प्रासङ्गिकमवयवावयविप्रकरणम्
विद्याविद्याद्वैविध्यात् संशयः । ४ । २ । ४ ॥
तदेवं स्वमतेन प्रसंख्यानोपदेशमुक्त्वा पराभिमतप्रसंख्यानं निराकर्तु
मुपन्यस्यति—अथेदानीमर्थं निराकरिष्यता विज्ञानवादिना अवयविनि
निराकरणमुपपाद्यते । अर्थविषये2231 खल्ववयव्यनुव्यञ्जनसंज्ञे । तत्रार्थमात्रस्याभावात्
कुतोऽवयव्यनुव्यञ्जनसंज्ञे2232 ? तन्निराकरणाय प्रथममवयवी निराक्रियते, पश्चात्
परमाणुः । ततश्च ज्ञानमात्रमर्थरहितं सिद्धं भवतीत्यभिप्रायः ।
तत्र संशयपूर्वकत्वादुपपादनस्य विचारस्य संशयं प्रथममाह—विद्या…
संशयः ॥ उपलब्धिर्विद्या अनुपलब्धिरविद्या । सच्चोपलभ्यते यथा तडागे तोयम्,
असच्चोपलभ्यते यथा मरुमरीचिकायामुदकम् । सच्च नोपलभ्यते, यथा चिरनिखातं
भूमौ निध्यादि । असच्च नोपलभ्यते, यथा भूतले दृश्यमाने तत्तुल्योपलभ्मनयोग्यतो
घटादिः । तदेवं विद्याविद्याद्वैविध्यादवयविनि संशयः । यद्यवयव्युपलभ्यते तथापि
संशयः, अथ नोपलभ्यते तथापि संशय इत्यर्थः ॥ ४ ॥
तदसंशयः पूर्वहेतुप्रसिद्धत्वात् ॥ ४ । २ । ५ ॥
अत्र सिद्धान्ती वक्ष्यमाणमप्यवयविनिराकरणहेतुं निराकरिष्यामीत्या
शयवानाह—तदसंशयः…त्वात् ॥ अवयविनः । वार्त्तिककारस्तु स्वयं संशयं
निराकरोति, न विद्याविद्याद्वैविध्यं संशयस्य कारणमिति2233 ॥ ५ ॥