प्रथमाह्निक

1
अनन्तदर्शन1ज्ञानवीर्यानन्दमयात्मने ।

नमोऽर्हते कृपाकॢप्त2धर्मतीर्थाय तायिने ॥ १ ॥

बोधि3बीजमुपस्कर्तुं तत्त्वाभ्यासेन धीमताम् ।

जैनसिद्धान्तसूत्राणां स्वेषां वृत्तिर्विधीयते ॥ २ ॥

ननु यदि भवदीयानीमानि जैनसिद्धान्तसूत्राणि तर्हि भवतः पूर्वं कानि किमीया4
नि वा तान्यासन्निति ? अत्यल्पमिदमन्वयुङ्क्थाः । पाणिनि-पिङ्गल-कणादा-ऽक्षपादादि
भ्योऽपि पूर्वं कानि किमीयानि वा व्याकरणादिसूत्राणीत्येतदपि पर्यनुयुङ्क्ष्व ! अनादय
एवैता विद्याः संक्षेपविस्तरविवक्षया नवनवीभवन्ति तत्तत्कर्तृकाश्चोच्यन्ते । किं नाश्रौषीः
न कदाचिदनीदृशं जगत् इति ? यदि वा प्रेक्षस्व वाचकमुख्यविरचितानि सकलशास्त्र
चूडामणिभूतानि तत्त्वार्थसूत्राणीति ।


यद्येवम्--अकलङ्क-धर्मकीर्त्त्यादिवत् प्रकरणमेव किं नारभ्यते, किमनया सूत्र
कारत्वाहोपु5रुषिकया ? मैवं वोचः; भिन्नरुचिर्ह्ययं जनः ततो नास्य स्वेच्छाप्रतिबन्धे
लौकिकं राजकीयं वा शासनमस्तीति यत्किञ्चिदेतत् ।


तत्र वर्णसमूहात्मकैः पदैः, पदसमूहात्मकैः सूत्रैः, सूत्रसमूहात्मकैः प्रकरणैः,
प्रकरणसमूहात्मकैः आह्निकैः, आह्निकसमूहात्मकैः पञ्चभिरध्यायैः शास्त्रमेतदरचयदा
चार्यः । तस्य च प्रेक्षावत्प्रवृत्त्यङ्गमभिधेयमभिधातुमिदमादिसूत्रम्--


अथ प्रमाणमीमांसा ॥ १ ॥


अथ-इत्यस्य अधिकारार्थत्वाच्छास्त्रेणाधिक्रियमाणस्य प्रस्तूयमानस्य प्रमाण
स्याभिधानात् सकलशास्त्रतात्पर्यव्याख्यानेन6 प्रेक्षावन्तो बोधिताः प्रवर्तिताश्च भवन्ति ।
आनन्तर्यार्थो वा अथ-शब्दः, शब्द-काव्य-छन्दोनुशासनेभ्योऽनन्तरं प्रमाणं मीमांस्यत
2 इत्यर्थः । अनेन शब्दानुशासनादिभिर7स्यैककर्तृकत्वमाह । अधिकारार्थस्य च अथ-शब्द
स्यान्यार्थनीयमानकुसुमदामजलकुम्भादेर्दर्शनमिव श्रवणं मङ्गलायापि कल्पत इति । मङ्गले
च सति परिपन्थिविघ्नविघातात् अक्षेपेण शास्त्रसिद्धिः, आयुष्म8च्छ्रोतृकता च भवति ।
परमेष्ठिनमस्कारादि9कं तु मङ्गलं कृतमपि न निवेशितं लाघवार्थिना10 सूत्रकारेणेति ।


प्रकर्षेण संशया11दिव्यवच्छेदेन मीयते परिच्छिद्यते वस्तुतत्त्वं येन तत् प्रमाणं प्र
मायां साधकतमम्, तस्य मीमांसा--उद्देशादिरूपेण पर्यालोचनम् । त्रयी हि शास्त्रस्य प्रवृ
त्तिः--उद्देशो लक्षणं परीक्षा च । तत्र नामधेयमात्रकीर्त्तनमुद्देशः, यथा इदमेव सूत्रम् । उद्दिष्ट
स्यासाधारणधर्म्मवचनं लक्षणम् । तद् द्वेधा सामान्यलक्षणं विशेषलक्षणं च । सामान्य
लक्षणमनन्तरमेव सूत्रम् । विशेषलक्षणम् विशदः प्रत्यक्षम् १. १. १३ इति । वि12भा
गस्तु13 विशेषलक्षणस्यैवा14ङ्गमिति न पृथगुच्यते । लक्षितस्य इदमित्थं भवति नेत्थम् इति
न्यायतः परीक्षणं परीक्षा, यथा तृतीयं15 सूत्रम् ।


पूजितविचारवचनश्च मीमांसा-शब्दः । तेन न प्रमाणमात्रस्यैव विचारोऽत्राधि
कृतः, किन्तु तदेकदेशभूतानां दुर्नयनिराकरणद्वारेण परिशोधितमार्गाणां16 नयानामपि-प्र
माणनयैरधिगमः17
तत्त्वा॰ १. ६. इति हि वाचकमुख्यः, सकलपुरुषार्थेषु मूर्द्धाभिषिक्तस्य
सोपाय18स्य सप्रतिप19क्षस्य मोक्षस्य च । एवं हि पूजितो विचारो भवति । प्रमाणमात्र
विचारस्तु प्रतिपक्षनिराकरणपर्यवसायी वाक्कलहमात्रं स्यात् । तद्विवक्षायां तु अथ
प्रमाणपरीक्षा
प्रमाणपरी॰ पृ॰ १20त्येव क्रियेत । तत् स्थितमेतत्--प्रमाणनयपरिशो
धितप्रमेयमा22र्गं सोपायं सप्रतिपक्षं मोक्षं विवक्षितुं मीमांसाग्रहणमकार्याचार्येणेति ॥ १ ॥


तत्र प्रमाणसामान्यलक्षणमाह--


सम्यगर्थनिर्णयः प्रमाणम् ॥ २ ॥


प्रमाणम्-इति लक्ष्यनिर्द्देशः, शेषं लक्षणम्, प्रसिद्धानुवादेन ह्यप्रसिद्धस्य विधानं
लक्षणार्थः । तत्र यत्तदविवादेन प्रमाणमिति धर्म्मि प्रसिद्धं तस्य सम्यगर्थनिर्णयात्मकत्वं
धर्मो विधीयते । अत्र प्रमाणत्वादिति हेतुः । न च धर्म्मिणो हेतुत्वमनुपपन्नम्; भवति
हि विशेषे23 धर्म्मिणि तत्सामान्यं हेतुः, यथा अयं धूमः साग्निः, धूमत्वात्, पूर्वोपलब्ध
धूमवत् । न च दृष्टान्तमन्तरेण न गमकत्वम्; अन्तर्व्याप्त्यैव साध्यसिद्धेः, सात्मकं
जीवच्छरीरम्, प्राणादिमत्त्वात् इत्यादिवदिति दर्शयिष्य24ते ।

3

तत्र निर्णयः संशयाऽनध्यवसायाविक25ल्पक26त्वरहितं ज्ञानम् । ततो निर्णय-पदे
नाज्ञानरूपस्येन्द्रियसन्निकर्षादेः27, ज्ञानरूपस्यापि संशयादेः प्रमाणत्वनिषेधः ।


अर्यतेऽर्थ्यते वा अर्थो हेयोपादेयोपेक्षणीयलक्षणः, हेयस्य हातुम्, उपादेयस्यो
पादातुम्, उपेक्षणीयस्योपेक्षितुम् अर्थ्यमानत्वात् । न चानुपादेयत्वादुपेक्षणीयो हेय एवा
न्तर्भवति; अहेयत्वादुपादेय एवान्तर्भावप्रसक्तेः । उपेक्षणीय एव च मूर्द्धाभिषिक्तोऽर्थः,
योगिभिस्तस्यैवा28र्यमाणत्वात् । अस्मदादीनामपि हेयोपादेयाभ्यां भूयानेवोपेक्षणीयोऽर्थः;
तन्नायमुपेक्षि29तुं क्षमः30 । अर्थस्य निर्णय इति कर्मणि षष्ठी, निर्णीयमानत्वेन व्याप्यत्वा
दर्थस्य । अर्थग्रहणं च स्वनिर्णयव्यवच्छेदार्थं तस्य सतोऽप्यलक्षणत्वादिति वक्ष्यामः ।


सम्यग्-इत्यविपरीतार्थमव्ययं समञ्चतेर्वा रूपम् । तच्च31 निर्णयस्य विशेषणम्,
तस्यैव सम्यक्त्वाऽसम्यक्त्वयोगेन विशेष्टुमुचितत्वात्; अर्थस्तु32 स्वतो न सम्यग् नाप्य
सम्यगिति सम्भव33व्यभिचारयोरभावान्न विशेषणीयः । तेन सम्यग् योऽर्थनिर्णय इति
विशेषणाद्विपर्ययनिरासः । ततोऽतिव्याप्त्यव्याप्त्यसम्भवदोषविकलमिदं प्रमाणसामान्य
लक्षणम् ॥ २ ॥


ननु अर्थनिर्णयवत् स्वनिर्णयोऽपि वृद्धैः प्रमाणलक्षणत्वेनोक्तः-प्रमाणं स्वप
राभासि
न्यायाव॰ १ इति, स्वार्थव्यवसा34यात्मकं ज्ञानं प्रमाणम् तत्त्वार्थश्लोकवा॰
१. १०. ७७
इति च । न चासा35वसन्, घटमहं जानामि इत्यादौ कर्तृकर्मवत् ज्ञप्तेरप्यवभासमा
नत्वात् । न च अप्रत्यक्षोपलम्भ36स्यार्थदृष्टिः प्रसिद्ध्यति । न च ज्ञानान्तरात् तदु37पलम्भसम्भा
वनम्, तस्याप्यनुपलब्धस्य प्रस्तुतोपलम्भप्रत्यक्षीकाराभावात् । उपलम्भान्तरसम्भावने
चानवस्था । अर्थोपलम्भात् तस्योपलम्भे अन्योन्याश्रयदोषः । एतेन38 अर्थस्य39 सम्भवो नोप
पद्येत न40 चेत् ज्ञानं स्यात् इत्यर्थापत्त्यापि तदु41पलम्भः प्रत्युक्तः; तस्या अपि ज्ञापकत्वे
नाज्ञाताया ज्ञापकत्वायोगात् । अर्थापत्त्यन्तरात् त42ज्ज्ञाने अनव43स्थेतरेतराश्र45यदोषापत्तेस्तद
वस्थः परिभवः । तस्मादर्थोन्मुखतयेव स्वोन्मुखतयापि ज्ञानस्य प्रतिभासात् स्वनिर्णया
त्मकत्वमप्यस्ति । ननु अनुभूतेरनुभाव्यत्वे घटादिव46दननुभूतित्वप्रसङ्गः; मैवं वोचः;
ज्ञातुर्ज्ञातृत्वेनेव अनुभूतेरनुभूतित्वेनैवानुभवात् । न चानुभूतेरनुभाव्यत्वं दोषः; अर्थापेक्ष
यानुभूतित्वात्, स्वापेक्षयाऽनुभाव्यत्वात्, स्वपितृपुत्रापेक्षयैकस्य पुत्रत्वपितृत्ववत् विरो
धाभावात् । न च स्वात्मनि क्रियाविरोधः; अनुभवसिद्धेऽर्थे विरोधासिद्धेः । अनुमानाच्च
स्वसंवेदनसिद्धिः; तथाहि--ज्ञानं प्रकाशमानमेवार्थं प्रकाशयति, प्रकाशकत्वात्, प्रदीपवत् ।
4 संवेदनस्य प्रकाश्यत्वात् प्रकाशकत्वमसिद्धमिति47 चेत्; न; अज्ञाननिरासा48दिद्वारेण
प्रकाशकत्वोपपत्तेः । न च नेत्रादिभिरनैकान्तिकता; तेषां भावेन्द्रियरूपाणामेव प्रकाशक
त्वात् । भावेन्द्रियाणां च स्वसंवेदनरूपतैवेति न व्यभिचारः । तथा, संवित् स्वप्रकाशा,
अर्थप्रतीतित्वात्, यः स्वप्रकाशो न भवति नासावर्थप्रतीतिः यथा घटः । तथा, यत् ज्ञानं
तत् आत्मबोधं प्रत्यनपेक्षितप49रव्यापारम्, यथा गोचरा50न्तरग्राहिज्ञाना51त् प्राग्भावि गोचरान्तर
ग्राहिज्ञानप्रबन्धस्यान्त्यज्ञानम्, ज्ञानं च विवादाध्यासितं रूपादिज्ञानमिति । संवित्52
स्वप्रकाशे स्वा53वान्तरजातीयं नापेक्षते, वस्तुत्वात्, घटवत् । संवित् परप्रकाश्या, वस्तु
त्वात्, घटवदिति चेत्; न; अस्याप्रयोजकत्वात्, न खलु घटस्य वस्तुत्वात् परप्रकाश्यता
अपि तु बुद्धिव्यतिरिक्तत्वात् । तस्मात् स्वनिर्णयोऽपि प्रमाणलक्षणमस्त्वित्याशङ्क्याह--


स्वनिर्णयः सन्नप्यलक्षणम्, अप्रमाणेऽपि भावात् ॥ ३ ॥


सन्नपि--इति परोक्तमनुमोदते । अयमर्थः--न हि अस्ति इत्येव सर्वं लक्षण54त्वेन
वाच्यं किन्तु यो धर्मो विपक्षाद्व्यावर्त्तते । स्वनिर्णयस्तु अप्रमाणेऽपि संशयादौ वर्त्तते; नहि
काचित् ज्ञानमात्रा सास्ति या न स्वसंविदिता नाम । ततो न स्वनिर्णयो लक्षण
मुक्तोऽस्माभिः, वृद्धैस्तु परीक्षार्थमुपक्षिप्त इत्यदोषः ॥ ३ ॥


ननु च परिच्छिन्नमर्थं परिच्छिन्दता प्रमाणेन पिष्टं पिष्टं स्यात् । तथा च
गृहीतग्राहिणां धारावाहिज्ञा55नानामपि प्रामाण्यप्रसङ्गः । ततोऽपूर्वार्थनिर्णय इत्यस्तु
लक्षणम्, यथाहुः--स्वा56पूर्वार्थव्यवसायात्मकं ज्ञानं प्रमाणम् परीक्षामु॰ १. १
इति, 57त्रापूर्वार्थविज्ञानम् इति59 च । तत्राह--


ग्रहीष्यमाणग्राहिण इव गृहीतग्राहिणोऽपि नाप्रामाण्यम् ॥ ४ ॥


अयमर्थः--द्रव्यापेक्षया वा गृहीतग्राहित्वं विप्रतिषिध्येत पर्यायापेक्षया वा ?
तत्र पर्यायापेक्षया धारावाहिज्ञा60नानामपि गृहीतग्राहित्वं न सम्भवति, क्षणिकत्वात् पर्या
याणाम्; तत्कथं त61न्निवृत्त्यर्थं विशेषणमुपादीयेत62 ? अथ द्रव्यापेक्षया; तदप्ययुक्तम्;
द्रव्यस्य नित्यत्वादेकत्वेन गृहीतग्रहीष्यमाणावस्थयोर्न भेदः । ततश्च कं विशेषमाश्रित्य
ग्रहीष्यमाणग्राहिणः प्रामाण्यम्, न गृहीतग्राहिणः ? अपि च अवग्रहेहादीनां गृहीत
ग्राहित्वेऽपि प्रामाण्यमिष्यत एव । न चैषां भिन्नविषयत्वम्; एवं ह्यवगृहीतस्य अनीह
नात्, ईहितस्य अनिश्चयादसमञ्जसमापद्येत । न च पर्यायापेक्षया अनधिगतविशेषावसा
यादपूर्वार्थत्वं वाच्यम्; एवं हि न कस्यचिद् गृहीतग्राहित्वमित्युक्तप्रायम् ।

5

स्मृतेश्च प्रमाणत्वेनाभ्युपगताया गृहीतग्राहित्वमेव सत63त्त्वम् । यैरपि स्मृतेर
प्रामाण्यमिष्टं तैरप्यर्थादनुत्पाद एव हेतुत्वेनोक्तो न गृहीतग्राहित्वम्, यदाह-

न स्मृतेरप्रमाणत्वं गृहीतग्राहिताकृतम् ।

अपि त्वनर्थजन्यत्वं तदप्रामाण्यकारणम् न्यायम॰ पृ॰ २३

इति ॥ ४ ॥


अथ प्रमाणलक्षणप्रतिक्षिप्तानां संशयानध्यवसायविपर्ययाणां लक्षणमाह--


अनुभयत्रोभ64यकोटिस्प66र्शी प्रत्ययः संशयः ॥ ५ ॥


अनुभयस्वभावे वस्तुनि उभयान्तपरिमर्शनशीलं ज्ञानं सर्वात्मना शेत इवात्मा
यस्मिन् सति स संशयः, यथा अन्धकारे दूरादूर्द्ध्वाकारवस्तूपलम्भात् साधकबाधकप्रमाणा
भावे सति स्थाणुर्वा पुरुषो वा इति प्रत्ययः । अनुभयत्रग्रहणमुभयरूपे वस्तुन्युभयको
टिसंस्पर्शेऽपि संशयत्वनिराकरणार्थम्, यथा अस्ति च नास्ति च घटः, नित्यश्चानित्य
श्चात्मा इत्यादि ॥ ५ ॥


विशेषानुल्लेख्यनध्यवसायः ॥ ६ ॥


दूरान्धकारादिवशादसाधारणधर्मावमर्शरहितः प्रत्ययः अनिश्चयात्मकत्वात्
अनध्यवसायः, यथा किमेतत् इति । यदप्यविकल्पकं प्रथमक्षणभावि परेषां प्रत्यक्ष
प्रमाणत्वेनाभिमतं तदप्यनध्यवसाय एव, विशेषोल्लेखस्य तत्राप्यभावादिति ॥ ६ ॥


अतस्मिंस्तदेवेति विपर्ययः ॥ ७ ॥


यत् ज्ञाने प्रतिभासते तद्रूपरहिते वस्तुनि तदेव इति प्रत्ययो विपर्यासरूपत्वा
द्विपर्ययः, यथा धातुवैषम्यान्मधुरादिषु67 द्रव्येषु तिक्तादिप्रत्ययः, तिमिरादिदोषात् एक
स्मिन्नपि चन्द्रे द्विचन्द्रादिप्रत्ययः, नौयानात् अगच्छत्स्वपि वृक्षेषु गच्छत्प्रत्ययः, आशुभ्र
मणात् अलाता68दावचक्रेऽपि चक्रप्रत्यय इति । अवसितं प्रमाणलक्षणम् ॥ ७ ॥


