तथा, परिणाम उक्तलक्षणः स विद्यते यस्य स परिणामी । कूटस्थनित्ये
ह्यात्मनि हर्षविषादसुखदुःखभोगादयो विवर्ताः प्रवृत्तिनिवृत्तिधर्माणो न वर्तेरन् । एकान्त
नाशिनि च कृतनाशाकृताभ्यागमौ स्याताम्, स्मृतिप्रत्यभिज्ञाननिहितप्रत्यु285न्मार्गणप्रभृ
तयश्च प्रतिप्राणिप्रतीता व्यवहारा विशीर्येरन् । परिणामिनि तूत्पादव्ययध्रौव्यधर्मण्यात्मनि
सर्वमुपपद्यते । यदाहुः-
इति अनेनैकान्तनित्यानित्यवादव्युदासः । आत्माइत्यनात्मवादिनो व्युदस्यति ।
कायप्रमाणता त्वात्मनः प्रकृतानुपयोगान्नोक्तेति सुस्थितं प्रमातृलक्षणम् ॥ ४२ ॥
इत्याचार्यश्रीहेमचन्द्रविरचितायाः प्रमाणमीमांसायास्तद्वृत्तेश्च
प्रथमस्याध्यायस्य प्रथममाह्निक290म्