225

न्यायलक्षणप्रकरणम्


प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवाः ॥ १ । १ । ३२ ॥


प्रति—वाः ॥ ३२ ॥ वार्त्तिककारः सूत्रतात्पर्यमाह—अवयवानामिति ।
नन्ववयवसामान्यलक्षणम् अन्तरेणाशक्यो विभागोद्देशः, तद्विशेषलक्षणं च । न चेदं
सामान्यलक्षणं विभागपरत्वादित्यत आह—सूत्रम्, विभागपरमप्येतदर्थादवयव
सामान्यलक्षणं सूचयतीति सूत्रम् । अन्यपरादपि वाक्यात् प्रतीयमानोऽर्थोऽपेक्षितः
स्वीक्रियत एवेति शाब्दाः । तत्रावयवपदादेव सामान्यलक्षणमवगम्यते ।
अवयवत्वेनैकवाक्यता दर्शिता । सा च पदानां 1032परस्परमसंप्रत्यायितापेक्षितसंबन्ध
योग्यार्थप्रत्ययेन भवति । तस्मात् तथाविधार्थप्रत्यायनमेव प्रतिज्ञादीनामवयवसामान्य
लक्षणं सिद्धमिति सूत्रमित्यनेन दर्शितं वार्त्तिककृता इति । विभागोद्देशतात्पर्यमाह—
विभागेति । त्र्यवयग्रहणम् उपलक्षणार्थम्, द्व्यवयवमित्यपि द्रष्टव्यम् । अत्र भाष्यं
तत्राप्रतीयमान
इति । सामान्येनावगतधर्मिणि विशेषेणाग्निमत्त्वादिना सन्दिग्धे
अग्निमत्वादितत्त्वावधारणं प्रत्ययः । तस्यार्थः प्रयोजनं हानोपादानोपेक्षाबुद्धयः ।
1033तस्य प्रवर्त्तिका उत्पादिका जिज्ञासा प्रत्ययसाधनानुसरणद्वारेण प्रत्यासत्तिः
संशयतत्त्वज्ञानयोर्विशेषगता1034 न तु स्वरूपगता, संशयानन्तरया जिज्ञासया संशयस्य
व्यवधानात् । शक्यं प्रमेयम् । तस्मिन् प्राप्तिः शक्तता प्रमाणानां प्रमातुश्च । सा च
स्वरूपसहकारिभ्यां द्वेधा । तामिमां भाष्यकारोऽनया वचोभङ्ग्या दर्शयति—प्रमातुः
प्रमाणानीति । प्रतिज्ञादिवदिति ।
वैधर्म्यदृष्टान्तः । प्रतिपक्षोपवर्णनमिति । यदि
शब्दो नित्यः स्यात्, न स्यात् कृतक इति अनित्यत्वस्य नित्यत्वं प्रतिपक्षः । तस्मिन्
1035हेत्वभावोपवर्णनं न चायमकृतक इति । तदुपवर्णनप्रतिषेधे सति तत्त्वज्ञाना
226 भ्यनुज्ञानार्थम् ।
1036तत्त्वं ज्ञायतेऽनेनेति तत्त्वज्ञानं प्रमाणम् । तदभ्यनुज्ञानार्थं संशयव्यु
दास
स्तर्कापरनामा । व्युदस्यते हि तेन1037 प्रमाणाभ्यनुज्ञानद्वारेण 1038इतिकर्तव्यताभूतेन
संशय इति । तदेतद् भाष्यजातं प्रश्नपूर्वकं वार्त्तिककृद् व्याचष्टे—कथं पुनरिति ।
न पुनर्जिज्ञासादयः परप्रतिपादकाः
शब्दादवगताः सन्तः । अथ मा भूवन् परप्रति
पादकाः, स्वप्रदिपादका एव कस्मात् न भवन्तीत्यत आह—निश्चितत्वाच्चेति ।
साधनादेव गम्यते
1039प्राप्यते, प्राप्तं च ज्ञायत इत्यर्थः । शक्यप्राप्तिश्च ज्ञायत
इत्यर्थः । तत् किं सर्वथैवानङ्गं जिज्ञासादयः इत्यत उक्तं भाष्यकृता प्रकरणे तु
जिज्ञासादयः
समर्था इति । तदनुभाष्य व्याचष्टे—प्रकरणे त्विति । प्रकरणं कथा
प्रवृत्तिः । तदुत्थापका जिज्ञासादयोऽवयवा अङ्गमित्यर्थः । ते च जिज्ञासादय
उत्पन्नाः प्रकरणस्योत्थापकाः स्वरूपेण, न पुनः स्वज्ञानेन, येन 1040शब्दप्रतिपाद्याः
सन्तः प्रकरणेऽप्यङ्गं भवेयुः, यथा प्रतिज्ञादयः स्वज्ञानेन स्वार्थान् प्रतिपादयन्तः ।
तस्मात् सर्वथैव जिज्ञासादिवाचकपदप्रयोगोऽनर्थक इति भावः । अत
एवाह—परप्रतिपादकत्वादिति । तुशब्दो जिज्ञासादिभ्यो व्यवच्छिनत्ति ।
त्र्यवयवमपीत्यपिना द्व्यवयवनिषेधं1041 समुच्चिनोति । उपनयनिगमनयोरित्यत्र
प्रतिज्ञाया अपीति द्रष्टव्यम् ॥ ३२ ॥


साध्यनिर्देशः प्रतिज्ञा ॥ १ । १ । ३३ ॥


साध्य—ज्ञा । परिगृह्यतेऽनेनेति परिग्रहः । स च वचनं चेति परिग्रहवचनम् ।
उदाहरणम् अनित्यः शब्द इति । तदाक्षिप्य वार्त्तिककारः समाधत्ते—सिद्धत्वादिति ।
अग्निमानेव नातद्वान् नास्याग्निनेदानीमयोगः । स च पर्वतेऽग्निमति साध्यमाने
विशेषणविशेष्ययोः परस्परसंबन्ध1042लक्षणो नियमोऽर्थात् सिध्यति । न तु
227 साक्षादयोगव्यवच्छेद एव साध्यः, लिङ्गस्यान्यापोहविषयत्वानभ्युपगमात् । तस्य
निर्देश
इति निर्दिश्यतेऽनेनेति 1043प्रतिज्ञावाक्यमुच्यते ।


अत्रान्यव्यवच्छेदं वाक्यार्थं मन्वानो भदन्तः प्रतिज्ञालक्षणमति
व्याप्त्यव्याप्तिभ्यामाक्षिपति—उभयेति । उभयोरवधारणयोः प्राप्तौ संशयेन1044
किमिदमवधार्यते किं चेदमिति प्रसक्तावित्यर्थः । प्रतिज्ञावधृतेति । यत 1045एवकरणं
ततोऽन्यत्रावधारणमिति हि शाब्दा इति भावः । व्यतिरेकित्वादिति व्यभिचारा
दित्यर्थः । समाधत्ते—सर्वस्मिन् वाक्ये इति । संसर्गो वाक्यार्थ इत्युत्सर्गः । क्वचित्
पुनरन्यव्यवच्छेदोऽपीति । सामान्यश्रुतौ नियम इति । यथेन्द्रियार्थसन्निकर्षो
त्पन्नमित्युक्ते ज्ञानं सुखादि च सामान्येन प्राप्तम् । तत्र ज्ञानग्रहणं न विधायकम्,
प्राप्तत्वात् । अतः सुखादिव्यवच्छेदफलं विज्ञायते । यदि त्वस्मद्दर्शनमतिक्रम्य
सर्वत्रावधारणं करोति, ततोऽस्य लोकविरोध इत्याह—सर्वत्र चेति । तत् किं लोके
न क्वचिदवधारणमित्यत1046 आह—यत्र चेति । चोदयति—ननु चेति । सिद्धप्रति
पक्षः1047 साध्यशब्दस्यार्थ इत्यभिप्रायः । परिहरति—न सूत्रार्थेति । सर्वसन्देहे
ष्विदमुपतिष्ठते 1048व्याख्यानतोऽर्थप्रतिपत्तिरिति भावः । चोदकः स्वाभिप्राय
मुद्धाटयति—अथ पुनरिति । असाध्यनिर्देशः सिद्धनिर्देशः । तस्य निवृत्तिः साध्य
शब्दादवगम्यते, न तु प्रज्ञापनीयोऽर्थ इत्यर्थः । परिहरति—असाध्यं चेति । भवेदेतद्
यदि सिद्धमात्रमसाध्यं स्यात् । अपि त्वनुपपद्यमानं साधनं सिद्धिर्यस्य तदप्यसाध्यम् ।
तथा चासिद्धस्य चाक्षुषत्वादेर्निवृत्तिरित्यर्थः । पुनश्चोदयति—अथ पुनरिति ।
कृतकत्वादि 1049सिद्धं नाप्यनुपपद्यमानसाधनम् । नापि कृतकत्वादि पराङ्गत्वेनोपात्तं
येनाप्रज्ञापनीयं स्यादित्यर्थः । परिहरति—नैष दोष इति । प्रज्ञापनीयेन धर्मेण
धर्मिणो विशिष्टस्य परिग्रहवचनम्
इति सूत्रार्थः, न पुनर्धर्ममात्रपरिग्रहवचनमिति ।
अभ्युपगम्य व्यवच्छेदं शब्दार्थमेतदुक्तम्, परमार्थतस्त्वनियमः क्वचित् संसर्गः,
228 क्वचिद् व्यवच्छेद इत्यत आह—यच्चेदमिति । इतोऽपि नासिद्धयोर्हेतुदृष्टान्तयोः
प्रसङ्ग इत्याह—साध्यनिर्देश इति च प्रतिज्ञायामिति । प्रमाणतन्त्रः खल्वभ्युपगमः
सिद्धान्तः । न च चाक्षुषत्वादिषु प्रमाणमूलता, तदभिमानोऽपि बाधकादपाकृत इति ।
ननु यदि सर्वतन्त्रसिद्धान्तातिरिक्तानां सिद्धान्तान्तराणां साध्यत्वं तर्हि साध्येनैव
चरितार्थत्वाद् अपार्थकं पृथगभिधानमेतेषामिति । अत उक्तम्—अवस्थायामिति ।
विमत्यवस्थायाम्, सर्वतन्त्रे तु विमतिरशक्येत्युक्तम् । परिहारान्तरमाह—जिज्ञासा
दीति ।
विभागसूत्रेण प्रकरणोत्थानहेतवो वाक्यावयवतया निराकार्यत्वेन1050 जिज्ञासादयो
बुद्धिस्थीकृताः । तेन यत्र जिज्ञासादयः स साध्यः । न च चाक्षुषत्वादिषु प्रमाणबाधितेषु
सन्ति त1051 इत्यर्थः । परिहारान्तरमाह—अर्हत्यर्थ इति ।


अपरमपि 1052परिहारमाह—कर्मकरणयोर्वेति । एवं तावद् व्युत्पत्त्याद्यालोचनया1053
साध्यशब्दस्य न हेतुदृष्टान्तयोः प्रसङ्ग इत्युक्तम् । संप्रति लोक एवातिस्फुटास्तिस्रो
विधा अर्थानाम् । कृतमत्र सूक्ष्मानुसरणेनेत्याह—साध्यासिद्धसिद्धभेदादिति ।
अन्यतरासिद्धयोर्हेतुदृष्टान्तयोः प्रसङ्गो मा भूदिति कर्मतया ते उपादीयन्त इत्युक्तम् ।
उभयपक्षेति पक्ष शब्दो 1054वर्गवचनः । संप्रतिपन्नमुभयोर्वर्गयोरित्यर्थः । परिहारान्तरमाह
अथ वेति । अवयवानामेतत् प्रकरणम् । तेषां च प्रधानैकार्थप्रत्यायनेनैकवाक्यता
मापन्नानामवयवभावः । यत्प्रत्यायनोद्देशेन ते प्रवर्तन्ते तत्प्रधानम् । धर्मी च सिषा
धयिषितधर्मविशिष्टः । तथा च न साक्षात् तत्प्रत्यायनाय ते विभवन्तीति तदर्थं साधने
व्याप्रियन्ते । तेन सिषाधयिषितधर्मविशिष्टो धर्मी तेषां प्रधानं विषयश्च । प्रधानं च
प्रथमं बुद्धौ विपरिवर्तते इति साध्यशब्देन स एवोच्यते, न तु हेतुदृष्टान्तावप्रधाने
इत्यर्थः ।


तदेवमदुष्टमस्मल्लक्षणमिति यदस्मल्लक्षणमनेन दोषेण भङ्क्त्वा भदन्तेन
अन्यथा लक्षणं प्रणीतम्, तदेव दुष्टमित्याह—न चेदयमिति । ननु यत्र साध्यपदमस्ति
229 भवतु तत्रेष्टग्रहणमनर्थकम्, न त्वस्मिंस्तदस्तीति कथमिष्टग्रहणमनर्थकमित्यत
आह—कर्मग्रहणाच्चेति । मा भूत् साध्यपदम् । अस्ति तु पक्षपदम् । तदपि हि
1055पच्यमानं व्यज्यमानं साध्यमेवाह—तच्च कर्म । 1056कर्म चेप्सितमिति प्राप्तुमिष्ट
मित्यर्थः । चोदयति—अथाप्यनिष्टेति । नन्वनिष्टः पक्ष इति विप्रतिषिद्धमित्यत
उक्तम्—अर्थतः किलेति । वस्तुव्यवस्थापनाय प्रवृत्तस्य तादृशं नेष्टमित्यर्थः ।


बौद्धपक्षमुपन्यस्यन्नेव मध्ये तदभिमतं किञ्चिन्निराकरोति—अश्रावण इति ।
कृतव्याख्यानमेतत् प्रथमसूत्रे1057 । अपि त्वनुमानतः
कारणतो विकारात्1058
इत्येवमादेः1059 । न हि व्यङ्ग्यं व्यञ्जकं कारणमनुविधीयते1060 । नो खलु महति प्रदीपे घटो
महान् अल्पे वा अल्प इति । महति तु कारणे महान् शब्द इति । तस्मात् कारणतो
विकारात् कार्यः शब्दः, यथा महद्भिः स्थूलपिण्डैरारब्धोऽवयवी महानिति । तदनेन
प्रत्ययभेदभेदित्वं हेतुरुपलक्षितो भवति, आदिशब्देन च1061 सतः शब्दस्य

अभिव्यक्तौ दोषात्1062

इत्येवमादयो ग्राह्याः । दोषश्च दर्भेध्मादिवदुपयुक्तानामृचां निरिष्टिकत्वेन 1063पुनरु
पयोगः, कार्यत्वे पुनरन्यत्वेन निरिष्टिकत्वमित्यर्थः । यद्यप्यागमोऽपि शब्दानित्यत्वेऽस्ति
यथा
सोमं राजानमसृजत ततस्त्रयो वेदा असृज्यन्त ।

