I.171

द्वितीयमाह्निकम्—प्रत्यक्षपरीक्षा


प्रत्यक्षलक्षणम्


एवं प्रमाणानां सामान्यलक्षणे, विभागे च निर्णीते सति,
अधुना विशेषलक्षणवर्णभावसर इति, सकलप्रमाणमूलभूतत्वेन
पूर्वपठितत्वेन ज्यैष्ठ्यात् प्रथमं प्रत्यक्षस्य लक्षणं प्रतिपादयितुमाह—


इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमव्यपदेश्यमव्यभि
चारि व्यवसायात्मकं प्रत्यक्षम् ॥ १-१-४ ॥


प्रत्यक्षमिति लक्ष्यनिर्देशः; इतरल्लक्षणम् । समानासमानजातीय
व्यवच्छेदो लक्षणार्थः । समानजातीयं प्रमाणतयाऽनुमानादि,
विजातीयं प्रमेयादि; ततो व्यवच्छिन्नं प्रत्यक्षस्य लक्षणमनेन
सूत्रेणोपपाद्यते ॥


सूत्रस्यायुक्तताऽऽक्षेपः


अत्र चोदयन्ति—इन्द्रियार्थसन्निकर्षोत्पन्नत्वादिविशेषणैः स्वरूपं
वा विशेष्यते ? सामग्री वा ? फलं वा ?


विभागे—चतुष्टयत्वेनेति शेषः ॥


समानेति । सजातीयविजातीयव्यावृत्तिः लक्षणस्य प्रयोजनमित्यर्थः ॥


चोदयन्तीति । अयमाशयः । अस्मिन् सूत्रे प्रत्यक्षं इति पदं
लक्ष्यवाचकम्, अत एव विशेष्यम् । प्रत्यक्षशब्दश्च अफलरूपे अकरणरूपे च
केवलज्ञाने, तादृशज्ञानकरणे इन्द्रियादौ, फलरूपे ज्ञाने च वर्तते । तदत्र प्रत्यक्षपदं
किं केवलज्ञानस्वरूपमात्रपरम् ? उत ज्ञानकरणपरम् ? उत फलभूतज्ञानपरम् ?
तत्राद्ये पक्षेऽव्याप्तिरतिव्याप्तिश्च । तदा हि अकरणस्याफलस्यैव च लक्षणमिदमिति
भवति । तथा च फलरूपज्ञाने, इन्द्रिये च प्रमाणत्वेन वर्णनीये लक्षणा