शब्दशक्तिपरीक्षाप्रकरणम्


ते विभक्त्यन्ताः पदम् ॥ २ । २ । ५८ ॥


तदेवमुक्तेन प्रबन्धेन1726 वर्णानामनित्यतां तत्प्रसङ्गेन चावर्णात्मकानामप्यनित्यतां
प्रतिपाद्य शब्दप्रामाण्योपयोगि पदं निरूपयति—ते वि…म् ॥


एवं किल केचित् पश्यन्ति, न वर्णाः प्रतिपादयन्त्यर्थान् । ते हि प्रत्येकं वा
अर्थधियमादधीरन्1727, नागदन्तका इव शिक्यालम्बनम्; मिलिता वा ग्रावाण इव
पिठरधारणम् । तत्र न तावत् पूर्वः कल्पः, प्रत्येकमर्थप्रत्ययानुत्पादात्
वर्णान्तरोच्चारणानर्थक्याच्च । नापि संहताः, एकवक्तृप्रयोगे क्रमनियमेन संघातानुप
पत्तेः । अनेकवक्तृप्रयोगेऽपि1728 सत्यपि यौगपद्ये अर्थप्रत्ययानुत्पादात् । नापि
क्रमवत्पूर्ववर्णानुभवभावितसंस्कारसहितोऽन्त्यवर्णप्रत्ययहेतुरिति साम्प्रतम्,
भावनापरनाम्नः संस्कारस्य स्वोत्पादकानुभवविषयगोचरस्मृतिजननादन्यत्र
सामर्थ्यादर्शनात् । न हि गजानुभवजनितः संस्कारः करोति स्मृतिं तुरङ्गमे । अपि
चेयमन्त्यवर्णश्रुतिः स्वार्थसङ्केतस्मृत्यपेक्षा वार्थप्रत्ययमादधीत, अनपेक्षा वा ?
तदपेक्षत्वे तत्काले अन्त्यवर्णश्रुतिरुपरता क्षणिकत्वेनेति कया सङ्केतस्मृतिरपेक्षते ?
अन्त्यवर्णश्रुतिसमये च सङ्केतस्मृतिरनागतेति किमन्त्यवर्णप्रत्ययोऽपेक्षेत ?
427 सङ्केतस्मृत्यनपेक्षत्वे अगृहीतसङ्केतस्यापि प्रथमश्राविणोऽर्थप्रत्ययप्रसङ्गः । न हि
चिरुध्वस्तस्यानपेक्षितस्मृतेः सङ्केतग्रहस्यास्ति कश्चिदुपयोग इति । न च
भावनाख्यसंस्कारसहितोऽन्त्यवर्णः प्रत्यायकोऽर्थस्य नाप्यन्य एव कश्चित्
पूर्ववर्णानुभवजनितः संस्कारः प्रोक्षणादिभिरिव व्रीह्यादेरन्त्यवर्णप्रत्ययसहकारीति
युक्तम्, अनेकादृष्टकल्पनाप्रसङ्गात् । स एव तावददृष्टचरः कल्पनीयस्तस्य
चानेकत्वमिति । सोऽयं वर्णेभ्योऽर्थप्रत्ययो भवन्ननुपपद्यमानः तदतिरिक्तस्फोटानुभव
आयतते1729 । अस्ति हि भिन्नेष्वपि वर्णेषु वाक्यमेकमेकं1730 पदमिति वा सर्वजनीनोऽनु
भवः । न चासौ भिन्नवर्णालम्बनो भवितुमर्हति, एकस्य नानात्वविरोधात् । तस्माद्
वर्णातिरिक्तमेकं पदं वाक्यं वा आलम्बते । तच्च प्रत्येकमेव ध्वनयोऽभिव्यञ्जयन्ति ।
केवलं पूर्वे ध्वनयः स्वरूपमाभासयन्ति1731 चरमस्तु व्यक्तम् । न चेयमर्थे विधा
संभविनी प्रत्यक्षज्ञाननियतत्वात् । व्यक्ताव्यक्तावभासितायाः पदे प्रत्यक्षे
उपपत्तिः1732, अर्थस्य तु पदगम्यस्याप्रत्यक्षस्य मानान्तरेण ग्रहणमस्ति । अग्रहणं वा न
तु स्फुटास्फुटत्वाभ्यां योगः । अपि च यस्मिन्ननुवर्तमाने यद् व्यावर्तते तत् तस्माद्
भिद्यते, यथा सुवर्णावयवेष्वनुवर्तमानेषु कटकमुकुटादयः । अनुवर्तमानेषु तु वर्णेषु
व्यावर्तन्ते पदभेदा यथा नदीदीनजराराजेत्वादयः1733 । तस्मात् तेऽपि वर्णेभ्यो भिन्ना
इति । तान् प्रत्याह—ते विभक्त्यन्ताः पदम् इति । त एव वर्णा एव पदम्, न तु
तदतिरिक्तं स्फोटाख्यमित्यर्थः ।


इदमत्राकूतम् । न तावद् वर्णातिरिक्तः पदात्मा कश्चिदुपलभ्यते प्रत्यक्षेण ।
पदमिति तु व्यपदेशः तानेव वर्णान् बहूनप्येकस्मृतिबुद्धिसमारोहितया वा
एकार्थधीहेतुतया वा अभिन्नकारकावस्थावत्तया वालम्बते भाक्तः । न
चैवमन्योन्यसंश्रयः । नर्ते पदावधारणादर्थाधिगमो न चार्थाधिगममन्तरेण पदावधारण
428 मिति । एकस्मृतिबुद्धिसमारोहिणां 1734वर्णानामसत्यर्थवत्तयावबोधे सुज्ञानत्वात् ।
तन्मात्रस्य च स्वार्थेन सङ्केतग्रहणस्यापि सुकरत्वात्, तदुत्तरकालत्वाच्च पदमिति
कारकशब्दप्रवृत्तेः । इतरथा सर्वेषु कारकशब्देषु दुर्वारमितरेतराश्रयत्वं कार्य
संबन्धोपहितमर्यादत्वात् कारकाणाम्, तदनुपातित्वाच्च तच्छब्दानाम् । तस्माद्
व्यपदेशमात्रानुरोधेन नैकैकवर्णमात्रावभासिनीषु श्रोत्रजासु बुद्धिषु तदाहितवासना
लब्धजन्मायां चानुभूतवर्णसंकलनात्मिकायां स्मृतिबुद्धावप्यप्रथमानो वर्णविभागोप
मर्देन न शक्यः पदात्मा प्रत्यक्ष इति वक्तुम् । नापि निर्भागस्य स्फुटास्फुटत्वे वा
भागविपर्यासो वा युज्यते । नो खलु सर्वथादृश्यमानं नाम स्फुटम्, नापि समारोप
विषयः । न हि सामान्यात्मनाप्यगृहीता शुक्ती रजतसमारोपगोचरः1735 । न च निर्भागे
पदात्मनि गृहीते किञ्चिदस्यागृहीतमवशिष्यते यदग्रहणादव्यक्तत्वं वा समारोपो वा
भवेत् । न च तदेव तदैव तेनैव गृहीतमगृहीतं च संभवति । तस्मात् न प्रत्यक्षस्य
तदाभासस्य वा गोचरः पदात्मा, नाप्यनुमानस्य अर्थप्रत्ययलिङ्गजन्मनः,
परस्पराश्रयप्रसङ्गात् । न तावत् सत्तामात्रेण पदात्मा अर्थप्रत्ययमाधत्ते मैष धात्
नित्यत्वेन नित्यमेनम् । तस्मात् स्वज्ञानेन, तच्च स्वज्ञानसमर्थप्रत्ययात् । तथा च
सत्यर्थप्रत्यये पदप्रत्ययः, पदप्रत्यये च सत्यर्थप्रत्यय इति व्यक्तमन्योन्याश्रयत्वम् ।
न चेयमर्थधीर्वर्णेभ्यो नोदेतुमर्हति । ते हि पूर्वमनुभूताः प्रत्येकमनुभूतताक्रमोपसृष्टा
एकस्मृतिबुद्धिसमारोहिणः शक्नुवन्त्यर्थधियमाधातुम् । न चाक्रमानुक्रमविपरीत
क्रमाणामविशेषो वर्णानां पूर्वानुभवसन्निवेशानुसारित्वात् स्मृतेः । तत्सन्निवेशस्य च
विशेषाद्विशेषोपपत्तिः1736 । अभेदेऽपि च वर्णानां 1737नदी दीनेत्यादौ पदभेद उपपत्स्यते
विनापि स्फोटकल्पनां क्रमभेदानुविधायित्वात् पदभेदस्य1738 । अर्थप्रत्ययकाकत्वं च
न वर्णमात्राणामपि तु क्रमन्यूनातिरेकाद्युपहितानाम् । तत्तदुपधानं च तुल्यत्वेऽपि
429 वर्णानामन्यदन्यदिति पदभेदसिद्धिः । तस्माद् दृष्टेभ्य एव वर्णेभ्यो दृष्टप्रकारानुपाति
भ्योऽर्थप्रत्ययोत्पत्तिरुपपद्यमाना नादृष्टं स्फोटात्मानं दृश्यमानवर्णभेदापह्नवेन
कल्पयितुमर्हतीति सिद्धं


ते विभक्त्यन्ताः पदम् इति ।

यथादर्शनं विकृता इति भाष्यम् । गुणान्तरापत्त्यादिभिरादेशरूपेण विकृत
त्वम् । यथादर्शनं यथाप्रमाणम् । न तु प्रकृतिविकारभावेन, तस्य प्रमाणबाधित
त्वादित्यर्थः ।


