२ प्रत्यक्षपरिच्छेदः593

१. प्रमाणसंख्या

१. संख्याविप्रतिपत्तिः

594

एवं सामान्यलक्षणमभिधाय विशेषलक्षणमाह । प्रत्यक्षमनुमानञ्च प्रमाणे(।) तत्र
प्रमाणमविसम्वादाद्(।) अविसम्वादश्चार्थादुत्पत्तेरर्थाव्यभिचारतः ।

ननु तदेवाव्यभिचारित्वं अर्थे कथमवगन्तव्यं । प्रत्यक्षानुमानत्वाच्च प्रामाण्यं ।
नान्यतः । शाब्दादित्वादित्यर्थं: ।

ननु शब्दादीनामर्थप्रतिबन्ध एव नास्तीति कुतः । यस्माल्लक्षणद्वयं प्रमेयं । प्रमेया
व्यभिचारतः प्रामाण्यं । न च प्रमेयमन्तरेण प्रमेयाव्यभिचारः । प्रमेयञ्च प्रत्यक्षानुमान
प्रतिपाद्यादपरं नस्ति । यदाह । नहि स्वसामान्यलक्षणाभ्यामपरं प्रमयेमस्ति । स्वलक्षण
विषयं प्रत्यक्षं । सामान्यलक्षणविषयमनुमानमिति प्रतिपादयिष्यामः । एतदेव प्रतिपादयति ।

प्रमाणं द्विविधं मेयद्वैविध्यात् शक्त्यशक्ति(त):595 ।
अर्थक्रियायां; केशादिर्नार्थोऽनर्थाधिमोक्षतः ।। १ ।।

प्रत्यक्षानुमानभेदेन द्विविधमेव प्रमाणं प्रतिपत्तव्यं । अन्यथा मेयप्रतिपत्तेरयोगादिति
प्रतिपादयिष्यते ।

प्रत्यक्षानुमेयत्वं प्रकारात्596 प्रतिपत्‌परा(।)
न समस्ति597 ततस्तस्मात्प्रमाणं नापरं परं ।। १ ।।

प्रत्यक्षत्वानुमेयत्वमेवावितथाप्रमेयत्वप्रतिपत्तिर्नापरा । 82b2 सामान्यविशेषरूपादपरस्य
प्रतिपत्तिप्रकारस्याभावात् । विषयस्य चैकस्यैव द्वैविध्यं प्रतिपत्तिप्रकारस्य द्वैविध्यात् ।
प्रतिपत्तिभेदश्च प्रमाणभेदः । स एव च विषयभेदः(।) ननु प्रतिपत्तिभेदो विषयभेदः कथं ।
न ह्यन्यस्मिन् भिन्नेऽन्यस्य भेदः । सत्त्यमेतत् ।

तुरगस्य न भेदेस्ति गवादेरुपभिन्नता598 ।
सङ्गत्यभावान्न ज्ञानज्ञेययोरेवमिष्यते 
।। २ ।।
ज्ञानायत्ता पदार्थानां सदासंप्रत्ययस्थितिः ।
ज्ञानान्तरात्स एवार्थोऽर्थान्तरत्वेऽनुमीयते599 ।। ३ ।।

यदा साक्षाज्ज्ञानजननं प्रति शक्तत्वेन प्रतीयते । तदासौ स्वेनरूपेण लक्ष्यमाणत्वात्
स्वलक्षणं यदातु पारम्पर्येंण शक्तत्वात् तस्यैव प्रतीयते । तदा सामान्यरू
पेण लक्षणमिति
सामान्यलक्षणं ।

पारम्पर्येण शक्तिरेवाशक्तिः पर्युदासवृत्त्या न शक्त्यभाव एव । केशादेस्तु तैमिरिको
पलब्धस्य शाब्दाभ्युपलब्धस्य च नार्थतत्त्वं साक्षात् पारम्यर्येण वा शक्तत्वेनाप्रतीतेः ।
अर्थाधिमोक्षाभावात् अधिमोक्षाभाव
त्वबाधकप्रमाणप्रवर्त्तितः । इतश्च प्रमेयद्वैविध्यं ।

170
सदृशासदृशत्वाच्च विषयाविषयत्वतः (।)
शब्दस्यान्यनिमित्तानां भावे धीसदसत्त्वतः ।। २ ।।

यत् कथञ्चि(त्) सदृशरूपेण प्रतीयते । तत्सामान्यलक्षणमन्यथा विशेषलक्षणं600 ।

ननु पुरोव्यव
स्थितं गवादिसदृशरूपेण प्रतीयते । तत् किं सामान्यलक्षणं तथोप
मानेन प्रतीयमानमयं स गवय इति । नैतदस्ति ।

सदृशेनैव रूपेण यस्य सम्वेदनोदयः(।)
सामान्यलक्षणं तत्स्यात् स्वरूपस्यात्र वेदनम् ।। ४ ।।

सदृशेनैव रूपेण यदुपलक्ष्यते
तत्सामान्यं, अत्र तु विशेषप्रपिपत्तिः । सदृशरूपतातु
प्रतीयत इति चेत् । न(।) तद्रूपस्य व्यतिरेकेणाप्रतीतेः । कथं सदृशोऽयमित्यध्यवसाय
इति चेत् ।

न खल्वध्यवसायेपि पृथक् सादृश्यवेदनं ।
पृथक् प्रतीत्यभावे च 83a तदेवाद्वयवेदनं ।। ५ ।।

नखलु सदृशमिदमिति प्रतीत्या सादृश्यमपरं वस्तुव्यतिरेकेण वेदयितुं शक्यं । नहि
व्यवस्थितार्थोल्लेखमपहायापरा प्रतीतिरर्थस्य । तस्मादत्रार्थप्रतीत्यभावादनालम्बनैव सा
दृश्यप्रतीतिः । अनुमानप्रतीतौ तु दृष्टान्तः दृष्टरूपाध्यारोपः
सादृश्यं । यद्येवं शब्दादि
विषयोपि सामान्यमत्रोक्तमुत्तरं । नार्थोऽनर्थाधिमोक्षत इति । एवमन्यत्रापि द्रष्टव्यं ।
शब्दस्य विषयः सामान्यलक्षणमविषयः स्वलक्षणं ।

ननु यदि शब्दस्य विषयः सामान्यलक्षणं शब्दोपि
तर्हि प्रमाणं सामान्यविषयत्वात्(।)
नैतदस्ति ।

परार्थमनुमानं यत्सामान्यं तस्य गोचरः ।
सामान्यमेव शब्दस्य गोचरो नैवमुच्यते ।। ६ ।।
अगोचरो हि शब्दस्य न सामान्यमितीर्य्यते ।
शब्दस्य विषयो यत्तु तत्सामान्यं परं
न तु ।। ७ ।।

शब्दस्यैव विषयः सामान्यं । नतु शब्दस्य यो विषयस्तत् सामान्यमेव । अविषयोपि
न स्वलक्षणमेवापि त्वविषयं एव स्वलक्षणमित्यर्थो विवक्षितः । तेन नायं दोषः । तस्मात् शब्द
विषयोपि किं तत् सामान्यं कश्चिदनर्थः । तथाऽविषयोपि किञ्चित् 83b स्वलक्षणं कश्चिदनर्थं: ।
अन्यनिमित्तानाञ्च विषयादन्येषां समयाभोगादीनां भावेपि धियः सत्त्वं यत्र तत्सामान्यं ।
यत्र तु धियोऽन्यनिमित्तानां चक्षुरादीनां भावेपि न भावस्ततत्स्वलक्षणं । अत्रापि पूर्वंवद् वक्तव्यं ।

अथवान्यनिमित्तानां भावे यत्रधियः सत्त्वं तत्स्वलक्षणं यत्र न सत्त्वं धियोऽन्यनि
मित्तभावे तत्सामान्यलक्षणमनुपलभ्यमानस्य स्वरूपेण लक्षयितुमशक्यत्वात् । परोक्षं
तत्सामान्यञ्च । तत्र स्वरूपेण लक्ष्यमाणं स्वलक्षणमन्यथा सामान्यलक्षणं परोक्षं ।

ननु प्रत्यक्षपरोक्षलक्षणो विषयभेदः केन प्रमाणेन प्रतीयते । किं प्रत्यक्षेणानुमाने
न प्रमाणान्तरेण वा ।

