अध्यायः 337

नारदेन शुकंप्रति ऋषिभ्यः सनत्कुमारोक्तदितवचनानुव ॥ 1 ॥

भीष्म उवाच ।
एतस्मिन्नन्तरे भूते नारदः पुनरागमत् ।
शुकं स्वाध्यायनिरतं वेदार्थान्प्रष्टुमीप्सवा ॥
देवर्षि तु शुको दृष्ट्वा नारदं समुपस्यितम् ।
अर्ध्यपूर्वेण विधिवा वेदोक्तेनाभ्यपूजयत् ॥
नारदोऽयाजवीत्प्रीतो ब्रूहि ब्रह्मविदां वर ।
केन त्वां श्रेयसा वत्स योजयामीति हृष्टवत् ॥
नारदस्य वचः श्रुत्वा शुकः प्रोवाच भारत ।
अस्मिँल्लोके हितं यत्स्वात्तेन मां योक्तुमर्हसि ॥
नारद उवाच ।
तत्त्वं जिज्ञासतां पूर्वनृषीणां भावितात्मनाम् ।
सनत्कुमारो भगवानिदं वतनमब्रवीत् ॥
नास्ति विद्यासगं चक्षुर्नास्ति सत्यसमं तपः ।
नास्ति रागसमं दुःखं नास्ति त्यागसमं सुखम् ॥
निवृत्तिः कर्मणा पापात्सततं पुण्यशीलता ।
सद्वृत्तिः सद्वदाचारः श्रेय एवदनुत्तमम् ॥
नानुवयसुखं प्राप्य यः सज्जति न मुच्यते ।
नालं स दुःखमोक्षाय संयोगो दुःखलक्षणम् ॥
सक्तस्य बुद्धिश्चलति मोहजालविवर्धनी ।
मोहवालावृतो दुःखमिह चामुत्र सोऽश्नुते ॥
सर्वोपागात्तु कामस्व क्रोधस्य च विनिग्रहः ।
कार्यः श्रेयोर्थिना तौ हि श्रेयोघातार्थमुद्यतौ ॥
नित्यं क्रोधात्तपो रक्षेच्छ्रियं रक्षेच्च मत्सरात् ।
विद्यां मानावमानाभ्यामात्मानं तु प्रमादतः ॥
आनृशंस्यं परो धर्मः क्षमा च परमं बलम् ।
आत्मज्ञानं परं ज्ञानं न सत्याद्विद्यते परम् ॥
सत्यस्य वचनं श्रेयः सत्यादपि हितं वदेत् ।
यद्भूतहितमत्यन्तमेतत्सत्यं मतं मम ॥
सर्वारम्भपरित्यागी निराशीर्निष्परिग्रहः ।
येन सर्वं परित्यक्तं स विद्वान्स च पण्डितः ॥
इन्द्रियैरिन्द्रियार्थान्यश्चरत्यात्मवशैरिह ।
आसज्जमानः शान्तात्मा निर्विकारः समाहितः ॥
अत्मभूतैरतद्भूतः सह चैव विनैव च ।
स विमुक्तः परं श्रेयो नचिरेणाधिगच्छति ॥
अदर्शनमसंस्पर्शस्तथाऽसंभाषणं तदा ।
यस्य भूतैः सह मुने स श्रेयो विन्दते परम् ॥
न हिंस्यात्सर्वभूतानि मैत्रायगणतश्चरेत् ।
नेदं जन्म समासाद्य वैरं कुर्वीत केनचित् ॥
आकिञ्चन्यं सुसंतोषो निराशीस्त्वमचापलम् ।
एतदाहुः परं श्रेय आत्मज्ञस्य जितात्मनः ॥
परिग्रहं परित्यज्य भव तात जितेन्द्रियः ।
अशोकं स्थानमातिष्ठ इह चामुत्र चाभयम् ॥
निरामिषा न शोचन्ति त्यजेदामिषमात्मनः ।
परित्यज्यामिषं सौभ्य दुःखतापाद्विमोक्ष्यसे ॥
तपोनित्येन दान्तेन मुनिना संयतात्मना ।
अजितं जेतुकामेन भाव्यं सङ्गेष्वसङ्गिना ॥
गुणसङ्गेष्वनासक्त एकचर्यारतः सदा ।
ब्राह्मणो नचिरादेव सुखमायात्यनुत्तमम् ॥