इति । तथापि
नासदासीन्नो सदासीदाम्नाय एव खल्वयमग्र आसीत् ।

इति नित्यत्वेऽप्यागमदर्शनात् अनिश्चयादनुमानस्यैवात्र प्रामाण्यम् । तथा चानुमान
विरोध इति । प्रसिद्धिविरोधं तु न बुध्यामहे प्रमाणविरोधाद् भेदेन । अबोधमाह—
230 कोऽयं प्रसिद्धिविरोध इति । एकग्रन्थेनाह—प्रसिद्धिः प्रत्यक्षादीनामिति । अचन्द्रः
शशीति । यदि चन्द्रे शशिशब्दवाच्यत्वं1064 निषिध्यते, तदा लोकव्यवहारा
वगतान्वयव्यतिरेकप्रभवानुमानविरोधः । अथ विकल्पज्ञानगोचरत्वनिषेधः, ततो
भवतां स्वसंवेदनप्रत्यक्षविरोधः । अस्माकं तु मानसप्रत्यक्षविरोध इति सर्वथा न
प्रमाणादन्या प्रसिद्धिरिति । तदेवं बौद्धपक्षमुपन्यस्य तदुक्तान्युदाहरणानि दूषयित्वा
बौद्धपक्षमुपसंहरति—एतदर्थेति ।


तदेतद् दूषयति—एतच्चेति । वस्तु हि यादृशं स्वकारणादुत्पन्नं तादृशमेव तत् ।
न तस्यान्यथाभाव इति न तत्र दोषो निविशते । तद्विषयाणि पदान्यपि प्रत्येकमदुष्टान्येव ।
या पुनः पौरुषेयी दृष्टमन्यत्रार्थमन्यत्र समारोप्य भ्रान्त्या वा परविप्रलम्भाय वा
प्रतिज्ञादिरूपेण वाक्यक्रिया, सा स्ववचनविरोधादिशालिनी दुष्टा । तद्द्वारेण पुरुषो
निगृह्यते, नार्थो न पदानीति । स्वार्थापवादः स्ववचनविरोधः कर्तृदोषो भ्रमो वा
विप्रलम्भो वा क्रियायामुपचर्यते । न च1065 क्रियायां भ्रमो वा विप्रलम्भो वा, तयोर
भिप्रायभेदतया पुरुषधर्मत्वात् क्रियाया वस्तुबाधनात् पुरुषाभिप्रायावगतिरिति
क्रियाद्वारेणेत्युक्तम् ।


चोदयति—अथ प्रतिज्ञाया इति । तदेतदतिप्रसङ्गेन दूषयति—नैतद् युक्तं
हेत्वादीति । न पुनर्दूषणानि न्यूनतावयवोत्तरदोषाक्षेपभावोद्भावनानीति ।

त्रैरूप्यसंपन्नो हेतुः पूर्णः । स त्रिषु रूपेष्वन्यतमेन रूपेण रहितो न्यूनोऽसिद्धो वा
विरुद्धो वा अनैकान्तिको वा भवतीति सोऽयं न्यूनतादोषो हेतोः । अवयवदोषश्च
प्रतिज्ञादोषः स्ववचनविरोधादिः । हेतुदोषोऽसिद्धत्वादिः । एवमुदाहरणदोषः
साध्यविकलत्वादिः । उत्तरदोषो जातिः प्राप्त्यप्राप्तिसमादिः । तस्याक्षेप उपादानं
स्वीकार इति यावत् । भावोऽप्रतिभादिः । स हि वादिनो वा प्रतिवादिनो वाभि
प्रायः । तस्योद्भावनानि दूषणानीति । न हि संभवे सत्युपचार इति । प्रतिज्ञागता हि
दोषा यदि तद्गतत्वेनोद्भाव्यमाना न वादिनो निग्रहमापादयेयुः, ततस्तत्र
231 निष्प्रयोजनत्वेनासंभवात् पक्ष 1066एवोपचर्येरन्, पारयन्ति तु प्रतिज्ञागतानि दूषणानि
निग्रहितुं वादिनमिति । सोऽयं प्रतिज्ञादोषाणां प्रतिज्ञायां संभव इति । कस्मात्
पुनर्मञ्चस्था इत्येवं न प्रयुञ्जते इत्यत उक्तम्—लौकिकप्रयुक्तवाक्यान्वाख्यानम्1067
न, अनादिर्लोक प्रयोगो नियोज्यः पर्यनुयोज्यो वेत्यर्थः ।


स्यादेतत् । इष्टग्रहणमनक्षरारूढमप्यभिप्रायव्याप्तं साध्यं यथा स्यादित्येवमर्थं
यथा परार्थाश्चक्षुरादय इति । अत्र हि 1068पारार्थ्यमात्रमक्षरारूढम् । न च तन्मात्रमस्य
साध्यम्, अपि त्वात्मपारार्थ्यम् । तच्च नोच्चारयति मा भूदनन्वयो हेतुः संघातत्वादिति ।
तस्मात् तदवरोधायेष्टग्रहणमित्याह—अथेष्टग्रहणेनेति । परिहरति—अयमप्यर्थः
साधनादेव गम्यते ।
प्रतिज्ञाप्रयोगादेव गम्यते1069 । अयमभिसन्धिः । वचनलिङ्गा हि
वक्त्रभिप्राया भवन्ति । यत्परं च वचनं स वचनार्थः । तात्पर्यं चास्य क्वचिद् वाच्ये
क्वचिल्लक्ष्य इति सर्व एवासौ वचनार्थः । यस्तु नैवंविधः कथमसौ वचनार्थः ?
कथमसौ1070 वाद्यभिप्रायव्याप्त इत्यवगन्तव्यम् । न च क्वचिदपि पक्षः प्रतिज्ञापद
वाच्यः, तस्य वाक्यार्थत्वेन लक्ष्यत्वादेवेति । अनिष्टनिवृत्तिरिष्टेति । तत्साधनम
न्विष्यमाणमपि तदानीमिष्टमेव । अन्यथा तत्र 1071प्रयत्नानुपपत्तेरिच्छापूर्वकत्वात् तस्येति ।
अथ संशयो विचारणेति । ततश्च संशयविषय इष्यमाणो जिज्ञास्यमानश्च साध्य
एव भवति, न साधनादिरित्यर्थः ।
स्थानान्तरीयं च भदन्तस्य लक्षणम्,

साध्यत्वेनेप्सितः पक्षो विरुद्धार्थानिराकृतः ॥

इति दूषयति—एतेनेति । अत्रापि हि साध्यपदादूर्ध्वं वृथाक्षरचतुष्टयमिति । तथा
पक्षो यः साधयितुमिष्टः
इत्यत्रापि 1072वसुबन्धुलक्षणे विरुद्धार्थानिराकृतग्रहणं न कर्तव्यम् । एतदुक्तं भवति—न
केवलमस्माकमेतद् विरुद्धार्थानिराकृतपदमनर्थकं प्रतिभाति, समानतीर्थानामपि
232 तथा विभाति, यतस्तैर्नोपात्तमिति । अत एवं वक्तव्यं पक्षो यः साधयितुमिष्ट इति ।
यद्यप्यत्रापि प्रयोज्यप्रयोजकव्यापारयोः साधयितुमिति समानम्, तथापि तुमुना य
एव साधयिता वादी स एवैषितेत्युक्तं भवति । न पुनर्वादिनो नियोक्ता साधयिता
वादी चैषितेति । एषितृत्वं च वादिनो ध्रुवं कृत्वैतदुच्यते, यदा पुनरेषितृत्वमपि
प्रयोजके संचार्यते, तदा स्वयंग्रहणेनाप्यप्रतीकार इत्यभिप्रायः । तत्त्वभाक्तयोश्चेति ।
सिद्धः साध्यस्य प्रयोजकः कर्ता । स हि सिध्यन्तं साध्यं साधयति वादी । तस्मिन्नियं
साधना समवेता । यस्तु तस्यापि प्रयोजकस्तृतीयस्थानपतितो न तस्मिन् साधना
समवैतीति । यः कारयति स करोत्येवेति कथञ्चिदस्य भक्त्या कर्तृत्वम्, तच्चायुक्तं
सति मुख्ये कर्तरीत्यभिप्रायः । 1073आञ्जसत्वं मुख्यत्वम् । पूर्वाभिप्रायस्थितमर्थ
मुद्धाटयति1074तुमुनश्चेति । अत्रोक्तं भाष्यकारीयाभ्युपगमसिद्धान्तनिराकरणा
वसरेऽप्रमाणकमर्थमिति । यस्तावत् शास्त्राविरुद्धोऽर्थः प्रमाणसिद्धः स शास्त्रीय
एव शास्त्राभ्युपेतप्रमाणसिद्धत्वात्, तं व्युत्पादयन् न शास्त्रं बाधते । यस्तु
प्रमाणीकृतवैशेषिकतन्त्रः शब्दनित्यत्वं साधयति सोऽनवधेयवचनः न हेत्व
भिधानं यावत् परिषत्प्रतिवादिभ्यां नीयते, अपि तु प्रतिज्ञोच्चारणानन्तरमेव निगृह्यते ।
यस्तु वैशेषिक तन्त्राध्ययनमात्राद् वैशेषिकत्वमात्मनो दर्शयित्वा शब्दनित्यतां
प्रतिजानीते नासौ प्रमाणीकृतवैशेषिकतन्त्र इति न निगृह्यते इति । यश्चाप्रमाण
कोऽभ्युपगम
इति । अभ्युपगम्यत इत्यभ्युपगमः । तदभिधानं प्रतिज्ञेति
वक्तव्यमिति ।
साध्यग्रहणात् तद्ग्रहणस्य लाघवादित्यर्थः । यस्तु तत्रभवता
नैयायिकेन
इति प्रकृतमुपसंहरति—तस्मादपेतेति ॥ ३३ ॥


उदाहरणसाधर्म्यात्साध्यसाधनं हेतुः ॥ १ । १ । ३४ ॥


अवान्तरसंगतिं प्रदर्शयन् प्रतिज्ञावचनस्य साधनाङ्गत्वमपि दर्शयति—
233 हेतोरवसरप्राप्तस्येति । प्रतिज्ञानन्तरं हेतुवचनस्यावसरः । तथा हि परप्रत्यायनाय
वचनमुच्चारयन्ति प्रेक्षावन्तः । तदेव च परे बोधयितव्या यद् बुभुत्सन्ते । तथा
सत्यनेनापेक्षिताभिधायिना1075 परो बोधितो भवति । नो खल्वाम्रान् पृष्टः
कोविदारानाचक्षाणः प्रष्टुरवधेयवचनो भवति । अनवधेयवचनश्च1076 कथं प्रतिपादको
नाम ? यथा च माठर समिधमाहरेति गुरुणा प्रेषित 1077एषोऽहमाहरामीत्यनुक्त्वा तदर्थं
यदायं दात्राय1078 गृहं प्रविशति, तदास्मै कुप्यति गुरुः । आः शिष्यापसद छान्दसवचर1079
माठर मामवधीरयसीति ब्रूवाणः । एवमनित्यं शब्दं बुभुत्समानायानित्यः शब्द
इत्यनुक्त्वा यदेव किञ्चिदुच्यते कृतकत्वादिति वा, यत् कृतकं तदनित्यमिति वा,
कृतकश्च शब्द इति वा तत् सर्वमस्यानपेक्षितम् आपाततोऽसंबद्धाभिधानबुद्ध्या1080,
तथा चानवहितो न बोद्धुमर्हतीति । यत् कृतकं तत्सर्वमनित्यं यथा घटः, कृतकश्च
शब्द इति वचनमर्थसामर्थ्येनैवापेक्षितशब्दानित्यत्वनिश्चायकमित्यवधानमत्रेति
चेत्—न, परस्पराश्रयत्वप्रसङ्गात्1081 । अवधाने हि सति अतोऽर्थनिश्चयः । तस्माच्चा
वधानमिति । न च परिषत्प्रतिवादिनौ प्रमाणीकृतवादिनौ यदेतद् वचनं संबन्धाय
प्रतीक्षेते1082, तथा च सति न हेत्वाद्यप्यपेक्षेताम्, तद्वचनादेव तदर्थनिश्चयात् । अनित्यः
शब्द इति त्वपेक्षित उक्ते कुत इत्यपेक्षायां कृतकत्वादिति हेतुरुपतिष्ठते । सोऽयं
पञ्चावयवप्रयोगे च तल्लक्षणे च प्रतिज्ञानन्तरकाल एवावसरो हेतोः । तदेवं
हेतोरवसरप्राप्तस्य सामान्यलक्षणापदेशद्वारेण तद्विशेषलक्षणसूत्रम्


उदा—तुः । श्रुत्यर्थाभ्यामुभयलक्षणसूचनात् सूत्रम् । 1083अत्र हेतुरिति लक्ष्य
निर्देशः । स च विभागोद्देशे वाक्यावयव इति वचनरूपः । तस्य सामान्यलक्षणं
साध्यसाधनमिति । साध्यतेऽनेनेति व्युत्पत्त्या यद्यपि पारार्थ्यापन्नं कृतकत्वादिक
मर्थमाह, तथापि तस्य वचनात्मकहेतुसामानाधिकरण्यानुपपत्तेर्विषयि कृतकत्वा
234 दित्यादिकं वचनमुपलक्षयति । यदि च1084 वचनं हेतुरित्युच्येत तत्साध्येन समभिव्याहृतं
प्रतिज्ञा स्यात् । अथ वचनमित्येतावदुच्येत, तदातिव्याप्तिः स्यात् । उपचारे तु न क्वचित्
प्रसङ्गः । उपनयादपि साधनं न पराङ्गतया गम्यते, किं तु प्रातिपदिकार्थप्रधानतया
स्वनिष्ठमिति न तत्रापि प्रसङ्गः । हेत्वाभासाश्च न साधनमिति साधनपदेनैव
निराकृताः । न्यायवाक्यावयवत्वादेव1085 च न शब्दे1086 प्रसङ्गः । तदेव समानासमानजातीय
व्यवच्छेदकत्वं सिद्धं सामान्यलक्षणस्य । इदं चार्थम् । श्रौतं तु विशेषलक्षणम् ।
हेतुरिति यद्यपि सामान्यपदम्, तथापि प्रकरणादन्वयव्यतिरेकिहेतुविशेषपरं1087 द्रष्टव्यम् ।
तेन हेतुरिति लक्ष्यनिर्देशः, परिशिष्टं तु लक्षणम् ।


