II.143

षष्ठमाह्निकम्—शब्दपरीक्षा


पदवाक्यस्वरूपविमर्शः


ननु नाद्यापि शब्दस्य निरणायि प्रमाणता ।

796बीजं पदार्थवाक्यार्थबुद्धेर्न हि निरूपितम् ॥

उच्यते—किमत्र निरूपणीयम् ? यदनन्तरं हि यद्भवति तत्तस्य
निमित्तम् । पदवाक्यश्रवणे सति पदार्थवाक्यार्थसंप्रत्ययो भवतीति ते
एव तत्र निमित्तम् ॥


किं पुनरिदं पदं नाम ? किंच वाक्यमिति । उक्तमत्र वर्णसमूहः
पदम्, पदसमूहो वाक्यमिति ॥


स्फोटवादोपक्षेपः


ननु ! एतदेव न क्षमन्ते । न हि वर्णानां समूहः कश्चिदस्ति
वास्तवः । तेन कुतस्तत्समूहः पदं भविष्यति ? तदभावाच्च न तरां
पदसमूहो वाक्यमवकल्पते । न च वर्णानां व्यस्तसमस्तविकल्पोपहतत्वेन
वाचकत्वमुपपद्यते । तस्मादन्य एव स्फोटात्मा शब्दोऽर्थप्रतिपादक इति
प्रतिजानते ॥


  1. बीजं—कारणम् । पदस्वरूपस्य, वाक्यस्वरूपस्य, तेषां अर्थप्रत्यायन प्रकारस्य च दुर्निरूपत्वात् शब्दप्रामाण्यं दुरवस्थमेवेत्यर्थः ॥