द्वन्द्वारामेषु भूतेषु य एको रमते मुनिः ।
विद्धि प्रज्ञानतृप्तं तं ज्ञानतृप्तो न शोचति ॥
शुभैर्लभति देवत्वं व्यामिश्रेर्जन्म मानुषम् ।
अशुभैश्चाप्यधोजन्म कर्मभिर्लभतेऽवशः ॥
तत्र मृत्युवशो दुःखैः सततं समभिद्रुतः ।
संसारे पच्यते जन्तुस्तत्कथं नावबुध्यसे ॥
अहिते हितसंज्ञस्त्वमध्रुवे ध्रुवसंज्ञकः ।
अनर्थे चार्थसंज्ञस्त्वं किमर्थं नावबुध्यसे ॥
संवेष्ट्यमानं बहुभिर्मोहात्तन्तुभिरात्मजैः ।
कोशकार इवात्मानं वेष्टयन्नावबुध्यसे ॥
अलं परिग्रहेणेह दोषवान्हि परिग्रहः ।
कृमिर्हि कोशकारस्तु बध्यते स परिग्रहात् ॥
पुत्रदारकुटुम्बेषु सक्ताः सीदन्ति जन्तवः ।
सरःपङ्कार्णवे मग्ना जीर्णा वनगजा इव ॥
महाजालसमाकृष्टान्स्थले मत्स्यानिवोद्धृतान् ।
मोहजालसमाकृष्टान्पश्य जन्तून्सुदुःखितान् ॥
कुटुम्बं पुत्रदारांश्च शरीरं संचयाश्च ये ।
पारक्यमध्रुवं सर्वं किं स्वं सुकृतदुष्कृतम् ॥
यदा सर्वान्परित्यज्य गन्तव्यमवशेन ते ।
अनर्थे किं प्रसक्तस्त्वं समर्थं नानुतिष्ठसि ॥
अविश्रान्तमनालम्बमपाथेयमदैशिकम् ।
तमः कान्तारमध्वानं कथमेको गमिष्यसि ॥
न हि त्वां प्रस्थितं कश्चित्पृष्ठतोऽनुगमिष्यति ।
सुकृतं दुष्कृतं च त्वां यास्यन्तमनुयास्यतः ॥
विद्या कर्म च शौचं च ज्ञानं च बहुविस्तरम् ।
अर्थार्थमनुसार्यन्ते सिद्धार्थस्य विमुच्यते ॥
निबन्धनी रज्जुरेषा या ग्रामे वसतो रतिः ।
छित्त्वैतां सुकृतो यान्ति नैनां छिन्दन्ति दुष्कृतः ॥
रूपकूलां मनःस्रोतां स्पर्शद्वीपां रसावहाम् ।
गन्धपङ्कां शब्दजलां स्वर्गमार्गदुरावहाम् ॥
क्षमारित्रां सत्यमयीं धर्मस्थैर्यपदाङ्कुराम् ।
त्यागवाताध्वगां शीघ्रां नौतार्यां तां नदीं तरेत् ॥
त्यज धर्ममधर्मं च उभे सत्यानृते त्यज ।
उभे सत्यानृते त्यक्त्वा येन त्यजसि तं त्यज ॥
त्यज धर्ममसंकल्पादधर्मं चाप्यलिप्सया ।
उभे सत्यानृते बुद्ध्या बुद्धिं परमनिश्चयात् ॥
अस्थिस्थूणं स्नायुयुतं मांसशोणितलेपनम् ।
चर्मावनद्धं दुर्गन्धिं पूर्णं मूत्रपुरीषयोः ॥
जराशोकसमाविष्टं रोगायतनमातुरम् ।
रजस्वलमनित्यं च भूतावासमिमं त्यज ॥
इदं विश्वं जगत्सर्वमजगच्चापि यद्भवेत् ।
महाभूतात्मकं सर्वं महद्यत्परमाणु च ॥
`महाभूतानि खं वायुरग्निरापस्तथा मही । षष्ठं तु चेतना या तु आत्मा सप्तममुच्यते ।'
अष्टमं तु मनो ज्ञेयं बुद्धिस्तु नवमी स्मृता ॥
इन्द्रियाणि च पञ्चैव तमः सत्वं रजस्तथा ।
इत्येष सप्तदशको राशिरव्यक्तसंज्ञकः ॥
