I.396

तृतीयमाह्निकम्—शब्दपरीक्षा

शब्दलक्षणम्


उपमानानन्तरं शब्दस्य विभागसूत्रे निर्देशात्तस्य लक्षणं प्रति
पादयितुमाह—


आप्तोपदेशः शब्दः ॥ १-१-७ ॥


उपदेशः शब्दः इत्युच्यमाने पर्यायमात्रोच्चारणात् अकारके
शब्दमात्रे प्रमाण्यप्रसक्तिरिति तद्विनिवृत्तये पूर्वसूत्रात् साध्य
साधनपदमाकृष्यते । तथाऽपि शब्दान्तरजनके प्रसक्तिरिति प्रत्यक्ष
सूत्रात् ज्ञानपदस्य, स्मृतिजनकस्य व्यवच्छेदार्थं चार्थग्रहणस्य,
संशयविपर्ययजनकनिराकरणाय च व्यवसायात्मकाव्यभिचारिपदयो
रनुवृत्तिरित्येवमव्यभिचारादिविशेषणार्थप्रतीतिजनक उपदेशः शब्द
इत्युक्तं भवति ॥


तदेवंपर्यायमेवोपदेशशब्दं शब्दलक्षणमपेक्षितपूर्वसूत्रोपात्त
विशेषणपदं केचिद्व्याचक्षते । आप्तग्रहणं च लक्षणनिश्चयार्थमाहुः ।
घ्राणरसनत्वक्चक्षुःश्रोत्राणीन्द्रियाणि भूतेभ्यः इत्यत्र भूतग्रहणं
वक्ष्यते । एवं ह्यैतिह्यस्य न प्रमाणान्तरता भविष्यति, उपदेश
रूपत्वाविशेषादिति ॥


क्षुण्णं किञ्चिज्जयन्तस्य वर्त्म चैतावतैव नः ।

सुदूरमस्ति गन्तव्यं, गच्छामः त्वरितं ततः ॥

अकारके—बोधाजनके, घट, कलश, कुम्भ, इत्यादिरूपे । शब्दान्तर
जनके—वीचीतरङ्गन्यायेन शब्दान्तरजनके पूर्वशब्दे । ज्ञानपदस्येति । एवं
प्रत्यक्षसूत्र इव यतः शब्दोऽप्यध्याहर्तव्यः । एतादृशं ज्ञानं यतः, स शब्द
इत्यर्थः ॥


एवंपर्यायं—उक्तार्थकम् । लक्षणनिश्चयार्थं—उक्तार्थस्य परिचाय
कमिति यावत् । वक्ष्यते इति । अष्टमाह्निके तत्सूत्रविवरणवेलायां
भूतग्रहणं स्पष्टार्थमिति सहेतुकमुक्तम् । एवं—एवं सत्येव । अन्यथा