310 दृष्टान्तस्यापि भेदः, तथापि लक्षणाभेदाभिप्रायेणाभेद उक्तः । तद्वि—त्वम् ।
नाना कल्प
इति स्वरूपतः, विविध इति प्रकारतः । यथालक्षणमिति
यथास्वरूपमित्यर्थः ।


अध्यायार्थं संक्षिप्याह वार्त्तिककारः—तन्त्रप्रतिज्ञेति । तन्त्रस्य शास्त्रस्य
प्रतिज्ञा प्रमाणादितत्त्वज्ञानान्निःश्रेयसाधिगम इति सूत्रम् । शास्त्रमेव हि तत्त्वज्ञानमिति ।
संसारः दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामिति । तन्निवृत्तिश्च संविदा उत्तरोत्तरापाये
तदनन्तराभावाद् अपवर्ग इति । तस्माद् यः प्रमाणादिसूत्रेणोद्देशः, तत्परिकरो द्वितीयं
सूत्रम्, द्वाभ्यामुद्देशः । शेषं सुबोधमिति ॥ २० ॥


॥ पुरुषाशक्तिलिङ्गदोषसामान्यलक्षणप्रकरणम् ॥

॥ इति श्रीवाचस्पतिमिश्रविरचितायां न्यायवार्त्तिकतात्पर्यटीकायां
प्रथमाध्याये द्वितीयाह्निकम् ॥

॥ प्रथमाध्यायः समाप्तः1446

  1. मङ्गलं महाश्रीः ॥ J