अध्यायः 144

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरंप्रति छत्रोपानत्प्रवृत्तिप्रदाननिदानकथनाय सूर्यजमदग्निसंवादानुवादः ॥ 1 ॥ जमदग्निना रेणुकायाः स्वधनुर्निस्सृतशराणां पुनःपुनरादाने नियोजनेन बाणक्रीडारम्भः ॥ 2 ॥ रेणुकया सूर्यतेजः प्रतप्तशिरः पादतया तरुच्छायाश्रयणेन शरानयनविलम्बने रुष्टेन मुनिना तत्कारणप्रश्नः ॥ 3 ॥ रेणुकया तन्निवेदने मुनिना कोपाच्छस्त्रेण भूमौ सूर्यनिपातनोद्यमनम् ॥ 4 ॥ भयात्सूर्येण विप्ररूपधारणेन भुवमेत्य तत्प्रसादनम् ॥ 5 ॥

युधिष्ठिर उवाच ।

यदिदं श्राद्धकृत्येषु दीयते भरतर्षभ ।
छत्रं चोपानहौ चैव केनैतत्सम्प्रवर्तितम् ॥
कथं चैतत्समुत्पन्नं किमर्थं चैव दीयते ।
न केवलं श्राद्धकृत्ये पुण्यकेष्वपि दीयते ॥
बहुष्वपि निमित्तेषु पुण्यमाश्रित्य दीयते ।
एतद्विस्तरतो ब्रह्मञ्श्रोतुमिच्छामि तत्त्वतः ॥
भीष्म उवाच ।
शृणु राजन्नवहितश्छत्रोपानहविस्तरम् ।
यथैतत्प्रथितं लोके यथा चैतत्प्रवर्तितम् ॥
यथा चाक्षय्यतां प्राप्तं पुण्यतां च यथागतम् ।
सर्वमेतदशेषेण प्रवक्ष्यामि नराधिप ॥
`इतिहासं पुरावृत्तमिदं शृणु नराधिप ।' जमदग्नेश्च संवादं सूर्यस्य च महात्मनः ॥
पुरा स भगवान्साक्षाद्धनुषा क्रीडति प्रभो ।
सन्धायसन्धाय शरांश्चिक्षेप किल भार्गवः ॥
तान्क्षिप्तान्रेणुका सर्वांस्तस्येषून्दीप्ततेजसः ।
आनीय सा तदा तस्मै प्रादादसकृदच्युत ॥
अथ तेन स शब्देनि ज्यायाश्चैव शरस्य च ।
प्रहृष्टः सम्प्रचिक्षेप सा च प्रत्याजहार तान् ॥
ततो मध्याह्नमारूढे ज्येष्ठामूले दिवाकरे ।
स सायकान्द्विजो मुक्त्वा रेणुकामिदमब्रवीत् ॥
गच्छानय विशालाक्षि शरानेतान्धनुश्च्युतान् ।
यावदेतान्पुनः सुभ्रु क्षिपामीति जनाधिप ॥
सा गच्छन्त्यन्तरा छायां वृक्षमाश्रित्य भामिनी ।
तस्थौ तस्या हि सन्तप्तं शिरः पादौ तथैव च ॥
स्थिता सा तु मूहूर्तं वै भर्तुः शापभयाच्छुभा । ययावानयितुं भूयः सायकानसितेक्षणा ।
प्रत्याजगाम च शरांस्तानादाय यशस्विनी ॥
सा वै प्रस्विन्नसर्वाङ्गी पद्भ्यां दुःखं नियच्छती ।
उपाजगाम भर्तारं भयाद्भर्तुः प्रवेपती ॥
स तामृषिस्तदा क्रुद्धो वाक्यमाह शुभाननाम् ।
रेणुके किं चिरेण त्वमागतेति पुनःपुनः ॥
रेणुकोवाच ।
शिरस्तप्तं प्रदीप्तौ मे पादौ चैव तपोधन ।
सूर्यतेजोनिरुद्धाऽहं वृक्षच्छायां समाश्रिता ॥
एतस्मात्कारणाद्ब्रह्मंश्चिरायैतत्कृतं मया ।
एतच्छ्रुत्वा मम विभो मा क्रुधस्त्वं पतोधन ॥
जमदग्निरुवाच ।
अद्यैनं दीप्तकिरणं रेणुके तव दुःखदम् ।
शरैर्निपातयिष्यामि सूर्यमस्त्राग्नितेजसा ॥
भीष्म उवाच ।
स विष्फार्य धनुर्दिव्यं गृहीत्वा च शरान्बहूंन् ।
अतिष्ठत्सूर्यमभितो यतो याति ततोमुखः ॥
अथ तं प्रेक्ष्य सन्नद्धं सूर्योऽभ्येत्य वचोऽब्रवीत् ।
द्विजरूपेण कौन्तेय किं ते सूर्योऽपराध्यति ॥
आदत्ते रश्मिभिः सूर्यो दिवि तिष्ठंस्ततस्ततः ।
रसं हृतं वै वर्षासु प्रवर्षति दिवाकरः ॥
ततोऽन्नं जायते विप्र मनुष्याणां सुखावहम् ।
अन्नं प्राणा इति यथा वेदेषु परिपठ्यते ॥
अथाऽभ्रेषु निगूढश्च रश्मिभिः परिवारितः ।
सप्तद्वीपानिमान्ब्रह्मन्वर्षेणाभिप्रवर्षति ॥
ततस्तदौषधीनां च वीरुधां पुष्पपत्रजम् ।
सर्वं वर्षाभिनिर्वृत्तमन्नं सम्भवति प्रभो ॥
जातकर्माणि सर्वाणि व्रतोपनयनानि च ।
गोदानानि विवाहाश्च तथा यज्ञसमृद्धयः ॥
सत्राणि दानानि तथा संयोगा वित्तसञ्चयाः ।
अन्नतः सम्प्रवर्तन्ते यथा त्वं वेत्थ भार्गव ॥
रमणीयानि यावन्ति यावदारम्भिकाणि च ।
सर्वमन्नात्प्रभवति विदितं कीर्तयामि ते ॥
सर्वं हि वेत्थ विप्र त्वं यदेतत्कीर्तितं मया ।
प्रसादये त्वां विप्रर्षे किं ते सूर्यो निपात्यते ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि चतुश्चत्वारिंशदधिकशततमोऽध्यायः ॥ 144 ॥

7-144-2 पुण्यकेषु स्त्रीणां व्रतोत्सवेषु ॥ 7-144-4 ज्येष्ठामूले दक्षिणावर्ते भ्रमम्मणे भचक्रे ज्येष्ठानां समसूत्रे पतितं रोहिणीनक्षत्रं तदेव ज्येष्ठानां मूलं । यथाश्रुतार्थग्रहणं तु न । ज्येष्ठामूलस्थेर्के हेमन्ते शिरःपाददाहस्यानवसरात् । लोके येन चैव प्रकीर्तितदिति ध.पाठः ॥ 7-144-10 द्विजो विद्ध्वतिट. ध.पाठः ॥ 7-144-28 किं ते सूर्यं निपात्य वै इति झ.पाठः ॥

श्रीः