सर्वैरिहेन्द्रियार्थैश्च व्यक्ताव्यक्तैर्हि संहितः ।
चतुर्विशक इत्येष व्यक्ताव्यक्तमयो गणः ॥
एतैः सर्वैः समायुक्तः पुमानित्यभिधीयते ।
त्रिवर्गं तु सुखं दुःखं जीवितं मरणं तथा ॥
य इदं वेद तत्त्वेन स वेद प्रभवाप्ययौ ।
पारम्पर्येह बोद्धव्यं ज्ञानानां यच्च किंचन ॥
इन्द्रियैर्गृह्यते यद्यत्तत्तद्व्यक्तमिति स्थितिः ।
अव्यक्तमिति विज्ञेयं लिङ्गग्राह्यमतीन्द्रियम् ॥
इन्द्रियैर्नियतैर्देही धाराभिरिव तर्प्यते ।
लोके विततमात्मानं लोकांश्चात्मनि पश्यति ॥
परावरदृशः शक्तिर्ज्ञानमूला न नश्यति ।
पश्यतः सर्वभूतानि सर्वावस्थासु सर्वदा ॥
ब्रह्मभूतस्य संयोगो नाशुभेनोपपद्यते ।
ज्ञानेन विविधान्क्लेशानतिवृत्तस्य मोहजान् ॥
लोके बुद्धिप्रकाशेन लोकमार्गो न रिष्यते ।
अनादिनिधनज्ञं तमात्मनि स्थितमव्ययम् ॥
अकर्तारममूर्तं च भगवानाह तीर्थवित् ।
यो जन्तुः स्वकृतैस्तैस्तैः कर्मभिर्नित्यदुःखितः ॥
स दुःखप्रतिघातार्थं हन्ति जन्तूननेकधा ।
ततः कर्म समादत्ते पुनरन्यन्नवं बहु ॥
तप्यतेऽथ पुनस्तेन भुक्त्वा पथ्यमिवातुरः ।
अजस्रमेव मोहान्धो दुःखेषु सुखसंज्ञितः ॥
बध्यते मथ्यते चैव कर्मभिर्मन्थवत्सदा ।
ततो निबद्धः स्वां योनिं कर्मणामुदयादिह ॥
परिभ्रमति संसारं चक्रवद्बहुवेदनः ।
सत्वं निर्वृत्तबन्धस्तु निवृत्तश्चापि कर्मतः ॥
सर्ववित्सर्वजित्सिद्धौ भव भावविवर्जितः । संयमेन नवं बन्धं निवर्त्य तपसो बलात् ।
संप्राप्ता बहवः सिद्धिमप्यबाधां सुखोदयाम् ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि सप्तत्रिंशदधिकत्रिशततमोऽध्यायः ॥ 337 ॥

12-337-1 वेदार्थान्धक्तुभीप्सयेति ड. पाठः ॥ 12-337-6 नास्ति सत्यात्परं तप इति ध. पाठः ॥ 12-337-8 यः सज्जति स मुह्यतीति झ. पाठः ॥ 12-337-13 सत्यस्य पालनं श्रेय इति ट. पाठः ॥ 12-337-15 इन्द्रियैरिन्द्रियार्थेभ्य इति ट. ड. पाठः ॥ 12-337-24 पञ्चानामेषु भूतेषु य एको रमते मुनिरिति ट. पाठः ॥ 12-337-36 विद्या कर्म च शौर्यं चेति ट. ड. पाठः ॥ 12-337-39 क्षमैवाऽरित्राणि नौचालनदण्डा यस्याम् । धर्मस्थैर्यवटारकाम् इति झ. पाठः । तत्र धर्मस्यैर्यं वटारका नौकाकर्षणरज्जुर्यस्यां तामित्यर्थः । योगवाताध्वगां कृत्वेति ट. पाठः । कृत्वा नदीं तरेदिति ध. पाठः ॥ 12-337-44 महद्यत्परमाणुवदिति ट. थ. पाठः ॥ 12-337-54 रिष्यते हिंस्यते ॥ 12-337-55 तीर्थविन्मोक्षोपायवित् ॥ 12-337-60 संयमेन धारणाध्यानसमाध्यात्मकेन । नवं दृष्टिमात्रणोत्पत्रं ॥