ननु अस्तूक्तलक्षणं प्रमाणम्; तत्प्रामाण्यं तु स्वतः, परतो वा निश्चीयेत ? न
तावत् स्वतः; त69द्धि श्व70संविदितत्वात् ज्ञानमित्येव गृह्णीयात्, न पुनः सम्यक्त्वलक्षणं प्रा
माण्यम्, ज्ञानत्वमात्रं तु प्रमाणाभाससाधारणम् । अपि च स्वतः प्रामाण्ये सर्वेषामविप्रतिप
त्तिप्रसङ्गः । नापि परतः; परं हि त71द्गोचरगोचरं वा ज्ञानम् अभ्युपेयेत, अर्थक्रियानिर्भासं वा,
72द्गोचरनान्तरीयकार्थदर्शनं वा ? तच्च सर्वं स्वतोऽनवधृतप्रामाण्यमव्यवस्थितं सत् कथं
पूर्वं प्रवर्तकं ज्ञा73नं व्यवस्थापयेत् ? स्वतो वाऽस्य प्रामाण्ये कोऽपराधः प्रवर्तकज्ञानस्य येन
तस्यापि तन्न74 स्यात् ? न च प्रामाण्यं ज्ञायते स्वत इत्युक्तमेव, परतस्त्वनवस्थेत्याशङ्क्याह--

6

प्रामाण्यनिश्चयः स्वतः परतो वा ॥ ८ ॥


प्रामाण्यनिश्चयः क्वचित् स्वतः यथाऽभ्यासदशापन्ने स्वकरतलादिज्ञाने,
स्नानपानावगाहनोदन्योपशमादावर्थक्रियानिर्भासे वा प्रत्यक्षज्ञाने; नहि तत्र परीक्षाका
ङ्क्षास्ति प्रेक्षावताम्, तथाहि--जलज्ञानम्, ततो दाहपिपासार्त्तस्य तत्र प्रवृत्तिः, ततस्त
त्प्राप्तिः, ततः स्नानपानादीनि, ततो दाहोदन्योपशम इत्येतावतैव भवति कृती प्रमाता; न
पुनर्दाहोदन्योपशमज्ञानमपि परीक्षते इत्यस्य स्वतः प्रामाण्यम् । अनुमाने तु सर्वस्मिन्नपि
सर्वथा निरस्तसमस्तव्यभिचाराशङ्के स्वत एव प्रामाण्यम्, अव्यभिचारिलिङ्गसमुत्थत्वात्;
न लिङ्गा75कारं ज्ञानं लिङ्गं विना, न च लिङ्गं लिङ्गिनं विनेति ।


क्वचित् परतः प्रामाण्यनिश्चयः, यथा अनभ्यासदशापन्ने प्रत्यक्षे । नहि तत्
अर्थेन गृहीताव्यभिचारमिति तदेक76विषयात् संवादकात् ज्ञानान्तराद्वा, अर्थक्रियानिर्भा
साद्वा, नान्तरीयार्थदर्शनाद्वा तस्य प्रामाण्यं निश्चीयते । तेषां77 च स्वतः प्रामाण्यनिश्च
यान्नानवस्थादिदौस्थ्यावकाशः ।


शाब्दे तु प्रमाणे दृष्टार्थेऽर्थाव्यभिचारस्य दुर्ज्ञानत्वात् संवादाद्यधीनः परतः
प्रामाण्यनिश्चयः; अदृष्टार्थे तु दृष्टार्थग्रहोपराग-नष्ट-मुष्ट्यादिप्रतिपादका78नां संवादेन
प्रामाण्यं निश्चित्य संवादमन्तरेणाप्याप्तोक्तत्वेनैव प्रामाण्यनिश्चय इति सर्वमुपपन्नम् ।


अर्थोपलब्धिहेतुः प्रमाणम् इति नैयायिकाः । तत्रार्थोपलब्धौ हेतुत्वं
यदि निमित्तत्वमात्रम्; तदा तत् सर्वकारकसाधारणमिति कर्तृकर्मादेरपि प्रमाणत्वप्रसङ्गः ।
अथ कर्तृकर्मादिविलक्षणं करणं हेतुशब्देन विवक्षितम्; तर्हि तत् ज्ञानमेव युक्तं नेन्द्रिय
सन्निकर्षादि, यस्मिन् हि सत्यर्थ उपलब्धो भवति स7980त्करणम् । न च इन्द्रियसन्निकर्ष
सामग्र्यादौ सत्यपि ज्ञानाभावे स81 भवति, साधकतमं हि करणमव्यवहितफलं च तदिष्यते,
व्यवहितफलस्यापि करणत्वे दधिभोजनादेरपि तथाप्रसङ्गः । तन्न ज्ञानादन्यत्र प्रमाणत्वम्,
अन्यत्रोपचारात् ।


सम्यगनुभवसाधनं प्रमाणम्न्यायसा॰ पृ॰ १ इत्यत्रापि साधन
ग्रहणात् कर्तृकर्मनिरासेन करणस्य प्रमाणत्वं सिध्यति, तथाप्यव्यवहितफलत्वेन
साधकतमत्वं ज्ञानस्यैवेति तदेव प्रमाणत्वेनैष्टव्यम् ।


प्रमाणमविसंवादि ज्ञानम्प्रमाणवा॰ २. १ इति सौगताः । तत्रापि
यद्यविकल्पकं ज्ञानम्; तदा न तद् व्यवहारजननसमर्थम् । सांव्यव82हारिकस्य चैतत् प्रमाणस्य
लक्षणमिति च भवन्तः, तत्कथं तस्य83 प्रामाण्यम् ? उत्तरकालभाविनो व्यवहारजनन
समर्थाद्विकल्पात् तस्य प्रामाण्ये याचितकमण्डनन्यायः, वरं च व्यवहारहेतोर्विकल्पस्यैव
7 प्रामाण्यमभ्युपगन्तुम्; एवं हि परम्परापरिश्रमः परिहृतो भवति । विकल्पस्य चाप्रामाण्ये
कथं तन्निमित्तो व्यवहारोऽविसंवादी ? दृ84ष्ट85विकल्प86योरर्थयोरेकीकरणेन तैमिरिक
ज्ञानवत् संवादाभ्युपगमे चोपचरितं संवादित्वं स्यात् । तस्मादनुपचरितमविसंवादित्वं
प्रमाणस्य लक्षणमिच्छता निर्णयः प्रमाणमेष्टव्य इति ॥ ८ ॥


प्रमाणसामान्यलक्षणमुक्त्वा परीक्ष्य च विशेषलक्षणं वक्तुकामो विभाग
मन्तरेण तद्वचनस्याशक्यत्वात् विभागप्रतिपादनार्थमाह--


प्रमाणं द्विधा ॥ ९ ॥


सामान्यलक्षणसूत्रे प्रमाणग्रहणं परीक्षयान्तरितमिति न तदा87 परामृष्टं
किन्तु साक्षादेवोक्तं प्रमाणम्-इति । द्विधा द्विप्रकारमेव, विभागस्यावधारणफलत्वात् ।
तेन प्रत्यक्षमेवैकं प्रमाणमिति चार्वाकाः, प्रत्यक्षानुमानागमाः प्रमाणमिति वैशेषिकाः,
तान्येवेति साङ्ख्याः, सहोपमानेन चत्वारीति नैयायिकाः, सहार्थापत्त्या पञ्चेति
प्राभाकराः, सहाऽभावेन षडिति भाट्टाः इति न्यूनाधिकप्रमाणवादिनः प्रतिक्षिप्ताः ।
तत्प्रतिक्षेपश्च वक्ष्यते ॥ ९ ॥


तर्हि प्रमाणद्वैविध्यं किं तथा यथाहुः सौगताः प्रत्यक्षमनुमानं च
प्रमाणस॰ १. २, न्यायबि॰ १. ३ । इति, उतान्यथा ? इत्याह--


प्रत्यक्षं88 परोक्षं च ॥ १० ॥


अश्नुते अक्ष्णोति वा व्याप्नोति सकलद्रव्यक्षेत्रकालभावानिति अक्षो जीवः,
अश्नुते विषय89म् इति अक्षम्--इन्द्रियं च । प्रतिः प्रतिगतार्थः । अक्षं प्रतिगतं तदाश्रितम्,
अक्षाणि चेन्द्रियाणि तानि प्रतिगतमिन्द्रियाण्याश्रित्योज्जिहीते यत् ज्ञानं तत् प्रत्यक्षं
वक्ष्यमाणलक्षणम् । अक्षेभ्यः परतो वर्तत इति परेणेन्द्रियादिना चोक्ष्यत इति परोक्षं
वक्ष्यमाणलक्षणमेव । चकारः स्वविषये द्वयोस्तुल्यबलत्वख्यापनार्थः । तेन यदाहुः-
सकलप्रमाणज्येष्ठं प्रत्यक्षम् इति तदपास्तम् । प्रत्यक्ष90पूर्वकत्वादितरप्रमाणानां
तस्य ज्येष्ठतेति चेत्; न; प्रत्यक्षस्यापि प्रमाणान्तरपूर्वकत्वोपलब्धेः, लिङ्गात् आप्तोपदे
शाद्वा वह्न्यादिकमवगम्य प्रवृत्तस्य तद्विषयप्रत्यक्षोत्पत्तेः ॥ १० ॥


न प्रत्यक्षादन्यत्प्रमाणमिति लौकायतिकाः । तत्राह--


व्यवस्थान्यधीनिषेधानां सिद्धेः प्रत्यक्षेतरप्रमाणसिद्धिः ॥ ११ ॥


प्रमाणाप्रमाणविभागस्य, परबुद्धेः, अतीन्द्रियार्थनिषेधस्य च सिद्धिर्नानुमा
नादिप्रमाणं विना । चार्वाको हि काश्चिज्ज्ञानव्यक्तीः संवादित्वेनाव्यभिचारिणीरुपलभ्या
न्याश्च विसंवादित्वेन व्यभिचारिणीः, पुनः कालान्तरे तादृशीतराणां ज्ञानव्यक्तीनामवश्यं
8 प्रमाणेतरते व्यवस्थापयेत् । न च सन्निहितार्थबलेनोत्पद्यमानं पूर्वापरपरामर्शशून्यं प्रत्यक्षं
पूर्वापरकालभाविनीनां ज्ञानव्यक्तीनां प्रामाण्याप्रामाण्यव्यवस्थापकं निमित्तमुपलक्षयितुं
क्षमते । न चायं स्वप्रतीतिगोचराणामपि ज्ञानव्यक्तीनां परं प्रति प्रामाण्यमप्रामाण्यं वा
व्यवस्थापयितुं प्रभवति । तस्माद्यथादृष्टज्ञानव्यक्तिसाधर्म्यद्वारेणेदानीन्तनज्ञानव्यक्तीनां
प्रामाण्याप्रामाण्यव्यवस्थापकं परप्रतिपादकं च परोक्षान्तर्गतमनुमानरूपं प्रमाणान्तर
मुपासीत ।


अपि च प्रतिपित्सितमर्थं प्रतिपादयन् नायं लौकिको न परीक्षकः
इत्युन्मत्तवदुपेक्षणीयः स्यात् । न च प्रत्यक्षेण परचेतोवृत्तीनामधिगमोस्ति । चेष्टाविशेष
दर्शनात्तदवगमे च परोक्षस्य प्रामाण्यमनिच्छतोऽप्यायातम् ।


परलोकादिनिषेधश्च न प्रत्यक्षमात्रेण शक्यः कर्तुम्, सन्निहितमात्रविषय
त्वात्तस्य । परलोकादिकं चाप्रतिषिध्य नायं सुखमा91स्ते प्रमाणान्तरं च नेच्छतीति
डिम्भहेवाकः ।


किञ्च, प्रत्यक्षस्याप्यर्थाव्यभिचारादेव प्रामाण्यं तच्चार्थप्रतिबद्धलिङ्गशब्दद्वारा
समुन्मज्जतः परोक्षस्याप्यर्थाव्यभिचारादेव किं नेष्यते ? व्यभिचारिणोपि परोक्षस्य
दर्शनादप्रामाण्यमिति चेत्; प्रत्यक्षस्यापि तिमिरादिदोषादप्रमाणस्य दर्शनात् सर्वत्राप्रामा
ण्यप्रसङ्गः । प्रत्यक्षाभासं तदिति चेत्; इ92तरत्रापि तुल्यमेतदन्यत्र पक्षपातात् । धर्मकीर्त्ति
रप्येतदाह--


प्रमाणेतरसामान्यस्थितेरन्यधियो गतेः ।

प्रमाणान्तरसद्भावः प्रतिषेधाच्च कस्याचित् ॥ १ ॥

अर्थस्यासम्भवे93ऽभावात् प्रत्यक्षेऽपि प्रमाणता ।

प्रतिबद्धस्वभावस्य तद्धेतुत्वे समं द्वयम् ॥ २ ॥ इति ।

यथोक्तसङ्ख्यायोगेऽपि च परोक्षार्थविषयमनुमानमेव सौगतैरुपगम्यते; तद
युक्तम्; शब्दादीनामपि प्रमाणत्वात् तेषां चानुमानेऽन्तर्भावयितुमशक्यत्वात् । एकेन तु
सर्वसङ्ग्राहिणा प्रमाणेन प्रमाणान्तरसङ्ग्रहे नायं दोषः । तत्र यथा इन्द्रियजमानसात्मसंवेदन
योगिज्ञानानां प्रत्यक्षेण सङ्ग्रहस्तथा स्मृतिप्रत्यभिज्ञानोहानुमानागमानां परोक्षेण सङ्ग्रहो
लक्षणस्याविशेषात् । स्मृत्यादीनां च विशेषलक्षणानि स्वस्थान एव वक्ष्यन्ते । एवं परो
क्षस्योपमानस्य प्रत्यभिज्ञाने, अर्थापत्तेरनुमानेऽन्तर्भावोऽभिधास्यते ॥ ११ ॥


यत्तु प्रमाणमेव न भवति न तेनान्तर्भूतेन बहिर्भूतेन वा किञ्चित् प्रयोजनम्,
यथा अभावः । कथमस्याप्रामाण्यम् ? निर्विषयत्वात् इति ब्रूमः । तदेव कथम् ? इति चेत्--


भावाभावात्मकत्वाद्वस्तुनो निर्विषयोऽभावः ॥ १२ ॥


नहि भावैकरूपं वस्त्वस्ति विश्वस्य वैश्वरूप्यप्रसङ्गात्, नाप्यभावैकरूपं नीरू
9 पत्वप्रसङ्गात्; किन्तु स्वरूपेण सत्त्वात् पररूपेण चासंत्त्वात् भावाभावरूपं वस्तु तथैव प्रमा
णानां प्रवृत्तेः । तथाहि--प्रत्यक्षं तावत् भूतलमेवेदं घटादि94र्न भवतीत्यन्वयव्यतिरेकद्वारेण
वस्तु परिच्छिन्दत् तदधिकं विषयमभावैकरूपं निराचष्ट इति कं विषयमाश्रित्याभा
वलक्षणं प्रमाणं स्यात् ? । एवं परोक्षाण्यपि प्रमाणानि भावाभावरूपवस्तुग्रहणप्रवणान्येव,
अन्यथाऽसङ्कीर्णस्वस्वविषयग्रहणासिद्धेः, यदाह-

अयमेवेति यो ह्येष भावे भवति निर्णयः ।

नैष वस्त्वन्तराभावसंवित्त्यनुगमादृते ॥ श्लोकवा॰ अभाव॰ श्लो. १५.

इति ।


अथ भवतु भावाभावरूपता वस्तुनः, किं नश्च्छिन्नम् ?, वयमपि हि तथैव
प्रत्यपीपदाम । केवलं भावांश इन्द्रियसन्निकृष्टत्वात् प्रत्यक्षप्रमाणगोचरः अभावांशस्तु
न तथेत्यभावप्रमाणगोचर इति कथमविषयत्वं स्यात् ?, तदुक्तम्-

न तावदिन्द्रियेणैषा नास्तीत्युत्पाद्यते मतिः ।

भावांशेनैव संयोगो योग्यत्वादिन्द्रियस्य हि ॥ १ ॥

गृहीत्वा वस्तुसद्भावं स्मृत्वा च प्रतियोगिनम् ।

मानसं नास्तिताज्ञानं जायतेऽक्षानपेक्षया ॥ २ ॥ श्लोकवा॰ अभाव॰ श्लो. १८, २७

इति ।


ननु भावांशादभावांशस्याभेदे कथं प्रत्यक्षेणाग्रहणम् ?, भेदे वा घटाद्यभाव
रहितं भूतलं प्रत्यक्षेण गृह्यत इति घटादयो गृह्यन्त इति प्राप्तम्, तदभावा95ग्रहणस्य तद्भावग्रह
णनान्तरीयकत्वात् । तथा चाभा96वप्रमाणमपि पश्चात्प्रवृत्तं न तानुत्सारयितुं पटिष्ठं स्यात्,
अन्यथाअन्याथा97ऽसङ्कीर्णस्य सङ्कीर्णताग्रहणात् प्रत्यक्षं भ्रान्तं स्यात् ।


अपि चायं प्रमाणपञ्चकनिवृत्तिरूपत्वात् तुच्छः । तत एवाज्ञानरूपः कथं
प्रमाणं भवेत् ? । तस्मादभावांशात्कथञ्चिदभिन्नं भावांशं परिच्छिन्दता प्रत्यक्षादिना98 प्रमा
णेनाभावांशो गृहीत एवेति तदतिरिक्तविषयाभावान्निर्विषयोऽभावः । तथा च न प्रमाण99
मिति स्थितम् ॥ १२ ॥


विभागमुक्त्वा विशेषलक्षणमाह--


विशदः प्रत्यक्षम् ॥ १३ ॥


सामान्यलक्षणानुवादेन विशेषलक्षणविधानात् सम्यगर्थनिर्णयः इति प्रमा
णसामान्यलक्षणमनूद्य विशदः इति विशेषलक्षणं प्रसिद्धस्य प्रत्यक्षस्य विधीयते । तथा च
प्रत्यक्षं धर्मि । विशदसम्यगर्थनिर्णयात्मकमिति साध्यो धर्मः । प्रत्यक्षत्वादिति हेतुः ।
यद्विशदसम्यगर्थनिर्णयात्मकं न भवति न तत् प्रत्यक्षम्, यथा परोक्षमिति व्यतिरेकी ।
10 धर्म्मिणो हेतुत्वेऽनन्वयदोष इति चेत्; न; विशेषे धर्मिणि धर्मिसामान्यस्य हेतुत्वात् ।
तस्य च विशेषनिष्ठत्वेन विशेषेष्वन्वयसम्भवात् । सपक्षे वृत्तिमन्तरेणापि च विपक्षव्या
वृत्तिबलाद्गमकत्वमित्युक्तमेव ॥ १३ ॥


