अध्यायः 041

अथ नारदागमनपर्व ॥ 3 ॥

नारदेन युधिष्ठिरंप्रति दृथराष्ट्रादिदाहकाग्नेर्मन्त्रपूतत्वकथनम् ॥ 1 ॥ युधिष्ठिरेण युयुत्सुपुरस्कारेण गान्धारीधृतराष्ट्रयो रुदकदानपूर्वकं कुन्त्याश्च विधिवच्छ्राद्धदानम् ॥ 2 ॥ ततो नारदगमनानन्तरं प्रजापालनेन निजनगरे भ्रात्रादिभिः सह सुखविहारः ॥ 3 ॥

नारद उवाच ।

नासौ वृथाऽग्निना दग्धो यथा तत्र श्रुतं मया ।
वैचित्रवीर्यो नृपतिर्न ते शोच्यो नराधिप ॥
वनं प्रविशतानेन वायुभक्षेण धीमता ।
अग्नयः कारयित्वेष्टिमुत्सृष्टा इति नः श्रुतम् ॥
याजकास्तु ततस्तस्य तानग्नीन्निर्जने वने ।
समुत्सृज्य यथाकामं जग्मुर्भरतसत्तम ॥
स विवृद्धस्तदा वह्निर्वने तस्मिन्नभूत्किल ।
तेन तद्वनमादीप्तमिति ते तापसाऽब्रुवन् ॥
स राजा जाह्नवीतीरे यथा ते कथितं मया ।
तेनाग्निना समायुक्तः स्वेनैव भरतर्षभ ॥
एवमावेदयामासुर्मुनयस्ते ममानघ ।
ये ते भागीरथीतीरे मया दृष्टा युधिष्ठिर ॥
एवं स्वेनाग्निना राजा समायुक्तो महीपते ।
मा शोचिथास्त्वं नृपतिं गतः स परमां गतिम् ॥
गुरुशुश्रूषया चैव जननी ते जनाधिप ।
प्राप्ता सुमहतीं सिद्धिमिति मे नात्र संशयः ॥
कर्तुमर्हसि राजेन्द्र तेषां त्वमुदकक्रियाम् ।
भ्रातृभिः सहितः सर्वैरेतदत्र विधीयताम् ॥
वैशम्पायन उवाच ।
ततः स पृथिवीपालः पाण्डवानां धुरंधरः ।
निर्ययौ सहसोदर्यः सदारश्च नरर्षभः ॥
पौरजानपदाश्चैव राजभक्तिपुरस्कृताः ।
गङ्गां प्रजग्मुरभितो वाससैकेन संवृताः ॥
ततोऽवगाह्य सलिले सर्वे तु कुरुपुङ्गवाः ।
युयुत्सुमग्रतः कृत्वा ददुस्तोयं महात्मने ॥
गान्धार्याश्च पृथायाश्च विधिवन्नामगोत्रतः ।
शाचं निवर्तयन्तस्ते तत्रोषुर्नगराद्बहिः ॥
प्रेषयामास स नरान्विधिज्ञानाप्तकारिणः । गङ्गाद्वारं कुरुश्रेष्ठो यत्र दग्धोऽभवन्नृपः ।
तत्रैव तेषां तुल्यानि गङ्गाद्वारेऽन्वशात्तदा ।
कर्तव्यानीति पुरुषान्दत्तदेयान्महीपतिः ॥
द्वादशेऽहनि तेभ्यः स कृतशौचो नराधिपः ।
ददौ श्राद्धानि विधिवद्दक्षइणावन्ति पाण्डवः ॥
धृतराष्ट्रं समुद्दिश्य ददौ स पृथिवीपतिः ।
सुवर्णं रजतं गाश्च शय्याश्च सुमहाधनाः ॥
गान्धार्याश्चैव तेजस्वी पृथायाश्च पृथक्पृथक् ।
सङ्कीर्त्य नामनी राजा ददौ दानमनुत्तमम् ॥
यो यदिच्छति यावच्च तावत्स लभते द्विजः ।
शयनं भोजनं यानं मणिरत्नमथो धनम् ॥
यानमाच्छादनं भोगान्दासीश्च समलङ्कृताः ।
ददौ राजा समुद्दिश्य तयोर्मात्रोर्महीपतिः ॥
ततः स पृथिवीपालो दत्त्वा श्राद्धान्यनेकशः ।
प्रविवेश पुनर्धीमान्नगरं वारणाह्वयम् ॥
ते चापि राजवचनात्पुरुषा ये गताऽभवन् ।
सङ्कल्प्य तेषां कुल्यानि पुनः प्रत्यागमंस्ततः ॥
माल्यैर्गन्धैश्च विविधैरर्चयित्वा यथाविधि ।
कुल्यानि तेषां संयोज्य तदाचख्युर्महीपतेः ॥
समाश्वास्य तु राजानं धर्मात्मानं युधिष्ठिरम् ।
नारदोप्यगमत्प्रीतः परमर्षिर्यथोप्सितम् ॥
एवं वर्षाण्यतीतानि धृतराष्ट्रस्य धीमतः ।
वनवासे तथा त्रीणि नगरे दशपञ्च च ॥
हतपुत्रस्य सङ्ग्रामे दानानि ददतः सदा ।
ज्ञातिसम्बन्धिमित्राणां भ्रातॄणां स्वजनस्य च ॥
युधिष्ठिरस्तु नृपतिर्नातिप्रीतमनास्तदा ।
धारयामास तद्राज्यं निहतज्ञातिबान्धवः ॥ ॥

इति श्रीमन्महाभारते शतसाहस्र्यां संहितायां वैयासिक्यां आश्रमिवासिकपर्वणि नारदागमनपर्वणि एकचत्वारिंशोऽध्यायः ॥ ॥ समाप्तं नारदागमनपर्व ॥ 3 ॥ आश्रमवासिकपर्व च ॥ 15 ॥ अस्यानन्तरं मौसलपर्व भविष्यति । तस्यायमाद्यः श्लोकः । वैशम्पायन उवाच । षट्त्रिंशे त्वथ सम्प्राप्ते वर्षे कौरवनन्दनः । ददर्श विपरीतानि निमित्तानि युधिष्ठिरः ॥ इदमाश्रमवासिकपर्व कुंभघोणस्थेन टी.आर्. कृष्णाचार्येण टी.आर्.व्यासाचार्येण च मुम्बय्यां निर्णयसागरमुद्रायन्त्रे मुद्रापितम् । शकाब्दाः 1932 सन 1910.

16-41-15 तत्रैव तेषां कृत्यानीति झ.पाठः ॥ 16-41-22 सङ्कल्प्य एकीकुत्य कुल्यानि अस्थीनि प्रत्यागमन् सङ्गामिति शेषः ॥ 16-41-23 संयोज्य गङ्गयेति शेषः ॥