641

पञ्चमाध्यायः

पञ्चमाध्याये प्रथमाह्निकम्


सत्प्रतिपक्षदेशनाभासप्रकरणम्


साधर्म्यवैधर्म्योत्कर्षापकर्षवर्ण्यावर्ण्यविकल्पसाध्यप्राप्त्यप्रा
प्तिप्रसङ्गप्रतिदृष्टान्तानुत्पत्तिसंशयप्रकरणाहेत्वर्थापत्त्यविशेषोप
पत्त्युपलब्ध्यनुपलब्ध्यनित्यनित्यकार्यसमाः ॥ ५ । १ । १ ॥


अथ प्रमाणादयः पदार्था उद्दिष्टा लक्षिता परीक्षिताश्च । तत् किम् अपरमवशिष्यते
यदर्थं पञ्चमोऽध्याय आरभ्यत इत्यत आह—साधर्म्यवैधर्म्याम्यां प्रत्यस्थानस्य
विकल्पाज्जातिबहुत्वमिति भाष्यम् ।
तस्यार्थमाह वार्त्तिककारः जातेः
संक्षेपेणोक्ताया
इत्यादि । यद्यपि जातिनिग्रहस्थानभेदा जातिनिग्रहस्थानसामान्य
लक्षणानन्तरं प्रथमेऽध्याये युक्ता लक्षयितुम्, तथाप्येषां बहुतरत्वात् प्रमेयपरीक्षायां
विलम्बो मा भूत्, अपेक्षिता चासौ शिष्यैः, संशयादिपरीक्षां तु विना प्रमेयपरीक्षा
न शक्यते, तस्मान् मुनिः शिष्यानुरोधेन परीक्षां तावद् वर्तयांबभूव । तदनन्तरमवशिष्टं
जातिनिग्रहस्थानविशेषलक्षणं वर्तयति । जल्पवितण्डापरीक्षा चानन्तरं प्रवृत्ता । तदङ्गं
च जातिनिग्रहस्थाने इत्यवान्तरसंगतिरप्यस्तीति सर्वमवदातम् ।


साध…समाः ॥ विशेषोपयोगि सामान्यलक्षणमाह—तत्र जातिर्नामेति
प्रतिषेधबुद्ध्या प्रयुक्त इति शेषः । आह्निकारम्भमाक्षिपति—जातेः प्रयोगप्रतिषेधा
दिति ।
परिवर्जनं तु सामान्यमात्रज्ञानादपि भवन्न विशेषज्ञानमपेक्षत इति भावः ।
समाधत्ते—न आरम्भप्रयोजनस्योक्तत्वात् इति । एतदेव स्मारयति—स्वयं च
सुकरः प्रयोग
इति, प्राश्निकैः कतमा जातिरित्युक्ते स्वयं सुकरः प्रयोग इति ।
अथवा सद्विद्याविद्विषा अधिक्षिप्ते तत्त्वे अह्नाय च तन्निरासहेतावस्फुरति साक्षिणां
पुरत एकान्तपराजयाद् वरं सन्देहोऽप्यस्तु कथंचित् परपराजयो वेति बुद्ध्या