अध्यायः 037

अथानुगीतापर्व-2

ब्रह्मणा कश्यपादिमहर्षीन्प्रति तमोगुणकार्यनिरूपणम् ॥ 1 ॥

ब्रह्मोवाच ।

तदव्यक्तमनुद्रिक्तं सर्वव्यापि ध्रुवं स्थिरम् ।
नवद्वारं पुरं विद्यात्त्रिगुणं पञ्चधातुकम् ॥
एकादशपरिक्षेपं मनोव्याकरणात्मकम् ।
बुद्धिस्वामिकमित्येतत्परमेकादशं भवेत् ॥
त्रीणि स्रोतांसि यान्यस्मिन्नाप्यायन्ते पुनःपुनः ।
प्रनाड्यस्तिस्र एवैताः प्रवर्न्तते गुणात्मिकाः ॥
तमो रजस्तथा सत्वं गुणानेतान्प्रचक्षते ।
अन्योन्यमिथुनाः सर्वे तथाऽन्योन्यानुजीविनः ॥
अन्योन्यापाश्रयाश्चापि तथाऽन्योन्यानुवर्तिनः ।
अन्योन्यव्यतिषक्ताश्च त्रिगुणाः पञ्चधातवः ॥
तमसो मिथुनं सत्वं सत्वस्य मिथुनं रजः ।
रजसश्चापि सत्वं स्यात्सत्वस्य मिथुनं तमः ॥
नियम्यते तमो यत्र रजस्तत्र निवर्तते ।
नियम्यते रजो यत्र सत्वं तत्र प्रवर्तते ॥
नैशात्मकं तमो विद्यात्त्रिगुणं मोहसंज्ञितम् । अधर्मलक्षणं चैव नियतं पापकर्मसु ।
तामसं रूपमेतत्तु दृश्यते चापि सङ्गतम् ॥
प्रकृत्यात्मकमेवाहू रजः पर्यायकारकम् ।
सत्त्वे तु सर्वभूतेषु दृश्यमुत्पत्तिलक्षणम् ॥
प्रकाशं सर्वभूतेषु लाघवं श्रद्धधानता ।
सात्विकं रूपमेवं तु लाघवं साधुसंमितम् ॥
एतेषां गुणतत्त्वानि वक्ष्यन्ते तत्त्वहेतुभिः ।
समासव्यासयुक्तानि तत्त्वतस्तानि बोधत ॥
सम्मोहो ज्ञानमत्यागः कर्मणामविनिर्णयः ।
स्वप्नः स्तंभो भयं लोभः शोकः सुकृतदूषणम् ॥
अस्मृतिश्चाविपाकश्च नास्तिक्यं भिन्नवृत्तिता ।
निर्विशेषत्वमन्धत्वं जघन्यगुणवृत्तिता ॥
अकृते कृतमानित्वमज्ञाने ज्ञानमानिता ।
अमैत्री विकृतो भावो ह्यश्रद्धा मूढभावना ॥
अनार्जवमसंज्ञत्वं कर्म पापमचेतना ।
गुरुत्वं सन्नभावत्वमवशित्वमवाग्गतिः ॥
सर्व एते गुणा वृत्तास्तामसाः सम्प्रकीर्तिताः ।
ये चान्ये विहिता भावा लोकेऽस्मिन्भावसंज्ञिताः ॥
तत्रतत्र नियम्यन्ते सर्वे ते तामसा गुणाः ।
परिवादकथा नित्यं मेवब्राह्मणवैरिता ॥
अत्यागश्चातिमानश्च मोहो मन्युस्तथाऽक्षमा ।
मत्सरश्चैव भूतेषु तामसं वृत्तमिष्यते ॥
वृथारम्भा हि ये केचिद्वृथा दानानि यानि च ।
वृथाभक्षणमित्येतत्तामसं वृत्तमिष्यते ॥
अतिवादोऽतितिक्षा च मात्सर्यमभिमानिता ।
अश्रद्दधानता चैव तामसं वृत्तमिष्यते ॥
एवंविधाश्च ये केचिल्लोकेऽस्मिन्पापकर्मिणः ।
मनुष्या भिन्नमर्यादास्ते सर्वे तामसाः स्मृताः ॥
तेषां योनीः प्रवक्ष्यामि नियताः पापकर्मिणाम् । अवाङ्निरयभावा ये तिर्यङ्निरयगामिनः ।
स्थावराणि च भूतानि पशवो वाहनानि च ।
क्रव्यादा दंदशूकाश्च कृमिकीटविहङ्गमाः ॥
अब्जाता जन्तवश्चैव सर्वे चापि चतुष्पदाः ।
उन्मत्ता बधिरा मूका ये चान्ये पापरोगिणः ॥
मग्नास्तमसि दुर्वृत्ताः स्वकर्मकृतलक्षणाः ।
अवाक्स्रोतस इत्येते मग्नास्तमसि तामसाः ॥
तेषामुत्कर्षमुद्रेकं वक्ष्याम्यहमतः परम् ।
यथा ते सुकृतां लोकाँल्लभन्ते पुण्यकर्मिणः ॥
अन्यथा प्रतिपन्नास्तु विवृद्धा ये च कर्मसु ।
स्वकर्मनिरतानां च ब्राह्मणानां शुभैषिणाम् ॥
संस्कारेणोर्ध्वमायान्ति यतमानाः सलोकताम् ।
स्वर्गे गच्छन्ति देवानामित्येषा वैदिकी श्रुतिः ॥
अन्यथा प्रतिपन्नास्ते विबुद्धाः स्वेषु कर्मसु ।
पुनरावृत्तिधर्माणस्ते भवन्तीह मानुषाः ॥
पापयोनिं समापन्नाश्चण्डाला मूकचूचुकाः ॥
वर्णान्पर्यायशश्चापि प्राप्नुवन्त्युत्तरोत्तरम् ॥
शूद्रयोनिमतिक्रम्य ये चान्ये तामसा गुणाः ।
स्रोतोमध्ये समागम्य वर्तन्ते तामसे गुणे ॥
अभिष्वङ्गस्तु कामेषु महामोह इति स्मृतः ।
ऋषयो मुनयो देवा मुह्यन्त्यत्र सुखेप्सवः ॥
तमोमोहो महामोहस्तामिस्रो ह्यन्धसंज्ञितः ।
मरणं त्वन्धतामिस्रस्तामिस्रः क्रोध उच्यते ॥
वर्णतो गुणतश्चैव योनितश्चैव तत्त्वतः ।
सर्वमेततमो विप्राः कीर्तितं वो यथाविधि ॥
को न्वेतद्बुध्यते साधु को न्वेतत्साधु पश्यति ।
अतत्त्वे तत्त्वदर्शी यस्तमसस्तच्च लक्षणम् ॥
तमोगुणा बहुविधाः प्रकीर्तिता यथावदुक्तं च तमः परावरम् ।
नरो हि यो वेद गुणानिमान्सदा स तामसैः सर्वगुणैः प्रमुच्यते ॥ ॥

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि सप्तत्रिंशोऽध्यायः ॥ 37 ॥

7-37-24 अण्डजा जन्तव इति झ.पाठः ॥ 7-37-30 चूचुकाः स्खलद्गिरः । पुष्पचूचुका इति क.पाठः ॥ 7-37-32 कामेषु स्त्र्याद्यर्थेषु । अभिष्वङ्ग आसक्तिः ॥

श्रीः