।
न वाचस्तत्र वर्तन्ते इति मिथ्या भविष्यति ॥
श्वेतकेतुरुवाच ।
अहंशब्दो ह्यहंभावो नात्मभावे शुभव्रते ।
न वर्तन्ते परेऽचिन्त्ये वाचः सगुणलक्षणाः ॥
सुवर्चलोवाच ।
अहं गात्रैकतः श्यामा भावनपि तथैव च ।
तन्मे ब्रूहि यथान्यायमेवं चेन्मुनिसत्तम ॥
श्वेतकेतुरुवाच ।
मृण्मये हि घटे भावस्तादृग्भाव इहेष्यते ।
अयं भावः परेऽचिन्त्ये ह्यात्मभावो यथाच तत् ॥
अहं त्वमेतदित्येव परे संकल्पना मया ।
तस्माद्वाचो न वर्तन्त इति नैव विरुध्यते ॥
तस्माद्वामेन वर्तन्ते मनसा भीरु सर्वशः ।
यथाऽऽकाशगतं विश्वं संसक्तमिव लक्ष्यते ॥
संसर्गे सति संबन्धात्तद्विकारं भविष्यति ।
अनाकाशगतं सर्वं विकारे च सदा गतम् ॥
तद्ब्रह्म परमं शुद्धमनौषम्यं न शक्यते ।
न दृश्यते तथा तच्च दृश्यते च मतिर्मम ॥
सुवर्चलोवाच ।
निर्विकारं ह्यमूर्ति च निरयं सर्वगं तथा ।
दृश्यते च वियन्नित्यं दृगात्मा तेन दृश्यते ॥
श्वेतकेतुरुवाच ।
त्वचा स्पृशति वै वायुमाकाशस्थं पुनः पुनः ।
तत्स्थं गन्धं तथाघ्राति ज्योतिः पश्यति चक्षुषा ॥
तमोरश्मिगणश्चैव मेघजालं तथैव च ।
वर्षं तारागणं चैव नाकाशं दृश्यते पुनः ॥
आकाशस्याप्यथाकाशं सद्रूपमिति निश्चितम् । तदर्थे कल्पिता ह्येते तत्सत्यो विष्णुरेव च ।
यानि नामानि गौणानि ह्युपचारात्परात्मनि ॥
न चक्षुषा न मनसा न चान्येन परो विभुः ।
चिन्त्यते सूक्ष्मया बुद्ध्या वाचा वक्तुं न शक्यते ॥
एतत्प्रपञ्चमखिलं तस्मिन्सर्वं प्रतिष्ठितम् ।
महाघटोऽल्पकश्चैव यथा मह्यां प्रतिष्ठितौ ॥
न च स्त्री न पुमांश्चैव यथैव न नपुंसकः ।
केवलज्ञानमात्रं तत्तस्मिन्सर्वं प्रतिष्ठितम् ॥
भूमिसंस्थानयोगेन वस्तुसंस्थानयोगतः ।
रसभेदा यथा तोये प्रकृत्यामात्मनस्तथा ॥
तद्वाक्यस्मरणान्नित्यं तृप्तिं वारि पिबन्निव ।
प्राप्नोति ज्ञानमखिलं तेन तत्सुखमेधते ॥
सुवर्चलोवाच ।
अनेन साध्यं किं स्याद्वै शब्देनेति मतिर्मम ।
वेदगम्यः परोऽचिन्त्य इति पौराणिका विदुः ॥
निरर्थको यथा लोके तद्वत्स्यादिति मे मतिः ।
निरीक्ष्यैवं यथान्यायं वक्तुमर्हसि मेऽनघ ॥
श्वेतकेतुरुवाच ।
वेदगम्यं परं शुद्धमिति सत्या परा श्रुतिः ।
व्याहत्या नैतदित्याह व्युपलिङ्गे च वर्तते ॥
निरर्थको न चैवास्ति शब्दो लौकिक उत्तमे ।
अनन्वयास्तथा शब्दा निरर्था इति लौकिकैः ॥
गृह्यन्ते तद्वदित्येव न वर्तन्ते परात्मनि ।
अगोचरत्वं वचसां युक्तमेवं तथा शुभे ॥
साधनस्योपदेशाच्च ह्युपायस्य च सूचनात् । उपलक्षणयोगेन व्यावृत्त्या च प्रदर्शनात् ।
वेदगम्यः परः शुद्ध इति मे धीयते मतिः ॥
अध्यात्मध्यानसंभूतमभूतं----- वत्स्फुटम् ।
ज्ञानं विद्धि शुभाचारे तेन यान्ति परां गतिम् ॥
यदि मे व्याहृतं गुह्यं श्रुतं न तु त्वया शुभे ।
तथ्यमित्येव वा शुद्धे ज्ञानं ज्ञानविलोचने ॥
नानारूपवदस्यैवमैश्वर्यं दृश्यते शुभे ।
न वायुस्तं न सूर्यस्तं नाग्निस्तत्तत्परं पदम् ॥
अनेन पूर्णमेतद्धि हृदि भूतमिहेष्यते । एतावदात्मविज्ञानमेतावद्यदहं स्मृतम् ।
आवयोर्न च सत्वे वै तस्मादज्ञानबन्धनम् ॥
भीष्म उवाच ।
एवं सुवर्चला हृष्टा प्रोक्ता भर्त्रा यथार्थवत् ।
परिचर्यमाणा ह्यनिशं तत्वबुद्धिसमन्विता ॥
भर्ता च तामनुप्रेक्ष्य नित्यनैमित्तिकान्वितः ।
परमात्मनि गोविन्दे वासुदेवे महात्मनि ॥
समाधाय च कर्माणि तन्मयत्वेन भावितः ।
कालेन महता राजन्प्राप्नोति परमां गतिम् ॥
एतत्ते कथितं राजन्यस्मात्त्वं परिपृच्छसि । गार्हस्थ्यं च समास्थाय गतौ जायापती परम्' ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि चतुर्विंशत्यधिकद्विशततमोऽध्यायः ॥ 224 ॥