454 इति । सोऽयमात्मविकल्पो बाह्योपादानो न भवतीति । यथा नीलविकल्पो
बाह्यनीलोपादानः, नैवमात्मविकल्पो बाह्योपादानो भवतीत्यर्थः ।


अत्रैवं भवान् प्रष्टव्यो जायते किमात्मविकल्पस्य बाह्योपादानत्वमात्रं प्रतिषिध्यते,
किं वा बाह्यात्मोपादानत्वम् ? पूर्वस्मिन् सिद्धसाधनम् । मा भूदात्मविकल्पो
बाह्यनीलाद्युपादानः, किं नश्छिन्नम् ? उत्तरस्मिंस्तु कल्पे क्वायं बाह्यात्मा सिद्धः,
यदुपादानत्वं विकल्पस्य प्रतिषिध्यते ? सिद्धश्चेत् क्वापि नास्यात्यन्ताय प्रति
षेधः । असिद्धश्चेत् कथमप्रतीतस्य निषेधः ? प्रतीतो विकल्पे बाह्ये निषिध्यते चैत्र
इव गेहे चत्वरतले निषिध्यते इति चेत् ? एवमपि यत्र प्रतीतस्तत्र न निषिध्यते, यथा
भवद्भिरेवोक्तम्
न तस्यैवाभावः शब्दप्रयोगतः
इति । बाह्यश्चात्मा विकल्पेन नोपदर्शित इति प्रसक्त्यभावान्न शक्यो निषेद्धुम् ।
अप्रदर्शितोऽप्यध्यवसित इति प्रसक्त एवेति चेत् ? अथ1827 कोऽयमध्यवसायो नाम ?
ग्रहणादतिरिक्तः ग्राह्यस्य स्वाकारस्य वा अलीकस्य वा बाह्याध्यारोप इति
चेत्—न, बाह्याऽविषया विकल्पा बाह्यमारोपयन्तीति1828 चित्रम् । न हि आरोपविषयारोप्ये
अजानान आरोपयितुमर्हतीत्यसकृदावेदितम् । अपि चालीकं प्रतीयमानं यथा न
निषेद्धुं शक्यं प्रतीयमानत्वाद् एवमस्य बाह्यत्वमपि । मिथ्यात्वात् प्रतिषिध्यत इति
चेत् ? किमलीकमपि सत्यं यत् तदुल्लङ्घ्य तस्य बाह्यत्वं प्रतिषेद्धुमध्यवसितोऽसि ?
1829बाह्यभेदाग्रहस्तु तदध्यवसायो न प्रसञ्जक इति न निषेधगोचरः । न च ज्ञानाकार
आत्मा परमार्थसन् बाह्यत्वेनारोप्यमाणः प्रतिषिध्यत इति सांप्रतम् । विज्ञाननये1830
सर्वथा बाह्यस्याग्रहे तत्समारोपासंभवात् । अत्यन्तासतश्च बाह्यस्य विज्ञानानात्मनो
ग्रहे तथा विधेनासता 1831विज्ञानानात्मना विज्ञानग्राह्येण किमपराद्धं येन तद्ग्राह्यं न
स्यादिति विज्ञाननयो दत्तजलाञ्जलिः प्रसज्येत । न चायमात्मा पूर्वापरकालावस्थायी

  1. ननु विकल्पस्य कोऽयम्C

  2. बाह्यविषया विकल्पा बाह्यमारोपयन्ति चेतिJ

  3. बाह्यभेदग्रहस्त°C

  4. विज्ञानमये हिC

  5. अविज्ञा°J