तदेतद् भाष्यकृद् व्याचष्टे—उदाहरणेनेति । साधर्म्यपदव्याख्यानं
सामान्यादिति । साध्यसाधनपदव्याख्यानं साध्यस्य धर्मस्येति । साध्यस्येति धर्मिमात्रे
बुद्धिर्मा भूदित्यत उक्तं धर्मस्येति । धर्मसहितस्य धर्मिण इत्यर्थः । एतदेव
स्फुटयति—साध्ये प्रतिसन्धायेति । उदाहरणसाधर्म्यात् साध्यस्येत्यनेनान्वय
पक्षधर्मत्वे, अन्वयव्यतिरेकपक्षधर्मत्वानि च दर्शितानि । साध्यसाधनमित्यत्र च
साध्यग्रहणेनाबाधितत्वासत्प्रतिपक्षत्वे सूचिते, तद्विपरीतस्य साधनानर्हत्वादिति ।


तदेतद् वार्त्तिककारो व्याचष्टे—उदाहरणेनेति । यो धर्मो धूमादिः साध्ये
भवति
तथाभूत एवोदाहरणेऽपीति । उदाह्रियत इत्युदाहरणं दृष्टान्तधर्मी
तस्मिन्, न पुनः स एव । कुतः अन्यधर्मस्येति । यदि तर्हि नान्यस्य धर्मोऽन्यत्र1088
वर्तते, कथं तर्हि समानता ? सा हि तत्त्वान्यत्वविरोधिनीत्यत आह—किं तु तत्तुल्यः
स एवेत्युच्यते1089,
यथा तानेव शालीन् उपयुंक्ते1090 तानेव तित्तिरीनिति । तदनेन
सामान्याद् इति भाष्यं व्याख्यातम् ।


उदाहरणग्रहणप्रयोजनमाह—यदि पुनरिति । साधर्म्यमात्रत्वं1091 हि विरुद्धे
चासाधरणे सव्यभिचारे चास्तीति तेषामपि वचनं हेतुः स्यात् । तेषामपि यथास्वं
235 साधारणत्वादित्यनिष्टमित्यर्थः । ननु तथापि सव्यभिचारेऽप्युदाहरणसाधर्म्यमिति
कथं निवर्त्यत इत्यत आह—उदाहरणेति । विशिष्टविधानस्य शेषनिषेधोऽर्थसिद्ध
इत्यर्थः । पक्षान्तरमाह—अवधारणेन वेति । साधर्म्यादित्यतो विशेषेण सर्वसाधर्म्य
प्राप्तौ उदाहरणसाधर्म्यमपि प्राप्तमेवेति विधानानर्थक्यं परिसंख्यायकं सदवधारणार्थ
मेव भवति । तदवद्योतनाय च एवकारः । साधर्म्यमेवेत्यत्र साध्यपदं योजनीयम् । तेन
साध्यैकदेशासिद्धमपाकरिष्यति । पृच्छति—कस्य पुनरिति । उत्तरम्—
कस्यान्यस्येति । अत्रैव हेतुद्वयमाह—प्रकृतत्वात् प्रत्यासत्तेश्च । साध्यं खल्वत्र
प्रकृतं प्रधानम्, तदुद्देशेन अवयवानां प्रवृत्तेः । साध्यसाधनमिति च पदेन सन्निधा
पितमिति तदेव द्वितीयमवधारणं स्फुटीकरोति—अत्रापि चेति । साध्ये प्रतिसन्धाय
इति भाष्यार्थमाह—साध्योदाहरणाभ्यामिति । द्वाविति । सपक्षव्यापका
व्यापकावित्यर्थः । अनैकान्तिकस्य चेति । साधारणस्य असाधारणस्य चेत्यर्थः ।
एवं भाव्यमानेनेति । परिभाव्यमानेन । नातिप्रसक्तस्येति परिसंख्यायकं
हेत्वाभासलक्षणं न विधायकमित्यर्थः ।


एतत् किल हेतुलक्षणं भदन्तो दूषयांबभूव,
साधनं यदि साधर्म्यं न वाक्यांशो,
न ह्यर्थः पञ्चावयववाक्यस्यावयवः ।
न पञ्चमी ।
यदि साधनसाधर्म्ययोरत्यन्ताभेदो यदि वा सामान्यविशेषभावेन कथञ्चिद् भेदः,
उभयथापि न पञ्चमी, सामानाधिकरण्येन प्रथमाप्रसङ्गात् । अत्यन्ताभेदे चैकतर
पदाप्रयोगात् ।
वाक्यं चेत्
ततः पञ्चम्युपपद्यते । साधनं हि वाक्यरूपं साधर्म्यादर्थादुत्थितं यतः ।
तद्विशेष्यं स्यात्
236 न हि वाक्यमेवार्थादुत्थितम्, अपि तु विवक्षाद्यपीति1092 । न विशेष्यम् कुतः ?
साधनत्वादसंभवः ॥
अर्थसमुत्थानामपि ज्ञानविवक्षादीनामप्रसङ्गः, असाधनत्वादिति ।
न तत्रापि द्विधा दोषात्
साक्षाद् वा साधनं पारम्पर्येण वा ? यदि पारम्पर्येण, वक्तृज्ञानं तर्हि साक्षात्
साधर्म्यसमुत्थं पारम्पर्येण च श्रोतुः साध्यविज्ञानसाधनं हेतुः स्यात् । अथ साक्षात्
साधनम्, तर्हि श्रोतृज्ञानं पारम्पर्येण साधर्म्यसमुत्थं साक्षात् साधनं हेतुः स्यात् ।
प्रकृतत्वेऽन्यसंभवः ।
यदि तु पञ्चावयववाक्यस्य प्रकृतत्वात् ज्ञानादिव्यवच्छेदः, तथाप्यन्यसंभवः1093,
उपनयस्यापि साधर्म्यसमुत्थत्वात् ।

स्वलक्षणेन बाधा चेन्न विकल्पादिसंभवात् ।

तस्मात् षष्ठ्यस्तु तत्रापि विशेषणमनर्थकम् ॥

साधर्म्यस्य हेतुरित्येतावन्मात्रं वक्तव्यमिति ।


तदेतद् दिग्नागदूषणमुपन्यस्यति—उदाहरणसाधर्म्याच्चेति । यद्यर्थात्मकं
साधर्म्यमेव साधनमुच्यते तदैतद् दूषणमित्यर्थः । यदि पुनरर्थात्मकस्य साधर्म्यस्य
अर्थात्मकमेव साधनं सामान्यमुच्यते, तत्राह—अथ पुनरिति । तदिदमुक्तं भदन्तेन—न
पञ्चमी ।


अन्ये त्वेतदन्यथा व्याचक्षत इत्याह—अन्ये त्विति । विशेषातिरिक्तं न
सामान्यं नाम किञ्चिदस्ति, तस्य कल्पनामात्रत्वाद् भेदस्य च वस्त्वधिष्ठान
त्वादित्यभिप्रायः । दोषान्तरमाह—साध्यसाधनेति । यदा हि साध्यसाधनं नामोदाहरण
साधर्म्यादतिरिक्तं नास्ति, किं तु शब्दमात्रमवशिष्यते, तदोदाहरणसाधर्म्यमने
नाभिधेयत्वेन विशेषणीयम् । तथा च साध्यनिर्देशः प्रतिज्ञेत्यनेन विरोधः । अनेन
237 ह्यवयवः शब्दात्मकः प्रतिज्ञा लक्ष्यते, हेत्वादिसमुदायापेक्षया चावयवो भवति । न
चाभिधानाभिधेयात्मकः समुदायो दृष्ट इति । तस्मात् समुदायाभावात्
नोभयेषामवयवत्वम् । तदिदमुक्तम्—न वाक्यांश इति । तदेतल्लक्षणं
व्याचक्षाणैरस्माभिः परिहृतमिति न परिहारान्तरं प्रयोजयतीत्याह—तत्र त्विति ।
उक्तं यथा हेतुपदसन्निधौ साधनपदं हेतुपदे प्रवर्तते, न चोपनयप्रसङ्गः, तस्य
प्रातिपदिकार्थमात्रप्रधानत्वेन हेतुभावाप्रकाशकत्वादिति ।


अत्र चोदयति—साधर्म्यस्येति । साधर्म्यस्य लिङ्गस्य 1094कृतकत्वा
दिहेतुपदवाच्यस्य 1095व्यभिचारित्वादियोगादुदाहरणविशेषणयोगो न पुनः साध्य
साधनपदवाच्यस्य कृतकत्वादित्यादेर्हेतुवचनस्येत्यर्थः । तदुक्तं भदन्तेन—तत्रापि
विशेषणमनर्थकं वचनेऽपीत्यर्थः । तदेतद् दूषयति—वचस इति । वचनमपि दर्शन
भेदेन उभयथापि भवति, यथा मीमांसकानां नित्यं वचनम्, वैशेषिकाणामनित्य
मिति । केषाञ्चिदमूर्तः शब्दः, केषाञ्चित् मूर्त इति । यथाहुः
वायुरापद्यते शब्दताम्
इति । तथा प्रातिस्विकमपि भेदं सर्वेषामेव शब्दानामितिकरणो दर्शयतीत्याह—
दृष्टश्चेति । स्वचरितविरोधमाह—स्वयमिति । अनभ्युपगतेति । अनभ्युपगतोऽर्था
न्तरं विपक्षो यस्य हेतोरनित्यवे साध्ये कृतकत्वादेः स तथोक्तः । यदभ्युपगतं
भदन्तेन तस्मात् षष्ठ्यस्त्विति तद् दूषयति—यदपीति । विवक्षातः कारक
शब्दप्रयोगादिति ।
कारकत्वेन संबन्धित्वं लक्षणीयम्1096, क्रियाकारकभावगर्भत्वात्
संबन्धित्वस्य । न तु षष्ठी वा 1097हेतुपञ्चमी वा कारकविभक्तिरिति । अत्र भाष्यकारेण
1098शुद्धं हेतुवचनमुदाहृतम्—उत्पत्तिधर्मकत्वादिति । तस्य चोदाहरणसाधर्म्य
समुत्थत्वज्ञापनायोदाहरणमपि दर्शितम् उत्पत्तिधर्मकमनित्यं दृष्टमिति ।


238

तत्र भाष्यकारेण शुद्धं हेतुवचनमुदाहृतम् । तत्प्रतिज्ञापदेन पूरयित्वा वार्त्तिक
कृद्
आह—उदाहरणमिति । अत्र पृच्छति—किं पुनरिति । सतो विनाशो वा
अनित्यत्वम्, तद्योगो वा ? तच्चोभयमयुक्तम्, न हि सदसतोः कश्चिदस्ति
संबन्धः, असमानकालत्वात् । ततश्चानित्यः शब्द इति सामानाधिकरण्यं न स्यात्1099
अपि च शब्दस्य भूत्वा यदभवनम्, न तदेव पिठरस्य । न ह्यभवनत्वं नामास्ति
सामान्यम्, येन दृष्टान्तो न साध्यविकलः स्यात् । न च सामान्यातिरिक्तं सादृश्यं
वस्त्वन्तरं दृष्टमिष्टं वा । तस्मात् 1100मृष्टाशेयमनित्यत्वं साध्यमिति भावः । गूढधिय
उत्तरम्—यस्यानित्यत्वमस्ति तदनित्यम् । स्वाभिप्रायेण पृच्छति—अथेति ।
उत्तरवाद्यभिप्रायमुद्धाटयति—उभयान्तेति । अपरान्तेति वक्तव्ये उभयान्तग्रहणेन
पूर्वान्तनिवेशनं हेतोरुत्पत्तिमत्त्वस्यात्यन्तिकीं प्रत्यासत्तिमविनाभावोपयोगिनीं
दर्शयितुमिति । अवच्छेदकत्वं चोपलक्षणत्वम्1101, न तु विशेषणत्वम् । तच्चापरान्तस्य
भिन्नकालस्य संबद्धस्यापि विरोधितया बुद्धिस्थस्य संभवति । 1102तथा च यैवापरान्ता
वच्छिन्नस्य सत्ता पिठरस्य 1103सैवापरान्तावच्छिन्नस्य शब्दस्यापि । एवं सतासमवायोऽपि
तद्विधयोः पिठरशब्दयोः समानः । विरोधिभावः1104 पश्चाद्भावश्चाभावमात्रात् प्रध्वंसस्य
विशेषः । पृच्छति—अथोत्पत्तीति । न तावदुत्पन्नस्योत्पत्तिर्धर्मः, तदाप्युत्पद्यत इति
प्रत्ययप्रसङ्गात् । नाप्यनुत्पन्नस्य, असतो धर्मित्वायोगादिति भावः । गूढधिय
उत्तरम्—उत्पत्तिरिति । उक्ताभिप्रायवान् पुनः पृच्छति—का पुनरियमिति ।
उत्तरम्—असद्विशेषणस्य सतोऽत्यन्तमभावभावप्रतिषेधः । असदिति प्रागभावमाह,
विशेषणत्वं च प्रागभावस्य उपलक्षणत्वम् । तच्च भिन्नकालस्यापि बुद्धिस्थता
मात्रेणोक्तम् । तेनासद्विशेषणस्य सत इत्येतावतैव पूर्वान्तपरिच्छिन्नस्य सत्तासंबन्धः
सत्ता वा तद्विशेषणोत्पत्तिर्दर्शिता । यश्चेदृशस्तस्य गगनवत् नात्यन्तमसंभवः1105, नापि1106
239 गगनकुसुमवदत्यन्ताभाव1107 इति स्वरूपमुक्तमुत्पत्तिमुपलक्षयितुम् । उपलक्षणोप
लक्ष्ययोश्चाभेदविवक्षया सामानाधिकरण्यम् । न चैवं लब्धोत्पत्तिनि वस्तुन्युत्पद्यत
इति प्रत्ययप्रसङ्गः1108 । लभ्यमानोत्पत्तिनि तदवयवेषु तदुत्पादनानुकूलव्यापारा
वेशलब्धपूर्वापरीभावेषु तत्प्रयोगस्य लोके दर्शनात् । तस्मात् पूर्वान्तावच्छिन्नवस्तु
सत्तया तत्संबन्धेन वा तस्यैव वस्तुनोऽपरान्तावच्छिन्ना1109 सत्ता वा तत्संबन्धो वा
ज्ञाप्यत इति 1110सर्वं रमणीयम् ।


