द्वितीयाध्यायः
द्वितीयाध्याये प्रथमाह्निकम्
संशयपरीक्षाप्रकरणम्
अत ऊर्ध्वं प्रमाणादिपरीक्षा इत्यादिभाष्यनिराकरणीयामाशङ्कामाह
वार्त्तिककारः-त्रिविधा चास्येति । स्थानवतां क्रमवताम् । परीक्षावचनमिति ।
प्रमाणमेव परीक्ष्यत इति युक्तमिति । किमत्रादौ प्रमाणं न परीक्षितम् ? 1447न परीक्षितम् ।
किंतु संशय एव परीक्ष्यत1448 इत्याह—तानि विलङ्घ्येति । सोऽयं किमर्थं क्रमभेदः
कृत1449 इति भाष्यार्थमाह—परीक्षाङ्गत्वादिति । उद्देशक्रमानुरोधेन हि प्रमाणं पूर्वं
लक्षितम्, न खलु लक्षणे संशयस्याति कश्चिदुपयोगः । परीक्षा तु सर्वा
विमर्शकरणिकेति1450 परीक्षापर्वणि सर्वथा आर्थक्रमेण संशयस्य पूर्वभावः, यथा
अग्निहोत्रं जुहोति
यवागूं पचति
इत्यत्राग्निहोत्रात् प्राग्भावो यवागू पाकस्य । तस्याग्निहोत्र साधनत्वात् । संशयलक्षणं
चात्र परीक्ष्यते, न संशय इति नानवस्थापि । देशयति—ननु चोक्तमिति । शास्त्रगता
त्वियं परीक्षा । सा च न विमर्शपूर्वेत्यार्थक्रमाभावात् नोद्देशक्रमो बाधनीय
इत्यर्थः । परिहरति—सत्यम्, न निर्णये नियम इति । न निर्णयः सर्वः संशयपूर्वः ।
विचारस्तु सर्व एव1451 संशयपूर्वः । शास्त्रवादयोश्चास्ति विचार इति तेन नियतं1452
संशयपूर्वेण भवितव्यम् । शिष्टयोश्च वादिप्रतिवादिनोः शास्त्रेण विमर्शाभावो न
शिष्यमाणयोः, तस्मादस्ति शास्त्रेऽपि विमर्शपूर्वो विचार इति सिद्धम् । संशेत इति1453
संशयस्य निरुक्तम् । नावधारयतीत्यर्थः ।