वार्त्तिकम्—अर्थप्रत्ययस्तर्हि न प्राप्नोतीति, स्फोटवादिन उक्तोऽभि
प्रायः । उत्तरम्—अन्त्यवर्णप्रत्ययादिति । वर्णेषु प्रत्ययो वर्णप्रत्ययः । अन्त्यश्चासौ
वर्णप्रत्ययश्चेति अन्त्यवर्णप्रत्ययः सकलवर्णावगाहिनी स्मृतिः । सा च प्राचः
प्रत्येकं वर्णानुभवानपेक्ष्यान्त्या भवति । यद्येवमगृहीतसङ्केतानामप्यसावस्तीति
तेषामप्यर्थप्रत्ययप्रसङ्गः स्यादित्यत आह—पूर्ववर्णप्रतिसन्धानप्रत्ययापेक्षात्
इति । सङ्केतग्रहणसमयः पूर्वः, तद्भाविनो वर्णाः पूर्वे । तेषां प्रतिसन्धानं यावतां
यादृशानां यज्जातीयानां गृहीतः सङ्केतस्तादृशास्तावन्तस्तज्जातीया एवैते इत्येवमा
कारम् । तदेव प्रत्ययस्तदपेक्षात् । न चासावगृहीतसङ्के तानामप्यस्तीति
सन्नप्यन्त्यवर्णप्रत्ययो नार्थस्य प्रतिपादक1739 इत्यर्थः । अभिधेयस्य क्रियान्तरयोगाद्
विशिष्यमाणरूपः शब्दो नाम ।
अन्तरशब्दो विशेषवनः क्रियाविशेष
योगाद्धेतोरित्यर्थः । एतदुक्तं भवति, यस्याभिधेयं क्रियाविशेषसंबन्धेन विना न
पर्यवस्यति तन्नाम । आख्यातार्थस्तु यद्यपि क्वचित् क्रिययापि संबध्यते, यथा
अभिक्रामं जुहोति, भुक्त्वा व्रजति इत्यादिषु, तथापि जुहोति व्रजतीत्यादयो न
क्रियासंबन्धमन्तरेण न पर्यवस्यन्ति, अपि तु तत्समभिव्याहृता अपि संबध्यन्ते ।
नामार्थस्तु न पूर्वापरीभूतस्वप्रधानक्रियापदार्थमन्तरेण पर्यवस्यति । अत एवाहुः—


430

यत्रान्यत् क्रियापदं न श्रूयते, तत्रास्तिर्भवन्तीपरः प्रयोक्तव्यः1740 । तथा च
ब्राह्मणेऽभिक्रामं भोक्तुं भूक्त्वेत्यादयश्च समुच्चयाद्यर्थाः1741 क्रियाविशेषम
न्तरेणापर्यवस्यन्तो नामत्वेन सिद्धा1742 भवन्ति । अस्योदाहरणमाह—यथा ब्राह्मण
इति । उदाहरणस्यार्थमाह—क्रियाकारकसमुदायः कारकसंख्याविशिष्टः । अत्र
हि क्रियाशब्देन ब्राह्मणस्य भावो ब्राह्मणस्य भावो ब्राह्मणत्वमभिमतं भावशब्दस्य क्रियार्थत्वात् ।
भविता च ब्राह्मणः कारकम् । तयोर्ब्राह्मणत्वब्राह्मणयोः समुदायः । स च कारकस्य
भवितुर्ब्राह्मणस्यैकत्वसंख्यया विशिष्टो ब्राह्मण इत्यस्मात् नामपदाद् गम्यत
इत्यर्थः । आख्यातलक्षणमाह—क्रियाकालयोगाभिधायिक्रियाप्रधानमाख्यातम् ।
क्रियायाः कालयोगः पूर्वापरीभावः । कालयोगाद्धि संभवति तदभिधायि । तदनेन
पाक इत्यादेर्नामपदाद् व्यवच्छिनत्ति । एवमपि भुक्त्वा भोक्तुमित्यादावपि नाम्नि
प्रसङ्गः । अस्ति हि तत्रापि 1743फलावधिपूर्वापरीभूतकर्मक्षणप्रचयप्रत्ययः । अन्यथा
ओदनमिति कर्मसंबन्धो न स्यादत उक्तं क्रियाप्रधानमिति । स्वनिष्ठा ह्याख्यातात्
क्रिया प्रतीयते नान्यतन्त्रा । भोक्तुमित्यादौ तु क्रियान्तरमन्तरेण 1744उपर्यवस्यन्ती
क्रिया गम्यते । व्रजतीत्यादौ तु न तथा । तदिदं क्रियाप्राधान्यम् । तदनेन पचति पचेत
पच्यते स्थीयत इत्यादि सर्वमाख्यातं संगृहीतं भवति । न क्वचिदपि नाम्नि
प्रसङ्गः । यदप्यस्त्यादि नामाख्यातप्रतिरूपकं, तत्रापि सन्नित्यस्यार्थे सिद्धरूपे तद्
वर्तते । न पुनः पूर्वापरीभूतक्रियार्थत्वमिति द्रष्टव्यम् ।


यस्मान्नाम्ना सर्वं पदं व्याप्यते इति । बाहुल्यं व्याप्त्यर्थः । प्रायेण हि वाक्ये
बहूनि नामपदानि, आख्यातं पुनरेकमेवैकस्मिन् वाक्ये, आख्यातभेदे वाक्यभेदा
दिति । अधिकरणमाक्षिपति—न पदादर्थाधिगतिरिति । पदेन हि विशेषो वाभिधीयते
सामान्यं वा ? तत्र विशेषाभिधानं तावद् दूषयति—विशेष इति । अनवस्थान
मनवधारणमिति । सामान्याभिधानमास्थायाह—न पदस्येति । दूषयति—न सामान्य
431 स्येति ।
व्यवहाराय हि वाक्यमुच्चारयन्ति वृद्धाः, न तु व्यसनितया । न चास्ति
सामान्यसाध्यः कश्चिद् व्यवहारः, किं तु सर्वो व्यवहारो विशेषसाध्यः । न चास्य
पदं वाचकम्, तद् वाक्यमेव वाक्यार्थस्य वाचकमिति न पदार्थचिन्तावसर
इत्याक्षेपः1745 । समाधत्ते—न सामान्यविषयत्वे सतीति । न तावत् पदातिरिक्तमस्ति
वाक्यं नामेत्युक्तमधस्तात् । न च वर्णमालैव पदार्थप्रतिपादनावान्तरव्यापारानपेक्षा
वाक्यार्थबोधनीति युक्तम् । अनपेक्षितसंके तग्रहायास्तस्यास्तदवबोधने
प्रथमश्राविणोऽप्यविदितसंकेतस्य वाक्यार्थबोधप्रसङ्गः । 1746संकेतग्रहापेक्षत्वे वाक्यार्थेन
सहानन्त्यव्यभिचाराभ्यां वाक्यस्य संकेतग्रहासंभव इत्यकामेनापि पदानां स्वार्थे
संकेतोऽभ्युपगन्तव्यः । तस्मात् पदानां सामान्यमर्थः । तत्प्रतिपादनावान्तरव्यापाराणां
च यथा वाक्यार्थप्रतिपादकत्वं तथास्माभिः तत्त्वबिन्दौ निपुणतरमुपपादितम् । सेयं
पदात् सामान्यप्रतीतिः गौरिति वा अश्व इति वा सर्वगवीषु सर्वाश्वेषु चोपसर्पन्ती
शुक्ल इति वा कृष्ण इति वा विशेषश्रुत्या नियम्यत इत्यर्थः । पृच्छति—कथं
पुनरियमिति ।
तिष्ठति गच्छतीत्यादयोऽपि न पदत्वेन विशेषे वर्तितुमर्हन्ति
संबन्धग्रहासंभवात् । तस्मादेतेऽपि सामान्यवचना इति भावः । उत्तरम्—नैवेयमिति ।
तदेवं पदस्य सामान्यवाचकत्वनिश्चयादाकृतिव्यक्त्योश्च पदात् प्रतीतेर्वादिनां
विप्रतिपत्तेर्भवति संशयः किं त्रितयमर्थ आहो अन्यतम इति । एवं तावत् सामान्यावगमाद्
वाचकत्वं विनिश्चित्य 1747चिन्तान्तरावतारो दर्शितः । संप्रति द्वितयावगमात् पदस्य
वाचकत्वशङ्कैव नास्ति । तस्माद् युक्तश्चिन्तान्तरावतार1748 इत्याह—भवतु वेति ।
प्रतीतिसिद्धमनुजानाति—क्रिया च तत्साधनं चेति, भविता गौरित्यर्थः ॥ ५८ ॥


व्यक्त्याकृतिजातिसन्निधावुपचारात् संशयः ॥ २ । २ । ५९ ॥


किमन्यतमः पदार्थ उत सर्वमिति भाष्यम् । तत्रान्यतमार्थमाह वार्त्तिककारः
किं व्यक्तिरिति
॥ ५९ ॥


432

याशब्दसमूहत्यागपरिग्रहसंख्यावृद्ध्यपचयवर्णसमासानु
बन्धानां व्यक्तावुपचाराद् व्यक्तिः ॥ २ । २ । ६० ॥


अत्र याशब्दादिप्रयोगसामर्थ्याद् व्यक्तिरेव पदार्थ इत्येके मन्यन्ते । स्यादेतत्,
व्यक्तिवदाकृतिरपि भिद्यत इत्याकृतेरप्यभिधायकं कस्मान्न भवतीत्यत
आह—आकृतेरपीति ।


गोत्वं च जातिरुपाधिर्भविष्यति । तेन नातिप्रसङ्गः । न चोपाधेरभिधानम् ।
अनभिहितस्यापि तच्छब्देनोपहितावच्छेदकत्वदर्शनात् । यथा गार्गिकया श्लाघत
इत्यत्र श्लाघोपाधिविहितो बुञ् न श्लाघामाहेति भावः ॥ ६० ॥


न तदनवस्थानात् ॥ २ । २ । ६१ ॥


तमिमं व्यक्त्यभिधाननियमवादिनमपाकरोति—नानेनेति ॥ ६१ ॥


सहचरणस्थानतादर्थ्यवृत्तमानधारणसामीप्ययोगसाधनाधि
पत्येभ्यो ब्राह्मणमञ्चकटराजसक्तुचन्दनगङ्गाशाटकान्नपुरुषेष्वत
द्भावेऽपि तदुपचारः ॥ २ । २ । ६२ ॥