ननु भाष्यकृद् अभूत्वा 1111भवतीत्यस्य वाक्यस्यार्थमुत्पत्तिं वक्ष्यति1112, त्वं
पुनरसद्विशेषणस्य सतोऽत्यन्तमभावप्रतिषेध इत्यस्य वाक्यस्यार्थमुत्पत्तिम् । 1113अतः
कुतो न विरोध इत्यत आह—वाक्यार्थेति । य एवार्थो भाष्यकारेण उत्पत्तिशब्दार्थ
तयाभ्यनुज्ञातोऽङ्गीकृतः, स एवास्माभिरपि । नात्यन्तमभावप्रतिषेध उत्पत्तिः1114, अपि
त्वसद्विशेषणस्य सतः सत्ता वा तत्संबन्धो वेत्युक्तमित्यर्थः ॥ ३४ ॥


तथा वैधर्म्यात् ॥ १ । १ । ३५ ॥


सूत्रान्तरमवतारयति—किमेतावदिति । तथा—त् । अत्र यदि वैधर्म्या
दित्युच्यते ततः सकलकेसरादिमत्पदार्थपक्षीकरणेनाश्वत्वं यदा विषाणित्वेन साध्यते
तस्यास्ति पक्षवैधर्म्यमिति हेतुः स्यादित्यत आह—उदाहरणेन वैधर्म्यमिति ।
विपक्षेणेत्यर्थः । तथापि यदा शरीरमात्रं पक्षीकृत्य सात्मकत्वं साध्यते प्राणादिमत्त्वेन,
तदास्ति तस्योदाहरणेन वैधर्म्यमिति सोऽपि हेतुः स्यादित्यत आह—एवेति ।
चैतावता 1115सपक्षे सत्त्वप्रसङ्गः, सपक्षस्याभावात् । अवधारणस्य च व्याप्त्या
पक्षसत्त्वेनोपपत्तेरिति । तथापि अन्वयव्यतिरेकिणो हेतोरनैकान्तिकस्य च विपक्षै
240 कदेशव्यापिनः संग्रहः स्यात् । यथा अनित्यः शब्दः, उत्पत्तिधर्मकत्वाद् अनित्यो
मूर्तत्वादित्यत आह—वैधर्म्यमेव चोदाहरणेनेति विपक्षोदाहरणेनेत्यर्थः ।
भाष्यकारीयमुदाहरणं निगदेनोपन्यस्यति—अनित्यःशब्द इति । नित्यमनुत्पत्तिधर्मकं
दृष्टमिति योजना । तदेतद् दूषयति—एतच्चेति । मा भूत् प्रयोगमात्रभेदाद् भेदः,
उदाहरणभेदाद् भेदो भविष्यतीत्यत आह—उदाहरणमात्रभेदाच्चेति ।


तदेतद् भाष्यकारीयमुदाहरणं दूषयित्वा स्वकीयमुदाहरणमाह—उदाहरणं
त्विति ।
प्राणादिना च स्वकारणं 1116प्रयत्नेच्छाद्युपलक्षयति—यदुभयपक्षसंप्रतिपन्नं
निरात्मकं 1117घटादि तत्सर्वमप्राणादिमद् दृष्टम् इति 1118व्यत्यासेन योजना । 1119प्राणादिकारणे
च्छादिकारणरहितं यदित्यर्थः । तस्मात् नेदमिति । नेच्छादिसमवायिकारणरहितम् ।
यश्चासौ इच्छादिसमवायिकारणं पृथिव्यादिविलक्षणो द्रव्याणां नवमः, स
आत्मेत्युच्यते इत्यर्थः । अन्वयिव्यतिरेकिणस्तद्विवेकस्य1120 च तन्त्रान्तरप्रसिद्धेन नाम्ना
1121तन्त्रान्तरप्रसिद्धतां दर्शयति—सोऽयमवीत इति । विविधेन प्रकारेण इतः प्राप्तो
वीतः, पक्षव्यापकत्वे सति सपक्षव्याप्त्या अव्याप्त्या च, तस्मादन्योऽवीत इति ।


गूढाभिसन्धिः पृच्छति—कथं पुनरिति । गूढाभिसन्धेरुत्तरम्—अथ
योऽभ्यनुज्ञात
इति । यथा वीतस्यार्थपरिच्छेदकत्वं तथैवावीतस्येत्यर्थः । प्रष्टा
स्वाभिप्रायमुद्धाटयति11221123अन्वयादिति । गृहीताविनाभावो हि हेतुः साध्येन तस्य
परिच्छेदकः, स च दृष्टान्तधर्मिणि हेतुसाध्यधर्मयोर्दर्शने सत्यविनाभावो दृष्टो
भवति । न च सात्मकत्वं क्वचिद् दृष्टम्, तत् कथं तेनाविनाभावदर्शनं प्राणादिमत्त्वस्य,
दर्शने वा1124 नावीतः किं तु वीत एवेत्यर्थः । उत्तरवादी प्रष्टारं पृच्छति—अथ प्रमेय
त्वमिति ।
प्रष्टा आह—व्यभिचारादिति । उत्तरवाद्याह—न तर्ह्यन्वय इति । स
एवैकग्रन्थेनाह—यदि चेति । तदेवमुत्तरवादिना स्वाभिप्राय उद्धाटितः । पृच्छति—
241 कथम् । अव्यभिचारित्वं व्यतिरेकिण इति । अव्यभिचारमाह—यावदिति । अत्रापि
यावन्निरात्मकं तत् सर्वम् अप्राणादिमद् दृष्टमिति व्यत्यासेन योजना, साध्यविपर्ययस्य
व्याप्यत्वात् । व्यापकनिवृत्तौ च व्याप्यं निवर्तते, यथा वृक्षत्वनिवृत्तौ शिंशपात्वम्
आरादुपलभ्यमानादेकशिलामयादचलप्रदेशादित्यर्थः । यदि पुनरेवमुच्यते
निवर्ततामप्राणादिमत्त्वं जीवच्छरीरात् प्राणादिमत्त्वस्य प्रमाणत उपलब्धेर्मा निवर्तिष्ट
नैरात्म्यम्, तस्माद् व्यभिचारादहेतुरिति1125 शङ्कते—अथ पुनरिति । निराकरोति—न
युक्तमेवमिति । किं जीवच्छरीरे साध्ये नैरात्म्यनिश्चयाद् व्यभिचार उत तत्सन्देहात् ?
यदि निश्चयात् कृतं व्यभिचारेण, बाधितविषयत्वेनैव हेतोरपाकरणात् । अथ
सन्देहात्, तथा सत्यन्वयिनोऽप्यहेतुत्वे सर्वानुमानोच्छेदप्रसङ्ग इत्यर्थः ।


शङ्कते—सर्वात्मकत्वप्रसङ्ग इति चेत् ? निराकरोति—न, विकल्पानुप
पत्तेः ।
शङ्कावाक्यं विभजते—यदीति । न तावदयमात्मा नाम प्रमाणेन क्वचिदुप
लब्धः, यस्य प्रतिषेधो नैरात्म्यमवगम्येत, तदुपलम्भे वा कृतमनया कुसृष्ट्या ।
तस्मात् कल्पयित्वात्मानमप्रामाणिकं तत्प्रतिषेधस्य घटादावप्राणादिमत्त्वेन व्याप्तिं
गृहीत्वा जीवच्छरीरे व्यापकस्याप्राणादिमत्त्वस्य निवृत्त्या नैरात्म्यस्य व्याप्यस्य
निवृत्तेरात्मा अवगन्तव्यः । एवं च सति कल्पनाकोषस्यापरिमेयत्वात् यद् यदेव
कल्प्यते तत्तदभावस्य घटादौ सुलभत्वाद् अप्राणादिमत्त्वेन व्याप्तेर्जीवेच्छरीरेऽ
प्राणादिमत्त्वस्य व्यापकस्य निवृत्तेरात्मसद्भाववत् सकलकाल्पनिकडित्था
दिमत्त्वप्रसङ्ग इत्यर्थः ।


निराकरणवाक्यं विभजते—तच्च नैवम् । कस्मात्—विकल्पानुपपत्तेः ।
विकल्पयति—किमिति । अयमर्थः । प्राणादयो हीच्छाद्यन्वयव्यतिरेकानुविधायि
भावाभावतया इच्छादिकार्याः, अक्षणिकत्वे च व्यवस्थिते कार्यं समवायि
कारणापेक्षमितीच्छादीनां समवायिकारणेन 1126भाव्यम्, कार्यत्वाद् घटादिवत्,
शरीरेन्द्रियादीनां च समवायिकारणत्वनिषेधे सति यद् इच्छादीनां समवायिकारणं
242 परिशिष्यते, तद् द्रव्यमात्मेति च क्षेत्रज्ञ इति च जीव इति चाख्यायते । तदस्य
विशेषतोऽनवगतस्यापीच्छादिसमवायिकारणतया सामान्यरूपेणावधारितस्य
शक्यः प्राणादिरहितेषु घटादिष्वभावः प्रतिपत्तुम् । निरात्मकशब्देनापि चायमेवार्थ
उच्यते । अनेन प्राणादिलक्षणकार्याभावेन घटादौ नैरात्म्यलक्षणकारणाभावस्य
व्याप्तिरवधारिता । सोऽयं जीवच्छरीरे कार्यस्याभावो व्यापको निवर्तमानः
स्वव्याप्यं तत्कारणाभावमादाय निवर्तते इति सिद्धं जीवच्छरीरे प्राणकारणम्, स
चात्मेति । यदि च डित्थादयोऽपि 1127तादृशः, तदा आत्मनो नामान्तराणि नार्थान्तराणि ।
नामानि च लोकतन्त्राणि, न त्विच्छातन्त्राणीति1128 । अवधारितं कार्यं प्राणाद्युप
लक्षितमिच्छादि यस्य सोऽवधारितकार्यः । स एव स्वभावो यस्य स तथोक्तः ।
एतदुक्तं भवति । सामान्यतस्तावदिच्छादीनां कार्यत्वेनान्वयव्यतिरेकिणा हेतुना
समवायिकारणावत्त्वमनुमितम् । उभयसिद्धश्च घटादाविच्छादिकारणाभावः ।
येऽपि हि नैरात्म्यवादिनो बुद्धिं वा भूतपरिणामभेदं वा इच्छादिकारणमाचक्षते,
तेऽपि घटादौ न तदातिष्ठन्ते । तस्मादुभयसिद्धनैरात्म्या घटादयः । तेषु चेच्छा
दिकार्याभावेन नैरात्म्यं व्याप्तम् । सोऽयं जीवच्छरीरे कार्याभावो व्यावर्तमानः
कारणाभावं व्यावर्तयति । न च कार्येणैव कारणमनुमीयतां जीवच्छरीरे, किं
व्यतिरेकिणा,
ऋजुमार्गेण सिध्यन्तं को नु वक्रेण साधयेत्
इति वाच्यम्, कारणमात्रस्य ततः सिद्धेरित्युक्तम् । परिशेषाद् विशेषसिद्धिरिति
चेत् ? स एव व्यतिरेकीत्युक्तम् ।


यदि हि पृथिव्यादिसमवायिकारणा इच्छादयो भवेयुः, घटादिष्वपि प्रसज्येरन् ।
तस्माद् घटादिष्विच्छादिकार्यनिवृत्त्या द्रव्याष्टकातिरिक्तकारणनिवृत्तिर्व्याप्ता
दृष्टेतीच्छादयः शरीरे दृश्यमाना व्यापिकां स्वनिवृत्तिं निवर्तयन्तो व्याप्यद्रव्याष्ट
कातिरिक्तकारणाभावनिवृत्तिमुखेन नवमं द्रव्यं साधयन्ति । न चैषां बुद्धिरेव
243 समवायिकारणम्, द्रव्यस्यैव समवायिकारणत्वनियमाद् बुद्धेश्चाद्रव्यत्वात् । यथा
च भूतानां परिणतिभेदो न कारणं तथा तृतीये उपपादयिष्यते1129 । व्यतिरेकमुखेनापि
प्राणादेः सात्मकत्वेनान्वयसिद्धौ न केवलव्यतिरेकीति चेत् ? न स्वाभाविकं साध्येन
प्रतिबन्धमन्वयव्यतिरेकिणि व्यासेधामः, किं तु सपक्षाभावेन विधिमुखेनास्य
प्रतिबन्धं निराकुर्मः । एतावतैव चान्वयिनो भिद्यते । न च पक्ष एव सपक्षः,
जिज्ञासितविशेषस्य ज्ञातविशेषादन्यत्वात् । शरीरादिषु च सत्सु नैरात्म्यनिषेध
एवात्मसद्भावः, असन्निषेधस्य सद्भावलक्षणत्वात् । सपक्षाभावस्तु नैरात्म्येनाप्य
व्यपदेश्य इति कथं नैरात्म्यनिषेधेन व्यपदिश्यताम् असतोऽधिकरण
त्वायोगादित्युक्तम् ।


एतेन परैः यदुक्तम्,

सपक्षाव्यतिरेकी चेद् भवेद्धेतुरतोऽन्वयी ।

नान्वय्यव्यतिरेकी चेदनैरात्म्यं न सात्मकम्1130

इति, तदनेन निराकृतम् । एतच्चास्माभिरन्वयिहेतुसमर्थनेन स्फुटीकृतम्1131 । तस्मात्
सर्वमवदातम् ॥


विपक्षव्यतिरेकिमात्रेण व्यतिरेकिणो गमकत्वं मत्वा चोदयति—यदि तर्हीति ।
परिहरति—न, हेत्वर्थापरिज्ञानादिति । न वैधर्म्यमात्रेण गमकत्वम्, अपि त्व
व्यभिचारिणा । स चात्राव्यभिचारो नास्तीत्यर्थः । ननु मा भूद् गन्धवत्त्वं हेतुर्व्यतिरेक
व्यभिचाराद् अनित्यादिवन्नित्यादप्यस्य व्यतिरेकात् । यस्य तु पक्ष एव केवलं न तु
सपक्षविपक्षौ, न तस्य व्यतिरेकव्यभिचारोऽस्तीति स कस्मात् न हेतुरिति
चोदयति—यः पुनरिति । परिहरति—सत्यमिति । व्यतिरेकधर्मोऽव्यभिचारो नासति
व्यतिरेके संभवति, असतोऽधिकरणत्वायोगादित्युक्तत्वादिति1132 । प्रत्युदाहरणान्तरं
दर्शयति—एतेनेति । एतेन विपक्षाभावात् ततो व्यावृत्त्यभावेनेत्यर्थः । चोदयति—यः
पक्षैकदेश
इति । यदि हि पक्षैकदेशवृत्तिरपि विपक्षाभावात् न व्यतिरेकी हेतुः, तर्हि
244 यस्य पक्षैकदेशवृत्तेरपि सतो 1133विपक्षानिवृत्तिरस्ति स हेतुः प्रसज्येत । अस्ति
खल्वस्योदाहरणवैधर्म्यमेवेति व्यतिरेकिहेतुलक्षणमित्यभिप्रायः । परिहरति—
अयमपि न हेतुः, कस्मात् ? सूत्रार्थेनापोदितत्वात् । तं सूत्रपाठपूर्वकं दर्शयति—
सूत्रार्थ इति । अत्र च येन पक्षैकदेशवृत्तेर्व्यतिरेक्याभासस्य निराकरणं तदवधारणं
प्रथमं दर्शितम् । उदाहरणेनैव वैधर्म्यं नानुदाहरणेन पक्षेणापि । अस्य तु पक्षेणापीति
व्यतिरेक्यपि न हेतुः, न पुनर्वैधर्म्यमेवेति सूत्रार्थः । तथा सति सव्यभिचारमात्रस्य
निवृत्तिः स्यात्, न तु पक्षैकदेशवृत्तेरित्यर्थः ।


