अध्यायः 097

कृष्णेन युधिष्ठिरंप्रति चातुर्वर्ण्यधर्मनिरूपणम् ॥ 1 ॥

वैशंपायन उवाच ।

एवमात्मोद्भवं सर्वं यगदुद्दिश्य केशवः ।
धर्मान्धर्मात्मजस्याथ पुण्यानकथयत्प्रभुः ॥
शृणु पाण्डव तत्वेन पवित्रं पापनाशनम् ।
कथ्यमानं मया पुण्यं धर्मशास्त्रफलं महत् ॥
यः शृणोति शुचिर्भूत्वा एकचित्तस्तपोयुतः ।
स्वर्ग्यं यशस्यामायुष्यं धर्मं ज्ञेयं युधिष्ठिर ॥
श्रद्दधानस्य तस्येह यत्पापं पूर्वसंचितम् ।
विनश्यत्याशु तत्सर्वं मद्भक्तस्य विशेषतः ॥
वैशंपायन उवाच ।
एवं श्रुत्वा वचः पुण्यं सत्यं केशवभाषितम् ।
प्रहृष्टमनसो भूत्वा चिन्तयन्तोऽद्भुतं परम् ॥
देवब्रह्मर्षयः सर्वे गन्धर्वाप्सरसस्तथा ।
भूता यक्षग्रहाश्चैव गुह्यका भुजगास्तथा ॥
वालखिल्या महात्मानो योगिनस्तत्वदर्शिनः ।
तथा भागवताश्चापि पञ्चकालमुपासकाः ॥
कौतूहलसमाविष्टाः प्रहृष्टैन्द्रियमानसाः । श्रोतुकामाः परं धर्मं वैष्णवं धर्मशासनम् ।
हृदि कर्तुं च तद्वाक्यं प्रणेमुः शिरसा नताः ॥
ततस्तान्वासुदेवेन दृष्टान्दिव्येन चक्षुषा । विमुक्तपापानालोक्य प्रणम्य शिरसा हरिम् ।
पप्रच्छ केशवं धर्मं धर्मपुत्रः प्रतापवान् ॥
युधिष्ठिर उवाच ।
कीदृशी ब्राह्मणस्याथ क्षत्रियस्यापि कीदृशी ।
वैश्यस्य कीदृशी देव गतिः शूद्रस्य कीदृशी ॥
कथं बध्येत पाशेन ब्राह्मणस्तु यमालये । क्षत्रियो वाथ वैश्यो वा शूद्रो वा बध्यते कथम् ।
एतत्कर्मफलं ब्रूहि लोकनाथ नमोस्तु ते ॥
वैशंपायन उवाच ।
पृष्टोऽथ केशवो ह्येवं धर्मपुत्रेण धीमता ।
उवाच संसारगतिं चातुर्वर्ण्यस्य कर्मजाम् ॥
भगवानुवाच ।
शृणु वर्णक्रमेणैव धर्मं धर्मभृतां वर ।
नास्ति किंचिन्नरश्रेष्ठ ब्राह्मणस्य तु दुष्कृतम् ॥
शिखांयज्ञोपवीता ये सन्ध्यां ये चाप्युपासते ।
यैश्च पूर्णाहुतिः प्राप्ता विधिवज्जुह्वते च ये ॥
वैश्वदेवं च ये चक्रुः पूजयन्त्यतिथींश्च ये ।
नित्यं स्वाध्यायशीलाश्च जपयज्ञपराश्च ये ॥
सायंप्रातर्हुताशाश्च शूद्रभोजनवर्जिताः । डंभानृतविमुक्ताश्च स्वदारनिरताश्च ये ।
पञ्चयज्ञपरा ये च येऽग्निहोत्रमुपासते ॥
दहन्ति दुष्कृतं येषां हूयमानास्त्रयोऽग्नयः ।
नष्टदुष्कृतकर्माणो ब्रह्मलोकं व्रजन्ति ते ॥
ब्रह्मलोके पुनः कामं गन्धर्वैर्ब्रह्मगायकैः । उद्गीयमानाः प्रयतैः पूज्यमानाः स्वयंभुवा ।
ब्रह्मिलोके प्रमोदन्ते यावदाभूतसंप्लुवम् ॥
क्षत्रियोपि स्थितो राज्ये स्वधर्मपरिपालकः ।
सम्यक्प्रजाः पालयिता षड्भागनिरतः सदा ॥
यज्ञदानरतो धीरः स्वदारनिरतः सदा ।
शास्त्रानुसारी तत्वज्ञः प्रजाकार्यपरायणः ॥
विप्रेभ्यः कामदो नित्यं भृत्यानां भरणे रतः । सत्यसन्धः शुचिर्नित्यं लोभडंभविवर्जितः ।
क्षत्रियोप्युत्तमां याति गतिं देवनिषेविताम् ॥
