अध्यायः 272

भीष्मेण युधिष्ठिरंप्रति चिरकारिकोपाख्यानकथनम् ॥ 1 ॥

युधिष्ठिर उवाच ।
कथं कार्यं परीक्षेत शीघ्रं वाऽथ चिरेण वा ।
सर्वथा कार्यदुर्गेऽस्मिन्भवान्नः परमो गुरुः ॥
भीष्म उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
चिरकारेस्तु यत्पूर्वं वृत्तमाङ्गिरसां कुले ॥
`गौतमस्य सुता ह्यासन्वीयांश्चिरकारिकः ।' चिरकारिक भद्रं ते भद्रं ते चिरकारिक ।
चिरकारी हि मेधावी नापराध्यति कर्मसु ॥
चिरकारी महाप्राज्ञो गौतमस्याभवत्सुतः ।
चिरेण सर्वकार्याणि विमृश्यार्थान्प्रपद्यते ॥
चिरं स चिन्तयत्यर्थांश्चिरं जाग्रच्चिरं स्वपन् ।
चिरं कार्याभिषत्तिं च चिरकारी तथोच्यते ॥
अलसग्रहणं प्राप्तो दुर्मेधावीति चोच्यते ।
बुद्धिलाघवयुक्तेन जनेनादीर्घदर्शिना ॥
व्यभिचारे तु कस्मिंश्चिद्व्यतिक्रम्यापरान्सुतान् ।
पित्रोक्तः कुपितेनाथ जहीमां जननीमिति ॥
इत्युक्त्वा स तदा विप्रो गौतमो जपतां वरः ।
अविमृश्य महाभागो वनमेव जगाम सः ॥
स तथेति चिरेणोक्त्वा स्वभावाच्चिरकारिकः ।
विमृश्य चिरकारित्वाच्चिन्तयामास वै चिरम् ॥
पितुराज्ञां कथं कुर्यां न हन्यां मातरं कथम् ।
कथं धर्मच्छले नास्मिन्निमज्जेयमसाधुवत् ॥
पितुराज्ञा परो धर्मः स्वधर्मो मातृरक्षणम् ।
अस्वतन्त्रं च पुत्रत्वं किंतु मां नानुपीडयेत् ॥
स्त्रियं हत्वा मातरं च को हि जातु सुखी भवेत् ।
पितरं चाप्यवज्ञाय कः प्रतिष्ठामवाप्नुयात् ॥
अनवज्ञा पितुर्युक्ता स्वधर्मो मातृरक्षणम् ।
युक्तक्षमावुभावेतौ नातिवर्तेतमां कथम् ॥
पिता ह्यात्मानमाधत्ते जायायां जायतामिति ।
शीलचारित्रगोत्रस्य धारणार्थं कुलस्य च ॥
सोऽहं मात्रा स्वयं पित्रा पुत्रत्वे प्रकृतः पुनः ।
विज्ञानं मे कथं न स्याद्द्वौ बुद्ध्ये चात्मसंभवम् ॥
जातकर्मणि यत्प्राह पिता यच्चोपकर्मणि ।
पर्याप्तः स दृढीकारः पितुर्गौरवनिश्चये ॥
गुरुरग्र्यः परो धर्मः पोषणाध्यापनान्वितः ।
पिता यदाह धर्मः स वेदेष्वपि सुनिश्चितः ॥
प्रीतिमात्रं पितुः पुत्रः सर्वं पुत्रस्य वै पिता ।
शरीरादीनि देयानि पिता त्वेकः प्रयच्छति ॥
तस्मात्पितुर्वचः कार्यं न विचार्यं कदाचन ।
पातकान्यपि पूयन्ते पितुःर शासनकारिणः ॥
भाग्यभोगे प्रसवने सर्वलोकनिदर्शने ।
धात्र्याश्चैव समायोगे सीमन्तोन्नयने तथा ॥
पिता धर्मः पिता स्वर्गः पिता हि परमं तपः ।
पितरि प्रीतिमापन्ने सर्वाः प्रीणन्ति देवताः ॥
आशिषस्ता भजन्त्यनं पुरुषं प्राह यत्पिता ।
निष्कृतिः सर्वपापानां पिता यच्चाभिनन्दति ॥
मुच्यते बन्धनात्पुरुषं फलं वृक्षान्प्रमुच्यते ।
क्लिश्यन्नपि सुतस्नेहैः पिता पुत्रं न मुञ्चति ॥
एतद्विचिन्तितं तावत्पुत्रस्य पितृगौरवम् ।
पिता नाल्पतरं स्थानं चिन्तयिष्यामि मातरम् ॥