संप्रति 1134वासुबन्धवं हेतुलक्षणं दूषयितुमुपन्यस्यति1135हेतुर्विपक्षाद्विशेष
इत्यन्ये ।
एतद् व्याचष्टे—अन्ये त्विति । साधर्म्यमात्रनिराकरण इति । यस्य
कस्यचित् साधर्म्यस्य निराकरणे । विपक्षसाधर्म्यनिराकणे तावदिष्टस्य संग्रहः । यदा
तु सपक्षादिसाधर्म्यनिराकरणम्, तदा अनिष्टस्य विरुद्धादेः संग्रहः । उपलक्षणं चैतत् ।
इष्टानिष्टसंग्रह इति, इष्टपरित्याग इत्यपि द्रष्टव्यम् । स चानेकभेद इति । सपक्षादपि
विशेषे सति विपक्षाद् विशेषः, पक्षादपि विशेषे सति विपक्षाद् विशेषः, विपक्षमात्राद्
वा1136 विशेषः इति प्रकाराः । 1137तत्र पूर्वयोः प्रकारयोर्यथाक्रममसाधारणस्य चासिद्धस्य
च हेतुत्वप्रसङ्ग इति, तन्निवृत्त्यर्थं विपक्षादेव इत्यवधार्यते । द्वितीयमवधारणम
वतारयितुमाह—अवधारणे चेति । विपक्षादेवेत्यनेनावधारणेन विशेषोऽ
वधारितः, न विपक्षः । स चायं विशेषे चाविशेषे च प्रसृत इति विपक्षैकदेशवृत्तेरपि
पक्षसपक्षसाधारणस्य हेतुत्वप्रसङ्गः । तन्निवृत्त्यर्थं द्वितीयमवधारणं विशेष एवेति ।
उपसंहरति—तदेवमिति ।


तदेतदव्यापकत्वेन दूषयति—सत्यमेक इति । अत्र चोदयति—विपक्षैक
देशवृत्तिप्रतिषेधादिति ।
विशेष एवेत्यवधारणेन विपक्षैकदेशवृत्तिः गौरयं1138
विषाणित्वादिति1139 हेतुत्वेन प्रतिषिद्धः । तस्मादेतस्मिन्नवधारणे सत्येव
245 विपक्षादेवेत्यवधारणीयम् । तथा च विपक्षादेव यो विशेष एव स हेतुः । सपक्षात्तु यो
विशेष एव स न हेतुरित्युक्तं भवति ।
तथा च अश्वोऽयं विषाणित्वात्1140 इति
सपक्षाद् विशेष एवेति हेतुत्वेन प्रतिषिद्धो भवति । यस्तु सपक्षैकदेशवृत्तिः
प्रयत्ननान्तरीयकत्वादिः स सपक्षाद् विशेष एव न भवति, अपि तु
सामान्यमपीति ।
1141न तस्याहेतुत्वमवधारितमिति हेतुरेवासावित्यर्थः ।
परिहरति—यद्येवमिति । यदि सपक्षादपि यो विशेषः स सपक्षैकदेशवृत्तिः
प्रयत्नानन्तरीयकत्वादिर्हेतुः, एवं 1142सति विपक्षादेवेति अवधारणं बाधितं भवति ।
शङ्कते—अथेति । न विपक्षादेवेत्येतन्मात्रमवधार्यते, येन सपक्षैकदेशवृत्तिः
प्रयत्नानन्तरीयकत्वादिर्न हेतुः स्यात्, अपि तु यो विशेष एव स हेतुरिति प्राप्ते
विपक्षादेवेति नियम्यते, तेन 1143सावधारणस्य विशेषस्य विपक्षवृत्तेर्हेतुत्वं प्रतिषिद्धं
भवति यथा अश्वोऽयं विषाणीत्वादिति । यः पुनर्विशेषश्चाविशेषश्च सपक्षे
हेतुः, तस्य हेतुत्वेऽपि न विपक्षादेवेति बाधितं भवति । यद्यपि चैवं सत्यपि1144
सपक्षैकदेशवृत्तेर्हेतुत्वं न श्रुतम्, तथापि विपक्षादेवेत्यनेनावधारणेनानिषिद्ध
मित्यनुमतमेव । तेन चाश्रुतेनार्थेनार्थवती अवधारणे इत्यर्थः ।


निराकरोति—एवं चेति । यथा तत्तुल्यैकदेशवृत्तेरविहितमपि हेतुत्वम
निषेधादनुमतम् एवं पक्षैकदेशवृत्तेरपीति सोऽपि हेतुः स्यादित्यर्थः । पुनः
प्रत्यवतिष्ठते—नैष दोष इति । पक्षधर्मत्वे सति विशेष एव 1145विपक्षादेवेति नियमे
कुतः पक्षैकदेशवृत्तेः प्राप्तिः, अपक्षधर्मत्वात् तस्येत्यर्थः । परिहरति—यो धर्मः
पक्षस्येत्यनेनेति । पर
आह—न कर्तव्य इति । दूषयतिमवधारणं विकल्पयति—किं
पुनरिति ।
प्रथमं कल्पं गृह्णाति—अस्तु तावदिति । एतमपि दूषयितुं विकल्पयति—किं
पुनरस्येति । सामर्थ्यं
प्रयोजनाभिसंबन्धः संभवज्ञापनपक्षेऽज्ञापननिवृतिः प्रयोजनम् ।
असंभवनिवृत्तिपक्षे तु अत्यन्तायोगव्यावृत्तिः फलम् । यथा नीलं सरोजं भवत्ये
246 वेति । विकल्प्य दूषयति—उभयथापीति । युक्त्यन्तरमाह—न चेति । अत्यन्ता
योगो निषिद्धो भवति, न त्वयोग इत्यर्थः । शङ्कते—अथेति । विशेषणसंगतो
ह्येवकारोऽयोगं व्यवच्छिनत्ति, यथा चैत्रो धनुर्धर एवेति । हेतुविशेषणं चेत्
अपक्षधर्म एवेति । तस्मात् सिद्धं पक्षैकदेशे वृत्तेर्निराकरणमित्यर्थः । निराकरोति—
सत्यमिति । शेषमनुमानसूत्रे व्याख्यातप्रायमिति नेह व्याख्यातम् ।


हेतुर्विपक्षाद् विशेष इति च यदा सौत्रान्तिकपक्षमिति । यदा त्वनित्यत्वहेतौ
लक्ष्ये लक्षणं विचार्यते इति विपक्षशब्दार्थो वाच्यः1146 । ननु च नित्यो विपक्ष इत्यत
आह—न ह्यसतीति । न हि निरुपाख्यमाख्यायत इत्यर्थः । न चास्यापादानत्वं
नाप्यधिकरणत्वं येन पञ्चमी वा सप्तमी वा 1147प्रयुज्येतेति आह—न चासतीति ।
चासतो विपक्षाद् व्यावृत्त्यभावेन विशेषोऽपीत्याह—विपक्षासंभवे चेति ।
पक्षस्यैवेति ।
अत्र चैवकारास्त्रय पदान्तरानपेक्षत्वं सूचयन्ति । पक्षस्यैव धर्म इति
हेतुलक्षणे असाधारण एव हेतुः स्यात् । समान एव सिद्ध इति तु हेतुलक्षणे
1148अश्वस्य विषाणित्वे साध्ये गोत्वादिर्हेतुः1149 स्यात् । विपक्ष एव नास्तीत्युच्यमाने
अनित्यः शब्दः 1150प्रमेयत्वादित्ययं हेतुः स्यात् । तस्मात् त्रयः पक्षाः हेयाः तथा च
पक्षस्य धर्मः समाने च सिद्धः इत्यत्र सव्यभिचारो हेतुः स्यात् । पक्षस्य धर्मो
विपक्षे च 1151नास्ती
त्यत्रासाधारणो हेतुः स्यात् । समाने च सिद्धो विपक्षे च
नास्ती
त्यत्र अनित्यः परमाणुः कृतकत्वादिति हेतुः स्यादिति त्रयः । सप्तममभिमतं
पक्षमाह—पक्षस्येति । शेषं सुबोधम् ।


अत्र दिग्नागेन

सपक्षे सन्नसन् द्वेधा पक्षधर्मः पुनस्त्रिधा ।

प्रत्येकमसपक्षे च सदसद्द्विविधत्वतः ॥

इति नव पक्षधर्मान् हेतुतदाभासान् दर्शयित्वा
247
तत्र यः सन् सजातीये द्वेधा चासंस्तदत्यये ।

स हेतुर्विपरीतोऽस्माद् विरुद्धोऽन्यत्वनिश्चितः ॥

1152इत्यनेन हेतुतदाभासविवेको दर्शितः । तस्यार्थः । यः पक्षधर्मः स सपक्षे सन् असन्
द्वेधा इति 1153त्रिविधः, स पुनरसपक्षे सदसद्द्विविधत्वतः प्रत्येकं त्रिधा भवतीति ।
पक्षधर्मः सपक्षे सन् विपक्षे सदसद्द्विविधत्वतस्त्रिधा । पक्षधर्मः सपक्षेऽसन्1154 विपक्षे
सदसद्द्विविधत्वतस्त्रिधा, पक्षधर्मः सपक्षे द्वेधा विपक्षे सदसद्द्विविधत्वतस्त्रि
धेति1155 । अत्रोदाहरणम्,
प्रमेयकृतकानित्यकृतश्रावणयत्नजाः ।

अनित्ययत्नजास्पर्शानित्यत्वादिषु ते नव ॥

नित्यत्वादिषु साध्येषु प्रमेयत्वादयो नव हेतुतदाभासाः । तेषां यथासंख्यं नित्यत्वा
दीनि1156 साध्यान्युदाहरन्ति


नित्यानित्यप्रयत्नोत्थमध्यमत्रिकशाश्वताः ।

अयत्नानित्यनित्याश्च प्रमेयत्वादिसाधनाः ॥

तदेतेषु हेतुतदाभासेषु हेतुर्निर्धारितो येन तदुपन्यस्य वार्त्तिककारो व्याचष्टे—
तत्र य इति । तदेतद् दूषयति—यथाश्रुतीति ।


तत्र यः सन् सजातीये द्वेधा चासंस्तदत्यये इत्येतावन्मात्रात् न लभ्यते
इत्यर्थः । चोदयति—ननु चोक्तमिति । उक्तं दिग्नागेन,

साध्यधर्मो यतो हेतुस्तदाभासाश्च भूयसा ।

इति । तदेतत् परिहरति—उक्तमेतदिति । न पुनः पक्षधर्म एवेत्यर्थः, अवधारणमबुद्ध्वा
शङ्कते—अथापीति । अवधारणार्थालाभेनोत्तरमाह—सत्यमर्थादिति । ननु
अपक्षधर्मत्वनिवृत्त्यैव पक्षव्यापकत्त्वं1157 गम्यते, न ह्यव्यापको भवत्यपक्षधर्मत्व
निवृत्तिमानित्यत आह—अपक्षधर्मनिवृत्तिमात्रत्वेन चेति । अत्यन्तनिवृत्तिनिषेधेन
248 वृत्तिमात्रं स्यात् नैकान्तिकी वृत्तिरित्यर्थः । चोदयति—न प्राप्त इति । परिहरति—
नावधारणस्येति । हेतुहेत्वाभासावेव पक्षधर्मौ नान्य इति नियमज्ञापनार्थमवधारण
मिष्टं भवद्भिरित्यर्थः ।


शङ्कते—अथोभयेति । निराकरोति—तथापि सन् सजातीय इति । तदेतत्
पूर्वमेव व्याख्यातप्रायम् । द्वेधा चेति सर्वथा न वक्तव्यमिति । सन् सजातीय
इत्यस्योपादानेऽनुपादाने चेत्यर्थः । सन् सजातीय इति नोपादातव्यमिति यदुक्तम्, तत्र
शङ्कते—अथ मन्येतेति । निराकरोति—अवधारणेति । यद्यवधारणं युज्येत,
अवधारणार्थो युक्त आरम्भः स्यात्, तदेव त्वयुक्तमित्यर्थः । आद्ये पद इति । पक्षस्य
धर्म एव इत्येतस्मिन् पद इत्यर्थः । अन्यपदे इति । अन्ये पदे ययोः
पक्षधर्मत्वविपक्षासत्त्वयोस्ते तथोक्ते । तत्र द्वैविध्यं निराक्रियत इति । सन् सजाती
येति सर्वथेति
सजातीये द्वेधा चेति पदोपादाने चानुपादाने चेत्यर्थः । सजातीय एव
द्विधेत्यनेनैवेति
हेतुतदाभासयोरौत्सर्गिके पक्षधर्मत्वे स्थित इत्यर्थः । शङ्कते—अथ
मा भूदिति
सजातीय एव द्विधेति नावधारणमित्यर्थः । निराकरोति—तथापीति ।
सन् सजातीये द्विधेति मध्यमपदे इत्यर्थः । तदेवं सजातीये एव द्विधेत्यवधारणं
दूषितम् । संप्रति द्वितीयमवधारणं शङ्कते—अथ पुनरिति । निराकरोति—तथापीति ।
तथापि पक्षैकदेशवृत्तिरपि हेतुः प्रसक्तः । यदि च तदत्यय एवेति नावधार्येत
ततोऽनैकान्तिकोऽपि हेतुः स्यादिति दोषः ।