प्रमाणान्तरेण द्वित्वञ्चेत् प्रमेयस्य प्रतीयते ।
विरुद्ध एव हेतुः स्यात् तृतीयस्यापि सम्भवात् ।। ८ ।।
प्रमाणद्वितयेनाथ भवेदन्योन्यसंश्रयः ।
त्र्यादिनापि प्रमाणेन विषयान्तरसाधने601 ।। ९ ।।
त्र्यादिप्रमाप्रसिद्धिः स्यात् अभिप्रेतं न सिध्यति ।
प्रमाभेदो हि मेयस्य प्रभेदस्य प्रसाधकः ।। १० ।।
171
अनुमानेन सिद्धिश्च परोक्षस्य कथं भवेत् ।
न प्रत्यक्षं परोक्षेऽस्ति वृत्तौ वा व्यर्थिकानुमा ।। ११ ।।
परोक्षता कथञ्च स्यात् प्रत्यक्षस्य प्रवर्तने ।
प्रत्यक्षस्य निवृत्त्यैव वस्तुना स्यात् परोक्षता ।। १२ ।।
तत्र प्रवृत्तं नाध्यक्षं तेन तच्च प्रतीयते ।
वाचोयुक्तिरपूर्वेयं चक्षुषा दर्शनं602 विना ।। १३ ।।
तस्मात्प्रत्यक्षविषयः प्रत्यक्षेण प्रतीयते ।
परोक्षे तु प्रमा नास्ति कुतो द्वैविध्य603निश्चयः ।। १४ ।।

तस्मात् प्रमेयद्वैविध्यमसिद्धं साधनं कथं विरुद्धं वा 84a यद्यपि नाम प्रमेयद्वैविध्यन्तथापि
प्रमाणेनापि तावता भवितव्यमिति कुतः ।

प्रतिबन्धाप्रसिद्धौ हि सर्वो हेतुरनिश्चितः ।
प्रतिबन्धप्रसिद्धिश्च न प्रत्यक्षप्रमाणिका ।। १५ ।।
प्रमाणत्वं हि सामान्यङ्कथमध्यक्षसाधनं ।
तस्मिन्नसिद्धे सम्बन्धः कथन्तेनाक्षनिश्चितः ।। १६ ।।
इति प्रमेयद्वितयाप्रसिद्धिरन्येन सिद्धौ तु विरुद्धता स्यात् ।

असिद्धसम्बन्धतया च हेतोर्भंवेदनैकान्तिकभाव एव ।। १७ ।।


अत्रोच्यते । विषयद्वैविध्यम्प्रत्यक्षत एव सिद्धं । सादृशासदृशप्रतीतिर्हि प्रतीतेरेव
धर्मः स च स्वसम्वेदनप्रत्यक्षसिद्धः । न च प्रतीतिः स्वरूपेभ्रान्तिसङ्गता । तत्र भ्रान्ति
शङ्कायामव्यवहारएव भवेदनवतारहेतुर्वा वादिप्रतिवादिप्राश्निकवचनस्य । तथाहि ।

सम्वेदनं विना कस्य क्व वचः सम्प्रवर्त्ततां ।
असङ्गताश्रयन्नैव वर्तते वचनङ्क्वचित् ।। १८ ।।
प्रतीतिभेदे भावानामन्येषामपि भिन्नता ।
किम्पुनर्न प्रमाणस्य तद्रूपस्य भविष्यति ।। १९ ।।
प्रतीतिभेद एवास्तु मानभेदः कथम्भवेत् ।
ननु प्रसिद्धम्मानत्वम्पूर्व्वं सामान्यलक्षणात् ।। २० ।।
तद्भेदव्यवहारोयमिदानीं 604ाध्यताङ्गतः ।
सविकल्पकमध्यक्षमेषोग्निरिति यो वदेत् ।। २१ ।।
स्वरूपमक्षतः सिद्धम्पूर्वसाम्येर्थहेतुता ।
न चैवमग्रहेऽर्थार्थीप्रवर्तेतार्थसम्पदे ।। २२ ।।

व्यवहारतः
प्रवृत्तिनिवृत्तिलक्षणात्प्रामाण्यं सामान्यलक्षणेनैव605प्रथमपरिच्छेद एव
प्रसिद्धं । भेदव्यवहारमात्रकमेवेदानीं साध्यमापन्नं तत्र सविकल्पकमेकमेवेदम्प्रत्यक्षं यदुताग्नि
रयमस्याभिप्रेतार्थक्रियाकारीति यो वदेत्तम्प्रति द्वितयमेतदिति । प्रतीत्याकारभेदात्प्रतीतिभेदे
न च वाह्या अपि भावा भेदवत्वेना
वगम्यन्ते । किम्पुनः प्रमाणं यत्तद्रूपमेव वस्तुतः । तत्र
स्वरूपम्भास्वराकारम्प्रत्यक्षत एव सिद्धं । साक्षात्करणात्तद्धि प्रत्यक्षमपरोक्षविषयत्वात् ।
पूर्व्वार्थक्रियाकारणसाधर्म्म्यन्तु समानाकारतया प्रतीयमानम्परोक्षत्वात्प्रमाणान्तरविषयः ।

अथ प्रत्यक्षमेव प्रवर्तकन्नापरन्तत्तु मनोऽन्तरम्भवदपि606 न प्रमाणं । नहि सह
तेन यावद् भवति
तावत्प्रमाणं । शरीरभूतलादीनामपि प्रामाण्यप्रसङ्गात् । अत्रोच्यते ।

अन्वयव्यतिरेकाभ्यामुपयोगीतरस्थितिः ।
न च केवलमध्यक्षन्तदभावे प्रवर्तकम् ।। २३ ।।

अथ केवलमध्यक्षन्तदभावेत्यन्ताभ्यासात्प्रवर्तकन्दृष्टन्नानुमानं सादृश्यग्रहणाकारं ।

तदप्यसत् । नाध्यक्षप्रतीतिः केवला प्रथमम्प्रवर्त्तिका दृष्टा । मा भूत्पूर्व्वम्पश्चाद्
भविष्य-तीति चेत् । तदेतत्तौताख्यानं607 ।

तद्देशे हि प्रवेशो यः प्रथमं यदि रोगकृत् ।
प्रथमन्न प्रवेक्ष्यामि पश्चादस्तु प्रवेशिता ।। २४ ।।
172

यतः प्रथमम्प्रवर्तना भवेत् सैवाभ्यासिकी पश्चात्तनी प्रवृत्तिः कुतः । एतदेव पश्चात्त
नस्य पश्चात्तनत्वं यः पूर्व्वकमन्तरेणाभावः । तस्मात् प्रत्यक्षेतरापि608 प्रतीतिः प्रवर्त्तिकैवान्यथा
प्रवृत्त्यसम्भवात् । किञ्च ।

धूमादेर्लिङ्गतो वृत्तिरग्न्यादावपि या क्वचित् ।
साध्यक्षेण विना दृष्टा ततस्तदपि निष्फलं ।। २५ ।।

यथैवात्यन्ताभ्यासात्परोक्षप्रतीतिमन्तरेणापि प्रत्यक्षादेव प्रवर्तनं । तथा प्रत्यक्षप्रतीति
मन्तरेण धूमाद् वह्न्यादौ प्रवर्तनमिति तदपि प्रवर्तकमध्यक्षन्न ।

अथापि स्यात् ।609

अनुमानम्विनाध्यक्षन्न स्वार्थस्य प्रसाधकं ।

प्रत्यक्षन्तु विना तस्मादभ्यासात्स्यात् प्रवर्तकम् ।। २६ ।।
तत्प्रत्यक्षमेवात्र प्रमाणन्नानुमा क्वचित् ।
तदभावेपि तत्सिद्धिरित्यध्यक्षप्रमाणता ।। २७ ।।

अत्रोच्यते ।

उक्तमत्र विनाभ्यासान्न प्रत्यक्षे प्रमाणता ।
ततोऽनुमानमेवात्र प्रधानमि610ति गम्यतां ।। २८ ।।
नान्यदाऽनुपयोगित्वेऽन्यदाप्यनुपयोगिता ।
अनभ्यासेऽर्थिता कस्मादनुमानेस्ति जन्मिनां ।। २९ ।।
उपयोगविनिर्मुक्ते कथङ्कस्यचिदर्थिता ।
अर्थित्वविषयो वस्तु नोपयोगीत्ययुक्तिमत् ।। ३० ।।
अथानुमानमध्यक्षप्रवृत्त्यर्थिताऽर्थ्यते ।
प्रत्यक्षमपि नैवैताङ्गतिं लिङ्गेऽतिप्रवर्तते ।। ३१ ।।

तस्मात् प्रत्यक्षानुमानयोर्द्वयोरपि स्वविषये (न) प्रामाण्यमिति611 स्थितमेतत् । एवमेव
लोकस्य प्रतीतेः ।

अथ तद प्रमाणमेव । न(।) विशेषाभावात् । तथा हि ।

प्रवर्त्तने समानेपि यदि कश्चित्प्रवर्त्तकः ।
प्रवर्तकत्वेतरयोः क इदानीम्विवेचकः ।। ३२ ।।

न च प्रवर्तकत्वादपरम्प्रामाणं ।

ततोऽध्यक्षेतरयोर्द्वंयोरपि(तुल्यं)612 प्रामाण्यन्न वा कस्यचित् ।

अथापि स्यात्(।) प्रत्यक्षं तत्रापि प्रवर्तंकङ्कार्यलिङ्गादिविषयमनध्यक्षन्तु सत्तामात्रेण
सन्निहितन्न तस्य प्रवर्तने व्यापारः ।

