अध्यायः 168

अथ दानधर्मपर्व ॥ 1 ॥

सनत्कुमारेण रुद्रंप्रति अव्यक्तादितत्वानां तारतम्यकथनपूर्वकं तत्सृष्टिलयादिकथनम् ॥ 1 ॥ तथा एतज्ज्ञानस्य संसारतारकत्वोक्तिः ॥ 2 ॥

`सनत्कुमार उवाच ।

इन्द्रियेभ्यो मनः पूर्वमहङ्कारस्ततः परम् ।
अहङ्कारात्परा बुद्धिर्बुद्धेः परतरं महत् ॥
महतः परमव्यक्तमव्यक्तात्पुरुषः परः ।
एतावदेतत्सांख्यानां दर्शनं देवसत्तम ॥
अव्यक्तं बुद्ध्यहङ्कारौ महाभूतानि पञ्च च । मनस्तथा विशेषाश्च दश चैवेन्द्रियाणि च ।
एतास्तत्वचतुर्विंशन्महापुरुषसम्मिताः ॥
बुद्ध्यामानेन देवेश चेतनेन महात्मना ।
संयोगमेतयोर्नित्यमाहुरव्यक्तपुंसयोः ॥
एकत्वं च बहुत्वं च सर्गप्रलयकोटिशः ।
तमःसंज्ञितमेतद्धि प्रवदन्ति त्रिशूलधृक् ॥
समुत्पाट्य यथाव्यक्ताज्जीवा यान्ति पुनःपुनः ।
आदिरेष महानात्मा गुणानामिति नः प्रभो ॥
गुणस्थत्वाद्गुणं चैनमाहुरव्यक्तलक्षणम् ।
एतेनाध्युषितो व्यक्तस्त्रिगुणं चेतयत्युत ॥
अचेतनः प्रकृत्येषु न चान्यमनुबुध्यते ।
बुध्यमानो ह्यहंकारो नित्यं मानाप्रबोधनात् ॥
विमलस्व विशुद्धस्य नीरुजस्य महात्मनः ।
विमलोदरशीलः स्याद्बुध्यमानाप्रबुद्धयोः ॥
द्रष्टा भवत्यभोक्ता च सत्वमूर्तिश्च निर्गुणः ।
बुध्यमानाप्रबुद्धाभ्यामन्य एव तु निर्गुणः ॥
उपेक्षकः शुचिस्ताभ्यामुभाभ्यामयुतस्तथा ।
बुध्यमानो न बुध्येत बुद्धमेवं सनातनम् ॥
स एव बुद्धेरव्यक्तस्वभावत्वादचेतनः ।
सोहमेव न मेऽन्योस्ति य एवमभिमन्यते ॥
न मन्यते ममान्योस्ति येन चेतोस्म्यचेतनः ।
एवमेवाभिमन्येत बुध्यमानोप्यनात्मवान् ॥
अहमेव न मेऽन्योस्ति न प्रबुद्धवशानुगः ।
अव्यक्तस्थो गुणानेष नित्यमेवाभिमन्यते ॥
तेनाधिष्ठिततत्वज्ञैर्महद्भिरभिधीयते ।
अहङ्कारेण संयुक्तस्ततस्ददभिमन्यते ॥
क्षेत्रं प्रविश्य दुर्बुद्धिर्बुद्ध्यमानो ह्यनात्मवान् ।
अहमेव सृजत्यन्यद्द्वितीयं लोकसारथिः ॥
सर्वाभावैरहङ्कारैस्तृतीयं सर्गसंज्ञितम् ।
ततो भूतान्यहङ्कारमहङ्कारो मनोऽसृजत् ॥
सर्वस्नोतस्यभिमुखं सम्प्रावर्तत बुद्धिमान् । तथैव यज्ञे भूतेषु विषयार्थी पुनःपुनः ।
इन्द्रियैः सह शूलाङ्क पञ्च पञ्चभिरेव च ॥
मनो वेद न चात्मानमङ्कारं प्रजापतिः ।
न वेद वाप्यहङ्कारो बुद्धिं बुद्धिमतांवर ॥
एवमेते महाभाग नेतरे नयवादिनः ।
अहङ्कारेण संयुक्तः स्रोतस्यभिमुखः सदा ॥
एवमेष विकारात्मा महापुरुषसञ्ज्ञकः ।
प्रतनोति जगत्कृत्स्नं पुनराददते सकृत् ॥
ससंज्ञत्वाज्जगत्कृत्स्नमव्यक्तस्य हृदि स्थितम् ।
संविशद्रजनीं कृत्स्नां निशान्ते दिवसागमे ॥
पुनरात्मा विजयते बहवो निर्गुणास्तथा ।
अज्ञानेन समायुक्तः सोव्यक्तेन तमोत्मना ॥