नाप्रतीत उपाधिरुपहितावच्छेदाय प्रभवति । न च गार्गिकयेत्यत्रोपाधि
र्बुञाभिहितोऽपि1749 न प्रतीयते श्लाघत इति पदान्तरेण तस्याभिधानात् । यत्र तु श्लाघत
इति न प्रयुज्यते न तत्र बुञो भावाभिधायिनः साधुत्वमस्ति । सेयं व्यधिकरणेऽनुपाधौ1750
गतिः । समानाधिकरणे तु पश्वादावुपाधौ प्रत्ययान्तरशब्दवाच्यत्वमेव, यथा दृतिहरिः
श्वेति । अत्र हि दृतिहरिरित्येतावतैव पशौ लब्धे तद्विशेषनियमाय श्वेति प्रयुज्यते ।
433 न च प्रयोगादेवोपाधेर्गम्यमानत्वादनभिधानमिति साम्प्रतम् । तदुपाध्यनभिधायिनस्तत्र
प्रयोगे नियमस्य पर्यनुयोज्यत्वात् । अननुयोज्यत्वे तु अनादेर्लोकप्रयोगनियमस्य1751
सर्वेषामेव शब्दानामनभिधायकत्वप्रसङ्गः । प्रयोगनियमादेव हि तेभ्योऽर्थो गंस्यते1752
अथाप्रतिपादकस्य प्रयोगनियमो नोपपद्यत इति यत्र प्रयोगनियमः तत्प्रतिपादक
त्वमित्यभ्युपेयते, तदुपाधावपि समानम् तथा च स्मरति भगवान् कात्यायनः
तदन्तवाच्यः समानशब्दोऽयम्


इति । समानशब्दः समानाधिकरणशब्दः, य उपाधिरसौ प्रत्ययान्तशब्दवाच्य
इत्यर्थः । तस्माद् व्यक्तिनियमे अप्रतीता1753 जातिरशक्ता । न च गोशब्दादन्यदस्याः
प्रत्यायकमस्तीति, सापि तेन प्रत्यायनीयेति सिद्धं न व्यक्तिमात्रं पदार्थ इति । सह
…रः ।


कटार्थेषु वीरणेषु व्युह्यमानेषु इति भाष्यम् । कटं करोतीति निर्वर्त्यस्य
कटस्य कर्मत्वमनुपपन्नं कारकाधिकारिकत्वात्1754 कर्मसंज्ञायाः, क्रियानिमित्तस्य च
कारकत्वात्, असिद्धस्य च क्रियायाः पूर्वं निमित्तभावायोगात् । तस्मात्
तादर्थ्यनिमित्तादेष कटशब्दः कटार्थेषु वीरणेषु व्युह्यमानेषु वर्तते1755 । वीरणानां च
रच्यमानानामस्ति कटक्रियापूर्वभावित्वेन निमित्तभाव इति ॥ ६२ ॥


आकृतिस्तदपेक्षत्वात् सत्त्वव्यवस्थानसिद्धेः ॥ २ । २ । ६३ ॥


यदि न जात्या विना व्यक्तिनियम इति जातिरभिधेया, हन्त भोः साप्याकृत्या
1756नियम्यत इत्याकृतिरेवाभिधीयतामित्याह—यदि तर्हीति । आकृ…द्धेः ।


एतदपि दूषयति—अत्रापि तदेवोपस्थितं न तदनवस्थानादिति । संस्थानेनापि
व्यज्यमाना जातिरेकार्थसमवायाद् व्यज्यते च व्यवस्थाप्यते च । सा तु व्यक्ति
संस्थानाभ्यां व्यावर्तमानाभ्यामनुवर्तमाना ताभ्यां भिन्नभिन्नबुद्ध्याध्यववसीयते1757,
434 तादृशी च व्यक्तिसंस्थानाभिधानानपेक्षेणापि पदेन शक्या बोधयितुम् । संस्थानं तु
व्यक्तिवद् भिन्नम् आनन्त्यव्यभिचाराभ्यामशक्यसंकेतग्रहणं जात्यभिधानान
पेक्ष्यमशक्यं1758 पदेन बोधयितुमिति न संस्थानापरनामा आकृतिः पदार्थ इत्यर्थः । नापि
जातिद्वारेण व्यक्तिवदाकृतिः पदार्थो जात्या सहासंबन्धादित्याह—यस्य च जात्या
योग
इति ॥ ६३ ॥


व्यक्त्याकृतियुक्तेऽप्यप्रसङ्गात् प्रोक्षणादीनां मृद्गवके जातिः ॥
२ । २ । ६४ ॥


अस्तु तर्हि जातिरेव पदार्थः । तत्र हि सुकरः संगतिग्रहो1759 व्यभिचाराभावात्,
व्यक्त्याकृत्योस्तु व्यभिचारः । जात्यभिधायिनश्च व्यक्तावाकृतौ चौपचारिकः
प्रयोगो भविष्यतीत्यभिप्रायेणाह—अस्तु तर्हीति । शेषमस्यातिरोहितार्थम् । व्यक्त्या
…तिः ।


एकमनेकत्र वर्तत इति प्रतिजानानो नानुयोक्तव्यः । उभयेन व्याघातादिति ।
यद्येकमनेकत्र वर्तमानं प्रतिव्यक्ति सर्वात्मना वर्तते, नैकमनेकत्र वर्तत इति किन्तु
अनेकमनेकत्रेत्यापन्नम्1760 । एवं चानुयोगाधिकरणव्याघातः । अथैकमनेकत्र वर्तमानं
प्रतिव्यक्त्येकदेशेन वर्तते, तथापि नैकमनेकत्र वर्तते किं त्वनेकमनेकत्रेति
एकदेशानामनेकत्वादिति । सोऽयमुभयेन व्याघात उक्तोऽवयविवादे ॥ ६४ ॥


नाकृतिव्यक्त्यपेक्षत्वाज्जात्यभिव्यक्तेः ॥ २ । २ । ६५ ॥


व्यक्त्याकृतिजातयस्तु पदार्थः ॥ २ । २ । ६६ ॥


435

तदेवमन्यतमाभिधानानियमं निराकृत्यानियमाभिधानं सिद्धान्तमाह—व्यक्त्या
…र्थः ।


इदमत्राकूतम् । गोशब्दोच्चारणानन्तरं विदिनसंगतेरेकपदे व्यक्त्याकृति
जातिनिर्भासः प्रत्यय उदयमासादयति । न तु यथा गङ्गायां घोषः प्रतिवसति
इत्यत्र गौर्वाहीक इत्यत्र वा वाक्ये गङ्गात्वगोत्वापगमोत्तरकालं वाक्यार्थे
तत्संबन्धानुपपत्तेस्तदविनाभावेन वा लक्ष्यमाणगुणयोगेन वा तीरं वा वाहीको
वावगम्यते, तथेहावगतिः । प्रयोगप्राचुर्यादत्यन्ताभ्यासेनातिशीघ्रतया सन्नपि प्रत्ययक्रमो
न लक्ष्यते शीघ्रतरबाणहेतुकशतपत्रशतव्यतिभेदवदिति चेत्—न, असति बाधके
बलीयसि प्रत्ययाभेदप्रथायामन्यथाकरणायोगात् । तथा च सति न क्वचिदप्यभेदो
व्यवतिष्ठेत । तथा च भेदोऽपि न स्याद् अभेदाश्रयत्वाद् भेदस्य । अपि च रूपिशून्या
रूपावगतिः रूपं च द्रव्यस्य जातिः । तेन रूप्यमाणत्वाद् रूपि द्रव्यम्, न च येन
यद्रूप्यते तदनवगमे तस्यावगमः, यथा नार्थमन्तरेण बुद्धेरुपलम्भनम् । तस्मात्
जात्युपलम्भो द्रव्योपलम्भैकदेशो न द्रव्योपलम्भमन्तरेण केवलः संभवति ।
तस्मादेकोपलम्भगोचरत्वान्न जातिजातिमतोर्लक्ष्यलक्षणभावः । स चोपलम्भः
शब्दज्ञानानन्तरं जायमानः शाब्दः । न च वाच्यम् एकोपलम्भगोचरत्वेऽपि
जातिव्यक्त्योर्जातिरेव वाच्या न व्यक्तिः, एकवाच्यत्वेऽप्युभयोपलम्भोपपत्तावुभय
वाच्यत्वकल्पनानुपपत्तेरिति । कार्यव्यङ्ग्यं हि कारकाणां सामर्थ्यं कार्य एव नाकार्ये ।
कार्यं चानुभवः । स चैक एवेति न सामर्थ्यभेदकल्पना । तद्द्वारेण तु कर्मण्यप्युच्यते
पदमर्थे समर्थमिति । कार्यं च द्वारमेकमिति विषयभेदेऽपि सामर्थ्यमेकमेव । अपि च
पुरुषसंकेताधीनवृत्तीनां1761 पदानां न किञ्चिदन्यत् सामर्थ्यं नाम प्रमाणगोचरः
यदेकमनेकं वा स्यात् । एतेन निरूढलक्षणायां शब्दस्य जात्यभिधानोपक्षीणस्य न
व्यक्तौ सामर्थ्यं कल्पनीयम् । अन्यत्राव्यापृतस्य तत्रार्थस्यैव सामर्थ्यमिति यदाहुः,
तदपि परास्तम् । स खल्वर्थः प्रतीतो वा व्यक्तिं गमयेद् अप्रतीतो वा ? अप्रतीतस्य
436 गमकत्वे सदैव व्यक्त्यवगतिप्रसङ्गः, कारणस्य नित्यत्वात् । प्रतीतस्य तु गमकत्वे
दुरुत्तरमात्माश्रयत्वम् । न हि जातिप्रत्ययादन्यो व्यक्तिप्रत्यय इत्युक्तम् । तस्मात् साधु
पारमर्षं सूत्रं व्यक्त्याकृतिजातयस्तु पदार्थ इति ।


संप्रति अन्यापोहपदार्थवादिनमुत्थापयति—न व्यक्त्याकृतिजातयः पदार्थ
इति केचिदिति । अथ द्रव्यादिवृत्तित्वाद्
इति । गवाश्वस्य तु नाश्रयाश्रयिभाव इति
भावः । जातिमन्मात्राभिधायकोऽपि सच्छब्दो न भवति । कस्मात् ? अस्वतन्त्र
त्वादिति ।
जातिमन्तो घटादयः, न चैते घटादिशब्दादिव निरपेक्षात् सच्छब्दात्
प्रतीयन्ते, किन्तु सच्छब्दाद् घटादिषु बुद्धिः परिप्लवते । घटादिशब्दापेक्षस्तु सच्छ
ब्दो घटादिनिश्चयहेतुः । तस्माद् घटादिशब्दपरतन्त्रत्वान्न तद्वतो वाचक इत्यर्थः ।