तदप्यसत् ।

एवं प्रतीत्यभावात् नहि तत्र प्रत्यक्षमेव प्रवर्तकमिति कस्यचिदवसायः । न च
प्रत्यक्षस्यापि सत्तामात्राद् परं प्रवर्तकत्वं । अन्वयव्यतिरेकमात्रेण सर्वस्य कार्योपयोगात् ।
प्रतीत्यसमुत्पादमात्रकमेवेदमिति सिद्धान्तात् परमार्थतः(न) कस्यचित्क्वचित्सव्यापारता ।
सम्वृतिरेव सव्यापारता न परमार्थः613 । एतच्च पश्चात्प्रतिपादयिष्यते । अपि च ।

प्रत्यक्षमेव तत्रापि परलोकप्रसाधकम् ।
लिङ्गस्य साधनङ्का नः क्षतिर्लैंङ्िग्/?/कबाधने ।। ३३ ।।

यद्यग्न्यादिविषयं लैङ्िग/?/कं ज्ञानन्न प्रमाणं । भवतु तेनैव लिङ्गज्ञानेन प्रत्यक्षभाव
मनतिक्रम्य वर्तमानेन लिङ्िग/?/नो लिङ्गस्य च विषयीकरणम्परलोकादेरिति न काचिन्नः क्षतिः ।

अनुमानाप्रमाणत्वे परलोकाद्यसिद्धितः ।
मा भून्नास्तिकता तस्याप्रामाण्यम्प्रतिसिध्यति ।। ३४ ।।

173

अनुमानस्याप्रमाणतायान्तद्विषयस्य परलोकादेरसिद्धिरिति नास्तिकतामाशङ्कमानै
रस्माभिरनुमानप्रतिक्षेपः प्रतिक्षिप्यते । नान्येनाभिप्रायेण । स चेदनुमानविषयः परलोका
दिरप्रत्यक्षेपि प्रत्यक्षेण विषयीक्रियते किमस्माकमनुमानस्य प्रामाण्यसाधनेन ।

महताहि प्रयासेन यस्य साधनमिष्यते ।
सोऽर्थः सिद्धो विनायासं यदि कस्यार्थिताऽपरा ।। ३५ ।।

अनायाससाध्येर्थ एकेन प्रकारेण कः प्रकारान्तरमायाससम्भवभाजनञ्जनः प्रेक्षावाना
श्रयेत् । अनुमानेन साध्योर्थो यदि प्रत्यक्षमात्रात्प्रसिध्यति किमस्माकमनुमानेन दीयते ।

किञ्च ।

यद्यध्यक्षात्परोक्षेपि प्रसिध्यत्वर्थ ईप्सितः ।
सर्वस्य साधनम्प्राप्तं सर्वः सवार्थविद्भवेत् ।। ३६ ।।
असम्बन्धान्न चेदस्ति सानुमैव तथा सति ।

न खल्वसम्बन्धा614त्प्रतीतिमन्तरेणा परमनुमानयनुमानवादिभिरपीष्यते । तस्मात्स
दृशरूपेण यत्प्रतीयते तत्सामान्यलक्षणमेवतत्त्वसंवेदनप्रत्यक्षप्रसिद्धं । अनेन कार्यहेतोर्विषयः
प्रदर्शितः ।

शब्दविषयत्वमपि शाब्दप्रत्ययगम्यमेव स एव शाब्दः प्रत्ययः स्वप्रतिभासिनो विषयत्वं
प्रतिपादयति । अनेन स्वभावहेतोर्विषयस्य दर्शनं(।) तथाहि ।

उपमानेन गोवस्तुसदृशस्य विनिश्चयः ।
अयं सदृशशब्देन प्राक्तेन प्रतिपादितः ।। ३७ ।।
तस्य स्वरूपमध्यक्षप्रत्ययादेव गम्यते ।
सादृश्यन्तु परन्तस्य शाब्दप्रत्ययगोचरः ।। ३८ ।।

तथाहि । अनेन सदृशोसौ तेन सदृशोयमित्येक एवार्थः । तदनुकारव्यवहारश्च
द्वयावलम्बी न च प्रत्यक्षेण द्वयं प्रत्येतुं शक्यमतः शाब्दप्रत्ययगोचर एव सादृश्यस्वभाव
हेतुना प्रतीयते । अनेन सदृशोऽसावेतदाकारस्य तत्रापि दर्शनात् । सादृश्यव्यवहारमात्रस्य
साधनात् । आकारद्वयस्य तु तथाभूतप्रत्ययनिबन्धनस्य पूर्वापरप्रत्यक्षाभ्यामेवोपलम्भात् ।
तस्माच्छब्दविषयो न स्वलक्षणं । शब्दग्रहणेन च विकल्प एवोपलभ्यते615 । विकल्पविषय
इति यावत् ।

अन्यनिमित्तानाम्भावे धियो यत्र न सत्त्वमिति चानुपलब्धेरुपक्षेपः । यत्र धियो
न सत्वं तस्याभावः । तत्र616 क्वचित्प्रवर्तमानं ज्ञानमन्यत्राहन्न617 प्रवृत्तमिति नियताकारत्वा
त्प्रत्याययति । नहि तत्सर्वत्र प्रवृत्तिमात्मनं उपलभते । तस्माद् भेदवादिनः प्रत्यक्षत एव
द्विधाभावावगमः प्रतीतेरन्यगत्यभावात् । इदञ्च सदृशासदृशत्वादि सकलमेव परोक्षेतर
प्रत्ययविषयस्तच्चार्थक्रियायां शक्त्यशक्त्तित इति ज्ञायते । एतत्पश्चात्प्रतिपादयिष्यते ।

तत्र यदुच्यते । परोक्षे प्रत्यक्षन्नास्ति । तदयुक्तं ।

यत्र नास्मि618 तदध्यक्षादपरम्वर्जितम्मया ।
एतावन्मात्रतोर्थानाम्परोक्षत्वविनिश्चयः ।। ३९ ।।
प्रत्यक्षमेवात्मानम्वेत्ति सम्वेदनात्मना ।
नियतत्वप्रतीत्यैवान्यस्यानध्यक्षतागतिः619 ।। ४० ।।
प्रत्यक्षेण प्रतीतेपि परोक्षत्वे परोक्षिता ।
भवत्यर्थस्य तत्रार्थेन प्रत्यक्षं हि वृत्तिमत् ।। ४१ ।।
नन्वर्थेऽध्यक्षतोऽज्ञाते परोक्षार्थस्य वित्कथं ।
तद्वेदने हि तद्धर्म्मस्तत्स्वभावः प्रतीयते ।। ४२ ।।

174

यदि परोक्षोऽर्थः प्रत्यक्षेण ज्ञातो भवेत्तद्धर्मः प्रतीयेत धर्म्मस्य तत्स्वभावत्वात् । अतत्स्व
भावस्य तद्धर्मत्वायोगात् पदार्थान्तरवत्620 । तत्सम्बन्धात्तु तद्धर्मतेति चेत् । आयातन्तस्य
तर्हि 621 प्रत्यक्षेण परिज्ञानं । तेन परोक्षतासम्बद्धं वस्तु प्रतियताऽध्यक्षेण नियमेन परोक्षमपि
वस्तु प्रत्येतव्यन्ततः परोक्षाभिमतस्य वस्तुनोऽपरोक्षतैव प्रसक्ता । ततो नानुमानावतारः ।
नहि प्रत्यक्षगृहीतमेवानुमानविषयः । अत्रोच्यते ।

स्वसम्वेदनमध्यक्षम्परोक्षत्वे प्रवर्तते । तद्धर्मिणीन्द्रियज्ञानमपरन्तु प्रवर्तते ।। ४३ ।।

द्वयप्रतिपत्तौ हि सम्बन्धप्रतिपत्तिः । न च तद् द्वयमेकेनैव प्रमाणेन प्रत्येयं । तत्र
स्वसम्वेदनेन परोक्षतार्थस्य धर्मः प्रतीयते । परोक्षन्तु धर्म्मि622 प्रत्यक्षान्तरेणेन्द्रि (य)
विज्ञानेन प्रतीयते । ततः सम्बन्धप्रतिपत्तिः। ततः प्रत्यक्षेण परोक्षताप्रतीतावपि व्रस्त्व
नुमानेन प्रतीयत इत्यनुमानावतारः । किञ्च ।

विधिरूपस्य धर्म्मस्याव्यतिरेकेण तिष्ठतः । न वस्त्वग्रहणे वित्तिर्युक्ता न तु विपर्ययात् ।। ४४ ।।

विधिरूपो हि धर्म्मोऽव्यतिरिक्तो वस्तुनः सधर्म्मिणा सहैकप्रमाणग्राह्यः । परो
क्षत्वन्तु प्रतीतिविरहोऽध्यक्षेण । स न धर्मिग्रहणसापेक्षः ।

