528 पर्युदास एवैको नञो विषयः । किन्तर्हि प्रत्यक्षप्रतिषेधोपि । न हि तस्यासति
विरोधः । सो पि न सम्भवति । अधिकरणाद्यर्थानां प्रतिषेधविषयोपदर्शिनीनां
विभक्‍तीनामयोगादिति चेत् । उक्‍तोत्तरमेतत् । तस्मान्‍न हेतुः कश्‍चिदन्वयी
नाम । न च प्रमेयत्वस्य विपक्षेऽन्वयात्मा सः । त्रिविधो हि धर्मो भावाभावोभयाश्रय
इत्युक्‍तः । नाभावस्य कश्‍चिद्धर्म इति चेत् । नन्वयमेवास्य धर्मविरहो धर्मः ।
न हि वस्तुरूपमेव धर्मा असन्तोपि हि केनचित्प्रकरणेन इमं व्यवहारमुपनीयन्ते ।
अन्यथा हि तत्राव्यवहार एव स्यात् । न च सतामपि परमार्थतः कश्‍चिद्धर्मधर्मिभावः ।
केवलं बुद्धिरेव सम्बन्धमुपरचयतीत्युक्‍तं वा र्ति के । बुद्धिकृता च घटनाऽसत्सु केन
वार्यते । सदसदुभयानुभयव्यवस्थाश्‍च तदतत्समयवतामनिश्‍चितसाधना नैकान्त
ग्राहिण्यः स्युस्तस्माद्यथा कथञ्‍चिदप्यनेना (सत्ता) निश्‍चिताः । प्रमेयास्ते
वक्‍तव्याः । न हि भावविषयमेव प्रमाणं । अविसंवादलक्षणत्वात्‍प्रमाणस्य । उल्लसती
तद्वारे न व्यवस्थापयेत् । न चेत्स्वविषये परेण वाध्येत । तदन्यप्रमाणलक्षणम
स्तीति प्रमेयो..........।


११

a अभिप्रायाविसंवादा २।५६दि । मणिप्रदीपप्रभयोरि २।५७
त्यादि वा र्ति क श्‍लो क द्वयवृत्तौ वक्ष्यते ।


केचिदाहुः यदि मणिप्रभायां मणिज्ञानं भ्रान्तमपि सम्वादादनुमानमिष्‍यते
प्रमाणमविसम्वादिवचनात् तदा प्रत्यक्षानुमानव्यतिरिक्‍तं तृतीयमिदं प्रमाण
मापतितं तथा हि मणिप्रभायां मणिबुद्धेर्न प्रत्यक्षं भ्रान्तत्वात्सविकल्पकत्वाच्‍च ।
प्रत्यक्षत्वं त्वेतद्विपरीतं । नाप्‍यनुमानमलिङ्गजत्वात् । न चाप्रमाणं वस्तुसम्वादात् ।


अत्रोच्यते । अनुमानमेवैतत् तथा हि सामान्यमनुमानस्य लक्षण
मनन्तरं स्थापयिष्यते परोक्षस्याप्‍यन्यतः सम्बन्धाप्रतिपत्तिरनुमानमिति ।
इह च मणौ मणिप्रभासम्बन्धात्तत्कार्यत्वात् तस्याश्‍च प्रभायं मणिभ्रान्तिरुत्पद्यते
ततः कार्यलिङ्गजत्वादनुमानमेव । तथाहि मणिप्रभायामादावभ्रान्त
मेव चक्षुर्विज्ञानमुपजायते । तेन च कार्यलिङ्गस्वरूपमधिगतं यतः स्वलक्षण
मेव लिङ्गं । तादात्म्यतदुत्पत्तिभ्यां च गमकत्वं स्थितं । न च कल्पितरूपस्या
न्यत्वं । तादात्म्यतदुत्पत्ती वा स्तः ।


कथं स्वलक्षणेनान्वय इति चेत् । न ब्रूमस्तेनैवेति किन्तु तज्‍जातीयेन स्वल
क्षणान्तरेण । तथा चोक्‍तं तज्‍जातीयोपि हि नामाभेदविवक्षायां स एवेति
तस्मात् समानजातीयस्वलक्षणान्येव विजातीयव्यावृत्युपाधिकानि साकल्येना
पेक्षितानि सामान्यमित्युच्यन्ते । यत्रापि कृतकत्वादयो व्यवस्थाप्‍यन्ते तत्रापि मूढ