अथ वेति । यद् यत्र परतन्त्रं प्रवर्तते तत् तस्य न वाचकम्, यथा गङ्गागवादि
शब्दास्तीरबाहीकादेः । तथा च जातिशब्दा जातिमति । तस्मान्न जातिमद्वाचकाः । ते
हि जातिमपेक्ष्य जातिमति वर्तन्ते इतीदृंशं वा अस्वातन्त्र्यमित्यर्थः1762 । अथ जात्यनपेक्षः
कस्मान्न तद्वति प्रवर्तते इत्यत आह—उक्तं चात्रेति । अस्तु तर्हि औपचारिक एव
तद्वति प्रत्यय इत्यत आह—तद्वति चेति । यथा आधिपत्यलक्षणो गुणः स्वामिनो
जितकाशिनि भृत्येऽप्यस्तीति तत्र स्वामिशब्दः प्रवर्तते, न तथा जातिगुणयोगो
व्यक्तेरित्यर्थः । अपि चान्यशब्दोऽन्यत्र प्रवर्तमानः प्रथमं तावदन्यधियमुत्पादयति,
अथान्यत्र प्रवर्तते यथा गोशब्दो गवि बुद्धिमुत्पाद्य वाहीके प्रवर्तते । न चेह
जातिशब्दस्य जातौ तद्वति च क्रमेण प्रवृत्तिः1763 । न चौपचारिकस्य वृत्तियौगपद्य
मित्याह—क्रमवृत्त्यभावाद् युगपदसंभवाच्च । गुणोपरागं दूषयति—अयथार्थ
ज्ञानोत्पत्तिप्रसङ्गाच्च ।
गुणोपरागाद् यथा नीलः स्फटिक इति ज्ञानमयथार्थमेवं
सर्वमेव शब्दज्ञानं विना बाधकमयथार्थमेव स्यादित्यर्थः । एकस्वलक्षणाभिधानं
दूषयति—असाधारणेति । अशक्यसमयत्वाच्चेत्यपि द्रष्टव्यम् ।


तदेवम् अन्यापोहवादिनमुत्थाप्य दूषयति—अत्रास्माभिरिति । व्यक्त्या
437 कृतिजातयस्तिस्रोऽस्माकं पदार्थः । गुणप्रधानभावस्तु क्वचिदेव कस्यचित् । जाति
मद्व्यक्त्यभिधाने द्विविधमप्यस्वातन्त्र्यं न संभवति शब्दानाम् । न तावद् व्यक्तिज्ञाने
जनयितव्ये तदर्थं जातिज्ञानं पूर्वमपेक्षते शब्द1764 इति संभवति द्वयोरप्येरविज्ञान
वेद्यत्वनियमेन पौर्वापर्यायोगात् । नापि विशेषवाचकं पदं विना जातिशब्दानां1765
बुद्धिपरिप्लवात् तद्विनिश्चयाय विशेषशब्दापेक्षया अस्वातन्त्र्यम्, स्वविषये
जातिशब्दाद् बुद्धेरपरिप्लवात् । जातिमद्व्यक्तिमात्रमस्य हि विषयो न चात्र
बुद्धिपरिप्लवः । व्यक्तिनियमस्तु न विषय इति न तत्र बुद्धिपरिप्लवो दुष्यति । दूराद्धि
आरोहपरिणाहवद्द्रव्यमात्रं गोचरः प्रत्यक्षस्य । न तु स्थाणुः पुरुषो वा । न चात्र
बुद्धिपरिप्लुतिः प्रत्यक्षक्षतिं कांचनावहति । न चास्मिन् पक्षे जातिशब्दो व्यक्त्याकृत्योः
परशब्दो येनौपचारिकः स्यात् । न च सामानाधिकरण्यं न कल्पते, जातिव्यक्ति
शब्दयोरेकार्थाभिधायिनोर्वैयधिकरण्यायोगात् । तस्मात् सर्वमवदातम् ।


एवम् अनेकान्तवादे परोक्तदोषाप्रसङ्गमभिधाय दूषणवाक्यं परोक्तं दूषयन्
दोषाभावमाह—न चैते दोषा इति । सत्ताशब्द इति । सत्तायाः शब्द इति वा
विग्रहः, सत्तारूपः शब्द इति वा ? तत्र पूर्वस्मिन् कल्पे सत्ताया न वाचकः सत्ताशब्द
इति व्याघातः । उत्तरस्मिन्नपि कल्पे न वाचकः सत्ताया इत्यनेन व्याघातः, सत्ताया
इत्यनेन शब्देन सत्तामभिधत्से अथ च तस्य वाचको न सत्ताशब्द इति ब्रूषे, ततो
व्याघातः । सत्ताशब्द इति चोपलक्षणार्थं सत्ताया न वाचक इति द्रष्टव्यम् । शङ्कते—
भवदभिप्रायेणेति । निराकरोति—नेति । यद्यस्मदभिप्रायार्थं प्रतिपद्यसे, अर्थप्रतीत्य
धीनोऽभ्युपगम इति अभ्युपगमं ब्रूषे, तथा च न निषेद्धुमर्हसीति भावः ।


अथ निषेद्धुं प्रत्येमि, न पुनरभ्युपैमीत्याशङ्कामाह—यच्चेदमिति । दूषयति—
तदपि नेति । अतथाभूतस्य अपुरुषभूतस्य स्थाणोः तथाभाविभिः पुरुषैः सामान्ये
सति अध्यारोपिततद्धर्मणो1766ऽध्यारोपितः पुरुषत्वादिधर्मो यस्य स तथोक्तः । तस्य
प्रधानार्थः पुरुषः । तदाकारा प्रतीतिरित्यर्थः । सत्तायाः प्रधानसाधनवाचिनेति ।
438 सत्ताया भावस्य प्रधानं साधनं व्यञ्जकतया भवितृ द्रव्यम् तद्वाची खलु सच्छब्दः ।
सत्ताशब्दस्तु द्रव्योपसर्जनभाववाची । न तस्य द्रव्यवाचिना सामानाधिकरण्य
मित्यर्थः । सामानाधिकरण्यस्यासिद्धिः सद्द्रव्यशब्दयोरिति । सिद्धिः
प्रतीतिः । सा भवन्मते न स्यादिति यदुक्तं कैश्चित् तदपि अनेन सामानाधिकरण्य
व्यवस्थापनेन प्रत्युक्तम् ।


व्याख्यातः निराकार्यत्वेन । स्वयम्प्रकॢप्तां वाचोयुक्तिमिति । जातिशब्द इति
सदादिशब्देषु स्वयम्प्रकॢप्ता या वचनव्यक्तिः तां प्रतिषेधति । तत्र चास्माकं
सिद्धसाधनमित्यर्थः । सच्छब्दो जातिशब्दः, तस्य च भेदवाचकत्वं 1767अस्य संमतमिति
मन्वानो देशयति—यदि तर्हीति । सुगमः परिहारः । तथापि नान्वयी न व्यतिरेकी
चेति ।
ये ये अनन्ता न ते जातिशब्दवाच्या इति न दृष्टान्तः, सर्वभेदपक्षीकरणात् ।
नापि यो जातिशब्दवाच्यो न तत्रानन्त्यम्, यथा गोत्वादिकमिति शक्यं वक्तुं जातेरेव
भवन्मते व्योमारविन्दायमानत्वादिति भावः । शङ्कते—अथापीति । तथा सत्यन्वयी
दृष्टान्तो लभ्यत इति भावः । निराकरोति—अयमपि नेति । विशेषणोपादानविरोधात् ।
न हि भेदमन्तरेण किञ्चिदस्ति वस्तुसद् यतो विशेषणं व्यावर्तयेदिति भावः ।


हेतुभावानभ्युपगमादिति । न हि शब्दोऽर्थप्रत्यायने लिङ्गं येन व्यभिचारेण
दुष्येत् । न च प्रत्यायकमात्रं व्यभिचारेण दुष्यति चक्षुरादीनामपि नीलादिव्यभिचारेण
पीतादौ1768 वर्तमानतया व्यभिचारिणामप्रत्यायकत्वप्रसङ्गात् । संकेतग्रहस्तु सत्यपि
भेदानां व्यभिचारे एकैकजातिक्रोडीकृततया सुकर एवेति भावः । भेदवाच
कत्वप्रतिषेधादिति ।
भेदवाचकत्वे निषिद्धे द्रव्यवाचकत्वं निषिद्धं भवति द्रव्यस्य
भेदत्वात् । ततश्च सच्छब्दो द्रव्यशब्द इति व्याघात इत्यर्थः ।


उक्तोत्तरमेतत् सच्छब्दद्रव्यशब्दयोरेकविषयत्वदिति । विशेषमात्रं विषयः
सदादिशब्दस्य न पुनर्नियतोऽयमेव नान्य इति विशेषशब्देन चासौ समानाधिकरणेन
नियम्यते, न तु प्राप्यते इति1769 भावः । सत्ताशब्देन द्रव्यगुणकर्माणि नाक्षिप्यन्ते ।
439 सामानाधिकरण्ययोग्यतयेत्यर्थः, तदन्तरेण तदनुपपत्तेः । आक्षेपमात्रं तु शक्यं
वक्तुमित्याह—शक्यं वक्तुमिति । पृष्ट्वा सच्छब्दस्य गुणप्रधानभावेन त्रयोऽर्था इति
सूत्रकारन्यायेनावधारयति—सदिति चायमिति । अर्थकृत इति । अर्थः कार्यं
तत्कृतः । एतदुक्तं भवति, यस्य कार्येण संबन्धस्तत्प्रधानम् । यस्य तु कार्य
संबन्धावच्छेदकत्वं तदङ्गमिति । एतेनेति । अर्थत्रयाभिधानेन ।


न हि स्वामिप्रत्ययो भृत्ये भवति, अपि तु तदर्थक्रियाकारितया स्वामिव्यप
पदेशमात्रमित्यर्थः । नात्र क्रमो न युगपत्प्रत्यय इति, भेदाधिष्ठाने क्रमयौगपद्ये
नैकस्मिन् सत्ताविशिष्टद्रव्यप्रत्यये संभवत इति । एतेनेति सच्छब्दस्य सत्ताविशिष्ट
द्रव्यवाचित्वाभिधानेन अयथार्थज्ञानोत्पत्तिप्रसङ्गादिति प्रत्युक्तम् । परमार्थ
स्वच्छधवले हि स्फटिके नीलीद्रव्योपधानात् नीलप्रत्ययो भवतु भ्रान्तः तस्य
परमार्थतो नीलगुणासमवायात् । सत्तासमवायस्तु द्रव्यादीनां पारमार्थिक इति न
द्रव्यादिषु सदिति प्रत्ययस्य मिथ्यात्वमित्यर्थः ।


