परस्य प्रतिपाद्यत्वादित्या ४।१ दि । परो हि किलावबोधयितुमिष्टो
वादिना । स यदि स्वसिद्धेनोभयसिद्धेन वा वाद्यसिद्धेनापि स्वयमागमनसिद्धेनैव
साध्यमवबोध्यते लिङ्गेन तदा वादिनः का क्षतिः । न हियं राजाज्ञा उभयसिद्धे
नैव साध्यं साधनीयमिति । पञ्चविंशतितत्त्वसंख्यानकुशलाः सां ख्या ऊचुः
बौ द्धा न् प्रति । अचेतनाः सुखादयो बुद्धिर्वा उत्पत्तेर्नित्यत्वाद्वा रूपादिवदिति ।
बौद्धेन ह्यान्तराश्चिद्रूपाश्च सुखादयो बुद्धिश्चेष्टाः । असद्वादी च बौद्धोऽसदेवोत्प
द्यते कारणवशेन कार्योत्पत्तेः । न हि कार्यं स्वतन्त्रमुत्पद्यते निरन्वयञ्च नाशमि
च्छति । सांख्यस्तु सद्वादी तस्य सदेव कार्यमुत्पद्यते बीजभावेन प्रागवस्थायामपि
विद्यते । कार्यमाविर्भावस्तूत्पत्तिव्यक्तिरूप (ः) तिरोभावस्तु विनाशः । स च
सान्वयोऽन्वयिद्रव्यस्य विद्यमानत्वादिति पराभ्युपगतसाधनेनैव स्वभिमतमचेतन
त्वादिकं साधयतीति तदपनयार्थं स्वदृष्टग्रहणं । स्वयमिति वादिना । अदृष्टेपि न
निश्चितः प्रमाणेनार्थ इति त्रिरूपं लिंङ्गं परैरिति प्रतिपाद्यतेऽनेन । आगमादिति
श्लोकेनुमातुमपि पर ।
७
अलमतिचपलत्वात्स्वप्नमायोपमत्वात्परिणतिरिव सत्वात्संगमेन
प्रियायाः ।
इति यदि शतकृत्वस्तत्त्वमालोचयामस्तदपि न हरिणाक्षीं विस्मरत्यन्तरात्मा ॥
८
अभावः
१।८५ अभावः । नैवाभावः कश्चित्सर्वेषां कथञ्चिद् भावादिति चेत् । a
यथा तेन सन्तं सप्रकारोऽभावः । शशविषाणयोश्चायं भावात् शशविषाणाभाव
वादिनमुपहसन्नात्मानमेवोपहसति । शशावयवभूतं विषाणन्नास्तीत्यभिघातनिकः
प्रस्तावः । शशोप्यस्ति विषाणञ्चेत्युत्तरस्य । न ह्ययं विषाणमात्रमपह्नुते ।
यतस्तेन प्रतिरुद्ध्येत किन्तु शशसम्बन्धि । यद्येवं सम्बन्धो नास्तीति वक्तव्यं न
विषाणम् । किम्वै सम्बन्धमात्रं विशिष्यते । विषाणिनामपि विषाणेषु द्रव्यस्वभावः ।
स्वभावोपि प्रतिकार्यं कारणभेदात् । तत्कोयं सम्बन्धाभावो वाच्य इत्युपालम्भः ।
अस्ति विषाणिनां विषाणस्वभावभेदो न तद्वत् किञ्चित् शशस्य भिन्न
स्वभावं विषाणमिति चेत् । वयमप्येतदेव ब्रूमः । यो वा सम्बन्धो नास्तीती
ष्यते स एवाभावः । सम्बन्धी विद्यते न सम्बन्ध इति चेत् निपुणा वाचो युक्तिः ।
अङ्गीकृतसम्बन्धं द्रव्यमपि नेति चेत् । प्रियमनुष्ठितं यदीदमेव प्रथममभिधीयते