543

शरीरस्यादृष्टनिष्पाद्यत्वप्रकरणम्


पूर्वकृतफलानुबन्धात्तदुत्पत्तिः ॥ ३ । २ । ६० ॥


मनसि विचार्यमाणे कः संबन्धः शरीरोत्पत्तिनिमित्तविचारस्येत्यत आह—
मनसः खल्विति । मन एवाधिकरणविचारेणापि परीक्ष्यत इति नासंबन्धः
शरीरोत्पत्तिनिमित्तविचारस्य । परित ईक्षा परीक्षा । सा च स्वरूपतश्च संबन्धितश्च ।
शरीरं च मनःसंबन्धि । तदधिकरणत्वान्मनसः । तस्मात् मनस एवेयं परीक्षा या
शरीरस्येत्यर्थः ।


पूर्व…त्तिः ॥ उत्पत्तिसमकालमिति । सममिव समम् । उत्पत्त्यनन्तर
मित्यर्थः । क एवमाह न ददातीति । यदि समग्रं भवति तत उत्पत्त्यनन्तरं
2022ददात्येवेत्यर्थः । विपच्यमानः कर्माशय2023 इति स्वफलं भोजयन्नित्यर्थः । यानि वा
प्राण्यन्तराणि तस्य कर्मणः समानोपभोगीनीति2024
तद् यथा किन्नरत्वनिर्वर्तनीयं
कर्म स्त्रीपुंसभोग्यं स्त्रीपुंसयोरन्यतरकर्मप्रतिबन्धे फलं न ददातीति । यानि च
प्राण्यन्तराणि
स्नेहविषया भ्रात्रादयः तस्य कर्मणो भोगीनीति कर्मफला
नामन्नाद्यश्वग्रामादीनां2025 भोगित्वात् कर्मभोगीनीत्युच्यन्ते तेषां प्राणिनां कर्मभिर
भाग्यादिशब्दवाच्यैः प्रतिबन्धात् । तस्य वा कर्मणः सहकारि धर्माधर्मलक्षणं
निमित्तं नास्तीति ।
अयमर्थः । दृष्टानां सेवादिकर्मणां व्यभिचाराद् ग्रामादिलाभेऽदृष्टं
कारणं कल्पनीयम् । यथाहुः
तच्चैव तत्र कारणं शब्दश्च
इति । दृष्टं सेवादि च कारणम् । शब्दश्चेति विषयिणा तद्विषयमदृष्टमुपलक्षयति । ते
च ग्रामादयः । तस्माददृष्टादुपजायमाना अन्तरा विघ्ननाशाय कोपशमाय
देवतानमस्कारादिजनितमपि धर्ममपेक्षन्ते । तस्मात् प्राग्भवीयेण धर्मेण स्वफल
544 निर्वर्त्तनाय धर्मान्तरं सहकार्यपेक्ष्यते । सहकारिणां च वैचित्र्यात् प्रतिबन्धापगमहे
तोरपि सहकारित्वाविरोधः । तेन कर्मणः सहकारिनिमित्ताभावात् प्रतिबद्धमदृष्टं
फलं न जनयतीत्यर्थः । तस्य वा कर्मणः सहकारिणः कारणस्य गरीयसा
कर्मान्तरेण प्रतिबन्धात् फलस्यानारम्भः । एवं स्वकर्मणां सहकारिनिमित्ताभाव
प्रतिबन्धावुक्त्वा समानोपभोगसत्त्वान्तरकर्मणामपि सहकारिनिमित्ताभावप्रतिबन्धौ
दर्शयति—सत्त्वान्तरकर्मणां चेति2026


रूपादिमत्त्वादित्युच्यमाने परमाणुभिरनेकान्तः स्यादत आह—बाह्यकरण
ग्राह्यत्वे सतीति ।
इन्द्रियग्राह्यत्वे सतीत्येतावतैव सिद्धे 2027इन्द्रियग्राह्यराशेर्बाह्यकरण
ग्राह्यं राश्यन्तरमित्येतावन्मात्रविवक्षया बाह्यकरणग्राह्यत्वे सतीत्युक्तम् ॥ ६० ॥