न हि कश्चिच्छब्द इति । स्वलक्षणानामशक्यसमयतया न कश्चिदपि शब्दो
भवतो 1770वाचकोऽभ्युपेयत इत्यर्थः । न च जातिशब्दस्येति जातेरभावादिति
भावः । न जातिशब्दो भेदानां वाचक इति । कस्य तर्हीति पूर्वं भेदान् प्रधानीकृत्योक्तं
संप्रति तु जातिशब्दानित्येतावता अपौनरुक्त्यम् ।


नास्ति विवाद इति । अन्यापोहजात्योर्लक्षणाभेदे नाम्नि1771 विवाद इत्यर्थः ।


द्रव्यसच्छब्दयोश्च सामानाधिकरण्यम्, न च भेदवाचकाः शब्दा इति
व्याहतमिति ।
द्रव्यमिति हि विधिरूपम् । एवं सदित्यपि विधिरूपं तच्छब्दौ
तयोर्वाचकौ तयोरन्यापोहार्थत्वं व्याहतम् । विधिशब्दौ चान्यापोहार्थाविति च न
संभवति । न च भेदानभिधायिनोः सामानाधिकरण्यमपि युज्यते । भिन्नाभ्यां हि
निमित्ताभ्यामेकस्मिन्नर्थे, भेदरूपे वर्तमानौ समानाधिकरणौ 1772स्यातां भेदं चेन्नाभिवदतो
न तत्र प्रवर्तेयाताम् । अप्रवर्तमानौ च भिन्नप्रवृत्तिनिमित्तमात्रपर्यवसितौ गौरश्व इति
440 वत् न समानाधिकरणौ भवितुमर्हतः । सोऽयमपरो व्याघातः, भेदानभिधानं च
सामानाधिकरण्यं चेति । तदनेन व्याघातद्वयमुक्तम् । तदेतद् व्याघातद्वयं
निराचिकीर्षुराशङ्कते—उपचारतो न व्याघात इति चेत् । तदेतद् विभजते—
द्रव्यसच्छब्दाविति । तदनेन प्रथमो व्याघातः परिहृतः । द्वितीयं व्याघातं शङ्कित्वा
परिहरति—तावेताविति । ब्रूतः प्रतिपादयतोऽध्यवस्यत इति यावत् ।


एतदत्राकूतम् । 1773विकल्पयोनयो हि शब्दास्तदेवाभिनिविशन्ते यद्विकल्पानां
गोचरः, कार्यकारणयोः सामानादिकरण्येन संप्रतिपत्तेः । चतुष्टयी चेयं विकल्पानां
सदसद्धर्मिसद्धर्मावगाहिनां जातिः गौरीश्वरो नीलं नित्यमित्येवमादीनां 1774न च
विकल्पानां गोचरः, यो विकल्प्यते देशकालावस्थाभेदेष्वेकत्वेनानुसन्धीयते
तदेवेदमिति । स एव च शब्दगोचरः, तत्र शब्दानां शक्यसंकेतत्वात् । न च
स्वलक्षणानि त्रैलोक्यविलक्षणान्येवमिति तानि न विकल्पविषयः । न च सामान्यं
नाम किञ्चिदस्ति यद्विषयः स्यात् । अत एव न तद्वन्ति स्वलक्षणान्यपि तेषां
सामान्यानामभावे तद्वत्तायाः स्वलक्षणेष्वभावात् । अपि चास्तु सामान्यं वस्तुसत् ।
तथापि नित्यत्वादनुपकार्यतया स्वलक्षणाधारत्वानुपपत्तिः । आधारत्वमपि हि
करणत्वमेव । पतनधर्माणो हि बदरादयः कुण्डादिभिरपतनधर्माणः क्रियन्ते । न च
नित्यं क्रियत इति नाधेयम् । तथा च वृक्षत्वशिंशपात्वे स्वतन्त्रे एव सामान्ये
स्वशब्दाभ्यामवगमिते न गौरश्व इतिवत् सामानाधिकरण्यं भजेताम् । अपि च भवतु
नित्यस्याप्युपकार्यत्वेनाधेयत्वम्, तथाप्येतद् विकल्पनीयम्—किं येनैव स्वभावेन
तत्स्वलक्षणं वृक्षत्वमुपकरोति तेनैव शिंशपात्वमपि, अथ स्वभावान्तरेण ? 1775यदि
स्वभावान्तरेण, 1776स्वभावभेदेन स्वभाविभेदादन्यत् स्वलक्षणं शिंशपात्वाधारोऽन्यच्च
वृक्षत्वाधार इति पुनरपि गौरश्व इतिवत् सामानाधिकरण्याभाव एव । अथैकेन
स्वभावेन स्वलक्षणं सर्वसामान्योपकारि, तथापि 1777स्वभावाभेदेनोपकाराभेदे तदुपकारा
441 धीनस्वभावानां सामान्यानां मध्ये एकसामान्यवतः स्वलक्षणस्य एकेन शब्देन
विकल्पेन वा ग्रहणे सर्वेषां तदेकोपकारनिबद्धस्वभावानां सामान्यानां ग्रहणात्
सद्द्रव्यपार्थिववृक्षशिंशपाविकल्पानां शब्दानां च पर्यायत्वप्रसङ्गः । यथाह

एकोपकारके ग्राह्ये नोपकारास्ततोऽपरे ।

दृष्टे तस्मिन्नदृष्टा ये तद्ग्रहे सकलग्रहः ॥

इति ।


तस्मान्न सामान्यवद्भेदगोचरा विकल्पाः । स्वलक्षणभेदगोचरत्वनिषेधेन
ज्ञानतद्ग्राह्याकारगोचरत्वमप्यपास्तम् । स्वाकारमबाह्यं बाह्यमध्यवस्यन् विकल्पः
स्वाकारबाह्यत्वविषय इति चेत् ? यथाह—


स्वप्रतिभासेऽनर्थेऽध्वसायेन प्रवृत्तिरिति ।

अथ कोऽयमध्वसायः ? किं ग्रहणम्, आहोस्वित् करणम्, उत योजना, अथ
समारोपः ? तत्र स्वाभासमनर्थमर्थं कथं गृह्णीयात्, कुर्याद् वा विकल्पः ? न हि पीतं
नीलं शक्यं ग्रहीतुं कर्तुं वा शिल्पकुशलेनापि1778 नाप्यगृहीतेन स्वलक्षणेन स्वाकारं
योजयितुमर्हति विकल्पः । न च स्वलक्षणं विकल्पग्रहगोचर इति चोपपादितम् ।
नापि1779 स्वाकारमनर्थमर्थ आरोपयति । न तावदगृहीतः स्वाकारः शक्य आरोपयितुमिति
तद्ग्रहणमेषितव्यम् । 1780तत्र किं गृहीत्वा आरोपयति अथ 1781यदैव स्वाकारं गृह्णाति,
तदैवारोपयति ? न तावत् पूर्वः पक्षः, न हि विकल्पविज्ञानं क्षणिकं क्रमवन्तौ
ग्रहणसमारोपौ कर्तुमर्हति । उत्तरस्मिंस्तु कल्पे विकल्पस्वसंवेदनप्रत्यक्षाद्
विकल्पाकारादहङ्कारास्पदादनहङ्कारास्पदं समारोप्यमाणो 1782विकल्पो नास्वगोचरो
न शक्योऽभिन्नः प्रतिपत्तुम् । नापि बाह्यस्वलक्षणैकत्वेन शक्यः प्रतिपत्तुं विकल्पविज्ञानेन
स्वलक्षणस्य बाह्यस्याप्रतिभासनात् । तस्मादेष विकल्पविषयो न ज्ञानं न ज्ञानाकारो
नापि बाह्य इत्यलीक एवास्थेयः । यथाह भदन्तधर्मोत्तरः
442 बुद्ध्या कल्पेकया विविक्तमपरैर्यद्रूपमुल्लिख्यते
बुद्धिर्नो न बहिः1783


इति, तथापि 1784विकल्पज्ञानाद् बाह्याभिमुखी प्रवृत्तिस्तदर्थिनां1785 न स्यात् ।
तस्मादलीकबाह्यत्वमेषां विषयः । बाह्यभेदाग्रहश्चास्य बाह्यत्वं न पुनर्बाह्याभेद
ग्रहः । विकल्पगोचरे1786 बाह्ये तदभेदग्रहस्याशक्यत्वात् । तस्मात् निर्विकल्पकपृष्ठभाविनो
विकल्पाः तदुपनीतबाह्यस्वलक्षणभेदं स्वग्राह्यालीकस्यागृह्णन्तः तदभिमुखं प्रवर्तयन्ति
व्यवहर्तॄनर्थिनः । पारम्पर्येण तत्संबन्धात् प्राप्तेर्न विसंवादयन्ति लोकम् । तेषां च
विकल्पविषयाणां न तैरेव विकल्पैः परस्परतो भेदो गृह्यते, नापि विकल्पान्तरैरिति
भेदाग्रहादभेदमभिमन्यते पुरुषः । तदभेदाच्चावमर्षाणामभेदः, तदभेदाच्च तद्धेतूनाम
विकल्पधियामप्यभेदः । तदभेदाच्च स्वलक्षणानामप्यविकल्पधीविषयाणामप्य
भेदः । यथाह—