अथ किमिदं वैशद्यं नाम ? । यदि स्वविषयग्रहणम्; तत् परोक्षेप्य100क्षूणम् । अथ
स्फुटत्वम्; तदपि स्वसंविदितत्वात् सर्वविज्ञानानां सममित्याशङ्क्याह--


प्रमाणान्तरानपेक्षेदन्तया प्रतिभासो वा वैशद्यम् ॥ १४ ॥


प्रस्तुतात् प्रमाणाद् यदन्यत् प्रमाणं शब्दलिङ्गादिज्ञानं तत् प्रमाणान्तरं तन्निर
पेक्षता वैशद्यम् । नहि शा101ब्दानुमानादिवत् प्रत्यक्षं स्वोत्पत्तौ शब्दलिङ्गादिज्ञानं प्रमाणा
न्तरमपेक्षते इत्येकं वैशद्यलक्षणम् । लक्षणान्तरमपि इदन्तया प्रतिभासो वा इति,
इदन्तया विशेषनिष्ठतया यः प्रतिभासः सम्यगर्थनिर्णयस्य सोऽपि वैशद्यम् । वाशब्दो
लक्षणान्तरत्वसूचनार्थः ॥ १४ ॥


अथ मुख्यसांव्यवहारिकभेदेन द्वैविध्यं प्रत्यक्षस्य हृदि निधाय मुख्यस्य
लक्षणमाह--


तत् सर्वथावरणविलये चेतनस्य स्वरूपाविर्भावो मुख्यं केवलम् ॥ १५ ॥


तत् इति प्रत्यक्षप102रामर्शार्थम्, अन्यथानन्तरमेव वैशद्यमभिसम्बध्येत । दीर्घ
कालनिरन्तरस103त्कारासेवितरत्नत्रयप्रकर्षपर्यन्ते एकत्ववितर्काविचारध्यानबलेन निःशेषतया
ज्ञानावरणा104दीनां घातिकर्मणां प्रक्षये सति चेतनास्वभावस्यात्मनः प्रकाशस्वभावस्येति
यावत्, स्वरूपस्य प्रकाशस्वभावस्य सत एवावरणापगमेन आविर्भावः आविर्भूतं स्वरूपं
मुखमिव शरीरस्य सर्वज्ञानानां प्रधानं मुख्यम् प्रत्यक्षम् । तच्चेन्द्रियादिसाहायकविरहात्
सकलविषयत्वादसाधारणत्वाच्च केवलम् इत्यागमे प्रसिद्धम् ।


प्रकाशस्वभावता कथमात्मनः सिद्धेति चेत्; एते ब्रूमः--आत्मा प्रकाशस्व
भावः, असन्दिग्धस्वभावत्वात्, यः प्रकाशस्वभावो न भवति नासावसन्दिग्धस्वभावो यथा
घटः, न च तथात्मा, न खलु कश्चिदहमस्मि न वेति सन्दिग्धे इति नासिद्धो हेतुः । तथा,
आत्मा प्रकाशस्वभावः, बोद्धृत्वात्, यः प्रकाशस्वभावो न भवति नासौ बोद्धा यथा घटः,
न च न बोद्धात्मेति । तथा, यो यस्याः क्रियायाः कर्त्ता न स तद्विषयो यथा गतिक्रिया
याः कर्त्ता चैत्रो न तद्विषयः, ज्ञप्तिक्रियायाः कर्ता चात्मेति ।


अथ प्रकाशस्वभावत्व आत्मनः कथमावरणम् ?, आवरणे वा सततावरणप्र
सङ्गः; नैवम्; प्रकाशस्वभावस्यापि चन्द्रार्कादेरिव रजोनीहाराभ्रपटलादिभिरिव ज्ञाना
11 वरणीयादिकर्म्मभिरावरणस्य सम्भवात्, चन्द्रा105र्कादेरिव च प्रबलप106वमानप्रायैर्ध्यानभाव
नादिभिर्विलयस्ये107ति ।


ननु सादित्वे स्यादावरणस्योपायतो विलयः; नैवम्; अनादेरपि सुवर्णम
लस्य क्षारमृत्पुटपाकादिना विलयोपलम्भात्, तद्वदेवानादेरपि ज्ञानावरणीयादिकर्मणः
प्रतिपक्षभूतरत्नत्रयाभ्यासेन विलयोपपत्तेः ।


न चामूर्त्तस्यात्मनः कथमावरणमिति वाच्यम्; अमूर्ताया अपि चेतनाशक्ते
र्मदिरामदनकोद्रवादिभिरावरणदर्शनात् ।


अथावरणीयतत्प्रतिपक्षाभ्यामात्मा विक्रियेत न वा ? । किं चातः ? ।

वर्षातपाभ्यां किं व्योम्नश्चर्मण्यस्ति तयोः फलम् ।

चर्मोपमश्चेत् सोऽनित्यः खतुल्यश्चेदसत्फलः ॥

इति चेत्; न; अस्य दूषणस्य कूटस्थनित्यतापक्ष एव सम्भवात्, परिणामिनित्यश्चात्मेति
तस्य पूर्वापरपर्यायोत्पादविनाशसहितानु108वृत्तिरूपत्वात्, एकान्तनित्यक्षणिकपक्षयोः सर्व
थार्थक्रियाविरहात्, यदाह-
अर्थक्रिया न युज्येत नित्यक्षणिकपक्षयोः ।

क्रमाक्रमाभ्यां भावानां सा लक्षणतया मता ॥ लघी॰ २. १

इति ॥ १५ ॥


ननु प्रमाणाधीना प्रमेयव्यवस्था । न च मुख्यप्रत्यक्षस्य तद्वतो वा सिद्धौ
किञ्चित् प्रमाणमस्ति । प्रत्यक्षं हि रूपादिविषय109विनियमितव्यापारं नातीन्द्रियेऽर्थे प्रवर्तितु
मुत्सहते । नाप्यनुमानम्, प्रत्यक्षदृष्टलिङ्गलिङ्गिसम्बन्धबलो110जननधर्मकत्वात्तस्य ।
आगमस्तु यद्यतीन्द्रियज्ञानपूर्वकस्तत्साधकः; तदेतरेतराश्रयः111-

नर्ते तदागमात्सिध्येन्न च तेनागमो विना ।श्लोकवा॰ सू॰ २. श्लो॰ १४२

इति । अपौरुषेयस्तु तत्साधको नास्त्येव । योऽपि-
अपाणि112पादो ह्यम113नो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः ।

स वेत्ति विश्वं114 न हि तस्य वेत्ता तमाहुरग्र्यं पुरुषं महान्तम् ॥श्वेताश्व॰ ३. १९.

इत्यादिः कश्चिदर्थवादरूपोऽस्ति नासौ प्रमाणम् विधावेव प्रामाण्योपगमात् । प्रमाणान्त
राणां चात्रानवसर एवेत्याशङ्क्याह--


प्रज्ञातिशयविश्रान्त्यादिसिद्धेस्तत्सिद्धिः ॥ १६ ॥

12

प्रज्ञाया अतिशयः--तारतम्यं क्वचिद्विश्रान्तम्, अतिशयत्वात्, परिमाणाति
शयवदित्यनुमानेन निरतिशयप्रज्ञासिद्ध्या तस्य केवलज्ञानस्य सिद्धिः, तत्सिद्धिरूपत्वात्
केवलज्ञानसिद्धेः । आदिग्रहणात् सूक्ष्मान्तरितदूरार्थाः कस्यचित् प्रत्यक्षाः प्रमेयत्वात्
घटवदित्यतो, ज्योतिर्ज्ञानाविसंवादान्यथानुपपत्तेश्च तत्सिद्धिः, यदाह--


धीरत्यन्तपरोक्षेऽर्थे न चेत् पुंसां कुतः पुनः ।

ज्योतिर्ज्ञानाविसंवादः श्रुताच्चेत् साधनान्तरम् ॥सिद्धिवि॰ पृ॰ ४१३A

अपि च--नोदना हि भूतं भवन्तं भविष्यन्तं सूक्ष्मं व्यवहितं विप्र
कृष्टमेबञ्जातीयकमर्थमवगमयति नान्यत्किञ्चनेन्द्रियम्
-शाबर भा॰ १. १. २.
इति वदता भूताद्यर्थपरिज्ञानं कस्यचित् पुंसोऽभिमतमेव, अन्यथा कस्मै वेदस्त्रिकालविषय
मर्थं निवेदयेत् ? । स हि निवेदयंस्त्रिकालविषयतत्त्वज्ञमेवाधिकारिणमुपादत्ते, तदाह-

त्रिकालविषयं तत्त्वं कस्मै वेदो निवेदयेत् ।

अक्षय्यावरणैकान्तान्न चेद्वेद तथा नरः ॥ सिद्धिवि॰ पृ॰ ४१४A

इति त्रिकालविषयवस्तुनिवेदनाऽन्यथानुपपत्तेरतीन्द्रियकेवलज्ञानसिद्धिः ।


किञ्च, प्रत्यक्षानुमानसिद्धसंवादं शास्त्रमेवातीन्द्रियार्थदर्शिसद्भावे प्रमाणम् ।
य एव हि शास्त्रस्य विषयः स्याद्वादः स एव प्रत्यक्षादेरपीति संवादः, तथाहि-

सर्वमस्ति स्वरूपेण पररूपेण नास्ति च ।

अन्यथा सर्वसत्त्वं स्यात् स्वरूपस्याप्यसम्भवः ॥

इति दिशा प्रमाणसिद्धं स्याद्वादं प्रतिपादयन्नागमोऽर्हतस्सर्वज्ञतामपि प्रतिपादयति,
यदस्तुम-
यदीयसम्यक्त्वबलात् प्रतीमो भवादृशानां परमात्मभावम् ।

कुवासनापाशविनाशनाय नमोऽस्तु तस्मै तव शासनाय ॥अयोग॰ २१

इति । प्रत्यक्षं तु यद्यप्यैन्द्रियि115कं नातीन्द्रियज्ञानविषयं तथापि समाधिबललब्धजन्मकं116
योगिप्रत्यक्षमेव बाह्यार्थस्येव स्वस्यापि वेदकमिति प्रत्यक्षतोऽपि तत्सिद्धिः ।


अथ-

ज्ञानमप्र117तिघं यस्य वैराग्यं च जगत्पतेः ।

ऐश्वर्यं चैव धर्म्मश्च सहसिद्धं चतुष्टयम् ॥

इति वचनात्सर्वज्ञत्वमीश्वरादीनामस्तु मानुषस्य तु कस्यचिद्विद्याचरणवतोपि तदसम्भाव
नीयम्, यत्कुमारिलः-
अथापि वेददेहत्वाद् ब्रह्मविष्णुमहेश्वराः ।

कामं भवन्तु सर्वज्ञाः सार्वज्ञ्यं मानुषस्य किम् ? ॥ तत्त्वसं॰तत्वस॰ का॰ ३२०८
13 इति; आः ! सर्वज्ञापलापपातकिन् ! दुर्वदवादिन् ! मानुषत्वनिन्दार्थवादापदेशेन देवाधि
देवानधिक्षिपसि ? । ये हि जन्मान्तरार्ज्जितोर्जितपुण्यप्राग्भाराः सुरभवभवमनुपमं सुख
मनुभूय दुःखपङ्कमग्नमखिलं जीवलोकमुद्दिधीर्षवो नरकेष्वपि क्षणं क्षिप्तसुखासिकामृत
वृष्टयो मनुष्यलोकमवतेरुः जन्मसमयसमकालचलितासनसकलसुरेन्द्रवृन्दविहितजन्मो
त्सवाः किङ्करायमाणसुरसमूहाहमहमिकारब्धसेवाविधयः स्वयमुपनतामतिप्राज्यसाम्राज्य
श्रियं तृणवदवधूय समतृणमणिशत्रुमित्रवृत्तयो निजप्रभावप्रशमितेति118मर119कादिजगदुपद्रवाः
शुक्लध्यानानलनिर्दग्धघातिकर्माण आविर्भूतनिखिलभावाभावस्वभावावभासिकेवलबलद
लितसकलजीवलोकमोहप्रसराः सुरासुरविनिर्मितां समवसरणभुवमधिष्ठाय स्वस्वभाषापरि
णामिनीभिर्वाग्भिः प्रवर्तितधर्मतीर्थाश्चतुस्त्रिंशद120तिशयमयीं तीर्थनाथत्वलक्ष्मीमुपभुज्य परं
ब्रह्म सततानन्दं सकलकर्मनिर्मोक्षमुपेयिवांसस्तान्मानुषत्वादिसाधारणधर्मोपदेशेनाप-
वदन् सुमेरुमपि लेष्ट्वादिना साधारणीकर्तुं पार्थिवत्वेनापवदेः ! । किञ्च, अनवरतवनिताङ्ग
सम्भोगदुर्ललितवृत्तीनां विविधहेतिसमूहधारिणामक्षमालाद्यायत्तमनःसंयमानां रागद्वेषमो
हकलुषितानां ब्रह्मादीनां सर्ववित्त्वसाम्राज्यम् !, यदवदाम स्तुतौ-
मदेन मानेन मनोभवेन क्रोधेन लोभेन121 ससम्मदेन ।

पराजितानां प्रसभं सुराणां वृथैव साम्राज्यरुजा परेषाम् ॥ अयोग--२५
14 इति । अथापि रागादिदोषकालुष्यविरहिताः सततज्ञानानन्दमयमूर्तयो ब्रह्मादयः; तर्हि
तादृशेषु तेषु न विप्रतिपद्यामहे, अवोचाम हि-
यत्र तत्र समये यथा तथा योऽसि सोऽस्यभिधया यया तया ।

वीतदोषकलुषः स चेद्भवानेक एव भगवन्नमोऽस्तु ते ॥अयोग--३१

इति । केवलं ब्रह्मादिदेवताविषयाणां श्रुतिस्मृतिपुराणेतिहासकथानां वैतथ्यमासज्येत ।
तदेवं साधकेभ्यः प्रमाणेभ्योऽतीन्द्रियज्ञानसिद्धिरुक्ता ॥ १६ ॥


बाधकाभावाच्च ॥ १७ ॥


सुनिश्चि122तासम्भवद्बाधकत्वात् सुखादिवत् तत्सिद्धिः इति सम्बध्यते । तथाहि
केवलज्ञानबाधकं भवत् प्रत्यक्षं वा भवेत् प्रमाणान्तरं वा ? । न तावत् प्रत्यक्षम्; तस्य
विधावेवाधिकारात्-

सम्बद्धं वर्तमानं च गृह्यते चक्षुरादिना । श्लोकवा॰ सू॰ ४. श्लो॰ ८४

इति स्वयमेव भाषणात् ।


अथ न प्रवर्तमानं प्रत्यक्षं तद्बाधकं किन्तु निवर्तमानम् तत्; त123र्हि125यदि
नियतदेशकालविषयत्वेन बाधकं तर्हि सम्प्रतिपद्यामहे । अथ सकलदेशकालविषयत्वेन;
तर्हि न तत् सकलदेशकालपुरुषपरिषत्साक्षात्का126रमन्तरेण सम्भवतीति सिद्धं नः समी
हितम् । न च जैमिनिरन्यो वा सकलदेशादिसाक्षात्कारी सम्भवति सत्त्वपुरुषत्वादेः
रथ्यापुरुषवत् । अथ प्रज्ञायाः सातिशयत्वात्तत्प्रकर्षोऽप्यनुमीयते; तर्हि तत एव सकलार्थ
दर्शी किं नानुमीयते ? । स्वपक्षे चानुपलम्भमप्रमाणयन् सर्वज्ञाभावे कुतः प्रमाणयेद
विशेषात् ? ।


न चानुमानं तद्बाधकं सम्भवति; धर्मिग्रहणमन्तरेणानुमानाप्रवृत्तेः, धर्म्मि
ग्रहणे वा तद्ग्राहकप्रमाणबाधितत्वादनुत्थानमेवानुमानस्य । अथ विवादाध्यासितः पुरुषः
सर्वज्ञो न भवति वक्तृत्वात् पुरुषत्वाद्वा रथ्यापुरुषवदित्यनुमानं तद्बाधकं ब्रूषे; तदसत्;
यतो यदि प्रमाणपरिदृष्टार्थवक्तृत्वं हेतुः; तदा विरुद्धः, तादृशस्य वक्तृत्वस्य सर्वज्ञ एव
भावात् । अथासद्भूतार्थवक्तृत्वम्; तदा सिद्धसाध्यता, प्रमाणविरुद्धार्थवादिनामसर्वज्ञत्वेनेष्ट
त्वात् । वक्तृत्वमात्रं तु सन्दिग्धविपक्षव्यावृत्तिकत्वादनैकान्तिकम् ज्ञानप्रकर्षे वक्तृत्वाप
कर्षादर्शनात्, प्रत्युत ज्ञानातिशयवतो वक्तृत्वातिशयस्यैवोपलब्धेः । एतेन पुरुषत्वमपि
निरस्तम् । पुरुषत्वं हि यदि रागाद्यदूषितं तदा विरुद्धम्, ज्ञानवैराग्यादिगुणयुक्तपुरुषत्वस्य
सर्वज्ञतामन्तरेणानुपपत्तेः । रागादिदूषिते तु पुरुषत्वे सिद्धसाध्यता । पुरुषत्वसामान्यं तु
सन्दिग्धविपक्षव्यावृत्तिकमित्यबाधकम् ।

15

नाप्यागमस्तद्बाधकः तस्यापौरुषेयस्यासम्भवात्; सम्भवे वा तद्बाधकस्य
तस्यादर्शनात् । सर्वज्ञोपज्ञ127श्चागमः कथं तद्बाधकः ?, इत्यलमतिप्रसङ्गेनेति ॥ १७ ॥


न केवलं केवलमेव मुख्यं प्रत्यक्षमपि त्वन्यदपीत्याह--


तत्तारतम्येऽवधिमनःपर्यायौ च128 ॥ १८ ॥


सर्वथावरणविलये केवलम्, तस्यावरणविलयस्य तारतम्ये आवरणक्षयो
पशमविशेषे तन्निमित्तकः अवधिः अवधिज्ञानं मनःपर्यायः मनःपर्यायज्ञानं च मुख्य
मिन्द्रियानपेक्षं प्रत्यक्षम् । तत्रावधीयत इति अवधिः मर्यादा सा च रूपिष्वबधेः
तत्त्वा॰ १. २८ इति वचनात् रूपवद्द्रव्यविषया अवध्युपलक्षितं ज्ञानमप्यवधिः । स द्वेधा
भवप्रत्ययो गुणप्रत्ययश्च । तत्राद्यो देवनारकाणां पक्षिणामिव वियद्गमनम् । गुणप्रत्ययो
मनुष्याणां तिरश्चां च ।