भूतेभ्यो मूर्त्युपादानवत्तदुपादानम् ॥ ३ । २ । ६१ ॥


न साध्यसमत्वात् ॥ ३ । २ । ६२ ॥


सिकतादिदृष्टान्तस्य साध्यसमत्वेनैव पुरुषार्थक्रियासामर्थ्यादित्यस्य
हेतोरनैकान्तिकत्वोद्भावनमपि प्रत्युक्तम् । सिकतादीनामपि कथञ्चित् पुरुषार्थहेतुत्वात्
तत्सर्गः पुरुषगुणपूर्वक इत्युक्तम् ॥ ६२ ॥


नोत्पत्तिनिमित्तत्वान्मातापित्रोः ॥ ३ । २ । ६३ ॥


मा भूद् वा पुरुषगुणपूर्वकत्वं सिकतादिसर्गस्य तथापि शरीरस्योत्पत्त्यादि
परिभावयन्तः सिकतादिभ्यो वैषम्यं वीक्षमाणास्तद्विलक्षणकारणत्वमेव प्रतिपद्यामहे ।
तथा च सिध्यति पुरुषगुणनिमित्ततेत्याह—विषमश्चायमुपन्यास इति । नोत्प…
545 त्रोः ॥ ननु माता पितरौ न साक्षात् शरीरोत्पत्तौ कारणमित्यत
आह—मातापितृशब्देन लोहितरेतसी
इति । अनुभवनीये इति
भव्यगेयादि
पाठात् कर्तरि कृत्यः ॥ ६३ ॥


तथाहारस्य ॥ ३ । २ । ६४ ॥


इतोऽपि वैषम्यमित्याह—तथा…स्य ॥ पूर्वसूत्रप्रतीकेन पूरयति—
उत्पत्तिनिमित्तत्वादिति प्रकृतम् । कललकण्डरमांसपेश्यादयो लोहितरेतसोः
शरीरारम्भकयोः परिणामभेदाः ॥ ६४ ॥


प्राप्तौ चानियमात् ॥ ३ । २ । ६५ ॥


दम्पत्योः संयोगः प्राप्तिः । तस्यामनियमः शरीरोत्पादस्य तस्मात् । दृष्टस्य
व्यभिचारादस्ति तददृष्टं यतः शरीरसर्ग इत्यर्थः ॥ ६५ ॥


शरीरोत्पत्तिनिमित्तवत् संयोगोत्पत्तिनिमित्तं कर्म ॥ ३ । २ । ६६ ॥


पार्श्वस्यः शङ्कते—सर्वात्मभिरिति । ननु यदीयेनादृष्टेन यच्छरीरमुपात्तम्, तत्
तस्यैव भोगायतनं नान्यस्येति नानियम इत्यत आह—न च पुरुषगत इति ।
आत्ममनःसन्निकर्षजौ हि धर्माधर्मौ । सन्निकर्षश्च मनसः सर्वात्मभिः साधारण इति ।
सर्वेषामेव धर्माधर्मौ, न पुनः कस्यचिदेवासाधारणावित्यर्थः । अस्योत्तरम्—शरीरेति ।


शरी…र्म ॥ उक्तेनैवाभिप्रायेण शङ्कते—तत्स्थता एकपुरुषस्थता कुत इति
चेत् ?
उत्तरम्—न स्वसंयोगेति । पुनः पृच्छति—संयोगे कुतो नियम इति । यथै
546 वैकेनात्मना मनः संयुक्तम् एवमात्मान्तरैरपि । एवं यथैकेन मनसा स आत्मा संयुक्त
एवं मनोऽन्तरैरपीति नात्ममनःसन्निकर्षेऽस्ति विशेष इत्यर्थः । उत्तरम्—न मनो
नियमहेतुत्वादिति ।
अदृष्टनियमनिबन्धनो हि मनोनियमः । मनोनियमनिबन्धनश्चा
दृष्टनियमः । अनादित्वाच्च बीजाङ्कुरवदन्योन्याश्रयो न क्षतिमावहतीत्यर्थः2028 ॥ ६६ ॥


