कारिकार्थ–


प्रणिपत्य नत्वा । क7001म् ? वीरम् अन्ति7002मतीर्थकरं तीर्थकरसमुदायं वा ।
किंविशिष्टम् ? स्याद्वादेक्षणसप्तकं । स्यादस्तीत्यादिसप्तभङ्गमयो
वादः स्याद्वादः ईक्षणसप्तकं यस्य स तथोक्त तम् । ननु
स्याद्वादस्य ईक्षणव्यपदेशः मुख्यतः, उपचारतो वा स्यात् ? न तावत् प्रथमः पक्षः;
चक्षुष्येव मुख्यतः त7003द्व्यपदेशप्रसिद्धेः । द्वितीयपक्षोऽप्यनुपपन्नः, यतो रूपादिप्रतिपत्ते
हेतुभूतं चक्षुः ईक्षणं लोके प्रसिद्धम् । न च भगवतः त7004त्प्रतिपत्तौ स्याद्वादो हेतुभूत,
तत्कथम7005स्य उपचारतोऽपि ईक्षणव्यपदेशः ? अ7006थ अपरमनेना7007सौ7008 बोधयतीति तत्प्रति
पत्तेर्हेतुभूतत्वात् त7009द्व्यपदेशः; तर्हि परस्यैव त7010दीक्षणसप्तकं न भगवतः, अन्यदीयात्ततो
अन्यस्य प्रतिपत्तेरयोगात्; तदसमीचीनम्; अन्यथा व्याख्यानात् । स्याद्वाद एव
ईक्षणसप्तकं यस्माद् भव्यानां स तथोक्तस्तम् । यदि वा, ईक्षणसप्तकमिव ईक्षण-
656 सप्तकं स्याद्वादः तत् सप्तक यस्यासौ स तथोक्तः7011 तमिति । किं पुनः त7012त्सप्तकेन7013
स्याद्वादस्य साधर्म्य येनैवमुच्यते इति चेत्; उपदेशाद्यनपेक्षाऽर्थज्ञानजनकत्वम् । यथैव
हि ईक्षणात् परोपदेशलिङ्गान्वयव्यतिरेकनिरपेक्ष रूपादिज्ञान जायते तथा स्याद्वादाद्
भगवत केवलज्ञानमिति । तमित्थम्भूतम् इष्टदेवताविशेष प्रणिपत्य वक्ष्यमाणलक्षण
लक्षितान् प्रमाणनयनिक्षेपान् अभिधास्ये । कथम् ? यथागमम्, आगमा
नतिक्रमेण । अ7014नेन तत्र आ7015त्मनः स्वातन्त्र्यं परिहृतम् ।


तत्र प्रमाणादीनां समासतो लक्षण प्रतिपादयन्नाह–


  1. क वीरं आ॰

  2. अन्तिमतीर्थकरसमुदय
    वा
    आ॰

  3. ईक्षणव्यपदेश ।

  4. रूपादिप्रतीतौ ।

  5. स्याद्वादस्य ।

  6. –अथ रमनेना– आ॰, अथ परमतेना– ब॰

  7. स्याद्वादेन ।

  8. भगवान् ।

  9. ईक्षणव्यपदेश ।

  10. स्याद्वाद ।

  11. –क्तमिति ब॰

  12. ईक्षणसप्तकेन ।

  13. –केन स्यासा– आ॰

  14. अनेन आत्म– श्र॰

  15. ग्रन्थकर्तु ।