मनसो द्रव्यरूपस्य पर्यायाश्चिन्तनानुगुणाः परिणामभेदास्तद्विषयं ज्ञानं मनः
पर्यायः । तथाविधमनःपर्यायान्यथानुपपत्त्या तु यद्बाह्यचिन्तनीयार्थज्ञानं तत् आनुमानिक
मेव न मनःपर्यायप्रत्यक्षम्, यदाहुः--


जाणइ बज्झेणुमाणेणं । विशेषा॰ गा॰ ८१४ इति ॥ १८ ॥इति ।

ननु रूपिद्रव्यविषयत्वे क्षायोपशमिकत्वे च तुल्ये को विशेषोऽवधिमनः
पर्याययोरित्याह--


विशुद्धिक्षेत्रस्वामिविषयभेदात् तद्भेदः ॥ १९ ॥


सत्यपि कथञ्चित्साधर्म्ये विशुद्ध्यादिभेदादवधिमनःपर्यायज्ञानयोर्भेदः ।
तत्रावधिज्ञानान्मनःपर्यायज्ञानं विशुद्धतरम् । यानि हि मनोद्रव्याणि अवधिज्ञानी
जानीते तानि मनःपर्यायज्ञानी विशुद्धतराणि जानीते ।


क्षेत्र129कृतश्चानयोर्भेदः--अवधिज्ञानमङ्गुलस्यासङ्खेयभागादिषु भवति आ सर्व
लोकात्, मनःपर्यायज्ञानं तु मनुष्यक्षेत्र एव भवति ।


स्वामिकृतोऽपि--अवधिज्ञानं संयतस्यासंयतस्य संयतासंयतस्य च सर्वगतिषु
भवति; मनःपर्यायज्ञानं तु मनुष्यसंयतस्य प्रकृष्टचारित्रस्य प्रमत्तादिषु क्षीणकषायान्तेषु
गुणस्थानकेषु भवति । तत्रापि वर्धमानपरिणामस्य नेतरस्य । वर्धमानपरिणामस्यापि
ऋद्धिप्राप्तस्य नेतरस्य । ऋद्धिप्राप्तस्यापि कस्यचिन्न सर्वस्येति ।


विषयकृतश्च--रूपवद्द्रव्येष्वसर्वपर्यायेष्ववधेर्विषयनिबन्धस्तदनन्तभा130गे मनः
पर्यायस्य इति । अवसितं मुख्यं प्रत्यक्षम् ॥ १९ ॥

16

अथ सांव्यवहारिकमाह--


इन्द्रियमनोनिमित्तोऽवग्रहेहावायधारणात्मा सांव्यवहारिकम् ॥ २० ॥


इन्द्रियाणि स्पर्शनादीनि वक्ष्यमाणलक्षणानि, मनश्च निमित्तं कारणं यस्य स
तथा । सामान्यलक्षणानुवृत्तेः सम्यगर्थनिर्णयस्येदं विशेषणं तेन इन्द्रियमनोनिमित्तः
सम्यगर्थनिर्णयः । कारणमुक्त्वा स्वरूपमाह--अवग्रहेहावायधारणात्मा । अवग्रहादयो
वक्ष्यमाणलक्षणाः त आत्मा यस्य सोऽवग्रहेहावायधारणात्मा । आत्मग्रहणं च क्रमेणो
त्पद्यमानानामप्यवग्रहादीनां नात्यन्तिको भेदः किन्तु पूर्वपूर्वस्योत्तरोत्तररूपतया परिणा
मादेकात्मकत्वमिति प्रदर्शनार्थम् । समीचीनः प्रवृत्तिनिवृत्तिरूपो व्यवहारः संव्यवहार
स्तत्प्रयोजनं सांव्यवहारिकम् प्रत्यक्षम् । इन्द्रियमनोनिमित्तत्वं च समस्तं व्यस्तं च
बोद्धव्यम् । इन्द्रियप्राधान्यात् मनोबलाधानाच्चोत्पद्यमान इन्द्रियजः । मनस एव विशुद्धि
सव्यपेक्षादुपजायमानो मनोनिमित्त इति ।


ननु स्वसंवेदनरूपमन्यदपि प्रत्यक्षमस्ति तत् कस्मान्नोक्तम् ?, इति न
वाच्यम्; इन्द्रिय131जज्ञानस्वसंवेदनस्येन्द्रियप्रत्यक्षे, अनिन्द्रियजसुखादि132संवेदनस्य मनः
प्रत्यक्षे, योगिप्रत्यक्षस्वसंवेदनस्य योगिप्रत्यक्षेऽन्तर्भावात् । स्मृत्यादिस्वसंवेदनं तु मान
समेवेति नापरं स्वसंवेदनं नाम प्रत्यक्षमस्तीति भेदेन133 नोक्तम् ॥ २० ॥


इन्द्रियेत्युक्तमितीन्द्रियाणि लक्षयति--


स्पर्शरसगन्धरूपशब्दग्रहणलक्षणानि स्पर्शनरसनघ्राणचक्षुः
श्रोत्राणीन्द्रियाणि द्रव्यभावभेदा134नि ॥ २१ ॥


स्पर्शादिग्रहणं लक्षणं येषां तानि यथासङ्ख्यं स्पर्शनादीनीन्द्रियाणि, तथाहि
स्पर्शाद्युपलब्धिः करणपूर्वा क्रियात्वात् छिदिक्रियावत् । तत्रेन्द्रेण कर्मणातत्रेन्द्रेणकर्मणा सृष्टानीन्द्रियाणि
नामकर्मोदयनिमित्तत्वात् । इन्द्रस्यात्मनो लिङ्गानि वा, कर्ममलीमसस्य हि स्वयमर्थानु
पलब्धुमसमर्थस्यात्मनोऽर्थोपलब्धौ निमित्तानि इन्द्रियाणि ।


नन्वेवमात्मनोऽर्थज्ञानमिन्द्रियात् लिङ्गादुपजायमानमानुमानिकं स्यात् । तथा
च लिङ्गापरिज्ञानेऽनुमानानुदयात् । तस्यानुमानात्परिज्ञानेऽनवस्थाप्रसङ्गः; नैवम्; भावे
न्द्रियस्य स्वसंविदितत्वेनानवस्थानवकाशात् । यद्वा, इन्द्रस्यात्मनो लिङ्गान्यात्मगमकानि
इन्द्रियाणि करणस्य वास्यादिवत्कर्त्रधिष्ठितत्वदर्शनात् ।


तानि च द्रव्यभावरूपेण भिद्यन्ते । तत्र द्रव्येन्द्रियाणि नामकर्मोदयनिमि
17 त्तानि, भावेन्द्रियाणि पुनस्तदावरणवीर्यान्तरायक्षयोपशमनिमित्तानि । सैषा पञ्चसूत्री
स्पर्शग्रहणलक्षणं स्पर्शनेन्द्रियं, रसग्रहणलक्षणं रसनेन्द्रियमित्यादि । सकलसंसारिषु भावा
च्छरीरव्यापकत्वाच्च स्पर्शनस्य पूर्वं निर्देशः, ततः क्रमेणाल्पाल्पजीवविषयत्वाद्रसनघ्राण
चक्षुःश्रोत्राणाम् ।


तत्र स्पर्शनेन्द्रियं तदावरणक्षयोपशमसम्भवं पृथिव्यप्तेजोवायुवनस्पतीनां
शेषेन्द्रियावरणवतां स्थावराणां जीवानाम् । तेषां च पुढवी चित्तमन्तमक्खाया
दशवै॰ ४. १ इत्यादेराप्तागमात्सिद्धिः । अनुमानाच्च--ज्ञानं क्वचिदात्मनि परमापकर्षवत्
अपकृष्यमाणविशेषत्वात् परिमाणवत्, यत्र तदपकर्षपर्यन्तस्त एकेन्द्रियाः स्थावराः ।
न च स्पर्शनेन्द्रियस्याप्यभावे भस्मादिषु ज्ञानस्यापकर्षो युक्तः । तत्र हि ज्ञानस्याभाव
एव न पुनरपकर्षस्ततो यथा गगनपरिमाणादारभ्यापकृष्यमाणविशेषं परिमाणं परमाणौ
परमापकर्षवत् तथा ज्ञानमपि केवलज्ञानादारभ्यापकृष्यमाणविशेषमेकेन्द्रियेष्वत्यन्तमप
कृष्यते । पृथिव्यादीनां च प्रत्येकं जीवत्वसिद्धिरग्रे वक्ष्यते । स्पर्शनरसनेन्द्रिये कृमि
अपादिका-नूपुरक-गण्डूपद-शङ्ख-शुक्तिका-शम्बूका-जलूकाप्रभृतीनां त्रसानाम् । स्पर्शन
रसन-घ्राणानि पिपीलका-रोह135णिका-उपचिका-कुन्थु-तुबर136क-त्रपु137स-बीज138-कर्पासास्थिका-शत
पदी-अयेनक-तृणपत्र-काष्ठहारकादीनाम् । स्पर्शन-रसन-घ्राण-चक्षूंषि भ्रमर-वट139र-सारङ्ग
मक्षिका-पुत्तिका140-दंश-मशक-वृश्चिक-नन्द्यावर्त्त-कीटक-पतङ्गादीनाम् । सह श्रोत्रेण तानि
मत्स्य-उरग-भुजग-पक्षि-चतुष्पदानां तिर्यग्योनिजानां सर्वेषां च नारकमनुष्यदेवानामिति ।


ननु वचनादानविहरणोत्सर्गानन्दहेत141वो वाक्पाणिपादपायूपस्थलक्षणान्य
पीन्द्रियाणीति साङ्ख्यास्तत्कथं पञ्चैवेन्द्रियाणि ?; न; ज्ञानविशेषहेतू142नामेवेहेन्द्रियत्वे
नाधिकृतत्वात्, चेष्टाविशेषनिमित्तत्वेनेन्द्रियत्वकल्पनायामिन्द्रियानन्त्यप्रसङ्गः, चेष्टावि
शेषाणामनन्तत्वात्, तस्माद्व्यक्तिनिर्देशात् पञ्चैवेन्द्रियाणि ।


तेषां च परस्परं स्यादभेदो द्रव्यार्थादेशा143त्, स्याद्भेदः पर्यायार्थादेशात्, अभे
दैकान्ते हि स्पर्शनेन स्पर्शस्येव रसादेरपि ग्रहणप्रसङ्गः । तथाचेन्द्रियान्तरकल्पना वैयर्थ्यम्,
कस्यचित् साकल्ये वैकल्ये वान्येषां साकल्यवैकल्यप्रसङ्गश्च । भेदैकान्तेऽपि तेषामेक144त्र
सकल145ज्ञानजनकत्वाभावप्रसङ्गः सन्तानान्तरेन्द्रियवत् । मनस्तस्य जनक
मिति चेत्; न; तस्येन्द्रियनिरपेक्षस्य तज्जनकत्वाभावात् । इन्द्रियापेक्षं मनोऽनुसन्धानस्य
जनकमिति चेत्; सन्तानान्तरेन्द्रियापेक्षस्य कुतो न जनकत्वमिति वाच्यम् ? । प्रत्यासत्ते
रभावादिति चेत्; अत्र का प्रत्यासत्तिरन्यत्रैकद्रव्यतादात्म्यात् ?, प्रत्यासत्त्यन्तरस्य146
18 व्यभिचारादिति । एतेन तेषामात्मना भेदाभेदैकान्तौ प्रतिव्यूढौ । आत्मना करणानाम
भेदैकान्ते कर्तृत्वप्रसङ्गः, आत्मनो वा करणत्वप्रसङ्गः, उभयोरुभयात्मकत्वप्रसङ्गो वा,
विशेषाभावात् । ततस्तेषां भेदैकान्ते चात्मनः करणत्वाभावः सन्तानान्तरकरणवद्विपर्ययो
वेति प्रतीतिसिद्धत्वाद्बाधकाभावाच्चानेकान्त एवाश्रयणीयः ।


द्रव्येन्द्रियाणामपि परस्परं स्वारम्भकपुद्गलद्रव्येभ्यश्च भेदाभेदद्वारानेकान्त
एव युक्तः, पुद्गलद्रव्यार्थादेशादभेदस्य पर्यायार्थादेशाच्च भेदस्योपपद्यमानत्वात् ।


एवमिन्द्रियविषयाणां स्पर्शादीनामपि द्रव्यपर्यायरूपतया भेदाभेदात्मकत्व
मवसेयम्, तथैव निर्बाधमुपलब्धेः । तथा च न द्रव्यमात्रं पर्यायमात्रं वेन्द्रियविषय इति
स्पर्शादीनां कर्मसाधनत्वं भावसाधनत्वं च द्रष्टव्यम् ॥ २१ ॥


द्रव्यभावभेदानि इत्युक्तं तानि क्रमेण लक्षयति--


द्रव्येन्द्रियं नियताकाराः पुद्गलाः147 ॥ २२ ॥


द्रव्येन्द्रियम् इत्येकवचनं जात्याश्रयणात् । नियतो विशिष्टो बाह्य आभ्य
न्तरश्चाकारः संस्थानविशेषो येषां ते नियताकाराः पूरणगलनधर्माणः स्पर्शरसगन्धवर्णव
न्तः पुद्गलाः, तथाहि श्रोत्रादिषु यः कर्णशष्कुलीप्रभृतिर्बाह्यः पुद्गलानां प्रचयो यश्चाभ्यन्तरः
कदम्बगोलकाद्याकारः स सर्वो द्रव्येन्द्रियम्, पुद्गलद्रव्यरूपत्वात् । अप्राधान्ये वा द्रव्य
शब्दो यथा अङ्गारमर्द्दको द्रव्याचार्य इति । अप्रधानमिन्द्रियं द्रव्येन्द्रियम्, व्यापारवत्यपि
तस्मिन् सन्निहितेऽपि चालोकप्रभृतिनि सहकारिपटले भावेन्द्रियं विना स्पर्शाद्यु
148लब्ध्यसिद्धेः ॥ २२ ॥


भावेन्द्रियं लब्ध्युपयोगौ ॥ २३ ॥


लम्भनं लब्धिः ज्ञानावरणकर्मक्षयोपशमविशेषः । यत्सन्निधाना149दात्मा द्रव्ये
न्द्रियनिर्वृत्तिं प्रति व्याप्रियते तन्निमित्त आत्मनः परिणामविशेष उपयोगः । अत्रापि भावे
न्द्रियम् इत्येकवचनं जात्याश्रयणात् । भावशब्दोऽनुपस150र्जनार्थः । यथैवेन्दनधर्मयोगित्वेना
नुपचरितेन्द्रत्वो भावेन्द्र उच्यते तथैवेन्द्रलिङ्गत्वादिधर्मयोगेनानुपचरितेन्द्रलिङ्गत्वादि
धर्मयोगि भावेन्द्रियम् ।


तत्र लब्धिस्वभावं तावदिन्द्रियं स्वार्थसंवित्तावात्मनो योग्यतामादधद्भावे
न्द्रियतां प्रतिपद्यते । नहि तत्रायोग्यस्य तदुत्पत्तिराकाशवदुपपद्यते स्वार्थसंविद्योग्यतैव च
लब्धिरिति । उपयोगस्वभावं पुनः स्वार्थसंविदि व्यापारात्मकम् । नह्यव्यापृतं स्पर्शना151दि
संवेदनं स्पर्शादि प्रकाशयितुं शक्तम्, सुषुप्तादीनामपि तत्प्रकाशकत्वप्राप्तेः ।

19

स्वार्थप्रकाशने व्यापृतस्य संवेदनस्योपयोगत्वे फलत्वादिन्द्रियत्वानुपपत्ति
रिति चेत्; न; कारणधर्मस्य कार्येऽनुवृत्तेः । नहि पावकस्य प्रकाशकत्वे तत्कार्यस्य प्रदी
पस्य प्रकाशकत्वं विरुध्यते । न च येनैव स्वभावेनोपयोगस्येन्द्रियत्वम्, तेनैव फलत्वमि
ष्यते येन विरोधः स्यात् । साधकतमस्वभावेन हि तस्येन्द्रियत्वं क्रियारूपतया च फल
त्वम् । यथैव हि प्रदीपः प्रकाशात्मना प्रकाशयतीत्यत्र साधकतमः प्रकाशात्मा करणम्,
क्रियात्मा फलम्, स्वतन्त्रत्वाच्च कर्त्तेति सर्वमिदमनेकान्तवादे न दुर्लभमित्यलं प्रसङ्गेन ॥ २३ ॥


मनोनिमित्तः इत्युक्तमिति मनो लक्षयति--


सर्वार्थग्रहणं मनः ॥ २४ ॥


सर्वे न तु स्पर्शनादीनां स्पर्शादिवत् प्रतिनियता एवार्था गृह्यन्तेऽनेनेति
सर्वार्थग्रहणं मनः अनिन्द्रियम् इति नोइन्द्रियम् इति चोच्यते । सर्वार्थं मन
इत्युच्यमाने आत्मन्यपि प्रसङ्ग इति करणत्वप्रतिपादनार्थं ग्रहणम् इत्युक्तम् । आत्मा तु
कर्त्तेति नातिव्याप्तिः, सर्वार्थग्रहणं च मनसः प्रसिद्धमेव । यत् वाचकमुख्यः श्रुतमनि
न्द्रियस्य ।
तत्त्वा॰ २. २२ श्रुतमिति हि विषयिणा विषयस्य निर्देशः । उपलक्षणं च
श्रुतं मतेः तेन मतिश्रुतयोर्यो विषयः स मनसो विषय इत्यर्थः । मतिश्रुतयोर्निबन्धो
द्र152व्येष्वसर्वपर्यायेषु
तत्त्वा॰ १. २७ इति वाचकवचनान्मतिश्रुतज्ञानयोः सर्वविषयत्व
मिति मनसोऽपि सर्वविषयत्वं सिद्धम् ।


मनोऽपि प153ञ्चेन्द्रियवद् द्रव्यभावभेदात् द्विविधमेव । तत्र द्रव्यमनो मनस्त्वेन
परिणतानि पुद्गलद्रव्याणि । भावमनस्तु तदावरणीयकर्मक्षयोपशमात्मा लब्धिरात्मनश्चार्थ
ग्रहणोन्मुखो व्यापारविशेष इति ॥ २४ ॥


नन्वत्यल्पमिदमुच्यते इन्द्रियमनोनिमित्तः इति । अन्यदपि हि चक्षुर्ज्ञानस्य
निमित्तमर्थ आलोकश्चास्ति, यदाहुः-