दिग्नागस्यैव प्रदेशान्तरहेतुलक्षणम्—ग्राह्यधर्मः पक्षधर्मः, तदंशेन तस्यैव
पक्षस्यांशेन साध्यधर्मसामान्येन, व्याप्तो हेतुरिति । 1158तदेतद्धेतुलक्षणमुपन्यस्यास्मिन्
पूर्वोक्तं दोषमतिदिशति—एतेनेति । अतिदेशमेव स्फुटयति—अव्यापकादिरिति ।
यथाश्रुतलक्षणे1159 पक्षाव्यापकस्य हेतुत्वम्, तदंशेन व्याप्त1160 इत्यस्य विवरणालोचनेन
सपक्षे सत्त्वं विपक्षाच्च व्यावृत्तिरित्यर्थः । तथा च पूर्वोक्तदोषानुषङ्ग1161 इत्यर्थः ।
सिंहावलोकितन्यायेन दूषयति—असंस्तदत्यय इतीति ।


249

अन्येषां हेतुलक्षणं दूषयितुमुपन्यस्यति—तादृगिति । तदेतद्व्याचष्टे—
तादृशेति । किलकारोऽरुचौ । पक्षधर्म इति च हेतोरभिधानम् । तेन त्रिलक्षण
प्रविभावितात्मा1162 हेतुरित्यर्थः । दूषयति—यत् तावदिति । श्रावणत्वाद्यपीति ।
तदुक्तोऽसाधारण इत्यर्थः । यस्तु 1163तादृगविनाभावीति विपक्षे सत्ताप्रतिषेधात्
1164सपक्षे सत्त्वं गम्यते एव1165, विशेषनिषेधस्य शेषाभ्यनुज्ञाविषयत्वादिति मन्येत, तं
प्रत्याह—भवतु तावदिति । एकदेशाभ्यनुज्ञानेऽपि विशेषनिषेधस्योपपत्तेर्न
समस्ताशेषाभ्यनुज्ञाने प्रमाणमस्तीत्यभिप्रायः । चोदयति—ननूपदर्शनग्रहणादिति ।
परिहरति—न तल्लभ्यत इति । न हि चाक्षुषत्वमिति । बौद्धानां रूपत्वादिजाते
र्नित्याया अभावाद् न चाक्षुषत्वमनित्यत्वेन विना भवतीत्यर्थः । यस्तु मन्येत
विशेषनिषेधस्य शेषमात्राभ्यनुज्ञाहेतुत्वेनागृह्यमाणविशेषत्वात् पक्षसत्ताभ्यनुज्ञानम्,
तथा चोपदर्शनपदेन पक्षे हेतोः सत्तोपदर्शनं भवतीति तं 1166प्रत्युपेत्याह—उपेत्य वेति ।
सुबोधम् ।


तदेवं लक्षणं दूषयित्वा तदुदाहरणं दूषयति—यत्त्विदमिति । एतस्मिन् हेतु
लक्षणे इत्यर्थः । प्रयत्ननान्तरीयकत्वं प्रयत्नकारणकत्वं तत् साक्षात् पारम्पर्येण वा ?
तत्र प्रथमे कल्पे दूषणमाह—प्रयत्नानन्तरीयकत्वस्येति । द्वितीयकल्पमाशङ्क्य
दूषयति—अथेति । प्रयत्नग्रहणमपार्थकमित्यर्थः । भावप्रत्ययवाच्यं विकल्प्य
दूषयति—यच्चेदमिति । एवमप्युपलब्धेरेवेति । न हि बौद्धराद्धान्ते किञ्चिदुपल
भ्यमानं नित्यमस्ति, येनोपलब्धिर्विशेष्येत 1167इत्यभिप्रायः । प्रयत्नानन्तरमन्यथा
चेति ।
यत् 1168तावदुपलब्धिकर्म तत्सर्वं प्रयत्नादेव पुरुषव्यापारादेवोपलभ्यते
नान्यथेत्यर्थः । शङ्कते—अथेति । 1169अस्माकं नैयायिकानामिति भावः । उत्तरम्—
त्वयैवेति । अस्मद्दर्शनं चेदास्थाय त्वया बौद्धेनोच्यते, ततः प्रयत्नग्रहणेना
प्यनैकान्तिकत्वं तदवस्थमेवेत्यर्थः । अव्यापकं चेति । न हि दवदहनाभिघात
250 प्रस्फुटद्वेणुदलविभागजन्मा ठात्कारोऽस्मदादिप्रयत्नकार्य1170 इत्यर्थः । शङ्कते—अथेति ।
वर्णात्मकमित्यर्थः । निराकरोति—तत्रापीति । पारम्पर्येणापि प्रथम एव वर्णः
प्रयत्नानन्तरीयकः, न द्वितीयादयः । अतिपारम्पर्याश्रयणे त्वतिप्रसङ्गः, प्रायेण तस्य
तत्र तत्र सुलभत्वादिति भावः1171 । शङ्कते—अथ य इति । विशेषः प्रयत्नानन्तरीयकत्वं
धर्मिविशेषणम्, प्रयत्नानन्तरीयकत्वं सामान्यं च हेतुरित्यर्थः । निराकरोति—
तथाप्यन्य इति । न हि भवतामस्माकमिव विशेषातिरिक्तमस्ति सामान्यं वस्तु सद्1172
यो हेतुः स्यात् । न च कल्पनारोपितं हेतुः सम्यग्ज्ञानस्य भवितुमर्हति, न
चात्यन्तासतः कल्पनापि संभवतीति भावः ।


तदेवमुदाहरणं दूषयित्वा प्रसङ्गेन परेषामुदाहरणविचारं दूषयति—
यदप्युक्तमिति । यत् खल्वसत्1173 सर्वसामर्थ्यरहितं तदाश्रितानाश्रितभावाभावधर्मवन्न
भवतीत्यर्थः । नित्यं तु किञ्चिद् भवतीति । तस्य धर्मयोगः संभवत्येव, न
त्वस्याप्यप्रयत्नानन्तरीयकत्वं त्वप्रत्ययाभिधेयं हि जन्म, तत्1174 प्रयत्नेन प्रयत्नादन्येन
वा विशेषणीयम्, यस्य तु जन्मैव नास्ति तस्य तद्विशेषणं दूरोत्सारितमित्यर्थः ।
एतेनाभाव इति । नैयायिकाभिमतोऽप्यभावो व्याख्यातः । तस्यापि हि प्रागसतः
स्वकारणे न1175 समवाय इति जन्म नास्तीति न तद्विशेषणयोग इत्यर्थः ।
प्रकृतमुपसंहरति—तदेवमिति ॥ ३५ ॥


साध्यसाधर्म्यात्तद्धर्मभावी दृष्टान्त उदाहरणम् ॥ १ । १ । ३६ ॥


हेतावुक्ते नाव्याप्तोऽसौ साध्यधर्मेण हेतुभावे व्यवतिष्ठते, न च व्याप्तिप्रदर्शन
मुदाहरणमन्तरेणेति हेतुलक्षणानन्तरं क्रमप्राप्तमुदाहरणलक्षणमाह—साध्यरणम् ।
सूत्र
मित्युदाहरणसामान्यलक्षणमप्यनेन सूचितमिति1176 दर्शितम् । अस्य
251 तात्पर्यमाह—अस्येति । दृष्टान्तोऽर्थरूपो नोदाहरणस्य वचनात्मकस्य स्वरूपतो
लक्षणं संभवति । तस्मात् स्वाभिधायकवचनोपलक्षकत्वेन लक्षणत्वं सामानाधि
करण्यं च भजत इत्यभिसन्धिनोक्तम्—उदाहरणोपलक्षणमिति । अनेन च
समानजातीयेभ्यः प्रतिज्ञादिभ्यः असमानजातीयेभ्यश्च प्रमाणादिभ्य उदाहरणं
व्यवच्छिन्नं भवति । साध्येन साधर्म्यम् इत्यादि भाष्यम् । तस्यार्थः । साध्येन धर्मिणा
शब्देन, साधर्म्यं दृष्टान्तस्य स्थाल्यादेः कृतकत्वं हेतुः । तद्ध्यनित्यत्वेन1177 साध्ये च
शब्दे दृष्टान्ते च स्थाल्पादौ समानम् । तस्मात् कारणात् प्रयोजकात्, तद्धर्मभावी
तस्यैव साध्यस्य शब्दस्य यो धर्मो धर्मान्तरम्, येन विशिष्टः शब्दः
सिषाधयिषितोऽनित्यत्वेन, तदनित्यत्वं तद्धर्मः । स एव भावस्तद्भावः1178 । सोऽस्यास्तीति
तद्धर्मभावी स्थाल्यादिरनित्यत्वधर्मवानिति1179 यावत् । तेन तादृशा दृष्टान्तेनोपलक्षितं
तद्विषयं वचनमुदाहरणमिति ।


तत्र वार्त्तिककारः सूत्रपदं व्याचक्षाण एव फलतो भाष्यं व्याचष्टे—
साध्येति । उदाहरणसाधर्म्यादित्यस्य व्याख्यानं साध्यसाधर्म्यादित्यत्रापि
योजयति—अत्रापीति । साध्यशब्देनैव कृतकत्वं साधर्म्यं दृष्टान्तस्य, नासाध्येन
विपक्षेणाकाशादिना नित्येन, ततो हि कृतकत्वं व्यावृत्तमिति । तथा च सव्यभिचारो
व्यवच्छिन्नो भवति । साधर्म्यमेवेति भागासिद्धो व्यवच्छिन्नः । यस्मात्
साध्यसाधर्म्यात् तद्धर्मभावी भवति,1180
सोऽयं दृष्टान्त उदाहरणमिति यावद् वाक्यं
न समाप्यते, तावदर्धोक्त एव पृच्छति—किं कुतश्चिदिति । अवधारणद्वययोगिनः
साध्यसाधर्म्याद् दृष्टान्तोऽवश्यमेव तद्धर्मभावी भवतीति गतार्थं तद्धर्मभावीत्येतदिति
भावः । उत्तरम्—न भवत्यपीति । यथा नित्ये शब्दे साध्ये अमूर्तत्वादेः साध्येन
शब्देन कर्मणः साधर्म्यात् कर्म न तद्धर्मभावि भवति, नित्यं न1181 भवतीत्यर्थः ।
साध्येनैवेत्यवधारणेनैव एतदुदाहरणं प्रत्युक्तमिति । शिष्योपाध्यायश्यामत्वमैत्र
252 तनयत्वादयोऽत्रौपाधिकसंबन्धा उदाहार्याः । हेतुलक्षणे तु सामान्यलक्षणापेक्षं
विशेषलक्षणमिति नातिव्याप्तिः । अत्र च साध्यसाधर्म्यग्रहणेन साधनविकलमनु
दाहरणं भवतीत्युक्तं भवति । यथा नित्यः शब्दोऽमूर्तत्वात् परमाणुवदिति
तद्धर्मभावीत्यनेन 1182च साध्यविकलं परास्तम् । यथा नित्यः शब्दो मूर्तत्वात्
कर्मवदिति । एतेनोभयविकलमपि 1183पराकृतम् । यथा नित्यः शब्दोऽमूर्तत्वाद् घटवदिति ।
पञ्चम्युपादानेन च साध्यसाधर्म्यप्रयुक्तं तद्धर्मभावित्वं यत्र वचने प्रदर्श्यते तदेवोदाहरणं
नान्यदिति दर्शितं भवति । प्रयोजकत्वं च साध्यसाधर्म्यस्य हेतोः स्वाभाविकः
संबन्धो व्याप्यत्वमिति यावत् । प्रयोज्यत्वं 1184च साध्यसाधर्म्यस्य व्यापकत्वमेव1185
तेनाप्रदर्शितान्वयविपरीतप्रदर्शितान्वययोरनुदाहरणत्वमुक्तं भवतीति । तद्यथा अनित्यः
शब्दः उत्पत्तिमत्त्वात्, पटवदिति । यो योऽनित्यः, स 1186सर्व उत्पत्तिमान् यथा घट
इति1187 । समाख्यानिर्वचनसामर्थ्यात् सामान्यलक्षणमप्यनेन सूचितमित्याशयवता
भाष्यकृता समाख्याया निरुक्तिः कृता1188 । तां वार्त्तिककारो दर्शयति—
उदाह्रियतेऽनेनेति ।


चोदयति—ननु चेति । परिहरति—नैष दोष इति । वचनस्य विशेषणत्वे
नोपलक्षणत्वेनेत्यर्थः । अभिधीयमान इति चाभिधानोपलक्षणपरम्, नाभिधेयपरम्,
असामानाधिकरण्यदोषस्य तादवस्थ्यात् । तद्धर्मभावीति सूत्रावयवव्याख्यानपरं
भाष्यम्—तस्य धर्म इत्यादि । अत्र चोत्तरमिति गूढाभिप्रायम्1189 । तदेतद् भाष्यमनु
भाष्यव्याचष्टे—तस्य धर्म इति । तस्य धर्मस्तद्धर्म इति हि धर्मस्य संबन्धित्वेन
पृथग्वचनम् । न च धर्म एव धर्मस्य, नापि धर्मान्तरं धर्मस्य, किं तु धर्मिण
इत्यर्थः । भाष्यकारीयामनुपपत्तिमुक्त्वा वार्त्तिककारः स्वकीयामप्याह—धर्मे च
साध्य
इति । अनेन हेतूदाहरणोपनयलक्षणैर्व्याघात1190 उक्तः । भाष्यम् । साध्यसाधर्म्याद्
253 उत्पत्तिधर्मकत्वादिति,
तद्व्याचष्टे—तस्य धर्मिण इति1191तद्धर्मभावी भवतीति,
तदनुपपन्नं; न हि कृतकत्वात् स्थाल्यादेरनित्यत्वं भवति1192, जायते बीजादिवाङ्कुर
इत्यत उक्तम्—भवति विद्यते ॥ ३६ ॥


तद्विपर्ययाद्वा विपरीतम् ॥ १ । १ । ३७ ॥


वैधर्म्योदाहरणस्य लक्षणम्—तद्वि—तम् । अनुवृत्तेन पूरयित्वा सव्याख्यानं
सूत्रं पठति—साध्यवैधर्म्यादतद्धर्मभावी दृष्टान्त उदाहरणमिति । सात्मकतया
साध्येन जीवच्छरीरेण वैधर्म्याद् घटादेर्दृष्टान्तस्य सात्मकत्वसाधर्म्यविरहादिति
यावत् । तस्य साध्यस्य जीवच्छरीरस्य धर्मः प्राणादिमत्त्वं तद्धर्मः । स एव
भावस्तद्धर्मभावः । सोऽस्यास्तीति तद्धर्मभावी । न तद्धर्मभावी अतद्धर्मभावी
प्राणादिरहितो घटादिरिति यावत् । एतदुक्तं भवति, यत्र घटादौ साध्यधर्माभाव
प्रयुक्तः साधनधर्माभावः, स घटादिवैधर्म्यदृष्टान्तः । तद्विषयः शब्द उदाहरणमिति ।
सूत्रस्थश्च वाशब्दः समुच्चये वेदितव्यः, व्यतिरेकविषयत्वाद् वैधर्म्योदाहरणस्येति ।
अत्र भाष्यकारेणान्वयव्यतिरेकी पूर्वसूत्रोदाहृतोऽत्राप्युदाहृतः । साधनधर्माभाव
प्रयुक्तत्वं च साध्यधर्माभावस्योक्तम्, तच्चायुक्तम् । अन्वयव्यतिरेकिणि हेतौ
सत्यपि वैधर्म्ये साधर्म्योदाहरणमेवोचितम्, तत्र तत्पूर्वकत्वाद् वैधर्म्यप्रतीतेः,
ऋजुमार्गेण सिध्यतोऽर्थस्य वक्रेण साधनायोगात् । व्याप्यव्यापकभावश्च यादृशो
भावयोः, तदभावयोस्तद्विपरीतो बोद्धव्यः1193 । अन्यथा सपक्षैकदेशवर्ती न हेतुः
स्यादिति मन्यमानो वार्त्तिककार आह—उदाहरणमवीतहेताविति । तच्चास्माभिः
सूत्रं योजयद्भिरुक्तमिति ।


