388

द्वितीयाध्याये द्वितीयाह्निकम्


प्रमाणचतुष्ट्वपरीक्षाप्रकरणम्


न चतुष्ट्वमैतिह्यार्थापत्तिसंभवाभावप्रामाण्यात् ॥ २ । २ । १ ॥


अयथार्थ इति भाष्यम् । प्रमाणानां विभागोद्देशो यः सोऽयथार्थ इति । तदेतद्
वार्त्तिककारो व्याचष्टे—प्रत्यक्षेति ।


न च…ण्यात् । एवं विपर्यस्तस्याक्षेप इति भाष्यमतेन सूत्रं व्याख्याय
प्रकारान्तरेणापि व्याचष्टे—संशयव्युदासार्थं वा प्रकरणम् । सूत्रं तु संशयार्थम् । न
चतुष्ट्वं निश्चेतुं शक्यम् । कस्मात् ? ऐतिह्यार्थापत्तिसंभवाभावप्रामाण्यात् परैरभ्यु
पगतादस्माकं संशयादिति सूत्रार्थः । तात्पर्यान्तरमाह—विधीति । विभागोद्देशोऽधिक
निषेधपर इति पक्षे अयथार्थः प्रमाणोद्देश इति पूर्वं व्याख्यातम् । संप्रति तु
प्रत्यक्षादिविधिपरोऽसावारम्भः
प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि


इति । 1619अधिकनिषेधस्त्वार्थ इति पक्षमालम्ब्योक्तमित्यपौनरुक्त्यम् । तात्पर्यान्तर
माह—दोषवतामिति । तात्पर्यान्तरमाह—प्रत्यक्षादिष्विति । अन्तर्भावपरात् प्रकरणात्
अर्थाद्विभागोद्देशस्य यथार्थता सिध्यतीत्यर्थः । देशयति—सिद्धत्वादिति । न हि
यावत् सूच्यते सूत्रकारेण तावत्सर्वमुपपादनीयं भाष्यकारादिभिरपि
तदुपपादनसिद्धेरिति भावः । परिहरति—न, अवधारणप्रयोजनस्य प्रमाणान्तर
निरासस्येति । यत् सूचनमात्रादनुक्तमपि लभ्यते तत्सूत्रकारेण नोच्यते । यत्तु सूचित
मपि तिरोहितमिव तत् सूत्रकारेणोद्धाटनीयमेव । न हि तत्रास्ति निश्चयोऽस्मदभिमतमेव
वदन्ति भाष्यकारादयो नान्यदिति भावः । किमत्रार्थादापद्यत इति प्रश्नः ।

  1. °स्त्वर्थलभ्य इति पक्षमभिप्रेत्योक्तम्C