यो ह्ययं मयि संघातो मर्त्यत्वे पाञ्चभौतिकः ।
अस्य मे जननी हेतुः पावकस्य यथाऽरणिः ॥
माता देहारणिः पुंसां सर्वस्यार्तस्य निर्वृतिः ।
मातृलाभे सनाथत्वमनाथत्वं विपर्यये ॥
न च शोचति नाप्येनं स्थाविर्यमपकर्षति ।
श्रिया हीनोऽपि यो गेहमम्बेति प्रतिपद्यते ॥
पुत्रपौत्रोपपन्नोपि जननीं यः समाश्रितः ।
अपि वर्षशतस्यान्ते स द्विहायनवच्चरेत् ॥
समर्थं वाऽसमर्थं वा कृशं वाप्यकृशं तथा ।
रक्षत्येव सुतं माता नान्यः पोष्टा विधानतः ॥
तदा स वृद्धो भवति तदा भवति दुःखितः ।
तदा शून्यं जगत्तस्य यदा मात्रा वियुज्यते ॥
नास्ति मातृसमा च्छाया नास्ति मातृसमा गतिः ।
नास्ति मातृसमं त्राणं नास्ति मातृसमा प्रिया ॥
कुक्षौ संधारणाद्धात्री जननाज्जननी स्मृता ।
अङ्गानां वर्धनादम्बा वीरसूत्वेन वीरसूः ॥
शिशोः शुश्रूषणाच्छुश्रूर्माता देहमनन्तरम् ।
चेतनावान्स को हन्याद्यस्य नासुषिरं शिरः ॥
दंपत्योः प्राणसंश्लेषे योऽभिसन्धिः कृतः किल ।
तं माता च पिता चेति भूतार्थो मातरि स्थितः ॥
माता जानाति यद्गोत्रं माता जानाति यस्य सः ।
मातुर्भरणमात्रेण प्रीतिः स्नेहः पितुः प्रजाः ॥
पाणिबन्धं स्वयं कृत्वा सहधर्ममुपेत्य च ।
यदा यास्यन्ति पुरुषाः स्त्रियो नार्हन्ति याप्यतां ॥
भरणाद्धि स्त्रियो भर्ता पालनाद्धि पतिस्तथा ।
गुणस्यास्य निवृत्तौ तु न भर्ता न पुनः पतिः ॥
एवं स्त्री नापराघ्नोति नर एवापराध्यति ।
व्युच्चरंश्च महादोषं नर एवापराध्यति ॥
स्त्रिया हि परमो भर्ता दैवतं परमं स्मृतम् ।
तस्मात्मना तु सदृशमात्मानं परमं ददौ ॥
नापराधोऽस्ति नारीणां नर एवापराध्यति ।
सर्वकार्यापराध्यत्वान्नापराध्यन्ति चाङ्गनाः ॥
यश्चनोक्तोऽथ निर्देशः स्त्रिया मैथुनवृद्धये ।
तस्य स्मारयतो व्यक्तमधर्मो नास्ति संशयः ॥
एवं नारीं मातरं च गौरवे चाधिके स्थिताम् ।
अवध्यां तु विजानीयुः पशवोऽप्यविचक्षणाः ॥
देवतानां समावायमेकस्थं पितरं विदुः ।
मर्त्यानां देवतानां च स्नेहादभ्येति मातरम् ॥
एवं विमृशतस्तस्य विरकारितया बहु ।
दीर्घः कालो व्यतिक्रान्तस्ततोस्याभ्यागमत्पिता ॥
मेधातिथिर्महाप्राज्ञो गौतमस्तपसि स्थितः ।
विमृश्य तेन कालेन पत्न्याः संस्थाव्यतिक्रमम् ॥
सोऽब्रवीद्भृशसंतप्तो दुःखेनाश्रूणि वर्तयन् ।
श्रुतधैर्यप्रसादेन पश्चात्तापमुपागतः ॥
आश्रमं मम संप्राप्तस्त्रिलोकेशः पुरंदरः ।
अतिथिव्रतमास्थाय ब्राह्मण्यं रूपमास्थितः ॥
स मया सान्त्वितो वाग्भिः स्वागतेनाभिषूजितः ।
अर्ध्यं पाद्यं यथान्यायं मया च प्रतिपादितः ॥
परवानस्मि चेत्युक्तः प्रणयिष्यति तेन च ।
अत्र चाकुशले जाते स्त्रिया नास्ति व्यतिक्रमः ॥
एवं न स्त्री न चैवाहं नाध्वगस्त्रिदशेश्वरः ।
अपराध्यति धर्मस्य प्रमादस्त्वपराध्यति ॥
ईर्ष्याजं व्यसनं प्राहुस्तेन चैवोर्ध्वरेतसः ।
