अध्यायः 313

भीष्मेण युधिष्ठिरंप्रति बुद्धाबुद्धस्वरूपनिरूपकवसिष्ठकरालजनकसंवादानुवादसमापनम् ॥ 1 ॥

वसिष्ठ उवाच ।
अप्रबुद्धमथाव्यक्तमिमं गुणविधिं शृणु ।
गुणान्धारयते ह्येषा सृजत्याक्षिपते तथा ॥
अजस्रं त्विह क्रीडार्थं विकरोति जनाधिप ।
आत्मानं बहुधा कृत्वा तान्येव प्रविचक्षते ॥
एतदेवं विकुर्वाणं बुध्यमानो न बुध्यते ।
अव्यक्तबोधनाच्चैव बुध्यमानं वदन्त्यपि ॥
न त्वेव बुध्यतेऽव्यक्तं सगुणं वाऽथ निर्गुणम् ।
कदाचित्त्वेव खल्वेतदाहुरप्रतिबुद्धकम् ॥
बुध्यते यदि वाऽव्यक्तमेतद्वै पञ्चविंशकम् । बुध्यमानो भवत्येष सङ्गात्मक इति श्रुतिः ।
अनेनाप्रतिबुद्धेति वदन्त्यव्यक्तमच्युतम् ॥
अव्यक्तोबोधनाच्चापि बुध्यमानं वदन्त्युत ।
पञ्चविंशं महात्मानं न चासावपि बुध्यते ॥
षङ्विशं विमलं बुद्धमप्रमेयं सनातनम् ।
स तु तं पञ्चविंशं च चतुर्विशं च बुध्यते ॥
दृश्यादृश्यौ ह्यनुगतावुभावेव महाद्युती ।
अव्यक्तं तत्तु तद्ब्रह्म बुध्यते तात केवलम् ॥
केवलं पञ्चविंशं च चतुर्विशं च पश्यति ।
बुध्यमानो यदात्मानमन्योऽहमिति मन्यते ॥
तदा प्रकृतिमानेष भवत्यव्यक्तलोचनः ।
बुध्यते च परां बुद्धिं विमलाममलां यदा ॥
षङ्विंशं राजशार्दूल तथा बुद्धत्वमाव्रजेत् ।
ततस्त्यजति सोऽव्यक्तं सर्गप्रलयधर्मि वै ॥
निर्गुणः प्रकृतिं वेद गुणयुक्तामचेतनाम् ।
ततः केवलधर्माऽसौ भवत्यव्यक्तदर्शनात् ॥
केवलेन समागम्य विमुक्तोऽऽत्मानमाप्नुयात् ।
एतं वै तत्त्वमित्याहुर्निस्तत्त्वमजरामरम् ॥
तत्त्वसंश्रयणादेष तत्त्ववान्न च मानद ।
पञ्चविंशतितत्त्वानि प्रवदन्ति मनीषिणः ॥
न चैष तत्त्ववांस्तात निस्तत्त्वस्त्वेष बुद्धिमान् ।
एष मुञ्चति तत्त्वं हि क्षिप्रं बुद्धत्वलक्षणम् ॥
षाङ्विंशोऽहमिति प्राज्ञो गृह्यमाणोऽजरामरः ।
केवलेन बलेनैव समतां यात्यसंशयम् ॥
षङ्विंशेन प्रबुद्धेन बुध्यमानो ह्यबुद्धिमान् ।
एवं नानात्वमित्युक्तं साङ्ख्यश्रुतिनिदर्शनात् ॥
चेतनेन समेतस्य पञ्चविंशतिकस्य च ।
एकत्वं वै भवत्यस्य यदा बुद्ध्या न बुध्यते ॥
बुध्यमानोप्रबुद्धेन समतां याति मैथिल ।
सङ्गधर्मा भवत्येष निःसङ्गात्मा नराधिप ॥
निःसङ्गात्मानमासाद्य षङ्विंशकमजं विभुम् ।
विभुस्त्यजति चाव्यक्तं यदा त्वेताद्विबुध्यते ॥
चतुर्विशं महाभाग षङ्विंशस्य प्रबोधनात् ।
एष ह्यप्रतिबुद्धश्च बुध्यमानश्च तेऽनघ ॥
प्रोक्तो बुद्धश्च तत्त्वेन यथाश्रुतिनिदर्शनात् ।
नानात्वैकत्वमेतावद्द्रष्टव्यं शास्त्रदृष्टिभिः ॥
मशकोदुम्बरे यद्वदन्यत्वं तद्वदेतयोः ।
मत्स्योदके यथा तद्वदन्यत्वमुपलभ्यते ॥
एवमेवावगन्तव्यं नानात्वैकत्वमेतयोः ।
एतद्धि मोक्ष इत्युक्तमव्यक्तज्ञानसंज्ञितम् ॥
पञ्चविंशतिकस्यास्य योऽयं देहेषु वर्तते ।
एष मोक्षयितव्येति प्राहुरव्यक्तगोचरात् ॥
सोयमेवं विमुच्येत नान्यथेति विनिश्चयः ।
परेण परधर्मा च भवत्येष समेत्य वै ॥
विशुद्धर्मा शुद्धेन बुद्धेन च स बुद्धिमान् ।
विमुक्तधर्मा मुक्तेन समेत्य पुरुषर्षभ ॥
वियोगधर्मिणा चैव वियोगात्मा भवत्यथ ।
विमोक्षिणा विमोक्षश्च समेत्येह तथा भवेत् ॥
शुद्धधर्मा शुचिश्चैव भवत्यमितदीप्तिमान् ।
विमलात्मा च भवति समेत्य विमलात्मना ॥
केवलात्मा तथा चैव केवलेन समेत्य वै ।
स्वतन्त्रश्च स्वतन्त्रेण स्वतन्त्रत्वमवाप्नुते ॥