रूपालोकमनस्कारचक्षुर्भ्यः सम्प्र154जायते ।

विज्ञानं मणिसूर्यांशुगोशकृद्भ्य इवानलः ॥

इत्यत्राह--


नार्थालोकौ ज्ञानस्य निमित्तमव्यतिरेकात् ॥ २५ ॥


बाह्यो विषयः प्रकाशश्च न चक्षुर्ज्ञानस्य साक्षात्कारणम्, देशकालादिवत्तु व्यव
हितकारणत्वं न निवार्यते, ज्ञानावरणादिक्षयोपशमसामग्र्यामारादुपकारित्वेनाञ्जनादिवच्चक्षु
रुपकारित्वेन चाभ्युपगमात् । कुतः पुनः साक्षान्न कारणत्वमित्याह--अव्यतिरेकात्
व्यतिरेकाभावात् । न हि तद्भावे भावलक्षणोऽन्वय एव हेतुफलभावनिश्चयनिमित्तम्,
20 अपि तु तदभावेऽभावलक्षणो व्यतिरेकोऽपि । न चासावर्थालोकयोर्हेतुभावेऽस्ति; मरु
मरीचिकादौ जलाभावेऽपि जलज्ञानस्य, वृषदंशादीनां चालोकाभावेऽपि सान्द्रतमतमः
पटलविलिप्त155देशगतवस्तुप्रतिपत्तेश्च दर्शनात् । योगिनां चातीतानागतार्थग्रहणे किमर्थस्य156
निमित्तत्वम् ? । निमित्तत्वे चार्थक्रियाकारित्वेन सत्त्वादतीतानागतत्वक्षतिः ।


न च प्रका157श्यादात्मलाभ एव प्रकाशकस्य प्रकाशकत्वम्, प्रदीपादेर्घटादिभ्यो
ऽनुत्पन्नस्यापि तत्प्रकाशकत्वदर्शनात् । ईश्वरज्ञानस्य च नित्यत्वेनाभ्युपगतस्य कथमर्थ
जन्यत्वं नाम ? । अस्मदाअस्मादादीनामपि जनकस्यैव ग्राह्यत्वाभ्युपगमे स्मृतिप्रत्यभिज्ञानादेः
प्रमाणस्याप्रामाण्यप्रसङ्गः । येषां चैकान्तक्षणिकोऽर्थो जनकश्च ग्राह्य158 इति दर्शनम् तेषामपि
जन्यजनकयोर्ज्ञानार्थयोर्भिन्नकालत्वान्न ग्राह्यग्राहकभावः सम्भवति । अथ न जन्यजनक
भावातिरिक्तः सन्दंशायोगोलकवत् ज्ञानार्थयोः कश्चिद् ग्राह्यग्राहकभाव इति मतम्,

भिन्नकालं कथं ग्राह्यमिति चेद् ग्राह्यतां विदुः ।

हेतुत्वमेव युक्तिज्ञा ज्ञानाकारार्पणक्षमम् प्रमाणवा॰ ३. २४७

इति वचनात्; तर्हि स159र्वज्ञज्ञानस्य वार्तमानिकार्थविषयत्वं न कथञ्चिदुपपद्यते वार्तमानिक
क्षणस्याजनकत्वात् अजनकस्य चाग्रहणात् । स्वसंवेदनस्य च स्वरूपाजन्यत्वे कथं ग्राहकत्वं
स्वरूपस्य वा कथं ग्राह्यत्वमिति चिन्त्यम् । तस्मात्160 स्वस्वसामग्रीप्रभवयोर्दीपप्र161काशघटयो
रिव ज्ञानार्थयोः प्रकाश्यप्रकाशकभावसम्भवान्न ज्ञाननिमित्तत्वमर्थालोकयोरिति स्थितम् ।


नन्वर्थाजन्यत्वेज्ञानस्य कथं प्रतिकर्मव्यवस्था ?, तदुत्पत्तितदाकारताभ्यां हि
सोपपद्यते, तस्मादनुत्पन्नस्यातदाकारस्य च ज्ञानस्य सर्वार्थान् प्रत्यविशेषात्; नैवम्;
तदुत्पत्तिमन्तरेणाप्यावरणक्षयोपशमलक्षणया योग्यतयैव प्रतिनियतार्थप्रकाशकत्वोपपत्तेः ।
तदुत्पत्तावपि च योग्यतावश्याश्रयणीया, अन्यथाऽशेषार्थसान्निध्येऽपि कुतश्चिदेवार्थात् क
स्यचिदेव ज्ञानस्य जन्मेति कौतस्कुतोऽयं विभागः । तदाकारता त्वर्थाकारसङ्क्रान्त्या ताव
दनुपपन्ना, अर्थस्य निराकारत्वप्रसङ्गात् । अर्थेन च मूर्तेनामूर्तस्य ज्ञानस्य कीदृशं सादृ
श्यमित्यर्थविशेषग्रहणपरिणा162म एव साभ्युपेया । अ163तः-

अर्थेन घटयत्येनां नहि मुक्त्वाऽर्थरूपताम् प्रमाण वा॰ ३. ३०५

इति यत्किञ्चिदेतत् ।


अपि च व्यस्ते समस्ते वैते ग्रहणकारणं स्याताम् । यदि व्यस्ते; तदा कपा
लाद्यक्षणो घटान्त्यक्षणस्य, जलचन्द्रो वा नभश्चन्द्रस्य ग्राहकः प्राप्नोति, तदुत्पत्तेस्तदाका
रत्वाच्च । अथ समस्ते; तर्हि घटोत्तरक्षणः पूर्वघटक्षणस्य ग्राहकः प्रसजति । ज्ञानरूपत्वे
सत्येते ग्रहणकारणमिति चेत्; तर्हि समानजातीयज्ञानस्य समनन्तरपूर्वज्ञानग्राहकत्वं प्रस
ज्येत । तन्न योग्यतामन्तरेणान्यद् ग्रहणकारणं पश्यामः ॥ २५ ॥

21

अवग्रहेहावायधारणात्मा इत्युक्तमित्यवग्रहादील्लँक्षयति--


अक्षार्थयोगे दर्शनानन्तरमर्थग्रहणमवग्रहः ॥ २६ ॥


अक्षम् इन्द्रियं द्रव्यभावरूपम्, अर्थः द्रव्यपर्यायात्मा तयोः योगः
सम्बन्धोऽनतिदूरासन्नव्यवहितदेशाद्यवस्थानलक्षणा योग्यता । नियता हि सा विषयविष
यिणोः, यदाह,

पुट्ठं सुणेइ सद्दं रूवं पुण पासए अपुट्ठं तु ॥ आव॰ नि॰ ५

इत्यादि । तस्मिन्नक्षार्थयोगे सति दर्शनम् अनुल्लिखितविशेषस्य वस्तुनः प्रतिपत्तिः ।
तदनन्तरमिति क्रमप्रतिपादनार्थमेतत् । एतेन दर्शनस्यावग्रहं प्रति प164रिणामितोक्ता, नह्यसत
एव सर्वथा कस्यचिदुत्पादः, सतो वा सर्वथा विनाश इति दर्शनमेवोत्तरं परिणामं प्रति
पद्यते । अर्थस्य द्रव्यपर्यायात्मनोऽर्थक्रियाक्षमस्य ग्रहणम्, सम्यगर्थनिर्णयः इति
सामान्यलक्षणानुवृत्तेर्निर्णयो न पुनरविक165ल्पकं दर्शनमात्रम् अवग्रहः ।


न चायं मानसो विकल्पः, चक्षुरादिसन्निधानापेक्षत्वात् प्रतिसङ्ख्यानेना
प्रत्या166ख्येयत्वाच्च । मानसो हि विकल्पः प्रतिसङ्ख्या167नेन निरुध्यते, न चायं तथेति
न विकल्पः ॥ २६ ॥


अवगृहीतविशेषाका168ङ्क्षणमीहा ॥ २७ ॥


अवग्रहगृहीतस्य शब्दादेरर्थस्य किमयं शब्दः शाङ्खः शार्ङ्गो वा इति संशये
सति माधुर्यादयः शा169ङ्खधर्मा एवोपलभ्यन्ते न कार्कश्यादयः शार्ङ्गधर्माः इत्यन्वयव्यति
रेकरूपविशेषपर्यालोचनरूपा मतेश्चेष्टा इहा । इह चावग्रहेहयोरन्तराले अभ्यस्तेऽपि विषये
संशयज्ञानमस्त्येव आशुभावात्तु नोपलक्ष्यते । न तु प्रमाणम्, सम्यगर्थनिर्णयात्मक
त्वाभावात् ।


ननु परोक्षप्रमाणभेदरूपमूहाख्यं प्रमाणं वक्ष्यते तत्कस्तस्मादीहाया भेदः ? ।
उच्यते--त्रिकालगोचरः साध्यसाधनयोर्व्याप्तिग्रहणपटुरूहो यमाश्रित्य व्याप्तिग्रहणकाले
योगीव सम्पद्यते प्रमाता
इति न्यायविदो वदन्ति । ईहा तु वार्त्तमानिकार्थविषया
प्रत्यक्षप्रभेद इत्यपौनरुक्त्यम् ।


ईहा च यद्यपि चेष्टोच्यते तथापि चेतनस्य सेति ज्ञानरूपैवेति युक्तं प्रत्यक्ष
भेदत्वमस्याः । न चानिर्णयरूपत्वादप्रमाणत्वमस्याः शङ्कनीयम्; स्वविषयनिर्णय170रूप
त्वात्, निर्णयान्तरासादृश्ये निर्णयान्तराणामप्यनिर्णयत्वप्रसङ्गः ॥ २७ ॥


ईहितविशेषनिर्णयोऽवायः ॥ २८ ॥


ईहाक्रोडीकृते वस्तुनि विशेषस्य शाङ्ख एवायं शब्दो न शार्ङ्गः इत्येवंरूप
स्यावधारणम् अवायः ॥ २८ ॥

22

स्मृतिहेतुर्द्धारणा ॥ २९ ॥


स्मृतेः अतीतानुसन्धानरूपाया हेतुः परिणामिकारणम्, संस्कार इति
यावत्, सङ्ख्येयमसङ्ख्येयं वा कालं ज्ञानस्यावस्थानं धारणा । अवग्रहादयस्तु त्रय
आन्तर्मौहूर्त्तिकाः ।


संस्कारस्य च प्रत्यक्षभेदरूपत्वात् ज्ञानत्वमुन्नेयम्, न पुनर्यथाहुः प171रे-
ज्ञानादतिरिक्तो भावनाख्योऽयं संस्कारः इति । अस्य ह्यज्ञानरूपत्वे ज्ञानरूप
स्मृतिजनकत्वं न स्यात्, नहि सत्ता सत्तान्तरमनुविशति । अज्ञानरूपत्वे चास्यात्मधर्मत्वं
न स्यात्, चेतनधर्मस्याचेतनत्वाभावात् ।


नन्वविच्युतिमपि धारणामन्वशिषन् वृद्धाः, यद्भाष्यकारः--अविच्चुई
धारणा होइ172
विशेषा॰ गा॰ १८० तत्कथं स्मृतिहेतोरेव धारणात्वमसूत्रयः ? । सत्यम्,
अस्त्यविच्युतिर्नाम धारणा, किन्तु साऽवाय एवान्तर्भूतेति न पृथगुक्ता । अवाय एव हि
दीर्घदीर्घोऽविच्युतिर्धारणेत्युच्यत इति । स्मृतिहेतुत्वाद्वाऽविच्युतिर्धारणयैव सङ्गृहीता ।
न ह्यवायमात्रादविच्यु173तिरहितात् स्मृतिर्भवति, गच्छत्तृणस्पर्शप्रायाणामवायानां परि
शीलनविकलानां स्मृतिजनकत्वादर्शनात् । तस्मात् स्मृतिहेतू अविच्युतिसंस्कारावनेन ससंस्कारावनेनस
ङ्गृहीतावित्यदोषः । यद्यपि स्मृतिरपि धारणाभेदत्वेन सिद्धान्तेऽभिहिता तथापि परोक्ष
प्रमाणभेदत्वादिह नोक्तेति सर्वमवदातम् ।


इह च क्रमभाविनामप्यवग्रहादीनां कथञ्चिदेकत्वमवसेयम् । विरुद्धधर्मा
ध्यासो ह्येकत्वप्रतिपत्तिपरिपन्थी । न चाऽसौ प्रमाणप्रतिपन्नेऽर्थे प्रत्यर्थितां भजते । अनु
भूयते हि खलु हर्षविषादादिविरुद्धविवर्त्ताक्रान्तमेकं चैतन्यम् । विरुद्धधर्म्माध्यासाच्च बिभ्य
द्भिरपि कथमेकं चित्रप175टीज्ञानचित्रप174टी ज्ञानमेकानेकाकारोल्लेखशेखरमभ्युपगम्यते सौगतैः, चित्रं वा
रूपं नैयायिकादिभिरिति ? ।


नैयायिकास्तु--इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमव्यपदेश्यमव्यभि
चारि व्यवसायात्मकं प्रत्यक्षम्
न्या॰ १.१. ४.न्या॰ ११. ४. इति प्रत्यक्षलक्षणमाचक्षते । अत्र
च पूर्वाचार्यकृतव्याख्यावैमुख्येन सङ्ख्यावद्भिस्त्रिलोचनवाचस्पतिप्रमुखैरयमर्थः समर्थि
तो यथा--इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमव्यभिचारि प्रत्यक्षमित्येव176 प्रत्यक्षलक्षणम् । यतः
शब्दाध्याहारेण च यत्तदोर्नित्याभिसम्बन्धादुक्तविशेषणविशिष्टं ज्ञानं यतो भवति तत्
तथाविधज्ञानसाधनं ज्ञानरूपमज्ञानरूपं वा प्रत्यक्षं प्रमाणमिति । अस्य च फलभूतस्य
ज्ञानस्य द्वयी गतिरविकल्पं177 सविकल्पं178 च । तयोरुभयोरपि प्रमाणरूपत्वमभिधातुं विभा
गवचनमेतद् अव्यपदेश्यं व्यवसायात्मकम् इति ।


तत्रोभयरूपस्यापि ज्ञानस्य प्रामाण्यमुपेक्ष्य यतःशब्दाध्याहारक्लेशेनाऽज्ञा
नरूपस्य सन्निकर्षादेः प्रामाण्यसमर्थनमयुक्तम् । कथं ह्यज्ञानरूपाः सन्निकर्षादयोऽर्थपरि
23 च्छित्तौ साधकतमा भवन्ति व्यभिचारात् ?, सत्यपीन्द्रियार्थसन्निकर्षेऽर्थोपलब्धेरभावात् ।
ज्ञाने सत्येव भावात्, साधकतमं हि करणमव्यवहितफलं च तदिति ।


सन्निकर्षोऽपि यदि योग्यतातिरिक्तः संयोगादिसम्बन्धस्तर्हि स चक्षुषोऽर्थेन
सह नास्ति अप्राप्यकारित्वात्तस्य । दृश्यते हि काचाभ्र179स्फटिकादिव्यवहितस्या180प्यर्थस्य
चक्षुषोपलब्धिः । अथ प्राप्यकारि चक्षुः करणत्वाद्वास्यादिवदिति ब्रूषे; तर्ह्ययस्कान्ता
कर्षणोपलेन लोहासन्निकृ181ष्टेन व्यभिचारः । न च संयुक्तसंयोगादिः स182न्निकर्षस्तत्र कल्प
यितुं शक्यते, अतिप्रसङ्गादिति ।


सौगतास्तु प्रत्यक्षं कल्पनापोढमभ्रान्तम् न्यायबि॰ १. ४ इति
लक्षणमवोचन् । अभिलापसंसर्गयोग्यप्रतिभासा प्रतीतिः कल्पनातया रहि
तम्183
--न्यायबि॰ १. ५, ६ कल्पनापोढम् इति । एतच्च व्यवहारानुपयोगित्वात्प्रमाणस्य
लक्षणमनुपपन्नम्, तथाहि एतस्माद्विनिश्चित्यार्थमर्थक्रियार्थिनस्तत्समर्थेऽर्थे प्रवर्तमाना
विसंवादभाजो मा भूवन्निति प्रमाणस्य लक्षणपरीक्षायां प्रवर्तन्ते परीक्षकाः । व्यवहारा
नुपयोगिनश्च तस्य वायस184सदसद्दशनपरीक्षायामिव निष्फलः परिश्र186मः । निर्विकल्पोत्तर
कालभाविनः सविकल्पकात्तु व्यवहारोपगमेव्यहारोपगमे वरं तस्यैव प्रामाण्यमास्थेयम्, किमविकल्पकेन
शिखण्डि187नेति ? ।


जैमिनीयास्तु धर्मं प्रति अनिमित्तत्वव्याजेन सत्सम्प्रयोगे पुरुषस्ये
न्द्रियाणां बुद्धिजन्म तत् प्रत्यक्षमनिमित्तं विद्यमानोपलम्भनत्वात्
जैमि॰जैभि॰
१. १. ४
इत्यनुवादभङ्ग्या प्रत्यक्षलक्षणमाचक्षते, यदाहुः-

एवं सत्यनुवा188दित्वं लक्षणस्यापि सम्भवेत् । श्लोकवा॰ सू॰ ४. ३९

इति । व्याचक्षते च--इन्द्रियाणां सम्प्रयोगे सति पुरुषस्य जायमाना बुद्धिः प्रत्यक्षमिति ।


अत्र संशयविपर्ययबुद्धिजन्मनोऽपीन्द्रियसंप्र189योगे सति प्रत्यक्षत्वप्रसङ्गादति
व्याप्तिः । अथ सत्सम्प्रयोग इति सता सम्प्रयोग इति व्याख्यायते तर्हि निरालम्बन
विभ्रमा एवार्थनिरपेक्षजन्मानो निरस्ता भवेयुर्न सालम्बनौ संशयविपर्ययौ । अथ सति
सम्प्रयोग इति सत्सप्तमिपक्षसप्तमि पक्ष एव न त्यज्यते संशयविपर्ययनिरासाय च सम्प्रयोग इत्यत्र
सम् इत्युपसर्गो वर्ण्यते, यदाह-

सम्यगर्थे च संशब्दो दुष्प्रयोगनिवारणः ।

दुष्टत्वाच्छुक्तिकायोगो वार्यते रजतेक्षणात् श्लोकवा॰ सू॰ ४. ३८--९
24 इति; तथापि प्रयोगसम्यक्त्वस्यातीन्द्रियत्वेन प्रत्यक्षानवगम्यत्वात्कार्यतोऽवगतिर्वक्तव्या ।
कार्यं च ज्ञानम् न च तदविशेषितमेव प्रयोगसम्यक्त्वावगमनायालम् । न च तद्विशेषण
परमपरमिह पदमस्ति । स190तां सम्प्रयोगैति च वरं निरालम्बनविज्ञाननिवृत्तये, सतिइति
तु सप्तम्यैव गतार्थत्वादनर्थकम् ।