अथ परोक्षे प्रत्यक्षस्याप्रवृत्तौ कथमनुमानवृत्तिः । न किञ्चिदेतत् । यतः ।

नानुमानात्परोक्षत्वं साध्यते तस्य वस्तुनः । सत्यामध्यक्षतायान्तु दृष्टरूपस्य साधनं ।। ४५ ।।

नह्यनुमानेन वस्तुतः परोक्षता साध्यते येन तत्र प्रत्यक्षवृत्तिरिष्यते । अपि तु परोक्षता
स्वसम्वेदनप्रत्यक्षत एवास्य प्रसिद्धेत्युक्तमेतत् । सत्यान्तु प्रत्यक्षप्रसिद्धायाम्परोक्षतायामर्थ
क्रियासमर्थमग्न्यादिरूपमे623 वार्थस्य साध्यतेऽनुमानेन तत्र च प्राक्‌प्रत्यक्षम्प्रवृत्तमेव ततोनुमा
नप्रवर्तनाव्याघातः । किञ्च ।

अनुमानस्य तद्रूपप्रतिपत्तावशक्तितः । परोक्षता तदैवास्य सामर्थ्यादवतिष्ठते ।। ४६ ।।

अनुमानस्य हि तत्स्वरूपप्रवर्तना सामर्थ्यमेवाप्रकृता । सा च तदैवास्य भवति । ततो
न प्राक्तत्र प्रत्यक्षवृत्तिरपेक्ष्यते624 । न च परोक्षतया कश्चिदर्थी येन तत्र प्रत्यक्षवृत्तिम
वेक्षेत । अनिष्टावपि सा भवति । अनेन प्रामाण्यप्रसाधनमपि निर्ण्णीतं ।

परोक्षवस्तुसिद्धौ हि प्रामाण्यन्तस्य सिध्यति । परोक्षवस्तुसिद्ध्यैव तत्सन्बन्धप्रसिद्धितः ।। ४७ ।।

वस्तुसम्बन्धितामात्रं ज्ञाने प्रामाण्यमुच्यते ।

प्रसिद्धवस्तुंसम्बन्धे625 प्रामाण्ये लिङ्गतोस्ति वित् ।। ४८ ।।

परिशिष्टन्तु प्रागेव प्रत्ययादीति नोच्यते ।

ननु प्रमेयद्वैविध्यम्प्रमेयमेवा द्विधा प्रमेयञ्च कारणम्प्रमाणद्वैविध्यङ्कार्यं । तत्कथङ्कार
णात्कार्यस्य सिद्धिः । अत्रोच्यते ।

सामग्रीसम्भवे कार्यङ्कारणाज्जायते यतः ।
ततः कारणतः सिद्धिः कार्यस्यायुक्तिका कथम् ।। ४९ ।।

175

यद्यपि नावश्यं कारणानि कार्यवन्ति भवन्तीति न्यायस्तथापि कारणात्कार्यस्य
सिद्धिरेवात्र । नहि सर्वदा प्रमाणद्वितयम्प्रमेयद्वितयात्साध्यते । अपितु सामग्रीसम्भवादिति
वयम्ब्रूमः । सामग्रीसम्भवञ्च पश्चात्प्रतिपादयिष्यामः । अवश्यञ्च प्रमेयद्वितयसिद्धिः
प्रमाणद्वितयं साधयति । यत एव सिद्धिर्निंश्चयलक्षणाऽस्य तदेव प्रमाणं । न चैकस्माद् द्वितय
सिद्धिरिति प्रतिपादितं । यदा त्र्यादिप्रमाणविनिवृत्त्यर्थमिदं तदापरविषयाभावात् प्रमा
णान्तरविनिवृत्तिर्व्यापकाभावात्साध्यते626 । नहि प्रमेयरहितं प्रमाणमस्ति । स्वरूपस्य पर
रूपस्य वा प्रमेयस्याभावे ज्ञानमेव नास्तीति किम्प्रमाणम्भवेत्(।)आत्मास्तीति चेत् । तस्यापि
स्वपररूपप्रमेयाभावेऽभाव एव प्रसक्त इति न प्रमाणन्नाम । तस्मात्स्वरूपेण प्रतीयमानम्ब
स्त्वेको विषयः । तत्र परन्तु पर इति व्यवस्थितम् ।

२. सत्त्यद्वयचिन्ता

अर्थक्रियासमर्थं यत्तदत्र परमार्थसत् !
अन्यत्सम्वृतिसत् प्रोक्तन्ते स्वसामान्यलक्षणे ।। ३ ।।

—इत्यन्तरश्लोकः ।

ननु न किञ्चिदर्थंक्रियासमर्थं कथमर्थक्रियासामर्थ्यं परमार्थसल्लक्षणं । तथाहि ।

अर्थक्रियासमर्थत्वङ्कस्य केन प्रतीयते । नहि मानस्य मेयस्य627 प्रतीतेः सम्भवस्तथा ।। ५० ।।

न नित्यस्य नानित्यस्य । न ज्ञेयस्य न ज्ञानस्यार्थक्रियाकारित्वम्प्रतीयते628 प्रत्यक्षे
णानुमानेन वा । तथा हि ।

नित्यस्यास्ति न सामर्थ्यम्व्यतिरेकाप्रसिद्धितः । नानित्यस्यास्ति सामर्थ्यमन्वयस्याप्रसिद्धितः ।। ५१ ।।
अन्वयव्यतिरेकाभ्याम्व्याप्तं सामर्थ्यमीक्ष्यते629 । तयोरुभयथासिद्धौ कथं सामर्थ्यमुच्यते ।। ५२ ।।

न खलु नित्यस्य सर्वदेशव्यापिनः क्वचित्कार्ये व्यापारविरहिणः सामर्थ्यन्नाम ।
मा भूद्व्यापिनो अव्यापिनो भविष्यति । मा भूत्सदास्थायिनः कालान्तरस्थायिनो भविष्य
तीति चेत् । तदसत् ।

देशाव्याप्तिः कुतस्तस्याप्रतीतेर्नित्यता कुतः ।

यथा न व्यापिता तस्य तथा नास्त्यस्य नित्यता ।। ५३ ।।

अनित्यस्यापि भावस्य क्षणिकत्वात्क्रिया630 कुतः ।

क्षणिकस्य हि भावस्य भावमात्रे व्यवस्थितिः ।। ५४ ।।
अथानन्तरमस्यान्यदिति सामर्थमुच्यते । तदनन्तरमन्यस्याप्यतस्तस्यापितत्क्रिया ।। ५५ ।।
सर्वभावक्षणानां हि सर्वापेक्षैव पूर्वता । तदभावेपि तद्भाव इति चेत्क्षणिके कथं ।। ५६ ।।

न खलु क्षणिकस्य कार्यस्य तदभावेपि पुनर्भवनसम्भवः । तदैव तस्य भावात् । अन्यदा
कदाचिदप्यभावात् । अथ सन्तानः कार्यं कारणञ्च ततोऽयमदोषः । न (।) सन्तानस्य
176 तद्‌व्यतिरेकिणो भावात् । भावे वा तस्यैव स कार्यकारणभावः क्षणानामसामर्थ्यादसत्त्वप्रसङ्गः ।
तत्सम्बन्धिनः कार्यकारणत्वे तेषामपि स कार्यकारणभाव631 इति चेत् । न । व्यतिरेकिणोः
कार्यकारणभावादपरस्य सम्बन्धस्याभावात् । सन्तानः सर्वक्षणानन्तरभावीति सर्वस्य सन्तानो
भवेत् । तस्य च नित्यताक्षणिकत्वयोः प्राग्भाव्येव दोषः । आह च632 ।

सन्तानस्य ततोऽन्यत्त्वे सामर्थ्ये च स एव सन् ।
क्षणानां स्यादसामर्थ्यादसत्त्वङ्कल्पना वृथा ।। ५७ ।।
तत्सम्बन्धिनि सामर्थ्यात्सामर्थ्यङ्कल्प्यते यदि । मुख्यसामर्थ्यविरहाद्भूषायाचितकेन सा ।। ५८ ।।
कार्यकारणसम्बन्धः सन्तानेतरयोर्भवेत् । त्रैलोक्यस्य क्षणानां हि स्यात्सन्तानस्तथा सति ।। ५९ ।।
सन्तानस्य च सामर्थ्यात् सत्त्वं कार्यक्रिया ततः । नित्यत्वेतरयोर्दोषः पक्षयोः स्यात्स एव वः ।। ६० ।।
सन्तानान्तरसञ्चारे भवेदेवानवस्थितिः । सन्तानस्यापि कार्यत्वे क्षणिकत्वे न कार्यता ।। ६१ ।।
सन्तानान्तरमत्रापि यतः कार्यत्वकारकं । ततोऽनवस्थाव्याघ्रोणाघ्राता(सा)कार्यता मतिः ।। ६२ ।।

