309 यथा पक्षे सति प्रतिपक्षः, एवं स्थापनायां सत्यां प्रत्यवस्थानमिति । सूत्रार्थस्तु
यथाश्रुति, न पुनरुदाहरणसाधर्म्येण
यथाभाष्यं बोद्धव्यः । यद्येवम् भाष्यं तर्हि
कथमित्यत आह—उदाहरणार्थमिति । एवं वैधर्म्येण वेत्येतदपि । यथाश्रुति
पुनर्यथाभाष्यम् उदाहरणार्थं तदित्यर्थः । अस्य व्याख्यानस्य गुणाभिधानेन प्रश्नपूर्वकं
प्रपञ्चमाह—किमर्थमिदमिति ॥ १८ ॥


विप्रतिपत्तिरप्रतिपत्तिश्च निग्रहस्थानम् ॥ १ । २ । १९ ॥


सूक्ष्मविषया 1444प्रतिपत्तिर्विपरीता । स्थूलविषया च कुत्सिता, कथमसौ
निग्रहस्थानमित्यत आह—विप्रतिपद्यमान इति । अप्रतिपत्तिमाह—आरम्भविषय
इति । लाघवाय विप्रतिपत्त्यप्रतिपत्ती इति वक्तव्ये कस्मादसमासकरणमित्यत
आह—असमासाच्चेति । विप्रतिपत्त्यप्रतिपत्तिभ्यामन्यदपि हेतूदाहरणाधिकं नाम
जल्पे निग्रहस्थानमस्ति, तदपि ग्रन्थाधिक्येनावरुध्यत इत्यर्थः । आरम्भविषयेऽनारम्भ
इत्यादि भाष्यम्, तद् व्याचष्टे—स्वपरार्थोत्तरासंवित्तिरिति । द्वेधा
खल्वारम्भविषयेऽनारम्भो भवति, दूष्यं वा परोक्तं साधनं विप्रतिषेधहेतुं वा न
प्रतिपद्यते । सेयं परार्थोत्तरासंप्रतिपत्तिः उत्तरग्रहणं साधनमप्युपलक्षयति ।
स्वार्थोत्तराप्रतिपत्तिस्तु साधनप्रतिषेधहेतू परकीयौ प्रतिपद्य तत् प्रतिषेद्धुं1445 स्वकीयमुत्तरं
न प्रतिपद्यत इत्यर्थः । चोदयति—स्वयं प्रयुक्ते वस्तुतः समर्थे साधने कथम्
अप्रतिपत्तिर्विप्रतिपत्तिर्वेति
द्रष्टव्यम् । परिहरति—तदापीति । समर्थसाधनज्ञानं
साधनप्रतिपत्तिर्न साधनमात्रज्ञानमित्यर्थः ॥ १९ ॥


तद्विकल्पाज् जातिनिग्रहस्थानबहुत्वम् ॥ १ । २ । २० ॥


सूत्रान्तरमवतारयितुं भाष्यकार आह—किं पुनरिति । यद्यपि साधर्म्यवैधर्म्याभ्यां

  1. विप्रति°J

  2. °षेधंJ