254

अत्र आचार्यदेशीयानाम् अनार्षसूत्रपाठदूषणं नास्माकमार्षसूत्रपाठेऽस्तीति
प्रतिपिपादयिषुराचार्यदेशीयानां पाठमभिप्रायं चाह—अन्ये त्विति । आर्षे हि पाठे
सामानाधिकरण्याद् दृष्टान्तस्यार्थरूपस्य शब्दरुपेणोदाहरणेनैक्यं स्यात् । यदा तु
दृष्टान्तस्योदाहरणमिति पाठः, तदा नायं दोषः । दूषणं चापरेषाम्, यथा न
दृष्टान्तस्योदाहरणेन सामानाधिकरण्यम्, एवं 1194तद्धर्मभावित्वस्याप्यर्थरूपस्य,
स्वविषयवचनोपलक्षणत्वेन तु सामानाधिकरण्यं दृष्टान्तेऽपि तुल्यम् । तस्मादा
र्षमेवास्त्विति । आर्षेऽपि पाठे परोक्तं दूषणमुपन्यस्यति—एतस्मिन्नपीति । उपहासे
किलकारः । ण्यन्ताद् भवतेस्ताच्छील्ये णिनिना भावीति व्युत्पन्नम् । तथा च
तद्धर्मकारित्वमर्थः । न च ज्ञापनादन्या क्रिया संभवतीति गमकत्वम् । तच्च
सर्वेषामवयवानामभिन्नमिति साधारणत्वात् न वक्तव्यमित्यर्थः । तदेतदभ्युपगमेनैव
परिहरति—नायमिति ।


अन्ये तु तद्धर्मभावीत्येतद् विकल्प्य दूषयन्तीत्याह—अन्ये त्विति । तत्र
प्रथमकल्पे दूषणमाहुः—तद् यदीति । नायं सूत्रार्थः सर्वावयवसाधारण्यादिति ।
तस्मात् न किञ्चिदेतत् तद्धर्मं भावयितुं शीलमस्येति । द्वितीयकल्पे दूषणमाहुः—
दण्डिन्यायस्तु इति ।


संभवे व्यभिचारे च स्याद् विशेषणमर्थवत्,

न संभवमात्रे इत्यर्थः । तदिदं परेषां दूषणं दण्डिन्यायमालम्ब्य परिहरति—
वक्तव्यमिति ।
संभवव्यभिचाराभ्यां समर्थं विशेषणमित्यर्थः । न बहुव्रीहाविति ।
अन्यपदार्थविवक्षयैवेनिराश्रीयते । सा च बहुव्रीहिणैव लभ्यत इति कृतमत्रेनि
नेत्यर्थः । सुहृद्भावेन चेद् अत एवाह—अथावश्यमिति । प्रयोजनान्तरं भाविग्रहण
स्यान्वाचिनोति—सन्तीति ।


अत्र च 1195वसुबन्धुना प्रतिज्ञादयस्त्रयोऽवयवा दुर्विहिता अक्षपादलक्षणेने
त्युक्तम्, तद् दूषयति—तदेतस्मिन्निति ।


255

तदेवमुदाहरणलक्षणमुपपाद्य परेषां लक्षणं दूषयितुमुपन्यस्य व्याचष्टे—तथा
सिद्ध
इति । यथा च स एव साध्यो विशिष्टः प्रत्ययभेदभेदित्वेनेति, प्रत्ययः
कारणम्, तदेतत् साध्यसाधनवत्त्वं दृष्टान्तस्य बौद्धराद्धान्तेऽव्यापकम्, स्थाल्यादौ
दृष्टान्ते कृतकत्वानित्यत्वरूपसाध्यसाधनवत्त्ववैकल्यात् । प्रागभावो हि स्थाल्याः
कृतकत्वं प्रध्वंसाभावश्चानित्यता राद्धान्ते बौद्धानाम् । न चैवमुभयं स्थाल्यामस्ति,
तस्याः स्वाभावविरोधित्वादिति दूषयति—अत्र विस्फूर्जतापीति । एतेनेति,
अव्यापकत्वेन । निदर्श्यतेऽस्मिन्ननेन चेति निदर्शनम् ।

साध्येनानुगमो हेतोः साध्याभावे च नास्तिता ।

इति च प्रत्युक्तम् कृतकत्वानित्यत्वयोः स्थाल्यामसंभवदर्शनादव्यापकत्वेन ।
अस्मद्राद्धान्ते तु यथा तयोः स्थाल्यादौ संभवः तथोक्तं हेतुलक्षणसूत्र इति । भाष्ये
पण्डितरूपवेदनीयमिति
प्रशस्तपण्डितवेदनीयमित्यर्थः ॥ ३७ ॥


उदाहरणापेक्षस्तथेत्युपसंहारो न तथेति वा साध्यस्योपनयः ॥
१ । १ । ३८ ॥


स्वप्रतिपत्तौ व्याप्तिस्मरणानन्तरं तथा चायं न तथेति वा परामर्शज्ञानोत्पादादु
दाहरणवचनस्य च व्याप्तिप्रतिपादकत्वात् 1196परामर्शज्ञाने हेतोरुपनयस्योदाहरण
पूर्वकत्वनियमात् उदाहरणानन्तरमुपनयं लक्षयति—उदा—यः । अपेक्षापदं भाष्य
कृद्
व्याचष्टे—उदाहरणतन्त्र इति । उदाहरणवशः । वश्यत इति वशः, वशिन
उदाहरणस्य वश्य इत्यर्थः । एतदेव कर्मणो भावं निष्कृष्य विवृणोत्ति—वशः
सामर्थ्यम् ।
वश्येन उदाहरणस्य फलेन उपनयेनाभिसंबन्ध इत्यर्थः । तथात्वातथात्वयो
र्विषयं विभजते—साध्यसाधर्म्ययुक्त इति । ननु हेतोरुपसंहार उपनयो न साध्यस्य ।
तथा चानुपपन्नः साध्यस्योपसंहार इत्यत उक्तम्—साध्यस्य शब्दस्योत्पत्ति
256 धर्मकत्वमिति ।
उदाहरणसिद्धव्याप्तिकहेतुमत्तया साध्यमुपसंह्नियते न स्वरूपेणे
त्यर्थः । अत्राप्युदाहरणापेक्ष उपसंहार उपनय इति सामान्यलक्षणम् । तथा न तथेति1197
सामान्यलक्षणापेक्षे विशेषलक्षणे इति बोध्यव्यम् ।


अत्र केचित् आहुः हेतुवचनादेव सोदाहरणात् साध्यसिद्धेरसाधनाङ्गमुपनय
इति । तन्निराकर्तुमाह वार्त्तिककारः—यथा तथेति1198 प्रतिबिम्बनार्थम् । तदेतत्
प्रश्नपूर्वकं विभजते—किं पुनरिति । तदनेन व्युत्पन्नाव्युत्पन्नतया परेषामनियत
प्रतिपत्तिसाधनत्वात्1199 स्वप्रतिपत्त्यनुसारेण परे बोधयितव्याः । व्याप्तिस्मरणानन्तरोत्पन्न
लिङ्गपरामर्शपूर्वकश्च स्वयमनुमेयार्थप्रत्यय इति तथैव परे बोध्यन्ते । तथा च
परामर्शज्ञानहेतोरुपनयस्य सिद्धमर्थवत्त्वम् । न च यथा लिङ्गपरामर्शज्ञानान्वय
व्यतिरेकानुविधानम् अनुमेयज्ञानस्य, तथा दधिभक्षणाद्यनुविधानमपि, येनाति
प्रसङ्गश्चोद्येतेति । प्रयोजनान्तरम् उपनयस्याह—साध्ये वा संभव इति । चोदयति—ननु
चेति ।
यद्यपि साधनतया कृतकत्वमुक्तम्, प्रतिज्ञानन्तरं प्रतिपत्त्रा साधनस्यैवा
पेक्षितत्वम्, तथापि तन्नासिद्धं तत्र साधनत्वेन व्यवतिष्ठत इति स्वसिद्धिमाक्षिपति
सामर्थ्यादिति भावः । परिहरति—नोक्त इति । यत्परः शब्द स शब्दार्थ इति
शाब्दाः । साधनत्वपरश्च कृतकत्वादिति सामर्थ्यात् । आक्षेपे तूदाहरणमपि न
प्रयोक्तव्यम् । 1200अस्यापि साधनसामर्थ्यादाक्षेपात् अव्याप्तस्य साधनत्वायोगात्
तद्विधस्यापि प्रमेयत्वादेः शब्दनित्यत्वादौ साधनत्वभ्रमेण प्रयोगोऽसिद्धेऽपि1201 तुल्य
इति व्याप्तिप्रदर्शनार्थोदाहरणप्रयोगवद्धेतोः सिद्धत्वप्रतिपादनाय उपनयस्यापि
प्रयोग इति रमणीयम् ॥ ३८ ॥


257

हेत्वपदेशात्प्रतिज्ञायाः पुनर्वचनं निगमनम् ॥ १ । १ । ३९ ॥


निगमनलक्षणावतारपरं भाष्यं द्विविधस्य पुनरिति । साधर्म्येण वैधर्म्येण
द्विविधानामपि हेतूदाहरणोपनयानां समानं निगमनलक्षणमित्यर्थः । हेत्व—नम् ।
तस्मादिति ।
हेत्वपदेशात् तद्धेतुकम् अनित्यः शब्द इति प्रतिज्ञाया पुनर्वचनम् ।
यद्यपि च सिद्धनिर्देशो निगमनम्, साध्यनिर्देशश्च प्रतिज्ञा तथापि यस्यैव प्रतिज्ञायां
साध्यत्वमासीत्, तस्यैव निगमने सिद्धत्वमित्यवस्थावन्तमेकमाश्रित्य समान
विषयतया निगमनं प्रतिज्ञेत्युपचर्यते । तथा च पुनर्वचनमप्युपपन्नम् । तदेतद्
भाष्यकारो व्याचष्टे—साधर्म्योक्त इति । व्युत्पादयति—निगम्यन्ते इति ।
साधर्म्यवैधर्म्ययोः प्रतिज्ञातः प्रभृति निगमनान्तं प्रयोगमाह—तत्रेति । 1202अत्र
प्रथमसूत्रवदेव यथास्वमवयवेषु प्रमाणानां परमन्यायं स्तोतुं संभवमाह—
अवयवसमुदाये चेति । आप्तोपदेशस्येति ।

सदेव सोम्येदमग्र आसीत्1203

इत्यादेराप्तोपदेशस्य प्रत्यक्षानुमानाभ्यां प्रतिसन्धानात् । ननु कस्मात् प्रतिज्ञैवाप्तोप
दैशो न भवति, कृतमस्या आगमान्तरविषयत्वेनेत्यत आह—अनृषेश्चेति । अनुमानं
हेतुः ।
स्यादेतत् । द्वितीयं लिङ्गदर्शनं हेतुः । न च तदनुमानम् । तृतीयस्योपनय
विषयस्य लिङ्गदर्शनस्य तथाभावादित्यत आह—उदाहरण इति । उदाहरणे
दृष्टान्तधर्मिणि । साध्यसाधनयोः प्रतिबन्धं संदृश्य1204 सम्यग् दृष्टा लिङ्गस्य प्रतीतेः ।


एतदुक्तं भवति—यद्यपि त्रयाणामपि लिङ्गदर्शनानां सस्मृतीनामनुमानत्वम्,
तथापि तदेकदेशे मध्यमेऽपि लिङ्गदर्शने समुदायोपचारादनुमानव्यपदेश इति ।
प्रत्यक्षविषयमुदाहरणम् । कस्मात् ? दृष्टेन उदाहरणे प्रतिबन्धेन अदृष्टस्य1205
साध्यधर्मिण्यनुमेयस्य सिद्धेः । यदि पुनर्न मूलं प्रत्यक्षमास्थीयेत, अव्यवस्थाया
258 नादृष्टं सिध्येदिति भावः । निगमनप्रयोजनं प्रतिपादयति—सर्वेषामिति । प्रतिज्ञा
दीनामुपनयान्तानामेकोऽर्थः स्वभावप्रतिबद्धं लिङ्गं वा अनुमेयं वा, तस्य प्रति
पत्तिः, तस्यां सामर्थ्यप्रदर्शनं निगमनमिति । तदनेनैकार्थत्वं दर्शितम् । द्विविधं च1206
प्रयोजनम् । तत्रावान्तरं स्वभावप्रतिबद्धलिङ्गप्रतीतिः । परमं च साध्यप्रतीतिरिति ।


संप्रति विभागे साकाङ्क्षक्षत्वं दर्शयति—इतरेतराभिसंबन्ध इति । अभि
संबन्धेन फलेनाकाङ्क्षामुपलक्षयति—असत्यामिति । प्रधानं हि प्रतिज्ञापदम् ।
तदुत्तरकालं हि साधनाकाङ्क्षायां प्रतिज्ञामाश्रित्य हेतुपदं प्रवर्तते । न पुनः प्रथममेव
हेत्वपेक्षेति हेतुलक्षणेऽस्माभिरुपपादितमिति1207 । हेतुपदविरहे आकाङ्क्षां दर्शयति—
असति हेताविति । उदाहरणाभावेऽपेक्षामाह—असत्युदाहरण इति । उपनयाभावेऽपि
अपेक्षामाह—उपनयं चान्तरेणेति । निगमनाभावेऽप्यपेक्षामाह—निगमनाभावे
चेति ।
अवयवानां प्रातिस्विकं प्रयोजनमुक्तमपि शिष्यहिततया भाष्यकारः
प्रतिपादयति—अथेति । 1208पञ्चावयवप्रतिपादनप्रयत्नस्य प्रयोजनं दर्शयति—
चैतस्यामिति ।
कथं पुनः प्रक्रमत इत्यत आह—अव्यवस्थाप्येति । व्यवस्थापिते
1209तु न जातेरवसर इत्याह—व्यवस्थिते हीति ।