अपि च ।

ज्ञानादन्येन कार्येण सत्ता हेतोर्भवेद्यदि । कार्यस्यापि न सत्ता स्याद्विना कार्यान्तरोदयं ।। ६३ ।।
ततोऽनवस्थितेः सत्वन्न मूलस्यापि विद्यते । ज्ञानकार्येण सर्वस्य तत्स्यात्सत्त्वमबाधितं ।। ६४ ।।
अत्रापि ज्ञानकार्येण633 ज्ञेययोगस्य वित् कुतः ।
ज्ञानेन ज्ञेययोः कार्यकारणत्वम्प्रतीयते ।
पुरो व्यवस्थिततत्त्वेन द्वयोरप्यवभासनात् ।। ६५ ।।
ज्ञानस्य तु न कार्यत्वन्तेनान्येनाथवक्ष्यते ।
न प्रत्यक्षेण634 तेनैव तस्य प्रागप्रवृत्तितः ।। ६६ ।।
प्रवृत्तौ तु न कार्यत्वं पुनः पूर्वं प्रवर्तते ।
तथाऽपर्यवसानत्वं कुतः स्यात् कार्यतागतिः ।। ६७ ।।
समानकालयोरेव यदि स्यात्कार्यहेतुता ।
अविशेषाद् भवेदेवं युगपत्स्तम्भकुम्भयोः ।। ६८ ।।
दृष्टयोरन्यथाभावे635 प्रकृतेपि न सिध्यति ।636
केवलस्यापि कुम्भस्य यदि दृष्टेर्न कार्यता ।। ६९ ।।
ज्ञानस्यापि न किन्तेन विना दृष्टेः प्रवर्तनं ।
अन्यदेव637 हि तज्ज्ञानमतो न व्यभिचारिता ।। ७० ।।
स्तम्भोंपि न किमन्योऽसौ प्रत्यभिज्ञोदयस्य नः ।
नित्यता च भवेदेवम्प्रत्यभिज्ञा न च प्रमा ।। ७१ ।।
नहि पूर्व्वापरं रूपमेः कस्यैव प्रतीयते ।
पूर्व्वापरप्रत्ययाभ्याम्प्रत्येकमनवग्रहात् ।। ७२ ।।
स्मरणस्य द्वयोर्वृत्तिर्न चास्यास्ति प्रमाणता ।
पूर्वापरप्रत्यययोः परस्परममिश्रणं ।। ७३ ।।
स्मरणन्तत उत्पन्नमेकत्वस्य न वेदकम् ।
आत्मा यद्यपि नामैकः कथन्तेनापि वेदनं ।। ७४ ।।
प्रत्यक्षादिप्रमाणेन सोप्यर्थमवगच्छति ।
नह्यात्माश्रितमित्येव ज्ञानम्मानत्वमृच्छति ।। ७५ ।।
विनाप्यात्माश्रितत्वेनाविसम्वादात्प्रमाणता ।
दृष्टस्य पश्चात्प्राप्तौ हि प्रमाणस्य प्रमाणता ।। ७६ ।।

638
177
विनात्मानमिदम्वस्तु नानिlत्येनावगम्यते639 ।
सद्भावेप्यात्मनो नास्ति प्रामाण्यं यस्य कस्यचित् ।। ७७ ।।
प्रत्यक्षानुमयोरेवप्रत्यक्षान्‌मयोरेव तत्राप्यस्ति प्रमाणता ।
न पूर्वापररूपत्वमात्मनोऽन्यस्य वेक्ष्यते ।। ७८ ।।
आत्मनान्येन वा तेन न नित्यस्यास्ति सम्भवः । तस्माज्ज्ञानस्य नार्थस्य कार्यत्वं सभ्प्रतीयते ।। ७९ ।।
ज्ञानमात्मविदात्मानम्वेत्ति तद्वेद्यमेव च । पूर्वापरत्वेनाध्यक्षं वर्त्तते कार्यकारणे ।। ८० ।।
अथानुमानतः कार्यात्पूर्वङ्कारणवेदने । तस्माज्ज्ञानमिदञ्जातमिति जानाति कार्यतां ।। ८१ ।।

तस्यापि नानुमानस्य प्रत्यक्षेणाप्रवेदनें । वस्तुनोर्वृत्तिरस्तीति640 पूर्वमेवोपपादितं ।। ८२ ।।

पूर्वाध्यक्षाप्रमाणत्वे नानुमानम्भवेत्प्रमा । तत्राप्यस्त्यनुमानम्प्रागिति स्यादनवस्थितिः ।। ८३ ।।
आस्तान्तावत्कार्यतादिप्रमेयं यस्य स्यात्तत्तस्य नास्ति प्रतीतिः ।
मूलाभावादुत्तरन्नेति सिद्धन्धर्म्मः सिद्धो धर्म्मिणोयं न युक्तः ।। ८४ ।।

सालम्बनतायां ज्ञानस्य वस्तुप्रसिद्धिः यदा तु वस्त्वेव न सिद्धन्तदा कस्य कार्य
कारणभावः । सालम्बनत्वस्य कथमसिद्धिरिति चेत् । उच्यते ।।

कारणमेवालम्बनमिह जगति न दृष्टिमात्रेण641 ।
प्रतिभासमात्रकेण तु तैमिरिकधियोपि तत्प्राप्तं ।। ८५ ।।
यस्य यत्कारणम्वस्तु न तत्कारणतो विना । चक्षुरादिधियाम्प्राप्ता न विनालम्बनं स्थितिः ।। ८६ ।।

विनापि वालम्बनेन चक्षुरादिवेदने नीशीथिनीनाथद्वयाकारमुपजायमानमीक्ष्यते ।
तत आलम्बनकारणमन्तरेणाप्युपजायमानम्व्यभिचारतो नालम्बनकारणकार्यम्विज्ञानमिति
युक्तं । एष हि कार्यकारणभावः परस्परं भेदे सति व्याप्यव्यापकभावो यः । कारणमन्तरेण
कार्यस्य भावे न तत्तस्य कार्यन्नापि कारणन्ततो निरालम्बनत्वात्सकलवस्त्वसिद्धिः कुत एव
कार्यकारणभावः ।

अथापि स्यात् ।

न कारणत्वेनालम्बनमपि तु ग्राह्यत्वेन्, तदप्ययुक्तं । यतः ।।

न नीलाद्यतिरेकेण ग्राह्यत्वमपरंङ्क्वचित्642 । नीलादिता च विभ्रान्तविज्ञानेप्यवभासात् ।। ८७ ।।
पुरः स्फुटावभासित्वं भ्रान्तेर्वा न किमीक्ष्यते । तस्मान्न किञ्चिद्‌ग्राह्यत्वं यद्भ्रान्तादतिरिच्यते ।। ८८ ।।

अथापि स्याद् भ्रान्तमेव सकलं सम्वेदनमिति । नास्त्येतत् । यतः ।।

नैवार्थकारिता काचिद् भ्रान्तचित्तावभासिनः । ततोऽसद्विषयम्भ्रान्तमपरत्र विपर्ययः ।। ८९ ।।

अत्राप्युच्यते ।

अर्थक्रियाकिमर्थात्मा तत्सम्वेद्यात्परात्मना । अथ सम्वेदनं तद्वा सर्वमप्यसता यतः ।। ९० ।।
अर्थान्तरं तत्क्रिया चेत्तदभावादसन्न सः । असत्त्वे हि न कार्यस्य कारणस्यापि नास्तिता ।। ९१ ।।

यदि कार्यमर्थक्रियाभिमतन्नास्ति तदेवासत्कारणमप्यसीदिति कुतः । नान्यस्यासत्त्वेऽन्य
दसदतिप्रसङ्गात् । यदि नाम कार्यस्याभावे कार्यकारणसामर्थ्यमेव643 न भवति । न तु
स्वरूपमसत् । अथ ज्ञानमर्थक्रिया । तत्रापि द्वयी गतिः । तद्वा ज्ञानमपरम्वा । तदेव
644 178 ज्ञानं पुनरुत्पद्यमानमर्थक्रिया चेत् । भ्रान्तेपि पुनः पुनरुत्पद्यत एव भ्रान्तविज्ञानन्न ह्येक
क्षणभाव्येव भ्रान्तम्विज्ञानं । अथ स्पर्शादि विज्ञानं । तदप्यसत् ।

यदि नामापरोत्पत्तिः स एव विषयोस्तु सन् । अपरस्य तु सद्भावः कथमन्यस्य वेदने ।। ९२ ।।
स्ववेदनेप्यनाश्वासः का वार्ता परवेदने । तद्वेदनेप्यसत्यत्वङ्कथन्नाम न शङ्क्यते ।। ९३ ।।
चक्षुस्सम्वेदनात्स्पर्शसम्वित्केन विशिष्यते । तत्रार्थपरितोषश्चेत् परितोषः कुतो नु सः ।। ९४ ।।

यथा खलु चक्षुर्विज्ञाने निरालम्बनता तथा स्पर्शविज्ञानेपि, द्वयोरपीन्द्रियज्ञानत्वा
विशेषात् । तिमिराद्युपघातसम्भावना द्वयोरपि समानोभयत्र दर्शनात् । (अ)पितु ज्वरोप
धातादुष्णसम्वेदनात्परितोषादिता चेत् । हिमसमयेपि तु ज्वरोपघातादुष्णसम्वेदननेपि
किन्न परितोषः । अपि च ।