यदि ह्येषो नु मन्येत ममास्ति परतो वरः ।
स पुनः पुनरात्मानं न कुर्यादाक्षिपेत च ॥
एतमव्यक्तविषयं सूक्ष्मं मन्येत बुद्धिमान् ।
पञ्चविंशं महादेव महापुरुषवैकृतम् ॥
प्रबुद्धौ बुद्धवानेतत्सृजमानमबुद्धवान् ।
गुणान्पुनश्च तानेव सोत्मनात्मनि निक्षिपेत् ॥
अव्यक्तस्य वशीभूतो योऽज्ञानस्य तमोत्मनः ।
बुध्यमानो ह्यबुद्धस्य बुद्धस्तदनुभुज्यते ॥
उपेक्षकः शुचिर्व्यग्रः सोलिङ्गः सोव्रणोऽमलः ।
षड्विंशो भगवानास्ते बुद्धः शुद्धो निरामयः ॥
अव्यक्तादिविशेषान्तमेतद्वैद्या वदन्त्युत ।
एतैरेव विहीनं तु केचिदाहुर्मनीषिणः ॥
निस्तत्वं बुध्यमानास्तु केचिदाहुर्महामते ।
केचिदाहुर्महात्मानस्तत्वसंज्ञितमेव तु ॥
तत्वस्य श्रवणादेनं तत्वमेवं वदन्ति वै ।
सत्वसंश्रयणाच्चैव सत्ववन्तं महेश्वर ॥
एवमेष विकारात्मा बुध्यमानो महाभुज । अव्यक्तो भवते व्यक्तौ सत्वंसत्वं तथा गुणौ ।
विद्या च भवते विद्या भवेत्तु ग्रहसंज्ञितम् ॥
य एवमनुबुद्ध्यन्ते योगसाङ्ख्याश्च तत्वतः ।
तेऽव्यक्तं शङ्करागाढं मुञ्चन्ते शास्त्रबुद्धयः ॥
तेषामेतत्तु वदतां शास्त्रार्थं सूक्ष्मदर्शिनाम् ।
बुद्धिर्विस्तीर्यते सर्वं तैलबिन्दुरिवाम्भसि ॥
विद्या तु सर्वविद्यानामवबोध इति स्मृतः ।
येन विद्यामविद्यां च विन्दन्ति यतिसत्तमाः ॥
सैषा त्रयी परा विद्या चतुर्थ्यान्वीक्षिकी स्मृता ।
यां बुद्ध्यमानो बुद्ध्येत बुद्ध्यात्मनि समं गतः ॥
अप्रबुद्धमथाव्यक्तमविद्यासंज्ञिकं स्मृतम् । विमोहितं तु शोकेन केवलेन समन्वितम् ।
एतद्बुद्ध्या भवेद्बुद्धः किमन्यद्बुद्धिलक्षणम् ॥
ये त्वेतन्नावबुद्ध्यन्ते ते प्रबुद्धवशानुगाः ।
ते पुनःपुनरव्यक्ताज्जनिष्यन्त्यबुधांत्मनः ॥
तमेव तुलयिष्यन्ति अबुद्धिवशवर्तिनः ।
ये चाप्यन्ये तन्मनसस्तेप्येतत्फलभागिनः ॥
विदित्वैनं न शोचन्ति योगोपेतार्थदर्शिनः ।
स्वातन्त्र्यं प्रतिलप्स्यन्ते केवलत्वं च भास्वरम् ॥
अज्ञानबन्धनान्मुक्तास्तीर्णाः संसारबन्धनात् । अज्ञानसागरं घोरमगाधं तमसंज्ञकम् ।
यत्र मज्जन्ति भूतानि पुनःपुनररिंदम् ॥
एषा विद्या तथाऽविद्या कथिता ते मयाऽर्थतः ।
यस्मिन्देयं च नो ग्राह्यं सांख्याः सांख्यं तथैव च ॥
तथा चैकत्वनानात्वमक्षरं क्षरमेव च ।
निगदिष्यामि देवेश विमोक्षं त्रिविधं च ते ॥
बुद्ध्यमानाप्रबुद्धाभ्यामबुद्धस्य प्रपञ्चनम् ।
भूय एव निबोध त्वं देवानां देवसत्तम ॥
यच्च किञ्च श्रुतं न स्याद्दृष्टं चैव न किञ्चन । तच्च ते सम्प्रवक्ष्यामि एकाग्रः शृणु तत्परः ॥' ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि अष्टषष्ट्यधिकशततमोऽध्यायः ॥ 168 ॥

श्रीः