एकप्रत्यवमर्षस्य हेतुत्वाद् धीरभेदिनी ।

एकीधीहेतुभावेन व्यक्तीनामप्यभिन्नता ॥

इति । तत् सिद्धमलीकं 1787बाह्यं विषयो विकल्पानां शब्दानां चेति ।
तच्चेदमन्यव्यावृत्तिरूपं भावाभावसाधारण्याद् अत्यन्तविलक्षणानां सालक्षण्या
पादनाच्च ताद्रूप्यानुभवाच्च । तथा हि—यद् भावाभावसाधारणं तदन्यव्यावृत्तिरूपयेव,
यथा अमूर्तत्वम् । तत् खलु विज्ञाने च शशविषाणे च साधारणम् । तथा च
विवादाध्यासिता विकल्पविषया घटपटादय इति स्वभावहेतुः । गौरस्ति गौर्नास्तीति
हि भावाभावसाधारणो गवादिर्विकल्पविषयो विधिरूपस्वलक्षणवद्भावासाधारण्ये
नास्तीत्यनेन न संबध्येत विरोधात् । अस्तीत्यनेनापि न संबध्येत पौनरुक्त्यात् ।
443 1788एवमभावासाधारण्येऽपि नास्तीत्यनेन न संबध्येत पौनरुक्त्यात् अस्तीत्यनेनापि न
संबध्येत विरोधात्1789 । भावाभावसाधारणग्रहणं च नानिमित्तं नाप्यन्यनिमित्तम् । न हि
विधिरूपविषयस्य तत्स्वरूपविषयस्य वा विधिधर्मानुपातिनः तत्र निमित्तभावः
संभवति । तस्मात् निमित्तवत्तया साधारणग्रहणं व्याप्तं विपक्षात् निमित्तवत्त्वस्य
व्यापकस्यानुपलब्ध्या निवर्तमानमन्यव्यावृत्तिविषयत्वेन व्याप्यत इति प्रतिबन्ध
सिद्धिः । अपि चात्यन्ताविलक्षणानां सालक्षण्यम् अन्यव्यावृत्तिकृतमेव । यथा
गवाश्वमहिषमातङ्गानामत्यन्तविलक्षणानामपि सिंहव्यावृत्त्या सालक्षण्यम् । तथा च
बाह्यस्य स्वलक्षणस्य विधिरूपस्य परमार्थसतोऽपरमार्थसतात्यन्तविलक्षणेन
सालक्षण्यमिति स्वभावहेतुः । बाह्यं हि विधिरूपमप्यगोव्यावृत्तम् । विकल्पविषयोऽपि
चेदगोव्यावृत्तस्ततः सालक्षण्यम्, नान्यथा । तथा च सालक्षण्यमपि निमित्तवत्तया
व्याप्तं तदनुपलब्ध्या विपक्षाद् व्यावर्तमानं स्वसाध्येन व्याप्यत इति प्रतिबन्ध
सिद्धिः । अपि चायमनुभूयत एव विकल्पविषयोऽन्यव्यावृत्तिरूपः । तथा हि
तदप्रतिभासे गां बधानेति देशितोऽश्वं बध्नीयाद् गोरश्वादभेदेनाप्रतिभासनात् ।
प्रतिभासे वा कथं नागोव्यावृत्तेः प्रतिभासः ? तस्मादन्यापोहगोचरौ शब्दविकल्पा
विति । तदेतदुक्तं वार्त्तिककृता तावेतावसदद्रव्यव्युदासरूपेण प्रवर्तमानावेक
मर्थं ब्रूत
इति । एकं स्वलक्षणम् अध्यवस्यतः । अध्यवसायश्च स्वविशयस्य
स्वलक्षणस्य भेदेनाग्रह इत्युक्तम् ।


अत्रोच्यते । जातिस्तावद् उपपादितसद्भावा तत एव तद्वती व्यक्तिरपि परमार्थसती ।
स्वाभाविकश्च संबन्धो व्यक्तेर्जात्या सह नोपकारमपेक्षते । अपि 1790चानित्य
स्याप्युपकार्यता क्षणभंगभंग उपपादष्यिते । यथा चैकोपाधिग्रहेऽपि नोपाध्यन्तर
विशिष्टग्रहस्तथोपपादितं प्रत्यक्षलक्षणावसरे । न चात्यन्तासतः केनचिदसरूपस्य1791
प्रथोपपद्यत इति सारूप्यनिमित्तां भ्रान्तिमुपपादयता वार्त्तिककृता उक्तम् । उपपादितं
चास्माभिः । तस्मात् जातिमत्यो व्यक्तयो विकल्पानां च शब्दानां च गोचरः, तासां
444 1792तद्वतीनां रूपमतज्जातीयव्यावृत्तमित्यर्थः । अतस्तदवगतेर्न गां बधानेति चोदितोऽश्वा
दीन् बध्नाति । न च शब्दार्थस्य जातेर्भावाभावसाधारण्यं नोपपद्यते । सा हि स्वरूपतो
नित्यापि देशकालविप्रकीर्णानन्तव्यक्त्याश्रयतया भावाभावसाधारणी भवति अस्ति
नास्तिसंबन्धयोग्या । वर्तमानव्यक्तिसंबन्धिता हि जातेरस्तिता । अतीताना
गतव्यक्तिसंबन्धिता च नास्तितेति । सन्दिग्धव्यतिरेकित्वादनैकान्तिकं भावाभाव
साधारण्यमन्यथासिद्धं चेति । जातिमती व्यक्तिर्विकल्पगोचरो नालीकमिति कस्य
वस्तुना सह सादृश्यायान्यव्यावृत्तिरूपता आस्थीयेत ? अपि चालीकस्य समस्त
सामर्थ्यविरहिणोऽत्यन्तविसदृशस्य समर्थेन स्वलक्षणेन विधिरूपेण किं सादृश्यम् ?
अन्यव्यावृत्तिरिति चेत् ? नन्वन्यव्यावृत्तिर्भाविकी स्वलक्षणस्य स्वभावो वा अन्यो
वा ? न तावत् स्वभावो विधिरूपेण विरोधात् । अविरोधे वा विधिनिषेधयोरेकत्वाद्
विधिरूपतानिषेधेनालीकस्य स्वलक्षणसारूप्यायान्यव्यावृत्तिरूपतोपपादनमनर्थकम् ।
विधिरूपेणातुच्छेन तुच्छस्य सारूप्यमनुपपन्नमिति चेत्, हन्त भोः स्वलक्षणस्यास्ति
किं तुच्छमपि रूपं येनालीकस्य तुच्छस्य सारूप्यं स्यात् । तथा सत्ययमेकस्य
स्वलक्षणस्य तुच्छातुच्छस्वरूपविरुद्धस्वभावद्वयसमावेशमभ्युपगच्छन् श्लाघनीय
प्रज्ञो देवानां प्रियः । न च स्वलक्षणादन्यव्यावृत्तिरलीकमन्यव्यावृत्तं स्वलक्षणेन
सरूपयति । तथा सति हस्तिमशकावपि रासभः सरूपयेत् । धर्मो न च स्वलक्षणधर्मो
व्यावृत्तिर्भवद्भिरभ्युपेयते ।


स्यादेतत् । अध्यवसीयमानमपि स्वलक्षणं न परमार्थसत् । अपि तु तदपि
कल्पितम् । तस्मात् तस्य विधिनिषेधरूपता न विरुध्येत । वस्तुनि हि विरुद्धधर्माध्यासो
विरुध्यते नावस्तुनि, तेन तस्य विधिरूपपरित्यागेन निषेधरूपतामुपादायालीकस्य
सारूप्यमुपपद्यते । यथाह—


यच्च गृह्यते यच्चाध्यवसीयते ते द्वे अप्यन्यव्यावृत्ती न वस्तुनी इति ।
अथालीकस्य स्वलक्षणस्यालीकसादृश्ये किं सिध्यति ? न तावत् तत्र प्रवृत्तिः,
445 असतः प्रवृत्तिविषयत्वायोगात् । सतस्तु प्रवृत्तिविकल्पस्य1793 न सादृश्यमसता,
सादृश्ये वा वृथालीकस्वलक्षणस्याभ्युपगमः । अथ न वयमलीकं स्वलक्षणा
न्तरमातिष्ठामहे, किं त्वलीकस्यैव दाहपाकादिसामर्थ्यारोपम् । न चैतत्स्वलक्षणं
तस्य सर्वतो व्यावृत्तस्याभिलापसंसगायोग्यत्वेन विकल्पविज्ञानप्रतिभासाभावात् ।
अभिलापसंसर्गयोग्यस्य चान्वयिनोऽस्वलक्षणत्वात् । तस्मात् तस्यान्वयिनोऽन्यव्या
वृत्तिरूपस्यासमर्थस्यापि सामर्थ्यं समारोप्य तत्तदर्थिनो व्यवहर्तॄन्, 1794प्रवर्तयन्तो
विकल्पाः, पारम्पर्येण च वस्तुसंबन्धात् समर्थं वस्तु प्रापयन्तो न विसंवादयन्ति
लोकमिति युक्तमुत्पश्यामः ।


अथास्य अतदर्थक्रियासामर्थ्यारोपः किं दृष्टार्थक्रियास्वलक्षणसालक्षण्येन,
आहोस्विदनादिवासनावशात् ? तत्र स्वलक्षणेन सर्वतो व्यावृत्तेन समर्थेन समस्त
सामर्थ्यविरहिणोऽन्वयिनो न किञ्चिदस्ति सारूप्यम् । अगोव्यावृत्त्या तु सारूप्ये
विधिरूपेणापि प्रसङ्गः तस्यास्ततो भेदाभावादित्युक्तम् । अनादिवासनावशात् तु
तदारोपे प्रथमदर्शिनोऽपि नारिकेलद्वीपाद् आगतस्य वह्नौ दाहपाकादिसामर्थ्य
विज्ञानप्रसङ्गः । वह्निस्वलक्षणाद् दाहपाकादिकारिणो भेदाग्रहादलीकस्य तद्रूपसमारोप
इति चेत् ? स किं स्वलक्षणे गृह्यमाणे अगृह्यमाणे वा ? न तावद् गृह्यमाणे, तस्य
विकल्पज्ञानागोचरत्वादित्युक्तम्1795 । तत्समयभावित्वविकल्पकं तत्त्वं1796 गृह्णदपि न
विकल्पे स्वविषयं निवेशयति तस्य ततोऽन्यत्वेन तद्वार्तानभिज्ञत्वात् । एवं विकल्प
विज्ञानमपि समनन्तरोत्पन्ननिर्विकल्पकव्यापारपरामर्शेऽपि1797 न स्वलक्षणं गोचरयितु
मर्हति तस्याभिलापसंसर्गयोग्यप्रतिभासविषयत्वादित्युक्तम् । समनन्तरप्रत्ययाद
विकल्पादुत्पत्तेस्तद्व्यापारपरामर्शादतद्गोचरोऽपि1798 तद्गोचर इवाभासत इति चेत् ?
अनुभववासनाप्रभवेषु1799 विकल्पेषु भवेदपीयं गतिर्न तु परोक्षार्थावगाहिष्वविद्या
वासनाप्रभवेषु संभवति । अपि चानुभववासनाप्रभवस्यापि तद्गोचरत्वा
446 भिमानस्तस्मिन्नप्रथमाने तदुत्पत्तिमात्रान्न भवितुमर्हति । अगृह्यमाणे तु वह्निस्वलक्षणे
ततो भेदाग्रहेण तद्रूपारोपे त्रैलोक्यरूपारोपप्रसङ्गो नियमहेतोरभावात् । न हि
तदानीमगृह्यमाणतया त्रैलोक्याद् वह्निस्वलक्षणस्य कश्चिद् विशेषः ।
वह्निस्वलक्षणविषयनिर्विकल्पकप्रभवत्वेन तु तन्नियमे अविद्यावासनाप्रभवेषु
प्रधानेश्वरादिविकल्पेषु तदभाव इति नियमो न स्यात् । न चाग्रहेण1800 तदारोपसंभव
इत्युक्तम् । तस्माद् अलीकस्य बाह्यत्वं विकल्पगोचर इति रिक्तं वचः ।