सम्वेदनप्रमाणञ्चेत्परितोषः किमर्थकः । सम्वेदनम्प्रमा नोचेत्परितोषः किमर्थकः ।। ९५ ।।

यदि सम्वेदनम्प्रमाणन्तत एवार्थसिद्धिः किमपरम्परितोषः करिष्यति ।

सम्वेदनान्न सिद्धं यत्परितोषशतैरपि । कथन्तत्साध्यमन्यो हि परितोषो न साधनं ।। ९६ ।।

सम्वेदनादपरस्य परितोषस्य क उपयोगः । अथ साधनञ्चेत्कथमन्येनान्यस्य सिद्धिः ।
सम्बन्धाच्चेत् । सम्बन्धः केन सिद्धः । परितोषतश्चेत् तत्रापि सम्बन्धसिद्धिरपेक्षणीयेत्यन
वस्था । सम्वेदनाच्चेत्तत एवार्थसिद्धिरिति वृथा परितोषः । तत्र च स एव दोषः । यदि
सम्वेदनादर्थसिद्धिः किन्न पूर्वसम्वेदनात् । अनेनार्थाधिमुक्तिरपि प्रत्युक्ता । तथाहि ।

अर्थाधिमुक्तिः सम्वित्तेरन्या नार्थस्य साधिका ।

सम्विदेवाधिमुक्तिश्चेत्सम्वित्सर्वार्थसाधिका ।। ९७ ।।

अनेनाभिलाषस्मृतीच्छाद्वेषादयोपि व्याख्याताः । किञ्च । सम्वेदनादभिलाषादयो
न तेभ्यः सम्वेदनमिति यत्किञ्चिदेतत् ।

अथापि स्यात् । भवतु645 सर्वसम्वेदनानां सालम्बनता न काचिन्नः क्षतिः । प्रमाणा
प्रमाणविभागः कथमिति चेत् ।

लौकिकालौकिकत्वेन प्रमाणेतरसंस्थितिः । विभागः स कथं ज्ञातो बाधकेतरसङ्गमात् ।। ९८ ।।
बाधकेतरयोः केन लौकिकेतरता स्थितिः । बाधकेतरसद्भावादनवस्था प्रसज्यते ।। ९९ ।।

असाधारणमलौकिकमितरदन्यथा चेत् यत्किञ्चिदेतत् । तथाहि ।

तयोस्सम्वेदनन्नास्ति न प्रत्यक्षानुमे यतः । प्रत्यक्षेण हि सम्वित्तिः सम्वेद्येनापरत्र सा ।। १०० ।।

ममैतत्प्रतिभाति परस्य वेति नात्रावतारः प्रत्यक्षस्य । अनुमानात्सम्वेदनमिति चेत् ।

सम्बन्धग्रहणाभावेऽनुमानस्योदयः कुतः ।

रोमाञ्चादिक्रियादृष्टेः स्वदृष्टेस्त्यनुमा न हि ।। १०१ ।।
धूमकार्यदृशा नाग्निः स एवात्र प्रसिध्यति । सामान्यविषयं यस्मादनुमानन्न भेदवित् ।। १०२ ।।
तत्र धूमस्य भेदाच्चेद्रोमाञ्चेपि किमेकता । एकत्वाभिनिवेशोपि न ज्ञानादपरः सवित् ।। १०३ ।।
179

यत्र मया चक्षुर्निवेशितन्तत्रैवानेनेति व्यवहारादेकतेति चेत् । तैमिरिकोपलब्धके
शादावपि समानमेतत् । तत्रापि तैमिरिकयोरेकार्थाभिनिवेशः समानः । किञ्च । यथा
तैमिरिकोपलब्धे केनचित्संवेदनं । तथापरत्रापि सर्वेण सम्वेदनञ्चेत् स्तम्भादौ646 नात्र प्रमाणं ।
न च तैमिरिकेन स्तम्भस्य वेदनं । उपहतेन्द्रियत्वादसम्वेदनेपि647 न दोष इति चेत् । ननूप
हतेन्द्रियत्वङ्कुतो ज्ञायते । असत्यार्थसम्वेदनादिति चेत् । सोऽयमितरेतराश्रयदोषः ।
सत्युपघातेऽसत्त्यत्वमसत्त्यत्वे चोपघातः । तस्मात्परेण न किञ्चिदुपलभ्यते ।

ननु नोपलभ्यत इत्यपि नास्त्येवाप्रत्क्षेणैवान्योपलभ्यरूपविविक्तोपलम्भात्मना परो
पलभ्यमानताप्रतिषेधः । तथा विषयत्वात्तस्य648 परप्रत्यक्षस्य न प्रतिषेधः । कथन्तर्हि
तेनोपलभ्यते परोपलभ्यरूपं । अथोपलभ्यते तद्रपम्परेणोपलभ्यमानता नोपलभ्यत इति
चेत्(।) किन्तद्रूपादपरापरोपलभ्यमानता । अथ तद्रूपमेव । तद्रूपत्वे कथमनुपलम्भः ।
पररूपत्वे कथम्परेण तदुपलभ्यतेत्युपलभ्यमानता । परेणोपलभ्यते न स पदार्थ इति कथमसौ
परेणोपलब्धः । यस्य ह्युपलभ्यमानतोपलभ्यते स एवानुपलब्धः । तथा च स पदार्थः न
केनचिदुपलब्धः । स्वस्वोपलभ्यमानतया एव परस्परव्यावृत्ततायाः स्वपराभ्यामुपलम्भ इति
न साधारणता नामोपलभ्यस्य कस्यचित् । न चोपलभ्यमानताव्यतिरेकेण पदार्थ इति
स्वसम्वेदनाग्रहाकारवत्सम्वेदनमात्रकं । न बाह्यपदार्थोनाम । यस्य सामर्थ्यलक्षणं सत्त्व
ञ्िचंत्यते ।

649 अथ सम्वेदनानामेव परस्परङ्कार्यकारणभावात्सामर्थ्यलक्षणम्परमार्थसत्त्वम्प्रतिपाद्यते ।
तदप्यसत् ।

स्वसम्बेदनमात्रत्वे प्रत्यक्षत्वेनुमा कुतः650 । कार्यकारणभावेपि ज्ञानयोर्गृह्यते कथं ।। १०४ ।।
विद्‌द्वयेन न तेनैव स्वमात्रस्य प्रवेदनात् । यदा कारणविज्ञानन्तदा कार्याप्रवेदनात् ।। १०५ ।।
कारणत्वङ्कथन्तस्य गृह्यते कार्यवेदने । कार्यकालेपि तन्नास्ति कार्यत्वङ्गृह्यतां कथं ।। १०६ ।।
अनुमानात्परिज्ञानङ्कारणस्य यदीष्यते । तदाऽनुमानान्न ज्ञातमिदानीं ज्ञायते कथं ।। १०७ ।।
पूर्वं प्रत्यक्षतो ज्ञातमिदानीमनुमानतः । इदानीन्नास्ति तज्ज्ञानमनुमानेन वित्कथं ।। १०८ ।।
पूर्वत्वे नानुमानञ्चेन्न प्रत्यक्षेण वेदनाद् । पूर्वत्वमधिकन्तस्यानुमानेन चेदसत् ।। १०९ ।।
पूर्वत्वन्नाम नैवास्ति प्रत्यक्षेणास्य बाधनात् । तस्मात्पूर्वस्यरूपस्य न सम्वित्तिः कथञ्चन ।। ११० ।।
स्मृतिमात्रं हितन्नास्ति न प्रमा तत्स्ववेदनात् । स्वसम्वेदनमात्रञ्च प्रत्यक्षन्तत्स्व वेदनात् ।। १११ ।।
ततस्तस्य न सम्वित्तिरन्यकार्यतया तया । तस्मात्सामर्थ्यसंसिद्धिः ज्ञाने ज्ञेये न विद्यते ।। ११२ ।।

किञ्च ।

कार्यकारणभावोयं सदसत्त्वे न विद्यते । नासतः कारणङ्कि/?/ञ्चिदश्वशृङ्गस्य विद्यते ।। ११३ ।।
अत्यन्ताभावतस्तस्य कारणन्नेति चिन्मतिः । प्रागभावि तु न कार्यमेतदप्यसदुत्तरम् ।। ११४ ।।
प्रागभावः कथं सत्त्वेऽसत्वेप्यस्य कथम्मतः । असतः खरशृङ्गस्य651 प्रागभावो न विद्यते ।। ११५ ।।

180
दर्शने प्रागभावश्चेदितरेतरसंश्रयः । न यावत्प्रगभावित्वन्तावदस्य न भाविता ।। ११६ ।।

यावदस्य प्रागभावेन सम्बन्धो नास्ति न तावदुत्पत्तिः । यावच्च नोत्पत्तिस्ताव
त्प्रागभावस्य तत्त्वन्नास्ति । कारणस्य कार्यशून्यता प्रगभाव इति चेत्तदप्यसत् ।।