येऽपि तत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म सत्प्रत्यक्षं यद्विषयं
ज्ञानं तेन191 सम्प्रयोगे इन्द्रियाणां पुरुषस्य बुद्धिजन्म सत्प्रत्यक्षं यदन्यविषयं
ज्ञानमन्यसम्प्रयोगे भवति न तत्प्रत्यक्षम् ।
शाबरभा॰ १. १. ५ इत्येवं
192त्सतोर्व्यत्ययेन लक्षणमनवद्यमित्याहुः, तेषामपि क्लिष्टकल्पनैव, संशयज्ञानेन व्यभि
चारानिवृत्तेः । तत्र हि यद्विषयं ज्ञानं तेन सम्प्रयोग इन्द्रियाणामस्त्येव । यद्यपि चोभ
यविषयं संशयज्ञानं तथापि तयोरन्यतरेणेन्द्रियं संयुक्तमेव उभयावमर्शित्वाच्च संशयस्य
येन संयुक्तं चक्षुस्तद्विषयमपि तज्ज्ञानं भवत्येवेति नातिव्याप्तिपरिहारः । अव्याप्तिश्च
चाक्षुषज्ञानस्येन्द्रियसम्प्रयोगजत्वाभावात् । अप्राप्यकारि च चक्षुरित्युक्तप्रायम् ।


श्रोत्रादिवृत्तिरविकल्पिका प्रत्यक्षम् इति वृद्धसाङ्ख्याः । अत्र
श्रोत्रादीनामचेतनत्वात्तद्वृत्तेः सुतरामचैतन्यमिति कथं प्रमाणत्वम् ? । चेतनसंसर्गात्तच्चैत
न्याभ्युपगमे वरं चित एव प्रामाण्यमभ्युपगन्तुं युक्तम् । न चाविकल्प193कत्वे प्रामाण्यमस्तीति
यत्किञ्चिदेतत् ।


प्रतिविषयाध्यवसायो दृष्ट194म्सां॰ का॰ ५ इति प्रत्यक्षलक्षणमितीश्वर
कृष्णः । तदप्यनुमानेन व्यभिचारित्वादलक्षणम् । अथ प्रतिः आभिमुख्ये वर्तते तेनाभि
मुख्येन विषयाध्यवसायः प्रत्यक्षमित्युच्यते;तदप्यनुतदुप्यनुमानेन तुल्यम् घटोऽयमितिवदयं
पर्वतोऽग्निमानित्याभिमुख्येन प्रतीतेः । अथ अनुमानादिविलक्षणो अभिमुखोऽध्यवसायः
प्रत्यक्षम्; तर्हि प्रत्यक्षलक्षणमकरणीयमेव शब्दानुमानलक्षणविलक्षणतयैव तत्सिद्धेः ।


ततश्च परकीयलक्षणानां दुष्टत्वादिदमेव विशदः प्रत्यक्षम् इति प्रत्यक्ष
लक्षणमनवद्यम् ॥ २९ ॥


प्रमाणविषयफलप्रमातृरूपेषु चतुर्षु विधिषु195 तत्त्वं परिसमाप्यत इति विषया
दिलक्षणमन्तरेण प्रमाणलक्षणमसम्पूर्णमिति विषयं लक्षयति--


प्रमाणस्य विषयो द्रव्यपर्यायात्मकं वस्तु ॥ ३० ॥


प्रत्यक्षस्य प्रकृतत्वात्तस्यैव विषयादौ लक्षयितव्ये प्रमाणस्य इति प्रमाणसा
मान्यग्रहणं प्रत्यक्षवत् प्रमाणान्तराणामपि विषयादिलक्षणमिहैव वक्तुं युक्तमविशेषात्तथा च
लाघवमपि भवतीत्येवमर्थम्196 । जातिनिर्देशाच्च प्रमाणानां प्रत्यक्षादीनां विषयः गोचरो
द्रव्यपर्यायात्मकं वस्तु । द्रवति तांस्तान् पर्यायान् गच्छति इति द्रव्यं ध्रौव्यलक्षणम् ।
25 पूर्वोत्तरविवर्त्तवर्त्त्यन्वयप्रत्ययसमधिगम्यमूर्ध्वतासामान्यमिति यावत् । परियन्त्युत्पाद
विनाशधर्म्माणो भवन्तीति पर्याया विवर्त्ताः । तच्च ते चात्मा स्वरूपं यस्य तत् द्रव्य
पर्यायात्मकं वस्तु, परमार्थसदित्यर्थः, यद्वाचकमुख्यः--उत्पादव्ययध्रौव्य197युक्तं
सद्
तत्त्वा॰ ५. २९ इति, पारमर्षमपि उपन्नेइ वा विगमेइ वा धुवेइ वा इति ।


तत्र द्रव्यपर्यायग्रहणेन द्रव्यैकान्तपर्यायैकान्तवादिपरिकल्पितविषयव्यु
दासः । आत्मग्रहणेन चात्यन्तव्यतिरिक्तद्रव्यपर्यायवादिकाणादयौगाभ्युपगतविषय
निरासः । यच्छ्रीसिद्धसेनः--


दोहिं वि नएहिं नीयं सत्थमुलूएण तहवि मिच्छत्तं ।

जं सविसयप्पहाणत्तणेण अ198न्नोन्ननिरविक्ख199सन्म॰ ३. ४९ त्ति ॥ ३० ॥

कुतः पुनर्द्रव्यपर्यायात्मकमेव वस्तु प्रमाणानां विषयो न द्रव्यमात्रं पर्याय
मात्रमुभयं वा स्वतन्त्रम् ? इत्याह--


अर्थक्रियासामर्थ्यात्200 ॥ ३१ ॥


अर्थस्य हानोपादानादिलक्षणस्य क्रिया निष्पत्तिस्तत्र सामर्थ्यात्, द्रव्य
पर्यायात्मकस्यैव वस्तुनोऽर्थक्रियासम201र्थत्वादित्यर्थः ॥ ३१ ॥


यदि नामैवं ततः किमित्याह--


तल्लक्षणत्वाद्व202स्तुनः ॥ ३२ ॥


तद् अर्थक्रियासामर्थ्यं लक्षणम् असाधारणं रूपं यस्य तत् तल्लक्षणं तस्य
भावस्तत्त्वं तस्मात् । कस्य ? । वस्तुनः परमार्थसतो रूपस्य । अयमर्थः--अर्थक्रियार्थी हि
सर्वः प्रमाणमन्वेषते, अ203पि नामेतः प्रमेयमर्थक्रियाक्षमं विनिश्चित्य कृतार्थो भवेयमिति
न व्यसनितया । तद्यदि प्रमाणविषयोऽर्थोऽर्थक्रियाक्षमो न भवेत्तदा नासौ प्रमाणपरीक्षण
माद्रियेत । यदा204ह--


अर्थक्रियाऽसमर्थस्य विचारैः किं तदर्थिनाम् ।

षण्ढस्य रूपवैरूप्ये कामिन्याः किं परीक्षया ? ॥ प्रमाणवा॰ १. २१५ इति ।

तत्र न द्रव्यैकरूपोऽर्थोऽर्थक्रियाकारी, स ह्यप्रच्युतानुत्पन्नस्थिरैकरूपः कथमर्थ
क्रियां कुर्वीत क्रमेणाक्रमेण वा ?, अन्योन्यव्यवच्छेदरूपाणां प्रकारान्तरासम्भवात् । तत्र
न क्रमेण; स हि कालान्तरभाविनीः क्रियाः प्रथमक्रियाकाल एव प्रसह्य कुर्यात् समर्थस्य
कालक्षेपायोगात्, कालक्षेपिणो वाऽसामर्थ्यप्राप्तेः । समर्थोऽपि तत्तत्सहकारिसमवधाने तं
तमर्थं करोतीति चेत्; न तर्हि तस्य सामर्थ्य205मपरसहकारिसापेक्षवृत्तित्वात्, सापेक्षम
समर्थम्
पात॰ महा॰ ३. १. ८ इति हि किं नाश्रौषीः ? । न तेन सहकारिणोऽपेक्ष्यन्तेऽपि तु
26 कार्यमेव सहकारिष्वसत्स्वभवत् तानपेक्षत इति चेत्; तत्किं स भावोऽसमर्थः ? । समर्थश्चेत्;
किं सहकारिमुखप्रेक्षणदीनानि ता206न्युपेक्षते न पुनर्झटिति घटयति ? । ननु समर्थमपि बीज
मिलाज207लादिसहकारिसहितमेवाङ्कुरं करोति नान्यथा; तत् किं तस्य सहकारिभिः किञ्चिदुप
क्रियेत, न वा ? । नो चेत्; स किं पूर्ववन्नोदास्ते । उपक्रियेत चेत्; स तर्हि तैरुपकारो
भिन्नोऽभिन्नो वा क्रियत208 इति निर्वचनीयम् । अभेदे स एव क्रियते इति लाभमिच्छतो
मूलक्षतिरायाता । भेदे स कथं तस्योपकारः ?, किं न सह्यविन्ध्या209देरपि ? । तत्सम्बन्धात्त
स्यायमिति चेत्; उपकार्योपकारयोः कः सम्बन्धः ? । न संयोगः; द्रव्ययोरेव तस्य
भावात् । नापि समवायस्तस्य प्रत्यासत्तिविप्रकर्षाभावेन सर्वत्र तुल्यत्वान्न नियतस
म्बन्धिसम्बन्धत्वंयुक्तम्, तत्त्वे वा तत्कृ210त उपकारोऽस्या211भ्युपगन्तव्यः, तथा च सत्यु
पकारस्य भेदाभेदकल्पना तदवस्थैव । उपकारस्य समवायादभेदे समवाय एव कृतः
स्यात् । भेदे पुनरपि समवायस्य न नियतसम्बन्धिसम्बन्धत्वम् । निय212तसम्बन्धिसम्ब
न्धत्वे213 समवायस्य विशेषणविशेष्यभावो हेतुरिति चेत्; उपकार्योपकारकभावाभावे
तस्यापि प्रतिनियमहेतुत्वाभावात् । उपकारे तु पुनर्भेदाभेदविकल्पद्वारेण तदेवावर्तते ।
तन्नैकान्तनित्यो भावःक्रमेणार्थक्रियां कुरुते ।


नाप्यक्रमेण । न ह्येको भावः सकलकालक214लाभाविनीर्युगपत् सर्वाः क्रियाः
करोतीति प्रातीतिकम् । कुरुतां वा, तथापि द्वितीयक्षणे किं कुर्यात् ? । करणे वा क्रमपक्ष
भा215वी दोषः । अकरणेऽनर्थक्रियाकारित्वादवस्तुत्वप्रसङ्गः--इत्येकान्तनित्यात् क्रमा
क्रमाभ्यां व्याप्तार्थक्रिया व्यापकानुपलब्धिबलात् व्यापकनिवृत्तौ निवर्तमाना व्याप्यमर्थ
क्रियाकारित्वं निवर्तयति तद216पि स्वव्याप्यं सत्त्वमित्यसन् द्रव्यैकान्तः ।


पर्यायैकान्तरूपोऽपि प्रतिक्षणविनाशी भावो न क्रमेणार्थक्रियासमर्थो
देशकृतस्य कालकृतस्य च क्रमस्यैवाभावात् । अवस्थितस्यैव हि नानादेशकालव्याप्ति
र्देशक्रमः कालक्रमश्चाभिधीयते । न चैकान्तविनाशिनि सास्ति । यदाहुः--


यो यत्रैव स तत्रैव यो यदैव तदैव सः ।

न देशकालयोर्व्याप्तिर्भावा217नामिह218 विद्यते ॥

न च सन्तानापेक्षया पूर्वोत्तरक्षणानां क्रमः सम्भवति, सन्तानस्याऽवस्तु
त्वात् । वस्तुत्वेऽपि तस्य यदि क्षणिकत्वं न तर्हि क्षणेभ्यः कश्चिद्विशेषः । अथाक्षणिकत्वम्;
सु219स्थितः पर्यायैकान्तवादः ! यदा220हुः--

27
अथापि नित्यं परमार्थसन्तं सन्ताननामानमुपैषि भावम् ।

उत्तिष्ठ भिक्षो ! फलिता221स्तवाशाः सोऽयं समाप्तः क्षणभङ्गवादः ॥न्यायम॰ पृ॰ ४६४ इति ।

नाप्यक्रमेण क्षणिकेऽर्थक्रिया सम्भवति । स ह्येको रू222पादिक्षणो युगपदनेका223न्
रसादिक्षणान् जनयन् यद्येकेन स्वभावेन जनयेत्तदा तेषामेकत्वं स्यादेकस्वभावजन्यत्वात् ।
अथ नानास्वभावैर्जनयति--किञ्चिदुपादानभावेन किञ्चित् सहकारित्वेन; ते तर्हि स्वभावा
स्तस्यात्मभूता अनात्मभूता वा ? । अनात्मभूताश्चेत्; स्वभावहानिः । यदि तस्यात्मभूताः;
तर्हि तस्यानेकत्वं स्वभावानां चैकत्वं प्रसज्येत । अथ य एवैकत्रोपादानभावः स एवान्यत्र
सहकारिभाव इति न स्वभावभेद इष्यते; तर्हि नित्यस्यैकरूपस्यापि क्रमेण नानाकार्यकारिणः
स्वभावभेदः कार्यसाङ्कर्यं च मा भूत् । अथाक्रमात् क्रमिणामनुत्पत्तेर्नैव224मिति चेत्; एका225नंश
कारणात् युगपदनेककारणसाध्यानेककार्यविरोधात् क्षणिकानामप्यक्रमेण226 कार्यकारित्वं मा
भूदिति पर्यायैकान्तादपि क्रमाक्रमयोर्व्यापकयोर्निवृत्त्यैव व्याप्याऽर्थक्रियापि व्यावर्तते ।
तद्व्यावृत्तौ च सत्त्वमपि व्यापकानुपलब्धिबलेनैव निवर्तत इत्यसन् पर्यायैकान्तोऽपि ।


काणादास्तु द्रव्यपर्यायावु227भावप्युपागमन् पृथिव्यादीनि गुणाद्याधाररू
पाणि द्रव्याणि, गुणादयस्त्वाधेयत्वात्पर्यायाः । ते च केचित् क्षणिकाः228, केचिद्यावद्द्र229व्य
भाविनः, केचिन्नित्या230 इति केवलमितरेतरविनिर्लुठित232धर्मिधर्माभ्युपगमान्न समीचीनविष
यवादिनः । तथाहि--यदि द्रव्यादत्यन्तविलक्षणं सत्त्वं तदा द्रव्यमसदेव भवेत् । सत्तायो
गात् सत्त्वमस्त्येवेति चेत्; असतां सत्तायोगेऽपि कुतः सत्त्वम् ?, सतां तु निष्फलः सत्ता
योगः । स्वरूपसत्त्वं भावानामस्त्येवेति चेत्; तर्हि किं शिखण्डिना सत्तायोगेन ? । सत्ता
योगात् प्राक् भावो न सन्नाप्यसन्, सत्तासम्बन्धात्तु सन्निति चेत्; वाङ्मात्रमेतत्, सदस
द्विलक्षणस्य प्रकारान्तरस्यासम्भवात् । अपि च प233दार्थः सत्ता योगः इति न त्रितयं
चकास्ति । पदार्थसत्तयोश्च योगो यदि तादात्म्यम्, तदनभ्युपगमबाधितम् । अत234 एव न
संयोगः235, समवायस्त्वनाश्रित इति सर्वं सर्वेण सम्बध्नीयान्न वा किञ्चित् केनचित् ।
एवं द्रव्यगुणकर्मणां द्रव्यत्वा236दिभिः, द्रव्यस्य द्रव्यगुणकर्मसामान्यविशेषैः, पृथि
व्यप्तेजोवायूनां पृथिवीत्वादिभिः, आकाशादीनां च द्रव्याणां स्वगुणैर्योगे यथायोगं
सर्वमभिधानीयम्, एकान्तभिन्नानां केनचित्237 कथञ्चित् सम्बन्धायोगात् इत्यौ
लूक्यपक्षेऽपि विषयव्यवस्था दुःस्था ।

28

ननु द्रव्यपर्यायात्मकत्वेऽपि वस्तुनस्तदवस्थमेव दौस्थ्यम्; तथाहि--द्रव्य
पर्याययोरैकान्तिकभेदाभेदपरिहारेण कथञ्चिद्भेदाभेदवादः स्याद्वादिभिरुपेयते, न चासौ
युक्तो विरोधादिदोषात्--विधिप्र238तिषेधरूपयोरेकत्र वस्तुन्यसम्भवान्नीलानीलवत् १ । अथ
केनचिद्रूपेण भेदः केनचिदभेदः; एवं सति भेदस्यान्यदधिकरणमभेदस्य चान्यदिति वैयधि
करण्यम् २ । यं चात्मा239नं पुरोधाय भेदो यं चाश्रित्याभेदस्तावप्यात्मानौ भिन्नाभिन्ना
वन्यथैकान्तवादप्रसक्तिस्तथा च सत्यनवस्था ३ । येन च रूपेण भेदस्तेन भेदश्चाभेदश्च येन
चाभेदस्तेनाप्यभेदश्च भेदश्चेति सङ्क240रः ४ । येन रूपेण भेदस्तेनाभेदो येनाभेदस्तेन
भेद इति व्यतिक241रः ५ । भेदाभेदात्मकत्वे च वस्तुनो विविक्तेनाकारेण निश्चेतुमशक्तेः
संशयः ६ । ततश्चाप्रतिपत्तिः ७ इति न विषयव्यवस्था ८ । नैवम्; प्रतीयमाने वस्तुनि
विरोधस्यासम्भवात् । यत्सन्निधाने यो नोपलभ्यते स त242स्य विरोधीति निश्चीयते ।
उपलभ्यमाने च वस्तुनि को विरोधगन्धावकाशः ? । नीला243नीलयोरपि यद्येकत्रोपलम्भोऽस्ति
तदा नास्ति विरोधः । एकत्र चित्रपटीज्ञाने सौगतैर्नीलानीलयोर्विरोधानभ्युपगमात्,
यौ244गैश्चैकस्य चित्रस्य रूपस्याभ्युपगमा245त्, एक246स्यैव च पटादेश्चलाचलरक्तारक्तावृताना
वृतादिविरुद्धधर्माणामुपलब्धेः प्रकृते को विरोधशङ्कावकाशः ? । एतेन वैयधिकरण्यदोषोऽप्य
पास्तः; तयोरेकाधिकरणत्वेन प्रागुक्तयुक्तिदिशा247 प्रतीतेः । यदप्यनवस्थानं दूषणमुपन्यस्तम्
तदप्यनेकान्तवादिमतानभिज्ञेनैव, तन्मतं हि द्रव्यपर्यायात्मके वस्तुनि द्रव्यपर्यायावेव
भेदः भेदध्वनिना तयोरेवाभिधानात्, द्रव्यरूपेणाभेदः इति द्रव्यमेवाभेदः एकानेका
त्मकत्वाद्वस्तुनः । यौ च सङ्करव्यतिकरौ तौ मेचकज्ञाननिदर्शनेन सामान्यविशेष
दृष्टान्तेन च परिहृतौ । अथ तत्र तथाप्रतिभासः समाधानम्; परस्यापि तदेवास्तु
प्रतिभासस्यापक्षपातित्वात् । निर्णीते चार्थे संशयोऽपि न युक्तः, तस्य सकम्पप्रतिपत्ति
रूपत्वादकम्पप्रतिपत्तौ दुर्घटत्वात् । प्रतिपन्ने च वस्तुन्यप्रतिपत्तिरिति साहसम् । उप
लब्ध्यभिधानादनुपलम्भोऽपि न सिद्धस्ततो नाभाव इति दृष्टेष्टाविरुद्धं द्रव्यपर्यायात्मकं
वस्त्विति ॥ ३२ ॥


ननु द्रव्यपर्यायात्मकत्वेऽपि वस्तुनः कथमर्थक्रिया नाम ? । सा हि क्रमा
क्रमाभ्यां व्याप्ता द्रव्यपर्यायैकान्तवदुभयात्मकादपि व्यावर्तताम् । शक्यं हि वक्तुमुभ
यात्मा248 भावो न क्रमेणार्थक्रियां कर्तुं समर्थः, समर्थस्य क्षेपायोगात् । न च सहकार्यपेक्षा
युक्ता, द्रव्यस्याविकार्यत्वेन सहकारिकृतोपकारनिरपेक्षत्वात् । पर्यायाणां च क्षणिकत्वेन
पू249र्वापरकार्यकालाप्रतीक्षणात् । नाप्यक्रमेण, युगपद्धि सर्वकार्याणि कृत्वा पुनरकुर्वतोऽनर्थ
29 क्रियाकारित्वादसत्त्वम्, कुर्वतः क्रमपक्षभावी दोषः । द्रव्यपर्यायवादयोश्च यो दोषः स
उभयवादेऽपि समानः-

प्रत्येकं यो भवेद्दोषो द्वयोर्भावे कथं न सः ?