ईर्ष्यया त्वहमाक्षिप्तो मग्नो दुष्कृतसागरे ॥
हत्वा साध्वीं च नारीं च व्यसनित्वाच्च वासिताम् ।
भर्तव्यत्वेन भार्यां च को नु मां तारयिष्यति ॥
अन्तरेण मयाऽऽज्ञप्तश्चिरकारीत्युदारधीः ।
यद्यद्य चिरकारी स्यात्स मां त्रायेत पातकात् ॥
चिरकारिक भद्रं ते भद्रं ते चिरकारिक ।
यद्यद्य चिरकारी त्वं ततोऽसि चिरकारिकः ॥
त्राहि मां मातरं चैव तपो यच्चार्जितं त्वया ।
आत्मानं पातकेभ्यश्च भवाद्य चिरकारिकः ॥
सहजं चिरकारित्वमतिप्रज्ञतया तव ।
सफलं तत्तथा तेऽस्तु भवाद्य चिरकारिकः ॥
चिरमांशसितो मात्रा चिरं गर्भेण धारितः ।
सफलं चिकारित्वं कुरु त्वं चिरकारिक ॥
चिरायते च संतापाच्चिरं स्वपिति धारितः ।
आवयोश्चिरसंतापादवेक्ष्य चिरकारिक ॥
भीष्म उवाच ।
एवं स दुःखितो राजन्महर्षिर्गौतमस्तदा ।
चिरकारिं ददर्शाथ पुत्रं स्थितमथान्तिके ॥
चिरकारी तु पितरं दृष्ट्वा परमदुःखितः ।
शस्त्रं त्यक्त्वा ततो मूर्ध्ना प्रसादायोपचक्रमे ॥
गौतमस्तं ततो दृष्ट्वा शिरसा पतितं भुवि ।
पत्नीं चैव निराकारां परामभ्यागमन्मुदम् ॥
न हि सा तेन संभेदं पत्नी नीता महात्मना ।
विजने चाश्रमस्थेन पुत्रश्चापि समाहितः ॥
हन्या इति समादेशः शस्त्रपाणौ सुते स्थिते ।
विनीते प्रसवत्यर्थे विवासे चात्मकर्मसु ॥
बुद्धिश्चासीत्सुतं दृष्ट्वा पितुश्चरणयोर्नतम् ।
शस्त्रग्रहणचापल्यं संवृणोति भयादिति ॥
ततः पित्रा चिरं स्तुत्वा चिरं चाघ्राय मूर्धनि ।
चिरं दोर्भ्यां परिष्वज्य चिरं जीवेत्युदाहृतः ॥
एवं स गौतमः पुत्रं प्रीतिहर्षगुणैर्युतः ।
अभिनन्द्य महाप्रज्ञ इदं वचनमब्रवीत् ॥
चिरकारिक भद्रं ते चिरकारी चिरं भव ।
चिराय यदि ते सौम्य चिरमस्मि न दुःखितः ॥
गाथाश्चाप्यब्रवीद्विद्वान्गौतमो मुनिसत्तमः ।
चिरकारिषु धीरेषु गुणोद्देशसमाश्रयाः ॥
चिरेण मित्रं बध्नीयाच्चिरेण च कृतं त्यजेत् ।
चिरेण हि कृतं मित्रं चिरं धारणमर्हति ॥
रागे दर्पे च माने च द्रोहे पापे च कर्मणि ।
अप्रिये चैव कर्तव्ये चिरकारी प्रशस्यते ॥
बन्धूनां सुहृदां चैव भृत्यानां स्त्रीजनस्य च ।
अव्यक्तेष्वपराधेषु चिरकारी प्रशस्यते ॥
एवं स गौतमस्तत्र प्रीतः पुत्रस्य भारत ।
कर्मणा तेन कौरव्य चिरकारितया तथा ॥
एवं सर्वेषु कार्येषु विमृश्य पुरुषस्ततः ।
चिरेण निश्चयं कृत्वा चिरं न परितप्यते ॥
चिरं धारयते रोषं चिरं कर्म नियच्छति ।
पश्चात्तापकरं कर्म न किंचिदुपपद्यते ॥
चिरं वृद्धानुपासीत चिरमन्यांश्च पूजयेत् ।
चिरं धर्मं निषेवेत कुर्याच्चान्वेषणं चिरम् ॥
चिरमन्वास्य विदुषश्चिरं शिष्टान्निषेव्य च ।
चिरं विनीय चात्मानं चिरं चात्यनवज्ञताम् ॥
ब्रुवतश्च परस्यापि वाक्यं धर्मोपसंहितम् ।
चिरं पृष्टोऽपि च ब्रूयाच्चिरं न परितप्यते ॥
