अध्यायः 005

अथ दानधर्मपर्व ॥ 1 ॥

इन्द्रेण पुनर्ब्राह्मण्यप्राप्तये तपस्यते मतङ्गाय ब्राह्मण्यस्य दुष्प्रापत्वकथनपूर्वकमितराभीष्टवरदानम् ॥ 1 ॥

भीष्म उवाच ।

एवमुक्तो मतङ्गस्तु संशितात्मा यतव्रतः ।
सहस्रमेकपादेन ततो ध्याने व्यतिष्ठत ॥
तं सहस्रावरे काले शक्रो द्रष्टुमुपागमत् ।
तदेव च पुनर्वाक्यमुवाच बलवृत्रहा ॥
मतङ्ग उवाच ।
इदं वर्षसहस्रं वै ब्रह्मचारी समाहितः ।
अतिष्ठमेकपादेन ब्राह्मण्यं नाप्नुयां कथम् ॥
शक्र उवाच ।
चण्डालयोनो जातेन नावाप्यं वै कथञ्चन ।
अन्यं कामं वृणीष्व त्वं मा वृथा तेऽस्त्वयं श्रमः ॥
एवमुक्तो मतङ्गस्तु भृशं शोकपरायणः ।
अध्यतिष्ठद्गयां गत्वा सोऽङ्गुष्टेन शतं समाः ॥
सुदुर्वहं वहन्योगं कृशो धमनिसन्ततः ।
त्वगस्थिभूतो धर्मात्मा स ततापेति नः श्रुतम् ॥
तं तपन्तमभिद्रुत्य पाणिं जग्राह वासवः ।
वराणामीश्वरो दाता सर्वभूतहिते रतः ॥
शक्र उवाच ।
मतङ्ग ब्राह्मणत्वं ते विरुद्धमिह दृश्यते ।
ब्राह्मण्यं दुर्लभतरं संवृतं परिपन्थिभिः ॥
पूजयन्सुखमाप्नोति दुःखमाप्नोत्यपूजयन् ।
ब्राह्मणे सर्वभूतानां योगक्षेमः समाहितः ॥
ब्राह्मणेभ्योऽनुतृप्यन्ते पितरो देवतास्तथा ।
ब्राह्मणः सर्वभूतानां मतङ्ग पर उच्यते ॥
ब्राह्मणः कुरुते तद्धि यथा यद्यच्च वाञ्छति ॥
बह्वीस्तु संसरन्योनीर्जायमानः पनुःपुनः ।
पर्याये तात कस्मिंश्चिद्ब्राह्मण्यमिह विन्दति ॥
तदुत्सृज्येह दुष्प्रापं ब्राह्मण्यमकृतात्मभिः ।
अन्यं वरं वृणीष्व त्वं दुर्लभोऽयं हि ते वरः ॥
किं मां तुदसि दुःखार्तं मृतं मारयसे च माम् ।
त्वां तु शोचामि यो लब्ध्वा ब्राह्मण्यं न बुभूषसे ॥
ब्राह्मण्यं यदि दुष्प्रापं त्रिभिर्वर्णैर्दुरासदम् ।
सुदुर्लभं सदावाप्य नानुतिष्ठन्ति मानवाः ॥
ये पापेभ्यः पापतमास्तेषामधम एव सः ।
ब्राह्मण्यं योऽवजानीते धनं लब्ध्वेव दुर्लभम् ॥
दुष्प्रापं खलु विप्रत्वं प्राप्तं दुरनुपालनम् ।
दुरवापमवाप्यैतन्नानुतिष्ठन्ति मानवाः ॥
एकारामो ह्यहं शक्र निर्न्द्वद्वो निष्परिग्रहः ।
अहिंसादममास्थाय कथं नार्हामि विप्रताम् ॥
दैवं तु कथमेतद्वै यदहं मातृदोषतः ।
एतामवस्थां सम्प्राप्तो धर्मज्ञः सन्पुरन्दरं ॥
नूनं दैवं न शक्यं हि पौरुषेणातिवर्तितुम् ।
यदर्थं यत्नवानेव न लभे विप्रतां विभो ॥
एवंगते तु धर्मज्ञ दातुमर्हसि मे वरम् ।
यदि तेऽहमनुग्राह्यः किचिद्वा सुकृतं मम ॥
वैशम्पायन उवाच ।
वृणीष्वेति तदा प्राह ततस्तं बलवृत्रहा ।
चोदितस्तु महेन्द्रेण मतङ्गः प्राब्रवीदिदम् ॥
यथा कामविहारी स्यां कामरूपी विहङ्गमः ।
ब्रह्मक्षत्राविरोधेन पूजां च प्राप्नुयामहम् ॥
यथा ममाक्षया कीर्तिर्भवेच्चापि पुरन्दर ।
कर्तुमर्हसि तद्देव शिरसा त्वां प्रसादये ॥
शक्र उवाच ।
मतङ्ग गम्यतां शीघ्रमेवमेतद्भविष्यति ।
स्त्रियः सर्वास्त्वया लोके यक्ष्यन्ते भूतिकर्मणि ॥
छन्दोदेव इति ख्यातः स्त्रीणां पूज्यो भविष्यसि ।
कीर्तिश्च तेऽतुला वत्स त्रिषु लोकेषु यास्यति ॥
एवं तस्मै वरं दत्त्वा वासवोऽन्तरधीयत ।
प्राणांस्त्यक्त्वा मतङ्गोपि प्राप तत्स्थानमुत्तमम् ॥
एवमेव परं स्थानं मर्त्यानां भरतर्षभ ।
ब्राह्मण्यं नाम दुष्प्रापमिन्द्रेणोक्तं महात्मना ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि पञ्चमोध्यायः ॥ 5 ॥

7-5-1 सहस्रं वत्सराम् ॥ 7-5-7 अभिद्रुत्य गत्वा ॥ 7-5-8 परिपन्थिभिः कामाद्यैश्चोरैः संवृतमतो दुःसंरक्ष्यमपीत्यर्थः ॥ 7-5-9 अपूजयन् ब्राह्मण्यमिति शेषः ॥ 7-5-10 ब्राह्मणेभ्यस्तद्द्वारा देवादयस्तृप्यन्तीत्यर्थः ॥ 7-5-11 यद्यद्वाञ्छति तत्तत्कुरुते ॥ 7-5-15 नानुतिष्ठन्ति तदुचितान् शमदमादीन्न सेवन्तेऽतः प्राप्तमपि दुःसंरक्ष्यमिति भावः ॥ 7-5-16 अवजानीते अवज्ञां करोति । न रक्षतीति यावत् ॥ 7-5-19 दैवं प्राक्कर्म । यत् यतः एतां अब्राह्मणत्वरूपाम् ॥

श्रीः