450 तेषामित्यप्यर्थाद् गम्यते । तत्र मूर्च्छत इति मूर्च्छनं संबन्ध इह चासौ समवाय
इति ॥ ६७ ॥


आकृतिर्जातिलिङ्गाख्या ॥ २ । २ । ६८ ॥


जातिश्च तल्लिङ्गानि च जातिलिङ्गानि, तान्याख्यायन्ते1815 यया सा आकृतिः ।
शिरःपाण्यादिव्यूह आकृतिर्जातिं मनुष्यत्वादिकमाचष्टे । 1816नासिकाललाटचिबुकादीनां
शिरोऽवयवानां व्यूहो मनुष्यत्वजातिलिङ्गं शिर आचष्टे । शिरसा पादेन हि
गामनुमिन्वन्तीति भाष्यम् ।
यद्यपि गोत्वं प्रत्यक्षमेव 1817नाकृतिव्यङ्ग्यं तथापि
विप्रतिपद्यमानं प्रत्युच्यते अनुमिन्वन्तीति न पुनः सर्वा जातिराकृत्या लिङ्ग्यते ।
मृत्सुवर्णरजतादिका हि रूपविशेषव्यङ्ग्या जातिर्नाकृतिव्यङ्ग्या । ब्राह्मणत्वा
दिजातिस्तु योनिव्यङ्ग्या । घृततैलादीनां जातिस्तु गन्धेन वा रसेन वा व्यज्यते । अत
एव न सार्षपादीनां तैलत्वमस्ति, तद्व्यञ्जकयोर्गन्धरसभेदयोरभावात् । भाक्तस्तु
तैलशब्दप्रयोगः । क्षीरजातिरपि रसव्यङ्ग्यैव । अत एव आमिक्षायाः क्षीरत्वं न तु
वाजिनस्य तद्व्यञ्जकस्य रसभेदस्य वाजिनेऽभावाद् आमिक्षायां च भावादिति ॥ ६८ ॥


समानप्रसवात्मिका जातिः ॥ २ । २ । ६९ ॥


प्रसूत इति प्रसवः समानबुद्धेर्भिन्नेषु प्रसोत्री जातिः । अत्र च या जातिः, सावश्यं
समानप्रत्ययं प्रसूते । न पुनर्या समानप्रत्ययं प्रसूते सा जातिः, पाचकादिषु
व्यभिचारादिति । व्यक्त्याकृतिभ्यां भेदकत्वमात्रेण चैतल्लक्षणं न तु सर्वथा वेदितव्यम् ।


यस्तु वैयात्यात् प्रत्यक्षेऽपि विप्रतिपद्यते तं प्रत्यनुमानान्याह—
गवादिष्वनुवृत्तिप्रत्यय इति । व्यपदेशः संबन्धिना संबन्धान्तरस्य विशेषणम् ।

  1. जातिलिङ्गे ते आख्यायेतेJ

  2. शिरोनासि°C

  3. आकृति°J