एतावदेतत्कथितं मया ते तथ्यं महाराज यथार्थतत्त्वम् ।
अमत्सरत्वं प्रतिगृह्य चार्थं सनातनं ब्रह्म विशुद्धमाद्यम् ॥
नावेदनिष्ठस्य जनस्य राज न्प्रदेयमेतत्परमं त्वया भवेत् ।
विवित्समानाय विबोधकारणं प्रबोधहेतोः प्रणतस्य शासनम् ॥
न देयमेतच्च तथाऽनृतात्मने शठाय क्लीबाय न जिह्नबुद्धये ।
न पण्डितज्ञानपरोपतापिने देयं त्वयेदं विनिबोध यादृशे ॥
श्रद्धान्वितायाथ गुणान्विताय परापवादाद्विरताय नित्यम् ।
विशुद्धयोगाय बुधाय चैव क्रियावते च क्षमिणे हिताय ॥
विविक्तशीलाय विधिप्रियाय विवादहीनाय बहुश्रुताम् ।
विजानते चैव दमक्षमावते शक्ताय चैकात्मशमाय देहिनाम् ॥
एतैर्गुणैर्हीनतमे न देय मेतत्परं ब्रह्म विशुद्धमाहुः ।
न श्रेयसा योक्ष्यति तादृशे कृतं धर्मप्रवक्तारमपात्रदानात् ॥
पृथ्वीमिमां यद्यपि रत्नपूर्णां दद्यान्न देयं त्विदमव्रताय ।
जितेन्द्रियायैतदसंशयं ते भवेत्प्रदेयं परमं नरेन्द्र ॥
कराल मा ते भयमस्तु किंचि देतच्छ्रुतं ब्रह्म परं त्वयाऽद्य ।
यथावदुक्तं परमं पवित्रं विशोकमत्यन्तमनादिमध्यम् ॥
अगाधजन्मामरणं च राज न्निरामयं वीतभयं शिवं च ।
समीक्ष्य मोहं त्यज बाऽद्य सर्व ज्ञानस्य तत्त्वार्थमिदं विदित्वा ॥
अवाप्तमेतद्धि मया सनातना द्धिरण्यगर्भाद्यजतो नराधिप ।
प्रसाद्य यत्नेन तमुग्रतेजसं सनातनं ब्रह्म यथाऽद्य वै त्वया ॥
पृष्टस्त्वया चास्मि यथा नरेन्द्र तथा मयेदं त्वयि चोक्तमद्य ।
तथाऽवाप्तं ब्रह्मणो मे नरेन्द्र महाज्ञानं मोक्षविदां परायणम् ॥
भीष्म उवाच ।
एतदुक्तं परं ब्रह्म यस्मान्नावर्तते पुनः ।
पञ्चविंशो महाराज परमर्षिनिदर्शनात् ॥
पुनरावृत्तिमाप्नोति परं ज्ञानमवाप्य च ।
नावबुध्यति तत्त्वेन बुध्यमानोऽजरामरम् ॥
एतन्निः श्रेयसकरं ज्ञानं ते परमं मया ।
कथितं तत्त्वतस्तात श्रुत्वा देवर्षितो नृप ॥
हिरण्यगर्भादृषिणा वसिष्ठेन महात्मना ।
वसिष्ठादृषिशार्दूलान्नारदोऽवाप्तवानिदम् ॥
नारदाद्विदितं मह्यमेतद्ब्रह्म सनातनम् ।
मा शुचः कौरवेन्द्र त्वं श्रुत्वैतत्परमं पदम् ॥
येन क्षराक्षरे वित्ते भयं तस्य न विद्यते ।
विद्यते तु भयं तस्य यो नैतद्वेत्ति पार्थिव ॥
अविज्ञानाच्च मूढात्मा पुनः पुनरुपाद्रवत् ।
प्रेत्य जातिसहस्राणि मरणान्तान्युपाश्नुते ॥
देवलोकं तथा तिर्यङ्भनुष्यमपि चाश्नुते ।
यदि शुध्यति कालेन तस्मादज्ञानसागरात् ॥
`उत्तीर्णोऽस्मादगाधात्स परमाप्नोति शोभनम् ।' अज्ञानसागरो घोरो ह्यव्यक्तोऽगाध उच्यते ।
अहन्यहनि मज्जन्ति यत्र भूतानि भारत ॥
यस्मादगाधादव्यक्तादुत्तीर्णस्त्वं सनातनात् ।
तस्मात्त्वं विरजाश्चैव वितमस्कश्च पार्थिव ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि त्रयोदशाधिकत्रिशततमोऽध्यायः ॥ 313 ॥

12-313-3 अव्यक्तबोधनं चैनमिति ड. थ. पाठः । अव्यक्तबोधनाच्चैनमिति ट. पाठः ॥ 12-313-9 चतुर्विशं न पश्यतीति झ. पाठः ॥ 12-313-10 बुद्ध्यते विमलं बुद्धविशुद्धमचलोपममिति ध. पाठः ॥ 12-313-11 षङ्विशो राजशार्दूलेति झ. पाठः । प्रलयधर्मिणि इति थ. पाठः ॥ 12-313-13 एतद्वै तत्वमिति ध. पाठः ॥ 12-313-15 क्षिप्रं बुद्ध्या सुलक्षणमिति ड. थ. पाठः । क्षिप्रं बुद्ध्वा स्वलक्षणमिति ट. पाठः ॥ 12-313-18 एकत्वं चैव तत्वस्येति ध. पाठः ॥ 12-313-47 वित्ते विज्ञाते ॥