एतेनानियमः प्रत्युक्तः ॥ ३ । २ । ६७ ॥


तदेवमात्मगुणनिबन्धने शरीरसर्गे व्यवस्था दर्शिता । ये तु मेनिरे न कर्मनिबन्धनः
शरीरसर्गः, अपि तु प्रकृत्यादिनिबन्धनः2029 । प्रकृतयो हि स्वयमेव धर्माधर्म
रूपनिमित्तानपेक्षाः सत्त्वरजस्तमस्तया प्रवृत्तिशीलाः स्वं स्वं विकारमारभन्ते ।
प्रतिबन्धापगममात्रे तु धर्माधर्मावपेक्षन्ते । तद् यथा कृषीवलः केदारादप्पूर्णात्
केदारान्तरमपूर्णमापिप्लावयिषुरपां सेतुमात्रं भिनत्ति । तास्तु निम्नाभिसर्पणस्वभावा
अपहतसेतवः स्वयमेव केदारमाप्लावयन्ति । एवमापूरयन्ति2030 प्रकृतयोऽपि विकारानिति ।
यथाहुः
निमित्तमप्रयोजकं प्रकृतीनामावरणभेदस्तु ततः क्षेत्रिकवत्
इति । तान् प्रत्याह—एते…क्तः ॥ एतेन कर्मसापेक्षाणां भूतानां शरीरसर्गे
अनियमाभिधानेन तन्निरपेक्षाणां व्यतिरेकमुखेन अनियमः प्रत्युक्तः । नियमो
व्याप्तिः साधारणविग्रहवत्त्वं सर्वात्मनाम् । अनियमस्त्वव्याप्तिः कस्यचिदात्मनः
किंञ्चिच्छरीरं कस्यचित् किञ्चिदिति2031 । प्रकृतिनिबन्धने हि शरीरसर्गे तस्या एकत्वात्
सर्वात्मसाधारण्याच्च न शरीराणामस्त्यसाधारण्येहेतुः । भूतग्रहणं तु प्रकृत्युपलक्षणार्थम् ।
न केवलमकर्मनिमित्ते शरीरसर्गे साधारणविग्रहवत्त्वं दोषः, अपि तु मोक्षोऽपि न
स्यादिति दर्शयितुं स्वपक्षे मोक्षमुपपादयति—उपपन्नश्चेति । सांख्यपक्षे तु न मोक्षः
547 स्यादिति दर्शयति—कर्मनिरपेक्षेष्विति ॥ ६७ ॥


तददृष्टकारितमिति चेत् पुनस्तत्प्रसङ्गोऽपवर्गे ॥ ३ । २ । ६८ ॥


शङ्कते—तददृष्टकारितमिति चेत् इति । तद…र्गे ॥ उपभोग्यशब्दाद्यदर्शनं
प्रकृतिपुरुषभेदादर्शनं चादृष्टमुच्चते । तत्कारितमित्यर्थः । निराकरोति—एतम्मिन्निति ।
यथा प्रागदर्शनमेवं निरोधसमाधेः पश्चादप्यदर्शनमित्यपवृक्तोऽपि पुनः संसरे
दित्यर्थः ।


