II.645

द्वादशमाह्निकम्—जाति-निग्रहस्थानपरीक्षा


जातिसामान्यलक्षणम्


छलानन्तरं जातेरुद्देशात् तस्यास्सामान्यलक्षणं तावदाह—


साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं जातिः ॥ १-२-१८ ॥


व्यख्यानान्तरम्, तन्निरासश्च


अत्र त्रैकाल्यसमादिसकलविशेषसंग्रहाय साधर्म्यवैधर्म्यादिपदनि
रपेक्षमेव प्रत्यवस्थानपदं जातिसामान्यलक्षणप्रतिपादकमाहु; ॥


प्रतीपं अवस्थानं प्रत्यवस्थानम् । तावन्मात्रमेव च यत्किंचिदुत्तरं
परप्रयुक्ते हेतौ जायमानत्वाज्जातिरित्यभिधीयते—तदनुपपन्नम्—प्रत्यवव
स्थानमात्रस्य साधर्म्यादिनिरपेक्षस्य जातित्वे हेत्वाभासोद्भावनमपि जाति
तामश्नुवीत् ॥


अथ तस्य सम्यगुत्तरत्वात् इह च निर्विशेषणप्रत्यवस्थानमात्रोपपाद
नात् फल्गुप्रायमसदुत्तरं जातित्वेन विवक्षितमित्युच्यते—तथापि छलस्य
जातित्वप्रसक्तिरपरिहार्यैव । तद्व्युदासाय तु तदन्यत्वे सति इत्यादिक
यदि किंचिदध्याह्रियते—तदमुष्य श्रूयमाणस्य साधर्म्यवैधर्म्यग्रहणस्यै
को दोषः ?


सौत्रलक्षणस्यादुष्टत्वम्


ननु ! त्रैकाल्यसमादीनामसंग्रहः किं न दोषः ? न हि त्रैकाल्य
समादिषु साधर्म्येण वैधर्म्येण वा प्रत्यवस्थानमस्तीति—नैष दोषः—