271 वस्तुधर्मावितीति । धर्मशब्दो विशेषे । तदनवसायाद् वस्तुनः सामान्यतोऽवसाय
उक्तो भवति । तदिदमाह—वस्तुनः सामान्येनेति । अविरुद्धावप्येवं न विचारं
प्रयोजयत इत्यर्थः । प्रमाणतर्कसाधनोपालम्भपदस्य तात्पर्यमाह—अस्येति । अनेन
तस्य विशेषणम् इत्यादि भाष्यं व्याख्यातम् । यद्यपि वितण्डायामपि पक्षप्रति
पक्षपरिग्रहोऽस्ति, तथापि प्रतिपक्षसाधनं नास्ति तस्याः 1258स्थापनाहीनत्वात् । यद्यपि
च जल्पेऽपि 1259पक्षप्रतिपक्षसाधनमस्ति, तथापि न प्रमाणमूलैरवयवैस्तर्केण च
साधनोपालम्भाविति जल्पवितण्डाभ्यां प्रमाणतर्कसाधनोपालम्भग्रहणेन
व्यवच्छेदः । यथा चैतत् तथोपरिष्टादुपपादयिष्यते ॥


आक्षिपति—कथं पुनस्तर्केणेति । समाधत्ते—न ब्रूम इति । तर्कस्येति
कर्तव्यतारूपस्य प्रमाणानुग्राहकतया प्रमाणमूला अवयवास्तर्कमूला अपि भवन्ति ।
तथा च तर्कस्यापि साधनोपालम्भहेतुभावः सिद्धो भवतीत्यर्थः । विकल्प्याक्षिपति—
साधनमुपालम्भश्चास्मिन्निति । परं प्रति हि सिद्ध्युपालब्धी विवक्षिते । न च ते
प्रमाणतर्काभ्याम्, तयोः स्वप्रतिपत्तिहेतुत्वात् । अवयवार्थस्य अवयवशब्दार्थस्ये
त्यर्थः । उभयथाभिमतत्वेऽपि करणसाधनपक्षं 1260कक्षीकृत्य तावत् समाधत्ते—न,
अन्यार्थत्वादिति ।
अन्यप्रयोजनत्वादित्यर्थः । यदा तु भावसाधनौ तदा पृच्छति—
अथैताविति । विप्रतिपन्नस्य प्रश्नः । न प्रतिपक्षविषय उपालम्भो नापि तत्साधन
विषयः, तयोर्वस्तुनोः स्वकारणादुत्पन्नयोः सदा तद्रूपत्वेन पुरुषधर्मोपालम्भाना
स्पदत्वादित्याक्षेपार्थः । समाधत्ते—एवमेतदिति । धर्मी धर्मविशिष्टः पक्षः प्रतिपक्षो
वा कर्म, तस्य विषयः । तस्य धर्मिणो वास्तवं तादृशत्वमतादृशत्वं वा, करणस्य तु
कर्मैव विषयः । तत्र च1261 कर्मकरणे समर्थे एव, नासमर्थे । अन्यविषये तु पुरुषस्ते
नियुञ्जानोऽसमर्थीकरोतीति । सोऽयं पुरुषस्यापराधो न कर्मकरणयोः । यथा आकाशे
निशातमसिं व्यापारयतः पुरुषस्यापराधो नाकाशस्य शब्दे समर्थस्य, असेर्वा
निशातस्य दारुणि समर्थस्य । तस्मादौपचारिकः साधनस्योपालम्भो न मुख्यः ।

  1. साधनहीन°C

  2. पक्ष°OmJ

  3. कुक्षी°C

  4. OmC