642 जल्पवितण्डयोः2335 पांशुभिरिवावकिरन् जातिं प्रयुङ्क्ते । तेन हि लोके तत्त्वमवस्थापितं
भवति । 2336अन्यथासन्मार्गप्रवृत्तो लोकः स्यात् । न च 2337खटचपेटादिभिर्विद्याविद्वेषिणो
निराकरणे तदुत्थापितकुहेतुनिराकरणधीरस्ति लौकिकानाम् । तस्मान्न खटचपेटादय
उपदेष्टव्याः शास्त्रकृतेत्यभिप्रायवानाह—साधुसाधननिराकरणार्थं चेति ।
अतत्त्वविषयत्वेन परमार्थतोऽसाध्वपि साधनमह्नाय दूषणस्याप्रतिभासनात्
साध्वित्युक्तम् । लाभपूजाख्यातिकामश्चेति अन्वाचये चकारः । प्रसिद्धं तावत्
तत्त्वपरिपालनं प्रयोजनम् । तस्मिन् सत्येवैतदप्यन्वाचीयत इत्यर्थः ।


मतान्तरं निराकर्तुमुपन्यस्यति—असाधुसाधनेति । तत्त्वविषयमपि
साधनमसाध्विति विदितवान् वादकाले चाप्रतिभयास्यासाधुत्वोपपादनं न परिस्फुरति ।
असाध्वेतदिति तु स्मरन्नेवासौ जातिं प्रयुङ्क्ते । तदिदमुक्तम्—अनभिज्ञतया
साधनदोषस्येति ।
अथवा जानन्नपि जातिं प्रयुङ्क्ते—तस्य साधनस्य दोषप्रदर्शनार्थं
प्रसङ्गव्याजेन
मदीयं तावद् दूषणाभासमेव । एवं त्वदीयमपि साधनाभासम् । यदि
तु तत् सम्यक् साधनं ततो मदीयमपि सम्यग् दूषणं स्यादिति प्रसङ्गः । तद्व्याजेन
साधनं दूषयतीत्यर्थः । तदेतत् परमतं दूषयति—एतत्त्विति । जात्यभिधाने हि
पर्यनुयोज्योपेक्षणं निरनुयोज्यानुयोगश्चेति द्वयं निग्रहस्थानं तस्माद् बुद्ध्वेत्ययुक्तम्2338
अथ न बुध्यते तत् किमिति जातिं प्रयुञ्जीतेति । यो हि सभादर्शनमात्रात्
पूर्वाभ्यस्तमपि विस्मरति तस्य कैव कथा अननुसंहितपूर्वजात्युद्भावनस्येति
भावः । एतेन बुद्ध्वा चाबुद्ध्वा वेति विकल्पासंभवेन अनैकान्तिके साधने प्रयुक्ते
पञ्चानां साधर्म्यसमवैधर्म्यसमविकल्पसमसाध्यसमसंशयसमानां जातीनां
प्रयोगः प्रत्युक्तः । पूर्वापरभाव इति । पूर्वस्य युक्तस्य साधनस्य पूर्वं युक्तमुत्तरम् ।
अपरस्यायुक्तस्य साधनस्यापरमयुक्तमुत्तरमिति ।


ननु साधर्म्यसमादीत्युच्यते, न च वस्तुतः साधर्म्यसमादीनां साम्यमस्ति

  1. जल्पवितण्डयोःJ

  2. इतरथा°J

  3. नखचपेटा°C

  4. °त्यु
    क्तम्
    C