इति वचनादित्याह--


पूर्वोत्तराकारपरिहारस्वीकारस्थितिलक्षण251परिणामे
नास्या252र्थक्रियोपपत्तिः ॥ ३३ ॥


पूर्वोत्तरयोः आकारयोः विवर्तयोर्यथासङ्ख्येन यौ परिहारस्वीकारौ ताभ्यां
स्थितिः सैव लक्षणम् यस्य स चासौ परिणामश्च, तेन अस्य द्रव्यपर्यायात्मकस्यार्थ
क्रियोपपद्यते ।


अयमर्थः--न द्रव्यरूपं न पर्यायरूपं नोभ253यरूपं वस्तु, येन तत्तत्पक्षभावी
दोषः स्यात्, किन्तु स्थित्युत्पादव्ययात्मकं शबलं जात्यन्तरमेव वस्तु । तेन तत्तत्सहकारि
सन्निधाने क्रमेण युगपद्वा तां तामर्थक्रियां कुर्वतः सहकारिकृतां चोपकारपरम्परामुप
जीवतो भिन्नाभिन्नोपकारा254दिनोदनानुमोदनाप्रमुदितात्मनः उभयपक्षभाविदोषशङ्काकल
ङ्काऽका255न्दिशीकस्य भावस्य न व्यापका256नुपलब्धिबलेनार्थक्रियायाः, नापि तद्व्याप्य257
सत्त्वस्य निवृत्तिरिति सिद्धं द्रव्यपर्यायात्मकं वस्तु प्रमाणस्य विषयः ॥ ३३ ॥


फलमाह--


फलमर्थप्रकाशः ॥ ३४ ॥


प्रमाणस्य इति वर्तते, प्रमाणस्य फलम् अर्थप्रकाशः अर्थसंवेदनम्;
अर्था258र्थी हि सर्वः प्रमातेत्यर्थसंवेदनमेव फलं युक्तम् । नन्वेवं प्रमाणमेव फलत्वेनोक्तं स्यात्,
ओमिति चेत्, तर्हि प्रमाणफलयोरभेदः स्यात् । ततः किं स्यात् ? । प्रमाणफलयोरैक्ये
सदसत्पक्षभावी दोषः स्यात्, नास259तः करणत्वं न सतः फलत्वम् । सत्यम्, अस्त्ययं दोषो
जन्मनि न व्यवस्थायाम् । यदाहुः--


नासतो हेतुता नापि सतो हेतोः260 फलात्मता ।

इति जन्मनि दोषः स्याद् व्यवस्था तु न दोषभाग् ॥ इति ॥ ३४ ॥

व्यवस्थामेव दर्शयति--


261र्मस्था क्रिया ॥ ३५ ॥


कर्मोन्मुखो ज्ञानव्यापारः फलम् ॥ ३५ ॥

30

प्रमाणं किमित्याह--


262र्तृस्था प्रमाणम् ॥ ३६ ॥


कर्तृव्यापा263रमुल्लिखन् बोधः प्रमाणम् ॥ ३६ ॥


कथमस्य प्रमाणत्वम् ? । करणं हि तत् साधकतमं च करणमुच्यते ।
अव्यवहितफलं च267 तदित्याह--


तस्यां सत्यामर्थप्रकाशसिद्धेः ॥ ३७ ॥


तस्याम् इति कर्तृस्थायां प्रमाणरूपायां क्रियायां सत्याम् अर्थप्रकाशस्य
फलस्य सिद्धेः व्यवस्थापनात् । एकज्ञानगतत्वेन प्रमाणफलयोरभेदो, व्यवस्थाप्यव्य
वस्थापकभावात्तु भेद इति भेदाभेदरूपः स्याद्वादमबाधितमनुपतति प्रमाणफलभाव
इतीदमखिलप्रमाणसाधारणमव्यवहितं फलमुक्तम् ॥ ३७ ॥


अव्यवहितमेव फलान्तरमाह--


अज्ञाननिवृत्तिर्वा ॥ ३८ ॥


प्रमाणप्रवृत्तेः पूर्वं प्रमातुर्विवक्षिते विषये यत् अज्ञानम् तस्य निवृ268त्तिः
फलमित्यन्ये । यदाहुः--


प्रमाणस्य फलं साक्षा269दज्ञानविनिवर्तनम् ।

केवलस्य सुखोपेक्षे शेषस्यादानहानधीः ॥ न्याया॰ २८ इति ॥ ३८ ॥

व्यवहितमाह--


अवग्रहादीनां वा क्रमोप270जनधर्मा271णां पूर्वं पूर्वं प्रमाण
मुत्तरमुत्तरं फलम्272 ॥ ३९ ॥


अवग्रहेहावायधारणास्मृतिप्रत्यभिज्ञानोहानुमानानां क्रमेणोपजायमानानां
यद्यत् पूर्वं तत्तत्प्रमाणं यद्यदुत्तरं तत्तत्फलरूपं प्रतिपत्तव्यम् । अवग्रहपरिणामवान् ह्यात्मा
ईहारूपफलतया परिणमति इतीहाफलापेक्षया अवग्रहः प्रमाणम् । ततोऽपीहा प्रमाणमवायः
फलम् । पुनरवायः प्रमाणं धारणा फलम् । ईहाधा273रणयोर्ज्ञानोपा274दानत्वात् ज्ञानरूपतो
न्नेया । ततो धारणा प्रमाणं स्मृतिः फलम् । ततोऽपि स्मृतिः प्रमाणं प्रत्यभिज्ञानं फलम् ।
31 ततोऽपि प्रत्यभिज्ञा प्रमाणमूहः फलम् । ततोऽप्यूहः प्रमाणमनुमानं फलमिति प्रमाण
फलविभाग इति ॥ ३९ ॥


फलान्तरमाह--


हानादिबुद्धयो वा ॥ ४० ॥


हानोपादानोपेक्षा275बुद्धयो वा प्रमाणस्य फलम् । फलबहुत्वप्रतिपादनं सर्वेषां276
फलत्वेन न विरोधो वैवक्षिक277त्वात् फलस्येति प्रदिपादनार्थम् ॥ ४० ॥


एकान्तभिन्नाभिन्नफलवादिमतपरीक्षार्थमाह--


प्रमाणाद्भिन्नाभिन्नम् ॥ ४१ ॥


करणरूपत्वात् क्रियारूपत्वाच्च प्रमाणफलयोर्भेदः । अभेदे प्रमाणफलभेद
व्यवहारानुपपत्तेः प्रमाणमेव वा फलमेव वा भवेत् । अप्रमाणाद्व्यावृत्त्या प्रमाणव्यवहारः,
अफलाद्व्यावृत्त्या च फलव्यवहारो भविष्यतीति चेत्; नैवम्; एवं सति प्रमाणा278न्तराद्व्या
वृत्त्याऽप्रमाणव्यवहारः, फलान्तराद्व्यावृत्त्याऽफलव्य279वहारोऽप्यस्तु, विजातीयादिव सजा280
तीयादपि व्यावृत्तत्वाद्वस्तुनः ।


तथा, तस्यैवात्मनः प्रमाणाकारेण परिणतिस्तस्यैव फलरूपतया परिणाम
इत्येकप्रमात्रपेक्षया प्रमाणफलयोरभेदः । भेदे त्वा281त्मान्तरवत्तदनुपपत्तिः । अथ यत्रैवात्मनि
प्रमाणं समवेतं फलमपि तत्रैव समवेतमिति समवायलक्षणया प्रत्यासत्त्या प्रमाणफल
व्यवस्थितिरिति नात्मान्तरे तत्प्रसङ्ग इति चेत्; न; समवायस्य नित्यत्वाद्व्यापकत्वान्नि
यतात्मवत्सर्वात्मस्वप्यविशेषान्न ततो नियतप्रमातृसम्बन्धप्रतिनियमः तत् सिद्धमेतत्
प्रमाणात्फलं कथञ्चिद्भिन्नमभिन्नं चेति ॥ ४१ ॥


प्रमातारं लक्ष282यति--


स्वपराभासी परिणाम्यात्मा प्रमाता283 ॥ ४२ ॥


स्वम् आत्मानं परं चार्थमाभासयितुं शीलं यस्य स स्वपराभासी स्वोन्मुख
तयाऽर्थोन्मुखतया चावभासनात् घटमहं जानामीति कर्मकर्तृक्रियाणां प्रतीतेः, अन्यतर
प्रतीत्यपलापे प्रमाणाभावात् । न च परप्रकाशकत्वस्य स्वप्रकाशकत्वेन विरोधः प्रदीप
वत् । नहि प्रदीपः स्वप्रकाशे परमपेक्षते । अनेनैकान्तस्वा284भासिपराभासिवादिमतनिरासः ।
स्वपराभास्येव आत्मा प्रमाता ।

32

तथा, परिणाम उक्तलक्षणः स विद्यते यस्य स परिणामी । कूटस्थनित्ये
ह्यात्मनि हर्षविषादसुखदुःखभोगादयो विवर्ताः प्रवृत्तिनिवृत्तिधर्माणो न वर्तेरन् । एकान्त
नाशिनि च कृतनाशाकृताभ्यागमौ स्याताम्, स्मृतिप्रत्यभिज्ञाननिहितप्रत्यु285न्मार्गणप्रभृ
तयश्च प्रतिप्राणिप्रतीता व्यवहारा विशीर्येरन् । परिणामिनि तूत्पादव्ययध्रौव्यधर्मण्यात्मनि
सर्वमुपपद्यते । यदाहुः-

यथाहेः कुण्डलावस्था व्यपैति तदनन्तरम् ।

सम्भवत्यार्जवावस्था सर्पत्वं त्वनुवर्तते ॥

तथैव नित्यचैतन्यस्वरूपस्यात्मनो हि न ।

निःशेषरूपविगमः सर्वस्यानुगमोऽपि वा ॥

किं त्वस्य विनिवर्तन्ते सुखदुःखादिलक्षणाः ।

अवस्थास्ताश्च जायन्ते चैतन्यं त्वनुवर्तते ॥

स्यातामत्यन्तनाशे हि कृतनाशाकृतागमौ ।

सुखदुःखादिभोगश्च नैव स्यादेकरूपिणः ॥

न च कर्तृत्वभोक्तृत्वे पुंसोऽवस्थां समाश्रिते ।

287तोऽबस्थावतस्त288त्त्वात्289 कर्तैवाप्नोति तत्फलम् ॥ तत्त्वसं॰ का॰ २२३--२२७

इति अनेनैकान्तनित्यानित्यवादव्युदासः । आत्माइत्यनात्मवादिनो व्युदस्यति ।
कायप्रमाणता त्वात्मनः प्रकृतानुपयोगान्नोक्तेति सुस्थितं प्रमातृलक्षणम् ॥ ४२ ॥


इत्याचार्यश्रीहेमचन्द्रविरचितायाः प्रमाणमीमांसायास्तद्वृत्तेश्च
प्रथमस्याध्यायस्य प्रथममाह्निक290म्



  1. तत्त्वश्रद्धानं सामान्यज्ञानं वा दर्शनम् ।

  2. ॰रचित॰ ।

  3. प्रेत्य जिनधर्मप्राप्तिर्बोधिस्तस्य बीजं सम्यक्त्वम् ।

  4. कस्य सत्कानि ?

  5. वृथाभिनिवेशेन ।

  6. --॰व्याख्याने प्रेक्षा॰-ता॰

  7. अस्य--शास्त्रस्य ।

  8. आयुष्मन्तः श्रोतारोऽस्मिन् ।

  9. आदेः स्तुति-नामसङ्कीर्त्तने ।

  10. -॰र्थिना शास्त्रका॰
    डे॰ मु॰

  11. आदिग्रहणात् विपर्ययानध्यवसायौ ।

  12. सङ्ख्याद्वारेण भेदकथनं विभागः, यथा प्रमाणं द्वेधा ।
    प्रत्यक्षं परोक्षं च ।
    १. १. ९-१०

  13. -॰स्तु लक्ष॰-ता॰

  14. अङ्गम्-अवयवः कारणमिति यावत् ।

  15. -॰तीयसू॰-डे॰

  16. परिशोधितः प्रमाणानां मार्गोऽनेकान्तात्मकं वस्तु यैः ।

  17. अधिगमाय शास्त्रस्य प्रवृत्तिर्न
    वाक्कलहाय ।

  18. ज्ञानदर्शनचारित्ररूपोपायसहितस्य ।

  19. प्रतिपक्षः संसारः ।

  20. यथा अकलङ्केन 20

  21. ?
  22. इयं
    टिप्पणकारस्य भ्रान्तिः मूलादायाता भाति । वस्तुतः प्रमाणपरीक्षा न अकलङ्ककृता किन्तु विद्यानन्दकृता -सम्पा॰

  23. ?
  24. अनेकान्तात्मकवस्तुरूपो मार्गो यस्य मोक्षस्य ।

  25. व्यक्तिरूपे धर्मिणि, तद्यथा विवादाध्यासितं घटप्रत्यक्षं
    सम्यगर्थनिर्णयात्मकम्, प्रत्यक्षत्वादिति ।

  26. न दृष्टान्तोऽनुमानाङ्गम्१. २. १८ इति सूत्रे ।

  27. प्रथमाक्षसन्निपातेन यत् ज्ञानम् । यद्यप्यनध्यवसाय एव निर्विकल्पकं तथाप्याहत्य सौगतमतनिराकरणा
    याविकल्पकत्वेनेति पदम् ।

  28. --॰ल्पत्व॰--डे॰

  29. आदिपदात् ज्ञातृव्यापारः ।

  30. अर्थ्यमानत्वात् ।

  31. शकधृष
    ...
    हैमश॰ ५. ४. ९० इति तुम् ।

  32. योग्यः ।

  33. तत्तु निर्ण॰--ता॰

  34. जडत्वात् ।

  35. सम्भवे
    व्यभिचारे च विशेषणमर्थवद् भवति ।

  36. निश्चयात्मकम् ।

  37. स्वनिर्णयः ।

  38. पुरुषस्य ।

  39. स्वनिर्णयो
    पलम्भ॰ ।

  40. अनवस्थादोषेण ।

  41. अर्थोऽस्यास्तीत्येवंरूपो व्यवहारः ।

  42. न चेतत् ज्ञा॰--डे॰

  43. अर्थो
    पलम्भोपलम्भः ।

  44. अर्थापत्तिज्ञाने ।

  45. अर्थापत्त्यन्तरस्यापि ज्ञानार्थं पुनरप्यर्थापत्त्यन्तरं कल्प43

  46. ल्प्य

  47. मित्यनवस्था ।

  48. ल्प्य
  49. यदा त्वर्थापत्त्यन्तरस्यत्वर्थाप्रत्यन्तरस्य प्रस्तुतार्थापत्तेः ज्ञानं तदेतरेतराश्रयः ।

  50. कर्मत्वात् ।

  51. --॰मिति न अज्ञा॰--ता॰

  52. आदेः संशयादिनिरासः ।

  53. ज्ञानान्तरानपेक्षितव्यापारम् ।

  54. घटविषयम् ।

  55. --॰ज्ञानप्रा॰--डे॰

  56. केवलान्वय्यनुमानम् ।

  57. ज्ञानान्तरम् ।

  58. लक्षणं वाच्यं--डे॰

  59. --॰वाहिकज्ञाना॰-
    डे॰

  60. स्वस्य अपूर्वार्थस्य च ।

  61. तथापू॰--डे॰ । त्तवेति प्रत्यं...भट्टः 57

  62. ?
  63. ?
  64. प्राभाकराः ।

  65. --॰हिकज्ञा॰--डे॰

  66. गृहीतार्थग्राहिज्ञाननिरासायेत्यर्थः ।

  67. दीयते--डे॰

  68. स्वरूपम् ।

  69. उभयेत्युपलक्षणम् आ64

  70. व्या
  71. दिकोटिसंस्पर्शेऽपि संशयस्य सद्भावात् ।

  72. व्या
  73. --॰टिसंस्प॰--डे॰

  74. --॰दिद्रव्ये॰--डे॰

  75. उल्मुकादौ ।

  76. प्रमाणम् । तद्धि संवि॰--डे॰

  77. स्व
  78. तस्य प्रथमज्ञानस्य गोचरो विषयो
    जलादिः, स गोचरो यस्य द्वितीयज्ञानस्य ।