अपि च ज्ञानाकारवत् स्वलक्षणवच्चालीकबाह्यत्वमपि न विकल्पगोचरो
भवितुमर्हति । तद्विकल्पनाधीनम् । उत्पन्नायां कल्पनायामुत्पन्नमिव विनष्टायां विनष्टमिव
विकल्पनाभेदे भिन्नमिव न शक्यमेकत्वेन प्रतिपत्तुम्1801 । भेदानवमर्षादिति चेत् ?
किमस्यानवमृष्टमप्यस्ति तत्त्वम् ? ओमिति चेत् ? न तर्हि कल्पितम् । ननु नास्य
भेदोऽपि भाविकः । भावो1802 हि भेदाभेदाभ्यां युज्यते न त्वलीकम् । मा भूद् भेदोऽस्य
भाविकः1803 । कल्पनाधीनं तु तदलीकं तद्भेदाद् भिन्नं प्रतिपत्तव्यम्; अन्यथा
तदधीनत्वानुपपत्तेः । इदमेव हि तस्य विकल्पितस्य कल्पनाधीनत्वं यत्
कल्पनाभेदाभेदाद्यनुविधानं नाम, तदधीनत्वे तु कल्पितत्वानुपपत्तेरनलीकत्वप्रसङ्गात् ।
तन्मा नाम भूतामस्य स्वाभाविके नानात्वैकत्वे, न तु भिन्नकल्पनानुपाति शक्यमेकत्वेन
प्रतिपत्तुमिति भिन्नं प्रतिपत्तव्यम् । तत्सिद्धं विकल्पागोचरत्वमलीकबाह्यत्वस्य
अभिलापसंसर्गायोग्यत्वात् सुखादिस्वलक्षणवत् । अभिलापसंसर्गयोग्यं हि तत्,
तेनाशक्यसमयत्वात् सुखादिलक्षणवदिति । शक्यसमयतया खल्वभिलाप
संसर्गयोग्यता1804 व्याप्ता अन्यथातिप्रसङ्गात् । सालीकबाह्यतायाः प्रतिविकल्पं भिन्नाया
व्यावर्तमानाभिलापसंसर्गयोग्यत्वमपि व्यावर्तयतीति प्रतिबन्धसिद्धिः । अपि
चेदमलीकमगोव्यावृत्तिरूपं वा तद्धर्मो वा ? अगोव्यावृत्तिरूपं चेत्—न, तदसिद्धेऽगवि
शक्यं ग्रहीतुम् । अगौश्च गोनिषेधात्मेति गोः सिद्धिमपेक्षत इति दुरुत्तरमितरेतरा
447 श्रयत्वम् । तद्धर्मत्वे वा गोत्वमेवास्तु भाविकं तद्धर्मो विधिरूपः, कृत
मलीकेनाविधिरूपेण । तद्धर्माणां तद्भाविकत्वसाधनं1805 च निराकृतम् । तस्य च
भावाभावसाधारण्यमुपपादितम् । तद्विस्तराद् बिभ्यतोऽपि बहुतरविस्तरे पतिता स्म
इत्यास्तामेतत् नास्तिकमानोपमर्दनमिति ।


उपचारतो न व्याघात इति चेदिति शङ्कायाः परिहारवार्त्तिकम्—न
मुख्यासंभवादिति ।
सर्वत्र मुख्यपूर्वक उपचारो वा समारोपो वा दृष्टः । तव तु
राद्धान्ते न विधिविषयः कश्चिदस्ति मुख्यः शब्दो वा विकल्पो वा सर्वस्य
निवृत्तिगोचरत्वात् । न चाध्यवसेयो विधिः संभवतीत्युपपादितम् अधस्तादिति
भावः । न चान्यापोहपक्ष उपचारो युक्तः, उभयोः प्रधानशब्दत्वादिति । न हि
सिंहत्वं नाम किञ्चिदस्ति सिंहव्यक्तिषु यन्माणवकेषु न स्यात् अपि तु
अप्रसह्यकारित्वादिव्युदासेन सिंहशब्दः सिंहव्यक्तिषु वर्तते । न चायमप्रसह्यकारित्व
व्युदासो माणवके नास्तीति सिंहव्यक्तिष्विव माणवकेऽपि सिंहशब्दो मुख्य एव
स्यादिति ।


किं गौरगौरिति । अश्वादिरित्यर्थः । 1806प्रैषप्रत्ययपूर्विका प्रैषस्य प्रैषविषये
प्रवृत्तिः संप्रतिपत्तिः, अङ्गव्यतिरिक्तस्य चाङ्गिन इति सेनावनादिबहुत्वसंख्यादीनां
भवद्भिरभ्युपगमादित्यर्थः ।


क्रियारूपत्वाच्चापोहस्य विषयो वक्तव्य इति । कर्म विषयः क्रियायास्तद्
वक्तव्यमित्यर्थः । कथमन्यविषयादिति । कथमन्यविषयादपोहात् अगोविषयाद्
गवि प्रतिपत्तिरित्यर्थः । अथागोरिति । अस्ति हि काचित् क्रिया यान्यस्य वान्यविषया
च यथा विज्ञानम् 1807आत्मनोऽर्थः विषयं वेत्यर्थः । निराकरोति—केन गोरिति । क्रिया
हि चेतनानां प्रयत्नपूर्वा भवति । अपोहलक्षणा च क्रिया निषेधरूपा निषेधश्च
प्राप्तिपूर्वकः । न हि गोरगोत्वं केनचित् प्रसञ्जितं यत् प्रेक्षावता व्यपोह्येत इत्यर्थः ।
कथं चागवीति । अगवीति पदेन योऽयं प्रतिषेधो नासौ गोप्रतिपत्तिमन्तरेण
448 भवतीत्यर्थः । आख्यानानुपपत्तेरर्थप्रत्ययो न युक्त इति । अपोहरूपार्थप्रत्ययो1808
युक्त इत्यर्थः ।


किमपोहो वाच्योऽथावाच्य इति । अपोहादिशब्देनेत्यर्थः । यदि वाच्य इति ।
स्वरूपेणैवापोहो वाच्यो न चापोहापोहेनेत्यर्थः1809


स्यादेतत् । यद्यन्यापोहेन शब्दो न वर्तते कथं तर्हि द्व्यादिविशेषेषु अनेकशब्द
एकापोहेन वर्तते ? न ह्यत्रानेकत्वं नाम गोत्वमिव किञ्चिदस्ति सामान्यमित्यत
आह—अनेकमिति चास्य पदस्य द्व्यादिविषयत्वात् सामान्याधिगतौ एकत्व
वर्जितसंख्यात्वसामान्याधिगतौ विशेष आश्रयितव्यः । संख्यात्वसामान्यमेवैकत्व
वर्जितं तत्र द्व्यादिविशेषाधिगतिहेतुर्न पुनरन्यापोहमात्रमित्यर्थः । न ह्यसति
सामान्यशब्दाद् एकत्ववर्जितसंख्यासामान्यवाचकादनेकशब्दाद् विशेषाश्रयणे
अन्यापोहमात्राद् विशेषाधिगतिरिति योजनीयम् । अब्राह्मणादिशब्दानामपीयमेव
गतिः । तत्रापि हि पुंस्त्वसामान्यमेव ब्राह्मणवर्जितक्षत्रियादित्रयासमवेतम्1810
ब्राह्मणशब्दार्थ इति । नीलोत्पलशब्दयोश्च प्रधानत्वादिति । अनीलानुत्पल
व्युदासौ हि प्रधानौ नीलोत्पलशब्दावाहतुः । न ह्येतयोरस्ति विशेषणविशेष्यभावः
परस्परासंबन्धादिति भावः । एतेन नीलोत्पलशब्दयोरस्मिन् सिद्धान्ते प्रधानार्थत्व
व्युत्पादनेन1811 राजपुरुषशब्दौ व्याख्यातौ प्रधानार्थत्वेन । अत्रापि ह्यराजापुरुष
व्यवच्छेदयोर्नावच्छेद्यावच्छेदकभावः । नापि स्वस्वामिभाव इत्यर्थः । समानाधि
करणार्थश्चेति
शब्दविकल्पयोः परमार्थसद्वस्तुसंस्पर्शासंभवादित्यर्थः ॥ ६६ ॥


व्यक्तिर्गुणविशेषाश्रयो मूर्तिः ॥ २ । २ । ६७ ॥


यत्र हि व्यक्त्याकृतिजातीनां समावेशः, तत्र व्यक्तिनिर्धारणायेदं लक्षणम् ।
449 तेनाकाशाद्यनवरोधेऽपि न दोषस्तत्राकृतेरभावादिति भाष्यमतम् । यदाह भाष्य
कारः, न सर्वं द्रव्यं व्यक्तिरिति ।
यद्यपि गुरुत्वादयः सामान्यगुणाः, तथापि
गुणान्तरेभ्यो व्यावर्तमाना गुणविशेषा इत्युच्यन्ते । अव्यापिन इति सर्वगतस्य
द्रव्यस्य परिमाणं व्यवच्छिनत्ति । मूर्च्छिताः परस्परं संयुक्ता अवयवा यस्य
तन्मूर्च्छितावयवम् ।


कथं पुनरित्यादिभाष्यमाक्षिपति वार्त्तिककारः अधिगतत्वादिति ।
स्वरूपावगमपूर्वकत्वाद् 1812वाच्यप्रतिपादनस्य स्वरूपावगमोऽपि तन्नान्तरीयकत्वात्
सिद्ध इत्याक्षेपाभिप्रायः । निराकरोति—न, निमित्तत्रैविध्ये सति तद्विशेषविषय
ज्ञापनार्थत्वात् प्रश्नस्य
शब्दप्रवृत्तिनिमित्तानां त्रैविध्ये सति तद्विशेष एव विषयः
तज्ज्ञापनमर्थः प्रयोजनं यस्य प्रश्नस्य स तथोक्तः । एतदुक्तं भवति, सिद्धं कृत्वा
भेदमभिधेयत्वं त्रयाणां प्रतिपादितम् । संप्रति स एव भेदः प्रतिपाद्यते इति ।


