605

चतुर्थाध्याये द्वितीयाह्निकम्


तत्त्वज्ञानोत्पत्तिप्रकरणम्


दोषनिमित्तानां तत्त्वज्ञानादहङ्कारनिवृत्तिः ॥ ४ । २ । १ ॥


तदेवं संशयप्रमाणप्रमेयाणि परीक्षितानि । प्रयोजनादयोऽपि यत्र संशयस्त
त्रैवमुत्तरोत्तरप्रसङ्गः
इत्यतिदेशेन परीक्षिता इति षोडशापि प्रमाणादयः
परीक्षिताः । तेषां तत्त्वज्ञानं निःश्रेयसाधिगमहेतुरित्युक्तम् । तत्रापि प्रमेयतत्त्वज्ञानं
साक्षान्निःश्रेयसहेतुरितरेषां तु तत्त्वज्ञानाङ्गतयेत्युक्तम् । इदमिहेदानीं परीक्ष्यते, किं
प्रत्येकमात्मादीनां प्रमेयाणां तत्त्वज्ञानं निःश्रेयसाधिगमोपाय उताहो कस्यचिदेषा
मेकदेशस्येति । तामिमां परीक्षामवतारयति भाष्यकारः-किं नु खलु भो यावन्तो
विषयाः
प्रमेयाणि तावत्सु प्रत्येकमिति । प्रतिप्राणभृद्भेदं यावन्त आत्मानः,
2224यावन्ति शरीराणि, यावन्ति चेन्द्रियाणीत्यर्थः । पार्श्वस्थः पूर्वपक्षिणं
पृच्छति—कश्चात्र विशेष इति । पूर्वपक्षिण उत्तरम्—न तावदेकैकत्रेति ।
समुदायैकदेशाभ्यामनुपपत्तेः प्रमाणादितत्त्वज्ञानान्निःश्रेयसाधिगम इत्ययुक्तमिति पूर्वः
पक्षः । सिद्धान्तमाह—मिथ्याज्ञानं वै खलु मोह इति । वैशब्दः पूर्वपक्षाक्षमायाम्,
खलुशब्दो हेत्वर्थे । अयुक्तः पूर्वपक्षो यस्मान्मिथ्याज्ञानं मोह इति । न तत्त्व
ज्ञानमज्ञाननिवृत्तिमात्रेण निःश्रेयसोपयोगि, अपि तु संसारनिदानोच्छेदद्वारेण दृष्टेनैव ।
न च तत्त्वाज्ञानं संसारहेतुरपि तु मिथ्याज्ञानम् । तदुच्छिन्दद्विरोधितया तत्त्वज्ञान
मपवर्गहेतुरिति । भवत्वेतत्, तथापि पूर्वपक्षस्य 2225किमुत्तरमित्यत आह—तच्च
मिथ्याज्ञानं यत्र विषये प्रवर्तमानमिति ।
स्वसंबन्धिनो ह्यात्मादयो विपर्ययेण
परिच्छिन्नाः संसारहेतव इति तद्विषयमेव मिथ्याज्ञानमपनेयम्, नात्माद्यन्तरविषयम्2226

  1. यावन्ति चेन्द्रियाणि चेत्यर्थःC

  2. किमायातमि°C

  3. °षयं ज्ञानम्C