  79. तस्य ज्ञानस्य गोचरोऽग्न्यादिस्तदविनाभूतो धूमादिः ।

  80. पूर्वप्रवर्तकज्ञानं--डे॰

  81. तत्--स्वतः प्रामाण्यम् ।

  82. लिङ्गग्रहणपरिणामि ।

  83. तदेकदेशविष॰--डे॰

  84. तदेकविषयसंवादकज्ञानान्तरादीनाम् ।

  85. वाक्या
    नाम् ।

  86. स-ज्ञानलक्षणोऽर्थः ।

  87. तस्योपलब्धत्वकारणम् ।

  88. अर्थोपलम्भः ।

  89. संगतो व्यवहारः
    प्रयोजमस्येति ।

  90. अविकल्पकस्य ।

  91. दृश्यविकल्प्यावर्थावेकीकृत्य--तत्त्वोप॰ लि॰ पृ॰ १११; बृहतीप॰ १. १. ५-पृ॰ ५३--सम्पा॰

  92. श्य
  93. ल्प्य
  94. तत्शब्देन ।

  95. --॰क्षं च परो॰--डे॰ मु॰ सं-मू॰

  96. विषयमिन्द्रि॰--ता॰

  97. --॰क्षमितिपूर्व॰--डे॰

  98. सुखेनास्ते॰--डे॰

  99. इत्यत्रा॰--डे॰

  100. --॰वे भावा॰--डे॰

  101. घटादि न भव॰--डे॰

  102. तदभावग्रहण॰--डे॰

  103. चाभावग्रहणमपि--डे॰

  104. अन्यथा सङ्की॰--डे॰

  105. --॰दिनाभावां॰--ता॰

  106. प्रमाणमिति । विभाग॰--ता॰

  107. टुक्षु-रु-कुंक् शब्दे- गण--II 26, 27, 28 । उणादौ स्थाक्षुतोरूच्च १८५ इति णे क्षूणमपराधः ।

  108. शब्दानु॰--डे॰

  109. प्रत्यक्षस्य परा॰--डे॰

  110. बहुमान॰ ।

  111. ज्ञानावरणीयादीनाम्--डे॰

  112. चन्द्रादेरिव--ता॰

  113. --॰पवनप्राय॰--ता॰

  114. विलयस्य चेति--डे॰ मु॰

  115. --॰सहितानुवृत्त
    रूप॰--डे॰

  116. विषयविनिर्भित--डे॰ मु॰

  117. --॰बलोपजनितध॰--डे॰ मु॰

  118. --॰श्रयम्--ता॰

  119. --॰पादौ ह्यम॰--ता॰

  120. अत्र जवनो इत्येव सम्यक्, तस्यैव शङ्करेण व्याख्यातत्वात् ।

  121. वेद्यं--श्वेता॰ ।

  122. --॰जन्मकयोगि॰--डे॰ मु॰

  123. अप्रतिघातम् ।

  124. अतिवृष्टिरनावृष्टिर्मूषकाः शलभाः शुकाः
    स्वचक्रं परचक्रं च सप्तैता ईतयः स्मृताः ॥ --मु--टि॰

  125. मरको मारिः ।

  126. अतिशयाः ३४-

    तेषां च देहोद्भुतरूपगन्धो निरामयः स्वेदलवोज्झितश्च ।

    श्वासोऽब्जगन्धो रुधिरामिषं तु गोक्षीरधाराधवलं ह्यविस्रम् ॥ १ ॥

    आहारनीहारविधिस्त्वदृश्यश्चत्वार एतेऽतिशयाः सहोत्थाः ।

    क्षेत्रे स्थितिर्योजनमात्रकेऽपि नृदेवतिर्यग्जनकोटिकोटेः ॥ २ ॥

    वाणी नृतिर्यक्सुरलोकभाषा संवादिनी योजनगामिनी च ।

    भामण्डलं चारु च मौलिपृष्ठे विडम्बिताहर्पतिमण्डलश्रि ॥ ३ ॥

    साग्रे च गव्यूतिशतद्वये रुजा वैरेतयो मार्यतिवृष्ट्यवृष्टयः ।

    दुर्भिक्षमन्यस्वकचक्रतो भयं स्यान्नैत एकादश कर्मघातजाः ॥ ४ ॥

    खे धर्मचक्रं चमराः सपादपीठं मृगेन्द्रासनमुज्ज्वलं च ।

    छत्रत्रयं रत्नमयध्वजोऽङ्घ्रिन्यासे च चामीकरपङ्कजानि ॥ ५ ॥

    वप्रत्रयं चारु चतुर्मुखाङ्गता चैत्यद्रुमोऽधोवदनाश्च कण्टकाः ।

    द्रुमानतिर्दुन्दुमिनाद उच्चकैर्वातोऽनुकूलः शकुनाः प्रदक्षिणाः ॥ ६ ॥

    गन्धाम्बुवर्षं बहुवर्णपुष्पवृष्टिः कचश्मश्रुनखाप्रवृद्धिः ।

    चतुर्विधामर्त्यनिकायकोटिर्जघन्यभावादपि पार्श्वदेशे ॥ ७ ॥

    ऋतूनामिन्द्रियार्थानामनुकूलत्वमित्यमी ।

    एकोनविंशतिर्दैव्याश्चतुस्त्रिंशच्च मीलिताः ॥ ८ ॥ अभिधा॰ १. ५६--६३ मु--टि॰

  127. लोभेन च सम्म॰--डे॰

  128. प्रमाणोपपन्न॰ ।

  129. निवर्तमानम् । 123

  130. तद्धि
  131. यदि मु॰

  132. तद्धि
  133. द्धि
  134. --॰साक्षात्करणम॰--डे॰

  135. उपज्ञा ज्ञानमाद्यं स्यात्--अभि॰ ६. ९--सम्पा॰

  136. अष्टादशं एकोनर्विशतितमं चेति सूत्रद्वयं ता-मू॰
    प्रतौ भेदकचिह्नभदेकचिह्नं विना एकसूत्रत्वेन लिखितं दृश्यते ।

  137. क्षेत्रतश्च--ता॰

  138. मनोलक्षणे ।

  139. इन्द्रियज्ञा॰--ता॰

  140. --॰सुखादिस्वसं॰--मु॰

  141. भेदेनोक्तम्--डे॰ मु॰

  142. इन्द्रियाणि
    इत्यन्तमेकं भेदानि इत्यन्तं च अपरम् इति सूत्रद्वयं सं-मू॰ प्रतौ दृश्यते ।

  143. रोहिणिकापेचिका--डे॰

  144. तुबरका॰--ता॰ । तुंबुरक--मु॰

  145. त्रिपुस--डे॰

  146. बीजककर्पा॰-
    ता॰ ।

  147. वठर-डे॰

  148. पुस्तित्रिका--डे॰ । पुस्तिका-मु॰

  149. हेतूनि वाक्-डे॰

  150. --॰हेतूनामेवेन्द्रि॰--ता॰

  151. --॰र्थाभेदात्-डे॰

  152. तेषामेकत्वसङ्कलनज्ञानजनकत्वाभावप्रसङ्गात्--तत्त्वार्थश्लोकवा॰ पृ॰ ३२७

  153. सङ्कलन
  154. -॰स्य व्य॰--ता॰

  155. द्वाविंशतितमं त्रयोविंशतितमं च सूत्रद्वयमेकत्वेन ता-मू॰ प्रतौ दृश्यते ।

  156. --॰लब्ध्ययोग्यतया सिद्धेः
    ता॰ ।

  157. --॰धानाद्वात्मा--डे॰ । ॰धानाद्ध्यात्मा-मु॰

  158. प्राधान्यार्थः ।

  159. स्पर्शादि॰--ता॰

  160. निबन्धः सर्वद्रव्ये॰--तत्त्वा॰ ।

  161. मनोपि चेन्द्रि॰--डे॰

  162. संप्रवर्तते ।

  163. ॰विलुप्त॰ ।

  164. किमर्थनिमि॰--ता॰

  165. प्रका...दात्म॰--ता॰

  166. ग्राह्यत इति--डे॰

  167. सार्वज्ञ॰--डे॰

  168. तस्मात् स्वसाम॰--डे॰

  169. --॰प्रभवयोः प्रका॰--डे ।

  170. --॰णाम स एवाभ्यु॰--ता॰

  171. --॰पेया ततः--डे॰

  172. पारिणामिककारणतोक्ता--डे॰

  173. बौद्धानामिव ।

  174. अनिराकार्यत्वात् ।

  175. विरुद्धार्थचिन्तनेन ।

  176. --॰विशेषका॰--डे॰

  177. शङ्ख॰--डे॰

  178. स्वविषये निर्णयत्वात्--डे॰

  179. वैशेषिकाः ।

  180. धारणा तस्स-विशेषा॰

  181. --॰दविच्युतिविर॰--डे॰

  182. --॰टीयं ज्ञान॰--डे॰

  183. --॰टीयं ज्ञान॰--डे॰

  184. --॰त्येवं प्र॰--डे ।

  185. --॰ल्पकं स॰--डे ।

  186. --॰ल्पकं वा । तयो॰--डे॰

  187. काचाभ्रपटलस्फ॰--डे॰

  188. --॰स्यार्थस्य--डे॰

  189. --॰न्निकर्षेण व्य॰--ता॰

  190. --॰गादिसन्नि॰--डे॰

  191. रहितम् तथापोढम्--डे॰ । रहितम् तयापोढम्--मु॰

  192. वायससदसन184

  193. वायसदशन
  194. परी॰--ता॰

  195. वायसदशन
  196. एतत्समानम्--काकस्य कति वा दन्ता मेषस्याण्डं कियत्पलम् ।


    गर्दभे कति रोमाणीत्येषा मूर्खविचारणा ॥--मु--टि॰
  197. शिखण्डिन्--खयंवरे वृतेन भीष्मेणापाकृता काचिदम्बानाम्नी राजकन्या तपसा पुरुषत्वं प्राप्ता । सैव
    शिखण्डीति सञ्ज्ञया व्यवजह्रे । स च स्त्रीपूर्वत्वान्निन्दास्पदम् । ततो भारते युद्धे तं पुरस्कृत्यार्जुनो भीष्मं जघान ।
    सोऽपि च शिखण्डी पश्चादश्वत्थाम्ना हतः । --मु-टि॰ ।

  198. --॰वादत्वं--मु॰

  199. --॰संयोगे--डे॰

  200. सता सम्प्र--ता॰ डे॰

  201. तेनैव सम्प्र॰ --मु-पा॰ ।

  202. तत्सर्वतोव्य॰--डे॰

  203. --॰कल्पत्वे--डे॰

  204. दृष्टमति प्रत्य॰--ता॰

  205. विधेषु इत्यपि पठितुं शक्यं ता॰ प्रतौ ।

  206. --॰मर्थजाति॰--डे॰

  207. ध्रौव्याणां योगः ।

  208. अन्ननिर॰--मु॰ । अणुण्णनिर॰--डे॰

  209. निरपेक्षौ नयौ ।

  210. एकत्रिंशत्तमं
    द्वात्रिंशत्तमं च सूत्रद्वयं सं-मू॰ प्रतौ भेदकचिह्नं विना सहैव लिखितं दृश्यते--सम्पा॰

  211. --॰क्रियार्थसम॰--डे॰

  212. --॰त्वाद्वा वस्तुनः--सं-मू॰

  213. प्रमाणान्वेषणभावनायाम् ।

  214. यदाहुः--ता॰

  215. सामर्थ्ये पर॰--ता॰

  216. कार्याणि ।

  217. बीजमिलादि॰--डे॰

  218. क्रियेत इति--डे॰

  219. --॰न्ध्याद्रेर॰--डे॰

  220. नियतसम्ब
    न्धिकृतः ।

  221. समवायस्य ।

  222. ॰--त्वम् सम्बन्धत्वे--डे॰

  223. नियतसम्बन्धिनोर्बीजोपकारयोः सम्बन्धत्वे
    ऽनयोः समवाय इति विशेषणविशेष्यभावः ।

  224. कलाशब्देनांशाः ।

  225. स हि कालान्तरभाविनीः क्रिया
    इत्यादिको ग्रन्थ आवर्त्तनीयः ।

  226. तदप्यर्थक्रियाकारित्वं व्यापकं निवर्तमानं स्वव्याप्यं सत्त्वं निवर्तयति ।

  227. कर्तरि षष्ठी ।

  228. पर्यायैकान्तवादे ।

  229. --॰त्वं न सु॰--डे॰

  230. यदुक्तम्--डे॰

  231. --॰ता तवा॰--डे॰

  232. बीजपूरादौ ।

  233. युगपदेकान्--ता॰

  234. नित्यस्यैकरूपस्यापि क्रमेणेत्यादिको
    प्रन्थो न घटते ।

  235. न हि एकोंश उपादानस्वरूपोऽन्यश्च सहकारिस्वरूपो भवन्मतेऽस्ति ।

  236. --॰मेणाकारि॰
    --डे॰

  237. --॰वुभावप्यभ्युपा॰--डे॰

  238. बुद्ध्यादयः ।

  239. घटरूपादयः ।

  240. आप्यरूप्या230

  241. पा
  242. दयः जलादिप
    रमाणुरूपादीनां नित्यत्वात्

  243. पा
  244. --॰भिन्न॰ ।

  245. पदार्थस॰--डे॰

  246. अनभ्युपगमबाधितत्वात् एव ।

  247. संयोगो हि द्रव्ययोरेव ।

  248. आदेर्गुणत्वकर्मत्वे ।

  249. केनचित् सम्ब॰--ता॰ मु॰

  250. भेदाभेदरूपयोः ।

  251. स्वभावम् ।

  252. युगपदुभयप्राप्तिः सङ्करः ।

  253. परस्परविषयगमनं व्यतिकरः ।

  254. छायेवातपस्य ।

  255. परोक्तदृष्टान्तं दूषयन्नाह ।

  256. योगः प्रत्याहारादिस्तं वेत्त्यधीते वा यौगः तद्वेत्त्यधीते
    हैमश॰ ६. २. ११७ इत्यण् ।

  257. चित्ररूपस्य एकस्याऽवयविताऽभ्युपगमात् ।

  258. एकस्यैव पटा॰--डे॰

  259. विज्ञानस्यैकमाकारं नानाकारकरम्बितम् ।

  260. द्रव्यपर्यायात्मा ।

  261. प्रथमद्वितीयकाय249

  262. र्य
  263. योः कालः ।

  264. र्य
  265. --॰क्षणेन परि॰--सं-मू॰

  266. --॰नास्य क्रियो॰--सं-मू॰

  267. स्वतन्त्रद्रव्यपर्यायरूपम् ।

  268. आदेरुप
    कार्युपकारयोः सम्बम्धः ।

  269. कान्दिशीको भयद्रुते--अभि॰ चि॰ ३. ३० ।

  270. क्रमाक्रमौ व्यापकौ
    तयोः ।

  271. --॰प्यस्य सत्त्व॰--डे॰

  272. अर्थक्रियाक्षमं वस्तु अत्रार्थशब्देनोच्यते ।

  273. अविद्यमान
    प्रमाणस्य ।

  274. फलात् प्रमाणस्याभेदो भवन्मते । ततश्च फलस्य साध्यत्वेनासत्त्व्रात् प्रमाणस्याप्यसत्त्वप्रसङ्गः ।
    असच्च न करणं भवति सिद्धस्यैवाङ्गीकारात् । तथा, प्रमाणात् फलस्य यद्यभेदः तदा प्रमाणस्य सत्त्वात् फल
    मपि सदेव स्याद्विद्यमानस्य च फलत्वं साध्यस्यैव फलत्वाभ्युपगमात् ।

  275. पञ्चत्रिंशत्तमं षट्त्रिंशत्तमं च सूत्र
    द्वयं ता--मू॰ प्रतौ भेदकचिह्नं विना सहैव लिखितं दृश्यते--सम्पा॰

  276. कर्मस्था प्र॰--ता--मू॰

  277. तथाहि कर्मस्था कर्तृस्था चेत् 263

  278. स्था च
  279. क्रिया प्रतीयते तथा 264
  280. ?

  281. ज्ञानस्यापि । त265
  282. थाहि वह्निगता तावत् काचिद्दाहिका शक्तिरभ्युपेया यद्व्यापारात् काष्ठानि दग्धानि भवन्ति
    तथा काष्ठगता दाहक्रिया काचिदस्ति यस्यास्तानि भस्मीभवन्ति । एवमन्यत्रापि ज्ञानार्थयोर्भावनीयम् ।

  283. स्था च
  284. ?
  285. --॰फलं तदि॰--डे॰

  286. वस्तुत ऐक्येऽपि ज्ञानोन्मुखोऽर्थप्रकाशः अर्थोन्मुखी अज्ञाननिवृत्तिः इति भेदः ।

  287. अव्यवहितम् ।

  288. --॰पजननधर्मा॰--सं-मू॰

  289. --॰धर्मणाम्--ता॰

  290. एकोनचत्वारिंशत्तमं चत्वारिंशत्तमं
    च सूत्रद्वयं ता--मू॰ प्रतौ भेदकचिह्नं विना सहैव लिखितं दृश्यते--सम्पा॰

  291. ईहायाश्चेष्टारूपत्वात् धारणायाश्च
    संस्काररूपत्वात् अज्ञानत्वमिति परस्य अभिसन्धिः ।

  292. ज्ञानमुपादानं ययोर्ज्ञानस्योपादनं वा ।

  293. --॰पेक्षया बु॰--ता॰

  294. अर्थप्रकाशादीनाम् ।

  295. --॰क्षितत्वात्--ता॰

  296. न्यप्रमाणात् ।

  297. --॰लत्वव्य॰
    --डे॰

  298. प्रमाणान्तरात् ।

  299. यथैकात्मगतस्य प्रमाणस्य सम्बन्धि द्वितीयात्मगतं फलं न भवति तथैकात्मगतयो
    रपि मा भूदत्यन्तभेदस्योभयपक्षयोरप्यविशिष्टत्वात् ।

  300. --॰तारं कथयति--डे॰

  301. एतत्सूत्रानन्तरं ता--मू॰
    प्रतौ एवं लिखितं वर्तते--इत्याचार्यश्रीहेमचन्द्रविरचितायां प्रमाणमीमांसायां प्रथमस्याध्यायस्य प्रथममाह्निकम् ।
    सं-मू॰ प्रतौ तु--॰ध्यायस्याद्याह्निकम् ।

  302. बौद्धस्य ।

  303. एकान्तनाशिनी 285

  304. ?
  305. ?
  306. अवस्थायाः ।

  307. --॰वतस्तात्त्वात्--डे॰ । ॰स्थासु तत्तत्त्वात्--तत्त्वसं॰ का॰
    २२७

  308. एकत्वात् ।

  309. --॰कम् । श्रेयः--ता॰