सूत्रमिति । बहूनामर्थानां सूचनादिति भावः । अत्र भाष्यव्याख्यान
मुपन्यस्यति—व्यज्यत इति । दूषयति—एतत्तु नेति । व्यक्तिः पदार्थ इत्येतत्
प्रकृतम् । तत्र यथावयविनो व्यक्तेः 1813शब्दार्थत्वम्, एवमाकाशादीनां चोत्क्षेपणदीनां
रूपादीनां च1814 । तस्मात् तथा लक्षणं व्याख्येयं यथा सर्वः संगृह्यते, अन्यथा
सूत्रकारोऽकुशलः स्यात् । तदर्थमाह—वयं तु ब्रूम इति । अत्रेदं व्याख्यानम् ।
व्यक्तिरिति लक्ष्यनिर्देशः । शेषं लक्षणम् । गुणविशेषा इति द्वेधा समासः । गुणाश्च
ते विशेषाश्चेति प्रथमो विग्रहः । तेनाकृतिर्निराकृता संगृहीताश्च रूपादयो भवन्ति ।
तथाप्युत्क्षेपणादेः कर्मव्यक्तेरसंग्रह इति द्वितीयो विग्रहः, गुणेभ्यो विशेषा गुणविशेषा
गुणेभ्यो व्यावृत्ता उत्क्षेपणादय इति यावत् । तथापि न द्रव्यं संगृह्यते इत्यत
आह—आश्रय इति । तच्छब्दाध्याहाराद् गुणविशेषाश्रयो द्रव्यमित्यर्थः । प्रतिपदमिति
गुण इति च विशेष इति च आश्रय इति चेति पदानि । अथ वा गुणविशेषाणामाश्रय
इति । गुणा रूपादयो विशेषाः कर्माणि गुणेभ्य इत्यर्थात् । तेषामाश्रयश्चेति द्वन्द्व एव
450 तेषामित्यप्यर्थाद् गम्यते । तत्र मूर्च्छत इति मूर्च्छनं संबन्ध इह चासौ समवाय
इति ॥ ६७ ॥


आकृतिर्जातिलिङ्गाख्या ॥ २ । २ । ६८ ॥


जातिश्च तल्लिङ्गानि च जातिलिङ्गानि, तान्याख्यायन्ते1815 यया सा आकृतिः ।
शिरःपाण्यादिव्यूह आकृतिर्जातिं मनुष्यत्वादिकमाचष्टे । 1816नासिकाललाटचिबुकादीनां
शिरोऽवयवानां व्यूहो मनुष्यत्वजातिलिङ्गं शिर आचष्टे । शिरसा पादेन हि
गामनुमिन्वन्तीति भाष्यम् ।
यद्यपि गोत्वं प्रत्यक्षमेव 1817नाकृतिव्यङ्ग्यं तथापि
विप्रतिपद्यमानं प्रत्युच्यते अनुमिन्वन्तीति न पुनः सर्वा जातिराकृत्या लिङ्ग्यते ।
मृत्सुवर्णरजतादिका हि रूपविशेषव्यङ्ग्या जातिर्नाकृतिव्यङ्ग्या । ब्राह्मणत्वा
दिजातिस्तु योनिव्यङ्ग्या । घृततैलादीनां जातिस्तु गन्धेन वा रसेन वा व्यज्यते । अत
एव न सार्षपादीनां तैलत्वमस्ति, तद्व्यञ्जकयोर्गन्धरसभेदयोरभावात् । भाक्तस्तु
तैलशब्दप्रयोगः । क्षीरजातिरपि रसव्यङ्ग्यैव । अत एव आमिक्षायाः क्षीरत्वं न तु
वाजिनस्य तद्व्यञ्जकस्य रसभेदस्य वाजिनेऽभावाद् आमिक्षायां च भावादिति ॥ ६८ ॥


समानप्रसवात्मिका जातिः ॥ २ । २ । ६९ ॥


प्रसूत इति प्रसवः समानबुद्धेर्भिन्नेषु प्रसोत्री जातिः । अत्र च या जातिः, सावश्यं
समानप्रत्ययं प्रसूते । न पुनर्या समानप्रत्ययं प्रसूते सा जातिः, पाचकादिषु
व्यभिचारादिति । व्यक्त्याकृतिभ्यां भेदकत्वमात्रेण चैतल्लक्षणं न तु सर्वथा वेदितव्यम् ।


यस्तु वैयात्यात् प्रत्यक्षेऽपि विप्रतिपद्यते तं प्रत्यनुमानान्याह—
गवादिष्वनुवृत्तिप्रत्यय इति । व्यपदेशः संबन्धिना संबन्धान्तरस्य विशेषणम् ।
451 पुरुषो व्यपदिश्यते राज्ञ इत्यनेनेति । गोर्गोत्वानुवृत्तिप्रत्यया इति । पूर्वमनुवृत्तप्रत्ययमात्रं
पक्षीकृतम् । इह तु गोर्गोत्वानुवृत्तिप्रत्यय इत्यपौनरुक्त्यम् ।


कीर्तिता इति । पदार्थलिङ्गं विवक्षितमनन्तरत्वात् । अन्यत्र तु यथालिङ्गं
प्रयोग1818 इति
नपुंसकमनपुंसकेनेति
नपुंसकत्वं नाशङ्कनीयमिति ॥ ६९ ॥


॥ शब्दशक्तिपरीक्षाप्रकरणम् ॥
  1. क्रमेणC

  2. अन्वयधिय°C

  3. °कर्तृ
    कप्र°
    C

  4. °भवमायततेC

  5. वाक्यमिदमेकंC

  6. स्वरूपमाभासयन्तेC

  7. अनुपपत्तेःJ

  8. यथा…त्यादयःOmC

  9. °सत्यप्यथार्थवत्तया°J

  10. रजतत्वसमारोपविषयःC

  11. °पत्तेःJ


  12. हि हिनेत्या°
    C द्रःवि. प. पृः ३८

  13. कारकभेदाभिधायित्वात् पदस्यJ

  14. प्रत्यायकः C

  15. द्रः महाभाष्ये २. ३. १. ४, २. ३. १. ११, २. ३. ४६. ४

  16. °द्यपेक्षाःC

  17. संगृहीताC

  18. कालावधि°C

  19. न पर्यवस्यन्तीतिC

  20. °पार्थः C

  21. यतः सं° C

  22. चिन्तावतारः J

  23. °श्चिन्तावतार J

  24. °र्ब्युञानभि°J

  25. °णे उपाधौ ?

  26. प्रयोगस्यC

  27. तेभ्योऽप्यर्थोऽवगम्यतेC

  28. °नियमा या अप्र°J

  29. °कारीयत्वात्
    C

  30. रच्यमानेषु प्रयुक्तःJ

  31. नियन्तव्येत्या°C

  32. मानाऽभिन्नबुद्ध्याऽव°C

  33. °धानमनपेक्ष्य न शक्यम् C

  34. संकेतग्रहः C

  35. सर्वात्मना वर्तते इति किन्तु
    अनेकमनेकत्र वर्तत इति प्राप्तम्
    C

  36. °संकेतापेक्षवृत्तीनांC

  37. तादृशं पारतन्त्र्य°C

  38. जातिशब्दो जातौ तद्वातिक्रमेण प्रवृत्तःC

  39. °क्षन्ते शब्दाःC

  40. शब्दात्J

  41. सति अध्यारोपितःC

  42. नास्यC

  43. नीलाभावे सितादौJ

  44. विशेष…प्राप्यत इति नास्तिC

  45. तद्वाचकत्वेना°C

  46. नास्तिC

  47. भवेतां भेदं चेन्नाभिधत्तो नैकत्र वर्ते°C

  48. तुल° विकल्पयोनयः शब्दा विकल्पाः शब्दयोनयः ।

    कार्यकारणता तेषां नार्थं शब्दाः स्पृशन्त्यमी ॥

  49. स चJ

  50. अथ हिC

  51. स्वभावभेदादन्यत्C

  52. °भेदे तदुप°C

  53. शिल्पिशतेनापिC

  54. न चC

  55. तत् किंC

  56. तदैव गृह्णातिC

  57. विकल्पो न स्वगोचरोJ

  58. तदेव च पदं निःसत्त्वमाभासते ।


    यस्तत्त्वं जगतो जगाद विजयी निःशेषदोषद्विषो वक्तारं तमिह प्रणम्य शिरसापोहः स
    विस्तार्यते ॥ इति श्लोकशेषांशः । द्रः तात्पर्यविवरणपञ्जिका, पृः ४१ ।

  59. विज्ञानाद्C

  60. °स्तद्वतांC

  61. विकल्पागो°J

  62. बाह्यत्वंJ

  63. केवलंJ पुस्तकेऽस्ति ।

  64. केवलंJ पुस्तकेऽस्ति ।

  65. च नित्य°J

  66. असद्रूपस्यC

  67. तद्वृतीनांC

  68. °त्तिविषयस्यJ

  69. प्रवर्तन्ते लोकवि°C

  70. °ज्ञानगोचरत्वाभावादि°C

  71. तद्J

  72. पारम्पर्येऽपिC

  73. व्यापारपारम्पर्या°C

  74. °नाभावेषुC

  75. चाग्रहणेJ

  76. प्रतिकर्तुम्C

  77. स्वाभाविकःC

  78. स्वाभाविकःC

  79. °संसर्गायो°C

  80. बाधनंJ

  81. प्रैष्यप्र°C

  82. आत्मनोऽर्थविषयं चे°J

  83. °रूपोऽर्थ°C

  84. न त्वनपोहेनेत्यर्थःJ

  85. ब्राह्मणबर्जित…समवेतंJ

  86. प्रधानार्थत्वेन व्युत्पा°C

  87. वाक्यप्र°C

  88. पदार्थ°C

  89. °शादीनां चC

  90. जातिलिङ्गे ते आख्यायेतेJ

  91. शिरोनासि°C

  92. आकृति°J

  93. प्रत्यय C