अत्र केचिदाहुः निगमनमसाधनाङ्गम् । कथम् ? प्रतिज्ञया गतार्थत्वादिति ।
तन्मतमपाकर्तुं वार्त्तिककारः सप्रयोजनं निगमनं दर्शयति प्रतिज्ञाविषयस्यार्थ
स्येति ।
चतुर्भिः खल्ववयवैर्हेतोस्त्रीणि रूपाणि द्वे वा प्रतिपादिते, न
त्वबाधितविषयत्वासत्प्रतिपक्षितत्वे । पञ्चसु वा चतुर्षु वा रूपेषु हेतोरविनाभावः
परिसमाप्यते । 1210तस्मादबाधितविषयत्वासत्प्रतिपक्षितत्वरूपद्वयसंसूचनाय
निगमनम् । तदिदमुक्तम्—विपरीतप्रसङ्गप्रतिषेधार्थमिति । बाधने प्रतिपक्षे वा
साध्यविपरीतप्रसङ्गः स्यादिति । सोऽयं प्रतिज्ञाविषयार्थस्य अशेषप्रमाणमूला
वयवोपपत्तौ सत्यां प्रतिज्ञेयस्यार्थस्य सिद्धतया पुनर्वचनेन निगमनेन प्रतिषिध्यते ।
259 न च प्रतिज्ञावचनादेव तत्सिद्धिः, तस्य साध्यपरत्वात् । न चान्यपरादप्याक्षेपात्
सिद्धिः 1211हेत्वादिपदाप्रयोगवैयर्थ्यप्रसङ्गात्, प्रतिज्ञात एव सर्वाक्षेपसंभवात्1212 । तस्माद्
रूपद्वयप्रतिपादनार्थं निगमनम् । यथा च त्रैरूप्यातिरिक्तमेतद्रूपद्वयं तथोपपादितम
स्माभिः प्रथमसूत्रे । हेत्वाभासेषु च शेषं दर्शयिष्यत इति । एतस्मिन् सूत्रार्थे परस्य
प्रतिज्ञायां निगमनं गतार्थं मन्यमानस्य अवकाशो नास्तीति ।


यस्तु मन्येत न हेतोरविनाभावसिद्धिमन्तरेण सिद्धनिर्देशो निगमनं भवति, न
च पाञ्चरूप्यं विना अविनाभावसिद्धिः । निगमनात्तु तत्सिद्धौ न सिद्धनिर्देशो
निगमनम्, अपि तु साध्यनिर्देश एवेति, तं प्रत्युपेत्य तद्दोषनिराचिकीर्षया परेषां
वाक्यमुपक्षिप्यते । परेषां वाक्यं पठति—उपनयनिगमने त्विति । दूषयति—इदं
तावदिति ।
यथाश्रुति हि निगमनोपनययोरभेदं साधयति, अर्थगतं चाविशेषं
हेतुमाह—तच्चैतदालोकतमसोरैक्यं काकस्य कार्ष्ण्यादिवदापतितम् । शङ्कते—अथ
हेतूपनयाविति ।
उपलक्षणं चैतत् प्रतिज्ञानिगमने इत्यपि द्रष्टव्यम् । अर्थाविशेषादिति
चाविशिष्टार्थत्वादित्युन्नेतव्यम् । तथा च संबन्ध इति शङ्कितुरभिप्रायः । अत्रापि
दोषमाह—स विपक्षेति । पुनः शङ्कते—अथैकप्रयोजनत्वेनेति । निराकरोति—
तथापीति । सिद्ध्यत्येकप्रयोजनत्वे साध्ये हेतोरविरोधः, हेतुस्तु न प्रतिज्ञार्थादति
रिच्यते इत्यर्थः । तद्वर्णितमिति । अन्यश्च हेत्वर्थोऽन्यश्चोपनयार्थ इत्येतद्
वर्णितमित्यर्थः । एतेनोपनयनिगमनप्रयोजनाभिधानेन ये त्र्यवयवं वाक्यमाहुः,
तन्मतमपि परास्तमित्याह—पक्षर्मत्वेति ।


यच्च परैः उपनये दूषणं विकल्प्याभ्यधायि तत् तावदुपन्यस्यति—यदपि
यथा तथेति ।
सर्वसामान्ययोगे हि तदेव स्यात् न तु तथेति । अन्यथा शब्दस्य
कृतकत्वादिति ।
न हि यथा घटः कृतकः, तथा शब्दोऽपि कृतकः,
घटशब्दयोरभेदप्रसङ्गादित्यर्थः । तस्मात् सामान्यप्रतिषेधे विशेषप्रतिषेधे च कृत
260 कत्वं सामान्यं परिशिष्यते । तस्य च यथातथाभावयोरभावात् कृतकत्वादित्येव
स्यात् । तथा च न हेतोर्व्यतिरेक उपनयः स्यादित्याह—परिशेषादिति । तदेतत् परेषां
दूषणं निराकरोति—तदप्ययुक्तमिति । यथा तथेति वाक्यमुपमानैकदेशमुप
मानमुपचारात् । उपमानमर्थो यस्य सोऽयमुपमानार्थ उपनयः । तस्य भावस्तत्त्वं
तस्मात् । तच्चोपमानं न सर्वथा साध्यसाधनभावमाश्रित्य प्रवर्तते । साध्ये शब्दे
साधनस्य कृतकत्वस्य स्थालीगतस्य यः सर्वथाभावः स्थालीत्वाद्येकार्थसमवायः
तमाश्रित्य न प्रवर्तते । तथा च शब्दस्थाल्योरभेदप्रसङ्गाद् यथा तथेत्येव न स्यात् ।
तस्मात् स्थालीस्थप्रकारान्तरव्युदासेन कृतकत्वसामान्यमात्रसाधारण्येन यथा
तथेत्युपमानोपपत्तिरित्यर्थः । नन्वेवमपि कृतकत्वसामान्यमात्रं शब्दे स्यात्, न तु
यथातथाभावः । तथा च न हेतोरतिरेक इत्युक्तमित्यत आह—कृतकत्वसामान्यं
त्विति ।
न हि जातु शावलेयसन्निधौ गोत्वसामान्यमात्रं भवति, अपि तु विशेषसहितम् ।
तथा च 1213यथातथाभाव उपपन्न इत्यर्थः ।


एतेन यत् परैरुपनयस्य दृष्टान्तादभिन्नत्वं वर्णितम्, तदपि परास्तमित्याह—
गतार्थत्वादिति । अनेनोपमानसमानत्ववर्णनेन एतदेव विभजते—यदप्युक्तमिति ।
व्याप्तिप्रदर्शनविषयो दृष्टान्तः, दृष्टव्याप्तिकस्य हेतोः साध्यधर्मिण्युपसंहार उपनय
इति महान् भेद इत्यर्थः । एतेन निगमनं प्रतिज्ञायाः समानाभिधेयत्वेऽपि प्रतिज्ञात्वेन
प्रत्युक्तम् । प्रतिज्ञायाः साध्यपरत्वात् निगमनस्य च1214 विपरीतशङ्कानिवृत्तिपरत्वादिति ।
प्रयोजनभेदसामान्यमात्रविवक्षया एतेनेत्युक्तम् । अत्र भाष्यकारेण एकस्मिन्न
न्वयव्यतिरेकिण्येव वीतावीतवाक्ये पञ्चावयवे उदाहृते । तत्र कदाचिद् भ्रान्तिः
स्यादेकोदाहरणतया द्वे अपि वाक्ये परस्परापेक्षे एवेति, तन्निराकरणायाह—ते एते
इति । न पुनरन्वयि व्यतिरेकि चेत्येकं वाक्यमित्यर्थः ॥ ३९ ॥


॥ इति न्यायलक्षणप्रकरणम् ॥

  1. परस्परासंप्र°C

  2. अस्यC

  3. विषयगता K

  4. उप°OmC

  5. तत्त्वंOmJ

  6. ह्यनेनC

  7. प्रमाणेति°C

  8. प्राप्यतेOmC

  9. स्वशब्द°C

  10. °प्रतिषेधंC

  11. °लक्षणे नियमेJ

  12. हि प्रति°C

  13. संशयेC

  14. एवकारःJ

  15. °मित्यत्रC

  16. प्रतिक्षेपःC

  17. विशेष forअर्थJ

  18. साध्यंC

  19. °र्यतयाC

  20. एतेC

  21. °हारान्तरम्J

  22. °दिपर्यालो°C

  23. बहुवचनःC

  24. पठ्य°C

  25. कर्म°OmC

  26. पृः ५१॑१५

  27. वै. सू. २. २. ३४

  28. विकारादेःC

  29. विधत्तेC

  30. OmC

  31. वै. सू. २. २. ३५

  32. पुनरनुप°J

  33. चन्द्रशब्द°J

  34. तुJ

  35. एवOmJ

  36. प्रयुक्त° OmJ, वाक्यार्थान्वा°C

  37. परार्थमात्रम°C

  38. प्रतिज्ञा°
    गम्यते
    OmC

  39. वचनार्थः ? कथमसौOmC

  40. °नुत्पत्ते°C

  41. च सुबन्धु°C

  42. आञ्जस्यंC

  43. अर्थम्OmC

  44. °धानात्C

  45. °वचनस्यC

  46. एवमाच°J

  47. दात्रायOmC

  48. °वत्तरC

  49. °धानम्C

  50. °श्रयत्वात्J

  51. वचनमनुसन्धाय प्रयतिष्येतेC

  52. अत्र चC

  53. तुJ

  54. °त्वेनC

  55. नान्यशब्देC

  56. °विशेष°OmC

  57. नान्यस्य
    धर्मोऽन्यत्र
    C

  58. एवोच्यतेC

  59. °भुञ्ज्माहेC

  60. °त्रं हिC

  61. विपक्षा°CVar

  62. °प्यन्यस्य तथा संभवःJ

  63. °दित्यादिहेतु° C

  64. व्यभिचार्यव्यभि° C; आदि Om C

  65. उपलक्षितम् C

  66. °हेतु° Om C

  67. शुद्धं Om J

  68. °दितिC

  69. मृषाशेषम°C

  70. °त्वं उपलक्षकत्वम्J

  71. तथा चOmJ

  72. °न्तपरिच्छिन्नस्यJ

  73. °भावेJ

  74. न्तं भावःJ

  75. नापिOmC

  76. °वद्वा नात्य°C

  77. प्रत्यय°OmC

  78. °न्नता तत्सं°C

  79. सर्वं
    OmJ

  80. °भावित्वमि°C

  81. न्या. भा. ५. १. ३७

  82. तत्C

  83. °स्योत्पत्तिःC

  84. सपक्षत्वप्र°C

  85. प्रयत्नाद्यु°C

  86. घटादिOmC

  87. विपर्ययेणC

  88. °च्छारहितंC

  89. तद्व्यतिरेकिणश्चC

  90. °न्तरसिद्धान्तंC

  91. °प्रायमाविष्करोतिC

  92. वीतोऽन्व°C

  93. C

  94. °तुत्वमित्याश°J

  95. भवितव्यमितिJ

  96. तथाC

  97. न °णीतिOmC

  98. न्या. सू. ३॑२॑३८

  99. प्र. वा. ४. २४४

  100. टी १॑१॑५

  101. °क्तमितिC

  102. विपक्षानि° JK

  103. वासुबन्धवंOmC

  104. उपन्यस्य दूषयतिC

  105. वा
    OmC

  106. अत्रC

  107. गौरियंC

  108. द्रः वै. सू. ३. १. १७

  109. द्रः वै. सू. ३. १. १६

  110. तस्य हेतुत्वमवधारितम्C

  111. सतिOmC

  112. साधारणस्यC

  113. अपिOmC

  114. विपक्षादेवOmC

  115. वक्तव्यःJ

  116. प्रसज्येतC

  117. नरस्यJ

  118. °दिति हेतुःJ

  119. अप्रमेय
    त्वादित्ययं
    J

  120. नास्तीत्युच्यमानेC

  121. अनेनOmC

  122. त्रिविधःOmC

  123. द्वेधा forअसन्C

  124. °धापक्ष
    धर्मः…त्वतः त्रि°
    OmC

  125. °दीतिC

  126. ननु पक्ष°…पक्षाव्यापकत्वंC

  127. तदेव तद्धे° C

  128. °ग्रहणे J

  129. °शेऽतिव्याप्तम् C

  130. दोषप्रसङ्गः C

  131. °प्रविभागात्माC

  132. तादृशा विना न भवतीतिC

  133. पक्षेC

  134. एवOmC

  135. प्रत्याहC

  136. इत्यर्थःC

  137. यावत्C

  138. युष्माकंC

  139. °प्रयत्नसाध्यःC

  140. भावःOmC

  141. अस्ति वस्तु सामान्यं सद्C

  142. असत्OmC

  143. तत्OmC

  144. कारणेJ

  145. सूच्यत इतिJ

  146. °त्वम्, तद्वति नित्य°C

  147. तद्भावःOmJ

  148. °धर्म°OmJ

  149. भवती
    त्येतत्
    C

  150. भवति नित्यं न Om K

  151. OmC

  152. परिहृतम्C

  153. तुJ

  154. °मिति यावत्C

  155. सःC

  156. इति चेतिJ

  157. न्या° भा. १ । १ । ३६

  158. गूढाभि° K पाठाभि° CJ

  159. लक्षणसूत्रैःJ

  160. उत्पत्तिधर्मकत्वादिति तद्व्याचष्टे—तस्य धर्मिण इति Om J

  161. भवति औम्
    ञ्

  162. द्रः श्लो. वा. अनुमान, १२१-२

  163. तद्धर्म° Om C

  164. सुबन्धुना C

  165. परामर्शज्ञानहे°J

  166. तथेति चेति C

  167. तथा न तथेति K

  168. °प्रतिसाध° C

  169. अत्रापि C

  170. असिद्धोऽपि C

  171. तच्च for अत्रC

  172. छान्दोग्योप° ६॑२॑१

  173. सादृश्यंC

  174. अदृष्टेC

  175. हिC

  176. प्रतिपा°C

  177. °व्युत्पादन°J

  178. तुOmC

  179. °विषय°
    OmC

  180. हेत्वादिप्रयोगवैयर्थ्यप्र°C

  181. सर्वाक्षेपात्J

  182. यथाभावः C

  183. Om C