शून्यता सा किमन्यस्याकारणस्य न विद्यते । ततस्तेनापि सम्बन्धे तस्य कार्यम्भवेदसौ ।। ११७ ।।

प्रागभावेन सम्बन्धे हि कार्यता । स च प्रागभावः कार्यशून्यम्पदार्थान्तरं । तच्च
कारणाभिमतादन्यदपि प्रगभावस्वभावम्भवेत् । तेन च सम्बन्धे तत्कार्यतापि भावस्य
कार्यभूतस्य स्यात् । तदन्वयव्यतिरेकाभावान्नेति चेत् । उक्तमत्रोत्तरं । न च
प्रागभावो नाम प्रत्यक्षादिप्रमाणग्राह्यः । स्वरूपमात्रमेव कार्यकारणयोर्गृह्यते । कारणस्व
रूपमेव प्रागभाव इति चेत् । कार्यस्यापि स्वरूपन्तथा स्यात् । भवत्येव तस्यापि कार्या
न्तरापेक्षया चेत् । कारणाभिमतापेक्षयापि किन्न भवति । तथा प्रतीत्यभावादिति चेत् ।
अनपेक्षितवस्तुनः प्रतीतिमात्रात्कः सम्प्रत्ययः ।

तस्माद्वस्तुस्वरूपेण ग्रृह्यते सा न सम्भवा । नीलादिना न कार्यादित्वस्य तत्र ग्रहोऽपरः ।। ११८ ।।

न खलु नीलादिना कार्यत्वेन च वस्तु ग्रृह्यते केनचित् । नीलादिव्यतिरेकिणः
कार्यत्वस्याप्रतिपत्तेः । पूर्वापरभावे च प्रत्यक्षस्याप्रवृत्तेः कुतः प्रागभावादिग्रहणं ।

अथापि स्यात् । सत एव कार्यत्वं कारणानां हि सति कार्ये व्यापारस्य सम्भवात् । असति
तु निर्विषयः कथम्व्यापारः । अत्रोच्यते ।।

दृष्ट्वा श्रुत्वाऽथ विज्ञाय हेतुः कार्यङ्करोति किं ।

जडत्वात् कारणाधीनः स्वभावः652 स तथा मतः ।। ११९ ।।

ईश्वरस्य च हेतुत्वे स हेतूनान्नियोजकः653 । न चासतो न विज्ञानं स ह्यध्यक्षधियो654 यतः ।। १२० ।।

तत्र सत्कार्यवादः किङ्िक/?/म्वा कारणमीश्वरः ।

किं सांख्यमतमवलम्व्य सर्वं सर्वत्र विद्यते ।। १२१ ।। इति

सदेव दृश्यते न कार्यकारणभावो नाम । किम्वाऽसदेवोपलभ्य कारणेन जगतामी
श्वरेण कारणानाम्प्रतिनियमेन नियोगः । सत्सकलञ्चेत् सर्वदोपलभ्यत इत्याकुला जगतः
स्थितिः स्यात् उपलम्भकानाम्प्रतिनियमान्नैवमित्यपि यत्किञ्चित् । उपलम्भकानामपि सर्वत्र
सर्वदा भाव इति कः प्रतिनियमो नाम । किञ्च ।

कारणादसतः कार्यं कार्यंकिम्वासतो भवेत् ।
असतः कारणात्कार्यमिति साध्वी व्यवस्थितिः ।। १२२ ।।

कोहि प्रध्वंसाभावात्यन्ताभावयोर्विशेषः । आसीत्तेन655 हेतुरिति चेत् । यदासीत्तदा
न हेतुरन्यदा हेतुरिति सुभाषितं । यत एवमपि स्यात् ।

असतो हेतुतां प्राप्तौ ये सन्तस्तेन हेतवः । नहि व्यापारसद्भावस्तेषामेषाञ्च दृश्यते ।। १२३ ।।

व्यापारेण च हेतुत्वे स व्यापारः कुतो भवेत् ।

व्यापारवत्पदार्थाच्चेत् व्यापारस्तत्र किम्परः ।। १२४ ।।

181

व्यापारो यदि तत्रापि सोऽर्थो व्यवहितो भवेत् ।

व्यापारादेव कार्यञ्चेन्मृते कार्योदयो भवेत् ।। १२५ ।।

तथा च चिरनष्टेपि तस्मिङ्कार्योदयो न किम् ।

दीर्घा व्यापारमालेयमेतावत्कस्य जीवितम् ।। १२६ ।।
अथ स्वरूपव्यापारस्तदा कार्यम्भविष्यति । व्यापारकाले कार्यञ्चेत समकालम्प्रसज्यते ।। १२७ ।।
भावकाले न कार्यस्य कारणस्यास्तिता यदि । चिरानन्तरनष्टस्य को विशेषस्तथा सति ।। १२८ ।।
उपत्तिकाले सत्ता चेत्तदनन्तरभाविनः । उत्पत्तिः कार्यतो नान्या ततोऽस्य समकालता ।। १२९ ।।
स्याद्वाददूषणात्पश्चाद् द्वयपक्षनिराक्रिया । इदानीम्बहुवक्तव्यमिति तस्माद्विरम्यते ।। १३० ।।

अथापि स्यात् । ज्ञानस्यार्थः कारणमिति प्रागनुमानेन प्रतीयते । तदप्यसत् ।

अनुमानात्प्रतीतस्य प्रागध्यक्षावभासिनः । कथन्तत्कार्यतावित्तिरपरस्परमिश्रणे ।। १३१ ।।

यद्यपि नामानुमानेन प्रतीतस्य प्रागभाविता गतिः । प्रत्यक्षस्य सम्वेदनस्य तत्कारण
मिति केन प्रतीयते । नह्यनुमानमिदन्तत्प्रत्यक्षदृष्टं वस्तु प्रत्यक्षस्य कारणमिति प्रतीतिमत् ।
न खलु सम्वेद्यमाने एवानुमानम्प्रवर्तते । परोक्षविषयत्वादस्य । नापि प्रत्यक्षमनुमेये प्रवर्ततेऽ
परोक्षविषयत्वात् । न च प्रतीयमानमेव परोक्षं । प्रतीयमानमेव परोक्षतया परोक्षमिति चेत् ।
नैतदस्ति । यतः ।

स्वरूपेण प्रतीतिश्चेदन्या का सौ परोक्षता । अस्पष्टाकारभासश्चेत्प्रत्यक्षः स न किम्मतः ।। १३२ ।।
द्वयरूपस्य वित्तौ हि द्वयम्प्रत्यक्षमिष्यते ।
यथाऽर्वाक् पररूपेणस्तम्भादेर्वेदनङ्क्रमात् ।। १३३ ।।

यदि656 स पदार्थः स्पष्टास्पष्टद्वयरूपः । तदा तस्य प्रत्यक्षानुमानाभ्याम्वेदनेपि प्रत्यक्ष
रूपतैव भवेत्स्तम्भादेरर्वाक्‌परभागग्रहणवत् । अथ स्पष्टास्पष्टते उपाधिवशान्नीलतैव
पदार्थस्वरूपं ।

उपाधिभेदादन्येन रूपेण यदि वेदनं । सर्वदाऽध्यक्षता न स्यात्स्वरूपस्याप्रवेदनात् ।। १३४ ।।

अथ नीलादिसम्वित्तिरिति प्रत्यक्षतोच्यते ।

प्रत्यक्षमनुमापि स्यात्स्वस्य रूपस्य वित्तितः ।। १३५ ।।
इन्द्रियेण वियोगाच्चेदध्यक्षन्नानुमा मता । इन्द्रियेणापि संयोगोऽनुमया किन्न मीयते ।। १३६ ।।

इन्द्रियवियोग एव हि न सिध्यति । तस्यानुमानेन स्वरूपस्य वेदनात् । अर्थाभावा
न्नेन्द्रियसंयोगः । कथम्प्रतीयमानमप्यस्तु स्वरूपग्राहिणानुमानेनासत् । असच्चेत्कथम्वस्तु
स्वरूपग्रहणमनुमानात् । अथ नानुमीयत एवेन्द्रियसम्बन्धः ।

व्यर्थतैवानुमानस्य न चानेन प्रवर्तनं । न द्रष्टव्यं न च स्पृश्यम्वृथा तत्र प्रवर्तनं ।। १३७ ।।

उपयोगार्थी हि पदार्थेंऽनुमिते प्रवर्तते । प्रवर्तकञ्च प्रमाणमतोऽप्रवर्तकतायामप्रमाण
मेव स्यात् । अथ पश्चाद्‌भाविनोऽनुमानमिन्द्रियसम्बन्धस्य तेन तदानीमिन्द्रियसम्बन्धाभावाद
प्रत्यक्षता । तदसत् ।

