349

अथ1709 कारकैकस्वभावानुगमात् सहकारिणां पर्यायेण कर्त्तृत्वं । स पर्याय
स्तस्यान्वयिन एकस्य 1710 वस्तुनः किं (कस्मात्) युक्तः । न ह्येकं वस्तु कार्य कुर्व्वत
पर्यायेण न करोतीति युक्तं व्यपदेष्टुं तेनै
व क्रियमाणत्वात् । सहकारिणां बहूनां
पर्यायेण क्रिया सम्भाव्यते । तेषु चैकस्य कारकं रूपमन्यत्र नास्तीति न ते कुर्युः ।
सर्व्वेषाञ्च स्वहेतुवलायात एककार्यकारकः स्वभावोऽस्माभिरिव सां ख्यै र्नेष्यते॥

किञ्च1711 ।

अत्यन्तभेदाभेदौ तु स्यातां तद्वति वस्तुनि ॥ १७५ ॥

तद्वति सामान्यविशेषवति वस्तुनि स्वीक्रियमाणेऽत्यन्तमेकान्तेन सामान्य
विशेषयोर्भेदाभेदो स्यातां । सामान्यस्वरूपत्वाद् भेदस्य सामान्यमेव
भवेन्न
भेदो भेदात्मत्वात् सामान्यस्य भेद एव भवेत् सामान्यं ।1712(१७५)

अथ तयोः कथञ्चन1713 भेदोप्यस्तीति चेदाह (।)

अन्योन्यं वा तयोर्भेदः सदृशासदृशात्मनोः ।

तयोः सामान्यविशेषयोः सदृशासदृशात्मनोः 1714 साधारणासाधारणस्वरूपयो
रन्योन्यं भेद एव वा भवेत् । न कथञ्चिदेकत्वं ।

एतदेव स्फुटयितुं पूर्व्वपक्षयति (।)

तयोरपि भवेद् भेदो यदि येनात्मना तयोः ॥ १७६ ॥
भेदः सामान्यमित्येतद् यदि भेदस्तदात्मना ।
भेद एव;
  1. यवबीजञ्चे (त्) शाल्यङ्कुरकारणं पर्यायेण यदा तच्छालिबीजत्वेन परिणमेत् । प्रधानशक्त्यधिष्ठितभेदपरिणामे प्रधानशक्तेर्भेदत्वेन परिणामे वा सर्व्वत्र सर्व्वोपयोगात् ।

  2. शालिबीजस्य यवबीजत्वेन परिणामो न युक्त इत्यर्थः भेदाधिष्ठानत्वात् पर्यायस्य ।

  3. परिणामं निरस्याभिन्नं भिन्नं भिन्नाभिन्नं सर्व्वसु चोत्तरोत्तरावस्यास्वनुयायित्वादूर्ध्ववृत्तिर्वा समं सर्व्वासु व्यक्तिष्वनुयायित्वात् तिर्यग्वृत्ति वा सामान्यं सांख्यमीमांसकनैयायिकादेर्दू षयितुमाह किञ्चेति ।

  4. निरस्तमभिन्नं ।

  5. स्वभावाभेदेपि लक्षणभेदात् अवस्थायाः ।

  6. अनुगतव्यावृत्तयोरश्लेषात् ।