कार्य स्वभावैर्यावद्भिर्व्विशिष्टैर्द्धूम1283वत्वादिभिरविनाभावि विना न भवतीति
कारणे कारणविषयेऽवधारितं तैरेव विशिष्टैः स्वभावैर्हेतुर्न साधारणैः पार्थिवत्वा
दिभिः । अग्निमन्तरेणापि तेषां भावात् । तथा कारणेऽधिकरणे याव1284द्भिः
स्वभावैरग्नित्वादिभिः सामान्यधर्मैरविनाभावि कार्य
धूमादिनिश्चितं तेषां
सामन्यधर्माणां हेतुर्न विशेषधर्माणां चान्दनत्वादीनां । तान्यन्तरेणापि धूमा
देर्दर्शनात् । यदि धूमत्वविशेषितं पार्थिवत्वं हेतुः क्रियते तदेष्टमेव व्यभिचारा
भावात् (।) यदि च कारण1285गतचान्दनत्वादिविशेषजनितो धूमस्य विशेषः शक्यो
निश्चेतुं तदा चान्दनत्वादयो गम्या इष्यन्ते । न हि कार्यकारणभावः सत्तामात्रेण
गभ्यगमकभावनिमित्तं किन्तु निश्चयापेक्षः । स च यावन्निश्चीयते तथा
गम्यगमकभावः ।
भावोपि स्वभावोपि हेतुः स्वभावे साध्ये कीदृशे हेतोर्भावः केवलो भावमात्रं
तदनुरोद्धुमनुवर्त्तितुं शीलमस्येति भावमात्रानुरोध तस्मिन् । यस्य सत्तामात्रेण
यो धर्मोऽवश्यं भवति न हेत्वन्तरमपेक्षते । तस्मिन् साध्ये स्वभावाख्यो
हेतुर्नान्यत्र
यथा वस्त्रत्वं रागे(।) एवञ्च विधिसाधनत्वं कार्यस्वभावयोर्दर्शितं ।
२ अनुपलब्धिचिन्ता
-
इत्थंभूतलक्षणा तृतीया । स्वगतैः सामान्यैः धर्मेः कार्य्यस्यास्तु विशेषधर्मा गमकाः स्वभावे कृतकत्वेन प्रमेयत्वं गमकं ।
↩ -
कारणस्थैः ।
↩ -
एवमङ्गेन जन्यजन(क)त्वं स्यादिष्यते च सर्व्वथा । आह ज्ञापकहेतुरयं ।
↩ -
प्रत्यक्षपृष्ठभाविना निश्चयेनाधूमव्यावृत्तिरूपावधारणेन धूमादिस्वलक्षणं भासमानं तार्ण्णादिविशेषानवधारणेन चानेकस्वलक्षणरूपं सामान्यलक्षणं लिङ्गं प्रत्यक्षविषयो व्यवस्थाप्येत लिङ्गि च ।
व्यक्तिभेदेन मानबहुत्वात् आगमापेक्षया वा आगमस्यापि निवृत्तिर्नाभावं साधयतीति वक्ष्यते ।
↩