अध्यायः 160

रात्रौ कुन्त्या अन्नादिना ब्राह्मणपूजनम् ॥ 1 ॥ भीमेन जतुगृहस्यादीपनम् ॥ 2 ॥ तस्य कुन्तीं भ्रातॄंश्चादाय सुरङ्गाद्वारा बहिंर्निर्गमनम् ॥ 3 ॥

वैशंपायन उवाच ।
तांस्तु दृष्ट्वा सुमनसः परिसंवत्सरोषितान् ।
विश्वस्तानिव संलक्ष्य हर्षं चक्रे पुरोचनः ॥
`स तु संचिन्तयामास प्रहृष्टेनान्तरात्मना ।
प्राप्तकालमिदं मन्ये पाण्डवानां विनाशने ॥
तमस्यान्तर्गतं भावं विज्ञाय कुरुपुङ्गवः । चिन्तयामास मतिमान्धर्मपुत्रो युधिष्ठिरः ॥'
पुरोचने तथा हृष्टे कौन्तेयोऽथ युधिष्ठिरः ।
भीमसेनार्जुनौ चोभौ यमौ प्रोवाच धर्मवित् ॥
अस्मानयं सुविश्वस्तान्वेत्ति पापः पुरोचनः ।
वञ्चितोऽयं नृशंसात्मा कालं मन्ये पलायने ॥
आयुधागारमादीप्य दग्ध्वा चैव पुरोचनम् ।
षट्प्राणिनो निधायेह द्रवामोऽनभिलक्षिताः ॥
वैशंपायन उवाच ।
अथ दानापदेशेन कुन्ती ब्राह्मणभोजनम् ।
चक्रे निशि महाराज आजग्मुस्तत्र योषितः ॥
ता विहृत्य यथाकामं भुक्त्वा पीत्वा च भारत ।
जग्मुर्निशिं गृहानेव समनुज्ञाप्य माधवीम् ॥
`पुरोचनप्रणिहिता पृथां या सेवते सदा ।
निषादी दुष्टहृदया नित्यमन्तरचारिणी ॥
निषादी पञ्चपुत्रा सा तस्मिन्भोज्ये यदृच्छया ।
पुराभ्यासकृतस्नेहा सखी कुन्त्याः सुतैः सह ॥
आनीय मधुमूलानि फलानि विविधानि च । अन्नार्थिनी समभ्यागात्सपुत्रा कालचोदिता ।
सुपापा पञ्चपुत्रा च सा पृथायाः सखी मता ॥'
सा पीत्वा मदिरां मत्ता सपुत्रा मदविह्वला ।
सह सर्वैः सुतै राजंस्तस्मिन्नेव निवेशने ॥
सुष्वाप विगतज्ञाना मृतकल्पा नराधिप ।
अथ प्रवाते तुमुले निशि सुप्ते जने तदा ॥
तदुपादीपयद्भीमः शेते यत्र पुरोचनः ।
ततो जतुगृहद्वारं दीपयामास पाण्डवः ॥
समन्ततो ददौ पश्चादग्निं तत्र निवेशने ।
`पूर्वमेव गृहं शोध्य भीमसेनो महामतिः ॥
पाण्डवैः सहितां कुन्तीं प्रावेशयत तद्बिलम् ।
दत्त्वाग्निं सहसा भीमो गृहे तत्परितः सुधीः ॥
गृहस्थं द्रविणं गृह्य निर्जगाम बिलेन सः ।' ज्ञात्वा तु तद्गृहं सर्वमादीप्तं पाण्डुनन्दनाः ॥
सुरङ्गां विविशुस्तूर्णं मात्रा सार्धमरिन्दमाः ।
ततः प्रतापः सुमहाञ्छब्दश्चैव विभावसोः ॥
प्रादुरासीत्तदा तेन बुबुधे स जनव्रजः ।
तदवेक्ष्य गृहं दीप्तमाहुः पौराः कृशाननाः ॥
दुर्योधनप्रयुक्तेन पापेनाकृतबुद्धिना ।
गृहमात्मविनाशाय कारितं दाहितं च तत् ॥
अहो धिग्धृतराष्ट्रस्य बुद्धिर्नातिसमञ्जसा ।
यः शुचीन्पाण्डुदायादान्दाहयामास शत्रुवत् ॥
दिष्ट्या त्विदानीं पापात्मादग्ध्वा दग्धः पुरोचनः ।
अनागसः सुविश्वस्तान्यो ददाह नरोत्तमान् ॥
वैशंपायन उवाच ।
एवं ते विलपन्ति स्म वारणावतका जनाः ।
परिवार्य गृहं तच्च तस्थू रात्रौ समन्ततः ॥
पाण्डवाश्चापि ते सर्वे सह मात्रा सुदुःखिताः ।
बिलेन तेन निर्गत्य जग्मुर्द्रुतमलक्षिताः ॥
तेन निद्रोपरोधेन साध्वसेन च पाण्डवाः ।
न शेकुः सहसा गन्तुं सह मात्रा परन्तपाः ॥
भीमसेनस्तु राजेन्द्र भीमवेगपराक्रमः ।
जगाम भ्रातॄनादाय सर्वान्मातरमेव च ॥
स्कन्धमारोप्य जननीं यमावङ्केन वीर्यवान् ।
पार्थौ गृहीत्वा पाणिभ्यां भ्रातरौ सुमहाबलः ॥
उरसा पादपान्भञ्जन्महीं पद्भ्यां विदारयन् ।
स जगामाशु तेजस्वी वातरंहा वृकोदरः ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि जतुगृहपर्वणि षष्ट्यधिकशततमोऽध्यायः ॥ 160 ॥

1-160-6 जातुषागारमिति ङ. पाठः ॥ षष्ट्यधिकशततमोऽध्यायः ॥ 160 ॥