शङ्कामुत्थाप्य दूषयति—चरितार्थतेति । ननु न शब्दाद्युपभोगं पुरुषार्थं ब्रूमो
येन चरितार्थता स्यात्, अपि तु गुणपुरुषभेदर्शनम्, तच्चाद्यापि न भवतीत्यारभते
शरीरमिति देशयति—पुरुषार्थेन च हेतुनेति । चोऽवधारणे पुरुषार्थत्वेनैवेत्यर्थः ।
परिहरति—तस्य चाकरणादिति । चस्त्वर्थे देश्यनिवृत्तौ । यदर्थं शरीराण्यारभते तन्न
कृतमन्यत्तु कृतमिति किं केन संगतमित्यर्थः । शङ्कते—दिदृक्षाविशेष इति । दर्शनं
हि नञा पर्युदस्तमतस्तन्मूलां दिदृक्षां ब्रूते । सा चापवर्गे नास्ति । तस्मान्नापवृक्तः
संसरतीत्यर्थः । निराकरोति—न प्रागिति । एतदुक्तं भवति दिदृक्षा हि बुद्ध्याश्रया
नासत्यां बुद्धावस्ति । प्रकृतिपरिणामश्च बुद्धिः । तथा च सत्यां दिदृक्षायां बुद्धिः,
बुद्धौ सत्यां दिदृक्षेति परस्पराश्रयप्रसङ्गः । न चात्रानादिता परिहारः, सृष्ट्यादौ
द्वयोरभावात् । अस्माकं तु महाप्रलयसमयेऽपि2032 धर्माधर्मसंस्कृतोऽस्त्यात्मा मनश्चेति
विशेषः । सत्कार्यमादाय शङ्कते—सर्वशक्तिमत्त्वादिति । निराकरोति—न,
अपवर्गाभावप्रसङ्गादिति ।
शिष्टं विभजते—दिदृक्षावन्नानात्वदर्शनमप्यस्तीति ।
न तदर्थं प्रकृतेः प्रवृत्तिः, तथा च न 2033संसारस्तत्प्रध्वंसश्चापवर्गः संसारा
भावान्नास्तीत्यपवर्गाभाव इत्यर्थः । एतदेव स्फुटयति—विद्यमाने च 2034नानात्वदर्शने
तदर्थं प्रधानस्य प्रवृत्तिरयुक्ता । ततः संसाराभावात् तत्प्रध्वंसोऽपवर्गो न स्यादिति
548 भावः । तमेवापवर्गाभावं तद्विरोधिसंसारसत्त्वेन दर्शयति—यदा च नानात्वदर्शन
मिति ।
निदानानुच्छेदेन निदानिनो नोच्छेद इत्यर्थः । पुनर्विकल्पं दर्शयति—
अज्ञानमदर्शनमिति चेति । विवेकज्ञानाभावस्य तुल्यत्वादित्यर्थः । शेषमति
रोहितार्थमिति ।


अपरे तु आर्हता अदृष्टं परमाणुगुणं वर्णयन्ति । पार्थिवानामणूनां मनसश्च
गुणोऽदृष्टम् । तत्र पार्थिवाद्या अणवः स्वादृष्टप्रयुक्ताः शरीरमारभन्ते । मनश्च
स्वगुणप्रयुक्तं तच्छरीरमाविशति । तच्च स्वकादेवादृष्टात् पुद्गलस्य सुखदुःखोप
भोगं साधयति, न तु पुद्धलस्य धर्मोऽदृष्टमिति सांख्यवत् तेषामपि दिगम्बराणां
पुनःस्तत्प्रसङ्गोऽपवर्गे । एतदुपपादयति—परमाणुगुणस्येति ॥ ६८ ॥


मनःकर्मनिमित्तत्वाच्च संयोगाव्युच्छेदः ॥ ३ । २ । ६९ ॥


अपि चास्मिन् दर्शने प्रायणं न स्यादित्याह—मनःकर्मनिमित्तत्त्वादिति ।
मनः…दः ॥
अस्मद्दर्शने तूपपद्यते प्रायणमित्याह—वर्तमानशरीरारम्भककर्माशयक्षये
तु भविष्यद्देहान्तरारम्भककर्माशयान्तरादपसर्पणं मनस इति युक्तं प्रायणम् ।
उभयहेतुरिति
उपसर्पणापसर्पणहेतुरित्यर्थः ॥ ६९ ॥