तत्र दिव्याप्सरोभिस्तु गन्धर्वैश्च विशेषतः ।
सेव्यमानो महातेजाः क्रीडते शक्रपूजितः ॥
चतुर्थगानि वै त्रिंशत्क्रीडित्वा तत्र देववत् ।
इह मानुष्यलोके तु चतुर्वेदी द्विजो भवेत् ॥
कृषिगोपालनिरतो धर्मानवेषणतत्परः ।
दानधर्मेपि निरतो विप्रशुश्रूषकस्तथा ॥
सत्यसन्धः शुचिर्नित्यं लोभडंभविवर्जितः ।
ऋजुः स्वदारनिरतो हिंसाद्रोहविवर्जितः ॥
वणिग्धर्मान्नमुञ्चन्वै देवब्राह्मणपूजकः ।
वैश्यः स्वर्गतिमाप्नोति पूज्यमानोप्सरोगणैः ॥
चतुर्युगानि वै त्रिंशत्क्रीडित्वा दश पञ्च च ।
इह मानुष्यलोके च राजा भवति वीर्यवान् ॥
सुवर्णकोट्यः पञ्चाशद्रत्नानां च शतं तथा ।
हस्त्यश्वरश्वसंयुक्तो महाभोगांश्च सेवते ॥
त्रयाणामपि वर्णानां शुश्रूषानिरतः सदा ।
विशेषतस्तु विप्राणां दासवद्यस्तु तिष्टति ॥
अयाचितप्रदाता च सत्यशौचसमन्वितः ।
गुरुदेवार्चनरतः परदारविवर्जितः ॥
परपीडामकृत्वैव भत्यवर्गं बिभर्ति यः ।
शूद्रोपि स्वर्गमाप्नोति जीवानामभयप्रदः ॥
स स्वर्गकलोके क्रीडित्वा वर्षकोटिं महातपाः ।
इह मानुषलोके तु वैश्यो धनपतिर्भवेत् ॥
एवं धर्मात्परं नास्ति महत्संसारमोक्षणम् ।
न च धर्मात्पर किंचित्पापकर्मव्यपोहनम् ॥
तस्माद्धर्मः सदा कार्यो मानुष्यं प्राप्य दुर्लभम् ।
न हि धर्मानुरक्तानां लोके किंचन दुर्लभम् ॥
स्वयंभुविहितो धर्मो यो यस्येह नरेश्वर ।
स तेन क्षपयेत्पापं सम्यगाचरितेन च ॥
सहजं यद्भदेत्कर्म न तत्त्याज्यं हि केनचित् ।
स एव तस्य धर्मो हि तेन सिद्धिं स गच्छति ॥
विगुणोपि स्वधर्मस्तु पापकर्म व्यपोहति ।
एवमेव तु धर्मोपि क्षीयते पापवर्धनात् ॥
युधिष्ठिर उवाच ।
भगवन्देवदेवेश श्रोतुं कौतूहलं हि मे ।
शुभस्याप्यशुभस्यापि क्षयवृद्धी यथाक्रमम् ॥
भगवानुवाच ।
शृणु पार्थिव तत्सर्वं धर्मसूक्ष्मं सनातनम् ।
दुर्विज्ञेयतमं नित्यं यत्र मग्ना महाजनाः ॥
यथैव शीतमुदकमुष्णेन बहुना वृतम् ।
भवेत्तु तत्क्षणादुष्णं शीतत्वं च विनश्यति ॥
यथोष्णं वा भवेदल्पं शीतेन बहुना वृतम् ।
शीतलं च भवेत्सर्वमुष्णत्वं च विनश्यति ॥
एवं च यद्भवेद्भूरि सुकृतं वाऽपि दुष्कृतम् ।
तदल्पं क्षपयेच्छीघ्रं नात्र कार्या विचारणा ॥
समत्वे सति राजेन्द्र तयोः सुकृतपापयोः ।
गूहितस्य भवेद्वृद्धिः कीर्तितस्य भवेत्क्षयः ॥
ख्यापनेनानुतापेन प्रायः पापं विनश्यति ।
तथा कृतस्तु राजेन्द्र धर्मो नश्यति मानद ॥
तावुभौ गूहितौ सम्यग्वृद्धिं यातो न संशयः ।
तस्मात्सर्वप्रयत्नेन न पापं गूहयेद्बुधः ॥
तस्मादेतत्प्रयत्नेनि कीर्तयेत्क्षयकारणात् ।
तस्मात्संकीर्तयेत्पापं नित्यं धर्मं च गूहयेत् ॥ ॥

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि सप्तनवतितमोऽध्यायः ॥ 97 ॥

श्रीः