भाविसम्बन्धमाने हि पूर्वं रूपाप्रतीतितः । कारणत्वन्न गम्येतानुमानम्व्यर्थकम्भवेत् ।। १३८ ।।
तदैव मीयमानस्य स्वरूपेण न भाविता । तदैव मीयमानत्वम्वर्तमानत्वमुच्यते ।। १३९ ।।
182

न खलु वर्तमानत्वमन्यदेव तदा स्वरूपेण प्रतिभासात् । स्वरूपप्रतिभासमानतैव वर्त
मानता । अतीतादिरूपतया657 प्रतिभासमानत्वादवर्त्तमानतेति चेत् । नन्वतीतरूपताऽनुमानेन
कथम्प्रतीयते प्रत्यक्षप्रतिपन्नेऽनुमानप्रवत्तेः । प्रत्यक्षञ्च नातीतरूपतायाम्प्रवृत्तं । न यदासौ
प्रत्यक्षेण दृश्यते तदाऽतीतरूपता प्रतीयते । इदानीमतीतरूपतेति चेत् । अन्यदेव तर्हि जातं । तत्र
च न प्रत्यक्षमिति कथमनुमानं । यदपि पश्चात्प्रत्यक्षम्भविष्यति तस्यापि न भाविरूपता प्रत्यक्षे
तेनानुमानावतारस्तत्रेति समानं ।

नन्वेतदुभयोरपि समानं । परस्यापि न प्रत्यक्षतस्तथा प्रतीतिरिति कथन्तदुल्लेखतः
प्रख्या । न, तस्य वासनाबलायातस्तथा प्रत्ययस्ततश्च ।

अर्थाश्रयेणोद्‌भवतस्तद्रूपमनुकुर्व्वतः । तस्य केनचिदंशेन परतोपि भिदाभवेद् ।। १४० ।।

इति वक्ष्यते । न पारम्पर्येण तत् ज्ञानमर्थादुत्पन्नं वासनासमागमतोऽन्यथा कारणमपि
यथा भवति द्विचन्द्रादिदशनं तिमिरादेः । तेनातीतकालरूपादागतं ज्ञानमतीताध्यवसायन्ततोऽ
तीतकालतया ग्रहणादतीतमेव (?) तन्नत्वस्ति । नहि तस्येदानीन्तनत्वे प्रमाणं ।

कथन्तर्हि तस्य प्राप्तिः । अस्तित्वादेव । कथमस्तित्वं(।) तेन दृश्यमानेन लिङ्गेन
व्यवस्थापनात् । तद्‌द्वारेण ज्ञानमपि तत्र प्रवर्तकमिति समाप्तो व्यवहारः ।

ननु ज्ञानमर्थमप्रतियत्कथम्प्रवर्तकं । अव्यभिचारादेव । ननु केवलोपि धमो व्यवस्था
पकः स्यात् यथा व्यवस्थापको दृष्टस्तथा व्यवस्थापयति नान्यथेति कस्योपालम्भः । किञ्च ।

ज्ञानन्तद्रूपतासङ्गात्प्रवर्तयति नापरं । तत्रार्थाध्यवसायञ्च नियतो वासनाबलात् ।। १४१ ।।

तस्मात्पूर्वरूपतया प्रतीयमानमिदानीमस्ति तदिति न ज्ञानेन प्रतीयते । इदानीन्तद्रु
पमस्ति तन्न दृश्यत एवातोऽदृश्यमानमेव परोक्षं । अप्रतीतिरेव परोक्षताप्रतीतिः परोक्षमे
तदिति ।

परोक्षता चेदर्थस्य स्वभावोऽध्यक्ष एव सः । नानुमावम्भवेदत्र न च सन्देहसङ्गतिः ।। १४२ ।।
विनष्टे न भवेदेव तस्माज्ज्ञानन्तथाविधं । ज्ञानार्थयोर्न चैकत्वं तस्मात्सोऽर्थो न वेद्यते ।। १४३ ।।

तस्माद्यनुमानमर्थग्रहणरूपरूपञ्चक्षुरादिसम्बन्धोप्यनुमीयमानोस्त्येवेत्यध्यक्षतैवार्थस्यानु
मेयस्येति प्राप्तं ।

  1. १ T. ते-वेष्ठने ११५ क. पृष्ठत आरभ्यते ।

  2. The heading ``संख्याविप्रतिपत्तिः" is only in the table of contents, not in the text.
  3. २ T. मानं द्विविधं विषयद्वैविध्यात् शक्त्यशक्तितः ।

  4. ३ T. प्रकारात्

  5. ४ T. न हीष्टास्ति

  6. ५ T. रूपभिन्नता

  7. ६ T. ज्ञायते

  8. १ T. अन्यथा प्रतीतौ स्वलक्षणम्

  9. २ T. प्रमेयान्तरसाधने

  10. १ T. अक्षेण दर्शनं

  11. २ T. प्रमेयद्वैविध्य॰

  12. ३ T. एवं

  13. ४ T. प्रमाणसामान्य॰

  14. ५ T. तत्तु प्रतीत्यन्तरम्भवदपि

  15. ६ T. ग्लेन्-पऽि-ग्‌तम्

  16. १ T. प्रत्यक्षेतराऽपि

  17. २ T. अनुमानं

  18. ३ T. साधनं

  19. ४ T. न प्रामाण्य॰

  20. ५ T.

  21. ६ T. संवृतिरेव सव्यापारतेत्य स्यार्थः

  22. १ T. न खलु सम्बन्धात्

  23. २ T. उपलक्ष्यते

  24. ३ T. बुद्धौ

  25. ४ T. द-नि-ग्‌शन्-ल-म-शुग्‌स्-सो शेस्

  26. ५ T. अहंप्रत्ययः तत्रैव

  27. ६ T. ग्‌शन्-प-क्लोग्-ग्युर्-र्तोगि्स्-प-यिन्=अन्यस्य परोक्षतागतिः ।

  28. १ T. न दृश्यते अहंप्रत्यक्षः—बहिः

  29. २ T. का तद्वस्तु सम्बद्धधर्मस्य तर्हि

  30. ३ T. धर्मिवस्तु

  31. ४ T. अग्न्यादिलक्षणमेव

  32. ५ T. प्रमाणप्रवृ॰

  33. ६ T. वस्तूनामेव संबंद्धे

  34. १ T. विशेषाभावात् (?)

  35. २ T. ज्ञानस्य ज्ञायस्य

  36. ३ T. ज्ञेयस्य युक्तः । अर्थक्रियाकारित्वं अर्थकारित्वं वा न प्रतीयते

  37. ४ T. सामर्थ्य प्रतीयते ।

  38. ५ T. कार्यं

  39. १ T. स कार्यंकारणभाव—इति पाठो नेह

  40. २ . तस्य च ॰प्रागुक्तो दोषः

  41. ३ T. तत्सम्बन्धेन

  42. ५ T. न तेन ज्ञातेन अर्थस्य कारणप्रतीतिः समकालत्वाभावात् । प्रवृत्तः । अभूता प्राग
    प्रवृत्तितः । ततोपि प्रागभूता भवतीति चेत् । ../?/तेन निरर्थः

  43. ६ T. स्तम्भकुम्भयोरतिप्रसङ्गंनिराकुर्व्वता । अन्यथाभावे एक भावेंऽपरस्य न कार्यत्वं
    सिद्धान्तः । एवंतर्हि ज्ञानज्ञेययोरपि समानं । अमुमेवार्थं स्फुटयति केवलेत्यादि ।

  44. ७ T. तत्रोत्पन्नस्तथा न चेत् तन्तुतैव न सिध्यति—इत्यधिकः

  45. ८ . नान्यदेव

  46. ४ T. ज्ञानकार्यवता

  47. १ T. न नित्येन॰

  48. २ T. वस्तुन्यवृत्ति॰

  49. ३ T. प्रतिभासमात्रेण

  50. ४ T. दानशीलस्य—इति पुस्तकस्वामिनोत्र हस्तलेखः ।

  51. ६ T. कार्याभावस्य सामर्थ्यमेव

  52. ५ T. तदेतत्—इत्यधिकः पाठः

  53. १ T. मीमांसा—तत्रैव

  54. १ T. घटादौ विज्ञानवादे कस्माच्चित् नीलादिज्ञानात् रक्तज्ञानादि न भवत्यपि कस्मात् ततो .....एवं तत्र साधारणमनुष्मानात्—बहिः

  55. २ T. उपहतेन्द्रियत्वात् संवेदनेऽपि

  56. ३ T. तदविषयत्वात्तस्य

  57. ४ T. योगाचारः—तत्रैव

  58. ५ T. प्रत्यक्षेऽपरोक्षज्ञानं भवति न यतोऽनुमा—अधिकः

  59. ६ T. शशश्रृंगस्य

  60. १ T. सिद्धान्तो नातिप्रसंगः नियतत्वात्—बहिः

  61. २ T. हेतूनां नियोजकः

  62. ३ T. स ह्यत्यक्ष॰

  63. ४ T. प्रागासीत् तेन

  64. १ T. यदा

  65. १ T. रूपप्रतिभासतया