उपास्य बहुलास्तस्मिन्नाश्रमो सुमहातपाः ।
समाः स्वर्गं गतो विप्रः पुत्रेण सहितस्तदा ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि द्विसप्तत्यधिकद्विशततमोऽध्यायः ॥ 272 ॥

12-272-1 कार्यदुर्गे गुर्वादिवचनादवश्यकर्तव्ये हिंसामयत्वेन दुष्करे च सतीत्यर्थः ॥ 12-272-4 सर्वकार्याणि विमर्शात्प्रत्यपद्व्यतेति थ. ध. पाठः ॥ 12-272-6 गृह्यते उपादीयते लोकेऽनेनेति ग्रह्रणं नामधेयम् । अलस इति ग्रहणमलसग्रहणं प्राप्तः ॥ 12-272-7 पित्रा गौतमेन । इमां जननीमहल्यां जहि संहर ॥ 12-272-10 धर्मच्छले धर्मसंकटे ॥ 12-272-13 युक्तमुचितम् । क्षमं सुखानुष्टेयम् । नातिवर्तेतमामतिशयेन नातिवर्ते । तिडन्तात्तमप आम् नातिवर्ते त्वहं कथम् इति ध. पाठः ॥ 12-272-14 पिता ह्यात्मानमादत्ते माता भस्त्रा ह्यनिन्दितेति ट. पाठः । गोत्रस्य नाम्नः ॥ 12-272-15 बुद्ध्ये जानामि । संभवमुत्पत्तिहेतुम् ॥ 12-272-26 निर्वृतिः सुखं तत्कर्त्री ॥ 12-272-27 हे अम्ब इत्युक्त्वा ॥ 12-272-28 द्विहायनवद्द्विवर्षवान् भवेत् । अपि वर्षशतस्यान्ते हायनत्वेन वर्तते इतिध. पाठः ॥ 12-272-32 वीरसूर्वीरपुत्रसूः ॥ 12-272-33 असुषिरं कर्णनासादिसुषिरहीनं यः शृणोति पश्यति जिघ्रति भक्षयति च स मातरं न हन्यादित्यर्थः ॥ 12-272-34 प्राण उपस्थेन्द्रियं तत्संश्लेषे मैथुने इत्यर्थः । अभिसंधिः पुत्रो मे गौरो जायेतेत्यादिरूपोऽभिलाषः । माता पिता वा उभौ वा कुरुतस्तत्र भूतार्थो याथार्थ्यं मातर्येव तत्कर्तृत्वं स्थितं निष्ठितं पितरि तु सोऽभिलाषः पाक्षिको भवतीत्यर्थः । दंपत्योः पाणिसंश्लेषे इति ध. पाठः ॥ 12-272-35 भरणमात्रेण गर्भधारणमात्रेण संबन्धेन माता पुत्रे प्रीतिमाह्लादं स्नेहमासक्तिं च करोति । वस्तुतस्तु पितुरेव प्रजाः । पितुराज्ञाऽनुल्लड्घनीयेति भावः ॥ 12-272-36 याप्यतां त्याज्यताम् ॥ 12-272-37 तथाच भर्तृत्वादिगुणशून्यस्योन्मत्तस्येव वचनान्मातरं न हिंसिष्ये इत्याशयः ॥ 12-272-38 व्युच्चरन् पोषणादिकमकुर्वन् महादोषं प्राप्नोतीति शेषः ॥ 12-272-40 सर्वेषु कार्येष्वपराध्यत्वादनुरोध्यत्वादल्पबलत्वेन सर्वथा पुरुषाधीनत्वात् ॥ 12-272-41 चनशब्दोऽप्यर्थे ॥ 12-272-42 पशवोऽपि पशुप्राया अपि ॥ 12-272-43 समावायः समूहः । मर्त्यानां देवतानां च समावायं मातरं स्नेहादभ्योतीति योजना । माता तु इह लोके पालयित्री चेति भावः ॥ 12-272-45 तेन तावता कालेन । संस्थाव्यतिक्रमं मरणानौचित्यम् ॥ 12-272-49 परवान् प्रणयिष्यति मयि प्रणयं करिष्यति । अत्रास्मिन्नर्थे चिन्तिते सति । अकुशले इन्द्रलौल्येन स्त्रीदूषणे जाते विषये स्त्रिया अहल्याया व्यतिक्रमो नास्ति ॥ 12-272-53 अन्तरेण प्रमादेन ॥ 12-272-61 निराकारा पाषाणभूताम् ॥