552 विशेषाः । तथा चोपपन्नो बुद्धिव्यपदेशभेदः संग्रहश्चेति भावः ।


तत्त्रै…भावात् ॥ अस्ववस्त्वादानेच्छा अस्वामिदानपूर्विका स्पृहा ।
पुनर्भवप्रार्थना तृष्णा । हेतुभूता प्रवृत्त्यादिद्वारेण पुनर्भवप्रतिसन्धानस्येति ।
प्रमाणविरुद्धेति अन्यायेनेत्यर्थः । परस्य ज्ञातेर्ममाप्येतदिति बुद्धिरभिनिवेशः ।
तत्प्रतिषेधाभिप्रायो 2047ज्ञातिविशेषस्येर्ष्येत्युच्यते । अमर्षलक्षणो द्वेष इति । नन्वयं2048
कृतापकारस्य या असहिष्णुता सोऽमर्ष इति द्वेषस्यैष विशेष इत्युक्तम्, कथं स एव
द्वेषसामान्यमुच्यते इत्यत आह—असहिष्णुता दुःखस्य दुःखसाधनानां चेति ।
मिथ्याप्रतिपत्तिलक्षणो मोह
इति । संशयोऽपि2049 हि वा2050 यथावस्थिते पदार्थे
अयथाभावप्रतिपत्तिर्भवति । व्यवस्थितं हि वस्तु अव्यवस्थिततया गृह्णाति संशयः ।
एवं पण्डितमानिनो मीमांसकदुर्दरूढस्याभिमान इति ॥ ३ ॥


नैकप्रत्यनीकत्वात् ॥ ४ । १ । ४ ॥


आर्यप्रज्ञेति भाष्यम् । आरात् तत्त्वाद् याता आर्या । आर्या चासौ प्रज्ञा चेति
आर्यप्रज्ञा । सम्यग् बोधः संबोधः ॥ ४ ॥


व्यभिचारादहेतुः ॥ ४ । १ । ५ ॥


एकयोनयो हि रूपादयो न चैषामेकत्वम् । यदि पुनस्तत्र रूपादीनां
परस्परभेदसिद्धये कश्चित् कारणभेद आस्थीयते, स रागादिष्वपि समान इति
भावः2051 ॥ ५ ॥


  1. ज्ञानिपिशाचस्ये° C

  2. अयम् J

  3. अपि Om C

  4. वा J

  5. ४-५ सूत्रयोः मुद्रितग्रन्थस्थित टीकापाठविपर्यासः C संस्करणे विशोधितः,J मातृकापाठस्तदनु
    कूलः ।