261

न्यायोत्तराङ्गलक्षणप्रकरणम्


अविज्ञाततत्त्वेऽर्थे कारणोपपत्तितस्तत्त्वज्ञानार्थमूहस्तर्कः ॥
१ । १ । ४० ॥


अत्र भाष्यं तर्कलक्षणावतारपरम्—अत ऊर्द्ध्वमिति । उद्देशक्रमानुसारेण ।
अवि—तर्कः । तर्कप्रवृत्तिक्रममाह—अविज्ञायमानतत्त्वेऽर्थे इति । यद्यपि संशयस्य
पश्चादेव जिज्ञासा भवति, तथापि जिज्ञासायाः परस्तादपि संशयो भवति । स चात्र
विवक्षितः, तर्क प्रवृत्त्यङ्गत्वात् । तर्केण हि प्रसङ्गापरनाम्ना द्वयोः
पक्षयोरेकतरनिषेधेनैकतरः प्रमाणविषयतया अभ्यनुज्ञातव्य इति विषयप्रत्यासत्त्या
तर्कप्रवृत्तिं प्रत्यङ्गता संशयस्येति । कारणोपपत्त्येति व्याचष्टे—संभवत्यस्मिन्
कारणं प्रमाणमिति ।
अत्र च कारणमित्यस्य व्याख्यानं प्रमाणमिति ।
उपपत्तिव्याख्यानं संभवतीति । अनुज्ञाव्याख्यानम्—एवमेतत्, नेतरदिति । एतदुक्तं
भवति, यस्मिन् विषये प्रमाणं प्रवर्तितुमुद्यतं तद्विपर्ययाशङ्कायां न तावत् 1215प्रमाणं
प्रवर्तते । न यावदनिष्टापत्त्या विपर्ययाशङ्का अपनीयते । तदपनय एव च स्वविषये
प्रमाणसंभव इति चोपपत्तिरिति 1216व्याख्यायते । तया प्रमाणस्योपपत्त्या इतिकर्तव्यतया
1217प्रमाणविषयमभ्यनुजानत्या विशोधिते विषये प्रमाणमप्रत्यूहं प्रवर्तते । न
चोपपत्तिरेवास्तु निश्चयहेतुः कृतं प्रमाणेनेति वक्तव्यम् । उपपत्तेः स्वतन्त्राया
आश्रयासिद्धतया स्वतो निश्चयायोगात् । तदुपपादितं प्रथमसूत्रे1218 इति ।


उदाहरणमाह—निदर्शनमिति । स्वकृतस्य कर्मण इत्यादिना पूर्वस्य
कारणमि
त्यन्तेन संसारो दर्शितः । उत्तरेत्यादिना अपवर्ग इत्यन्तेनापवर्गः । तेन
संसारापवर्गाविच्छन्तौ वादिप्रतिवादिनौ प्रति आत्मनित्यत्वविषयं प्रमाणं

  1. प्रमाणंOmC

  2. चाख्या°J

  3. प्रमाणस्याभ्यनुज्ञातस्यC

  4. टी.
    पृः ५०