यदि विरुद्धकार्योपलब्ध्याऽभावसिद्धिस्तदा विरुद्धकारणोपल
ब्ध्यापि किं न
साध्यत इत्याह ।

तद्विरुद्धनिमित्तस्य योपलब्धिः प्रयुज्यते ।
निमित्तयोर्विरुद्धत्वाभावो हि व्यभिचारवान् ॥ ४ ॥
287

तद्विरुद्धनिमित्तस्य निषेध्य(=शीतस्पर्शवह्नि)विरुद्धकारण(=काष्ठ)स्य
योपलब्धिः प्रयुज्यते (।) यथा न शीतस्पर्शोत्र काष्ठादिति सा निषेध्यस्य विरुद्धस्य
च ये निमित्ते तयो1298र्व्विरुद्धत्वाभावे व्यभिचारिणी अनै1299कान्तिकी । विरोधे तु
निमित्तयोरिष्यत एव1300 (।) यथा नास्य1301 रोमहर्षादि1302विशेषाः1303 सन्ति सन्नि
हितदहनविशेष1304त्वात् (।) रोमहर्षतदभावयोर्व्विरो
धः । तत्कारणयोश्च शीत1305-57a
दहनयोरिति युक्तेयमनुपलब्धिः । तथा निषेध्य(=रोमहर्ष)विरुद्ध(=ताप)
कारण(=दहन)काय(=धूर्मो/?/)पलब्धिर्यथा । न रोम1306हर्षयुक्तपुरुषवानयं प्रदेशो1307धूमादित्युक्ताष्टविधानुपलब्धिः । (४)

  1. काष्ठतुषारयोः

  2. यद्यप्यग्निजनकान्त्यकाष्ठेन शीतनिमित्तस्य विरोधस्तथापि तस्य कार्यदर्शनादेव निश्चय इति कार्यविरोध एव ।

  3. कारणविरुद्धोपलब्धिः ।

  4. दन्तवीणादि ।

  5. शीतकार्या न पिशाचादिकृताः ।

  6. रोमहर्षापनयक्षम ।

  7. संताप ।

  8. रोमाञ्चतापनिमित्तयोः

  9. कारणविरुद्धकार्योपलब्धिरियं ।

  10. धूमादित्यस्य पक्षधर्मत्वदर्शनाय पुरुषे धर्मिणि न स्यात् । धूमस्य प्रदेशधर्मत्वात् । अत्र धूमोपलब्ध्याऽग्निविरुद्धशीतकार्यरोमहर्षाद्यभावः ।