नित्यत्वप्रसङ्गश्च प्रायणानुपपत्तेः ॥ ३ । २ । ७० ॥


ननु भवतु संयोगाव्युच्छेदः किं नो बाध्यत इत्यत आह शरीरस्य
नित्यत्वप्रसङ्गश्च प्रायणानुपपत्तेः । नित्य…त्तेः ॥ संयोगाव्युच्छेदादित्यर्थः ।
ननु
सदकारणवन्नित्यम्
इति कथं सकारणं शरीरं नित्यं भवेदित्यत आह शरीरस्य नित्यत्वप्रसङ्ग इति
549 प्रायणानुपपत्तिं ब्रूमः
विनाशानुपपत्तिमित्यर्थः2035यादृच्छिके अकारणके प्रायणे
प्रायणभेदो न स्यात् ।
दृष्टश्च प्रायणभेदः, कश्चिद् गर्भस्थ एव प्रैति, कश्चिज्जात
मात्रः, कश्चित्कुमारक इत्यादिरिति । अकारणस्य नित्यं सत्त्वमसत्त्वं वा स्यात्
गगनवत् तत्कुसुमवदित्यर्थः ॥ ७० ॥


अणुश्यामतानित्यत्ववदेतत् स्यात् ॥ ३ । २ । ७१ ॥


अकारणत्वादित्यस्य हेतोरनैकान्तिकत्वेन प्रत्यवतिष्ठते—अणुश्यामतावत्
इति । अणु…त् ॥ ७१ ॥


नाकृताभ्यागमप्रसङ्गात् ॥ ३ । २ । ७२ ॥


निराकरोति—एतच्च नेति । प्रमाणेनाविषयीकृतमकृतं प्रत्युत प्रत्यक्षा
गमप्रतिषिद्धमिति2036 यावत्, तस्याभ्यागमोऽभ्युपगमः, तत्प्रसङ्गादित्यर्थः । न च
परमाणुश्यामताप्यकारणा पार्थिवरूपत्वात् लोहितादिरूपवदित्यनुमानेन तस्या अपि
पाकजत्वाभ्युपगमादिति भावः । यथाश्रुति वा सूत्रार्थः । अकृतस्य कर्मणः
फलोपभोगप्रसङ्गादिति । यदा खलु परमाणुगुण एव नित्यः शरीराद्यारम्भकः, तदासौ
नित्यत्वात् न केनचित् क्रियते । तस्याकृतस्यैव फलं पुरुषैरुपभुज्यते । ततश्चाय
मास्तिकानां विहितप्रतिषिद्धप्रवृत्तिनिवृत्तिप्रचयोऽनर्थकः । शास्त्रप्रणयनं चाप्यनर्थकं
भवेदिति भावः । एतच्च विस्तरोक्तं2037 भाष्ये । तस्यार्थो निगदव्याख्यातः ।


॥ इति शरीरस्यादृष्टनिष्पाद्यत्वप्रकरणम् ॥
  1. दास्यत्ये°C

  2. कर्मातिशयःC

  3. °गानीतिC

  4. अन्नाद्यग्रामा°J

  5. वेतिC

  6. अग्राह्यरा°C

  7. °न्याश्रयं नैवाप्रकॢप्तिमा°J

  8. °त्यापूरात्J

  9. °माप्लावयन्तिC

  10. °दात्मनः
    किञ्चिदिति
    J

  11. प्रलयसमयेC

  12. °श्चापवर्गाभावान्ना°C

  13. तत्त्वदर्शनेJ

  14. पत्तेरित्यर्थः C

  15. °गमविरुद्धमिति C

  16. अतिविस्तृतं C