अध्यायः 016

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरंप्रति भगवन्महिमप्रतिपादकव्यासवचनानुवादः ॥ 1 ॥

`भीष्म उवाच ।

द्वारकायां यथा प्राह पुराऽयं मुनिसत्तमः ।
वेदविप्रमयत्वं तु वासुदेवस्य तच्छृणु ॥
यूपं विष्णुं वासुदेवं विजान- न्सर्वान्विप्रान्बोधते तत्वदर्शि ।
विष्णुं क्रान्तं वासुदेवं विजान- न्विप्रो विप्रत्वं गच्छते तत्वदर्शी ॥
विष्णुर्यज्ञस्त्विज्यते चापि विष्णुः कृष्णो विष्णुर्यश्च कृत्स्नः प्रभुश्च ।
कृष्णो वेदाङ्गं वेदवादाश्च कृष्ण एवं जानन्ब्राह्मणो ब्रह्म एति ॥
स्थानं सर्वं वैष्णवं यज्ञमार्गे चातुर्होत्रं वैष्णवं तत्र कृष्णः ।
सर्वैर्भावैरिज्यते सर्वकामैः पुण्याँल्लोकान्ब्राह्मणाः प्राप्नुवन्ति ॥
सोमं सद्भावाद्ये च जातं पिबन्ति दीप्तिं कर्म ये विदानाश्चरन्ति ।
एकान्तमिष्टं चिन्तयन्तो दिविस्था- स्ते वै स्थानं प्राप्नुवन्ति व्रतज्ञाः ॥
ओमित्येतद्ध्यायमानो न गच्छे- द्दुर्गं पन्थानं पापकर्मापि विप्रः ।
सर्वं कृष्णं वासुदेवं हि विग्राः कृत्वा ध्यानं दुर्गतिं न प्रयान्ति ॥
आज्यं यज्ञः स्रुक्स्रुवौ यज्ञदाता इच्छा पत्नी पत्निशाला हवींषि ।
इध्याः पुरोडाशं सर्वदा होतृकर्ता कृत्स्नं विष्णुं संविजानंस्तमेति ॥
योगेयोगे कर्मणां चाभिहारे युक्ते वैताने कर्मणि ब्राह्मणस्य ।
पुष्ट्यर्थेषु प्राप्नुयात्कर्मसिद्धिं शान्त्यर्थेषु प्राप्नुयात्सर्वशान्तिम्ट' ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि षोडशोऽध्यायः ॥ 16 ॥

श्रीः